Svi-ksri-chennai

Prashnotaramaalaa

Krishnamachari

PDF Proofread

Front matter

No text on this page.

प्रश्नोतरमाला
2059
THE KUPPUSWAMI SASTRI
RESEARCH INSTITUTE,
MADRAS.
मद्रमण्डल दक्षिणपश्चिमविभागस्थ संस्कृतकलाशालाप्रत्यवेक्षकेण
अभिनवभट्टबाणेन
रायपेट्टै - चक्रवर्ति - कृष्णमाचार्येण
विद्याशाखाध्यक्षादेशेन संग्रथिता
मद्रमण्डलराजकीयमुद्रालयप्रत्यवेक्षण मुद्रापिता.
१९१६.

No text on this page.

THE KUPPUSWAMI SASTR RESEARCH INSTITUTE, MADRAS. ॥ भूमिका ॥ अरिवलविद्याविलाससदनेऽस्मिन्भारते चिराय स्खलु समुत्कर्षः समुपलक्ष्यते भगवत्या गैर्वाण्या वाण्याः । शास्त्रात्मकं काव्यरूपमितरद्वापि सर्वमपि वाङ्मयमासेतुशीताचलमरवण्डेऽपि .भारतखण्डे पठनपाठनादिषु प्रायेण समानरीति मेव संवर्धितमवलोकयामः ॥ प्राचीनमहत्तरैश्च भारतीयैः पण्डितमणिभिर्न रवलु नाम विमर्शसरणिर्ना- हता, न वा न प्रदर्शिता । अथापि भूयसा तावदध्ययनाध्यापनसंप्रदायः संकु- चितेनैव पथा संचरमाणो नातीव विमर्शवैभवफलमनुभवतीति नन्वस्माकमनु- दिनमिदमनुभवपुनरुक्तमरिखलानाम् । अतश्च प्राची पद्धतिमपरिहाय, पाश्चाच्यां सरणिमप्यवलम्ब्य, आत्मनैवालोचनापथगामी सहृदयहृदयरञ्जनः कश्चन विषयविमर्शसंप्रदायः संप्रति दिशा संदर्शनीयः समापतितः ॥ तदिदमालोच्य मद्रमण्डलसंस्कृतकलाशालापरिशोधकमहाशयेन ताह- शस्य नूतनस्य कस्यापि संप्रति परिमितपरिणाहस्य प्रबन्धस्य संग्रथनाय समादिष्टोऽस्मि ; येन संस्कृतविद्यापक्षपातिनां हृदयमवरतोऽप्याराधितं भवि- ष्यति । तमादेशं शिरसा प्रतिगृह्य, यावन्मतिबलं यावद्विमर्शकलमात्मनाहमेनं प्रश्नोत्तरमालाभिधानं नवीनं प्राबध्नां प्रबन्धम् ।। अत्र च बहवः प्रमादा आपतेयुरित्यहमेव जानामि । संस्कृतसाहित्य- कलायां च नूतना विमर्शसरणिर्न परिपोषमात्यन्तिकमधिगतेति सहृदया जानन्ति । आतश्च कियान्वापि यदि गैर्वाणीप्रणयिनामेनेन ग्रन्थेन प्रयोज- नानुभवो भविष्यति, नूनं मे फलितं परिश्रमेणेति दृढं मन्यमानः प्रतीक्षे भावुकानामत्र पक्षपातमक्षीणम् ॥ मद्रनगरम्, 4-4-16. } रायंपे? - चक्रवर्ति - कृष्णमाचार्यः, संस्कृतकलाशालोपपरिशोधका.

No text on this page.

॥ विषयसूचिका ॥ भागः 1 1. नागरलिपिः प्रथमशारवायां प्रथमकक्ष्यायाम्- 2. अमरः, शब्दमञ्जरी च... 10 ... द्वितीयकक्ष्यायाम- - 11 12 ... 3. कथाकुसुममञ्जरी 4. रामायणम् तृतीयकक्ष्याचतुर्थकक्ष्ययोः 5. हितोपदेश विक्रमार्कचरित भर्तृहरिनुभाषितानि 6. रघुवंशः 7. कुमारसंभवः मध्यमशारवायां प्रथमकक्ष्यायाम ... :: 14 16 21 ... 30 35 ... 8. शिशुपालवधः 9. भोजचम्पू: द्वितीयकक्ष्यायाम्-- 10. किरातार्जुनीयम् 11. भारतचम्पू: 12. मेघसंदेश: तृतीयकक्ष्यायाम- 13. दशकुमारचरितम् 14. नैषधीयचरितम् 15. विश्वगुणादर्शः 36 41 44 .. ... 49 59 64 ... ...

No text on this page.

नागरलिपिः. , लिपि म तत्तद्वर्णप्रतिपत्तिहेतश्चित्रसिंहादिस्थानीयः कथान रेवावि- न्यासविशेषः । आः, सा चेयं रेवारू पा लिपिः किगदपकरोनि लोकस्य ? अहो अतिमहत्खल्वस्या विश्वविख्यातं वैभवः । नियतमेन विना परि- कृतलोकस्य व्यवहारकथैवोच्छिद्यतेल्यक्तिर्न बल स यवाद मरणिमनिवर्तते । कलाशालां प्रविशन वालोऽपि किल प्रतिपद्यो न वल वागणवस्य वैदेशिकेन सह व्यवहारव्यतिकरा विहाथै सामन्येन कंगचिलघुना गरुणा- चुपायेन शक्यसंपादनों भवतीति । सा वा बहुरूपा भवति । यतो देशा अनेके, भाषाश्च भूयस्यः । अतस्तत्तदनुगणान भूमिकाभेदान्परिगृह्णाना नियमेने यमप्यात्मना भिद्यते । यथा आन्ध्रदेशः, द्रविडदेशः, कंग्लदेशः, कर्णाटकदेशः, इन्देशः, गुर्जर देश इति शान सुबहनुपलभामहे, तथा आन्ध्रलिपिः, द्रविडलिपिः, केरललिपिः, कर्णाटकलिपिः, वङ्गलिपिः, गुर्जर- लिपिरिति लिपीगपि नानारूपाः प्रतिपद्यामहे । भाषादिभेदेन बहुप्रकारा वेयं लिपिस्तत्तद्देशभाषापदस्वरूपागमाय गथा लत्तदेशे उपयुज्यते, तथैव संस्कृतपदस्वरूपज्ञानाचापि नामनां तत्र तत्र देशे उपयज्यमानां पश्यामः । दृश्यते हि आन्ध्रकर्णाटककेग्लेषु भापापदनिमित्तमित्र भगवती गर्वाणी- मृपासितुमप्यविशेषेण बनदेशालपीनां विनियोगः । द्रविडेषु त द्रविडलि- पेविभिन्नाम आकारादिभिभूयसा तत्सदृशीम ग्रन्थलिपिःइति व्यवाहिय- माणामन्यामेव कामपि लिपिम्पयञ्जते संस्कृतशब्दस्वरूपप्रतिपत्तये। आन्ध्र- कर्णाटक केरलभापास्तु वस्तुतो द्रविडजातीया अपि स्वसौभाग्याय भसा गीर्वाणवाणीप्रणयिन्यो भूचा तदीयामक्षरमातृकां स्वयमाप परिजगृहुः । अत एव विभिन्नाया लिपिपतेनासीदावश्यकता । द्राविडी तु भाषा सर्वतोमुखमात्मनो लक्षण मभि दर्शयन्ती, अनन्यभवनाभिमानमुद्रहन्ती, असंपूर्णावयवाप्यपरप्रणेयतामिव परिहर्तकामा वर्गषु प्रथमपञ्चमावेव परि- गृह्णती, ससंकोचममरभारतीमपास्य तत्प्रसादलब्धान्यपि पदान्यात्मानुगुणतया (वञ्जयन्ती, किंचिदिव स्वानन्धमभिरक्षितुमा मान। न गैर्वाक्षरमातका- मद्यापि स्पृशतीति तत एव द्रविडेषु गैर्वाणीलते ग्रन्थलिपेरवतारः स्या- देति संभावयामः । एवमालोच्यमाने दक्षिणे भारतस्य खण्डे गैर्वाणी- 2 , निमित्तमरिवलैरप्यैककण्ठ्येन स्वीक्रियमाणा लिपिर्न कापि भवतीति स्पष्ट मवगम्यते । उत्तरे तु भारतस्य भागे हिन्दुस्थानभाषावर्जमन्यत्र प्रायेग देशभाषाविषये गीर्वाणवाणीनिमित्ते च नागरलिपिः, तदीयं रूपान्तरं वा समुपयुज्यत इति शृणमः । हिन्दीमहाराष्ट्रभाषादिषु च नन्वि यमविकृतैव नागरलिपिरुपयुज्यते । गूर्जरास्तु शिरोरेवया नागरलिपिमभूषयन्तस्तामेना- मात्मीयामभिमन्वते । वङ्गलिपिरपि क्वचित्पष्टम, कवन क्षीणम , एकत्र वक्रम , अपरत्र ऋजु, अन्यत्र तिर्यक्च नागरलिपे रूपान्तरमिति तद्द- र्शनादेवाध्यवसातुं शक्यते । उत्कललिपिपि श्मश्रुलमस्थाः संकटं किमपि भूमिकान्तरमिति जानन्त्येव चक्षुष्मन्तः । इत्थमरित समपि भारतात्तररवण्ड- मभिव्याप्न वर्तमानाया नागरलिपेईक्षिणेऽपि भारतभागे न ग्वल नाम बिरलः प्रचारः । तथा किल दाक्षिणात्यानां दाक्षिण्यं नाम, यथैते स्वदेशलिपी- मनसाप्यचिन्तयत उत्तरभारतस्य प्रधानतमा नागरलिपिमतिथिपजं पूजयन्ति । उत्तरस्माद्गारताहक्षिणं खण्डमाकामद्भिरायः सहवासपरिचयवशाहिर: विनोद- चिह्नतया तामेनां नागरलिपिं गृहीत्वैवोद्गतमिति तु चरित्रविमर्शका विश्व- सन्ति । इयमेव नागलिपिः पूर्वं गीर्वाणभाषानिमित्तमुपयुज्यमाना बभूव । अत एव भाषाया देवभाषा पदेनेव, लिपरपि देवनागरलिपिशन प. देशः श्रूयते । भाषायाः संस्कार संस्कृतशब्दो यथा प्रकाश ; तथत्र लिपेरपि परिष्कार नागरपदमवबोधाति । किं बहुना -- राजकीयैः परि- गृहीतेयं लिपिः प्रतिदिनं प्ररोहन्ती यं नाम न स्पृशनि, दृढं वदामः, न खलु तादृशः कोणोपि सुलभो भू वण्डस्य । एतत्सर्वमालोच्यैव एकलिपिविस्तारपरिषदप्येनामेव लिपिमारवलभार लिपितया प्रचारयितुमति- तरां प्रयस्यति । तादृश्या अस्वा नागरलिपेः क्वचित्क्वचिदेशभंदेन परि- दृश्यमानमल्पाल्पं रूपभेदं प्रथमतः प्रदर्थ, परस्तात् तल्लवनशैलीमालो- B चयामः । उत्तरभारते च प्राधान्येन महाराष्ट्रादिषु वङ्गादिषु च मिथो भिन्न स्व- रूपाः कतिपयवर्णानां रेवाविन्यासाः संदृश्यन्ने । अयमेव विन्यासभेदो रुचिविशेषानुरोधेन सौकर्यानुसारेण च दक्षिणेऽपि भारते ले वनादिषु तैस्तैः परिगृह्यते । मोहमयी (Bombay) प्रभृतिषु हि स्थलेषु परिगृह्यमाणानाम् अ, आ, झ, ण, क्ष, इत्येतद्वर्णसूचकरेवाविन्यासानां स्थाने कालीघट्ट- - 3 (Calcutta) प्रमुखेषु प्रदेशेषु अ, आ, झ, ण, न, इत्येवंजातीयका रेखा विन्य- स्यन्ते । वाराणस्यादिषु च पूर्वं कालीघट्टरीतिसमाश्रयणं सुद्रणादिप्वासीत् । संप्रति तु मोहमयीरीतिं परिष्कृतां मन्यमाना इव समाश्रयन्ति वाराण- सेयाः । अत्र लेखनसौकये समालोच्यमाने मोहमयोगमनिकैव समीचीनति भाति । परं तु झनयोर्विषये कालीघट्टरीतिग्व लेखनशैभ्यूमापादविष्य- तीत्यपि समयेऽस्मिन्नभिदध्मः । नागराक्षरलिखिताचीनपुस्तकसमुदायः परि- शील्यमानश्चिरादेव उभयविधामपि गति देशभेदादिहेतु विनैव स्वीकृता- मावेदयति । संप्रति अक्षराणां लेखनशैलीमुपवर्ण्य, अनन्तरं पदवाक्यविलेवन सरणि प्रदर्शयामः । एकैकस्याप्यक्षरस्य स्वरूपलेरखने संप्रतिपन्नचिरानु- वृत्तः कोऽपि सांप्रदायिकः क्रमो वर्तते । यस्य परिग्रहण निर्मीयमाणा लिपि: कामपि सर्वावयवव्यापिनी सुषमा स्फुरत्तां च स्वयमङ्गीकरोति । चित्रले रखनेऽपि पश्यामः किल कमपि क्रमविशेषम् । यद्यपि निपुणेन चित्रकरण पादावारभ्य विप्रतीपं विलिरुवमानोऽपि न खलु नरो वानरां भवति, अथापि आ वदन दालिस्वित इब अतथाविध चित्रनरे न खल्वखिलाङ्ग- व्यापिनी विभक्तावयवव्यङ्गया सौन्दर्षभङ्गी सहृदयैरनुभूत इति नाय- मपल्पनीयः कश्चिदर्थवादः । अत्रापि, प्रथमं का नाम रेवा करथ वर्णस्य कथं विन्यप्तनीयेत्य मर्थः सांप्रदाधिक महत्तरलेखन शिक्षायामा यतते । तूलि- कायां द्वयोर्जियोः किंचिदिव तिर श्रीनेन पथा च्छेद', नाहशतूलिकाधारण- प्रकारश्च तेषामेव महत्तरागामुपदेशाधीनो भवति । तथा शिक्षणेन विलिख्यमानो हि रेवाविशेषः परस्परमसंकीर्णः किमप्यक्षरमभिव्यञ्जयन्ना- त्मनापि समुज्ज्वलो भवति । नागरलिपौ हि मध्यभागरेखा, शिरोरेवा, तदुपरिरेखा, अधोरेखा इति रेखावतुष्टयं तत्तद्वर्णानुरोधेन भवति । सर्वत्रापि प्रथमतो मध्यभागरेश्वैव विलेवनीया, ततः शिरोरेवा, तदुपरि- रेवा तु ततः पश्चात् । अधोरेखाया अप्यावश्कतायां तु, मध्यरेखा- नन्तरभधोरेरवा, ततः शिरोरेवेति संप्रदायविदः । मध्यभागरेम्वाणामने- कत्वे तु तत्रापि कथन क्रमो विद्यत इत्यनुभवेन जानीमः । वामभागरे- प्रथममारम्भः, पश्चाद्दक्षिणरेरवाया इति ह्यस्माकमनुभवः । दृश्यतामिदं सर्वमधो विलिरिवतेषु वर्णेषु-- । खायाः - 4 शुशं कर्तुं यतेत। शु क 2 - . ० - - - अत्र 'शु' इत्यत्र 'श्' इति 'उ' इति च द्वौ वर्णी संयुक्तौ । अत्र '' इति मध्यभागरेखा प्रथमतः, इति अधोरेग्वा पश्चात् , तद- नन्तरम् इति शिरोरेवा व संप्रदायासि द्वेन क्रमेण विन्यस्यते । 'तु' इत्यत्र च आदिनः 'त' इति, परस्तात् ' ' इति, पश्चात् इति, अनन्तरम् : ' इति च क्रमेण मध्यमभागरेखा, अधोरेवा, शिरोरेवा, तदुपरिरेवा च तत्तद्वर्णाभिव्यञ्जनाय योजनीया भवति । 'क' इत्यत्र व वामभागरेरवा 'व' इति, दक्षिणभागरेग्वा च ',' इति पूर्वोक्तरीत्या पूर्व पश्चाच्च विलिख्यते । एवं तत्तद्वणविषये रेवाविन्यासक्रमः संप्रदायानु- सारेण ज्ञातव्यः, येन निप्पद्यमाना लिपिर्नयनहारिणी सांप्रदायिकी च भवति । इदमप्यत्र लेखनरहस्यम--- यदुन नत्तद्वशिरोरेग्वाभिः परस्परम- संकीणाभिर्विश्लिष्टाभिश्च भाव्यामिति । बहवो हि संप्रत्येतत्तत्त्वमजानन्तः, प्रथमत एव कामपि दीर्चा शिरेखां विलिग्य, तदधम्तात् एकस्यां दीघरजौ अविच्छेदबहा इब गास्तत्तदक्षरगशिमायोज्य लेवनसंप्रदाय कलुषयन्तस्तानीमान्यक्षराण्यप्यचक्षुप्याणि कुर्वन्ति । प्रायेण चायं लेग्वन- शैल्याः कलुपीभाव आङ्गलकलाशालासु संस्कृतभापाविद्यार्थिनामाजानसिद्धः परिदृश्यते । वालकैश्च अन्यामभिदर्शितायां लेखनसरणौ नितरां जाग- रूकैर्भाव्यम् । अथेदानी वाक्यलेखनपद्दतिमधिकर्मः । पूर्व किल तालपत्र पुस्तके काकदमयपुस्तकं वा विलेखनरीतिरतीव शोचनीया बभूव । मङ्गलश्लोक- मारभ्य आप्रबन्धसमाप्ति एकमिव वाक्यमविच्छेदेन मिथः संश्लिष्टतमपाङ्ग- कमतिसूक्ष्मतमाभिलिपिभिरभिज्ञानामपि स्वयं दुरवगाहया कयाचन शैल्गा लिख्यत इति संप्रदाय आसीत् । तदानीं चाक्षरच्युतकमात्राच्युतकादीनां शास्त्र ग्रन्थेष्वपि भूयसा साम्राज्यमवर्तत । पाठान्तरादीनामपि इयमेव लेखनरीतिः सर्वात्मना समभून्माता। व्याख्याभेदकोलाहलस्यापीयमेव मुख्यतमं निदान- मासीदित्यपि संभाव्यते । एवमतिसंकट एव पुस्तकमध्ये विद्यार्थिनां गुरु- भिरुपदिश्यमानोऽर्थष्टिप्पणीरूपतया विनिवेशनीयतामधिगतः; यः किल . कालेन ग्रन्थान्तर्भाव प्रापितो महते वादकोलाहलाय कल्पते स्म । इयं च दुरवस्था सर्वेष्वपि देशेषु सर्वास्वपि भाषास्वेकरू पैव पूर्वमासीत् । तदानीं हि गुरुमुखाच्चिरादधीतविद्येनापि केनचन विना स्वकीयमन्यदीये पुस्तके तत्तत्प्रकरणोद्धरणं वा, निरर्गलमर्थापनं वा नातीव सुशकमभूत् । शिला- यन्त्रमुद्रणप्रकारोऽपि नैनां दुर्दशामतिकामति स्म । कालेन व गच्छता प्रतीच्यमुद्रणपरिष्कारानुरोधेनास्मदीयेषु मुद्रणप्रकारेषु परिष्क्रियमाणेषु, पदयोरन्नराले अवकाशदानेन उद्धरणविरामचिह्नादिविन्यापेन च क्लिष्टो- ऽपि ग्रन्थः सुखावसेयतामापादित इवावलोक्यते । इममेव मुद्रणसंस्कार- प्रकारमवलम्ब्य, नवनागरकाः परिप्कृतेन मार्गण लिखन्ति प्रबन्धान । तत्र मुद्रणावामांप बहवः प्रकारभदाः परिष्का स्य लक्ष्यन्ते। ते च प्रदर्शमाना लेखनतरणावप्यतिदिश्यमानाः काममनायासेनावसंवा भ- वन्ति । तत्र पदयोर्मध्ये कियानिवावकाशो देवः, यः 'स्पेस' (pace) इति शब्देन व्यवाहियते प्रतीच्यमुद्रणारीतौ। यथा- 'वारि वर्तते' इति । दृश्यतामत्र उभयारेपि पदयामध्ये कियानिव अवकाशः । 'वनेन इत्यत्र 'वनेन गतः इत्यर्थों वा, 'वने न गतः' इत्यर्थो वेति संशयस्थले पूर्वापरसंदर्भानालोचनायामपि अव्युत्पन्नानामपि वास्तवार्थनिर्णयः सुखेन भवत्येवं पदमध्ये अवकाशदानेन लेग्वन इत्यस्य सफलत्वमवगन्त- व्यम् । अयं चावकाशो विच्छेदचिह्नतया स्वीकर्तुं शक्यते । संधौ तु क्रिय- माणे नैनमवकाशमावश्यकं मन्यन्ते परिष्कारिणः कतिपये। यथा-- 'सरसिजमनुविद्धं शैवलेनापि रम्यम्' इति । अत्र सरसिजपदस्य अनुविद्धपदस्य, शैवलपदस्य अपिपदस्य च मध्ये न दीयते विच्छेदचिह्न- मवकाशः । उत्वसंधौ यवरलोपसंधौ जिह्वामूलीयोपध्मानीययोन्तत्र विसर्गे च विच्छेदमेत एव संस्कारो वाञ्छन्ति । यथा -... रामो जयति।' 'अस्या मुखेन्दुना' 'गुरा उत्कः' 'गतभी रणेषु' 'कोकिलः कुजति' 'वरः फलति' इति । वलोपस्य तु लोदाहरणं पद्येषु दृश्यते। तत्र ह्येते वैकल्पिक वलोपं नाभिनन्दन्ति । 'पुत्राविमौ पश्य' इत्येव ते पठन्ति, लिरवन्ति च । केचित्तुसंधावपि विच्छेदाचह्न पदयोरवकाशमभीप्सन्ति। भुद्रयन्ति चैवम् – ' य त त्पदम् अनुत्तमम्' इति । इयं च रीतिः पूर्व कैश्चिदा- श्रितापि संप्रति प्रायेण प्रक्षीणकल्पैव संपन्ना। जिह्वामूलीयोपध्मानीयाभ्यां गतः - ~ 5 - - . . सह विकल्पितं विसर्गमेव तादृशे स्थले नव्यनागरका लौकिकेषु प्रयोगेषु संघटयन्ति । यथा-उदाहतयोः स्थलयोः । एवं शकारषकारसकारेभ्यः पूर्वं विद्यमानस्य विसर्गस्य सत्वं कृत्वा तत्र श्रुत्वष्टत्वाभ्यां यथासंभवं शषयोहित्वं चापाद्य 'हरिश्शेते ' 'कविष्षष्ठः' 'मुनिस्सारः' इति केचिन्मुद्रापयन्ति, लिवन्ति च । इयं च रीतिर्बाहुल्येन दक्षिणभारतीयलिपिमुद्रितेषु पुस्तकेषु समुपलभ्यते । वाराणसीकालीघटादि. प्वपि पूर्वमियं गमनिका स्वीकता बभूव । सांप्रतं तु तत्राप्यस्या रीतेहासः संलक्ष्यते । यद्यपीयं रीतिर्न नाम न शास्त्रीया ; तथापि तादृशेषु स्थलेषु · वा शरि' इति सूत्रेण वैकल्पिक विसर्गमेव संपाद्य, विच्छेद- चिह्नमवकाशं च प्रदाय 'हरिः शेते' कविः षष्टः * मुनिः सारः इत्येवं रीत्या लेखनमेव रमणीयतरं संशयनिवर्तकतया समादरणीयं च । इतोऽप्यधिकमवधेयमाधेयं च कमपि परिष्कारमिदानी वदामः ; प्रायेण पण्डिता अपि यत्र सुदूरमुहासते, बहुत्र विपरियन्ति च । अनुस्वारस्य किल पदान्तभिन्नस्य यचि परसवर्ण नियतमनशास्ति भगवान्पाणिनिः । पदान्तस्य तु तस्य परसवर्णकरणमैच्छिकमन्वाचष्टे। सत्यप्येवं शास्त्रीयासद्धान्ते, शास्त्रज्ञा अपि भूयसा अनुस्वारस्य पदान्ते रस्य परसवर्णमकृत्वैव विलिरवन्ति, मुद्रापयन्ति च । यथा ----- वंगाः, रंकुः' इति । इदमाप दूषणमाधिक्येन दक्षिणभारतमेव स्पृशति। तथा अवसाने अनुस्वारलेवनमपि दाक्षिणात्यानां प्रमाद एव । यथा--'निःशेषविश्राणितकोशजातं' इति । न खलु उत्तरत्र हलं विना ईदृशेषु स्थलेषु मकारस्य केनापि सूत्रेणानुस्वारप्राप्तिर्विद्यते । व्याकरणान्तरे 'अनचि' इति सूत्रणादवसानेऽप्यनुस्वार प्राप्तिरस्तीति वादि- नस्तु मान्याः। केचित्त पदान्तस्यापदान्तस्य चानुस्वारस्य परसवर्णं कुर्वाणा एवं लिम्वन्ति --...' त्वङ्करोषि' ' अङ्कः' इति । तत्र पदान्तस्यानुस्वारस्य पर- सवर्णकरणम् ‘वा पदान्तस्य' इति शास्त्रमनुसरतीति न तत्र प्रमादः । परं वैकल्पिकं परसवर्णं तादृशे स्थले अकृत्वा 'त्वं करोषि ' इत्यादि- रीत्या लेरवनमेव नागरकाः सुन्दरं मन्वते । वैकल्पिकप्वपि विधिषु भावानु. ठानमेव आतंशयितधर्मजनकत्वेन आदरणीयमिति शाब्दिकसंप्रदाय- मेते नव्यपरिष्कारिणो न जानन्तीति पण्डितानां केषांचन शापाक्षरं तु नैतेषां नागरकाणां कर्णकुहरं प्रविशति ; यत एते फलमुखतया तादृशी - तु 7 - रीतिमातिष्ठन्ते । दाक्षिणात्यलिपिमुद्रितेपु पुस्तकेषु दाक्षिणात्यपण्डितानां लेखनसरणौ च पदान्तस्यानुस्वारस्य परसवर्णविधानम्, अपदान्तस्य तस्य तदकरणं. च प्रतिनियतमिव प्रायेण परिदृश्यते । अथेदानीमवग्रहपरिग्रहं पर्यालोचयामः । यत्र 'एडा: पदान्तादति ' इति सूत्रस्य प्रवृत्तिः, तत्र संधावतगतोऽयमकार इति बोधयितुम् अवग्रहचिद्रं तिरश्ची वक्ररेखां विनिवेशयन्ति परिप्कारिणः । यथा..... होऽपि भारे' 'सोऽनुव्रजतः' इति। इदं च अवग्रह चिह्नमिति लौकिकाः कथयन्ति । इद. मपि चिह्न पदचोरसमस्तत्व एव, 'यशोवकाश' इत्यादिसमासं तु नाभि- लप्यते नव्यनागरकैः। केचित्त इदं चिह्नम् अवर्णस्य संध्यन्नविसूचकमिति मन्यमानाः, 'शौवलेना पि' इत्यादावपि तदिदं निवेशयन्तः, आकारस्य संध्या विस्थले तस्य द्वित्वमाद्रियमाणाः, 'तस्याऽऽसीत् ' इत्यादी तवय- भपयञ्जने। अन्ये तु इदमच्संधिसामान्यसूचकर्मिति भत्वा, रेखामपि विलक्षणां स्वीकृत्य ' तस्येब' इत्यत्र, 'तत्रो भौ' इत्यत्र च तदंतचिह्न- मुपयुञ्जते । सर्वोऽप्ययमभिहितपूर्वः परिष्कारः सुप्रासिहनिर्णयसागरमुद्रालयीय. पण्डितसमाजेन सदयभवतारित इति तत्र चिराय कृतज्ञतां धारयद्भिरस्माभि- रवश्यमियं परिष्कारपद्धतिरात्मानुवनिन बहुमन्तव्या। संप्रति अवान्तरप्रकरणविभागकल्पनां विरामोद्धरणादिचिह्नानि च प्रकृत्य किंचिदभिधीयते । पद्यकाव्यष प्रतिपद्यं विभागः Paragraph) कल्पयितुं शक्यत इति न तत्रास्माकमतिमहान्भारः। गद्यकाव्यविषय एव कथं नाम तत्तदवान्तरप्रकरणविभागकल्पनं करणीयमित्यालोचनीयम्। प्रति- बाक्यं विभजनमङ्गीकृत्य पृथकपृथक स्थलदानेन लेखन तु दुःशकमनवस्थित च । अत एकतापर्थकस्थ एकफलकस्य वा वाक्यस मुदायस्य, क्वचिदेकस्यापि वाक्यस्य अवान्तरविभजनपूर्वकं पृथक्पतिकतया विनिवेशनं समञ्जसम् । तच्च नव्यनागरकमुद्रितबहुग्रन्थदर्शनेनैव व्युत्पादनीयमिति कथयन्ति । सर्व- स्यापि ग्रन्थस्यैकनायकविषयकतया ऐक्यम्, एकफलकतया भिन्न भिन्नयोरपि शास्त्रयोरभेदम्, साक्षात्परम्परया वा सर्वमपि वाङमयं सच्चिदानन्दलक्षणं ब्रह्मैव विषयीकरोतीत्येकतात्पर्यकनया एकफलकतया च सर्वासामपि वाचा- 8 मभिन्नतां चाकलवन्तः कतिपये पण्डिनाः, नव्यनागरकस्त्रीकृते तत्तदवान्तरविषय विभागकल्पनाकल्पे अपाप्त्यादिदोषतहखाणि वर्षन्तस्तमेनं पक्षं नाभिनन्दन्ति । तत्र एकस्मिन्विभागे लिग्विताव सते, अन्यस्यारम्भे अनन्तरोल पतेर धस्ताकि यनमवकाशं प्रतिपात दीयमानादप्यधिकत या प्रदाय, ऊर्ध्व पश्यपेक्षा किंचि. दन्तः संकोच्यैव विलेखनसरीणरादतव्या। तदानीमेव विषयविभागकल्पनं झटिति प्रकाशेत । यथा अतिशयरू पाकृतिमनिमेषलोचनो ददर्श । समुपजातविस्मयस्याभून्मनसि महीपतेः । अहो--- एवं विभागकल्पनासु प्रतिविभागं लेखनमङ्गीकार्यम् । चिहानि व नागर करने कथा स्वीक्रियते। तत्र विरामचिह्नमेकन् । इदमेव च संपूर्तिचिह्नमित्यप्यभिधीयते । अस्य चाङ्गलभाषायाम - full stop' इत्युच्यते नाम। दाक्षिणात्यलेखनसरणौ तु '.' इत्याका'को विन्दुरेव संपूर्तिचिह्नतया भूयसा स्वीकृतो दृश्यते । नागराक्षरलेखनशल्यां त । इत्याकारिकाम् अवधिःस्थितां दण्डाकारां रेखामुपयुज्यमानां पश्यामः । इदं च चिहं संपूर्णवाक्यावसान- सूचकतया स्वीकुर्वन्ति । अत एवेदं तंपूर्णविरामचिह्नमित्यपि कंचन कथयन्ति । तत्तदवान्तरप्रघट्टकसमाप्ती तु केचनैनामेव रेखां द्विलिंग्वन्ति । वितिीचह्नम् अथवा विरामचिह्नमित्यपरम ; यदेव · Cornma' इति पदेन भाषान्तरीयेण व्यपदिश्यते। वस्य चाकारः इति रेवया प्रदर्श्यते। इदं च किंचिद्वि. रामसूचकतयोपयुज्यमानं तत्र नत्रान्वयादिगमनिकायां सुबहूपकरोति विद्यावताम् । अन्यच्चेदं प्रायःसंपूचिह्नम ; एतस्यैवाजलभाषायाम - semicolon' इत शब्देन व्यवहारः। इदं च संपूर्यमाणस्य वाक्यस्य किंचिदिव पुरस्ताहिरामसूचकतयोपयुज्यते । ';इति रेखा चास्य स्वरूपं प्रकाशयति। केचित्त इमे उभे अपि पादविरामपदेन अर्धविरामपदेन च क्रमेण व्यपदिशन्ति । — Hyphen' इति आङ्गलपदेन व्यवहियमाणम, ' . ' इति रेखया प्रदर्शमानं चिहं तु पूर्वोत्तरयोरक्षरयोरविच्छेदं सूचयति। एकस्याः पतेरवसाने कस्यचन पदस्य कतिपयेष्वक्षरेषु लिवितेषु, तत्पदीयानामक्षरान्तराणामन्यस्यां पती विलेखनीयतायां पूर्वपतेरन्ते इदं चिह्नमाधिक्येनोपयुज्यते । क्वचित् 'कृष्ण- पदम्' इत्यादी पदयोरविच्छेदसूचनायापीदमुपयुञ्जते कति पये। उद्धारचित्रं - . ~ 9 .:' इत्येवम, नामेदमपरम् । इदं च . (Quotation • इति आङ्गलभाषायां व्यवहियते । एतच्च अन्यदीयवाक्यान्यु बृत्य विलेवनावसरे उपयुज्यते। नत्र आरम्भे समाप्तौ ।। इत्येवं च व या प्रदश्यते । एतयोईित्वमपि केचिदभिमन्यन्ते । उद्धृतवाक्यमध्ये उद्धरणान्तरप्रसक्तौ प्रथमस्य द्वित्वम, मध्यवर्तिनश्च तस्य चिह्नस्य एकत्वं रुचिरमिति नव्यविमर्शकाः । संपूर्णस्य सूत्रादेरुहारे पूर्वोक्ता रीतिराश्रयणीया। मध्ये विच्छेदे तु दीर्घा कामपि रेवामन्तर्घठयित्वा विलेवनं रुचिरतरम् । यथा-'जानपद इति सूत्रेण। यथा वा---' सर्वोऽप्ययं वेदान्त इति भाग्ये । उद्धृतपदस्य इतिना संधिं कृत्वा ---' इमानि च तानी' ति भाष्येण-इत्येवं रेवाविन्यासः कैश्चिद्विरच्यमानस्तु नातीव हृदयंगमः । तत्रापि 'इमानि च तानि' इत्येवं भाष्येण इत्येव लेवनं समञ्जसम । ' इत्या- दिना' इति आदिशब्दप्रयोगे तु पूर्वोक्ताया दीघरेवाया नावश्यकतेति वदन्ति । यथा -- ' सर्वोऽप्ययं वेदान्त' इत्यादिभाष्ये ----इति। अन्यच्चोप- पादकं चेिनं ; यत् ' इति रेवया प्रकाश्यते। · Dash ' इति पदेन च आङ्गलमुखेषु भाषान्तरेषु व्यपदिशन्ति तदेतञ्चिह्नम् । इदं व पूर्वोत्तरयोरुप- पाद्योपपादकभावप्रदर्शनस्थले पूर्वोक्तस्य प्रकारविशेषविवरणस्थले च भूयसा उपयुज्यते। यथा--' तथाहि -- स किल' इति, उक्तं च–'नैनम् ----' इति च। परं तु इयं रेवा बहुत्र उपयुज्यमाना न निर्वचनीयतां प्रतिपद्यते। अतश्च बहु- श्रुतमुद्रितलिखितपुस्तकादिदर्शनेनैवास्य चिह्नस्योपयोगक्रमो ज्ञातव्यः । अन्यच्चेदम् अर्धकुण्डल चिह्नम् । अस्य Braeket' इति आङ्गलभाषायां व्यवहारः। दनपि क्वचिद्विवरणे क्वचन स्थाननिर्देशादिषु उपयुज्य- मानमनन्तरूपमिति न खलु निर्वचनीयं भवति। आरम्भे (' इति, अवसाने .)' इति च रेखाद्वयमस्य स्वरूपमवगमयति । सर्वाण्यपीमानि चिह्नानि यद्यपि आगलादिभाषास्वव चिराय रूढमूलानि । तथापि अर्था- वबोधनसौकर्यसंपादकतया अबाधकतया च नव्यशिक्षकैरस्मदीयभाषालेखन शल्यामप्युपयुज्यमानानि क्रमेण सर्वसंमान्यतापदमारोक्ष्यन्तीति प्रतिभाति ।

10 प्रथमशारवायां प्रथमकक्ष्या । . . . . अमर :, शब्दमचरी च। प्र-शिवस्य, सूर्यस्य, जलस्य, शैलस्य च चत्वारि नामानि लिखत । उ- शंभुः, पशुपतिः, भूतेशः, जटिः, इति शिवस्य, भास्करः, दिवाकरः, मार्तण्डः, ग्रहपतिः, इति सूर्यस्य, आपः, सलिलम , उदकम् , पानीयम् , इति जलस्य, पर्वतः, अद्रिः, गिरिः, अचलः, इति शैलस्य च नामानि । प्र--सुब्रह्मण्यस्य, इन्द्रस्य, कुबेरस्य च वाहनानि कानि ! उ ---- मयूरः, मेघः, नरश्च क्रमेण तेषां वाहनानि । प्र - इन्द्रपुत्रस्य, कुबेरोद्यानस्य, शिवधनुषश्च नामधेयं किम् ? उ-जयन्त इति इन्द्रपुत्रस्य, चैत्ररथामिति कुबेरोद्यानस्य, पिनाक इति शिवधनुषश्च नाम । प्र--कति मतवः ? अमरोक्तक्रमेण तान् नाना निर्दिशत । ऋतवः षट् । हेमन्तः, शिशिरः, वसन्तः, ग्रीष्मः, वर्षाः, शरत् , इति ते भवन्ति । प्र---अमरकोशान्नावमधिकृत्य किं जानीथ ? उ----अमरसिंहकाले बाप्पनौका वा, युद्धनौका वा, आसीदित्यनमातुं न शक्यते । तरिरिति, उडुपमिति च द्वेधैव नौरासीदित्यवगम्यते । नावश्च कर्णधारेण क्षेपण्या अरित्रेण च देशादेशान्तरमनीयन्त । तासु मलापनयनाय अभ्रयः, जलापनयनाय सेकपात्राणि, इष्टप्रदेशगमनानुकूलवातसंग्रहाय कृप- काश्चासन् । पोनवाहा अपि सज्जा वर्ततन्ते स्म । सांयात्रिकाश्च आतरं दत्त्वा वाणिज्यार्थमभिलषितान् देशान् जग्मुः । प्र-अमरकोशपठनेन देवानधिकृत्य यत् ज्ञायते, तत्कथारूपेण संगृह्य लिरवत । उ-देवा नाम दिव्यशरीरभानः । एतेषां जरा, मरणम् , स्वापश्च नास्ति । बाल्यम , कौमारम्, यौवनमिति तिस्त्र एव दशा एतेषाम् । एषां च वासः स्वर्गलोके । अन्नं चैतेषाममृतमेव । कतुषु चैते हूयमानं हविरग्निसाह्येन उ ।

1] भुञ्जते । लोकोपकार एवैतेषां शुभा चित्तवृत्तिः प्रवर्तते । निग्रहानुग्रहसमर्था चैतेषां वाणी । दनुसुता दानवाः, दितिपुत्रा दैत्याश्चैतेषामरयः । प्र---शतसंख्यायां सत्यां किं ववनमुपयोक्तव्यम् ? उ-बहुवचनमेव । त्रित्वसंख्यामारभ्य सर्वास्वपि संख्यासु बहुवचन- मेव भवति । प्र-भ्याम् , भ्यः, इति प्रत्ययौ कुत्र कुत्र वर्तते : उ-तृतीयाचतुर्थीपञ्चमीनां द्विवचनप्रयोगे भ्यामिति, चतुर्थीपञ्चम्योर्वहु- वचनप्रयोगे भ्य इति च श्रूयते । प्र---धातृपितृशब्दयोः, मातृपितृशब्दयोश्च रूपे भेदः कुत्र ? उ-- धाता, धातारौ, धातारः, इति तकारादकारो दीर्घः । पिता, पितरी, पितरः, इत्यत्र तकारादकारो हस्वः । अयमेव तयोर्भदः । मातृपितृशब्दयोस्तु- द्वितीयाबहुवचने पितन् इति, मातृः इति रूपे भेदः । प्र-धातृशब्दतुल्यम् , पितृशब्दसमं च शब्दद्वयं लिखत ! उ-हर्तृकर्तृशब्दौ धातृशब्दसदृशी, जामातृभ्रातृशब्दौ पितृशब्द- समानौ रूपे भवतः । प्र- उशनःशब्दस्य संबुद्धौ कति रूपाणि ? तानि च कानि ? उ--त्रीणि रूपाणि-हे उशनन् , उशन, उशनः, इति । प्र-के शब्दास्त्रिष्वपि लिङ्गेषु सरूपा भवन्ति ? उ-युष्मदस्मच्छब्दौ, कतिशब्दः, पञ्चन् षट् सप्तन् अष्टन् नवन दशन् शब्दाश्च त्रिषु सरूपा भवन्ति । प्रथमशारवायां द्वितीयकक्ष्या। कथाकुसुममञ्जरी। - श्रीरामभद्रचरितपरिशीलनेन के नाम सद्गुणा ज्ञातुं शक्यन्ते ? उ-मातापित्रोर्वचनमवश्यं परिपालनीयम् , सहोदरेषु स्नेहः सर्वथा प्रदर्शनीयः, सापराधस्यापि शरणागतस्य परित्राणमवश्यं करणीयम् , सति - 12 समये दुष्टनिग्रहो नियतमाचरणीयः, दुर्वृत्तस्य सर्वात्मनाप्युदकों विनाश एव, प्रजाराधनं नाम भूमिपतेः प्रधानभूतो धर्मः, महात्मना तत्त्ववेदिनापि बुद्धिमता लोकापवादादवश्यं भेतव्यमित्यादयो गुणा अवगम्यन्ते । प्र-नलचरित्रपठनेन ज्ञायमानान्गुणान्विलिखन । उ.-महत्यपि कर्मणि तिरश्चामपि साहायकं फलाय कल्पते, अनुरूपे वस्तुनि मनःप्रवृत्तिरविलैरप्यभिनन्दनीया भवति, देवानामपि विषयाभि- लाषो दुर्जय एव, स्वाभिलषितेऽपि वस्तुनि परेषां प्रार्थनामङ्गीकुर्वाणेन तदानुकूल्यसंपादनाय स्वार्थनिरपेक्षः प्रयत्न आस्थेयः, देवनानुग्रहः सर्वा- भीष्टसाधको भवति, असक्रीडा नियतमनर्थपरंपरां जनयति, स्वयमापन्नेनाप्य परो विपन्नः परिपालनीयः, प्रभुणापि कालवशादात्यत्तिरनुसरणीया, पाति- व्रत्यं नाम स्त्रीणां परमं तेजः, सर्वथाप्यन्ते धर्म एव स्वयं रक्षितो रक्षति पुरुषमित्यादीन् महतो गुणानवगच्छामः । प्रथमशारवायां गमायणम् । प्र-" संक्षेपरामायणम्" इत्यस्यार्थः कः ? उ--रामस्य + अयनम = रामायणम्-रामचरितामति तदर्थः । रामः अय्यते प्राप्यते अनेनेति गमायणमिति केचित् । रामः अयनं प्रतिपाद्यो विषयो यस्य तत् रामायणमित्येके । संक्षेपेण युक्तं कथितं वा रामायणं संक्षेपरामायणम् । शब्दसंग्रहेण प्रधानकथाभागपरित्यागं विना श्रीरामचरित- प्रतिपादकः प्रथमः सर्गः संक्षेपरामायणमित्युच्यते । प्र-रामायणपठने किं फलमुक्तं महर्षिणा? उ--"एतदाख्यानमायुष्यं पठत्रामायणं नरः । सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ।। पठन्द्विजो वागृषभत्वमीयात्स्यात्क्षत्रियो भूमिपतित्वमीयात् । वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात् ॥" इति फलं बदति वाल्मीकिः।

13 - प्र--कैकेय्या वृतो वरः कः? उ--" पूर्व दत्तवरा देवी वरमेनमयाचत । विवासनं च रामस्य भरतस्याभिषेचनम् ॥" प्र-लक्ष्मणो रामम् , शत्रुघ्नो भरतं चानुवर्तत इत्यत्र को हेतुः ? उ--दशरथः कौसल्यया कैकेय्या च पायसभागं मुमित्रायै अदापयत् । अतस्तन्महिना समुत्पन्नौ लक्ष्मणशत्रुघ्नौ क्रमेण रामभरतावन्वासाने । तथा च पाझे युगं बभूवतुस्तत्र सुस्निग्ध रामलक्ष्मणौ । तथा भरतशत्रुघ्नी पाचसांशवशास्वतः ॥” इति । प्र-श्रीरामसंबन्धिषु गुणेषु युप्माकमभिमनान मुख्यतमान पत्र गुणान लिरवत । उ---सत्यधर्मपरायणत्वम् , कृतज्ञता, विजितेन्द्रियत्वम्, प्रजापालन- तत्वज्ञता, सार्थकोपप्रसादता । " भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ । अत्रोपमानापमेयभावं विशद यत । उ ---प्रथमतो निर्दिष्टस्य भरतस्योपमेयस्य प्रथमनिर्दिष्टो महेन्द्र उपमा- नम् . पश्चानिर्दिष्टस्य शत्रुघ्नस्योपमेयस्य पश्यान्निर्दिष्टो वरुण उपमानं भवति । प्र---रामपट्टाभिषेकनिमित्तं नृपतीनायिन् दशरथः कं कं भूपति नाकारयामास ? किं तत्र निमित्तम् ? “न त केक पराजानं जनकं वा नराधिपः । त्वरया चानयामास पश्चात्तौ श्रोप्यतः प्रियम् ॥" प्र- श्रीरामः केन असकृद पमीयते ? उ-- महेन्द्रेण । प्र–हन्मतः कर्माणि संगृह्य लिखत । उ---राघवसुग्रीवयोः सख्यं समकल्पयत् । ततः सुग्रीवादेशात्सीताम न्वषितुकामः सागरं तीवा लङ्का प्राविशत् । सीतां ददर्श । अशोकवनिकां बभञ्ज । अक्षकुमारादीन् जघान । लङ्कां वालाग्निना ददाह । दृष्टा सीतेति रामाय प्रत्यायातो न्येवदयत् । इन्द्रजितो ब्रह्मास्त्रेण बद्धौ मूछितौ च राम- 14 लक्ष्मणौ जाम्बवतःप्रेरणया ओषधि पर्वतमानीय प्राबोधयत् । एकदा च रावणस्य शक्त्या पातितं लक्ष्मणं तमेव पर्वतमादाय प्रबोधयामास । प्र-शूर्पणवामधिकृत्य किं जानीथ ? उ.-शूर्पणरवा राक्षसानामधिपते रावणस्य, रवरादीनां च स्वता । कदा- चिद्दण्डकायां विचरन्ती कामरूपिणी शूर्पणरवा पञ्चवक्ष्यां निवततो रामस्य सौन्दर्येण मोहिता, तमेव पतिमभिलषन्ती, तेन च प्रत्याख्याता, तदादेशेन लक्ष्मणमुपसर्पन्ती तेनापि निराकता, अन्ततः कर्णनासच्छेदेन विरूपिताभूत् । ततश्च सा वरादीनुद्वोध्य युद्धाय प्रेषयन्ती तेषां मरणाय, अन्ते रावणादि- विनाशाय च स्वयमेव मुख्य कारणमभूत् । प्रथमशारवायां तृतीयचतुर्थकक्ष्ययोः हितोपदेशविक्रमाचरितभर्तृहरि सुभाषितानि. प्र--अस्मिन् हितोपदेशग्नन्थे कति तन्त्राणि विद्यन्ते ? तेषां तथा नामकरणे किं बीजम ? उ-मित्रलाभः, सुहृद्भेदः, विग्रहः, संधिरिति चत्वारि तन्त्राणि सन्ति । मित्राणां लाभेन कार्यसाधनस्य प्रथमे प्रतिपादितत्वात् तस्य तन्त्रस्य 'मित्र- लाभः' इति संज्ञा। सुहृदामुपजापेन परस्परं विरोधमुत्पाद्य स्वकार्यसाधन- प्रकारस्य द्वितीये तन्त्रे निरूपणात् द्वितीयस्य 'सुहृद्दः' इति नामधेयं कृतम् । शत्रुभिः सह संयुध्य स्वकार्यसाधनरीतेस्तृतीये वर्णनात्तस्य विग्रहः' इति नाम। युद्धात्पूर्वं परतो वा शत्रुभिः सह संधानरीतेश्चतुर्थे तन्त्रे कथना- त्तस्य 'संधिः' इत्याख्या कृता । प्र-हितोपदेशे कस्य कं प्रत्युप्रदेशो वर्ण्यते ? उ-पाटलीपुत्रनगराधिपतेः सुदर्शनस्य पुत्रा विष्णुशर्मणा हितमप- दिश्यन्ते । प्र-विक्रमार्कचरित्रे पूर्वापरविरोधः स्फुरति वा ? उ---जरामरणरहितत्वापादकं देवतावरप्रसादलब्धं फलं ब्राह्मणात्पति- गृहीतं भर्तृहरिणा विक्रमार्काय दत्तमिति प्रथमतो निरूपितम्। पश्चात् सार्ध- - 15 . द्विहायन्यां कन्यायामुत्पन्नेन शालिवाहननाम्ना बालेन विक्रमार्कस्य मरणे हेतुभूतेन स्थितमिति च वर्णितम् । अतश्चात्र पूर्वापविरोध मन्यन्ते विमर्शकाः । फलं विक्रमार्केण प्रतिगृहीतम्, परं तु न भक्षितमिति कतिपये कल्पयन्ति । प्र--विद्वत्पद्धतेः पूर्वं मूर्वपहनिरूपणे किं कारणम् ? उ--विद्वान्भवतु वा मा वा; 'अपदोषनैव विगणस्य गुणः' इति न्यायेन मौयस्वरूपं परिज्ञाय, तत्परिहारे अवश्यं यत्नः कर्तव्य इत्यभिप्रायेण भर्तृहरिणा विद्वत्पद्धत्यपेक्षयापि मूर्व पद्धतेः प्रथमं निरूपणमिति संभाव्यते । प्र- भर्तृहरिम, तद्न्थांश्चाधिकृत्य यावज्ज्ञातं विलिरवत । उ.--- भट्टिरेव भर्तृहरिः । भर्तृहरिरित्येतत्पदमेव ' भत्रि' इति रूपान्तरं प्राप्य' पश्चात् ' भट्टि' इति प्राकृतभाषामय पदं जातमिति शब्दशोधनान- पुणा विश्वसन्ति । भट्टिकाव्यव्याख्यानारो विद्याविनोदकन्दर्पश्रीधरा अपि भटिभर्तृहयोरभेदमेवाभिमन्यन्ते। पतञ्जलिविजये त्वेवं श्रूयते ---चन्द्रगुप्तो नाम पतञ्जले रूपान्तरं कश्चन द्विजोत्तमः, ब्राह्मणक्षत्रियवैश् पशूद्रजातीयाश्चतस्रः कन्यकाः परिणिनाय । तासु च क्रमेण वररुचिविक्रमार्क भटिभर्तृहरयः सुता जज्ञिरे। षडपि दर्शनानि चन्द्रगुप्तोऽयमपाठयदाद्यांस्त्री-पुत्रान् । चरमस्य शूद्रापुत्रस्य तु स्वयमेव सर्व- शास्त्र रहस्यमाविर्वभूव । व्याकरणमहाभाप्यं परं भर्तृहरेरभ्यर्थनया भूगर्तस्थित तमुपदिदेश पिता। कालेन च सोऽयं चन्द्रगुप्तो गौडपादाचार्यानुग्रहात्प्र- व्रज्यां स्वीकृत्य वाराणसी ययौ। भर्तृहरिश्च श्रीरामचरितमुपनिवधन्. अग्र- जस्य नाम परिगृह्य 'भट्टिकाव्यम्' इति तमेनं ग्रन्थं प्रकाशयामास । शृङ्गारशतकम्, नीतिशतकम् , वैराग्यशतकमिति शतकत्रयं भर्तृहरेरेव कृतिः। अनन्तरमयं भर्तृहरियाकरणसिद्धान्तावबोधकं वाक्यपदीयं नाम ग्रन्थं कारि- काभिर्जग्रन्थ । सपादलक्षग्रन्थात्मकं साराख्यं महामाण्यव्याख्यानमप्यतेन कृतम् । तच्च व्याख्यानम् 'अहो भाध्यमहो भाप्यमहो वयमहो वयम् । माम- दृष्टा गतः स्वर्गमकृतार्थः पतञ्जलिः' इत्युक्तिसंजनितगुर्वपराधयोगान्न भुवि प्रतिष्ठा लेभे --- इति । भर्तृहरिनिवेदनामकं संप्रत्युपलक्ष्यमाणं नाटकमप्यनेन विरचितामति केचित् । नेति बहवः । . .

ID शतकत्रयस्यापि नायं रचयिता, परं तु तत्र तत्र प्राचीनग्रन्थेषु स्थितानां पद्यानां तत्तत्प्रकरणानुगुण्येन ग्रथनमेवास्य भर्तृहरेः शिल्पामति केचन वि- मर्शका मन्वानाः, तत्र प्रमाणतया बहूनां शतकत्रयान्तर्गतपद्यानामन्यत्र बहुत्रोपलम्भमुदाहरन्ति । रावणवधापरनामकस्य भाहिकाव्यस्य रचयिता भट्टिश्च वलभीराज्य- महाराजाधिराजश्रीधरसेनेन आदतमात्मानं कथयाति । श्रीधरसेनश्च क्रिस्तीय सप्तमशताब्दीमध्य भागे :641 –5 : A.D.) स्थित इति चरित्रतो ज्ञायत इति स एव भट्टिकवेरापि समयः संभाव्यते । भट्टिभर्तृहोरेकत्वे, भटेरनुजो भर्तृहरिरिति पक्षेऽपि, अयमेव कालो भर्तृहरेरप्यभ्युपगन्तव्यो भवति । ह्यूगसा- ङ्नामा चीनयात्रिकोऽपि क्रिस्तीयसप्तमशताब्दीमध्यभागे (651 A.D.) भर्तृ- हरिर्पत इति ध्वनयति । प्रथमशारवायां तृतीयकक्ष्यायां रघुवंशे प्रश्नानामुत्तरणि. । प्र-कालिदासस्थान्याः कृतयः काः ? उ-~-कुमारसंभवः, मेघसंदेश इति व अव्यकाव्ये, मालविकाग्रिमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुगलमिति त्रीणि दृश्यकाव्यानि च कालिदास- कृतय इति वदन्ति । केवन नलोदयं नाम यमककाव्यम, हरिश्चन्द्रनलोपाख्यानं नाम अनुलोमप्रतिलोमकाव्यम, ऋतुसंहारकाव्यम, , ऋतुसंहारकाव्यम, ज्योतिर्विदाभरणाख्यं ज्योतिःशास्त्रग्रन्थं च कालिदासकृतित्वेन व्यपदिशन्ति । अन्येऽपि जयदेव. कतितया विख्यातमपि चन्द्रालोकाख्यमलङ्कार ग्रन्थं कालिदासीय इत्यभिमन्यन्ते। अपरे च श्यामलादण्डकम्, नवरत्नमालाम, शृङ्गारतिलकम्, श्रुतबोधं च कालिदासकृतय इति संगिरते ॥ प्र--रघुवंशे कति सर्गा विद्यन्ते ? उ-एकोनविंशतिः सर्गाः सन्ति ।। प्र- रघुवंश इति नामकरणे को हेतुः ? .

17 उ.----यद्यपि रघोः पितरमार म्यैव इक्ष्वाकुवंशप्रभवा राजानो वर्णिताः; अथापि रघोरेव जन्मना प्रतिष्ठिताभूत् मनोः प्रसूतिरिति हृदि कलयता, अत एवं - 'वंशस्य कर्तारमनन्तकीर्ति सुदाक्षणायां तनयं वयाचे' इत्युपनिबध्नता, 'आजन्मशुद्धानाम् ' इत्यादिविशेषणानां रघावेव स्वर- सतोऽन्वयमालोचयता, अत एव 'रघूणामन्वयं वक्ष्ये--' इत्युपक्रममाणेन, दिलीपचरितं च रघुचरितोपोद्धाततया प्रस्तुतवता कविना, " रघुवंशस्य चरितं चकार भगवानृषिः” इति, “ अहं च रघुवंशश्च लक्ष्मणश्च महाबलः" इति च वाल्मीकीयं सुभाषितमनुसंदधानेन तथा नाम कनामिति वदन्ति ।। प्र---पञ्चमसर्गपठनेन युष्माभिमा॑ताः सद्गुणाः के ? उ--कौत्सरघुवृत्तान्तेन - - गुरुकुलमधिवसता बाल्य एव विद्याभ्यासः कार्य इति, विद्याव्रतस्नातस्य च गुरुकुलान्निष्क्रान्तस्य शास्त्रीयगृहमेधिकर्म अवश्यमनुष्ठातव्यं भवतीति, राज्ञापि महात्मनां विषये प्रहेण सता आतिथेयी क्रिया काति, सत्याशिषां महतां प्रसादो नियतं विनयग्राहिषु फलेग्रहिर्भव- तीति व विज्ञायते। प्रियंवदाजव्यतिकरेण च---अधोगतिमूलमवलेपो ज्यो- तिष्मतामाप परिहरणीय इति, कृतज्ञता प्रत्युपकारकरणेच्छा च महात्मताया भूषणामिति च जानीमः ॥ प्र- रघुणा जितान् राज्ञः क्रमेण निर्दिशत । उ--सुझदेशाधिपतिः, वङ्गेश्वरः, उत्कलराजः, कलिङ्गभूमणि, पाण्डय. पार्थिवः, केरलनायकः, पारसीकनृपतिः, हूणाधिपः, काम्भोजनरपतिः, उत्सव- सङ्केताख्याः पर्वतीया गणाः, प्राग्ज्योतिषभूमिपालः, कामरूपेश्वरश्न क्रमण जिताः ॥ प्र--- इन्दुमतीस्वयंवरावसरे कतीनां नरपतीनां शृङ्गारचेष्टा वर्णिताः ? ते च के इति ज्ञातुं शक्यते वा ? कथम् ? उ--सप्तानां राज्ञां शृङ्गारचेष्टा वर्णिताः । तत्र लीलारविन्दभ्रमण पर: पुष्पपुराधिप इति, अंसविस्वस्तप्रावारकोत्कर्षणव्यापृत उत्कृष्टवस्त्रैरभिख्या- तानामङ्गानामधिप इति, हेमपीठं पादेन विलिरवन् ‘यत्नोल्लिवितो विभाति' 18 इति वर्ण्यमान झद्धिमतामवन्तीनां नाथ इति, वामभुजमासनार्धे निवेश्य विस- तत्रिकं सुहृदा संभाषमाणः सहस्रबाहोर्योगिनः कार्तवीर्यस्यान्ववाये संभूतः" कश्चिदरसिको माहिष्मतीपालक इति, कैलकपत्रपाटको बन्दावनाशुपवन- विराजमानप्रान्तानां वारिविहारासक्ताबरोधवधूस्तनचन्दनलेपैरापाण्डुरोदकया कालिन्द्या विराजमानानां शूरसेनानां राजेति, रेखाध्वजलाञ्छनेन करेणा- क्षानुदीरयमाणः “ज्याघातरेखे सुभुजो भुजाभ्याम्” इति निर्देक्ष्यमाणो महे- न्द्रनाथ इति, वजांशुगर्भाङ्गालेरन्ध्रमेकं करं किरीटे निक्षिप्यावस्थितो भूपः रमानुविद्यार्णवमेरवलाया दक्षिणस्या दिशो वल्लभः पाण्ड्य इति च ज्ञातुं शक्यत इति विमर्शकः ॥ प्र-ताम्बूलवल्ली कुत्राधिकमुपलभ्यते ! उ-महेन्द्रमलयस्थलीषु ।। प्र-मुक्तामणयः कुत्रोद्भवन्ति ! उ--पाण्ड्येषु महोदधिताम्रपर्णसिंगमे । प्र- पारसीकान्गन्तुं कतिधा मार्गोऽस्ति ! उ --- पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्मना' इत्युक्त्या स्थलवर्म, जलवमेति द्विविधो मार्गोऽस्तीत्यूहितुं शक्यते । प्र--- 'कलिन्दकन्या मधुरां गतापि-..' 'सकौस्तुभं रुपयतीव कृष्णम् ।' अत्रोभयत्रापि किं नामानौचित्यं प्रतिभाति ! उ--" कालिन्दीतीरे मधुरा लवणासुरवधकाले शत्रन्नेन निर्मास्यत इति वक्ष्यति । तत्कथमधुना मधुरासंभव इति चिन्त्यम् । — मधुरा मथुरापुरी' इति शब्दभेदः ।" इति मल्लिनाथः । आगामिनि युगे अवतरिष्यता वासदेवेन सुषेणस्य उपमानिवन्धनमनुचितामेति विमर्शकः । अत्र केचित्-कृतयुगे लवणासुरस्य पित्रा मधुनाम्नासुरेणेयं निर्मिता मधुरानगरी। लवणोऽपीमामेवाधितष्ठौ । लवणं हत्वता शत्रुघ्नेन तु इन्द्रादिदेवा- नामनुग्रहेण सा नगरी केवलं परिष्कारं प्रापितेत्येव श्रीरामायणोत्तरकाण्ड- पर्यालोचनायामवसीयते । किं च तवद्वतीयघटितमथुरापदवाच्यनगरीतः 19 . तवर्गचतुर्थाक्षरघटितमधुराशब्दार्थपुरी भिन्नैव । अत एव मल्लिनाथेनैव — यहा सा अन्या' इति व्याख्यातम् । एवं च नात्र काचिदप्यनुपपत्तिः । ‘सको- स्तुभं हेपयतीव कृष्णम्' इत्यत्रापि कृष्णपदम् ‘विष्णुनारायणः कृष्णः' इति कोशानुसारेण केवलं विष्णुपरमेव । एवमेव व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः' इति कुमारसंभवे, ‘काणेन पत्रिणा शत्रुः' इति रघुवंशे च कृष्णपदं विष्ण्वर्थकतया प्रयुङ्क्ते कालिदासः । अतोऽत्रापि न किंचिदनौचित्यमिति वदन्ति । वस्तुतस्तु पूर्वोत्तरपद्यार्थंककण्ठ्य पर्यालोचनायो कृष्णोऽत्र देवकीनन्दन एव कविना स्मृत इति सुस्पष्टमवगम्यते । अतोऽत्र कवेरुपमानिवन्धनविषये किंचिदनौचित्यं, स्फुरत्येव । परं तु रसपारवश्यमेव सर्वथापराधोतीति समा- धेयमित्याहुः । 'वस्तेन तायात्किल कालियेन ...' इति पद्यप् अरुणगिरिनाथेन पदार्थ- दीपिकाकृता च न धृत्वा व्याख्यातम् । प्र---अज इति राजकुमारस्य नामकरणे किं कारणम् ! उ.-." ब्राह्म मुहूर्ते किल तस्य देवी कुमारकल्पं सुपुवे कुमारम् । अतः पिता ब्रह्मण एव नाम्ना तमात्मजन्मानमजं चकार ।। प्र--इन्द्रध्वजपदार्थ विशदयत । उ---पुरा दैत्यनिरासाय ब्रह्मणा प्रचोदिता देवाः क्षीरोदधिं गत्वा विष्णुमभिष्टुत्य तत्प्रसादात्तेन दत्तं ध्वजमादाय स्वर्गमवापुः । तेन च समुच्छूि- तेन ध्वजेन पुरुहूतो रिपून्निरस्य, पश्चात् चेदिपाय उपरिचरान दमेन वेणुमयं ध्वजं प्रांदात् । स चोपरिचरस्तस्य ध्वजस्य महान्तं महमनुष्ठाय मघोनः प्रसादपात्रं बभव । तदा च तुष्टो देवराजः ‘एवं ये राजानो महोत्सवमाच- रन्ति, तेभ्यः प्रसन्नेनात्मना वलढद्धिजयोत्कर्षवर्षसमृद्ध्यादिकमापादायप्यामि' इति प्रतिजज्ञे । अतश्च प्रायेण प्रतिवर्ष नृपतिभिरयमुत्सवोऽनुष्ठीयते । भयं च महोत्सवो दिनचतुष्टयं व्यानोति । अहनि च पञ्चमे इन्द्रध्वजस्यावरोहणं भवति । 'चतुरस्रं ध्वजाकारं राजद्वारे प्रतिष्ठितम्' इति भविष्योत्तरे । वृक्षानयनतक्षणोत्थापन निमित्तविज्ञानादिकं तु बृहत्संहितायामिन्द्रध्वजाध्याये द्रष्टव्यम् ॥ : 2-A ---रघुर्धर्मविजयीति कथं ज्ञायते ? उ----उत्त्वातानां प्रणतानां वङ्गानां प्रतिरोपणेन, जितस्यापि कालिङ्ग मेदिन्यनपहरणेन विश्वजिद्यागे त्यागाय अर्थसंभरणेन चायं रघुर्धर्मविजयी निश्चीयते ॥ प्र-चतुर्थसर्गे शरदृतुवर्णनावसरे कविना प्रदर्शितं चमत्कारं निरूप- यत । - . उ-तत्र हि दशभिः पद्यैः शरत्कालो वर्ण्यते । प्रक्रान्तस्य नायक- गतस्य वीररसस्य विच्छेदो मा भूदित्यभिप्रायेण महाकविना एकैकस्मिन्नपि पद्ये रघुवृत्तान्तोऽप्यायोजित इति वदन्ति । प्र-अस्मिन्काव्ये कति रघुवंशीया राजानो वर्णिताः ? तान्नाम्ना निर्दि- शत । उ---दिलीपः, रघुः, अजः, दशरथः, रामः, कुशः, अतिथिः, निषधः, नलः, नमः, पुण्डरीकः, क्षेमधन्वा, देवानीकः, अहीनगुः, पारियात्रः, शीलः, उन्नाभः, वज्रघोषः, शङ्खणः, व्युषिताश्वः, विश्वसहः, हिरण्यनाभः, कौसल्यः, ब्राह्मिष्ठः, पुत्रः, पुप्यः, ध्रुवसधिः, सुदर्शनः, अग्निवर्णः, इति एकोनत्रिंशन्न- रपतयोऽत्र काव्ये वर्णिताः । प्र-कविरस्मिन्काव्ये स्वात्मानं स्वकाव्यं चाधिकृत्य यत्किमपि सूच- यति वा? उ.-." वंशस्य कर्तारमनन्तकीति सुदक्षिणायां तनयं ययाचे” इति पद्येन, महाकविरयं रघुवंशकर्तुरात्मनः कीर्तिमनन्तामभिलषन् , संश्रितकाम- धेनुं सरस्वतीं तमेनमर्थं प्रार्थयत इव । गुर्वी व्यङ्गचार्थपरम्परामर्थयमानः श्रुतपारदृश्वा सहृदयलोको रघुकाव्यमिदमनुसंधत्ताम् । अत्र काव्ये तादृशं गुरुमर्थमनुपलभमानस्तदुपलम्भाय सरसहृदयो भावुकः काव्यान्तरं परि- शीलायतुं प्रवृत्त इति नव्योऽयमभव्यः परीवादः कदापि मे मा भूदिति स्वाशयम् "गुर्बर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् । गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ।।

21 इति श्लोकेन सूचयतीव । एतादृशे निहतवाच्यार्थप्राधान्ये व्यङ्गचैक- जीविते भगवत्या गिरां देव्याः प्राणायमानेऽस्मिन्काव्ये, सत्वपि सर्वेषु रसम- येषु सर्गेषु, चतुर्दशः तर्ग एव करुणरसप्रधानः सर्वात्मना सहृदयानधिक- मनुरञ्जयितुं पारयति । स एष सर्गः सकृत्पद्यमानः स्वस्मिन्नादरमनावनतामप्य- प्रतिषेधतां सहृदयानां हृदयं स्वयमेव समावर्जयिष्यतीति स्वाभिसंधि महा- मतिरयम "तदेष सर्गः करुणाईचित्तैन मे अवद्भिः प्रतिपेधनीयः । यद्यर्थिता निहतवाच्यशल्यान प्राणान्मया धारयितुं चिरं वः ।। इति प्रसन्नमधुरेण पद्येन प्रकाशयतीवेति चिराय का परिशीलिमो भावयन्ति । प्र-कालिदासस्य किमपि विरुदमस्ति वा ? अस्ति चेत्, किं तत् ! किं तत्र कारणम् ? उ - 'दीपशिखाकालिदासः इति विरुदेन संभाव्यते महाकविरयम् । तत्र च कारणम् , 'संचारिणी दीपशिरवेव रात्रौ यं यं व्यतीयाय पासवरा सा । नरेन्द्रमार्गाट इव प्रपेदे विवर्णभावं स स भूमिपालः ।।' इति षष्ठसर्गस्थं वर्णनमिति वदन्ति । . प्रथमशारवायां चतुर्थकदया। कुमारसंभवः । प्र---कुमारसंभव इति काव्यनाम्न औचित्यं विशदयत ! उ -अत्र हि तारकासुरेण पीयमानैर्देवैस्तज्जयाय परमेश्वरात्पावत्या- मुत्पद्यमानस्य सेनानीत्वेन ब्रियमाणस्य सुब्रह्मण्यस्य उत्पत्तिर्वर्ण्यत इति काव्य- नाम समुचितमेवेति भाति । प्र.-.--एतत्काव्यकथाभागस्य आकरग्रन्थः कः ? उ-अस्य आकरः शिवपुराणम् ; यतः प्रायेण शब्दार्थाभ्यामुभयो- 22 . द मार्गदर्शि; अत एव 'कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च' इति रामायणे श्रूयमाणेन कुमारसंभवपदेनैव स्वकाव्यं व्यपदिशति महाकविरिति परे । प्र.-अस्मिन्काव्ये कति सर्गा विद्यन्ते ? उ---अत्र काव्ये सप्तदश सर्गा विद्यन्ते । म ---संप्रति दृश्यमानाः सर्वेऽपि सः कालिदासकृता नेति केचन विमर्शकाः । अयमभिप्रायः मप्रमाणं स्थाप्यताम् , अथ वा खण्ज्यताम् । उ--तत्राष्टावेव सर्गाः कालिदासेन कृताः । नवमादयः सर्गास्तु येन केनापि विरचि ।ः स्युरिति भाति । नवमादिषु किल सर्गेषु क्वचित्कचित् शब्दको वर्णनादिभिश्च पूर्वतरसर्गसंवाददर्शनेऽपि भूयसा विसंवाद एव समु- पलभ्यते । किं च तत्र प्रायेण वितष्ठलानि परस्पर सौहार्दविरहितानि शिथि- लशिथिलानि क्वचित्क्वचिद लीलनाचाणि अपायुक्तानि पुनरुक्तकल्पानि च परजातानि, नियतकालिदासीयत्वमेव नवभादीनां सांगानावेदयनि । तथा हिं --सुकान्तकान्लामणितानुकारम् , (९-२) सुविम्बितस्य, (९-४२) मुवि भ्रमश्रीः, (९-४७) लुतीक्ष्णतुण्डः (९-४८) सुदुर्वहन , (१०-१२) सुप्रसाद- घरेव, (१०-३१) तुर्विषहम् , (१०-४०) सुनाताना, (१०-४५) सप्रहाः, (१०-६०) सुनाताः, (१०-५२) सुदुर्धरम् , (१०-५५) सुपुत्रिणीनाम् , (११-१४) सुपीनगाँत्री, (११-१५) सुमङ्गलोपायन, (११-३५) सुमन्द्र, सुवृत्तगीत, (११-३६) सुगौरवेण, (१२-६) सुविराजमानम् , (१२-१४) सुदृष्टे, (१२-२१) सुभक्तिभाजाम् , (१२-३१) सुदुःसहाम , (१२-४८) सुनन्दनम्, (१२-४९) सुदीनाम् , (१३-३६) सुतन्तुजाल, (१३-४ १) सुदुःसहम् , (१४-२) सुरोषणः, (१४-८) सुजातसिन्दूर, (१४-२४) सुविस्तृ- तायाः, (१४-३०) सुसंकुलायाम्, (१४-४०) सुभैरवैः (१४-४७) सुपूर्णाः, (१४-५१) सुघनदुर्धर, (१७-२३) सुविधुराः, (१७-३२) सुदुःसहेन, (१७-३९) इत्यादिषु श्रूयमाणं सुपदं वचन सुश्लिष्टमपि भूयसा श्रुतिविरसं हृदयमुटेजयति सहृदयानाम् । रतानन्दसुरवस्य भङ्गात् (९-१६) द्वितीयकौपीनचलाञ्चलेनाहरन्मुवे- न्दोरकलङ्किनोऽस्याः (९-१९) इतीदं मनःसंकोचमुदश्चयति भावुकानाम् । - 23 - . किं च, दुर्विषोण, (१०-१३) सुलभ्यायाम् , (१०-५३) उपात्तुम्, (११-३) शृणुष्व, (११-१२) शरस्तम्भमाधि, (११-१३) उपात्तुम्, (१२-४६) अविदताम्, (११-४९) परित्यजध्वम्, (१२-३६) चरध्वम्, (१२-६७) मनुते तृणाय, अहकप्रमुख्यान, (१२-४६) शृणुध्वम् , (१२-५४) कतिशः, (१५-४) अहं मृधे जेतुमरीनरीरमन् , (१५-५१) वृन्दार (१९-६३) जहिहि प्रतिपक्षम्, (१७-१५) दुष्प्रेक्षणीयम्, (१७ १९) इत्यादी प्रयज्यमानानि पृषोद रादिगणेन प्रार्थमानानि पदानि नान्यत्र कालिदासीये भूयसा समुपलभ्यन्ते । अत्र व खात्यय योगाभावः प्राचीनबहुमहाकविनयोग विष्टम्झेन यथाकथं. चित्समर्थयितुं शकात इति जानतामप्यम्माकं हृदयं न प्रसीदति सर्वात्मना कालिदासीयमिदामिति प्रतिपत्तुम । शरस्तम्भमधोत्यत्र अधिशरसम्ममिति वक्त- व्ये अधेयत्ययः प्रामादिक इति व्याकुर्वाणः सीतारामः, महाकविप्रयोगात्ताधु- रयमित्यानिष्ठमानानां पदपण्डिनानां पक्षं नाभिनन्दनीव । उपादातुमित्यर्थे उपात्तुमिति प्रयोगो विस्मयं जनयति। इदं चावसरेऽस्मिन्नभिधानुमभिलषामः--- यदा अनिट्केषु केषु वन धातुषु निठातुमुनारकप्रकिएकामा वञ्चिताः पण्डिता अपि तथैवान्यत्रातिदिन्ति । प्रथा च ---नई-नहुम, सोदः सोद- मित्यादिकं दृष्ट्वा, बद्धवत् बद्धमि यतिदिश्य प्रयुञ्जाना लक्ष्यन्ते। एवमेवात्रा- प्युपात्तपदेन वञ्चितः पौण्डूककालिदासः, उपात्तुंशब्दमुपादातुमुपाक्रमत । वेत्तेः अविदतामिति प्रयोगः, परार्थक फलक्रियस्य महाकवेः त्यजतिचरति- शृणोतीनामात्मनेपदप्रयोगश्च केवलमार्षत्वमाकाङ्क्ष तः । भनुते तृणायेति प्रयोगः, 'मन्यकर्मणि- ' इति सूत्रे श्यना निर्देशं कुर्वाणं पाणिनि तृणाथापि न मन्यते । ‘भाष्यकारस्तु त्वपितृ को मकपितृक इति रूपं इष्टापत्ति कृत्वा एतत्सूत्रं प्रत्याचख्यौ' इति कौमुदीपति पठन्तो विद्यार्थिनोऽपि 'अहकप्रमुख्यान ' इति प्रयोगेण उच्चस्तालमुपहसिष्यन्ति । कति वारानि- त्यर्थे कतिश इति तु अपूर्व शास्त्रमपेक्षते । · अहं मृधे जेतुमरीनरीरमन्' इत्यस्यार्थपरिज्ञानाय 'मृधे सङ्गरे अहमेव अरीन शत्रून् जेतुं समर्थोऽस्मि नान्य इति वदन्तः सन्तः अरीरमन् रेमिरे' इति सीतारामव्याख्यामवलोक- यताम् ‘रामो राज्यमचीकरत्' इत्यत्रेव स्वार्थे णिजिति नूनं प्रतिभास्यति शाब्दिकानाम् । वृन्दारासुरेति देवार्थे वृन्दारपदं प्रयुञ्जानः कविः, 'शृङ्गा- बृन्दाभ्यामारकन' इत्युपसंचक्षाणं वररुचिम्, आरप्रत्यय एवास्तु ; ततः .

24 स्वार्थे कप्रत्ययेनेष्टं सिध्यतीति प्रौढिमप्रदर्शयन्तं पतञ्जलिं च अपूर्वमेवमर्थ- मुपदिशतीव । जहिहि प्रतिपक्षमित्यत्र जहातिना सिद्धिमपश्यद्भिः, हन्तिम- पेक्षमाणैस्तु 'हि' इति पृथक्पदमिष्यतामित्यपूर्व व्याख्यातारः । किं च दुर्घटानि पदानि समर्थयितुं प्रवृत्तः श्रीशरणदेवः, आपातमात्रेण दुष्टावभासिनां पदानां समर्थनाय त्रिंशतं वारान् कुमारसंभवं स्मरति। न हि तत्र अष्टमसर्गादुपरि विद्यमानानां पूर्वोदाहृतानां स्मरणगन्धोऽप्यस्ति । प्रायेण पाठभेदप्रयुक्तानि, अक्लिष्टसमाधानानि, अनुद्वेजकानि, प्रौढकबेरपि संभा- व्यान्येव पदानि वाक्यानि च शरण देवेन समुद्भूतानि, न पुनरेवंविधानि मनः- संकोचकारीणीत्यापि समयेऽस्मिन्स्मारयामः सहृदयान् । इदमपि भावुकानां पुरस्तात्कुर्मः-- - सानन्दसुरवस्य, (९-१६) विहार- लीलागतिभिः, (९.३७) देहं दुर्वहं वोदुमक्षमः, (१०-२३) सान्द्रप्रमोदोदय सौख्यहेतुभूतम् (११-९) इत्यादिषु यदि अर्थभेदनात्पर्यपुष्टिकल्पनादिना पौनरुक्यं परिजिहीर्षन्ति रमिकमण मः, नहि किं नश्छिन्नम्, वयमपि तथै- वाङ्गीकुर्मः । गिरीशगौरीतनयेन, (१३-९) अद्रिपुत्रीमहेशपुत्राय, (१३ २९) तनयो- ऽसि गिरीशगौयोः, (१७-१४) इति त्रिषु स्थलेषु कुमार गिरीशागौर्यामुत्पन्नं त्रिः सशपथमिव सिद्धान्तयन्नयं कवितल्लजः, तद्विषये जगदेव असंशयालु मन्यमानात्कालिदासानियतं भिद्यते । अपि च, 'अहो अहो देवगणाः, (१२-५४) अथो अचुम्बत्, (१३-१९) अहो अशेषम् , (१७-१३) इति प्रयोगेण ओत्सूत्रं स्मारयन्, ‘महासुराः स्मरारिसूनुप्रतिपक्षवर्तिनः' (१५-४०) इति श्लोके महान्तो देवा इत्यर्थे महासुरपदं पक्ष इयर्थे प्रतिपक्षपदं च प्रयुज्य अपूर्वरचनाचातुरी शिक्षयन्, स्थलपुराणाद्यपेक्षयापि सुबहूनि सुपदानि संघटय्य आत्मना संपादितपूर्व महर्षित्वमेव, 'उदारदुरितोद्गारहारिणी दुर्गतारिणी । महेश्वरजटाजूटवासिनी पापनाशिनी ।। सगरान्वयनिर्वाणकारिणी धर्मधारिणी। विष्णुपादोदकोद्भूता ब्रह्मलोकादुपागता ।

ॐ - गङ्गावारिणि कल्याणकारीण श्रमहारिणि । स मग्नो निर्वृति प्राप पुण्यभारिणि तारिण ।' (१०-२९-- ३६.) इति गङ्गावर्णनावसरे शब्दार्थाभ्यामनितामाधारणं चमत्कारमाविष्कुर्वन, नियनं प्रायायवति । किंच, महाकविना यदि तारकासुरवधान्तः कथाभागो निबद्धः स्यात्, तर्हि शिशुपालवधादिवत् प्रतिनायकवधेन तारकवध इति, हरविजयादिवत् नायकविजयेन कुमारविजय इति वा काल्पमिदं व्यपदिष्टं स्यात् । यतश्च नैवम्, ततश्च मन्यामहे ---- नवमादीनां पोण्डूककालिदास एव कति । एवं हि प्राचो महाकाव्यलक्षगनिरूपणावसरे वदन्ति ‘कवेर्वृत्तस्य वा नाम्रा ना कस्येतरस्य वा' इति । वृत्तनाम कुमारसंभवादि' इति तत्रैव व्याख्या- तारः। यदि च विजयान्तः कथाभागः कविना एकेन संञ्चोऽभविष्यत् , नियतं कुमारसंभव इति नेई काव्यं व्यपादेक्ष्यत । अत्रेयमाशङ्का, मन्यामहे, नूनं स्वयमेव पुरःसरिप्रति--अष्टमं सर्गमभि- व्याप्यापि वस्तुविन्यासे विचार्यमाणे, ननमियमाख्या काव्यस्य न युज्यते । न हि अन्तिमेऽप्यष्टमे सर्गे कुमारस्य संभवो वर्णितः । इत्थं च भवन्मतेऽपि जायमानामनुपपत्ति नाहमेकनोदनीयः । भवदभिमतरीत्यापि वस्तुविन्यासानु- रोधे गौरीविवाह इत्येवंरीत्या खलु नाम सुसंगतं भविष्यति । तत्कथं भवन्मने. ऽपीदं सुश्लिष्टं भवतीति । नूननिदं प्रष्टव्यं साधु पृष्टाः स्मः । सप्तमे सगै विवाहकथामुपवर्ण्य, अष्टमे अत एव तयोरादिदंपत्योः संभोगशृङ्गारमपनिबध्नाति संक्षेपप्रियोऽ. सौ महाकविः । अमोघवीर्यस्य भगवतो नीललोहितस्य प्रथमे रसे वर्धमाने कुमारस्य संभव उक्तप्राय इति हि महाकवेरान्तरोऽभिसंधिः। अष्टमः सगों न कालिदासेन कृत इत्यभिप्रावस्तु, आनन्दवर्धनमम्मटादिभ्यो नियतं न रोचिष्यते । निपुणं विमृश्यमाने, अष्टमे सर्गे शब्दार्थरसादिभिरनुभूयमान- चमत्कारातिशयः, न खलु कालिदासेतरेण संपादयितुं पार्यत इति, वस्तुतः सहृदयो न कोऽपि विप्रतिपत्स्यते। इदमपि कवेणूढाकूतम्-- यदुत प्रथम विमुक्तसङ्गस्यापरिग्रहस्य, पुनरपि वशित्वाद्बलवन्निगृहीतेन्द्रियक्षोभस्य पशूनां 26 पत्युः सांप्रतिकीमवस्थामालोच्य, भवभूतिसिताभ्यां गिरिजायाः स्तनाभ्याम् 'तपस्वी कां गतोऽवस्थाम्' इति स्मेराननाभ्यां भवितव्यामिति भावयितव्यं भावुकरिति । अत एव सप्तभिः सगैर्विवाहावधिकथासंदर्भण काव्यं न विर- चितम् । - कि च, कविप्रथमपद्धती श्रीमति रामायणे बालकाण्डे कुमारस्योत्पत्ति किंचिदिव विस्तरतो निरूप्य, गृहीत्वा क्षीरमेकाहा सुकुमारवपुस्तदा । अजयत्स्वेन वीर्येण दैत्यतैन्यगणान्विभुः ॥ सुरसेनागणपति ततस्तममल युतिम् । अभ्यषिश्चन्सुरगणाः समेत्याग्निपुरोगमाः ।। एष ते राम गङ्गाया विस्तरोऽभिहितो मया । कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च ॥ इति पद्यानि पठ्यन्ते। महर्षी महाकवौ च वाल्मीको दृढभक्तिरसौ कालि- दासः, तत्र श्रुतामेव कयामात्मकाव्यमारोप्य, तत्रेव स्वयमपि तारकासुरव- धादिकथां विहाय, तत्र श्रूयमाणेनैव कुमारसंभवपदेन स्वकीचं वाममयम् अलं- चकारेति भावयतां सुमनसां नवमादयः सर्गा नवीना एवेति नियतं भास्यतीति साहित्यमर्मवेदिनः सहृदयाः। इमानि चास्माकमुपष्टम्भकानि कुमारसंभवविवरणवाक्यानि सहृदयेभ्य उपहरामः-- 'ननु काव्ये यत्साध्यं तदनुसारेणैव काव्यस्य संज्ञा कर्तव्या। यथा---- युधिष्ठिरविजयजानकीहरणशिशुपालवधप्रभृतीनाम् । अत्र तु तारकासुर- निग्रहः काव्ये साध्यतया निर्दिष्टः, ' तस्मिन्विप्रकृताः काले तारकेण दिवी- कसः' इत्युपक्रमात् । तस्मात्तारकवध इत्येव संज्ञा कर्तव्या। तत्पर्यन्तं च काव्यं प्रवर्तयितव्यम् । न चैतत्कृतम् । तस्मादसमञ्जसमिदं काव्यम् । आप च कुमारोत्पत्तिपर्यन्तमपि न काव्यं कृतम् । तस्मादनुपपन्नमिदं नामापीति। अत्रोच्यते-नात्र तारकासुरवधः काव्ये साध्यः, 'तदिच्छामो विभो स्रष्टुं सेनान्यं तस्य शान्तये' इति देवैः कुमारसृष्टिमात्रस्यैव ब्रह्माणं प्रति प्रार्थितत्वात् । तारकासुरनिग्रहस्तु कुमारोद्भवप्रसावकतया निमित्तत्वेनापे. क्षितः ; यथा--किरातार्जुनीये दुर्योधनजयः । तस्मात् कुमारसंभव इत्येव संज्ञा युक्ता। न चैवं सति तत्पर्यन्तं काव्यं प्रवर्तयितव्यमिति वाच्यम, 'उमारूपेण ते यूयं संयमस्तिमितं मनः । शंभोर्यतध्वमाक्रष्टुमय- स्कान्तेन लोहवत्' इति ब्रह्मणः प्रतिवचनन शंभोश्चित्ताकर्षणमात्रस्यैव परम- साध्यत्वेन प्रतिपादनात् । कारणपोकल्ये कार्यस्थावश्यंभाव एव ब्रह्मणस्तया निर्देशे हेतुरिति चावगन्तव्यम् । शंभोश्चित्ताकर्षणं पुनरष्टमे सर्गे विस्तरतः प्रतिपादितम । यथोक्तमन्त्यश्वाके 'समदिवसनिशीयं सङ्गिनस्तत्र शंभोः शतमगमहतूनां सार्धमेका निशंव । स न सुरतसुरवेषु छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस्त जलेषु ॥' इति । उक्तं च पञ्चमसर्गान्ते देवी प्रति देवेनैव ‘अद्यप्रभृत्यवनतानि तवास्मि दासः की तस्तपोभिः' इति । तस्मात् 'उमारूपेण-' इत्युपक्रमात् 'अद्यप्रभृति' इति परामर्शात् , 'समदिवसनिशीथम्' इत्युपसंहाराच्च शंभौश्चित्ताकर्षण- मात्र एव तात्पर्यम् , ' उपक्रमोपसंहारावभ्यासोऽपूर्वता फलन । अर्थवादोप- पत्ती च लिङ्गं तात्पर्यनिर्णये' इति वचनात् । तच्च सम्यकप्रतिपादितम् । अष्ट- मसर्गे संभोगवर्णनेन कुमारोत्पत्तेबिन्दूपक्षेपोऽपि का इति सर्वमनवद्यम् । यत्त्वत्र तारकासुरनिग्रहपर्यन्तं चिकीर्पितमिदं काव्यम् , निजसंभोगवर्णनेन कुपिताया देव्याः शापादसंपूर्ण जनितमिति कैश्चिदुक्तम् ; तदप्युक्तया रीत्या परिहतं वेदितव्यम् । कश्चिकीर्षाया एतत्पर्यन्तत्वस्य समर्थितत्वात् । देव्याः शापाभावं पुनरष्टमसर्गादौ निपुणमुपपादयिष्यामः” इति । अनेन विवरण- कारस्य वचनेन अष्टमसर्गावसाने 'सर्गोऽयं चरमो गुणैरचरमः --' इति तदुक्त्या च नवमादिकाः सर्गा विवरणकर्तुरगोचरा इति प्रतीत्या, ततोऽपि नवीनतराणीमानि पद्यजातानीत्यनमातुं शक्यते । अन्यथा ह्ययं विमर्शकाग्र- णीविवरणकारः कथं नामतान्सर्गानधिकृत्य एकमप्यक्षरं नात्मना प्रयुद्धे ! विवरणकर्ता नारायणपण्डितश्च इतो वर्षत्रिशत्या न प्राचीन इति तदीयान्मा- नमेयोदयग्रन्थादवसीयते । उणादिवत्तिपरिग्रहस्तु किमपि विशयं विशदय- 28 , तीत्यपि निवेदयामः । अपि च, अमादुपरितनान्सनात्मव्याख्यानेन असं. जीवयन्मल्लिनाथमहारायोऽवस्माकमनुकूल इत्यपि भावयामः ।। किं च कालिदासेन उचितेऽपि तत्तत्संदर्भ योऽयमाचारोऽन्यत्र तदन्थे निबद्धो न दृश्यते, तादृशं कमप्याचारं निरुञ्छनाख्यं नवीनकुमारसंभवे निबद्धं पश्यामः । यथा-'तस्योत्तरीयेण निजाम्बरेण निरुज्छनं चारु चकार शकः' (१३-१८) 'निरुञ्छनं चक्रुरथोत्तरीवैः' (१३-२१) इति । 'निरु- ञ्छनं परिवर्तनम् । चारु चकार । भ्रातृभावाधान्योन्धवस्त्रग्रहणं चक्रतुरि- त्यर्थः । तदुक्तं मेदिन्याम् --निरुञ्छनं बन्धुता वाससः परिवर्तनम्' इति । लोकेऽपि भ्रातृताये परस्परोष्णिग्बन्धनव्यवहारस्तद्वदत्रापीति । अनुशासनेन सामान्यतो वासोग्रहणेन प्रकृते उत्तरीयग्रहणं संगच्छते । लोकव्यवहारस्तु संप्रदायसिद्धः । उप्णिहि विशेषत्रैष्ठ्योपलम्भ एव व्यवहारमूलमिति मन्तव्यम् इति सीतारामो विवणुते । निरुञ्छनपदप्रयोगार्हसंदर्भेषु बहुषु सत्स्वपि सर्वा- त्मना तमुपेक्षमाणस्य प्राचो महाकवेः कालिदासस्य कृतिरियं नवमसर्गादिरिति नास्माकं हृदयमवगाहते ॥ ततश्च शब्दार्थादिविसंवादादश्लीलादपशव्दतः । इतिहासपुराणादिच्छायायाः पुनरुक्तितः ॥ अन्यैरस्मरणादत्र समाख्याचारयोर्बलात् । नवमादि नवीनं स्यादिति निश्चिन्महे वयम् ॥ प्र---अस्मिन्काव्ये के पुरुषार्थाः कविना प्रतिपादिताः ? उ--अत्रैवमुल्लिरवति विवरणकारः -'अस्मिन्काव्ये महाकविना देवयोस्तपश्चरणप्रतिपादनेन तपसः सकलपुरुषार्थसाधनत्वं प्रतिपादितम् । महाजनपरिभवः समूलनाशाय भवतीति व्युत्पादायतुं कामदहनवृत्तान्तो वर्णितः । सर्वोपकारक्षमं गार्हस्थ्यमेव परमं श्रेय इति दर्शयितुं विवाहवर्णनं कृतम् । देवस्य भक्तवश्यतां प्रतिपादयितुमष्टमसर्गे देव्या अनुत्तिर्वर्णिता । इत्थमस्मिन्काव्ये बहवः पुरुषार्था महाकविना प्रतिपादिता इति स्वयमूहनी- यम् ॥' इति ।

29 १ प्र-हिमवति विद्यमानानि कतिचन विशिष्टवस्तृनि निर्दिशत । -शिलाजतूनि, मनःशिलाः, ज्योतिर्लताः, देवदारवः, कस्तूरीमृगाः, चमर्यश्च सन्ति । प्र----- रतिः संभोगशृङ्गमररूपा उत्तमदेवताविषया न वर्णनीया ; तवर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्, इत्यालंकारिकाः । एवं स्थिते महाकविना कथमष्टमे सर्गे पार्वतीपरमेश्वरयोः संभोगशृङ्गारो वर्णितः ? उ - अत्रवं विलिरवति विवरणकारः . ." पार्वतीपरमेश्वरयोः शरीर. ग्रहणमात्रमपि लोकानुग्रहार्थमेव । यथोक्तं भगवना ---- विदितं वो यथ स्वार्था न मे काश्चित्प्रवृत्तयः' इति । देव्या अपि शरीरग्रहणादिक लोकानु- ग्रहार्थमेवेति देवीमाहात्म्यादिषु तत्र तत्र प्रतिपादिनन् । त्रिविधा हि लोके जनाः-मुक्ताः, मुमुक्षवः, सक्ताश्चेति । तत्र मुक्तानां कृतकृत्यत्वादेतयोलीला यितानां संचिन्तनश्रवणादिभि. परब्रह्मानुभवतुल्यकुल्यः परमालादो भवतीति अनुग्रहो भूयानेव । मुमुक्षूणां तु लीलायित श्रवणानुसंधानादिभिरन्तःकरण- शुद्धिरूपो महानुग्रहः स्पष्ट एव ! किं च महत र पि तपश्चरणैरुभाभ्यामपि तदनुग्रह एव कृतः, इत्थं कर्तव्यमित्युपदेशमात्र परवात्तयोस्तपश्चरणानाम् कामिनां तु चित्तावर्जनं संभोगशृङ्गारानुगृहीतकथाश्रवणेनैव सुकरमिति लीलागृहीतशरीरौ भगवन्ताविमं प्रकारमारब्धवन्तौ । येन केनापि प्रकारेण भगवति मनःप्रणिधानमेव मुक्तिकारणमित्युक्तं भागवते --'काम क्रोधं भयं स्नेहमैक्यं सौहृदमेव वा। नित्यं हरी विदधतो यान्ति तन्मयतां हि ले ।' इति । महाकविरपि कामिनां चित्तं पार्वतीपरमेश्वरपादारविन्दासक्तं विधानमेवाष्टमे सर्गे वात्स्यायनशास्त्रानुसारिणी पदवीमुररीचकार । तस्माल्लोकोत्तरलौकिक- नायकव्यवहारमखिलजनानुग्रहार्थमनुकुर्वतोरेतयोर्महानटयोस्तदनगुणानां प्रब- न्धानां निर्माणतद्व्याख्यान अवणादिभिरनुग्रह एव भूयानाविर्भवति । तदनु- बद्धानि वचनानि तु स्तुतावेव पर्यवस्वन्तीत्यलमतिप्रसङ्गेन ॥” इति । ध्वनिकारस्तु–'अव्युत्पत्तिकृतो दोषः शक्त्या संब्रियते कवेः' इत्यु- क्त्वा, 'महाकवीनामप्युत्तमदेवताविषयप्रसिद्धसंभोगशङ्गारनिबन्धनाद्यनौचित्यं शक्तितिरस्कृतत्वादाम्यत्वेन न प्रतिभासते; यथा--कुमारसंभवे देवीसंभोग- वर्णनम्' इत्याह ।

30
मध्यमशारवायां प्रथमकक्ष्या ।
शिशुपालवधः ।
.
प्र-महाकाव्यपश्चकं किम् !
उ---रघुवंशः, कुमारसंभवः, किरातार्जुनीयम् . शिशुपालवधः, नैषधी-
यचरितम् , इत्येतानि पञ्च महाकाव्यानि । केचित्तु कालिदासभारविमाघश्री-
हर्षभट्टीन्पच महाकवीन्परिगृह्य, तदीयानां रघुवंशकुमारसंभवमेघदूतकिरातार्जु-
नीयशिशुपालवधनैषधीयचरितरावणवधनाम्नां काव्यानां महाकाव्यत्वं प्रति-
पद्यन्ते ।
प्र माघकाव्ये कथाभागस्य मूलग्रन्थः कः !
उ --- महाभारतामिति कतिपये; भागवतमिति केचन वदन्ति ।
प्र-माघे कति सर्गा विद्यन्ते ?
उ---विशतिः सर्गाः।
प्र--महाकाव्यस्य किं लक्षणम् ? माघे विद्यते वा तत् ?
उ -'नगराणवशैलतुचन्द्रार्कोदयवर्णनम् ।
उद्यानसलिलक्रीडामधुपानरतोत्सवाः ।।
विप्रलम्भो विवाहश्च कुमारोदयवर्णनम् ।
मन्त्रद्यूतप्रयाणाजिनायकाभ्युदया अपि ॥
एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते ।'
इत्यालंकारिका महाकाव्यलक्षण मनन्ति । माघकाव्ये च तृतीये सर्गे
द्वारकानगरसमुद्रयोः, चतुर्थे रैवतकशैलस्य, पष्ठे ऋतूनाम् , नवमैकादशयो-
श्चन्द्रार्कोदयस्य, सप्तमाष्टमदशमेषु उद्यानसलिलक्रीडामधुपानरतोत्सवानाम् ,
द्वितीये मन्त्रस्य, सप्तदशे प्रयाणस्थ, अष्टादशैकोनविंशविशेषु आजेनीयका-
भ्युदयस्य च वर्णनान्महाकाव्यलक्षणं सुसमन्वितं भवति ।
प्र—अस्य कवेरभिमतोऽङ्कः कः ! एतदीयं विरुदं च किम् ?
उ ---- श्रीपदं तावदस्य संमतोऽङ्कः । प्रतिसर्गमन्तिमपद्ये नियमेनायं श्री-
पदं प्रयुक्छे । अयं च विषयः,
-

31 श्रीशब्दरम्पकृतसर्गसमाप्तिलक्ष्म लक्ष्मीपतेश्वरितकीर्तनमात्रचारु । तस्यात्मजः सुकविकीर्तिदुराशयादः काव्यं व्यधत्त शिशुपालवधाभिधानम् ।।' इनि ग्रन्थान्ते कविनव प्रकाशितः । विरुदं चास्य ‘घण्टामाघः' इति । अयं १ माघकविः, 'उदयति विततोवरश्मिर जा- वहिमकरे हिमधाम्नि यानि चास्तम् । वहति गिरिरयं विलम्बिघण्टा- द्वयपरिवारिनवारणेन्द्रलीलाम् ॥' इति वर्णन श्रवणसंजातसंमोदादरमेदुरैः सूरिभिः ‘घण्टामाघः' इति विरुदेन संभावित इति श्रूयते । प्र-शिशुपालवधकाव्यं किरातार्जुनीयस्थानुकरोतीति वक्तुं शक्यते वा! उ-किरातार्जुनीये भारविणा यादृशानि वर्णनानि कृपानि, प्रायेण तादृशान्येव शिशुपालवधेऽपि माघेन निबद्धानि । भारविकाव्य इव माघ. काव्येऽपि द्वितीयस्मिन्सर्गे नीतिशास्त्र सिद्धान्तो निपुणं निरूपितः । उभयो- रपि काव्ययोरादिमः सर्गों वंशस्थवृत्तेन श्रीशब्दमादितः कृत्वा समुपनिबद्धः । किरातार्जुनीये लक्ष्मीपदमङ्कलया विन्यस्यति भारविः; माघोऽपि शिशपालवधे श्रीशब्दमङ्कतया विनिवेशयति ! • तावद्भा भारवे ति यावन्माघस्य नोदयः ' इति च प्राचीना वार्ता । भारवेरवानीन यायं माघ इति प्रमाणान्तरेण प्रति- पन्नोऽयमर्थः । अतश्च माघो भारवेरनुकरोतीति युज्यते वक्तुम् । प्र-माघकाव्ये परिशील्यमाने, कवेरस्य केषु केषु शास्त्रेषु पाण्डित्यं स्पष्टीभवति! उ--एकैकस्मिन्नपि सर्गे, विशिष्य द्वितीये चतुर्दशे च विमृश्यमाने, बहुषु दर्शनेष्वस्थ समीचीना परिचितिरवगम्यते । विशेषतच सौगतदर्शने, नीतिशास्त्र, शब्दविद्यायाम , न्यायतन्त्रे, संगीतकलायाम् , अलंकारप्रस्थाने, . - 2 आयुर्वेद विस्तरे च सिद्धान्तरहस्यमर्मज्ञता स्फुटीभवति। तत्रापि पाणिनीये तन्त्रे परमोऽस्य पक्षपात इति द्वितीयः सर्गों निर्विचिकित्सं कथयति । प्र----माघमधिकृत्य यजानीथ, तल्लिरवत । उ-पुरा किल श्रीवर्मलाख्यस्य राज्ञः सुप्रभदेवनामा कश्चन सर्वाधि- कारी आसीत् । तस्य पुत्रो दत्तकः, तस्य सूनुरयं माघकविरिति काव्यान्ले योजितैः कविवंशवर्णनपद्यैरवगम्यते। अयं च माघो वैश्य इति श्रूयते । महापण्डितोऽयं धाराधिपतेीजस्य सभायामासीदिति भोजप्रबन्धे प्रबन्ध- चिन्तामणौ च विलिरिवतमवलोक्यते । प्रभावकचरितेऽपि चतुर्दशे शृङ्गे- नपः श्रीवर्मलाताख्यः शत्रुमर्मभिदाक्षमः । तस्य सुप्रभदेवोऽस्ति मन्त्री मिततपाः किल ।। तस्य पुत्रातुभावंसाविव विश्वभरक्षमी । आद्यो दत्तः स्फुरद्वृत्तो द्वितीय श्च शुभंकरः ।। दत्तवित्तोऽनुजीवियों दत्तचित्तसुधर्मधीः । तस्य श्रीभोजभूपालबालमित्रं कवीश्वरः ।। श्रीमावो नन्दनो बाह्मीस्यन्दनः शीलचन्दनः । ऐदयुगीनलोकस्य सारसारस्वतायितम् । शिशुपालवधं काव्यं प्रशस्तिर्यस्य शाश्वती ।' इति प्रभाचन्द्रेण निरूपितमिति क्लाटनामा पाश्चात्त्यपण्डितः प्रदर्शयति। धारानगराधिपतिभोजश्च क्रिस्तुसंवत्सरीये द्वादशशतके भुवमरक्षदिति केचन विश्वसन्ति । अन्ये तु एकादशशतके तत्सत्तामभिमन्यन्ते । विमर्शकास्तु ९५० क्रिस्तीयवत्सरादारभ्य १००२ इतिसंख्याकं कित्तीयवर्ष यावत् भुवं शशासेति निर्णयन्ति । तथा च अयं माघकविः क्रिरतीयदशमशताब्दीमध्य- भागान्न प्राचीन इति वदन्ति । अन्ये तु भोजप्रबन्धादिवचनं न कालनिर्णये प्रमाणीमवितुमर्हति । तत्र हि भोजराजस्य माहात्म्यनिरूपणे परं दृष्टिमाबधता केनापि बल्लालेन - - - प्राचीना अर्वाचीनाश्च कवय एकस्मिन्नेव सूत्रे प्रथिना: । कालिंदासं भवभूति वाणं माघ मल्लिनाथं चैककालिकं बिलियनो भोजप्रबन्धकवचनं कथं वयं विश्वस्याम । प्रभावकचरितमपि — बहुश्रुतमुनीशंभ्यः प्राग्यन्येभ्यश्च कानि. चित् । उपश्रुत्येतियत्तानि वर्णयिध्ये कियन्यपि ' इसी बन्यपद्येन किंवदन्ती- पामा पावलम्बन लिखितमि से जाननामस्माकं तदपि मायकालनिर्णये न पर्याप्तं प्रमाणम् । अयं पुनर्मावकविः, ' अनुत्सूत्रपदन्यामा सट्टातः सन्निबन्धना । शब्दविद्येव नो भाति राजनीतिर पम्पशा ।। इति द्वितीयसर्गस्थपद्ये वृत्तिन्याली स्मरति। मयते च काव्यालंकारसूत्र कृता वामनेन । काशिकात्तिश्च क्रिस्नीयष शब्दीपश्चिम भागे भारतखण्ड- मागतेन चोन यात्रिकेण तदा सुप्रति इत्युच्यते । तव्या व्यानरूपो न्यासग्रन्थ श्च किस्ती यषष्ठशताब्द्यामवीर्ण इति विश्वत्यो । काव्यालंकारसूत्रकी वामनश्च नयापी डस्य मन्त्री क्रितीयाष्टमश मान्यन्तिमभागे आसीदिति प्रमाणैः प्रमी- यते । अतोऽयं माघकविः क्रिीयाः पष्ठशताव्या न नावीनः, नायष्टम शताब्दीतो आचीन इति निर्ण पन्ति । , अत्रेदमवधेयम् ---माघेन स्मृताः काशिकायत्तेः कतुवीमनादन्य एव माघं स्मरन्काव्यालंकार सूत्रकर्ता वामनः । वृत्तिपदेन शाकटावनीयाया अमोधरत्तेः, न्यासशब्देन तद्व्याख्यानस्वासप्रन्यस्य व ग्रहणमिति के पां चन प्रयवस्थानं तु न स्वास्थति ; यतः अपस्पशा' इाने परवशाहिक स्मयते। पस्पशा च पाणिनी पस्य पतञ्जलिकृतस्य महामावस्पति सुस्पष्टं शाब्दिकानाम् । मल्लिनाथमहोपाध्यायोऽपि यासो वृत्तिव्याख्यानग्रन्थ विशेषः' इति, ‘वृत्तिः काशिकाख्यसूत्र पाख्यानअन्यविशेषः' इति च न्यासवृत्तिशब्दो व्याचष्टे। चीनयात्रिकेण प्रस्तुलाम पूर्णां काशिकावृत्तिमयं माघकविः स्मरनीति क्षोऽपि, न्यातप: स्वारस्यपालोचनायां स्वरततश्च न प्राबल्यपरिपूर्णः । एवं च : काव्यालंकारसूत्रवृत्ति नवनिनादन एवैष इति विषयोऽपि निःसंशयसमर्थनामतीबाकाङ्क्षते। प्रायशः क्रिस्ताब्दीये अष्टमे नवमे वा शतके काशिकावृत्तेः पूर्तिरासीदिति नवीनविचारणाविशारदानां मतम्' इति कस्यचन विमर्शकमूर्धन्यस्य वचनमपि नातीवादराहँ भवति ।

. प्र--- माघकवेः कवितामधिकृत्य युष्माकमाशयं विलिखन । उ---माघकवेः कवि ा न मालिदासस्येव केवलं प्रसन्नमधुरा ; नापि श्रीहर्षस्येव एकान्ततः कठिनतमा । न वा भारवेरिव प्रौढार्यप्रकाशा। परं तु · नैकमोजः प्रसादो वा रसभावविदः कवेः' इति तदुक्तरीत्या वर्णनीयविष- यारिवैलानुरोधेन काच प्रसन्ना, क्वचन ओजस्विनी च साधकवेः कविता भवति । वालव्युत्पादनापेसयापि स्वर। सकलदर्शनरहस्यवदितात्र- काशनमेव शिशुपालवधकाव्यनिर्माणस्य प्रधानं फलं मन्यमान इवायं माघ- कबिस्तत्र नत्र सांकेतिकानि प्रयुङानः पदानि, यथाकथंचिपमानादिभङ्गया ततच्छास्त्र सिद्धान्तसागस्तत्र तत्र संघटयन्, स्वकीयां निरर्गलपसरां.सरस्वती माकुलां कलयतीति वक्तव्यं भवति। मट्टिकविरिव इदंपरा नूनमप्रवृत्तोऽपि पाणिनीये कृतभूरिपरिश्रमोऽयं कविषण्डितो व्याकरणसंन्का विशेषपरिपूमानि प्रौढानि रमणीयानि च पदानि बहुशः संपथ्नन, पादलिया पक्षपातिनाम साधारणं व मानपात्रं मनाते पण्डिाना । —माजीव-गः इनि, 'तस्याज- ननिः' इति ‘हासकावटो' इत्येनंजातीयकाः संदर्भाननुचिताः प्रयोगा माघादितरत्र महाकविप्रबन्धे न खलु सुलभा भविष्यन्ति । प्रथमे 'माया- कोशे' इति तृतीये 'नत्रा नलोपस्तिङि क्षेगे' इति चोपसंख्यानम् , द्वितीये 'आक्रोश नज्यनिः' इति सूत्रं च प्रवतान्नयं माघो नृनमितरवैलक्षण्यमात्मनः संपादयति । 'शब्दार्थी सत्कविरिब द्ववं विद्वानपेक्षते' इत्यात्मना लिव- नपि, सौशब्द्यगुणे बहुमानभावहन्नसौ माघः शब्दे परं विशिष्य दृष्टिमा- बध्नाति । अनुप्राप्तयमकादिषु शब्दालंकारेषु, अथालंकारेषु विशिष्यो- त्प्रेक्षातिशयोक्तयोश्च महती प्रतिपत्ति धकवेः। अन्येषां कवीनामिव नास्य मायकवेर्यमकादिप्रयोगे, कश्चन सर्गः, कापि वर्णना, किमपि प्रकरणं वा प्रति नियतमवलोक्यते । बहुनिघण्टु परिशीलनार्थः प्रयासश्च प्रायेण माघकाव्यं परिचिन्वतां विद्यार्थिनां लधूभविष्यति । तथा रवल्वनेन महाकविना मुबहून्य- पूर्वाणि पदानि प्रयुज । इममेवाभिसंधि मनसिकृत्य — नवसर्ग गते माघे नवशड़ो न विद्यते' इभियुक्ताः प्रवदन्ति । दशममर्गमारभ्य प्रायेण वर्णनादीनि पुनरुक्तप्रामाणात्यभिप्रायेणैव केनापि ' नवतर्ग गते --' इति व्याजस्तुतिः कृतेति केचिदुच्छृङ्खलाः । - , - 35 मध्यमशारवायां प्रथमकक्ष्या। भोजचम्पः॥ , , । . प्र-भोजस्य जीवनसमयः कः? उ-शिलालेवदानपत्रादिदर्शनेन किन्तु संवत्तरेषु दशमशनकस्थान्तिमे एकादशशतकस्यादिमे च भाग जीवति स्मति ज्ञायते । प्र-भोजकानां ग्रन्थानराणां नामानि निर्दिशन । उ.-सरस्वतीकण्ठाभरणं नाम अलंकार मन्यः,पातञ्जलयोगमूत्रत्तिश्च भोजकृतत्वेन प्रसिध्यतः । प्र ---सुप्रसिद्धो धागनगराधिपतिरस्य चम्पान्यस्य कर्ता वा, उन अन्यो वेति सकारणं निश्चीयताम् । उ-कालिदासः पद्यानि, गधानि भोजश्च त्रियामासंति किंवदन्ती । सरस्वतीकण्ठाभरण रामायणचम्पूप्रबन्धादकमाप पधं नोद्भत्यांदाहतम् । प्रायेण हि सर्वेऽप्यालंकारिका उचितेषु संदर्भष, वा मम ----' इति स्वकीयं पद्यमुदाहरन्तो दृश्यन्ते । न व सरस्वतीकण्ठाभरणे तथा । अतः परस्वती- कण्ठाभरणकर्ता सुप्रपिहो भोजो नास्य चम्पयन्वर रवायतति केवन विमर्शका मन्यन्ते ॥ प्र---चम्पूग्रन्थनिर्माणे किं निमित्त मुत्पश्यति कविः ? 'गद्यानुबन्धरस चम्पूप्रवन्धरचनां रतन दीया ।।' इति कविरेव कथयति । प्र--इयं चम्पू रामायणमनसृत्यैव निर्मितीत कविनैव स्वनं किमपि कियते वा वाल्मीकिगीतरघुपुंगवकीर्तिलेशः इति प्रथमतो वदन्नयं कविः, श्रीमति रामायणे स्थितमयोध्यादिकाण्डप्रथमपद्यपथमपदमव खयमापि आदितो निवेश्य, अयोध्यादिकाण्डानात्मनाप्यारभते; यथा कुलम् - ...' इति रामायणायोध्याकाण्डारम्भः, आस्मन् चम्पूप्रबन्धेऽपि, गच्छता दशरथेन निर्वतिम -- ' इति तदारम्भः । एवमुत्तरत्रापि द्रष्टव्यम् । उ . . उ ' गच्छता मातुल- 36 , प्र ---सुपथा संचरमाणाः, शीकरमालभारि, क्षणदाचरामा मिषतामेव निष्पादित . पिधातुमनसाम, अत्र व्याकरणटिप्पणी दीयताम् । उ- सुपथा इत्यत्र 'क्यूर 'ऋक्पूरप -- ' इति समासान्तः अप्रत्ययों न भवति, 'न पूजनात् ' इति निषेधात् । तेनैव तृतीयान्न गोगात् संपर्वकचर- धानोरात्मनेपदं शान--संचरमाणा इति। 'समस्तृतीयायुक्तात् ' इति पाणिनीयं सूत्रम् । शीकरमालां बिभर्तीति विग्रहे पारिशब्द परत. मालाशब्दन। हस्वो भवति । 'इकेषीकामालानां चितल भारिषु इति पाणिनेः सूत्रम् । क्षणदाचराणां मिषतामेवेत्यत्र ‘पछी चानादरे ' इति मूत्रण पर्छ ! मिषतः क्षणदाचराननादृत्येत्यर्थः । पिधात्मनसामित्यत्र पिधातुं मनः नेपा ते तेपामिति विग्रहः कार्यः । अपिपूर्वकात् 'धा' पाला: तुमुनि आपधातुमित्यत्र, वष्टि भागरिरल्लोपभवाप्यो- रुपसर्गयोः' इति अकारलोपे विधानुमिति रूपम्। नतः मनः।उदे परतः 'तुं काममनसोरपि' इति नुमुनो मकारलोपः । -- मध्यमशान्तायां द्वितीयकक्ष्या । किरातार्जनीयम् ॥ प्र--- भारविमाधिकृत्य वजानीथ, तल्लिखन उ.--भारविल्य एव सुप्रसिद्धः पण्डितो बभूव । सर्वेऽपि तमतित प्रशंसावादैरभ्यनन्दन । तस्य पिता परं विनयातिशयमभिलषन , सर्वदापि मूर्वपिन तमधिक्षेपाक्षरैयाकुलयामास । तं चासकृदधिक्षेपमसहमानो भारविः, स्वपितरं शिलापातेन हनिप्यामीनि संकल्प्य, कदाचिन्निशीथिन्यां पितुः शयनगृहोपरि निगूढमवस्थाय, पूर्वमेवानीता करे कृतां महती शिलां पितुः शिरसि पातयितु कालं प्रतीक्षामाणोऽवर्तत । तदानी च पित्रोविस्तब्धं किमपि किमपि जल्पतो रविषियो प्रभ्यन्तरः संवृत्तः । तदा च पितुरान्तरमभि.

प्रायमवगत्य नितारामनुशाविष्ट योऽसी भारत्रिः कथंचिदात्मानमवष्टभ्य, गृहोपरिभागादवरुह्य, आत्मी पमन्याय भिसंधिवपणावं च विज्ञाप्य सर्वात्मना पितरं क्षमामयाचत । ततश्च तुझेन जनकेन 'सहसा विदधीन न क्रियामविवकः परमापदां पदम् । वृणो हि विमृश्यकारिणं गुणलव्याः स्वयमेव संपदः ।।' इति पद्यमप्युपदिश्य, महभिराशीभिभिवविता भूदयं महाकवि रविः । अस एव तदिदं पद्यम् ; एकानयष्टिपद्यवटि द्वितीय सर्ग वार इव नायकमणिस्त्रिशश्लोकत्वन महाकविना विनियोजितमिति एनिह्यवादिनो वदन्ति । भारविश्वायम् वनायोजि नव मस्थिमर्थविधा विकिना जिनवेश्न । स विजयतां रविकीर्तिः कविताश्रितालिकालमागविकीर्तिः ।।' इति कस्मिश्चन प्राचीनलवे भर्यने । अयं च ल व शालक्यबंशावर। पुल- केशिनृपतेरिति ज्ञायते । एतल्लेवलेवनकालश्च सप्तपत्राशदधिकशततं. ख्यापरािमेतः (५५७ शकवर्षाः) शकसंवत्सर इति किती वर्षेषु प-पत्रिंश- दधिकषट्शततम इति (६३५ .. !)) सिध्यति । कालिदास समकक्ष्यतारो. हणम , उपमान या परिग्रहश्य कस्य वन न खलु सद्य एवं संभवतीति कियानिव प्राचीन: कालाऽप्यपक्षणीय इति वस्तनाच्ये विमृश्यमाने, धारविश्यं महाकविः क्रिस्तीयषष्ठशताव्यन्तिमभागान्नार्याचीन इति निवेशक्यत इति विमर्शका विश्वसन्ति । अस्य च भारवेः 'छत्रभारविः' इति विरुदमपि प्रसिद्धमासीत् । तस्य च मूलम काव्यस्थास्य पञ्चमे सर्गे 'उत्फुलस्थलनलिनीवनादमु मादुडूतः सरमिजसंभवः पगमः । वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयात पत्रलक्ष्मीम् ॥ इति सरसमधुरोत्प्रेक्षामनोहरं पद्यमिति कथयनित : प्र--भारवेरभिमतं उत्तम् , अङ्गः, अलंकारश्च किम् ? उ---' वृत्तच्छत्रस्य सा कापि वंशस्थस्य विचित्रता । प्रतिभा भारवेयन सच्छायेनाधिकीकता ॥

38 इति सुवृत्ततिलके क्षेमेन्द्रः । अतोऽस्य भारवेशस्थवृत्तमभिमतं स्थादिति तर्कयन्ति । लक्ष्मीपदमस्याभिमतो । अयं हि भारविः प्रतिसर्गमन्तिमे पद्ये नियमेन लक्ष्मीपदं प्रयुङ्क्ते । अत एवास्य किरातार्जुनीयकाव्यस्य 'लक्ष्म्यङ्कम् इति व्यपदेशोऽपि प्रथते । अलंकारस्तु अर्थान्तरन्यास एवाभिमत इति संभावयन्ति । यतोऽयं भूयसा तमेनमलंकारमतिरमणीयमात्मकाव्यमापयति । प्र----एतत्काव्यकथाभागस्य आकरग्रन्थः कः? उ---महाभारतम.। इयं हि पाशुपतास्त्रस्वीकरणकथा श्रीमति महाभारते वनपर्वणि श्रूयते । प्र- अस्मिन् काव्ये कति सर्गा विद्यन्ते ? उ---अष्टादश सर्गाः सन्ति । प्र----महाकाव्यलक्षणं किम् ? अस्मिन्काव्ये तल्लक्षणमस्ति वा! उ-'नगराणवशैलतचन्द्रार्कोदयवर्णनम् । उद्यानसाललक्रीडामधुपानरलोत्सवाः ।। विप्रलम्भो विवाहश्व कुमारोदयवर्णनम् । यकाभ्युदया आप ॥ एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते ।' इति महाकाव्यलक्षणमामनन्ति । प्रथमद्वितीययोर्मन्त्रस्य, चतुर्थे शरढतोः, पञ्चमे हिमाद्रेः, अष्टमे उद्यानसलिलक्रीडयोः, नवमे चन्द्रार्कोदयमधुपान- रतोत्सवानाम् , पञ्चदशादिषु सर्गषु आजिनायकाभ्युदययोश्च वर्णनादिदं महाकाव्यमेव । अत्र केषांचन वर्णनानामभावेऽपि महाकाव्यत्वं न हीयते, 'एषामष्टादशानां यैः कैश्चिदूनमपीप्यते' इति लक्षणकारैरभिधानात् । प्र--एतत्काव्यमनुसत्यैव माघकविः शिशुपालवधकाव्यं विरचयामासेति विश्वस्यते । अत्र युष्माकमभिप्रायः कः ? उ-माघकविः किरातार्जुनीयमनुरुध्यैव स्वकाव्यं निर्मम इति संभावना युज्यत एव; यतो माघकविरिविरिव स्वकाव्यं श्रीशब्दमादौ विनिवेश्य मन्त्रद्यूतप्रयाणाजिना 39 वंशस्थवृत्तेन प्रक्रमने । 'श्रियः कुरूणाम्' इति, ‘श्रियः पतिः' इति च किलोभयोरपि काययोरारम्भः । द्वितीये च सर्गे उभयोरपि काव्ययो- नीतिशास्त्ररहस्यं रस्वतया विन्यस्यते । महाकाव्यवापादकानि कतिवन वर्णनानि चोभयोरप्ये फोदराण्युपलभ्यने । भारविः स्वकाव्ये लक्ष्मीपदमिव माघोऽपि शिशुपालवधे श्रीपदनतया विनिवेशशी । 'भारवेस्तु कथा तावद्यावन्माघस्य नोदयः' इति च प्राचीना वार्ता । अतश्च मावो भारवि-. मनुसरतीति व्यक्तम् प्र----किरातार्जुनीयमिति काव्यनानः औचित्यं विचारयत । उ --किरातो नाम किरातवेषधारी भगवान्भूतनाथः । किरातश्च अर्जु- नश्च किरातार्जुनी, लाबधिकृत्य कृतं काव्यं किरातार्जुनीयम् । पाशुपतास्त्र- मधिगन्तुं तपस्वतो मध्यमपाण्डवस्य, तद्भुदयपरीक्षाद्यर्थ किरातवेषमास्थित- वतः परमेश्वरस्य च चरितमत्र संग्रथ्यत इति काव्यनामधेयमुचितमेव । प्र.----भारवेः कवित्वयोग्यतां प्रति युप्माकमाशयं विलिवन । उ.--शब्दार्थयोरुभयोर येककालं दृष्टिं निक्षिपद्भिर्वाचीनैः कविमि कतानां काव्यानां स्वरूपावगमार, त्र नवीन प्रस्थान परिग्रहप्रथमावस्था परिज्ञानाय चेदं काव्यं कल्पनेति वचनं न खल्वसांत्रतं भवति । महाकवेर- वश्यकानि तत्तत्पदपदार्थसंघटनचातुम् , आरव्य न्याङ्गिनो रसस्न र सान्तरै- रनभिभूयमान का निर्वहणम् , तत्तद्वस्तुयाथार्थ्यतमीक्षणम् , सूक्ष्माणामपि तात- त्कालिकानां मनोविकाराणामबधारणम् , तत्तत्संदर्भानुगुणानामलं कारणामा योजनम् , उक्तिप्रत्युक्तिवैचित्र्यविन्यसनम् , इत्यादीनि उपकरणानि चारिम- काव्ये तत्र तत्र प्रस्फुटानि परिलत्यन्ते । अस्मिश्च काव्ये पदानि न नैषध- काव्य इव केवलं कठिनानि, नापि कालिदासकाव्य इव एकान्ततः सर- लानि ; परं तु प्रसन्नौजस्वीनि । यावदर्थपदैवावगम्यतेऽस्य कविताशिल्प सरणिः । एकैकमप्यत्र पदं पद्यं वा बहूनानासूत्रयदेव परिदृश्यते । वर्णनादिषु च नायं कविः सहृदयोरेगकरी दीर्घदर्षितामाश्रयति । उत्तमोत्त- ममुपमानिवन्धनमपि कालिदालसंनिकर्षमत्त्य कवेरप्रयासं संपादयति । परि- दृश्यमानस्य पदार्थजातस्य स्वरूपस्वभाववर्णने त्वयं कविर्भवभूतिमप्या शेत इत्यत्र चतुर्थसर्गस्थं ग्रामोपशल्यक्षेत्रादिवर्णनमेव परमं प्रमाणं भवितुमर्हति । . , .

40 युधिष्ठिर भीमतेनयोः, इन्द्रार्जुनयोः, कुमारपाण्डवयोश्च उक्तिप्रत्युक्तिवैचित्र्यं पश्यतां सहृदयानाम अयं भारविरपरो बाण इत्येव नियतं प्रतिभास्यति चेतास। यमकबन्धमो पञ्चदशे सर्गे परिक्रीडमानाप्यस्य कविता नातीव नैसर्गिक- परिस्यन्दपद्धतिमतिवर्त । अस्मिश्च काव्ये रसालपाकमास्वाद बन्नो विमर्श- काः 'नालिकेरफलसंमितं वचो भारवेः' इति वदनं मल्लिनाथम श्रद्धेयवचन- माकलयन्ति । प्र.---' भारवेरर्धगौरवा' इति प्रबादस्य कोऽभिप्रायः ? इदं च सनि- , दर्शनं स्फुठयत । . उ-संक्षिप्तपदानामपि पद्यानां बह्वर्थगर्भितत्वम , वर्ण्यमानस्वार्थस्य अक्षुद्रत्वं चार्थगौरवमित्यभिप्रयन्ति कतिपये । केचित्तु अर्थान्तरन्यासमाहमैव तदिति संगिरन्ते । तत्र प्रथमकल्पे निरत्ययं साम न दानवर्जितम्- 'द्विषतामुदयः सुमेधता गुरुरस्वन्ततर: सुमर्पणः-...' ' अद्य क्रियाः कामदुघाः क्रतनाम् इत्यादीनि निदर्शनानि । द्वितीयपक्षे तु.--'हितं मनोहारि च दुर्लभं वचः' 'विपदन्ता ह्यविनीनसंपदः' इत्यादीनि निदर्शनानि । प्र-अत्र काव्ये किं नाम फलं प्रधानभूतमभिमतम् ? .. उ---अत्रच - नेता मध्यम पाण्डवो भगवतो नारायणस्यांशज- स्तस्योत्कर्षकृत त्ववर्ण्यततरां दिव्यः किरातः पुनः । शृङ्गारादिरसोऽङ्गमत्र बिजवी वीरः प्रधानो रतः शैलाद्यानि च वर्णितानि बहुशो दिव्यास्त्रलाभः फलम् ॥' प्र----काव्येन ईदृशेन आव्यमिति, स्वकीयं काव्यमीदशमिाते वा यत्र कुत्राप्यपि नाम सूचयति महाकविरयं भारविः ? उ-द्वितीयसर्ग-- स्फुटता न पदैर पाकता न च न स्वीकतमर्थगौरवम् । रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ॥ उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः । इदमीढगनीदगाशयः प्रसभं वक्तुमुपक्रमेत कः ।' .

इत्यनेन, नथा एकादशे सर्गे-
'प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् ।
साकाङ्कमनुपस्कारं विष्वग्गति निराकुलम् ।।
न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे ।
अप्रकम्प्यतयान्येषामाम्नायवचनोपमम् ।।
अलङ्घयत्वाजनैरन्यैः क्षुभिनोदन्वर्जितम् ।
औदार्यादर्थसंपत्तेः शान्तं चित्तमृषेरिव ।।
इदमीटग्गुणोपेतं लब्धाव परसाधनम् ।
व्याकुर्यात्कः प्रि वाक्यं वो वक्ता नेहगाशयः !'
इत्यनेन च ईदृशगुणोपेनगेत्र कामिनि, वकी। च काव्यमीढग्गुणोपेत.
मिति च सूचयति भारविरिति सहृदयसमाजो मन्यते ।
मध्यमशाखायां द्वितीयकदया।
भारतचम्पः।
प्र--- चम्पूग्रन्थस्य कि लक्षणम् ! अन्यांस्त्रीन चम्पग्रन्थान नाम्ना
निर्दिशत।
उ- गद्य पद्यमयं काव्यं चम्परित्यभिधीयते' इति चम्पलक्षणमाहुः
भोजचम्पः, भागवतरम्पः, नलबम्पू:, इत्यादयश्चम्पग्रन्थाः प्रासेद्वाः ।
प्र--- अनन्तभट्टचरितं यावदवगतं विलिखत ।
उ-- भोजकृतस्य रामायणचम्पूप्रबन्धस्य शेष पूरितवन्नं युद्धकाण्डका
लक्ष्मणसूरि परिहसितुं प्रववृतेऽयमनन्तभट्टः । तदा लक्ष्मणसूरिः ‘गच्छत एव
हि स्खलनम,
तिष्ठतः । त्वं हि स्वयं किमपि वाङ्मयम सृजन , किमि
त्येवं परपरिवादाय प्रवृत्तोऽसि । अस्ति चेत् तव कवित्वकौशलम् , प्रदर्थतां
तत्' इति सक्रोधमनन्तभट्टमधिविक्षेप । तथा पुनरधिक्षिप्तोऽयमनन्तभट्टः,
तत्संघर्षेणेमं भारतचम्पूग्रन्थं निर्मितवानिति रद्धपण्डितपरंपरा विश्वसिति ।
किं चायमनन्तभट्टः प्रथमे वयसि नितरामज्ञ आसीत् । कदाचित् सह भ्रातृ-
भिः पण्डितैर्भुञ्जानोऽयमनन्तभट्टः, दध्यानयनाभिलाषेण स्वपत्नीम् ‘दधिमानय'
न
तु
.

42 इति वदन् भातृणामुच्चैहो तस्य निमित्त बभव । तदवागत्य नितान्नं दुःग्यमापना विदुषी अनन्तभट्टपत्नी पानयनं मास्तु' इति स्वपतिनोक्तमिति वाक्यन्ती 'दधि मा आनय' इति तत्र पदच्छेदं सूचयन्ती, लक्रमानीय पर्यवषयत् । अवलोक्य चेदमन्ये भ्रातरः स्वेषामेव स्वलितं मन्वाना ब्रीडाविलक्षा बभूवुः । भोजनानन्तरं च सर्वमिदमात्मदारेरखगमितोऽयमनन्तभट्टः, तदानीमेव देशान्तर प्रस्थाय तत्र सर्वाः कला आधिगत्य तत्र तत्र राजकुलेषु सभाजितः स्वीयमा- वासमाससादति दाक्षिणात्यपण्डितमण्डले कापि किंवदन्ती अद्यापि विद्यो- . तते। .. प्र-अस्य कावेरीतिः कीदृशीति सनिदर्शनं परीक्ष्यताम् । उ-अयमनन्तभट्टः, अनुपाल पमकादिषु शब्दालंकारेषु भूगासी श्रद्धां प्रदर्शयति । पद्यापेक्षयापि गये भूयान् शब्दालंकारा हरः परिदृश्यते । अर्थालंकारप्वपि उत्प्रेक्षातिशयोक्तयोरेव महती प्रतिपलिरत्रलोक पते। अतिशयो क्तिश्च प्रायेग न मनोरमा। प्रतिपादं द्वितीयाक्षरैक पसंपाइने च महदस्य कुतूहलं पश्यामः । पदानि च प्रायेण नाप्रयुक्तानि, नापि परुषाणि ; परं सरलानि, संदर्भोचि सानि च। बहुत्र च वर्णनानि रमणीयतराणि। करणं ताव. न्मृधातुप्रयोगं विनैव भङ्गयन्तरेण प्रतिपादनीचामत्येवं बद्ध दीक्ष इवावमाभाति । च्युतसंस्कारदोषोऽपि तत्र तत्रोपलक्ष्योऽस्य कवितायाम् । प्रसादाद्यपेक्षयापि ओजोगुण एवात्र समाधिकः संदृश्यते । — करटमदधुनीलोलकल्लोलमालारवे- लल्लोलम्बकोलाहलमुरवरितदिक्चक्रवालान्तरालम्,' 'आविलहरिदन्तरनिरन्तर- वलमानमलयपवमानकम्पितचम्पकसंपादितसौरभसंपदनुकम्पितनिलिम्पपथाः' 'कुरवके रवकेलिभृतः सुधासमधुरं मधुरं मध षट्पदाः। पपुरवापुरवार्यमपि स्मयं नृपवने पवनेरितपादपे॥” इत्यादिषु अनुप्रासयमकयौरवस्थितिरवलोकनीया। 'कुरङ्गयूनां कुरुते स्म भीतिं गुरोः कुलस्यामृतदीधितर्नः । सजातिरेषां तनुते कलङ्कमितीव रोपादिषुभिः स पाण्डुः ॥' इत्यादावुत्प्रेक्षा, चित्रं दिदर्शयिषुणा जनितस्य यस्यां मध्यं विनैव विधिना महिलाजनस्य । अङ्गं नितम्बजघनादि यतो यतोऽधस्तुङ्गं कुचाद्युपरि याति ततोऽनकुलम् ॥' इत्या- दावतिशयोक्तिश्च रमणीया। यत्राङ्गनावदनयामवतीशहप्यच्चन्द्राश्मसौध- गलितः सलिलप्रवाहः। वृन्दारकेन्द्रनगरीबृहदुत्सवाय मन्दाकिनीति लभते 43 . - ------ " . महनीमभिख्याम् ॥ आलापकालसमपल्लविताकवीणासोरभ्यपातिमधु- पारवसंकुलस्य । तन्त्रीस्वनस्य समितौ तरुणीस्वरस्य जानाति गत्र चनुरोऽपि न तारतम्यम् ॥' इत्यादावतिशयोक्तिस्तु न मनो रमयति । 'क्षोणीपतौ मदकलं प्रति कृष्णसारं तूणीम वे पतितपाणिन वाङ्कुरेऽस्मिन । एणीकुलानि तालैर्यमुनाजलानां वेणीमित्राक्षिवलनैविपिन वितेनुः ।। ' इत्यादिषु द्वितीना- क्ष'प्रासगमणी पकमवगन्तव्यम् । 'व्यत्यास्थतां ताविव गौनकैस्ते ' इत्यादौ गतसंस्कारदोषोऽप्युपलभते । हिडिम्बमेनं यमराजधानीक डम्बिमुख्यं कु- रुत स्म भीमः' इत्यवंप्राया गमनिकैब मरणविषये उपयुज्यते । पदसारल्यस्थ, ओजोगुणस्थ, वर्णनानैपुणस्य व पूर्वोदाहनानि पद्यान्येव निदर्शनतामुपगच्छ. न्ति । इत्थं सर्वतोऽपि विमृश्यमाने, भारतचम्पूरि समीचीनेषु चम्पूग्रन्थेषु परिगणनामहतीत्येव वक्तव्यं भवात। प्र-तल्यार्थे पर्यवसायिनौ ही प्रत्ययौ विलिवत । उ-कल्पप्प्रत्ययः, देश् प्रत्ययः, देशीवप्रत्ययो वा । प्र-- माध्वीलिहः पूर्वामवोपयाताः' इत्युत्प्रेक्षा कथं संघटत, ‘वरणे चम्पकमालिका वितेने' इत्युत्तरत्र वक्ष्यमाणत्वात् । श्रपर बम्पकचोविरोधश्च कविसमयासद्धः । तथा च कवयः-' न पट्पदो गन्धफलीमाजिवत् । ' इति, रूपसौरभसमृद्धिसमेतं चम्पकं प्रति ययुर्न मिलिन्दाः । ' इति च । उ--अत्र विषये एवं लिरवति व्याख्याता रामचन्द्रः -- यद्यपि वरण मालायाचम्पकत्वेन कटाक्षाणां भावितदपेक्षाहेतुकमधुकरत्वोत्प्रेक्षा विरुध्यते, चम्पकानां मधुकरमारकत्वेन प्रसिद्धेः ; तथापि तदानीं त इभावेन पुप्पमाला- त्वेन तदवतरणस्। पूर्व मधुकराणामाशाजनने वाधकाभावान्न क्षतिरिति कवेराकूतमिति ध्येयम् ' इति । परे तु कविसमयोऽपि बहुत्र भिद्यत एव । तथा च रात्रावेव उत्पल- स्योल्लासः' इति विश्वत्र विख्यातेऽपि कविसमये, तद्विपरीततयापि कविसमय- मवबोधयन्नाचार्यदण्डी ' इति ज्योत्स्नोत्पलायोगादयोगं नाम रूपकम् ' इति काव्यादर्श ज्योत्स्नोत्पलयोविरोधमभिप्रेति । एवमेव रामायणे पम्पासरोवर्ण- नावसरे दिवा पद्मानां निमीलनम्, उत्पलानामुल्लास च निवध्यमानं पश्यामः । तथा कवितार्किकसिंहोऽपि यादवाभ्युदये यमुनावर्णनप्रकरणे इमामेव पद्धति- .

44 । मात्मनाप्यनुसरति । एवमत्रापि विषये कवितभयं द्विधा व यमुपलभामहे तथा च कव: प्रबन्नन्ति --- वेत्रत्वचा तुल रुचां वधूनां कर्णानतो गण्ड- तलागतानि। भृङ्गाः सलीलं यदि नापतिप्यन्कोऽवेदयिष्यन्नवचम्पकानि ।।" इति। श्रीहर्षोऽपि नैषधकाव्ये---विचिन्वतीः पान्थपतङ्गहिंसनैरपुण्य- कर्माण्यलिकज्जलच्छलात् । व्यलोकयचम्पककोरकालीः स शम्बरारेबलिदी. पिका इव ।।' इति चम्पकेषु भ्रमरसत्तां वर्गपति : अतोऽत्र न कोऽपि कविसमयविरोध इत्याहुः 'चम्पकोपरि भ्रमरो न तिष्ठगीत केचित्। तत्र तिष्ठति। परं तु म्रियत इाने प्रमाणिकाः' इति पूर्वोक्तनैषधपद्यव्याख्यानावसरे श्रीमान्नारायण- भट्टो विलिावति । 'अलिश्रिया कुवलम् -' इति नैषधप्रथमसर्गस्थपद्यव्याख्या- नावसरेमल्लिनाथोऽप्येवमेव निरूपयति । मध्यमशावायां द्वितीयकक्ष्या ॥ मेघसंदेशः ॥ प्र----मेघसंदेशरीतिमनुसृत्य कृतेषु संदेशकाव्येषु द्वयोर्नाम निर्दिशत। उ----श्रीवेदान्तदेशिकविरचितो हंससंदेशः, उद्दण्डशास्त्रिविरचितः कोकिलसंदेशश्च मेघसंदेशोपजीविनौ ।। प्र---प्रायेण संदेशकाव्येष मन्दाक्रान्तावृत्तादरणे को नु हेतुः स्यात् ? उ.---मन्दाक्रान्तायां प्रतिपादं प्रथमतः चतुर्पु, पश्चात् षट्सु, परास्ताच्च . सप्तस्वक्षरेषु यतेविद्यमानतया विरहविक्लबस्य नायकस्य संदेशावसरे क्रमेण किंचिद्विलम्ब्य विलम्ब्य निश्वासविच्छेदः सुकर इति तदिदं वृत्तमानुभवि- केन कविना समनुसृतमिति बदन्ति । अधिकं तु अस्मदीयविद्युल्लताभूमि- कायामवसेयम् ॥ हनुमत्संदेशं मनसि निधाय कविः काव्यं कृतवानित्याहुः" इति मल्लिनाथः। अत्र युष्माकमाभिप्रायः कः ? उ-महाकवयो हि गूढतया वापि महापुरुषवर्णनाभिसधिं विना यत्किञ्चि. द्वर्णयितुं न प्रवर्तेरन् । कालिदासश्च स्वकीयमान्तरमभिसंधि प्रदर्शयितुकाम प्र.

45 एव 'जनकतनयास्नान पुण्योदकेषु' 'रामागर्याश्रमेषु' 'घुपतिपदैरङ्कितम्' 'दशमुखभुजोच्छवातितप्रस्थसधेः' ' इत्यारूपाते पवनतनय मैथिलीवोन्मुखी सा' इत्यनेकत्र रामा पणं स्मराति । किच, रामायणोक्तमेव हनूमतो गज- पर्वतशृङ्गादिसाढश्यं कामरूपत्वं च मेघे प्यत्र योजयति। सुग्रीवकथितं वानरगमनमार्गमनुस्मारगति । सुवेरस्थितां लङ्काषिव कैलासंपधिष्ठितामलकामा- लो चयति । हनूमतो लङ्कायामिव मंघस्यालकायां सा प्रवेशं समर्थयति । ह[मत इव गत्रौ ननुतनूकरणपूर्वकं मेघस्य संदेशार्थकथनं संगमयति । अशोकवनिकामध्यवर्तिन्या अशरणाया जानक्या अतिकरुणामवस्थां वण यन्तमनुमृत्य वाल्मीकिम्, अन्यूनाननिरिक्तं तदुक्तानि मैथिलीविशेषणान्येव प्रकृतेऽपि नायिकायां घटयान । संदेशप्रवकस्थितमेवाभिज्ञानदानमत्राप्यन्त भावयति। ततश्च महाकवेमनासे हनूमत्संदेशो नियतं विपरिबर्तन इति तर्कयितुं शक्यते । अधिकं तु विद्युल्लताभूमि काम !! प्र - मेघतंदेशेन कानि काव्यफलानि निध्येयुः ? उ-अत्रैवं विलिरवति पूर्णसरस्वती-अत्र तावन्मृदलसम्सचेतसा व्युत्पाद्यानामक्लेशेनैव विशिष्टशब्दार्थव्यत्पत्ति , नत्तद्देशाविशेषव्यवहारवेद- नम् , पुण्यतीर्थदेवनायतनादिसंकीर्तनेन दुरितक्षरः, कीर्तिरलघी पसी, राजादि- वल्लभतया द्रविणसंपत्तिः, कामसूत्रादिविद्यासु गीतादिकलासु च कौशलम, संभोगविप्रलम्भरूपशृङ्गारसागरकर्णधारत्वम् , सहृदय इति सदास सत्कृतिः, मन्दीकनपरब्रह्मानन्दसंदोहश्च रसास्वाद इति परःशतानि प्रयोजनानि । किं च सकलपुमर्थसाधनसमर्थमुपदेशरत्नं व ; यया-महात्मनो पि यक्षस्य महिलासङ्गतरङ्गितानङ्गरस पार सन्त्र्यस्य स्वाधिकारप्रमाः, तेन स्वामिकोपः, तस्माच्छापोपलम्भः, ततः स्वमहिमभ्रंशः, प्रियावियोगवेदनासंतानान भववेत्य नर्थपरंपरा संपतिता! अतो विषयष्वतिसक्तिरनायेति ।। , . - प्र -कालिदासस्य जन्मभूमिम् ; स्त्रीविद्याभ्यासं चाधिकृत्य अस्मात्का- व्याकिं नाम हितुं शक्यते ? उ-कालिदासस्य जन्मभूमिरुञ्जयिनी ते उहितं शक्यते । यतस्तां नगरी स्थलान्तरप्वकृतेन विस्तरेण परिचिततत्तत्प्रदेश इव वर्णया। 'वक्र.

46 पन्थाः--' इत्यादिना कियन्तमप्यध्वश्रममविगणय्या यवश्यं भेघेन गन्तव्य- मिति प्रार्थयते, प्रोत्साहयाते च। स्त्रीविद्याभ्यासस्तदा समीचीन आसी- दित्यनुमातुं पार्यते। 'उत्सङ्गे वा--' इति पद्ये ‘मद्गोत्राएं विरचितपदं गेयमुद्गातुकामा' इति यक्षस्त्रियं कवयित्री खलु निरूपयति । शेषान्मातान्त्रिाहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः इत्युक्तत्वात्पठनपाठनादिकं तदा स्त्रीणां नासीदित्यूह्यते इति केषांचना- शयस्तु नास्माकं हृदयमाधिरोहति ॥ प्र-धूमज्योतिःसलिलमरुत्संनिपातात्मकस्य मेघस्य केन केनांशेन कुत्र- कुवोपयोगः समजनि? उ.- धूमोद्गारानुक्रतिनिपुणाः' इति, “विद्युन्मेषदृष्टिम् ' इति, 'सौदामन्या कनकनिकपस्निग्धया दर्शयाम्'ि इति, ' त्वामातारप्रशमितवनो. पप्लवम् ' इति, ‘अर्हस्थेनं शमयितुमलं वारिधारासहस्रः' इति, 'तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन' इति चोपयोग कविरेव प्रकाश पति ।। प्र---ऋतुर जं वसन्तं विहाय, हस्ते लीलाकमलम्' इति शरदः प्रथम ग्रहणे को नाम हेतुः? उ~-शरत्काल एवं यक्षस्य शापः । यतो वर्षभोग्यस्य शापस्यावसान- समयं शार्ङ्गपाणेर्भुजगशयनादुत्थानकालमेव यक्षो निर्दिशी । उत्थानका- दशी च कार्तिकमासे । 'परिण शिरच्चन्द्रिकासु क्षपासु' इत्युपरिष्टावक्ष्यति च । अतो यक्षस्य मनप्ति शरदेवोपस्थिता । 'या वः काले--' इात पूर्वपद्ये वर्षोंः स्मरणात्तदनन्तर: शरहनुरेव यक्षस्य प्रथम स्मृतिपथमारोढुमर्हतीति कश्चित् । -'कामरूपं मघोनः' इत्युपनिबध्यमानं मेघस्य कामरूपत्वं कुत्रोपयुज्यते ? उ-'पुप्पमेघीकतात्मा 'तिर्यगायामशोभी' 'गत्वा सद्यः कलभतनुताम्' इति वदन्कविः कामरूपतां सफलां कलयति । प्र---रामगिरेरलकां प्रतिष्ठमानस्य मेघस्! गमनमार्ग वर्णयत। . प्र- -- 'सोपानत्वं कुरु' 47 ~ " उ ---मघोनः प्रकृतिपुरुषः कामरूपोऽयं मेघः, चिरपरिचितं रामगिरि- माटच्छय, मधुरं नदता सगन्धेन चातकेन समभिनन्दितागमनः, बलाकाभि- रनुसेव्यमानः, आकैलासमागमिप्यगी राजहंसैरनुसृतः, पवनपदवीमारोहन्नलकां प्रतिष्ठते । प्रतिष्ठमानश्च मालं क्षेत्रमारुह्य, किंचित्पश्चाद्रजन्, भूयोऽप्युत्तरेणैव प्रयासः, आम्रकूटं नाम तानुमन्समधिगच्छनि । ततश्च विन्ध्याठवीं बिगाहमानो रेवायां तोयमादाय गच्छन् , दशान्प्रिविशति । तेषु च वेत्रवत्या परिगतां विदिशां नाम राजधानीमनुप्राप्य, तस्था रव नद्याः स्वादुतमं पयः पेिवन्, विश्रामहेता राख्यं गिरिमाधवसति । ततश्च प्रति ठमानोऽसौ पथि निर्विन्ध्यायाः संनिपातेन रसाभ्यन्तगे भूत्वा, प्रतनुसलिलां सिन्धुमात्मना त्यक्तका समुपनाद्य, उदयनकथाकोविद- ग्रामद्धेप्ववन्निषु शिप्रावातशीतलसुभगां श्रीविशालामुज्जयिनीमुपसरति । तत्र च गन्धवत्या मरुद्धूितोद्यानं चण्डेश्वर धाम यात्वा, सायं महाकालनिकेतनं चन्द्रमौलिमासेव्य, भवा या दृष्टभक्तिः, करयांचन भवनव- लभौ तां रात्रि नयति । ततश्च गम्भीरायाः प्रसन्नं पयश्छायात्मना प्रविशत्रुपभुज्य, ततो देव- गिरिमुपगम्य, सत्र नियतवसति स्कन्दं पुष्पैः स्नपयित्वा, पश्चात् रन्तिदेव- कीर्तिपताकां चर्मण्वतीं नाम नदी वालम्बो । ततस्तामुत्तीर्य, दशपुरमात्मबिम्वेन संभावयन् , ब्रह्मावर्तं जनपदमधला यया गाहमानः, कुरुक्षेत्रं भजते । ततः सरस्वत्या अमोऽपिगम्य, अनुक नरखलं जाह्नव्या दिव्यमम्भः पीत्वा, तुषाराचलमधितिष्ठति । तत्र च दवाग्निशमनेन वारिधारासहस्राणि सफलयन् , संरम्भोत्पतनरभ- सान् शरभाकरकाष्टिपातैरवंकीर्णान्निष्फलारम्भावना परिभवन् , अर्धेन्दुमौ. लेईषदि व्यक्तं चरणन्यासं भक्तिनम्रः पर्येति । ततो दिशमुदीचीमनुसरन , तिर्यगायामशोभी क्रौञ्चरन्ध्रमतिकामति । - 48 ततः प्रतिदिनं राशीभूतमिव यम्बकाट्टहासं रवं त्रितत्य स्थितं कैलास- मासेवते। . - तत्र च शंभुना दत्तहस्तायाः क्रीडाशैले पादचारेण विचरन्त्या देव्या गौर्या मणितटारोहणाय अग्रतः सोपानत्वमात्मनः संकल्पयन् , तस्याः प्रसाद- मुपलभ्य कृतार्थेनान्तरात्मना मानसं सरो विगाह्य सलिलमाददानः, स्ववातैः कल्पद्रुमकिसलयांशुकानि धन्वन् , अव्याहतं तं नगेन्द्र निर्विशन , अनन्तर- मलकामासादयति । प्र - मेघस्य शब्दः कुत्र कुत्र कविनोपयोजितः? उ-तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।' 'कुर्वन्संध्या- बलिपटहतां शूलिनः श्लाघनीयामामन्दाणां फलमविकलं लप्स्पसे गर्जिता- नाम्' 'पश्चादद्विग्रहणगुरुभिर्जितैनर्तयेथाः' 'निर्हादी ते मुरज इव चेत्कन्दरेषु ध्वनिः स्यात्संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः' 'संगी- ताय प्रहतमुरजाः स्निग्धगम्भीरघोषम्' 'वक्तुं धीरस्तनितवचनैर्मानिनी प्रक्र- मेथाः' यो बृन्दानि त्वरयति पथि श्राम्यतामध्वगानां मन्द्रस्निग्धैर्ध्वनि- भिरबलावेणिमोक्षोत्तकानि' इति सप्तकत्यो मेघस्य शब्दं फलवन्तं कलयति महाकविः । प्र-कविरस्मिन्काव्ये यत्र कुत्रापि आत्मानमात्मकाव्यं वा प्रकृत्य किमपि सूचाति वा? उ.-' अद्रेः शृङ्गं हरति पवनः इति पद्यव्याख्यानावप्तरे मल्लि. नाथ इत्थं विलिखति--- अत्रेदमर्थान्तरं ध्वनति-रसिको निचुलो नाम महाकविः कालिदासस्य सहाध्यायी परापादितानां कालिदासप्रबन्धदूष- णानां परिहर्ता यस्मिन्स्थाने, तस्मात्स्थानात् उदङ्मुरवो निर्दोषत्वादुन्नत- मुरवः सन , पथि सारस्वतमार्गे दिङ्नागानां दिङ्नागाचा कालिदास- प्रतिपक्षस्य, हस्तावलेपान् हस्तविन्यासपूर्वकाणि दूषणानि, परिहरन्, अद्रेः अद्रिकल्पस्य दिङ्नागाचार्यस्थ, शृङ्गं प्राधान्यम, हरति किंस्विदिति हेतुना सिद्धैः सारस्वतसिद्धैर्महाकविभिः अङ्गनाभिश्च, दृष्टोत्साहः सन् , खम्, उत्पत उच्चेर्भवेति स्वप्रबन्धमात्मानं वा प्रति कवेरुक्तिरिति' , , इति ।

49 " पूर्णसरस्वती तु 'एतत्कृत्वा प्रियम्-' इति पद्यव्याख्यानावसर एषा यक्षवचनत्वेन योजना । अथ कविवचनत्वेन योज्यते । एतत मघसंदेशवेन प्रारब्धं संपूर्ण चेदं काव्यम् , कृत्वा गुरुमुरवेन शिक्षित्वा, प्रियं रससंरम्भेण सादरं निर्मितत्वात् , अनुचितप्रार्थनावर्त्मनः, सतां गुण- ग्रहणलोभेन स्वयमेव प्रवृत्युपपत्तेर्मम त्वेतन्निरीक्षणप्रार्थना अनुचितेत्यर्थः । सौहार्दात् मात्सर्यादिदोषोत्सारणविशुद्धहृदयतया, विधुरः एतद्विरचनायास- केशितः, अनुक्रोशबुद्धचा दाक्षिण्येन, इष्टान् देशान् यत्र यत्र रुच्यनु- रोधेन गम्यते, तत्र तत्रैतच्छीलनोन्मीलितमनीषस्य रसिकसदसि सत्कार- लाभात् । जलद जलानां नीरसदुस्तार्किकाणां रवण्डक, अथ वा रसानि- शयजनकत्वेन सहृदयानामानन्दबाप्पजलदायिन् हे श्रोतः व्याख्यातश्च । प्राडिति सुरवशीतलकालोपलक्षणम् । रसानुभवविनोदात्सुरवायमानेन कालेन जनितशोभः । अथ वा प्राडिति समयवर्षितया राजावली लक्ष्यते; तया गुणगणाहादितया वितीर्णधनधान्यादिलक्ष्मीयुक्तः । एवमिति, अभिनयेन पुरोवर्ती सुरवदुःरवाभ्यां श्लिष्टविश्लिष्टो लोक इवेति वैधH- दृष्टान्तः प्रदर्श्यते । विद्युदिव चञ्चलत्वात् विशेषेण द्योतनाच्च पूर्वप्रस्तुता श्रीविद्युदित्यध्यवतीयते; तया वियोगश्च मा भूत् श्रीः सिध्यतु, तया सत- तमविरहश्च भूयादित्याशिषा श्रीशब्दप्रयोगाच्च एतत्काव्यश्रोतृव्याख्यात्रा- दीनामभङ्गुरमङ्गलसंपत्तिरित्यशेषमतिमङ्गलम् ।” इति विलिवति ॥ मध्यमशाखायां तृतीयकदया । दश कुमार वरितम् । प्र-दशकुमारचरितकर्तुर्दण्डिनः कालं सत्रमाणं निर्धारया ! उ- अत्र च बहुधा विप्रतिपतिविद्यते विदुषाम् । कच न पाश्चा- च्यपण्डित एवं विलिवति-अयं हि दण्डी दण्डवान्कश्चन तंन्याप्ती । अनेन च वस्तुतो विष विराग्यविहीनेन प्रव्रज्यां परं गृहीतवता सदा- चपलस्य स्वमनसो विनोदाथ केवलं तृतीयपुरुषार्थसमर्थनकदर्थितेयं कथा समुपनिबद्धेति संभाव्यते । दशकुमारचरितग्रन्थकथाभागश्च सम्यग्विमृश्य- मानः, माहम्मदाकान्तिदर्भगस्य भारतखण्डस्याधरोत्तरामतिशोचनीयामवस्था- 50 मवबोधयतीत्य नुमातुं शक्यते । भारते महतो माहम्मदाक्रान्तिश्च क्रिस्त- वर्षीयदशमैकादशशतकयोरेव समभूदिति सुस्पष्टं चरित्रबेदिनान । किं चाय दण्डी भोजराजसदसि सभाजितोऽवर्ततेति, तामविकः कथन भोजन- शीयो विगीतचरितो राजकुमार एवं कविनानेन विश्रुचिस्तिमुपनिबध्नता मनसि गूढमाकलित इति च सर्वतः प्रवादः प्रथते । भोजराज श्चा कि- स्तीयायामेकादशशताब्द्यामासीदिति ज्ञायते । ततश्चायं दण्डी क्रिस्तुवर्षी- यैकादशशतकान्न प्राचीन इत्येवमभ्युपगन्तव्यं भवतीति । अपरोऽपि कश्चन पायाच्यपण्डिर: किमपि ताम्रशासनं प्रमाणीकृत्य दण्डिनः कालं निर्धारयितुं प्रयतते । तत्किल ताम्रशासनं बलगलदेशे समुपलब्धम् ; यत्र च ११२८ इतिसंख्याके क्रिस्तीयसंवत्सरे समुत्पन्नं श्रीवर्धनं नाम जैनकविं प्रशंसदेकं दण्डिनः पद्यमुत्कीर्णमवलोक्यो । ततश्चायं दण्डी किस्तीयद्वादशशताब्दीप्रथमभागान प्राचीन इति विश्व- सनीयमापततीति । . भारतीयाः पण्डिास्तु -आचादिण्डी नाभायं कालिदाससमकालिको भोजराजसभायामासीदिति भोजप्रबन्धादितो जानीमः । एवं हि चिराइनु- श्रूयते--पुरा किल दण्डिकालिदासयोः स्वस्त्रोत्कर्षविशेषसंघर्षग विवद- मानयोः ‘कः कविः' इत्ययं विषयो विनिश्चेतव्यो वभूव । तदा च यन्त्र- घटादिस्थापनपूर्वकं सपर्याभिः संयूजिता देवी भगबनी भारती तमेनमर्थ- मनुयुक्ता सुप्रसन्ना सदसि ‘कविर्दण्डी कविर्दण्डी कविर्दण्डी न संशयः इत्युत्तरेणानुजग्राह । श्रुत्वा चैतन्नितरां रोषाकुलो विपादविवशः कालि- दासः 'अहं तु रण्डे' इति साविक्षेपं सभायां सरस्वती पप्रच्छ । मनश्च 'त्वमेवाहं त्वमेवाहं त्वमेवाहं न संशयः' इति तस्य प्रश्नस्योत्तरमहादेवी भारती । पुनरप्येकदा ब्राह्मणकन्याभूमिकां परिगृहीतवत्या सरस्वत्या ताम्बूलचर्वणायै सुधां दण्डिकालिदासाभ्यां प्रार्थित या 'कालिदासाय कवये दण्डिने पण्डिताच च' इति स्वपितरं प्रत्याभिदधानया च्छिन्नसंशया- विमावुभावप्यभूतामिति । तथा च कालिदासस्य योऽयं कालो निश्चीयते, स एवास्यापि दण्डिन इत्यकामेनाप्यगत्या स्वीकरणीयं भवतीति साग्रह प्रत्यवतिष्ठन्ते ।

5]. विमर्शकास्तु–भामहेन काव्यालंकारे निरूपितं मतं यथा दण्डिना काव्यादर्शे दूषितमवलोकयामः, तथैव दण्डिनो गमनिकामपि काव्यालं- कारसूत्रग्रन्थे वामनेन भामहमनुसरता परास्तां पश्यामः काव्यालंकार- काव्यादर्शकाव्यालंकारसूत्राणि त्रीण्यपि सुसूक्ष्मं विभावयतां सहृदयानामय- गर्थः स्फुटीभविष्यति। तेषां च त्रयाणां पौर्वापर्यमप्यत एव निणेतुं पार्यते । काव्यालंकारसूत्रकर्ता वामनश्च श्रीमतः कश्मीराधिपतेर्जयापीडस्य मन्त्रीति 'मनोरथः शरवदत्तश्चटकः संधिमांस्तथा। बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥' इति राजतरङ्गिणीपद्यात्प्रतीयते ; जयापीडश्च ७७९ इतिसंख्याकं क्रिस्तीयवत्सरमारभ्ध ८१३ इतिसंख्याकक्रिस्तीयसंवत्सरपर्यन्तं भुवं शशासेति कश्मीरदेशचरितग्रन्थतो ज्ञायते। किंच, क्रिस्तुवर्षीयाष्टमशनकान्तिमभाग- स्थितेन षट्प्रबन्धीका महाकविना राजशेरवरेण 'त्रयोऽग्नयस्त्रयो वदास्त्रयो लोकास्त्रयो गुणाः। त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः' इति स्मर्य- तेऽयं दण्डी। अपि च, अनेन दण्डिना कृतस्य काव्यादर्शस्य कर्णाटक (T- षया कमपि विपरिवर्त क्रिस्तावनवमशताब्द्यामवतीर्णमवगच्छामः । स हि कर्णाटकभाषामयो विपरिणामः, क्रिस्तुवर्षीयनवमशतकमध्यभागवर्तिनं राष्ट्र- कूट देशाधिपति श्रीमन्तममोघवर्षं विषयीकरोतीति, तस्य चालंकारग्रन्थस्य 'कविराजमार्गः' इति व्यपदेश इति व कर्णाटकभाषाचरित्रवेदिनो निरूप- यन्ति । एतद्विमर्शेन च नवमशताब्दीमध्यभाग एव दण्डिनः सुमहती ख्यातिरासीदित्यूहनीयं भवति । किं च किस्तीवाष्टमशताब्दीमध्यभागे शैव- मताभिमानिनः पल्लवाख्याः कतिपये क्षत्रियाः काञ्चीनगीमपालयन्निति, तेष्वन्यतमो राजकुमार एनं दण्डिनमाचार्य विद्यागुरुत्वेन वर यामासति चैतिह्य- श्रद्धालवो विश्वसन्ति। काव्यादर्श चायं दण्डी क्रिस्तीयपञ्चमशताब्दीस्थ. प्रवरसेनळतं प्राकृतभाषामयं सेतुबन्ध स्मरति, खण्डयति च पश्चमशताब्दीस्थि. तस्य भामहस्य मतम् । अतश्चायं क्रिस्तीयपञ्चमशताब्दीतो न प्राचीनः, नापि क्रिस्तुवर्षीयाष्टमशतकप्रथमभागादर्वाचीन इति सिध्यति । प्रायेण चायं क्रिस्तीयषष्ठवर्षशतकोत्तरार्धे बभूवेति विश्वस्यने। तादृशसमयोत्पन्न बाण- भटेन चायं तुल्यकाल इति शंकरविजयकर्ता माधवाचार्यो विश्वसिति। किं च, एकशेषप्रकरणकाशिकां काव्यालंकारसूत्रीयप्रायोगिकाधिकरणं च सूक्ष्मे- क्षिकया परीक्षमाणाः, सतृणाभ्यवहायर्यादिपदनिष्पत्तिप्रकारतदर्थावबोधसंप्रदा- 52 यादिकं च विमृशन्तः कतिपये सहृदयाः, काव्यालंकारसूत्रकर्ता वामनो न जयापीडमन्त्री, परं काशिकाकर्ता वामन एवेति साधयन्ति । पाणिनीय- काशिकाकर्ता वामनश्च ६६० इतिसंख्याके क्रिस्तीयसंवत्सरे परलोकं गत इति घण्साङ्ङाभिधवीनयात्रिको विलिरवति। इत्थं च दण्डी किस्तीयषष्ठ. शताब्दचिरमभागे आसीदिति चिराय बहूनां विश्वासो न खलु युक्तेर्विप्रकृष्ट इत्यपि संभाव्यते । तत्सर्वथा पाश्चात्यपण्डितानां दण्डिसमयविषयको विनि- यो न विश्वासपदवीमारोहति । अस्य भोजसभास्तारत्वे न किमपि प्रमाण- मुपलभामहे । कथाभागसमालोचनया कालनिर्णयस्तु महती वैयाकुलीमापाद- यिष्यति । तथा सति स्वल्वाद्यत्विकोऽपि कश्चिन्निगूढनामा कृतयुगीयान्धर्मा. नाचक्षाणः कदाचिहिमर्शकैस्तादात्विकतामधिरोपितो भविष्यति। एकस्यामेव मालायामुत्तमानि अधमानि च कविकुमानि संग्रथितानि पश्यतां भोजप्र- बन्धकारादीनां वचनं तु नैतादृशे विषये प्रमाणीभवितुमर्हति । अत्रत्यो वस्तु. विस्तरोऽपि बृहत्कथायामस्तीति नात्र कवेः किमपि शिल्पमपक्षितमित्यपि केचन मन्यन्ते । अस्य दण्डीति व्यपदेशश्च, - ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः क्षोणीनौकूपदण्डः क्षरदमरसरित्पाट्टकाकेतुदण्डः । ज्योतिश्चक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डो-द्धि दण्डः श्रेयस्त्रैविक्रमस्ते वितरनु विबुधवषिणां कालदण्डः ॥ इति पद्यश्रवणचमत्कृतान्तरङ्गैः पण्डितैः प्रख्यापितः। एवं वस्तुतत्त्वे निर्धारणा- विषयमवतरति, बलगलदेशीयताम्रशासनोल्लिवितो दण्डी यः कश्चिदन्यो दण्डीति नूनमगत्याभ्युपगन्तव्यमापतितं भवति । दण्डिकालिदासयोरेक- कालिकत्वं परस्परं स्पर्धां च कथयनां भारतीयपण्डितानामतिह्यवादस्तु न पुनः श्रद्धापदं भवितुमर्हति ; यतोऽयं दण्डी काव्यादर्श ‘प्रसादवत्प्रसिद्धा- र्थम् ' इति लक्षयित्वा, इन्दोरिन्दीवरद्युति । लक्ष्म लक्ष्मी तनोतीति प्रतीति- सुभगं वचः' इत्युदाहरति । 'लक्ष्म लक्ष्मी तनोति' इत्येतद्वाक्यरवण्डं च ' मलिनमपि हिमांशोर्लक्ष्म लक्ष्मी तनोति' इति शाकुन्तलपद्य भागात्समुहृतं स्यादिति संभावना न खलु नाम न सांप्रतम् । नाभयोरेककालिकत्वे संघर्षे च सत्येवमुद्धृत्योदाहरणं स्वरसतः संगतं भवति। सन्ति चैवमनेके 53 . पण्डितानामतियवादाः सर्वात्मना विश्वासविदूराः, येषु सर्वथा विप्रतिषिद्धं कालिदासभवभूत्योरेककालिकत्वम् 'उत्तरे रामचरिते भवभूतिविशिष्यते' इति कालिदासेनैवाभिहितमिाते विश्वासेन साधयन्नर्थवादोऽप्यन्तावमाधि- गच्छति । तथा च प्रबलयुक्तिप्रमाणप्रतिपन्नः साधितपूर्वः समय एव दाण्डन इति सिद्धान्तयन्ति । अत्रेत्थं चिन्तयान्त -स्यादेतदारेवलमप्यभिहित पूर्वमवश्यस्वीकार्यम्, यदि काव्यादर्शकदैण्डिनो दशकुमारचरितकर्ता दण्डी विभिन्नो न भाविष्यति । तव खलु महती विप्रतिपत्तिः प्ररोहति। कामं वयं पश्यामः काव्यादर्श इव दशकुमारचरितेऽपि भूयसा शब्दसारख्यम, संक्षेपसौन्दर्यं च ।अथाप्युभयोरपि भिन्नभिन्नां ग्रन्थकर्तुमनोगमनिकामनुभूयमानां न वयमपला पतुं पारयामः । दशकुमारचरिते हि कथाघटनं विमृश्यमानम्, तादृशं वस्तुविस्तरं संग्रथितु- मुपक्रममाणस्य कर्तुरतिकठिनामनृजुपथस्वरसवाहिनी मनोवृत्तिमवगमयति, यां पुनः काव्यादर्शक ः ' आचार्यदण्डो' इत्यरिवलराभिष्टयमानव दण्डिनः संभावयितुमपि वयं संकुचामः । किं च, काव्यादर्श ‘कामं सर्वोऽप्यलंकारो रसमर्थे निषिञ्चतु । तथाप्यग्राम्यतैवैनं भारं वहीत भूयमा ।।' इति, 'शब्दे- ऽपि ग्राम्यतास्त्येव सा सभ्येतरकीर्तनात् । यथा यकारादि पदं रत्युत्सव- निरूपणे ॥' इति च विलिखत आचार्यदण्डनो मुखात् असभ्यैः पदैरथैः संघटनैश्च भूयिष्ठं दशकुमारचरितं निष्पतितमिति न वयं विश्वसिमः। किं व 'कन्ये कामयमानं मा न त्वं कामयसे कथम्। इति ग्राम्योऽयमात्मा वैर- स्वायैव कल्पते ॥' इति काव्यादर्श दण्डी विलिरवति । स एव ' त्वामयमा- बद्धाञ्जलि दासजनस्तमिममर्थमर्थयते । स्वपिहि मया सह सुरतव्यतिकरविन्नैव मा मैवम् ॥' इति पद्यं प्रणिनायेति को हि नाम सहृदयः श्रद्दधातु । न खलु वयं चिरस्य परिपश्यन्तोऽपि कन्ये कामयमानम् -' इत्यस्मादस्मिन्पद्ये कमपि विशेषमुपलभामहे । किं च, काव्यादरों भूतभाषामयीं प्राहुरद्भुतार्थां बृहत्कथाम्' इति विलिखन्नाचार्यदण्डी प्राहुःपदेन बृहत्कथामात्मदृष्टेरगोचरमाभि- दधाति । दशकुमारचरितस्य तु मूलग्रन्थो बृहत्कथेति विश्वस्यते । किंव, दश- कुमारचरिते अप्रसिद्धानि सांकेतिकानि परुषाणि च पदानि नातिदुर्लभानि पश्यामः, यानि केवलं सुप्रसिद्धशब्दभासुरे मृदुलमतीनामपि व्युत्पादनक्षमे काव्यादर्श भूयसा न दृश्यन्ते । — ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम् ।

54 इति काव्यादर्श दण्डी। दशकुमारचरिते तु नैवं गद्यजीवितमोजो दृश्यते। तदेवं सर्वतोऽपि समालोच्यमाने, दशकुमारचरितकर्ता दण्डी काव्यादर्शकर्त- राचार्यदण्डिनो विभिद्यत एवेति निश्चप्रचं सिध्यति । ततश्च काव्यादर्शकर्तु। राचार्यदण्डिनः पूर्वोक्तसमयसद्भावनिर्णयेऽपि नास्य दशकुमारचरितकर्तुर्दण्डिनः सोऽयं समयः समर्थितो भवति। अयं हि दण्डी पाश्चाच्यपण्डितैरूहिते काले वर्तमानो नातीव प्रशंसाहः कश्चन कविरिति प्रत्ययो बलादस्माकं हृदय- मास्कन्दति । किंच, माघेन काशिकायत्तेः कती वामनः स्मयते । मावं तु काव्यालंकारकर्ता वामनः स्मरति । अतस्तावुभावप्यभिन्नाविति केषांचन वादोऽपि न क्षोदक्षम इति । प्र-दण्डिकृतानां ग्रन्थानां नामानि, आपाततसत्प्रतिपाद्यान्विषयांश्च विलिवत । उ-काव्यलक्षणततेंदशब्दार्थगुणशब्दालंकारार्थालंकारयमकतनेदप्र- हेलिकादिप्रतिपादकः काव्यादर्शों नाम अलंकारग्रन्थः, चतःषष्टः कलानां स्वरूपादिनिरूपकः कलापरिच्छेदों नाम प्रबन्धः, दशकमारचरितं नाम गद्यकाव्यं चास्य दण्डिकवे. कृतय इति मन्यन्ते। कचिनु च्छन्दोवत्तादि- प्रतिपादिका छन्दोविचितिरनेन कृतांत कथयन्ति। दशकुमारचरितकर्ना दण्डी त्वन्य एवेति पक्षावलम्विनस्तु 'त्रयो दण्डिप्रबन्धाश्च' इति राजशे- वरवचनानुसारेण काव्यादर्शच्छन्दोविचितिकलापरिच्छेदाना का श्री. मानाचार्यदण्डीति विश्वसन्ति । प्र-दशकुमारचरितप्रबन्धकथाभागस्य मूलग्रन्थः कः ? उ-बृहत्कथेति विश्वस्यते । बृहत्कथामञ्जरीति केचित् । प्र—१. पूर्व भारतवर्षस्य ग्रीक प्रभृतिभिर्देशान्तरैः सह वाणिज्यादिसं- व्यवहार आसीत् । २. वर्णाश्रमाचारव्यवस्था पुरा समीचीना नासीत् । ३. ब्राह्मणानां ब्राह्मणैः सहैव विवाहादिव्यतिकर इति निर्बन्धी न पूर्वमासीत् । एते विषया दशकुमारचरितग्रन्थान्निरूप्यन्ताम् । .

. 3 - बोदवस्य कालयवनद्वीपगमनवृत्तान्नादिभिः, पूर्व भारतवर्षस्य दे- शान्तरैः सह संव्यवहार आसदिति ज्ञायते । मातङ्गनाम्रो ब्राह्मणब्रुवस्य, विन्ध्याटवीमध्यमधिवसतां केषांचन ब्राह्मण- जातीयानामाचारादिकमवमृशनामस्माकं पूर्व वर्णाश्रमाचारादिव्यवस्था न समीचीनासीदित्येव वक्तव्यं भवतीति प्रतिभाति । तस्यैव मातङ्गस्य यमसदनात्प्रतिनिवृत्तस्य स्वीकतसत्कर्माचरणस्य पश्चाद- सुरनन्दिन्याः कालिन्द्याः पाणिग्रहणवृत्तान्तन, कामपालस्य तारावलस्विी- कागेदन्तेन च विवाहादिव्यतिकरे नातीव निर्बन्ध भामीदित्यहितुं शक्यते । प्र.---'दण्डिनः पदलालित्यम्' इति प्रवादं निदर्शनैः समर्थयत । उ. - दण्डिनः पदानि प्रायेण ललितमधुराणि । गद्यजीवितमित्युदुप्य- माणमपि दीर्घदीर्घसमासत्वरूपमोजोगुणं भूयसासौ दण्डी न परिगृह्णाति । आदिन आरभ्य आ समाप्तेरयमेकचैव रीत्या सरलानि वाक्यानि प्रयुक्ते । वाक्यान्यपि न दीदीर्घतराणि । तत्तद्वणेनावसरेऽपि नायमपरराश्रितां नितान्तविस्तृततां स्वीकृत्य सहृदयानुद्वेजयति। संक्षिप्तार्था अन्यूनानतिरिक्त- पदा चास्य वाक्यसरणिः। कथाघटनचातुर्यमन्यादृशमपि न शब्दार्थयोः कठिनतां प्रयोजयति । अनुप्रासघटनायां श्रद्धालुरप्ययं न वृथा पदजातमुप- युङ्क्ते। सांकेतिकानि पदानि च संदर्भानुसारेण प्रयोक्तव्यान्यासन्निति न तत्र कविरयमपरानोति। व्याकरणसंस्कृतानि णिजन्तसन्नन्तलुङन्तादीनि च पदानि नार्थक्लिष्टानि व्युप्तित्सूनामिव व्युप्तन्नानामप्युपकाराय कल्पन्ते । यङ्यङ्लुगन्तप्रयोगस्तु कवेरस्य विद्विष्ट इव लक्ष्यते। निर्बन्धबहुले निरोष्ठयवर्ण- परिग्रहे ऽपि नायं कविः स्वरीतेः प्रभ्रश्यति। तथा वलु तत्राप्यस्य निसर्गतः प्रवहन्ती चकास्ति सरस्वती, यथा निरोष्ठयवर्णप्रघटकोऽयमित्यनुपदिष्टः कश्चिद्विद्वानपि नात्मना तत्रत्यं तादृशं चातुर्यमवगन्तुमलं भवति । इदं च दशकुमारचरितमत एव गद्यकाव्यावतारप्रथमावस्थायां जायमानस्य वाक्५. सरणी स्वाभाविककृत्रिमतारतम्यस्य प्रदर्शकमिति विश्वस्यते । तदेतत्सर्वमालो- च्यैव विद्वद्भिः ‘दण्डिनः पदलालित्यम् ' इति सर्वतोऽप्युद्धप्यते । 'आर्याः, रूपेणैव परिवृत्तो मम स्वभावः ' ' अहं च तया मे धाच्या सर्वमिदं ममा- चेष्टितं रहसि पित्रोरवगमय्य प्रकर्षकाष्ठाधिरूढयोस्तयोः पादमूलमभजे' b6 . 'त्वमेवोन्मत्ता, यानुन्मत्त इत्युन्मत्तं मुक्तवती' 'निशम्यैवं स पुमानुपोढहों निर्गत्य कृताञ्जलिराक्रम्य संज्ञासंकुचितं कुञ्जरगात्रमसक्तमध्यरुक्षत् ' इत्यादिषु वाक्येषु पदानां संक्षिप्तार्थत्वं लालित्यम् अन्यूनानतिरिक्तत्वं चातितरां प्रशंसा- महति । 'राजाधिराजनन्दन, नगरन्ध्रगतस्य ते गति ज्ञास्यन्नहं च गतः कदाचित्कलिङ्गान्' इति निरोष्ठयवर्णघटितवाक्यस्यासाधारणं किल स्वाभाविक प्रसरणमतिलालित्यं च। किं बहुना-अमिहितपूर्वाणामनेकेषां गुणानां प्रायेण सर्वाण्यापि वाक्यानि नियतमुदाहरणभावमर्हन्ति । प्र-अत्र शब्दतोऽर्थतश्च कालिदासस्यानुकरणमस्ति वा ? अस्ति चेत्, द्वित्राण्युदाहरणानि प्रदर्शन्ताम् । उ.-' पपौ निमेषालसपक्ष्मपतिरुपोषिताभ्यामिव लोचनाभ्याम् ' इति रघुवंशे कालिदासः । 'तमुपोषिताभ्यामिव अनिमिषिताभ्यां लोचनाभ्यां पिबन्ती' इति दशकुमारचरिते दण्डी। · संबन्धमाभाषणपूर्वमाहुः' इति कालिदासः । ननु सतां सख्यस्याभाषणपूर्वतया' इति दण्डी । 'भूयो यथा मे जननान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः' इति कालिदासः । 'भवानेव भाविन्यपि जन्मनि वल्लभो भवतु' इति दण्डी । 'इतः परा- नर्भकहार्यशस्त्रान्' इति रघुः । 'स्त्रीबालहार्यशास्त्रम्' इति दशकुमार- चरितम् । 'लतावलय, संतापहर, आमन्त्रये त्वां भूयोऽपि परिभोगाय ' इति शाकुन्तले दुष्यन्तं प्रति शकुन्तलाया गूढतः; दशकुमारचरितेऽपि 'राजहंसकुलतिलक, विहारवाञ्छया केलीवने मदन्तिकमागतं भवन्तम- काण्ड एव विसृज्य मया समुचितामिति जनन्यनुगमनं क्रियते । तदनेन भवन्मनोरागोऽन्यथा मा भूत्' इति राजवाहनमुद्दिश्य अवन्तिसुन्दर्या गूढमुच्यते । अतः कालिदासानुकरणमत्रास्तीति भाति । प्र-पूर्वपीठिका दण्डिना न कृता' इति केचन मन्यन्ते । अत्र साधिका बाधिका वा युक्तीरुद्भावयत । -पूर्वपीठिका दण्डिना न कृतेति वादिनामयमभिप्रायः-पूर्व- पीठिकायां हि 'वीरमटपटलोत्तरङ्ग भुजदण्डः' 'पुरन्दर- पुराङ्गण . . . . . जेगीयमानया' 'शरदिन्दुकुन्दघनसार नीकाशमूर्त्या' किंचिहिकसदिन्दीवर सलिलललितानि' , . . . . . . . .

57 . - इत्येवं दीर्वदािणि समस्तानि पदानि श्रूयन्ते । नह्येतादृशाः शब्दा उत्तरोच्छासेप्वालक्ष्यन्ले । । . . . नीकाशमूर्त्या विरचितदिगन्तराल- पूर्त्या कीाभितः सुरभितः' 'विग्रहः सविग्रह इव साग्रहः' 'मालव- नाथो जयलक्ष्मीसनाथो मगधराज्यं प्राज्यम' कोऽपि रूपी कोप इव व्याघ्रः शीघ्रं मामाघ्रातुमागतवान्' 'कुमारा माराभिरामा रामाद्यपौरुषा रुषा भस्मीकृतारयो रयोपहसितसमीरणा रणाभियानेन याननाभ्युदयाशंसं राजा- नमकापुः' इत्येवमादीन्यनुप्रासयमकशृङ्खलितानि वाक्यानि यथा पूर्वपीठि- कायां सुलभानि, न तोत्तरभागे। उत्तरपीठिकायां च न खल्वनावश्य- कानि पदानि वाक्येप्वन्तर्भवन्ति । पूर्वपीठिकायां तु विशिप्य न कम- प्यर्थविशेषमवबोधयन्ति केवलमनुप्रासरक्षणैकदीक्षितानि पदकदम्बकानि बहुशः प्रयुक्तान्युपलभामहे । न खलु वयम् ‘भवतः पराजयमनुभूय वैलक्ष्यलक्ष्यहृदयो वीतदयो महाकालनिवासिनम्' इत्यत्र वीतदयपदस्य, 'मया सविनयं सत्ता स्वक्षी यक्षी साप्यदृश्यतामवासीत् ' इत्यत्र स्वक्षी- शब्दस्य, 'रुषा भस्मीकतारयो रयोपहसितसमीरणाः' इत्यस्मिन्वाक्ये रयोपहसितसमीरणपदस्य च शब्दालंकारसंपादनात् ऋते अन्यत्किमपि प्रयोजनं पश्यामः । किं च, वसुमत्याः प्रत्यवयवं वर्णने यादृशी रीतिः तादृश्येव अवन्तिसुन्दर्याः, कल्पसुन्दर्याश्च वर्णने समुपलभ्यते । न ह्येवमेक एव कविरेकामेव रीतिमाश्रित्य त्रिषु प्रकरणेषु वर्णयिष्यति । अतश्च पूर्व- पीठिकेयमन्येनैव केनापि विरचितेति विश्वसनीयं भवति । पूर्वोत्तरकथयोः सुक्लिष्टतायै दण्डिनः शिष्येण चक्रपाणिनाना केनापि कविनेयमरचीति च किंवदन्ती । तथा च आवसानिकवस्तुसंघटनाय पद्मनाभो नाम कश्चि- नवममुच्छ्रासं व्यलिवदिति श्रूयते, दृश्यते चायं मुद्रितो नवम उच्छासः अतः पूर्वोत्तरभागयोविभिन्नकर्तृकतैव युक्तेति । अन्ये तु-उत्तरस्मिन् भागेऽपि द्वितीयोच्छ्रासादौ राजकन्याशयन- स्वभाववर्णनादिप्रकरणेषु दीर्घदर्घािणि समस्तानि पदानि संदृश्यन्त एव । 'पातितश्च कोपितेन कोऽपि तेन मयि शापः' इत्यादिषु वाक्येषु उत्तर- भागेऽपि शब्दालंकारपरिग्रहादर: परिदृश्यते । वाक्यसारल्यं तु उभयोरप्ये- करूममेव पश्यामः । शब्दतोऽर्थतश्च पूर्वोत्तरयोर्भागयोस्तथा नाम सुश्चि- ष्टता समुपलभ्यते, या पुनर्विभिन्नकर्तृकतायां सर्वथा दुर्लभा भवति ।

58 . . - - , व्यर्थानि च पदान्युत्तरभागेऽपि गवेष्यमाणानि न खलु नाम न सुलभानि । ऐतिह्यादिकं त्वकिंचित्करम् । कालिदासीयादिप्वपि काव्येष्वेकमेव वर्णन- मसलदायोजितं पश्यामः । अतो वयमभयोरपि भागयोरेकमेव कविमभि- मन्यामह इति वदन्ति । प्र–दशकुमारचरिते अपि नाम चत्रकुत्रचित् पदे वाक्ये च दोषो विद्यते ? विद्यते चेत् , तादृशानि कतिचनोदाहरणानि विलिखत । उ-तत्र क्वचित्पदे, क्वचन वाक्ये च च्युतसंस्कारो दोषः, दोषा- न्तराणि च समुपलभ्यन्ते । इमानि तानि पदानि वाक्यानि व– ' मह- दायुधनैपुण्य' 'विरच्य' 'विन्ध्यवनमध्यं निवसति' 'अवोचि' : महद- भिख्याः' 'कालभोगिनाहमदंशि' 'घनशब्दोन्मुवी चातकी वर्षागमन- मिव तवालोकनकाक्षिणी चिरमतिष्ठम्' 'गमिष्णः' 'महदाशापूर्णमा- नसः' 'करिष्णुः' 'अवगाहनसाहासकाम्' 'अवोचिषम्' 'पैतृष्वस्त्रेयौ' परीक्षन् ' 'लोचनपथमवर्तत' ' परेद्यः' पितरावपि तावन्मां न संविदाते' एवमन्यत्रापि सूक्ष्मेक्षिका करणीया । एतेषु केषांचन कथंचित्समर्थनमपि शक्यते कर्तुम् । प्र–दश कुमारान्नामतो निर्दिश्य, यथासंभवं तेषां राजहंससमीप- प्राप्तिप्रकारं वर्णयत । उ-राजवाहनः, प्रमतिः, मित्रगुप्तः, मन्त्रगुप्तः, विश्रुतः, उपहारवर्मा, अपहारवर्मा, पुष्पोद्भवः, अर्थपालः, सोमदत्तः, इति दश कुमाराः । अत्र आद्याः पञ्च राजहंसावासस्थल एव प्रसूता इति ते तत्रैव वर्तन्ते । उपहारवर्मा तु केनचित्तापसेन राजहंससविधमानीतः, योऽयं तापस उपहारवर्मधात्री- वचनानुरोधेन तमेनमन्विष्यन् , कस्मिंश्चन चण्डिकामन्दिरे देवताबलिवेन निीतवतः किराताननुनीय, समासादयामास । जनपतिरेकस्मिन् दिवसे तीर्थस्नानाय गच्छन् , कस्याश्चन शबर्या अङ्कशायिनं कंचन बालकमव- लोक्य, मुनिकथितो द्वितीयोऽयं राजकुमार इति निश्चित्य, तां सामदाना- भ्यामनुनीय परिगृहीतं तमेनं बालकम् 'उपहारवर्मा' इत्याख्यातवान् । कदाचिद्वामदेवशिष्यः सोमदेवशर्मा, धान्याः करात्पतितं कण्ठीरवहन्यमानेन गजेन वियति दूरतः समुत्क्षिप्तं मर्कटेन च केनचिच्छारवायां विनिक्षिप्त " 59 रत्लोद्भवसूर्नु षुप्पोद्भवं राजहंसाय समर्पयामास । अन्येद्यु: कामपालपत्नी यक्षी रात्रौ वसुमतीमुपस्थाय तत्पुत्रमर्थपालं समय गता । वसुमती राजा- नमेनं कुमारमदर्शयत् । ततः परस्मिन् दिवसे वामदेवान्तेवासी तीर्थयात्रा- प्रसङ्गेन कावेरीतीरं गतः, तत्र कस्यांचन स्थविरायां कालभोगिविषावेगेन मृतायाम् , तदुत्सङ्गतले स्थितं सोमदत्तं नाम सत्यवर्मणः कुमारमानीय राजहंसाय प्रददौ । प्र-रामवाहनस्य दिग्विजययात्राकाले कति वयांसि स्युः ? कथं निणेतुं शक्यते? उ-अत्र दशापि कुमाराः प्रायेण सवयस्का इति संभाव्यते; यतः ‘एवं मिलितेन कुमारमण्डलेन बालकेलीरनुभवन् ' इति उत्तरत्र राजवाहनो निरूप्यते । तेषामन्यतमस्य पुष्पोद्भवस्य षोडशं वय इति ज्ञायते । पुष्पोद्भवो हि सिद्धतापसस्यादेशादरेण षोडश हायनानि कथं- चिन्नीत्वा दुःखस्य पारमनवेक्षमाणं गिरिपतनं कुर्वन्तं स्वपितरं ददर्श । ततो बन्धुपालवचनानुसारेण त्रिंशहिवसानन्तरमेव राजवाहनमद्राक्षीदिति कथ्यते । ततश्च दिग्विजययात्राकाले राजवाहनस्य आसन्न षोडशानि अधिक- षोडशानि वा वयांसि स्युरिति संभाव्यते । मध्यमशाखायां तृतीयकक्ष्या । नैषधीयचरितम् । . A प्र-नैषधकाव्ये कति सर्गाः? उ-द्वाविंशतिः सर्गाः । प्र-अस्य कथाभागस्य मूलग्रन्थः कः ? • उ - महाभारतम् । तत्र हि वनपर्वणि नलोपाख्यानमनुश्रूयते । प्र---अस्मिन्काव्ये नैषधीयं चरितं कियदवधि निरूपितं कविना ? उ-दमयन्त्याः स्वयंवरमहोत्सवानन्तरं तया सह इन्द्रियार्थीननुसेव- मानस्य राज्ञो नलस्य चन्द्रोदय आसीदित्येतावत्पर्यन्त एव वस्तुविस्तरोऽत्र काव्ये कविना समुपनिबद्धः ।

60 - प्र---अनेन श्रीहर्षेण कृताः के के ग्रन्था नैषधकाव्यतो ज्ञायन्ते ? उ---कतिपयसर्गसमाप्तिपद्यपर्यालोचनया, स्थैर्यविचारणप्रकरणम् , श्रीविजयप्रशस्तिः, खण्डनरवण्डः, गौडोर्वीशकुल प्रशस्तिः, अर्णववर्णनम् , छिन्दप्रशस्तिः, शिवशक्तिसिद्धिः, नवसाहसाङ्कचम्पूः, इत्येते ग्रन्थाः कृता इति ज्ञायन्ते । प्र- एतादृशकठिनकाव्यानिर्माणे किं फलमभिमन्यते कविः ! उ-गुरुकुलविमुरवानां प्राज्ञमन्यानां पराभवो भवत्विति कवेरान्तरोऽभि- संधिः । तथा चोच्यते ग्रन्थान्ते स्वयमेव कविना- 'ग्रन्थग्रन्थिरिह क्वचित्क्वचिदपि न्यासि प्रयत्नान्मया प्राज्ञमन्यमना हठेन पाठती मास्मिन्रवलः खेलतु । श्रद्धाराहगुरुश्लथीकृतहदग्रन्थिः समासादय- वेतत्काव्यरसोनिमज्जनसुरवव्यास जनं सजनः ।। इति । प्र--अस्य काव्यस्य अङ्कः कः? उ-प्रतिसर्गमन्तिमे पद्ये आनन्दपदम् अङ्कतया निवेश्यते । प्र-श्रीहर्षस्य जीवनसमयादिकं संग्रहेण लिरवत । -श्रीहर्षोऽयं श्रीहीरपण्डितान्मामलदेव्यां जज्ञे । स च चिन्तामाणि- मन्त्रप्रभावेण सकलास्वपि विद्यासु परं प्रावीण्यमुपययौ । कान्यकुब्जाधि- पतेर्जयन्तचन्द्रस्य च सभायां स्वपितृजेतारमुदयनं पराजित्य सर्वैरपि सत्क- तोऽभवत् । कान्यकुब्जाधिपतेर्बहुमानचिह्नतया ताम्बूलद्वयम् आसनं चाय- मलभत । कदाचिदस्य कश्मीरान्गतस्य नैषधीयचरितमिदं काव्यं तत्र सर- स्वतीपीठप्रतिष्ठिता देवी भगवती नितरां प्रशशंस । कान्यकुब्जेश्वरो जयन्त- चन्द्रश्च ११६९ इतिसंख्याके क्रिस्तीये वत्सरे किमपि दानपत्रं विलिलेवेति प्राचीनलेखमालानुशीलनेन ज्ञायते । ततश्च श्रीहर्षोऽयं क्रीस्तीयद्वादशशता- न्युत्तरार्धान्नार्वाचीन इति निश्चेतव्यं भवति । प्र- श्रीहर्षस्य कवितां गुणदोषाभ्यां विमृशत । उ-श्रीहर्षस्य कविता न प्रसन्नमधुरा, नापि प्रसन्नगम्भीरा, नवा भोजस्विनी, न च कान्तिमती । नालिकेरपाकाश्लिष्टाया अस्याः कविताया 61 " . अर्थव्यक्तिर्नाम गुणः सुदूरमगोचरः । शब्देषु न श्रव्यता, नाप्यर्थेषु भव्यता । अन्वयगतिश्च क्लिष्टा, वर्णनापद्धतिरप बहुत्र दुष्टा । पदानि चास्य कर्वेर्न भूयासि, प्रयुक्तानि च तानि भूयसा न श्रेयांसि । सर्वत्र च स्वीयपाण्डित्यदर्शनम , तदेव च भवति सारल्यकर्शनम् । बालव्युत्पादने च नास्य महती श्रद्धा, अत एव भवति कवितापि निर्बद्धा । शब्दालं- कारेषु चानुप्रासयमकादिषु भूयानादरोऽस्य परिदृश्यते । अर्थालंकारेषु च उत्प्रेक्षातिशयोक्तिश्लेषेषु विशेषेणास्य पक्षपातमवगच्छामः । बहुत्र चोत्प्रे- क्षामतिशयोक्तिं च न हृदयंगमामवलोकयामः । पदार्थे वाक्यरचनं प्रादि- गुणमभिमन्यमाना आलंकारिकास्तु, 'दयासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरमापगा गिरः ।' 'सरसीः परिशीलिनु मया गमिकर्मीकृतनैकनीयता । अतिथित्वमनायि सा दृशोः सदसत्मंशयगोचरोदरी ॥ ' तच्छंसिते किंचन संशयालुगिरा मुरवाम्भोजमयं युयोज । भवद्वियोगाभिदुरार्तिधारायमस्वसुर्मजति निःशरण्यः । मूमियद्वीपमहान्ध्यपङ्के हा हा महीभृद्भटकुञ्जरोऽयम् ।।' इत्यादिदर्शनेन नूनं प्रसन्नमनसो भविष्यन्ति । 'अमानि तत्तेन निजायशोयुगं द्विफालबहाश्चिकुराः शिरःस्थितम्। किमस्य लोनां कपटेन कोटिभिविधिर्न लेवाभिरजीगणद्गुणान् । न रोमकूपौघमिषाजगत्कृता कृताश्च किं दूषणशून्यबिन्दवः ॥' प्रियासु बालासु रतक्षमासु च द्विपत्रितं पल्लवितं च बिभ्रतम् । स्मरार्जितं रागमहीरुहाङ्कुरं मिषेण चञ्चोश्चरणद्वयस्य च ।।' रेवाभिरास्ये गणनादिवास्य द्वात्रिंशता दन्तमयीभिरन्तः । चतुर्दशाष्टादश चात्र विद्या द्वेधापि सन्तीति शशंस वेधाः ॥' इत्यादिषु उत्प्रेक्षा सहृदयमनोरमेति न प्रतिभाति । एवमेव बहुत्र निरवल- म्बना अतिशयोक्तिरुत्प्रेक्षा, श्लेषकदर्थना च सुलभा दृश्यते । कवेरस्य तत्तद्द- निसिद्धान्तवेदितां तु एकैकोऽपि प्रघटकः स्फुटमवगमयत्यस्मान् । शास्त्रीय वर्त्म रेवामात्रमप्यनतिवर्तमानमलंकारसंकरयोजनं तु नितरामलंकारलाक्षणि- 62 केभ्यो रोचेत । व्युत्पित्सुभ्योऽपि व्युत्पन्नानामेवेदमतितरामनेकैरशैरुपकरो- तीति प्रतिभाति । नैषधं विद्वदौषधम्' इति च पण्डितानां प्रबलः प्रवादः । प्र-श्रीहर्षस्य अद्वैतसिद्धान्ते पक्षपात इति उहितुं शक्यते वा ? शक्यते चेत्, कथम् ? उ.-'किमपि ज्योतिरबाह्यमिज्यते' प्रापुस्तमेकं निरुपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् ।' हसं तनौ संनिहितं चरन्तं मुनेमनोतिरिव स्विकायाम् ।' यत्रान्धकारः किल चेतसोऽपि जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ।' ' श्रुतः स दृष्टश्च हरित्सु मोहात् ध्यातश्च नीरन्ध्रितबुद्धिवारम् ।' सदसत्संशयगोचरोदरी' 'अधिगत्य जगत्यधीश्वरादथ मुक्ति परुषोत्तमात्ततः । वचसामपि गोचरो न यः सतमानन्दमविन्दत द्विजः ॥' इत्यादिपद्येषु शब्दतोऽर्थतश्च विमृश्यमानेषु, कवरस्य वेदान्ते विशिष्य अद्वैतमने पक्षपातोऽस्तीत्यूहित शक्यत इति वदन्ति । प्र--उद्यानवर्णनायां तटाकवर्णनायां च न्यूनता कापि स्फुरति वा ? सकारणं प्रत्युत्तरं लिम्वत । उ-उद्यानवर्णनाप्रकरणे हि केतकीपुष्पम् , दाडिमफलम् , पलाश- पुष्पम् , चम्पकपुष्पम् , कुसुमपरागः, स्थलपाद्मनी, मुकुलितो रसालसालः, चाम्पेयम् , नागकेसरम् , मालूरफलम् , पाटलास्तबकः, कोरकितो मुनिद्रुमः, नभस्वन्तः, द्रुमाः, अहर्महः, पिकः, पल्लवितोऽशोकः, शुकाः, इत्येतानि वर्णितानि वस्तूनि । अत्र पुष्पवर्णनमध्ये फलस्य प्रवेशः, वृक्षविशेष- निरूपणावसरे तत्सामान्यवर्णनम् , तन्मध्ये च नभस्वदहर्महःपिकानां योजनं च क्रमतो विहीनं विषमनिबद्धं माल्यमिव हृदयंगमं न भवति । तटाकवर्णनाप्रकरणे च 'निलीय तस्मिन्निव सन्नपां निधिर्वने तटाको दवशेऽवनीभुजा' इति समुद्रत्वेन प्रथममुत्प्रेक्षितस्तठाकः । अनन्तरं त्रिभिः पद्यैः समुद्रतटाकयोः साधये सति निरूपितस्य व्यतिरेकस्य - 63 - रथाङ्ग भाजा कमलानुषङ्गिणा---' इत्याद्युत्तरपद्येष्वनिर्वाहः, अल्पसरोऽर्थ- कस्य पल्वलशब्दस्य ‘पयोधिलक्ष्ममुिषि केलिपल्वले' इति तादृशे तटाके प्रयोगव्याघातश्च न्यूनतति केचिदभिमन्यन्ते । प्र-नैषधीयकाव्ये पौनरुक्त्यमास्ति वा! अस्ति चेत्, तत्र कतिप- यान्युदाहरणानि प्रदर्श, शक्यते चेत् , तं दोषं परिहरत । उ. -' निपीय यस्य क्षितिरक्षिणः कथा- स्तथाद्रियन्ते न बुधाः सुधामपि । नलः सितच्छत्रित कीर्तिमण्डलः स राशिरासीन्म हसां महोज्ज्वलः ॥ (१- १) 'रसः कथा यस्य सुधावधीरणी नल स भूजानिरभद्गुणामृतः । सुवर्णदण्डैकसि नातपत्रित ज्वलत्प्रतापावलिकोसिमण्डलः ।।' (१-२) इत् नयोः, 'स्वकेलिलेशस्मितनिर्जितेन्द्रनो निजांशक्तर्जितपद्मसंपदः । अतद्वाजत्वरसुन्दगन्तरे न तन्मुखस्य प्रतिमा चराचरे ॥' (१-२३) सरोरुहं तस्य दृशैव निर्जितं जिताः स्मितेनैव विधोरपि श्रियः । कुतः परं भव्यमहो महीयसी तदाननस्योपमितौ दरिद्रता ॥' (१-२४) इत्यनयोः, लिलिहे स्वरुचा पताकया निशि जिह्वानिभया सुधाकरम् । श्रितमर्ककरैः पिपासु यन्नृपतद्मामलपद्मरागजम् ।।' (२-१००) स्वरुचारुणया पताकया दिनभर्केण समीयुषोत्तृषः । लिलिहुर्बहुधा सुधाकरं निशि माणिक्यमया यदालयाः ॥' (२-९९) .

64 इत्यनयोश्च पौनरुक्त्यं परिस्फुरति; तथा अहेलिना कि नलिनी विधत्ते सुधाकरेणापि सुधाकरेण ।' (३-८०) इत्यत्रापि तदस्ति । अत्र आये- 'पूर्वश्लोके सुधासितच्छत्रे अविशेषेणोके अत्र तु विशेषणेत्यपौनरुक्त्यम् । एवमन्येष्वपि पद्येष विशिष्टार्थप्रतिपाद नादपौनरुक्त्यं द्रष्टव्यम्' इति व्याख्याता नारायणः । अत्र नलस्य श्लोकोक्तसत्तानुवादेन गुणाढ्यत्वविधैर्नपौनरुक्त्यम् । इह कीतेंरातपत्रत्वरू पूर्वश्लोकोक्तमपि सुवर्णदण्डवैशिष्टयादस्याप्यपूर्वत्वाद्वैचित्र्यविशेषः' तत्रैव मल्लिनाथः । द्वितीये तु-- पूर्वोक्तमर्थं पुनरप्याह' इति बदन्नारायणः 'उक्तमेवार्थ भङ्गयन्तरेणाह' इति लिवन्मल्लिनाथश्च भङ्गयन्तरं विनैव पी रुक्त्यदोषदाळमवगमयतः । तृतीयेऽपि---' पूर्वोक्त एवार्थो जिहापदप्रक्षेपण वर्णितः' इति नारायणः ; ' अथानयैव अङ्गया राजभवनं वर्णयति' मल्लिनाथः । चतुर्थे पुनः— 'मुधाकरपदं प्रथमं यौगिकम् ; द्वितीयमयौगिक मिति न पुनरुक्तिः' इति नारायणः । सहृदयास्तु पूर्वोक्तयोाख्यात्रोः शिशु रीदनप्रशमनप्रयामकल्पेन जल्पेन तृप्तिमप्रतिपद्यमानास्तत्र नत्र पुनरुक्ति दोषमेव पश्यन्ति । , मध्यमशारवायां तृतीयकक्ष्या। विश्वगुणादर्शः । प्र-विश्वगुणादर्शकर्ता वेङ्कटाध्वरी कदा जीवति स्म । उ-क्रिस्ताब्दीयस्य सप्तदशशतकस्यान्तिमे भागे समुत्पन्नोऽयं कति रिति विश्वसन्ति । प्र--अनेन कृतानि ग्रन्थान्तराणि नाम्ना निर्दिशत । -साहित्ये--वरदाभ्युदयचम्पूः, प्रद्युम्नानन्दनाटकम् , लक्ष्मीसहसा श्रीनिवाससहस्रम, सुभाषितकौस्तुभः, यादवराघवपाण्डवीयम् , मीमांसायाम- मीमांसामकरन्दः, विथित्रयपरित्राणम् , गायतन्त्रे-मणिसारखण्डनम . ८

No text on this page.

Prashnotaramaalaa

Author
Krishnamachari
Title
Prashnotaramaalaa
File name
Prashnotaramaalaa
Text
OCR done
Publisher
Madramaraad'alaraajakiiyamudraalayapratayaveichakeirraa Mudraapitaa
Language
Sanskrit
Pages
72
Library
Svi-ksri-chennai
Classification
Fiction. Prose Narrative
DLI number
369004
Barcode
5010010078316.00
Scanning centre
RMSC, IIIT-H
Rights
OUT_OF_COPYRIGHT
VMLT id
zXlbxgRiQDM
Download PDF

Prashnotaramaalaa