Bharti Bhawan Library, Allahabad
Karukvadarthh
Front matter
MPADA ॥ श्रीः॥ a कारकवादार्थः। श्रीमन्महामहोपाध्यायपण्डित- जयरामविरचितः । स एव क्षेमराज-श्रीकृष्णदासश्रेष्ठिना मुम्बय्यां स्वकीये "श्रीवेङ्कटेश्वर” (स्टीम् ) मुद्रणालये मुद्रयित्वा प्रकाशितः । संवत् १९६६, शके १८३१. अस्य सर्वेऽधिकारा राजनियमतः प्रकाशकाधीनाः सन्ति।
TIEW HARAN LISR ॥ श्रीः॥ अथ कारकवादार्थः। 400- नत्वा शम्भोः पदाम्भोजं जयरामः समासतः ॥ करोति कारकव्याख्यामिह संख्यावतां मुदे ॥१॥ कारकाणि कर्तृकर्मकरणसम्प्रदानापादानाधि करणानि षट् । कारकत्वं नाम क्रियानिमित्त त्वम् । चैत्रस्य तंडुलं पचतीत्यादौ संबंधिनि चैत्रा- दावतिव्याप्तेः । अनुमतिप्रकाशनद्वारा संप्रदाना, देवि तंडुलादिसंपादनद्वारा संबंधिनोऽपि पाका दिक्रियानिमित्तत्वात् । किंतु क्रियान्वितविभक्त्य- १ क्रियानिष्ठजन्यतानिरूपितजनकताशालित्वं तत् । २ चैत्रनिरूपित- स्वत्वशालितंडुलान्यासमवेततंडुलसमवेतधात्वर्थतावच्छेदकविक्लित्त्यनुकूल- वर्तमानव्यापारानुकूलकृतिमानिति वाक्यार्थः ।
MPURNA (४) कारकवादार्थः। यान्वितत्वम् । अस्ति च कर्नादीनां क्रियान्वितति- मुब्विभक्त्यर्थान्वयान तूदाहृते संबंधिनिषष्ठय- र्थसंबंधस्य। तंडुलादिनामार्थान्विततया क्रियान- न्वितत्वात्। चैत्रस्य पचतीत्यादावपि तंडुलादि- पदाध्याहारेणैव बोधः। षष्टयर्थसंबंधस्य तंडुला- दिनामाथैरेव क्रियायाः कर्मवादिनैव साकांक्षत्वा- त्परस्पराकांक्षाविरहात् । ओदनस्य भोक्ता चैत्र- स्य पाक इत्यादौ कर्तृत्वकर्मत्वार्थिका षष्ठी कार- कविभक्तिरेव । “कर्तृकर्मणोः कृति" इत्यनेन त- द्विधानात् । अत एव संबंधस्य न कारकत्वं क्रियायोगाभावादिति शाब्दिकाः। अत एव"गुरु- विप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक्स्वभेष- १ गुरुविप्रतपस्विदुर्गतनिरूपितसंबंधशालिरोगनिष्टविषयतानिरूपि- तविषयताशालिस्वनिरूपितसंबंधशालिस्वत्वविशिष्टभेषजनिष्ठकारणतानि- रूपितजन्याश्रयबलवदनिष्टाननुबंधिस्वेष्टसाधनीभूतकृतिसाध्यत्वाश्रयप्रती- कारानुकूलकृतिमानिति बोधः । Simes NepalestinguiALA 404 कारकवादार्थः। जैः" इत्यादौ, “सा लक्ष्मीरुपकुरुते यया परेषाम्" इत्यादौ चरोगे विपत्तौ चेत्यादिपदाध्याहारेणेव बोधः।यदिचविनाध्याहारंषष्टयर्थसंबंधस्य क्रिया- यामन्वय प्रामाणिकस्तदा क्रियान्वितकर्तृत्वकर्म- त्वादिषडन्यतमान्वयित्वंकारकत्वं बोध्यम् । अत एव "चर्मणि दीपिनं हंति दंतयोर्हन्ति कुंजरम्।के- शेषु चमरी हंति सीनि पुष्कलो हतः॥” इत्यादी निमित्तादेरपिन कारकत्वम् । एतादृश्य उपपदवि- भक्तयोन तुकारकविभक्तयःोगां दोग्धि पयःअर्जा ग्रामं नयतीत्यादौ गौणमुख्यकर्मद्वयमपि लक्ष्यम् अत्र हि द्रवद्रव्यविभागानुकूलक्रियानुकूलव्यापा- रविशेषः कर्तृनिष्ठो दुहेरर्थः। वायुर्वृक्षं पर्ण दोग्धी- ति वारणाय द्रवद्रव्येति देयम्।मेघोगगनंजलं दो- ग्धीति वारणाय विशेषेति।विशेषो हिदुहिधातुप्रयो गगम्यः। इत्थं च द्रवद्रव्येति न देयमिति वदंति।
(६) कारकवादार्थः। संयोगानुकूलक्रियानुकूलव्यापारस्तादृशो नीधा- तोरर्थः । तत्राद्य विभागेगामित्यस्य क्रियायां पय इत्यस्यान्वयानोवृत्तिविभागानुकूलपयोहात्तीकि- यानुकूलव्यापारानुकूलकृतिमानिति वाक्यार्थः । द्वितीये तु ग्राममित्यस्य संयोगेऽजामित्यस्य कि- यायामन्वयाग्रामवृत्तिसंयोगानुकूलाऽजावृत्तिक्रि- यानुकूलव्यापारानुकूलकृतिमानिति वाक्यार्थः। साक्षादात्वर्थतावच्छेदकनिरुक्तक्रियाद्वयरूपफ- लान्वायनोरजापयसोर्मुख्यकर्मत्वमातादृशक्रिया- नुरूपफलान्वितान्वयिनोर्गोग्रामयोगौणकर्मत्वम् उभयत्रापि धात्वर्थान्वितविभक्त्यान्वितत्वम- स्ति । फलद्वयस्यापि धात्वर्थतावच्छेदकत्वात् । अत एव कर्मद्वयसाकांक्षफलबोधकधातुत्वं द्विकर्मकत्वं सूपपादम् । यत्तु विभागानुकूलकि- या दुहेरर्थः, संयोगानुकूलक्रिया नयतेरर्थः। न तु कारकवादार्थः। तदुभयानुकूलकर्तृव्यापारः कर्मद्वयस्याप्येकत्र फले अन्वय इति । तन्त्र, प्रयोज्ययोः कर्मत्वा- नुपपत्तेः-परसमवेतत्वस्य क्रियायामभावात् । क- मद्वयस्याप्येकत्र अन्वये च गौणमुख्यव्यवहारोन स्यात् । एतेन विभागाद्यनुकूला कर्तृगता चेष्टैव दुहादेरर्थ इत्यपास्तम्, फलद्वयाप्रवेशे गौणमुख्य व्यवहारानुपपत्तेः । यद्यपि गामित्यस्यार्थों गो- वृत्तित्वं पयस्येवान्वेतीतिगौणं कर्म न लक्ष्यामिति तदपिन, गौः पयो दुह्यते इत्यादी गोः कर्मत्वस्य दुरुपपादत्वात् । अजां ग्राममित्यादौ ग्रामवृत्तित्व- स्य प्रागजायामसत्त्वेनान्वयायोगात् । काशीत: प्रयागेनीयमानामजां काशी नयतीति प्रयोगाप- तेश्च। तत्रतत्तक्रियानुकूलकृत्रिमत्त्वं तत्तक्रिया- कर्तृत्वम् । काष्ठादौ पाकायनुकूलव्यापारवत्त्वप्र- तिसंधानेऽपि कर्तृपदाप्रयोगात, कृताकृतविभा- गादिना सिद्धयत्नशक्तिकेन कृधातुनातृजतेन सि- NARAIN (८) कारकवादार्थः। इस्य कर्तृपदस्य यत्नाश्रयबोधकत्वाच ॥ अचेत- नेऽपि कर्तृपदप्रयोगस्तु गौणः। गुरुतरभारोत्तोल- नादिक्रियाविषयकयत्नसत्त्वेऽपि तक्रियाया अ- निष्पत्तो तक्रियायां कर्तृत्वाव्यवहारात विषयत्वं विहायानुकूलत्वमुपात्तम् । यदि च मत्तो भूतं न तु मया कृतमिति व्यपदेशानान्तरीयककृतिसाध्य- स्य पिष्टमध्यस्थशर्कराभोजनस्य न कर्तृत्वं तदा विषयत्वमपि निवेश्यम् । तच्च साध्यत्वेन । तेन यागादिकृतेरुदेश्यत्वेन स्वर्गादिविषयकत्वेऽपि न यागादिकर्तुः स्वर्गकर्तृत्वम् । अस्मदादिकर्तृक- यागादिकर्तृत्वमीश्वरस्येष्टम् । तथा विवक्षायामी- शः पचतीति प्रयोगोऽपीष्ट एवान चेत् कार्यत्वा- नवच्छिन्नजन्यतानिरूपितत्वमसाधारणत्वं निवे- १ तेन शक्क्यातक्रियाविषयकतत्तत्क्रियानिष्ठकार्यत्वावच्छिन्नजन्यता- निरूपितजनकताशालिकृतिनिष्ठाधेयतानिरूपिताधिकरणताशालित्वं नाम कर्तृत्वम् ।
MARIHANNEL कारकवादार्थः। श्यामिति नैयायिकाः। वैयाकरणास्तु"अनभिहिते कर्तरि"इत्यनुशासनात्-अचेतनेऽपि कर्तृपदप्रयो- गाक्रियाश्रयत्वमेव कर्तृत्वम्।कारककर्मादिपदव- कृधातुरप्यत्र क्रियार्थक एव । आश्रयत्वमिहाख्या- तार्थः। तथा च यागाद्यसमभिव्याहृताख्यातेन य- द्धात्वान्वितयद्धर्मवत्त्वं बोध्यते तद्धात्वर्थनिरू- पिततद्धर्मवत्त्वं तद्धात्वर्थकर्तृत्वम् । यथा पचती- त्यादौ पाकानुकूलव्यापारवत्त्वम्, जानातीत्यादौ ज्ञानाश्रयत्वम्, नश्यतीत्यादौ नाशप्रतियोगित्वम् इति चैत्रेण तंडुलः पच्यते इत्यादौ पाकजन्य- फलाश्रयत्ववारणाय यागाद्यसमभिव्याहृतेति । अंत्र चैत्रादेः कर्तृत्वं तु पचतीत्यायाख्यातबो- ध्यधर्ममादायैवेति बोध्यम् । धात्वान्वितद्विती- याद्यर्थकर्मत्वकरणत्वमादायाख्यातेनेति जाना- तीत्याद्याख्यातार्थ आश्रयत्वम्,न पाककर्तृत्वम् । हंतीत्यादौ हिंसाश्रयत्वम्, न गमनकर्तृत्वमित्ये- (१०) कारकवादार्थः। तत्संपत्तये यत्तदिति धात्वर्थविशेषणम् । यदि च काष्ठं पचति, स्थाली पचतीत्यादिप्रयोगवशात्क- रणादीनां कर्तृत्वमिष्टम् । तदा पच्यत ओदनः स्वयमेवत्यादौ कर्मकर्तृकर्मणोऽपि तदिष्टम् ओ. दनःस्वयं पचतीत्यप्रयोगस्त्वसाधुत्वात् ॥ कर्मा- ख्यातयागादिर्नेह विभाव्यते । कर्मत्वविशिष्टस्य कर्तृत्वरूपतावारणाय तदुपादेयम्।न हि कर्मत्वादेः कर्तृत्वरूपत्वे "अनभिहिते कर्त्तरि" इत्यनुशासू- नार्थः संगच्छत इत्याहुः । यत्र स्वतंत्रः कर्ता इति पाणिनिसूत्रात्कारकांतराप्रयोज्यत्वे सति कारकांतरप्रयोजकत्वं कर्तृत्वम् । सत्यंतेन पुरुषा- दिजन्यसंयोगरूपव्यापारवत्वरूपं तत् ।प्रयोज्य- त्ववत्कुठारादेर्युदासः । तन्न, ईश्वरप्रयोज्यानां जीवानां कर्तृत्वानापत्तेः। दण्डजन्यसंयोगरूप- व्यापारवति कुलालादावव्याप्तिश्चेति दिक॥कर्म- त्वं न करणव्यापारित्वमातद्धि करणजन्यव्यापा- SHATTERISTRAM कारकवादार्थः। (११) रवत्त्वं दात्रेण धान्यं लुनातीत्यादौ हस्तादिकर- णव्यापारवति दावादावतिव्याप्तम् । नापि परसम- वेतक्रियाजन्यफलशालित्वम् । गमिपत्योः कर्म- त्वस्य पूर्वस्मिन्देशे त्यजेश्चोत्तरस्मिन्देशस्यंदेः पू- र्वपरयोः प्रसंगात् । नदी वर्द्धत इत्यादौ वृद्धेरवय- वोपचयरूपायाः परंपरया तीरप्राप्तिरूपयत्नस्या- श्रये तीरे कर्मत्वप्राप्तिश्चेत-अत्र वदन्ति-धात्वर्थ- तावच्छेदकफलशालित्वं कर्मत्वम्' तादृशं फलं गमेः संयोगस्त्यजेविभागः पतेरधःसंयोगस्तदव- च्छिन्ने स्पन्दे शक्तिः, स्पन्दमात्र तेषांशक्तो पर्या- यतापत्तेः, स्पन्देव॒ध्धातोश्च न फलावच्छिन्नव्या पारे शक्तिरिति न कोपि दोषः। फलावच्छिन्नव्या पारबोधकत्वादेव धातूनां सकर्मकत्वव्यापारो मुख्यः।ज्ञाधात्वादीनां नामार्थान्वितोद्देश्यत्वाति- रिक्तविषयित्वरूपविभत्त्यर्थान्वय्यर्थकत्वं गौणं (१२) कारकवादार्थः। सकर्मकत्वम्।घटंजानातीत्यादितो घटविषयिता. शालिज्ञानाश्रयत्ववानिति बोधःतादृशधातुप्रयोग एव च कर्मप्रत्ययः। अत एवाभुंजान एव भोजनाय यतते इति प्रयोगात्-यत्धात्वर्थे नामार्थान्वितस्य चतुर्थ्योंदेश्यत्वस्यैवान्वयात्-न यते सकर्मकत्वं, न वा भोजनं यतते इति प्रयोगः । “भूमि प्रयाति विहगो विजहाति महीरुहम् । नतु स्वात्मानम्' इतिप्रयोगात्। स्वस्यधात्वर्थतावच्छेदकसंयोगवि- भागरूपफलशालित्वरूपसकर्मकत्वाभावात् पर- समवेतक्रियाजन्यत्वमपि धात्वर्थतावच्छेदक- फले निवेश्यम्।न चैवमपि मल्लो मल्लं गच्छतीत्या- दौ उभयकर्मजसंयोगरूपफलस्य तादृशत्वात्स्व- कर्तृकक्रियाकर्मत्वरूपव्यवहारस्स्वस्मिन्स्यादिति वाच्यम्। परसमवेतक्रियाजन्यतादृशफलशालित्वं यत्र तत्र कर्मत्वस्य स्वीकारात्।इत्थंच द्वितीयादेः कारकवादार्थः। (१३) क्रियान्वयिपदसमवेतत्वमप्यर्थनपरत्वं स्वप्रकृत्य- र्थापेक्षया सुपा स्वार्थफलान्वय्यपेक्षया कर्माख्या- तेन च बोध्यते। तथा च भूमिर्गम्यत इत्यादौ कर्मा- ख्यातस्थले फलं परसमवेतत्वं चाख्यातार्थ भूमि पदार्थस्य परत्वे विशेषणत्वेन फलं प्रति विशेष्यत्वे न चान्वयः।तथा च भूमिभिन्नसमवेतक्रियाजन्यफ लशालिनीभूमिरित्यन्वयबोधः।भूमि प्रयातीत्यतो भूमिभिन्नसमवेतभूमिवृत्तिसंयोगजनकस्पन्दानुकू- लकृतिमानित्यन्वयबोधः। एवं च स्वभिन्नसमवेतं स्ववृत्तिसंयोगजनकं यन्मल्लान्तरवृत्तिगमनं तद- नुकूलकृतिमत्त्वस्य स्वस्मिन्नभावादेव न मल्लः स्वं गच्छतीति प्रयोगः।नन्वत्र परत्वेस्वप्रकृत्यर्थस्या- न्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वेन,प्रति योगतामात्रेण वान्वयः।नायः,पृथ्वीप्रयाति विहग इत्यादौ अनन्वयापत्तेः। खगस्य पृथ्वीत्वावच्छिन्न (१४) कारकवादार्थः। त्वात्।न द्वितीयः, स्वात्मन्यपि खगपृथ्व्युभयभेद- सत्त्वात् स्वं प्रयातीत्यापत्तेरिति चेन्न, द्वितीया- धर्थफले यध्यक्तरन्वयस्तब्यक्तित्वावच्छिन्नप्रातियो- गिताकत्वसंबंधेन प्रकृत्यर्थस्य कर्माख्यातार्थफ- लान्वयिनश्च परत्वेऽन्वयात् । इत्यं च पृथ्वी प्रया- तीत्यादौ यत्पृथिवीव्यक्तिवृत्तिसंयोगजनकत्वं प्रयाणस्य तव्यक्तिभिन्नत्वं विहगेऽस्तीति न दोषः। परेतु पृथिवीमित्यादौ पृथिवीपदं कर्मत्ववत्पृथिवी- व्याक्तिपरमेवमन्यत्र कर्मवाचकं सामान्यपदलक्ष- णया विशेष्यपरम् । इत्थं चान्वयितावच्छेदकाव- च्छिन्नप्रतियोगितायास्ताहव्यक्तेर्न भङ्ग इत्या- हुः। यत्तु परसमवेतत्वं नार्थः। किंतु अन्योन्या- भावप्रतियोगितावच्छेदकत्वं क्रियान्वयिद्विती- यार्थः । तथा च भूमिवृत्तिसंयोगजनकभूमिनिष्ठा- न्योन्याभावप्रतियोगितावच्छेदकप्रयाणानुकूल- कृतिमानित्यर्थः । स्ववृत्तिक्रियायाः स्वनिष्ठा- कारकवादार्थः। (१५) न्योन्याभावप्रतियोगितानवच्छेदकत्वान्न स्वं प्र- यातीति प्रयोग इति । तत्र, तथापि येन मल्लेन मल्लांतरं न गतं सोपि मल्लो मल्लं गच्छतीति प्रयो- गापत्तेः।मल्लांतरनिष्ठभेदप्रतियोगितावच्छेदिकाया स्तन्मल्लवृत्तिक्रियायास्तन्मल्लवृत्तिभूमिसंयोगजन कत्वात् । यन्मल्लव्यक्त फलान्वयस्तस्याएवान्यो- न्याभावेऽन्वयोक्तौदोषवारणेतुतव्यक्तित्वादेःप्रका- रत्वेशत्यानन्त्यम् कथंचित्कर्मवाचकपदस्यतब्य क्तित्वावीच्छन्नलक्षणास्वीकारे युगपत्तिद्वयाविरो- धप्रसङ्गः ननुनान्योन्याभावप्रतियोगितावच्छेदक त्वक्रियान्वायद्वितीयार्थः।नवा परमवेतत्वंसमवेत- त्वस्वरूपसामान्यधर्मावच्छिन्नतत्कर्मसमवेतत्व- निष्ठप्रतियोगिताकाभावात्मकस्वप्रतियोगिताका- भावसंबंधेन कर्मवाचकपदार्थान्वितद्वितीयार्थास- मवेतत्त्वस्य क्रियायामन्वयस्वीकारात् । सामा- ZMANANE (१६) कारकवादार्थः। न्यरूपेण विशेषाभावानभ्युपगमे ययक्तद्धितीया- र्थसमवेतत्वेऽन्वयस्तव्यक्तिसमवेतत्वावच्छिन्नप्र- तियोगिताकाभावात्मकस्वप्रतियोगिताकाभावसं- बंधेनकर्मवाचकपदान्वितद्वितीयार्थासमवेतत्वस्य धात्वर्थक्रियायामन्वयस्वीकारात् । काप्यदृष्टचर- वेऽपि प्रकृते गत्यंतरविरहेण स्वीकारात् । अत एव न कर्मवाचकपदस्य तत्तद्व्यक्तित्वेन तत्तद्वय- क्तिबोधकतंया सामान्यरूपेण बोधकतया च युग- पत्तिद्वयविरोध इति चेन्न, नव्यनये क्रियाया अ- व्याप्यवृत्तितयातनिष्ठतदाश्रयद्रव्यसमवेतत्वस्या- पिअव्याप्यवृत्तित्वात-मल्लः स्वगच्छतीतिप्रयोग- प्रसंगस्यदुर्वारत्वापत्तिः।एतेन तत्तक्रियानधिकर- णत्वे सति तत्तक्रियावच्छेदकफलशालित्वं तत्त- क्रियाकर्मत्वं द्वितीयादेरेपि तत्तक्रियानधिकरण- त्वमर्थ इत्यपास्तम् । शक्त्यानंत्यापत्तेश्च । यत्तु कारकवादार्थः। (१७) क्रियान्वयि परसमवेतत्वमवेक्ष्य कन्वयिपरत्व- मेव लाघवात्कर्मप्रत्ययार्थ इति । तन्न, द्वितीयार्थ- फलपरसमवेतत्वयोरेकान्वयित्वेन लाघवात् । ग्रा- मो गमेः कर्म न तु चैत्र इत्यादौ परसमवेतकि- याजन्यत्वघटितस्यैव कर्मपदार्थतया तस्यैव कर्म- प्रत्ययार्थत्वात् । गम्यते ग्रामः स्वयमित्यादौ पर- त्वान्वयिविरहाचेति दिक् । अथैवमपि पतेः संयो- गावच्छिन्नस्पन्दार्थकतया धात्वर्थतावच्छेदकफ- लशालिनो भूतलादेःकर्मत्वे वृक्षात्पर्ण भूतलं पत- तीति प्रयोगः स्यादिति चेत्-तथा विवक्षायां भव- त्येवाअत एव "द्वितीयाश्रिता"इति सूत्रे पतितश- ब्दयोगे द्वितीयासमासविधानम् । तदुदाहरणं च नरकं पतितो नरकपतित इति साधु संगच्छते । क्वचित्सप्तम्यपि साधुः । यथा भूमौ पतति, ग्रामे गच्छतीत्यादौ । परे तु भूतलादेः कर्मत्वेऽपि न (१८) कारकवादार्थः। द्वितीया। यत्र फलसंबंध्याकांक्षा तत्रैव तत्स्वीका- रात् । अत्र तु फलस्याधोदेशवृत्तितया उपस्थित- वेन न संबंध्याकांक्षा । तथाहि कर्तृभिन्नान्वयिफ- लावच्छिन्नव्यापारबोधकस्य धातोः सकर्मकत्वं नतु पततः। अधःसंयोगरूपफलस्य पर्णान्वित- त्वात्। अध इत्यस्य संबंधिसाकांक्षतया संबंधि- वन पर्णस्यैवान्वयात् । भूतलं पर्णस्याधः न तु पर्ण भूतलस्येति न भूतलं पतति प्रयोग इति। अथ- कथं वृक्षात्पर्णमधः पतति इतिप्रयोग इति चेत् । भ्रमादयंविवक्षयावागतंतिरश्चीनमनूरुसारथेः' इत्य त्र व्यक्तिविशेषस्याधो धामपततीत्यर्थात नदोष इत्याहुः यत्तुत्यजगम्यादेः स्पन्दायात्मकव्यापार- मात्रेशक्तिः,फलस्य द्वितीयादिलभ्यत्वाताअतएव ग्रामं त्यजतिगच्छतीत्यनयोनेकार्थता । त्यजग म्योोंगे द्वितीयादिना विभागसंयोगयोबर्बोधनात्- ॥ कारकवादार्थः। (१९) त्यजेर्विभागावच्छिन्नस्पन्दशब्दत्वस्य गमेः संयो- गावच्छिन्नस्पन्दशब्दत्वस्य च कार्यतावच्छेदक- त्वात् । अत एव गमनं त्याग इत्यनयोरपि नैका- र्थता। उक्तकार्यकारणभावानुरोधेनातापित्यजग- भ्योविभागसंयोगावच्छिन्नस्पन्देलक्षणांगीकारात् विभागाधवच्छिन्नस्पन्दशाब्दत्वंच विभागादिस्प- न्दोभयवैशिष्टयावगाहिशाब्दत्वम् । तेन चैत्रेण ग्रामस्त्यज्यते इत्यादिवाक्यजन्यस्पन्दविशेषण- कविभागादिविशेष्यकशब्दत्वसंग्रहः । इत्थं च परसमवेततद्धात्वान्वितफलविशेषशालित्वं तत्त द्धात्वर्थकर्मत्वम् । तेन त्यजादे!त्तरदेशादौ क- मत्वमिति । तत्र विभागाद्यवच्छिन्नस्पन्दशाब्द- त्वस्य जन्यतावच्छेदकत्वे तादृशस्पन्दे शक्तर्दुर्वा- रत्वात् । परेषामितरान्विते शक्तिग्रहे इतरांशव- द्विभागाचंशस्य त्यागो न युक्तः । त्यागगमनयो- - A (२०) कारकवादार्थः। रेकार्थतावारणाय तत्फलविशिष्ट स्पन्दे शक्तिसि- हे विनापि तल्लक्षणानुसंधानं तथा प्रतीतरितिदिक ददातर्मूल्यग्रहणं विना स्वस्वत्वध्वंसपरस्वत्वजन- कत्यागः, यजतेर्दैवतोद्देश्यकस्वस्वत्वध्वंसफलक- त्यागः,जुहोतेस्तादृशानिप्रक्षेपश्चार्थः।अत एव ऋ- विजांतादृशत्यागाभावेपिहोतृत्वम्।अग्निप्रक्षेपश्च अग्निसंयोगानुकूलक्रियानुकूलघृतादिवृत्तिनोदना दिव्यापारः। न चैवमग्नौ जुहोतीत्यादौ सप्तम्यर्थ- स्याग्निसंयोगेऽन्वयोनिराकांक्षतेतिवाच्यम्।अत्र सं- योगानुकूलक्रियानुकूलव्यापारस्यैव धात्वर्थातान च तथाप्यग्नेः कर्मत्वापत्तिः। संयोगस्य धात्वर्था- नवच्छेदकतया तद्वतोऽग्नेः कर्मत्वाभावात् । कि- याया एव धात्वर्थतावच्छेदकतया तच्छालिनो घृतस्यैव कर्मत्वात् । द्वितीयार्थश्च वृत्तित्वं, तच्च धात्वर्थतावच्छेदकेऽन्वेति । इत्थं च विप्राय गां द- कारकवादार्थः। दाति, विष्णुं यजते, घृतं जुहोतीत्यादौ मूल्य- ग्रहणं विना विप्रोद्देश्यकगोवृत्तिस्वस्वत्वध्वंसपर- स्वत्वफलकत्यागानुकूलकृतिमानित्यन्वर्थबोधः। विष्णोरुद्देश्यत्वसंबंधन स्वस्वत्वध्वंसफलवत्त्वा- कर्मत्वम् । विष्णूद्देश्यकस्वस्वत्वध्वंसफलकत्या- गानुकूल कृतिमानित्यन्वयबोधः। घृतवृत्त्यअग्नि- संयोगावच्छिन्नक्रियानुकूलव्यापारानुकूलकृतिमा- नित्यन्वयबोधः । एवं मूल्यग्रहणप्रयुक्तस्वस्वत्व- ध्वंसफलकत्यागोविक्रय मूल्यदानप्रयुक्तस्वत्वो- त्पादकस्वीकारःक्रयः दत्तद्रव्यस्वस्यस्वत्वजनक- स्वीकारम्परिग्रहः तथा च गां विक्रीणाति, गांकी णाति गां, प्रतिगृह्णातीत्यादौ गोवृत्तिमूल्यग्रहण- प्रयुक्तस्वस्वत्वध्वंसफलकत्यागानुकूलकृतिमान, गोवृत्तिमूल्यदानप्रयुक्तस्वस्वत्वानुकूलस्वीकारा- नुकूलकृतिमानितिक्रमणान्वयधीरिति संप्रदायः (२२) कारकवादार्थः। इदमत्राभिधेयम्।दानस्य परस्वत्वजनकत्वे ततए- व विक्रयवारणे मूल्यग्रहणं विनेति व्यर्थम् । अथ प्रतिग्रह एव स्वीकाराविशेषतया स्वत्वहेतुः । अ- स्वामिके स्वीकारस्य स्वत्वहेतुत्वाकल्पनात् । अ- तएव याजनाध्यापनप्रतिग्रहाह्मणोधनमर्जयेत्' इत्यादिकं साधु संगच्छते । अन्यथा प्रतिग्रहवैफ- ल्यापत्तेदानं तु स्वस्वत्वध्वंसमात्र जनयत्पर- स्वत्वप्रयोजकमिति मतम् । तथापि तद्वैयर्थ्य तदु- पादानेऽप्युपेक्षायामतिव्याप्तेः । तस्या अपि स्व- स्वत्वध्वंसद्वारा परस्वत्वप्रयोजकत्वातातद्वारणा- य वैजात्योपादानस्यावश्यकत्वात् । वस्तुतो दूर- स्थपात्रमुद्दिश्य त्यक्तद्रव्यस्य प्रतिग्रहात्यागस्वा- मिकस्यानुकूलोद्देश्येन पुरुषण प्रतिग्रहात्स्वत्वा- स्वत्वं स्यादिति। अन्योद्देश्यकत्वादेः प्रतिबंधक वे तु गौरवम् । न च तादृशत्यागो दानाभास एव।
SENTERTAITISESSIRKINACHAITAMARWaane PAREERICANUARYAMAND कारकबादार्थः। (२३) ससंप्रदानको हि त्यागो दानं संप्रदानं च, ददस्वे- त्यनुमतिप्रकाशनद्वारा दानक्रियाहेतुत्वेन । न च असनिहितस्य तत्त्वमिति, न ततो दातुः स्वत्व- नाशइति वाच्यम् । “तीर्थे संकल्पितं यद्यत्तदन्य- त्र प्रदीयते । दाता तीर्थफलं भुक्ते प्रतिग्राही नदो- पभाक् ॥ मनसा पात्रमुद्दिश्य भूमौ तोयं विनिक्षि- पेत् । विद्यते सागरस्यांतो दानस्यांतो न विद्य- ते ॥” इति वाक्यात्तादृशदानसिद्धेस्तस्मादानमेव परस्वत्वजनकं प्रतिग्रहप्रागभावस्यापेक्षणीयत्वा- तुन प्रतिग्रहवैफल्यम् । अत एव यस्मै दत्तं तस्य प्रतिग्रहेण दातुः स्वत्वनिवृत्तिः। अस्तु वा दत्तद्र व्यस्वीकारत्वरूपप्रतिग्रहत्वेन स्वीकर्तव्यद्रव्यदा- नत्वेन वेति विनिगमकाभावात् । दानं स्वस्वत्व- ध्वंसद्वारा परस्वत्वजनकम्। प्रतिग्रहश्च स्वस्वत्व- जनकः।उभयथापि मूल्यग्रहणं विनति व्यर्थम्।वि- । mai TRA (२४) कारकवादार्थः। क्रयस्य परस्वत्वजनकत्वे मानाभावात् । न च विक्रीतद्रव्यस्वीकारत्वरूपक्रयत्वेन स्वीकर्तव्य- द्रव्यविक्रयत्वेन वा क्रयत्वमित्यत्रापि विनिग- मनाविरह मूल्यदानपूर्वकस्वीकारस्यैव क्रयत्वात् विक्रयत्वस्य गौरवेणानिवेशात् । किंच स्वस्वत्व- ध्वंसजनकेत्यपिव्यर्थम्, अव्यावर्तकत्वात् । अपि चाग्निप्रक्षेपो होम इत्यप्ययुक्तम्, 'देवतादेश्यक- स्वस्वत्वध्वंसफलकत्यागो यागः स एव प्रक्षेपाव- च्छिन्नो होम' इति वाचस्पतिमिश्राद्युक्तेः, 'याग एव विशिष्टदेशप्रक्षेपोपहितः होम' इति विवेकोक्ते- श्व अस्तु च ऋत्विजा त्यागाद्यनुमानस्य स्वस्व- त्वध्वंसोनुमतः-देशत्यागात् विदेशस्थस्वामी- स्वस्वत्वध्वंसवत् । वस्तुतस्तु दानत्वयागत्वहोम- त्वादयो मानसप्रत्यक्षगम्या जातिविशेषाः।न च 'श्राद्धस्य पित्रपेक्षया यागत्वं ब्राह्मणापेक्षयादान- कारकवादार्थः। (२५) त्वम्' इति विवेकोक्तेस्तयोः सांकानजातित्वमि- तिवाच्यं, श्राद्धस्य गौणतदुभयरूपत्वात् । व- स्तुतः श्राद्धस्य यागत्वमेव, उद्देश्यपित्रादिस्व- त्वाजनकत्वात् । ब्राह्मणस्य स्वत्वमपिन सार्वत्रि- कम्, ब्राह्मणाभावेपि श्राद्धोक्तेः। "पिंडास्तु गोज- विप्रेभ्य इत्यादिनान्यत्रापि प्रतिपत्तेः। विष्णुं य- जते इत्यादौ द्वितीयार्थोप्युद्देश्यत्वम् । तत्त्वं च तस्येदमित्यादिज्ञानविषयत्वमादेवतायाः स्वत्वो- पगमेत यागत्वं दानत्वव्याप्यं होमत्वं यागत्वव्या- प्यमिति सिद्धम् । देवपूजादिकमपि याग एवेति कृ- तमप्रकृतेन । अत एव संसृष्टिस्थलेऽसाधारणस्व- वनाशोत्तरं साधारणस्वत्वोत्पादात्-तत्र सक- लत्वविशेषणरहितदानलक्षणाव्याप्तिरित्यपास्तम् दानवजातेस्तत्राभावात् । परमत्र स्वत्वानुकूल- त्वविशेषणात्-संसृष्टिनिरास इत्यन्ये । तत्र नm- (२६) कारकवादार्थः। स्वत्वनाश-किंतु परस्वत्वोत्पत्तिमात्रम् । न च स्वस्वत्ववति परस्वत्वानुपपत्तिः । तत्रेच्छाया उ- त्तेजकत्वात् । स्वस्वत्वध्वंसपूर्वकत्वविशेषणादेव तनिरास इत्यन्योपरे त्वदृष्टविशेषजनकत्वविशेष- णात्तव्यावृत्तिरित्याहुः । एतेन विनिमये विक्रयल- क्षणातिव्याप्तिरित्यपास्तम् ।विक्रयत्वादेर्जातित्वा- त् । मूल्यातिरिक्तद्रव्यग्रहणप्रयुक्तस्वस्वत्वध्वंसप- रस्वत्वानुकूलत्यागो विनिमय इत्यन्ये । किमत्र स्वत्वमिति चेत् । अत्र प्राचीना:-यथेष्टविनियो- ज्यत्वं स्वत्वम् ।तच्चशास्त्रानिषिद्धविनियोगोपाय- क्रयप्रतिग्रहादिस्तद्विषयत्वम् । तच्च न बहिरिंद्रि- यवेद्यम्।प्रतिग्रहादेर्मानसज्ञानविशेषस्य बहिरिंद्रि- यायोग्यत्वात्।नव्यास्तु-प्रतिग्रहादिनाशोत्तरमपि स्वत्वव्यवहारप्रामाण्यानुरोधात् स्वत्वमतिरिक्त एव पदार्थः। तच्च स्वत्वं दानादितो नश्यति, कारकवादार्थः। (२७) प्रतिग्रहादितश्च स्वत्वमुत्पद्यते । तच बहिरिंद्रि- ययोग्यं स्वं पश्यामीति प्रतीतेस्तदीययथेष्टविनि- योज्यत्वज्ञानस्य तदीयस्वत्वसाक्षात्कारहेतुत्वात्। न यथेष्टविनियोगायज्ञानदशायांस्वत्वसाक्षात्का- रापत्तिः । वस्तुतस्तदीययथेष्टविनियोज्यत्वेतदी- यस्वत्वव्याभिचारित्वग्रहदशायां तहेऽपि स्वत्व- साक्षात्कारानुदयात् । तदीयस्वत्वसाक्षात्कारं प्र- ति तदीयस्वत्वव्याप्यतदीययथेष्टविनियोज्यत्वव- दिदमित्याकारकज्ञानस्य हेतुत्वं वाच्यम् । तथा च स्वत्वस्यानुमितिरेव नतु साक्षात्कारः। स्वत्वे- लौकिकविषयताकल्पनेलौकिकविषयिताशालि- तत्साक्षात्कारे तादृग्विशेषदर्शनस्य हेतुत्वकल्पने च गौरवात् । स्वं पश्यामीत्यनुव्यवसायस्तु-सुर- भि चन्दनं पश्यामीत्यादिवद्विशेषणांशो लौकिक- विषयत्वावगाही।न चायोग्यत्वकल्पने लौकिक- PARA (२८) कारकवादार्थः। साक्षात्कारे स्वत्वस्य प्रतिबंधत्वकल्पने गौरवमि- ति वाच्यम्, तस्यायोग्यत्वकल्पने लौकिकविष- यताविरहादेव तत्प्रत्यक्षवारणसंभवात् । योग्यत्वे तद्गोचरलौकिकप्रत्यक्षसामग्र्यास्तद्गोचरानुमित्या दो गौरवादित्याहुः । तच्च कर्म त्रिविधं--प्राप्यं, विकार्य, निर्वयं च। तत्रसंयोगादिक्रियाजन्यफ- लशालि प्राप्यम्।यथा ग्रामंगच्छतीत्यादौ-ग्रामा- दिः। यल्लब्धसत्ताकमेवावस्थांतरमापद्यतेतद्विका- यम् । यथा-काष्ठं भस्म करोति,सुवर्ण कुंडलं करो- तीत्यादौ काष्ठादिपदलक्ष्यस्य काष्ठावयवादेः सत एव भस्मादिसंबंधरूपावस्थांतरप्राप्तिः। यत्तु कि. या यत्कर्मनाशकं फलं जनयति तद्विकार्यम् । य था-काष्टं लुनातीत्यत्र काष्ठमिति । तन्न,काष्टपद लक्ष्यस्य काष्टावयवस्य कर्मतया क्रियायास्तत्रा शकत्वासंभवात् । अत्र हि काष्टपदस्य काष्ठावय वोलुनातेरारंभकसंयोगप्रतिद्वंद्विविभागानुकूलकि, ।
कारकवादार्थः। (२९) याव्यापारोऽर्थः तथा च काष्ठावयववृत्त्यारंभकसं- योगप्रतिद्वंद्विविभागजनकक्रियानूकूलव्यापारानु कूलकृतिमानित्यन्वयधीरिति काष्ठावयवस्य प्रा- प्यकर्मतैवावस्थांतरप्राप्त्यभावान विकार्यता । त- ण्डुलं पचतीत्यादौ तण्डुलपदलक्ष्यस्तंडुलावयवः पच्यर्थों रूपादिपरावृत्त्यवच्छिन्नो विक्लित्त्यवीच्छ- नतेजस्संयोगातथाचधात्वर्थजन्यफलशालिवा- त्सतोवस्थांतरप्राप्तेश्च उभयविधकर्मत्वं तंडुलाव- यवस्येष्टम् असंकीर्णस्थानमुक्तमेवेत्यदोषः।यकि- यया निष्पद्यते तन्निर्वर्त्यम् । यथा-घटं कटवाक- शेतीत्यादौ घटादि। अत्र कृत्रः फलावच्छिन्नव्या- पारबोधकत्वाभावाद्गौणकर्मत्वम्।तच्च साधनाख्य- कृतिविषयत्वम् । अत एव वीरणं करोतीत्यादिर्न प्रयोगः । वीरणादावुपादानताख्यविषयताया एवं सत्त्वात् । यत्तु कटादिपदस्यकटाद्यवयवे निरूढ-
MARREARCH
(३०)
कारकबादार्थः।
लक्षणा।तत्रविनालक्षणांकटादेगौणकर्मत्वसंभवेऽ.
पिकारकत्वासंभवातानिरूढलक्षणाया मुख्यप्रयो-
गापवादकत्वाच्च न वीरणं करोतीति मुख्यप्रयोग
इति । तत्र,घटंजानाति अतीतमित्यादौ घटादेरिव
कटादेरपि गौणकारकत्वसंभवात्। स्तोकं पचती
त्यादौ क्रियाविशेषणपदांतरद्वितीयाविशेषणवि
भक्तिवत् प्रयोगसाधुत्वाय नामार्थधात्वर्थयोरभे
दान्वयस्वीकारेणाभेदस्य संसर्गत्वात् । तदा स्वी
कारे विशेषणविभक्तिवदस्तु साभेदार्थिका । त
स्याःकारकत्वाभावस्तु क्रियान्वितकर्तृत्वाद्यन्वि
तत्वाभावात-इति दिक्॥
॥ इति कर्मनिरूपणम् ॥
करणत्वं कारकांतराचरितार्थत्वे सति क्रिया
हेतुत्वम् । कारकांतरनिष्टव्यापारद्वारा कियाहेत
त्वाभावः सत्यंतार्थः । कर्तृकारके आरंभकसंयो
।
कारकवादार्थः। (३१) गप्रतिद्वंद्विविभागानुकूलकुठारादिक्रियाया एव- च्छिदादिधात्वर्थतया कर्तुः कुठारादिकरणनिष्ठ- व्यापारद्वारा छिदादिहेतुत्वान्नातिप्रसंगः । कर्मण- स्तु तादृशक्रियाहेतुत्वविरहादेव नातिप्रसंगः । अ- धिकरणमपि कर्तृकर्मान्यतरव्यापारद्वारा क्रिया- हेतुः। चैत्रो गृहे स्थाल्यामोदनं पचतीत्यादौ गृ- हस्थाल्यायधिकरणं कर्तृकर्मसंयोगद्वारा पाका- दिक्रियासाधनं संप्रदानं स्वानुमितिप्रकाशनेन कर्तुरिच्छाद्वारा दाननिमित्तम् अपादानं पतनप्रति बंधकसंयोगनाशकपत्रादिविभागद्वारा पतनादि- निमित्तमिति नातिप्रसंगः । न चैवं कुठारादिकर- णस्थापि कनिष्ठव्यापारसापेक्षत्वादसंभवः।का- रकांतरनिष्ठव्यापारसंबंधावच्छिन्नजनकत्वाभाव- स्य सत्यंतार्थतया कुठारादिक्रियायां कुठारस्य तादात्म्यसंबंधेन हेतुतया कर्तृनिष्ठव्यापारसं- (३२) कारकवादार्थः। बंधेनाहेतुत्वात् । न च कुठारादिव्यापारादावति- व्याप्तिरिति वाच्यम्, तस्यापि एतन्मते लक्ष्य- त्वात् । अत एव फलायोगव्यवच्छिन्नं कारणं क- रणमिति वदति । वस्तुतस्तु व्यापारवत्त्वे सति कारणं करणम् । न चैवं कार्यमा ज्ञानादौ चादृष्ट- स्य मनोयोगस्य च व्यापारस्य सत्त्वादात्मनोऽपि करणत्वापत्तिः इष्टत्वात । उपधेयसंकरे कर्तृत्वक- रणत्वलक्षणोपाधेरसंकरात् व्यवहारभेदोपप- तेः। इत्थं चानुमितौव्याप्तिज्ञानं कारणम्,पराम- शस्य व्यापारत्वात् । चाक्षुषादौ चक्षुरादितत्सं योगस्य व्यापारत्वात् । श्रावणज्ञाने श्रोत्रमनः- संयोगस्य व्यापारस्य सत्त्वात् । न तु शब्द- स्य, शब्दाभावप्रत्यक्षे तस्य व्यभिचारात् । परे तु फलानुकूलकर्तृव्यापारवत्त्वम्। अस्ति च कुठा, रादिच्छिंदानुकूलकर्तृसंयोगादिमत्त्वम् । न च गृ हस्थाल्यायधिकरणस्यापि कर्तृव्यापारवत्त्वात्क ।
कारकवादार्थः। रणत्वापत्तिरिष्टत्वात् । स्थाल्यानं साधयतीत्या- दिप्रयोगात् । गवा दानं साधयति, ब्राह्मणेन दानं साधयतीत्यादिप्रयोगात् । तत्रापि तदिष्टं, चैत्रात्मना चैत्रेण वा पचतीत्यप्रयोगात् । कर्तुः शरीरस्य च वारणाय द्रव्यसमवायिभि- नतत्तक्रियानुकूलकृतिमतो भिन्नत्वेन विशेष्यम्। कृतिमत्त्वं समवायनावच्छेदकतया च । तेन शरीरस्यापि व्युदासः । भिन्नत्यनेन इस्ता- दिसंग्रहः । हस्तादिना छिनत्तीति प्रयोगात् । व्यापारवत्त्वं जनकतया। तेन व्याप्तिस्मृत्यादिसा- धारण्यमित्याहुः। अत्र परशुनाछिनत्तीत्यादौ नि- रुक्तकरणत्वं तृतीयार्थः। प्रकृत्यान्वितस्य तस्य धात्वर्थनिरूपकत्वेनान्वयः। तथा परशुनिष्टकरण- तानिरूपकत्वच्छिदानुकूलकृतिमानिति वाक्यार्थ इति प्रांचः। नव्यास्तु परशुना छिनत्तिन दात्रेणे- (३४) कारकवादार्थः। त्यादौ नञर्थान्वयानुरोधेन निरुक्तकरणत्वनिरू- पितजन्यत्वमेव तृतीयार्थः । तस्य निरूपितत्वेन प्रकृत्यान्वितस्य आश्रयतया धात्वर्थे अन्वयः। इत्थं च परशुनिरूपितजन्यत्वदात्रनिरूपितजन्य- स्वाभावश्च च्छिदायामन्वेतीत्याहुः जटाभिस्ताप- स इत्यादौ तृतीयोपलक्षणेतत्त्वं च अतघ्यावृत्त्यव- च्छेदकत्वे सत्यतघ्यावृत्तिसामानाधिकरण्यम् । अस्ति च घटानाम् अतापसत्वव्यावृत्त्यनवच्छेद- कत्वं शमादिमत्त्वस्यैव तदन्यूनातिरिक्तवृत्तितया तदवच्छेदकत्वात्।शमादिनातापस इत्यप्रयोगोऽ- विवक्षातः । तथा प्रयोगस्येष्टत्वे तु विशेषणो- पलक्षणसाधारणवैशिष्टयमेव तृतीयार्थः। अक्ष्णा काणः पादेन खंज इत्यादौ"येनांगविकारः" इत्य- नेन तृतीया, येनांगेन विकारो हानिराधिक्यं वा तदंगबोधकात्तृतीया। तृतीयाया वृत्तित्वमर्थः । तच्च व्युत्पत्तिवैचित्र्यात्काणादिपदार्थस्यैकदेशे - कारकवादार्थः । विकारेऽन्वेति।काणत्वं बहिरवच्छेदेन चक्षुःशून्य- गोलकवत्त्वम्।जातमात्रांधस्याकाणत्वे तु चक्षुर्म- गोलकत्वे सतीति वाच्यम् । यदि च बहिरवच्छे- देन चक्षुःसत्त्वेऽपि उपघातादेव न चाक्षुषं तदा- गोलकवृत्तियत्तच्छून्यत्वमुपघातो वा तद्विशिष्टः पुरुषः अक्ष्णा काण इत्यस्यार्थः । एवं खंजत्वं संस्थानविशेषणशून्यपदत्वम्।तथाचपदवृत्तियत्त- थाविधसंस्थानशून्यत्वं तद्विशिष्टःपुरुष इति पादे न खंज इत्यस्यार्थः । परे तु-अक्ष्णा काण इत्या- यभेदे तृतीया।तथा च तादृशगोलकाभिन्नं यश्चक्षुः शून्यमुपहतं तद्वानिति वाक्यार्थः एवं मुखेन त्रि लोचन इत्यत्रलोचनपदंलोचनत्रयविशिष्टवत्परम तथा च मुखादिभिन्नलोचनत्रयविशिष्टवानित्यर्थ इत्याहुः।धनेन कुलमित्यादौ हेतत्वे तृतीया । क्रियान्वयिनिरुक्तकरणत्वार्थिकातृतीया "कर्तृक- (३६) कारकवादार्थः। रणयोस्तृतीया" इत्यनेन विहिता "हेतौ” इति सूत्रेण तु नामार्थान्वित हेतुत्वार्थिकेति विशेषः । पुत्रेण सहागतः पितेत्यत्र तृतीयायाः कर्तृत्वमर्थः समभिव्याहतक्रिया सहशब्दार्थ एककालीनत्व- संबंधेन समभिव्याहृतक्रियायामन्वयः। तथा च पुत्रकर्तृकागमनसमानकालीनागमनकर्तेत्यर्थः शिष्येण सह गुरुबाह्मणः, पुत्रेण सह पिता सुंदरः सहार्थों ब्राह्मणादिसमानकालीनत्वसंबंधन ब्राह्म- णत्वादिपदार्थंकदेशेऽन्वेति।अपरेतु सहार्थ साहि- त्यमेकधर्ममात्रं तृतीयार्थो वृत्तित्वं संख्यामात्रंवा, तथाचशिष्यवृत्तिसाहित्यवान्गुरुर्ब्राह्मण इत्याहुः। "एकनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभी॥” इत्यादौ पुत्रे- घु भारवहनकर्तृत्वाभावेऽपि सहप्रयोगे विद्यमानप. दाध्याहारात् । विद्यमानत्वं साहित्यं सहशब्दार्थः कारकवादार्थः। (३७) तथाच समानकालीनत्वसंबंधेन दशपुत्रवृत्तिविद्य- मानत्वविशिष्टविद्यमानत्वाश्रयः। अत एव विद्य- मानत्वं सहसब्दार्थ इतिशाब्दिकागधान्येन धनी, गोत्रेण गार्यः,प्रकृत्याभिरूप इत्यादौ तृतीयाया अभेदोऽर्थः। तथा चधान्याभिन्नधनवान्, गोत्रा- भिन्नगर्गकुलोत्पन्नः, साहजिकाभिन्नरमणीयतावा- नित्यर्थः । प्रकृतिपदस्य साहजिकार्थत्वात् । अ- भिरूपपदस्य रमणीयतापदार्थत्वादिति दिक् । ॥ इति करणनिरूपणम् ॥ "कर्मणा यमभिप्रैतिस संप्रदानम्" इति पाणि- निसूत्रम्।तक्रियाकरणीभूतेन तक्रियाकर्मणा य- मभिप्रेति फलभागित्वेनोदेशीकरोति स संप्रदान- मिति वाक्यार्थः । करणीभूतकर्मजन्यफलभागि- त्वेनोद्देश्यत्वं संप्रदानत्वमिति फलितम् । ग्रामंग- च्छतीत्यादौ गमनकर्मग्रामजन्यसुखभागित्वेनोद्दे Lg (३८) कारकवादार्थः। श्यस्य चैत्रादेस्तक्रियायां संप्रदानत्वाभावात्तद्धा- रणाय करणीभूतेति। गमनक्रियायां ग्रामस्याकर- णत्वान्न दोषः । दानादौ देयादिकं करणमिति प्र- कृतिसंगतिपितृस्वर्णोद्देश्यन कृतगोदानस्थले दा- नजन्यफलभागित्वेनैवपितोदेश्यः-नतुगोजन्यफ- लभागित्वेनेति न पित्रादेः संप्रदानत्वम्।अत एव पित्रे गां ददातीति न प्रयोगः। यदि चादृष्टद्वारा दत्ता गौः पितुः स्वर्गमुत्पादयिष्यतीत्यभिसंधि- स्तदा फले कर्मजन्यत्वमदृष्टद्वारकं ग्राह्यम् । अत एक न स्वस्मिन्स्वकर्तृकदानसंप्रदानत्वापत्तिः।न वा चैत्रश्चैत्राय गां ददातीति प्रयोगप्रसंगः । वस्तु- तो धात्वर्थतावच्छेदकत्वेन फलं विशेष्यम्। पितुः स्वर्गादिकं न तथेत्यदोषः। इत्थं च विप्राय गां ददातीत्यत्र संबंधित्वेन परेच्छाविषयत्वं चतुर्थ्यर्थः चैत्राय चैत्रो ग्रामं गच्छतीत्यादिवारणाय परोति।
कारकवादार्थः। (३९) स च धात्वर्थतावच्छेदकफलेऽन्वेति । वृत्तित्वं द्वि- तीयार्थः। तथा च गोवृत्तिस्वस्वत्वध्वंसविप्रसंबं- धित्वेन परेच्छाविषयपूर्वकपरस्वत्वानुकूलत्यागा- नुकूलकृतिमानित्यन्वयधीः। यत्तु अत्र जन्यफ. लप्रकारकेच्छापूर्वकत्वं क्रियान्वयि चतुर्थ्यर्थः । व्युत्पत्तिवैचिच्याच तदेकदेशे जन्यत्वे कर्मणो गवादेनिरूपितत्वसंबंधेनान्वयः । तथा च विप्र- विषयकगोनिरूपितजन्यफलप्रकारकेच्छापूर्वक- गोवृत्तिस्वस्वत्वध्वंसपरस्वत्वानुकूलत्यागानुकू- लकृतिमानित्यन्वयधीरिति । तन्त्र, गोजन्यफल- स्य प्रकृते स्वरूपतया विप्रविषयिका या गोज- न्यफलप्रकारकेच्छा तत्पूर्वकत्वस्य दानेऽसंभवा- त् । तादृशेच्छाया एव दानत्वात, गौरवाचेति दिक् । एवं वृक्षायोदकमासिंचतीत्यादौ संयोगाव- च्छिन्नद्रवद्रव्यक्रियावच्छिन्नव्यापारो धात्वर्थः वृ- (४०) कारकवादार्थः। त्तित्वेनेच्छाविषयत्वं चतुर्थ्यर्थः । स च धात्वर्थ- तावच्छेदके संयोगेऽन्वति । वृत्तित्वरूपद्वितीया- थोपि तादृशद्रवद्रव्याकियायाम् । एवं च वृ. क्षवृत्तित्वेनेच्छाविषयसंयोगानुकूलद्रवद्रव्यवृत्ति- क्रियानुकूलव्यापारानुकूलकृतिमानित्यन्वयधीरि ति । अत्र क्रियातस्य धात्वर्थत्वे वृक्षस्य कर्म- त्वं स्यात् । न तु जलस्य । क्रियाया वृक्षापे- क्षयैव समवेतत्वात् । न चैवं पयसा वृक्षमा- सिंचतीत्यादौ कर्मत्वं न स्यात् । धात्वर्थताऽवच्छे- दकक्रियाया वृक्षावृत्तित्वादिति वाच्यम् । अत्र क्रियांतस्यधात्वर्थतया धात्वर्थतावच्छेदकद्रवद्र- व्यसंयोगस्य वृक्षवृत्तित्वाद्रवद्रव्यसंयोग एवं धा- त्वर्थ इति न युक्तम् । तर्हि फलावच्छिन्नब्यापारा- बोधकत्वाद्धातोरकर्मकत्वम् । धात्वर्थतावच्छेदक- फलशालित्वाभावात् वृक्षादेरकर्मकत्वं स्यात्। अ.
कारकवादार्थः । (४१) वाजां ग्रामं नयतीतिवहिकर्मकत्वं स्यादिति ना- शंकनीयम् । क्रियांतार्थत्वे धात्वर्थतावच्छेदकफ- लद्वयाभावात् । तादृशक्रियानुकूलव्यापारार्थत्वे च.क्रियायामेव द्वितीयार्थवृत्तित्वान्वयात्। क्रिया- वच्छेदकसंयोगे तु वृक्षायेत्यादिचतुर्थ्यर्थस्योद्दे- श्यत्वस्यैवान्वयन द्वितीयार्थस्य । व्युत्पत्तिवै- चित्र्यात् । चतुर्थीसमभिव्याहृतस्य सिच्धातो- स्तादृशव्यापारार्थत्वात् । अत एवाजां ग्रामं नय- तीत्यत्र ग्रामस्य न संप्रदानत्वम् । अत्र हि संयो- गावच्छिन्नक्रियानुकूलव्यापारःप्रेरणधात्वर्थः द्वि- तीयार्थो वृत्तित्वम् । संयोगे तु ग्रामपदोत्तराद्विती- यार्थः क्रियायामजापदोत्तरद्वितीयार्थेऽन्वेति । त- थैव व्युत्पत्तेः । तादृशफलभागित्वेन ग्रामादेरनु द्देश्यत्वान्न संप्रदानता। तादृशफलभागित्वेनोदे- श्यत्वे तु उद्देश्यत्वविवक्षायां ग्राममजां नयती- घDMRIRAMANTRIBामिनी HINDI (४२) कारकवादार्थः । ति भवत्येवेति दिक् ॥ परे तु त्यज्यमानद्रव्यस्व- स्वभागित्वेनोद्देश्यत्वं संप्रदानत्वम् । त्यागोऽत्र वि- लक्षणो ग्राह्यः । तेन विक्रयादौ क्रेत्रादेर्न संप्रदा- नत्वम्।कर्मणा दानकर्मणा यमभिप्रतिससंप्रदान- मिति 'कर्मणा' इत्यादिसूत्रार्थः। अत एव संप्रदी- यतेऽस्मै इति संप्रदानसंज्ञान्वथैव ॥ श्राद्धादौ पि- त्रादेः स्वत्वभागित्वेनोदेश्यत्वम् । किंतु प्रीति- भागितयेति संप्रदानत्वाभावेन संप्रदानचतुर्थ्यसं- भवात् । नमः स्वस्ति' इत्यादिना सूत्रांतरण त- त्रचतुर्थी। एवं वृक्षायोदकमासिंचतीत्यादौ संप्रदा- नप्रयोगो गौणः चतुर्थीप्राप्त्यर्थः।अत एव शत्रवेऽस्त्रं मुंचति,मित्राय दूतं प्रेषयतीत्यादौ धात्वर्थतावच्छे दकफलभागित्वेनोदेश्यत्वाभावेऽपिचतुर्थी।विभा- गानुकूलक्रियानुकूलव्यापारो मोचनम्। संयोगा- नुकूलक्रियानुकूलव्यापारःप्रेषणमिति धात्वर्थता- कारकवादार्थः। (४३), वच्छेदकरूपफलजन्यफलशालित्वेन शत्रुमित्रयो- रनुद्देश्यत्वम् । इत्थं चोदकादिजन्यफलपल्लवा- यजन्यदुःखादिदूतजन्यवार्ताज्ञानादिफलशालि- त्वेनोद्देश्यत्वमेव वृक्षायेत्यादिचतुर्थीत्रयार्थः । न च गुरुप्रीत्युद्देश्येन गुरुपुत्राय दत्तायां गवि गुरवे गां ददातीति स्यात्, तथा विवक्षाया- मिष्टत्वात् । अत एव रजकसंबोधिनस्तस्य ता- त्पर्य विषयत्वे रजकस्य वस्त्रं ददातीति प्रयो- गः । वस्त्रजन्यफलभागित्वेनोद्देश्यत्वस्य तत्त्वे तु रजकाय वस्त्रं ददातीति भवितव्यम् । न चै- वं श्राद्धादावपि पित्रादेः प्रीतिभागित्वेनोद्देश्य- त्वात् संप्रदानचतुर्थैवोपपत्तेः “ नमः स्वस्ति" इत्यादि सूत्रांतरं व्यर्थम् । यत्किंचिक्रियाकर्मज- न्यफलशालित्वेनोद्देश्यत्वस्यैव गौणसंप्रदानत्वरू पतया नम पदार्थादेः क्रियात्वाभावत्वेन पृथक्- सूत्रप्रणयनात् । नारदाय रोचते कलहः, वैश्याय (४४) कारकवादार्थः। शतं धारयतीत्यादौ तु न नारदादेः संप्रदानता किंतु "रुच्यर्थानांप्रीयमाणः","धारेरुत्तमर्णः” इति सूत्राभ्यां संबंधमात्रे चतुर्थी । तथा च चतु- • संबंधो धातुना रुचिराख्यातेन विषयता बो- ध्यत इति । नारदस्य रुचिविषयः कलह इत्याद्य- स्य। पुनर्दानमंगीकृत्य द्रव्यग्रहणं धारणं वैश्यस्य शतकर्मकतादृशग्रहणाश्रय इत्थं तस्यार्थः सं- प्रदानस्य कारकत्वं धात्वर्थतावच्छेदकस्वत्वनि- ष्पादकत्वेन ददस्वेत्यनुमितिप्रकाशनेन दातरि- च्छामुत्पाद्य दानसंपादनेनैवेत्याहुः।परेतु त्याग- जन्यस्वत्वजनकस्वीकारकत्वं संप्रदानत्वम् । श्रा- दादौ पित्रादेर्न स्वीकारः । रुद्राय गां ददाती- त्यादावपि गौणसंप्रदानत्वमुद्देश्यत्वरूपमित्याहुः। ॥ इति संप्रदानम् ॥ परकीयक्रियाजन्यविभागाश्रयत्वमपादानत्वम्। वृक्षात्पर्ण पततीत्यादौ पत्रादेरपादानत्ववारणाय कारकवादार्थः। (४५) परकीयेति । अत्र पंचम्या विभागजनकत्वमन्यो- न्याभावप्रतियोगितावच्छेदकत्वं चार्थः। विभागे- न्योन्याभावे चाधिकरणत्वेन वृक्षोऽन्वेति । तथा च वृक्षवृत्तिविभागजनकवृक्षवृत्त्यन्योन्याभावप्रति योगितावच्छेदकपतनाश्रयः पत्रमिति वाक्यार्थः । तथाच ध्रुवमपायेऽपादानम् इति पाणिनिसूत्रम्। अपाये ध्रुवं निश्चलं 'प्रकृतिपंचम्यर्थविभागजनक- त्वान्वयि क्रियाशून्यमिति तदर्थः । तेन धावतोऽ- श्वात्पततीत्यादौ अश्वादेः पुरुषनिष्ठविभागहेतु- क्रियावत्त्वेऽपि प्रकृतिपंचम्यर्थविभागजनकत्वा- न्वयिनी या पतनक्रिया तच्छून्यत्वमव्याहतस्पं- दजन्यविभागाश्रयत्वेन वृक्षादेरपादानत्वे वृक्षात्प- ण स्पंदत इति स्यात् अतः क्रियेति । क्रियापदं सकर्मकधात्वर्थपरम् । व्याघ्राद्विभेतीत्यादौ पंचमी नापादनत्वे-किंतु हेतुत्व इत्यग्रे वक्ष्यते । धा- । (४६) कारकवादार्थः। त्वर्थतानवच्छेदकत्वेन विभागो विशेष्यः । तेन वृक्षं त्यजति खग इत्यादौ वृक्षस्य नापादानत्वम् । यत्तु विभागावच्छिन्नक्रियायास्त्यजधात्वर्थतया विभागविशिष्टक्रियाजन्यत्वाभावान्न दोष इति । तन्न । तर्हि अधःसंयोगावच्छिन्नक्रियाया एव पतत्यर्थतया वृक्षपर्णविभागेऽधःसंयोगविशिष्टक्रि- याया अजनकत्वादसंभवापत्तेः । विभागे फलोप- लक्षितव्यापारजनकत्वमुभयत्र तुल्यमिति दिक् । वृक्षाद्विभजत इत्यादौ विभागावधित्वमपादानत्वम् अवधित्वं स्वरूपसंबंधरूपं पंचम्यर्थः । अपाये विभागेध्रुवम् अवधिभूतमपादानमित्यपिपाणिनि- सूत्रार्थः। तथा च वृक्षनिष्ठावधितानिरूपकविमा- गाश्रयः पर्णमित्युक्तवाक्यार्थः। न चैवस्वंस्वस्मा- द्विभजत इत्यपि स्यात्। स्वप्रतियोगिकत्वविशिष्ट- संयोगस्यैव स्वावधिकत्वविशिष्टविभागस्यापि कारकवादार्थः। (४७) स्वस्मिन्नभावात् । इत्थं चापादानपदं पंचमीपदं नानार्थमेव बोध्यम् । धावतोऽश्वात्पततीत्यादा- वपि अवधित्वमेव पंचम्यर्थः । व्याघ्राद्विभति, शत्रोः पराजयत इत्यादौ पंचमी नापादाने। किंतु "भीत्रार्थानां भयहेतुः" इति सूत्रेणानुसृष्टहेतुत्वा- थिका । धातोश्च यथायथं भयं भयाभावश्चार्थः । पंचम्यर्थहेतुत्वंधात्वर्थभये धात्वर्थतावच्छेदकेचा भयेऽन्वेति । आश्रयत्वं व्यापारश्च यथायथमा ख्यातार्थः । तथा च व्यानहेतुकभयाश्रय इत्या- यस्य शत्रुहेतुकभयानुक्लव्यापारवानित्यंतस्या- र्थः । इत्थं च पंचम्यैवोपपत्तौ पृथक्सूत्रं प्रप- वार्थमिति बोध्यम् । एवं कूपादन्धं वारयती- त्यादौ पंचम्या अवधित्वमधःसंयोगानुकूलक्रिया- रूपं पतनं द्वितीयाया धात्वर्थेकदेशप्रतिबंधान्वि- तवृत्तित्वम् । धातोः प्रतिबंधानुकूलव्यापारोऽर्थः। RASHANANCHAIRMerreirail (४८) कारकबादार्थः। तथा चांधवृत्तिकूपावधिकपतनप्रतिबंधानुकूल- व्यापारानुकूलकृति मानिति वाक्यार्थः संपद्यते सचन युक्तः।यत्र हि त्रिक्षणावस्थायिनि खण्डकूपे परमाण्वादेरधःसंयोगो मानाभावेनासिद्ध तत्रासं- भवाताअत एव द्वितीयाया:पतनंपञ्चम्यावात्वर्थ- तावच्छेदकाभावान्वयिवृत्तित्वम् । धातोरभावानु कूलव्यापारः । तथा च कूपवृत्यंधपतनाभावानु- कूलव्यापारविषयकयत्नवानिति वाक्यार्थोऽपिन युक्तः। यदंधस्य पतनमप्रसिद्धम्।तत्रासंभवाता किं- तुधातोरभावानुकूलव्यापार पंचम्यावृत्तित्वम्।द्वि- तीयाप्रतियोगित्वमनुयोगित्वम्।धात्वर्थतावच्छेद- कीभूताभावान्वितमर्थः । अभावश्च कूपादिसम- भिव्याहारात्पतनादिना तजन्याधःसंयोगादिना वा संबंधेन बोध्यः। तथाच पतनादिसंबंधेन कूपवृ- त्यंधप्रतियोगिकाभावानुकूलव्यापारविषयकय- कारकवादार्थः। (४९) नवानिति वाक्यार्थः एवमेतस्मात्सविषादनान्मि त्रं वारयतीत्यादौ यत्सविषानस्य यन्मित्रस्य च भोजनमप्रसिद्धम्-तत्रापि भोजनसंबंधन सविषा- नवृत्तिप्रतियोगिकाभावानुकूलव्यापारविषयककृ- तिमानित्यन्वयधीः । परे तु कूपाधं वारयतीत्य- त्रसविषादनाद्धातोरुभयत्र मित्रं वारयतीत्यत्र धा- तोः पतनामाये, द्वितीये भोजनमाअभावानुकूल- व्यापारश्चोभयत्रार्थः। द्वितीयायाः कर्तृत्वमर्थः । धात्वर्थतावच्छेदकीभूताभावे धात्वर्थपतनादेर- धिकरणत्वेन द्वित्वावच्छिन्नत्वं पचम्यर्थद्वितीयार्थ कर्तृत्वोभयस्य प्रतियोगित्वेनान्वयो व्युत्पत्तिवै- चित्र्यात्। तथाचपतनसामान्ये कूपावच्छिन्नत्वां- धकर्तृत्वोभयप्रतियोगिकाभावानुकूलव्यापारविष यकत्ववानिति आद्यस्य, भोजनसामान्येसविषा- नकर्मत्वमित्यत्र कर्तृत्वोभयप्रतियोगिकाभावा- (५०) कारकवादार्थः। नुकूलयत्नवानिति द्वितीयस्यार्थः । आकाशं न प- श्यति घटश्चैत्रो वेत्यादौद्वितीयाविषयित्वम् । ल- क्षणया घटादिवृत्तित्वं बोध्यते। धातुनालौकिक- विषयत्वावच्छिनचाक्षुषप्रत्यक्षम् ।तत्रैवावच्छिन्ना वच्छिन्नद्वितीयान्वितनञर्थस्यान्वयः।आख्या- तस्य तादृशोभयाभावान्वितनिरूपितत्वमर्थः । तथा चलौकिकचाक्षुषप्रत्यक्षसामान्ये यआकाश विषयित्वघटादिवृत्तित्वोभयाभावः तत्प्रतियोगि- तानिरूपको घट इत्यर्थः।आकाशादिविषयकचा- क्षुषोपनीतभानेपि लौकिकविषयित्वावच्छिन्नाका- शविषयित्वचैत्रवृत्तित्वोभयाभावसत्त्वान्न दोषः । एवमन्यत्राप्रसिद्धस्थले बोध्यमित्याहुः । हिमवतो गंगाप्रभवतीत्यादौ पंचम्या हेतुत्वं धातोरुत्पत्तिर- र्थ इति न युक्तम् । तर्हि'जनिकर्तुः' इत्यत एवोप- पत्तौ "भुवः प्रभवः” इति वैयर्थ्यप्रसंगात् । किंतु कारकवादार्थः। प्रकर्षेण भवनं प्रकाशः आद्यबहिःसंयोगरूपः। स च धात्वर्थः । बहिःसर्वःप्रकृतेः स एव पंचम्य- र्थः। संयोगध्वंसाव्यवहितोत्तरक्षणवृत्तित्वमाख्या- तार्थआश्रयत्वम् । तथा च हिमालयसंयोगध्वंसा- व्यवहितोत्तरक्षणवत्यायपृथिवीसंयोगाश्रयत्ववती गंगेत्यर्थः । वैकुंठात्काशीतो वा गंगा प्रभव- तीत्यप्रयोगादव्यवहितेति, आयति च । वैकुंठसं- योगध्वंसाव्यवहितोत्तरक्षणसंबंधस्य काशीसंयोग व्यवहितोत्तरक्षणे आद्यस्य तस्याभावाददोषः । "वल्मीकापात्प्रभवति धनु:खण्डमाखण्डलस्य इत्यादावप्येवमेव । तत्र तर्हि पदार्थों वल्मीकायो- धंदेश इति विशेषः। कृष्णात्पराजयते, अध्यय- नात्पराजयते बाल इत्यादोधातोरसहिष्णुता पंच- म्याः कर्मत्वमाख्यातस्याश्रयत्वमर्थः। श्रीकृष्णं न सहते, अध्ययनंनसहतेइतिविवरणात्।असहिष्णु- (५२) कारकवादार्थः। ताद्वेषःअभिभवाशक्यत्वज्ञानम् आशक्यज्ञानं व तथा च श्रीकृष्णविषयकभिन्नाभिभवाशक्यत्वज्ञा नवान शिशुपालः कृष्णविषयकद्वेषवान वेत्याद्या स्य,अध्ययनविषयकाशक्यत्वज्ञानवान् बाल इ त्यतस्यार्थः। विशद्वनमादत्ते इत्यादौ पथवृत्तिनि योगोों नतु स्वत्वम्।चोराद्धनमादत्ते इत्यादौ चो- रस्य स्वत्वाभावेन तदसंभवात् । धातोरपि यथेष्ट- विनियोगफलकस्वीकारोऽर्थः। न तुस्वत्वजनक- स्वीकारः। विप्रादनमादत्ते चौर इत्यादौ चौरस्य तदसंभवातापंचम्यर्थश्च विनियोगोऽव्यवहितोत्त- रत्वसंबंधन धात्वर्थतावच्छेदके विनियोगेऽन्वति। अव्यवहितोत्तरत्वं च स्वसमानविषयकपुरुषांत- रीयविनियोगव्यवहितभिन्नत्वम्। तेन शूद्वतःप्रति- ग्रहीत्रा विप्रेण दत्तं धनमादातर शूद्रादादत्त इति न प्रयोगः। इत्थं च विप्रयथेष्टविनियोगाव्यवहितो- त्तरधनवृत्तियथेष्टविनियोगफलस्वीकारवानित्य- कारकवादार्थः। (५३) र्थः।अधर्माजुगुप्सत इत्यत्र पंचम्यर्थः कर्मत्वं धा- तोर्निदार्थः। तथाचाधर्मनिंदतीत्यर्थः। अधर्मादिर मतीत्यत्र धातोःकरणमर्थः पंचम्याः कर्मत्वमर्थः। स च करणेऽकरणे चान्वेति । तथा चाधर्मं कृत्वा पुनर्न करोतीत्यर्थः। धर्माप्रमाद्यतीत्यादौ पंचम्या विषयत्वं धातोरखधानताख्यातस्याश्रयत्वमर्थः । धर्माविषयकावधानभावाश्रय इति वाक्यार्थः । उपाध्यायादंतर्धत्ते शिष्य इत्यादौ धातोः स्ववि- षयकप्रत्यक्षविरोधव्यापारःपंचम्या संबंधित्वंधा- त्वर्थतावच्छेदकप्रत्यक्षान्वितमाख्यातस्य कृतिर- र्थः। तथाचोपाध्यायसंबंधित्वस्वविषयकप्रत्यक्ष- विरोधिव्यापारानुकूलकृतिमानिति वाक्यार्थः । दंडाद्धटः, धूमावह्निमानित्यादौ पंचमी नापादा- ने कियायोगाभावात् । किंतुजनकत्वज्ञापकत्वरू: पहेतुत्वे जन्यत्वव्याप्यत्वहेतुमत्त्वे वा हेतौ” इति , कारकवादार्थः। सूत्रानुशिष्टा। नचैवं "जनिकर्तुःप्रकृतिः" इति व्य र्थम्।काष्ठात्पचतीत्यत्रेव दंडाज्जायत इत्यादावप्यु त्पत्तिनिरूपिते हेतुत्वार्थकपंचम्याः “हेतौ "इनि सुत्रेणैव संभवादिति वाच्यम् । उत्पत्तेः सहेतुत्वेपि सावधिकत्वव्यवहारादुत्पत्तिरूपधात्वर्थनिरूपि तस्वरूपसंबंधस्य हेतुत्वानात्मकतया हेतौ” इति सूत्रेणैतदर्थकपंचम्या अंसभवादिति।अधिकरणञ्च स्वधर्मसंबंधसंयोगादिरूपसंबंधस्यद्विनिष्ठतयाब- दरादेरपि कुंडाद्याधारतापत्तेः । न च स्वधर्मसंबं धोधिकरणत्वं कुंडादिकं च न बदरादिधर्म इति बाच्यम् । स्वधर्मत्वस्य स्वाधेयत्वरूपतया आधे यत्वस्य चस्वनिष्ठाधिकरणतानिरूपकत्वेनान्यो- न्याश्रयप्रसंगात् । नाप्युत्पत्तये स्थितये ज्ञप्तये चापेक्षणीयमधिकरणम् । उत्पत्तयेऽपेक्षणीयं का- र्यस्य समवायिकारणं, स्थितये घटादेर्भूतलादिज्ञ । कारकवादार्थः। (५५) तये जात्यादेः समवायिसमवायादेस्स्वरूपसबं- धीति वाच्यम्। अपेक्षणीयत्वस्य कारणस्वरूपत्वे- नासमवायिकारणादावतिव्याप्तेः समवायिकारण- वं घटत्वादिज्ञप्तये घटादौ न संभवति । नापित- भिन्नत्वे सति तत्पतनं प्रतिसंयोगवनमूर्त्तत्वमधि- करणत्वम् । पतनवन्मूर्ताधिकरणत्वस्य ब्रह्मांडा- दिधारकसंयोगाश्रयेश्वरे मूर्तत्वमुपात्तम् ।मूर्तमात्र स्य विलक्षणतत्संयोगादिमत्त्वेन कस्यचित्पतना- प्रसिद्धावपि नाव्याप्तिः । गुणादेस्तत्समवायित्वं समवायादेस्तत्स्वरूपसंबंधित्वम् । एवं परंपरेति वाच्यम् । अननुगमनात् । सप्तम्या नानार्थत्वे चान्याय्यत्वात् । किंतु प्रतियोगित्वादिवदधिकर- णत्वमधिकरणमितिप्रतीतिसाक्षिकः स्वरूपसं- बधविशेषे चातिरिक्तम्, अतिरिक्तोवेत्यन्यदेतत् । एवमाधयत्वमपि । इत्थं च गृहे स्थाल्यामोदनं (५६) कारकवादार्थः। पचतीत्यादौ पच्यर्थः अधःसंपतनमधिवह्निसंयो- गानुकूलकाष्टवयादेापार इत्येके। पच्यर्थो वि कित्त्यवच्छिन्नाग्नितंडुलादिसंयोगएवपाकजरूप मित्यादिव्यवहारादित्यन्ये । उभयत्रापि गेहादे साक्षात्तदाधिकरणत्वासंभवात्।कर्तृकर्मान्यतरद्वारा क्रियाश्रयस्वरूपाधिकरणत्वं सप्तम्यर्थः तदाहुः "कर्तकर्मव्यवहितं साक्षाद्धारयति क्रियाम् ।। उप कुर्वक्रियासिद्धौ शास्त्रेऽधिकरणंस्मृतम्।।"वस्तुतः परंपरया आश्रयत्वमा सप्तम्यर्थः । अत एव प्रा गणस्थेन दीर्घदंडादिकाष्ठादिचालनद्वारा गृहम ध्ये पाककरणे गृहस्य कर्तद्वारा क्रियानाश्रयत्वेपि गृहे पचतीति प्रयोगः । वह्निचैत्रादेः साक्षात्पाक- गमनादिक्रियाश्रयत्वेऽपि वह्नौ पचति चैत्रो गच्छ तीत्यायप्रयोगात्परंपरयेत्युक्तम् । न चैवं किया यत्वस्यैव सप्तम्यर्थे क्रियाप्रयोगेन विना भूतले घ- कारकवादार्थः। (५७) र इत्यादिप्रयोगोन स्यादिति वाच्यम् । इष्टत्वात्। न हि क्रियारहितं वाक्यमस्तीति शाब्दिकाः। वस्तुतोधिकरणत्वमात्रमाधेयमात्र वा सप्तम्यर्थः । क्रियाशक्यव्यर्थत्वात् । न च यक्रियायामन्वति तस्य तकियाकारकत्वव्यवहारः । अत एवं भूतले घट इति शून्यवाक्यशाब्दबोध इति नैया- यिकाः । अत्र भूतलनिष्ठाधिकरणतानिरूपको घट इत्यन्वयबोधः निष्ठत्वनिरूपकत्वं च संसर्ग इति प्रांचः। एवं सति निरूपकत्वसंबंधस्य प्रतियोगिता- नवच्छेदकत्वात् । भूतले न घट इत्यादौ नञर्थान्व- यासंभवादाआधेयत्वं । सप्तम्यर्थः तत्रच प्रकृत्यर्थ स्य निरूपकतया प्रथमांतस्याधिकरणतया चा- न्वये भूतलनिरूपिताधेयत्वाश्रयोघटइत्यन्वयबो- धःनिरूपितत्वमाश्रयत्वं संसर्ग इति नव्याः।"च- माण दीपिनं हति"इत्यादौसप्तम्यानिमित्तत्वम्।
FASRAMANENERASHEELERANCERAMITRAANDHARWAR KIRMIRMATIONamam MOREANTHAditent Applive Kelkamaj.INMAR (५८) कारकवादार्थः। तच्चोपदेश्यत्वम्।फलत्वेनचेच्छादिविषयत्वरूपम्। तत्रायं मशकनिवृत्तौ धूमं करोतीत्यादौ मशक- निवृत्तेः फलत्वात्।"चर्मणि दीपिनं हति"इत्यादौ चर्मादेः सिद्धतया स्वत्वरूपफलवत्त्वेनेवच्छाविष- यत्वात् । तच्च प्रयोज्यत्वेन धात्वर्थेऽन्वेति। मशक निवृत्तिविषयकेच्छाप्रयोज्यधूमकरणाश्रयःचर्मवि षयकस्वप्रकारेच्छाप्रयोज्यद्वीपिचर्मकहननानुकू- लकृतिमानिति वाक्यार्थ एवं "सीनि पुष्कल- कोहत" इत्यादावपि "पुष्कलको गंधमृग" इति कोशात् । सा च "निमित्ताकर्मयोगे” इत्यनु- शासनायत्किंचित्कर्मप्रकारकबोधजनकधातुयोगै प्रयुज्यते तादृशबोधः। जनकता च सकर्मकस्य धातोः कर्मबोधकपदयोगेन । यथा द्वीपिनं हती- त्यादौ । अकर्मकस्य तु कर्मविशिष्टस्यार्थशक्त्या। यथा विद्या रजनीक्षये यदुदेतीत्यादौ उदेतीत्य- कारकवादार्थः। स्योदयगिरिशिखरमारोहतीत्यर्थात् । तत्र रजनी- क्षयस्य सूर्योदयायन्यत्वेपि निमित्तत्वंज्ञानविषय- त्वेनोद्देश्यतया लोकानां रजनीक्षयज्ञानार्थमुदेती- त्यर्थ इत्येके । एतद्दीपवृत्तियावद्रश्मिसंसर्गाभा- वविशिष्टस्य कालस्य जनितत्वात् । सूर्योदये तद्र- श्भ्युत्पादेन तत्प्रागभावनाशे विशिष्टफलनाशात् । रजनीक्षयेच्छाप्रयोज्यत्वं सूर्योदये।क्षयेइत्यन्ये।श- रदिपुप्ष्यंति सप्तच्छदा इत्यत्रोत्पत्तिरपिसप्तम्यर्थः। शरदुत्पत्तिकपुष्पाश्रयाः सप्तच्छदा इति वाक्या- र्थः न तु शरदुत्पत्तिकपुष्पाश्रये चम्पकादावपि तथा प्रयोगः स्यादिति वाच्यम् । सप्तच्छदस्य पुष्पाश्रयत्वे लब्धे तुल्यवृत्तिवेद्यतया पुष्पेष्वस- तच्छदवृत्तिलाभात्तदवच्छेदेन शरदुत्पत्तिकत्वस्य च व्युत्पत्तिसिद्धत्वात् । चम्पकादिपुष्पत्वावच्छेदेन शरदुत्पत्तिकत्वाभावनतथाप्रयोगाभावात् ।घातो.
(६०) कारकवादार्थः। रेख सप्तच्छदीयपुष्पत्वेनलक्षणेतिकेचित् । भावे स- तिसप्तम्याः सामानाधिकरण्यमर्थः। गुणकर्मान्य- वे सति सत्त्वादित्यतो गुणकर्मान्यत्वसमानाधि करणसत्त्वबोधात् । तच्च क्वचित्कालिक, कचिदै- शिकम् ।तत्रायंसमानकालीनत्वं पर्यवसन्नम् । या था गोषु दुह्यमानास्वागतः। अत्र सप्तम्यर्थे समान- कालीनत्वे दोहनमात्रस्य निरूपकत्वेनान्वयः।म- हिष्यादिदोहनकालीनतया प्रयोगाभावात्,नापि गोदोहनत्वन धातोरनुपस्थितेः । किंतु दंडी पुरु- षो गच्छतीत्यत्र यथा परंपरया पुरुषविशेषणता- पन्नदंडसमानकालीनत्वं गमने भासते । तथा वि. शेषणकर्मता विशेषणस्यैव दोहनस्य । इत्थं च तादृशगोदोहनसमानकालीनातीतगमनानुकूलकृ तिमानिति धीः। दुग्धास्वागत इत्यादौ तु तथा- न्वयः आगमनदोहनस्यातीततया दोहनकालीन- कारकवादार्थः। (६१) स्वस्य गमने बाधात् । किंतु वर्तमानध्वंसप्रतियो- गिदोहनकर्मसु गोष्वित्यर्थात् । अतीतार्थे तादृश- गोदोहनविशेषणध्वंसस्यसमानकालीनत्वमागम- भासते।तथाचतादृशगोदोहनध्वंसकालीनगम- तानुकूलकृतिमानित्यन्वयबोधः। एवं गोषुधोक्ष्य- माणास्वागत इत्यादावपि । तादृशप्रतियोगित्व- विशेषणप्रागभावस्य समानकालीनत्वं भासते। च सप्तम्यर्थे समानकालीनत्वेन प्रकृत्यर्थस्य रनन्वयापत्तिः। तादृशगोदोहनकर्मत्वविशिष्टा- || गोः स्वविशेषणकर्मत्वविशेषणदोहनायाश्रय- संबंधेन कालेऽन्वयात-इतिबोध्यम्। “यस्य च पावेन भावलक्षणम्" इति सूत्रस्य यस्य क्रियया कयांतरं लक्ष्यते इति व्याख्यानात् । क्रिययोः मानाधिकरण्ये सप्तमी तत्सूत्रेणानुशिष्टा । सा न युक्ता।गुणकर्माऽन्यत्वे सति सत्त्वादित्यादी HEART । HANTERACTER-ANNangi
।
(६२) कारकवादार्थः।
सा न स्यात्तदापि गुणकर्मान्यत्वेसतिसत्त्वादित्य
भियुक्तप्रयोगदर्शनात् । सूत्रतद्व्याख्यानयोर्भाव
क्रियापदे धर्मपरे । तथा च यस्य धर्मेण धर्माता
निरुक्तत्वसामानाधिकरण्येन प्रतिपाद्यते तत्र स
समीति सूत्रार्थशेषः ॥
॥ इत्यधिकरणम् ॥
इति श्रीमन्महामहोपाध्यायजयरामपण्डितविरचितः
कारकवादार्थः समाप्तः ॥
इदं पुस्तकंक्षेमराज-श्रीकृष्णदासश्रेष्ठिना
मुम्बय्यां स्वकीये"श्रीवेङ्कटेश्वर (स्टीम्)
मुद्रणालये मुद्रयित्वाप्रकाशितम् ।
संवत् १९६६, शाके १८३१.
विक्रय्यपुस्तकानि (व्याकरणग्रंथाः)
-
नाम.
की. रु. आ.
सिद्धान्तकौमुदी-महामहोपाध्याय भट्टोजि-
दीक्षित विरचिता पणिनीयशिक्षा परिभाषापाठ
अष्टाध्यायी गणपाठ धातुपाठ लिंगानुशा-
सनसूत्रपाठ अकारायनुक्रमाणका धातु-
सूचीसमेत
२-०
सिद्धान्तकौमुदी-तत्त्वबोधिनी टीकासमेत
संपूर्ण
४-८
सिद्धान्तकौमुदी-केवल तत्त्वबोधिनी टीका
पूर्वाई
२-०
शाकटायन व्याकरण-शाब्दिकचूडामणि
श्रीशाकटायनाचार्य विरचित शब्दानुशासन
.
.
ADDREAM जाहिरात । की.रु. आ. 90 श्रीमदभयचन्द्रमरिप्रणीत प्रक्रियास- ग्रह सहित २-४ अष्टाध्यायी-गणपाठ धातुपाठ, लिंगानुशा- सन ०-१२ अष्टाध्यायी सूत्रपाठ-इसके पढनेसे काम- दीका जल्दी पठन होताहै लघुत्रिमुनिकल्पतरु-पाणिनि आदिका वृत्तान्त ०-४ मध्यसिद्धान्तकौमुदी-टिप्पणी सहित काशी पंजाबआदिदेशमें प्रथम श्रेणी में पढायी जातीहै ०-१२ ०-३ पुस्तक मिलने का ठिकाना- खेमराजश्रीकृष्णदास, "श्रीवेङ्कटेश्वर" स्टीम्-प्रेस-बबइ.
No text on this page.
अत्रेयमभ्यर्थना. अत्रास्माकं मुद्रणालये ऋग्वेदादयो वेदा उपनिषदो वेदान्तग्रंथा महाभारतादीतिहासाः श्रीमद्भागवतादि- महापुराणोपपुराणानि धर्मशास्त्र-कर्मकाण्ड- व्याकरण-न्याय-योग-सांख्य-मीमांसादि- शास्त्रीयग्रन्थाः काव्य-नाटक-चम्पू- प्रभृतयो ग्रन्थाः सहस्रनामायनेक- स्तोत्रग्रन्याश्च विविधभाषाप्रन्थाश्च सीसकोचममहलध्वक्षरैमनोहर मुद्रिता आसते योग्यमूल्येन ऋय्याः सन्ति तांश्च ग्राहका यथापुस्तकसूचीपत्रं मूल्य- प्रेषणेन प्राप्नुयुः। अधिकमस्मदीयसूचीपुस्तकानां भिन्न भिन्नविषयाणां प्रापणेन "श्रीवेङ्कटेश्वरसमाचार" पत्रिकामापणद्वारा च ज्ञेयमिति शम् । खेमराज श्रीकृष्णदास, "श्रीवेङ्कटेश्वर" स्टीम्-मुद्रणालयाध्यक्ष-मुंबई. ARRIARRIES