Canegie Mellon Univeristy

Samskrutavatara Vol.2

Taataachaar^ya V R T · 2006/01/25

PDF Proofread

Front matter

No text on this page.

Samskrita Avatara Series No II.
DNERNMata 786
श्रीः
SANSKRIT SECOND READER
FOR USE
IN SECONDARY SCHOOLS
ADKE
BY
Pandit, V. R. T. THATHACHARIAR,
Senior Sanskrit Teacher,
BOARD HIGIT SCHOOL, PATIUL COTTAL.
पटुकोटास्थाङ्गलकलाशालाप्रधानसंस्कृताध्यापकेन
श्रीशैलताताचार्येण
विरचितः
॥ संस्कृतावतारः॥
(द्वितीयो भागः)
PRINTED AT THE
SRI KOMALAMBA PRESS, KUMBAKONAM
(All Rights Reserved)
PRER
THE
Price 3 Annas]
1923
[Postage Entriti.
138 E0DEODOE0%D =986

No text on this page.

श्रीः ॥ संस्कृतावतारः॥ (द्वितीयो भागः) नमः परमकारुण्यशालिने श्रितबन्धवे । जानकीनयनानन्ददायिने रघुमूनवे ।। LESSON I ॥ गुरूपदेशः॥ आचार्यः अन्तेवासिनमनुशास्ति । सत्यं वद । धर्म चर । सत्यान्न त्वं प्रमत्तो भवः । धर्मान्न त्वं प्रमत्तो भवेः । कुशलान्न त्वं प्रमत्तो भवेः । देवपितृकार्याभ्यां न प्रमत्तो भ- वेः। मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । यान्यनवद्यानि कर्माणि, तानि सेवितव्यानि । न इतराणि । यान्यस्माकं सुचरितानि, तानि त्वयोपास्यानि । न इतरा- णि । एष आदेशः। एष उपदेशः इति ।

संस्कृतावतारे LESSON II ॥ काकवर्तको॥ Aana- एकदा भगवतो गरुडस्य यात्राप्रसंगेन सर्वे पक्षिणः समुद्रतीरमगच्छन् । तदा काकेन सह वर्तकः प्रस्थितः। मध्ये- मार्ग गच्छतो गोपालस्य दधिभाण्डादनेकवारं स काकः दधि खादति स्म । ततो यावदसौ दधिभाण्डं भूमौ निधाय ऊर्ध्व- मालोकते, तावत्तेन काकवतको दृष्टौ । परन्तु द्रुतगतिस्स काकस्सद्यः पलायित्तः । स्वभावनिरपराधो मन्दगतिर्वर्तकस्तु तेन प्राप्तः, व्यापादितश्च । अतः “न स्थातव्यं न गन्तव्यं दुर्जनेन समं कचित्" || ॥ LESSON III ॥ वाङ्मनसे ॥ कदाचित् वाक्च मनश्च मिथः कलहमकुरुतां । तदा अहमेव देवेभ्यो हव्यं वहामीति वागवीत् । अहं देवेभ्य इति मन आचख्यौ । ते द्वे अपि चतुर्मुखस्य समीपं गत्वा आवयोः को वरीयान् इति तमपृच्छताम् । ब्रह्मा तु वाचं समीक्ष्य "त्वं मनसो दूत्येवासि । यत्पुरुषो मनसा ध्यायति, तद्वाचा व. दति" इत्यवदत् । ततः अतीव कुपिता वा "तत्खलु तुभ्य- द्वितीयो भागः । ३ मितःपरं पुरुषा न वाचा होष्यन्ति" इत्यब्रवीत् । तत आर- भ्य अद्यापि लोके द्विजाः धातारं मनसा ध्यायन्तस्तस्मै मनसैव जुह्वति॥ LESSON IV ॥ काकहंसौ॥ पुरा उज्जयिनीमार्गे महान्प्लक्षतरुरासीत् । तस्मिन्काक- हंसौ निवासमकुरुतां । ग्रीष्मसमये परिश्रान्तः कश्चन पथि- कस्तस्य तरोरधश्छायायां धनुर्निधाय सुखं स्वपिति स्म । ततः क्रमेण तस्य मुखावृक्षच्छाया अन्यत्रापगता । ततस्सूर्यतेजसा तन्मुखं तप्यमानमालोक्य तक्षस्था हंसः कृपया पक्षौ प्र- सार्य पुनस्तन्मुखे छायामकरोत् । ततः पान्यो निर्भरं नि- द्रासुखमनुभवति स्म । अथ परसुखासहिष्णुस्स्वभावदुष्टस्स काकस्तस्य मुखे पुरीपोत्सर्ग कृत्वा पलायितः। अनन्तरं य- दाऽसौ पथिकः प्रबुद्धयोर्ध्वमवलोकयामास, तदा हंसस्तेन दृष्टः। सद्यस्स पान्थो हंस एवाऽपराधीति मत्वा तेन धनुषा तमताडयत् । स च विनष्टः । अतश्च "न स्थातव्यं न गन्त- व्यं दुर्जनेन समं कचित् ॥ - संस्कृतावतारे LESSON V ॥ राजभक्तिः॥ राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् । राजा माता पिता चैव राजा हितकरी नृणाम् ॥१॥ न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥२॥ नाराजकेषु राष्ट्रेषु वस्तव्यमिति वैदिकम् । नाराजकेषु राष्ट्रपु हव्यं वहति पावकः ॥ ३ ॥ एकस्य तु प्रसादेन सर्वो लोकः प्रसीदति । व्याकुले चाकुलस्सो भवतीति सुनिश्चयः ॥ ४॥ यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥५॥ सर्वदेवमयो राजा मनुना संप्रकीर्तितः । तस्मात्तमेव सेवेत न व्यळीकेन कर्हिचित् ॥ ६॥ सर्वदेवमयस्यापि विशेषो भूपतेरयम् । शुभाशुभफलं सद्यः नृपात् देवाद्भवान्तरे ।। ७॥ तस्मादस्माभी राजनि भक्तिमद्भिर्भवितव्यमिति फलति ॥

द्वितीया भागः । LESSON VI ॥ वायसदंपती॥ ! एकदा कस्मिंश्चित्तरौ वायसदंपती न्यवसताम् | त- योरपत्यानि तवृक्षकोटरवर्तिना कृष्णसर्पण खादितानि । ततः पुनर्गर्भवती वायसी भर्तारं प्रत्यब्रवीत् । “ नाथ! तरु- रयं त्यज्यतां । एतवृक्षस्थस्सर्प आवयोरपत्यानि सततं भक्ष- यती" ति । वायस आह । "प्रिय ! न भेतव्यं । बहुवारं मयैतस्य महापराधः शान्तः । इदानी पुनने सोढुं शक्यते" इति । वायस्यपृच्छत् “ कथमेतेन बलवता सह भवान् योद्धं समर्थः' इति । वायसः प्रत्यवदत् । " पश्य | बुद्धया सर्व साधयामि । अस्य तरोरासन्ने सरसि राजपुत्रः प्रतिदिनमा- गत्य स्नाति । स स्नानसमये कनकसूत्रं तदङ्गादवतार्य सोपाने निक्षिपेत् । त्वं चंचाऽपहत्यानीयास्मिन्कोटरे प्रक्षेप्स्यसि यदि, तदा सर्व समीहितं साधु सिध्येत्” इति । अथ राज- पुत्रः स्नानार्थमागत्य कनकसूत्रं सोपाने प्रक्षिप्य जले स्नाति स्म । वायसी च तत् चञ्चापहृत्य कोटरे प्राक्षिपत् । सद्यः कनकसूत्रानुसारिणो राजभटास्तरुसमीपमागत्य कोटरस्थं सर्प निहत्य कनकसूत्रमादायागच्छन् । अनन्तरं वायसदंपती सुखमवसतां। अनया कथया "उपायेन हि यच्छक्यं न त- च्छक्यं पराक्रमै" रिति स्पष्टमवगम्यते ।।

संस्कृतावतारे LESSON VII ॥ अहिंसा॥ लोके केचन मानवा अनपराधिनो जन्तून्निहत्य तेषां मांसानि भक्षयन्ति । तदतीवानुचितम् । मांसं हि शरीरान्त- गतैरशुद्धवस्तुभिरुत्पाद्यते । तस्योत्पत्तिप्रकारं याद सम्यक्प- रामशेयुर्न तन्मनसापि स्मरेयुः । अत्यन्तं जुगुप्सनीयस्य मांसस्य कृते मरणभीतान वेपमानानपि तान्पाणिनो घ्नन्ति । अनिष्टं किल मरणं सर्वेषां भूतानाम् । अन्येनात्मनः प्रहारे कियदुःखं स्यादित्येतन्न ते चिन्तयन्ति । येषां भूतानां मांसं ये भक्षयन्ति । तैर्भूतैर्जन्मान्तरे तेऽपि भक्ष्येरन् । “ मां स भक्ष- यते यस्माद्भक्षयिष्ये तमप्यहम् । एतन्मांसस्य मांसत्वम्” इति मांसपदं व्युत्पादयात भगवान्वेदव्यासः। अहिंसा परमो धर्म इति सर्वेषां मतः । अतः परहिंसा सर्वथा न कर्तव्या। LESSON VIII ॥ हिंसाफलम् ॥ पुरा वृन्दावनस्य समीपे ताळवनमेकमासीत् । तत्र धेनुकादयः केचिदसुरा रासभरूपमास्थाय मृगान्व्यापाय द्वितीयो भागः । भक्षयामासुः। बृन्दावननिवासिनो गोपास्तस्मिन्नने वाल- तृणोदकादिसमृद्धिमवगच्छन्तोऽपि रासभेभ्यो भिया गाः न चारयति स्म । एकदा गोपालाः श्रीकृष्णं बलराम चालो- क्यैवमूचुः । “ताळवने सुगन्धीनि स्वादूनि बहूनि फलानि सन्ति । तानि वयमास्वादयितुमिच्छामः । परन्तु गर्दभ स- काशं गन्तुमंतीव विभीमः। तानि फलानि युवामधःपातयतम्" इति । तौ तथेत्युक्त्वा गोबस्सह ताळवनमागत्य लोष्टादिना ताळफलान्यपातयतां । अधः पततां फलानां शब्दमाकर्ण्य गर्दभाकारो धेनुकः सञ्जातरोषस्त्वरितमागत्य पश्चिमाभ्यां पादाभ्यां बलराममुरसि जघान । बलरामस्तु तं पश्चिमयोः पादयोहीत्वा, वेगेन भ्रामयित्वा ताळफलोपरि प्राक्षिपन् । स च सद्यो जीवितं जहाँ । अतिस्थूलशरीराभिघातादहूनि फलान्यपतन् । वासुदेवोऽपि तत्र विद्यमानानन्यानमुरगर्दभान् गृहीत्वा ताळफलोपरि दृढमभिजघान । तेन च बहूनि फला- नि पतन्ति स्म । गोपाश्च "दुष्टा गर्दभा विनष्टाः। इष्टानि फलानि लब्धानि चे" त्यतीव तुष्टा बभूवुः। ततः प्रभृति तद्वनं गोपालानां गवां च संचारादियोग्यमभवत् । प्राणिहिं- सया किल दैत्यगर्दभा विनष्टाः । तस्मात्सर्वैरपि हिंसामकु- णैिर्भाव्यम् ॥

८ संस्कृतावतारे LESSON IX ॥ त्रयो दुर्जनाः॥ - पुरा गौतमारण्ये कश्चन विप्रो यागं कर्तुमिच्छति स्म । स च तदर्थं ग्रामान्तरादजमेकं क्रीत्वा स्कन्धे धृत्वा. समागतः। मार्गमध्ये त्रिभितरवलोकितः । ततस्ते धूर्ताः “यथेष छागः केनाप्युपायेन लभ्यते तदा मतिप्रकर्षः प्रकटीकृतो भवेत् " इत्यालोच्य मिथः क्रोशदूरव्यवाहितानां पथि स्थितानां त्रया- णां वृक्षाणामधः प्रत्येकं विप्रागमनं प्रतीक्ष्य स्थिताः । ततः समागच्छन्तं द्विजमालोक्य अग्रिमो धूर्त इत्थमब्रवीत् । “भो विप्र ! किमिति श्वानं स्कन्धे वहन् गच्छसि” इति। द्विजस्तु- • नायं श्वा अपि तु यज्ञच्छागः" इत्यवदत् । अथानन्तरवृक्ष- स्थः अन्यो दुर्जनश्च ब्राह्मणं निरीक्ष्य तथैवावदत् । तदाक- ये विप्रः छागं भुवि निधाय मुहुर्मुहुनिरीक्ष्य तं पुनः स्कन्धे धृत्वा दोलायमानमतिश्चलितः । ततस्तदनन्तरतरुतलवर्ती तृतीयो दुष्टश्च तथैव विप्रमवादीत् । अन्ततो द्विजस्तमजं श्वा- नमेव मत्वा तं भूमौ निपात्य नद्यां स्नात्वा गृहमगच्छत् । ततस्ते धूर्ता अजमादाय गृहं गत्वा सन्तोषेण भक्षयामासुः । अतो दुर्जनवचसि कदापि न विश्वासः कार्यः ।।

३ द्वितीयो भागः। or LESSON X ॥ वेदचतुष्टयसंवादः॥ कदा चिद्वेदाश्चत्वारोऽपि स्वस्वाभिप्रायमाविश्वक्रुः। तदा ऋग्वेद इत्थमाह- " अग्निहोत्रिणो गृहस्थस्य गृह सायमागतोऽतिथिरुपे- क्षितश्चेत्तदीयं सुकृतं सर्वमप्यादाय गच्छती"ति । यजुर्वेद एवमुवाच- "विप्रस्य मुखे कृतोऽनहोमः नान्यत्र निपतति, न हस- ति, नास्य धूम उपरि गच्छति, ततोऽयमग्निहोत्रादुत्तम" इति । सामवेद इत्थमब्रवीत "प्रीतोऽतिथिः मातापितृविप्रवधात् परापवादोत्थापना- च जायमानं पापं विना पुरुषस्यान्यत्सर्वं दुरितमपहन्ती" ति। अथर्ववेद एवमवदत्- "क्रोधनेन अनुष्ठितं तपोयागदानहोमादिकं सर्वमपि वैवस्वतो हरते। क्रोधनस्य कृत्यं सर्वमपि विफलं भवति" इति। अनेन वेदसंवादेनातिथिरनुपेक्षणीय इति कोपो दूरी- कर्तव्य इति च फलति ॥

संस्कृतावतारे LESSON XI ॥ बककुळीरकौ ॥ कस्मिंश्चिदरण्ये बहुभिर्वकैरध्युषितः कश्चन वटवृक्ष आसीत् । तस्य कोटरे कृष्णसो वसति स्म । सच सों बकवालानजातपक्षानपि भक्षयन् कालमनयत् । अथैको बको नष्टशिशुर्वैराग्यात्सरस्तीरमासाद्य वाष्पपूर्णनयनःअधोमुख आ- सीत् । तथास्थितं तमालोक्य कश्चन कुळीरक एवमपृच्छत् । "किमेवं रुद्यते भवता" इति । स आह-भद्र ! किं करोमि । मन्दभाग्यस्य मम बालकाः कोटरनिवासिना कृष्णसर्पण भ- क्षिताः। ततो दुःखितोऽहं रोदिमि । तं कथय मे यद्यस्ति यःकश्चिदुपायस्तद्विनाशाय" इति । तदाकये कुळीरकश्चिन्त- यामास ! अयं बकस्तावदस्माकं जातिवैरी । ततस्तथोपदेशं करोमि, यथान्येऽपि बकास्सर्वे नश्येयुः” इति । आह स्म च- भद्र ! यद्येवं, मत्स्यमांसशकलानि नकुलस्य बिलद्वारात् सर्प- कोटरपर्यन्त प्रक्षिप। तथासति नकुलस्तन्मार्गेण गत्वा तं कृष्ण- सर्प विनाशयेदि" ति । तथाऽनुष्ठिते मत्स्यमांसानुसारी नकु- लस्तं कृस्णसर्प निहत्य तवृक्षवासिनः सर्वान्बकांश्च क्रमे- णाभक्षयत् । अतः "उपायं चिन्तयेत्माज्ञस्तथापायं च चि- न्तयेत् ॥

द्वितीयो भागः। LESSON XII ॥ स्त्रीधर्मः ।। स्त्री तावत्, समुचिते वयसि रामायणमहाभारतादिकं पठितुमर्हति । अनुरूपाय पुरुषाय यथाविधि दातुं चाहो भ- वति । तस्याः प्रदाने पित, पितृव्य, मात, भ्रात, मातुला अधिकारिणो भवन्ति । यथाविधि तैर्दत्ता स्त्री समुचिते का- ले पतिमधिगत्य ततः प्रभृति सादरं तमुपचरेत् । अनुदिनं पत्युः पूर्व प्रबुध्य प्रातः कर्तव्यमाचरेत् । पत्युरभिप्रायं ज्ञा- त्वा तं प्रबोधयेत् । कीदृश आहारोऽभिमत इति तं पृष्ट्वा त- थैव कुर्यात् । तद्गुरूनपि सर्वदा शुश्रूषेत ! पत्युबहिर्गमने रामायणादिपठनं तन्तुक्यनादिकम् शिल्पव्यापारं वा कुर्या- त् । आगते च पलौ प्रीत्या पाद्यासनादिकं वितीर्य यथा तस्य शरीरश्रमो निवर्तेत तथोपचरेत् । धर्मकार्य संप्राप्ते पति- वद्धर्मपरा भवेत् । तस्याप्रियं मनसापि न चिन्तयेत् । पुरुषे- ण महता कायक्लेशेन लभ्यं फलं सर्वमपि, स्त्री पतिपूजया विनैव कायक्लेशं लभते । एतदुद्दिश्यैव जन्मसु स्त्रीजन्म प्रशस्त- मिति पुराणादीन्युद्घोषयन्ति । तस्मास्त्री यथा स्वस्य लोकाश्शुभाः सुलभा भवेयुस्तथा पतिमुपचरेत् ।। man- संस्कृतावारे LESSON XIII ॥ स्त्रीणां पतिरेव दैवतम् ॥ पुरा कस्यचिद्विपस्य द्वेभार्ये बभूवतुः । तयोरेका धर्म- कामा पतिमवमत्यैव देवान्भक्त्या पूजयामास । अपरा तु धर्म- परा सती भर्तारं दैवतं मत्वा तत्प्रियं चकार । एवंवर्तमाने ते युगपन्मृत्वा परलोकमगमताम् । तयोः पतिप्रिया देवप्रियायां तिष्ठन्त्यां पुण्यलोकमभजत् । देवप्रिया तु तिष्ठन्ती भृशं विलला- प। तदा यमस्तामवलोक्येत्थमकथयत् "भारमवमत्यैव स्थि- तायास्तव शुभा लोका न सन्ति । स्त्रीणां पतिरेव दैवतमिति देवताभिः सर्वाभिरपि स्थापितम् । तस्मादितो निवृत्य पति- प्रियं कुरुष्व । एवं चेत्पतिव्रतामुलभान् पुण्यलोकान् गमि- ध्यसीति" ति । यमेनैवमुक्ता सा पुनर्नित्य पतिमालम्ब्य तत्प्रियमेवाकरोत् । अन्ते च शुभान लोकान् जगाम । तस्मा- नारी पतिमेव दैवतं मत्वा पूजयेत् ॥ LESSON XIV ॥ विप्रनकुलौ॥ एकदा उज्जयिन्यां माधवो नाम विष आसीत् । तस्य भार्या कदाचिदपत्यसंरक्षणाय भर्तारमवस्थाप्य स्नानार्थ नदी जगाम । तदा कश्चन राजसेवकः समागत्य विमं राजगृह- ..

द्वितीयो भागः! स्तथैव श्राद्धप्रतिग्रहणाय समाह्वयत् । तच्छ्रुत्वा ब्राह्मणः सहजदा- रियादेवमचिन्तयत् । “यदि सत्वरं न गच्छेयं तदान्यः कश्चित् श्राद्धं प्रतिग्रहीष्यति । किंतु बालकस्यास्य रक्षको नास्ति । तत्किं करोमि । अस्तु । चिरकालपालितं पुत्रनिर्वि- शेषमिमं नकुलं बालरक्षणायावस्थाप्य गच्छामी" ति । तत- कृत्वा द्विजो गतः । अनन्तरं समीपस्थबिलात् कश्चन कृष्णसर्पो निर्गत्य शिशुसमीपमाजगाम । तदा स नकुलस्तं नागं दृष्ट्वा महता कोपेन तं व्यापाद्य खण्डशश्छिनत्ति स्म । तदनन्तरमसौ नकुलः समायान्तं विप्रमालोक्य रक्तविलिप्त- मुखपादः सत्वरमुपागम्य तत्पादयोरलुठत् । तदा स विष- स्तथाविधं तं दृष्ट्वा बालकोऽनेन खादित इति निश्चित्य नकुलं व्यापादितवान् । अनन्तरं यदा स विप्रः अपत्यसमीपमाग- त्य तं बालं सुखेन स्वपन्तमपश्यत्, तदैव महति विषाद- सागरे निमग्नः । तत्र निहतसर्पखण्डानि च संदृष्टवान् । तत- स्तमुपकारकं नकुलं पदे पदे विचिन्त्य करुणाईचेता नितरां विषीदति स्म । तस्मात्तत्वमविज्ञाय क्रोधेन न किञ्चिदपि कार्यम् ।। LESSON XV ॥ लक्ष्मीनिवासः॥ जातुचित् रुक्मिणी भगवतः कृष्णस्य सन्निधौ तदङ्क- गतां महालक्ष्मी दृष्दैवमपृच्छत् । " त्वं केषु भूतेषु वससि ।

संस्कृतावतारे , ma , केषु ने" ति । एवं पृष्टा पझा तां मत्युत्तरमेवं ददौ "पुरुषेषु- सुन्दरे, धृष्टे, समर्थे, कर्मोयुक्ते, जितक्रोधे, देवपरे, कृतज्ञे, जितेन्द्रिये, सात्विके, धर्मशीले, सज्जननसेविनि, दान्ते, कालं सफलीकुति, दानबुद्धिरते, ब्रह्मचारिणि, तपस्वि- नि, ज्ञानिनि, गोद्रिजादिपिये च पुरुषे, अध्ययनअध्यापन- निरते द्विजे, धर्मभिरते क्षत्रिये, कृष्यासक्ते वैश्ये, स्व- धर्मानुसारिणि शूद्रे च नित्यमहं वसामि । तथैव स्त्रीपु- कान्तायाम् , शान्तायाम , क्षान्तायाम्, देवपरायाम, गोधा- न्याभिरतायां , सत्यवादिन्याम, गुणवत्याम, पतिव्रतायाम, कन्यायाम् चानिशं वसामि । एवं यानेषु, भूषणेषु, यज्ञेषु, वर्षत्सु मेघेषु शरत्कालनक्षत्रवीधीघु, गोष्ठेषु, फुल्लोत्पलपक- जेषु सरस्सु, तपस्विसिद्धद्विजसेवितासु नदीषु, मदोत्कटे मातङ्गे, धेनौ, वृषभे, नरेन्द्रे, सिंहासने चाहमनवरतं वसा- मि । परं वहमेषु भावेन बसामि । तस्मादेव तत्र धर्मार्थकामा यशश्चाभिवर्धन्ते । श्रीमहाविष्णौ त्वहं मूर्तिमती सततमेकपना वसामि । नास्तिकादियु तु नाहं भावेनापि वसामि" हाते। तस्मादस्मासु यथा लक्ष्मीकटाक्षो निपतेत्तथा वर्तितव्यम् ।। LESSON XVI । स्वदेशवासः श्रेयान् ॥ पुरा कस्मिंश्चिद्देशे चित्राङ्गो नाम सारमेय आसीत् । तत्र कदाचिदनादृष्टया दुर्भिक्षमजायत । तदा आहाराभावा- द्वितीयो भागः। १५ सारमेयादयो मृतप्राया जाताः। तदा चित्राङ्गः क्षुधाों दुर्भिक्षमयादेशान्तरं गतः । तत्र च कस्मिंश्चिन्नगरे कस्य चि- द्विपस्य गृहिण्या प्रमादेन प्रतिदिनं गृहं प्रविश्य स विवि- धान्यन्नानि भक्षयन् परां प्रीतिमभजत् । परं तु स यदा त- द्गृहादहिनिष्कामति तदाऽन्ये सारमेयास्सर्वेऽपि भिळित्वा तं परिवार्य सर्वाङ्ग दंष्ट्राभिर्विदारयन्ति स्म । ततस्स कुक्कुर एवमचिन्तयत् । “ अहो ! वरं स्वदेशवासः यत्र दुर्भिक्षेऽपि सुखेन स्थातुं शक्यते । तत्र न कोऽपि युद्धं करोति । एवंरूया स्वजातिहिंसा च नास्ति । तस्मात्सत्वरं स्वनगर- मेव गच्छामी” ति । एवमालोच्य सद्यः स्वदेशं प्रत्याजगाम । अथ देशान्तरात्समायातमेनं वीक्ष्य सर्वे स्वजनास्सारमेयाः समागत्य श्वानमेनमेवमपृच्छन् । “ भोश्चित्राङ्ग ! कथयास्मा- कं को वा देशान्तरे विशेषः । स च देशः कीदृक् ? किं चेष्टि- तं लोकस्य । क आहारः । कश्च व्यवहारस्तत्रे" ति । स आह-किं वा कथयामि विदेशविशेषम् । मुभिक्षवान् देशः। पौरयोषितामनवधानता च बलवती । परन्तु स्वजातिरेव महती हिंसां करोतीत्येक एव दोषः” इति । तस्मात्स्वदेशे स्वगृहवासस्सर्वोत्कृष्ट इति सिद्धयति ।। LESSON XVII ॥ वत्सनाभमुनिः॥ पुरा वत्सनाभनामा कश्चन मुनिरासीत् । स तीनं त.

१६ संस्कृतावतारे पश्चचार । तदा तस्योपरि महान् वल्मीकः प्रादुर्भूय तं ति- रोदधे । तीत्रेण तपसा संजातोऽग्निर्लोकान्सर्वानपि दग्धुमार- भत । मेघवाहनः भीतभीतस्तपो विहन्तुमैच्छत् । तस्याज्ञया मेघाः सप्तदिनानि जलमजसं वर्षति स्म । महता वर्षेण अ- शनिना च सन्तापितः स वल्मीकः विशीयते स्म । तदा धर्मः यथा वृष्टिस्तदुपरि न पतेत्तथाकर्तुं माहिषं महद्रूपमास्थाय स्वदेहेन तं छादयति स्म । अपगते च वर्षे स तं मुनिं विहाय तेनैव रूपेणाधावत् । तदा स तपोनिधिोंचने उन्मील्य स. वा दिशः विलोकयामास । सर्वा पृथिवी सलिलेन परिप्लु. तां समीक्ष्य सञ्जातविस्मयः “वर्षात्कनाहमभिरक्षितः" इति चिन्तयन्नेव समीपे वर्तमानं महिषमपश्यत् । दृष्ट्वा चैवगचिन्त- यत् । “अहो ! तिर्यग्योनौ जातस्याप्यस्येदृशं धर्मे वात्स- ल्य" मिति । एवं विचिन्त्य पुनरप्येवमचिन्तयत् । महिषो. ऽयमतिपीवरो दृश्यते । तस्मान्मम चिरमुपोषितस्याहारो भवि- तुमर्हतीति । एवं चिन्तयतस्तस्य पश्चाद्धर्मानुसारिणी बुद्धि- रुत्पन्ना। नितान्तमुपकृतवन्तं महिषं हन्तुमिच्छतः कृतघ्न स्य मे प्राणपरित्याग बिना नास्ति निष्कृति” रिति । एवं निश्चित्य मेरुपर्वतात्पतनाय तच्छिखरमारोह । तदा धर्मस्त- दुपरुद्धय इत्थमकथयत् । निस्सगेनान्तरात्मना प्राणान् परि- त्यक्तुमुद्यतस्य तव विषये अतीव प्रीतोऽस्मि । विशुद्धहृदयं त्वादृशं कमपि न पश्यामि । स्थानादस्मानिवर्तस्वेति । अन- या कथया कृतोपचारे अपकर्तुमिच्छापि पापायेत्यवगम्यते ॥

३ द्वितीया भागः । LESSON XVIII ॥ पौण्डूकवासुदेवः ॥ पुण्ड्रदेशे वासुदेव इति कश्चन राजा बभूव । स काशी परिपालयामास । कदाचित्यामरा नरास्तमवलोक्य त्वमेव भूभारनिराकरणाय अवतीणों वासुदेवः, नतु कृष्णः इत्यत्र- दन् । स नृपतिस्तथाभूतमात्मानं मेने । तदनु विष्णुचिह्न शंखचक्रादिकं सर्वमपि कारयित्वा धारयति स्म । अनन्तरं भगवते कृष्णाय दूतं प्रेषयामास । दूतः कृष्णसमीपमागत्य इत्थमवदत् । मम प्रभुस्त्वामेवमाज्ञापयति । चक्रादिकं मदीयं चिह्न नाम च परित्यज्य प्राणरक्षणाय मत्समीपमाग- त्य त्वया प्रणतिः कर्तव्या" इति । एवमावेदितो जनार्दन- स्तं प्रतीत्थमब्रवीत् । “ वचनमिदं त्वत्स्वामिने निवेदय । "त्ववचनार्थो मया विज्ञातः । यथोक्तं गृहीतचिह्नोऽहं तव पुरमा- गमिष्यामि । मम चिह्नं चक्रं त्वयि परित्यक्ष्यामि” इति । एव- मभिहितो दूतो गतः । अथ कृष्णो गरुडमारुह्य पौण्डूकपुरं जगाम । राजा कृष्णागमनं निशम्य महता बलेन परिवृत- स्तदभिमुखमागच्छत् । भगवांस्तु स्यन्दने स्थितं शंखचक्र- गदाशाङ्गपाणिं पीताम्बरं, गरुडाङ्कितध्वज, वक्षस्स्थलानहि- तश्रीवत्सं, किरीटकुण्डलधारिणं तं समीक्ष्य गम्भीरं हसति स्म । क्षणेन च तस्य वलं चतुरङ्गमपि शाङ्गतो निर्गतैश्शरैर्ज- घान । पौण्डूकं वीक्ष्यैवमकथयत् । “दूतमुखेन नाम, चिह्न च १८ संस्कृतावतार उत्सृजे ति यत्त्वयोक्तं तत्तथाकरोमि । चक्रमेतदुत्सृष्टम् । इयं गदापि विसर्जिता। एष सुपर्णश्च उत्सृष्टः । स ते ध्वजमा- रोहत्विति ।” एवं अभिधाय चक्रादिकं प्राहिणोत् । चक्रं तु पौण्ड्रकं विलिखति स्म । गदा तु तं पातयामास । गरुडस्तु तद्धजं भञ्जयामास । ततस्स राजा भगवता सह युद्धमकरोत्। कृष्णस्तीक्ष्णैः शरैलीलया सानुचरं तमवधीत् । महदपचारः प्राणनाशाय भवति । तस्मात्स परिहर्तव्यः ।। .. LESSON XLX ॥ नरकचतुर्दशी (दीपावळी) । द्वापरयुगे प्राग्ज्योतिषपुरे भूमिपुत्रो नरको नाम दानव आसीत् । स दैत्यैर्बहुभिः परिवृतस्सर्वान् लोकानपि पीडयामा- स। देवेन्द्रस्तत्पीडामसहमानो द्वारकां गत्वा भगवन्तं श्रीकृष्णं प्रति तदीयं दुश्चेष्टितं सर्व विज्ञापयामास । अथ भगवान् सत्यभामया सह गरुडमारुह्य प्राग्ज्योतिषपुरमागत्य युद्धाय सन्नद्धान् नरकासुरसैनिकात् प्रथमतो जघान ! अनन्तरं नर- कामात्यं मुराद्वयमसुरं यमलोकाय प्राहिणोत् । ततः किं चित्कालं नरकेण सह युद्धमकरोत् ! अन्ततस्तस्य शिरश्छेत्तुं चक्रमाददे । तदा नरकस्स्वमरणं निश्चित्य श्रीकृष्णसमीपे वरमेकमयाचत । "भगवन् ! मया प्रजाः सर्वा अपि पीडिताः। ततो न कदापि सुखमनुभवन्ति स्म । अतो मदीयमरणतिथौ द्वितीयो भागः । १९ चतुर्दश्यामस्यां प्रतिवत्सरं लोको निखिलोऽप्यभ्यङ्गस्नाना- दिकं कृत्वा सुखं वर्तताम् । एवं वर्तमानस्य लोकस्य नरक- बाधा मा भवतु । संपञ्च भवत्वि" ति। दयानिधिर्भगवांस्तथै वास्त्वित्याभिधाय चक्रेण तस्य शिरश्चिच्छेद । ततःप्रभृति प्रतिवत्सरं तस्मिन्दिने तथैव समाचरन्ति जनाः। धर्मशा- स्वकारस्त्येवमाचक्षते- तुलामासीयकृष्णचतुर्दश्यां रात्राव- न्त्ये यामे मानवस्सह मित्रबन्धुजनैस्तैलेनाभ्यज्योष्णेग वा- रिणा स्नायात् । ततो नूतनवस्त्रादिकं स्वयं धृया अन्यांश्च धारयेत् । अभ्यज्य स्नातानां नृणां, देवतानां, गवां, तुर- गाणां च दीपावल्या नीराजनं कारयेत् । ततो भगवत्पूजां विधायेष्टवन्धुजनैस्सह चित्रान्नानि भक्ष्यादीनि च भुञ्जीत । एवं तस्मिन्दिने वर्तमानो नरो नरकं न पश्येत् । संपदमा- सादयेच्चे" ति । दिनेऽस्मिन्विष्णुना नरकस्य हननात , अ- भ्यज्य स्नातानां नरकाभावाच्च, अस्य दिनस्य नरकचतुर्द- शोति संज्ञा कृता । दी।राजनकरणाहीपावळिरिति च । तस्मान्नरकभीरुभिलक्ष्मीकामैस्सर्वैरपि निर्दिष्टकालेऽभ्यङ्ग स्नानादिकमाचरणीयम् ।। . LESSON XX ॥ नृगः॥ पुरा नृगो नाम कश्चन राजा बभूव । स यथावत्प्रजाः परिपालयति स्म । कस्मिंश्चिदिने ग्रामान्तरगतस्य कस्यचि- संस्कृतावतारे द्विपस्य धेमुरेका विस्मृतनिजमार्गा राज्ञो गोष्ठमागता । तोच गोपाला राज्ञो गवामन्यतमामगणयल् । दानशौण्डः स राजा तां कस्मैचिद्विप्राय ददौ । ग्रामान्तरादागतस्स गोस्वामी स्वगृहे गामदृष्ट्वा तत्र तत्रान्विष्यान्ते तस्य विप्रस्य गेहे ताम- पश्यत् । दृष्ट्वा च कुपितः "कुतो मम गामाहृतवानसी" ति तमपृच्छत् । स च " राज्ञा मामियं दत्ते" ति प्रत्यवदत् । तावुभौ मिथो विवदमानौ राजसमीपं गत्वा कलहस्य कारण- मावेदयताम् । नृपश्च सर्व श्रुत्वा प्रतिग्रहीतारं प्रतीत्थमकथ- यत् । स पशुस्तत्स्वामिने दीयताम् । तदर्थ गवां दशसह- स्रं दास्यामी" ति । स तु “मातृहीनं कृशं मम पुत्रं क्षीरप्र- दानेन सा गौः पोषयति । शान्ता वत्सला च । तस्मान्नाहं दातुं प्रभवामी" त्युक्त्वा गृहमगच्छत् । तदनु राजा गोस्वा- मिनं प्रत्येवमुवाच । “तत्पश्वर्थ गवां शतसहस्रं विनिमयेन प्रयच्छामि । प्रतिगृह्यता” मिति । सतु “आत्मरक्षणे समर्थोऽहं न राजस्वं प्रतिग्रहीतुमिच्छामि । सैव धेनुर्दीयता " मित्युक्त्वा राज्ञा दत्तान् रजतस्यन्दनादीनप्रतिगृह्मैव स्वगृहमगच्छत् । प- वात्स नरपतिः कालधर्ममवाप्य पितृलोकं गत्वा धर्मराजसमीपं गतवान् । यमस्तु तं पूजयित्वैवमवदत् । " त्वदनुष्ठितानि पुण्यानि कर्माणि बहूनि । अस्ति किंचित्पापमज्ञानकृतेन विप्र- स्वादानेन जातं । तत्फलं किं पूर्वमनुभवितुमिच्छस्युत पश्चा- दि" ति । तदा स नृपतिः “कष्टं पूर्वमनुभवितुमिच्छामी" ति वदन्नेव भूमौ कस्मिंश्चित्कूपे महान्कृकलासो भूत्वा अधः- द्वितीयो भागः । शीर्षः पतितः । पत्तनसमये “वर्षसहस्तान्ते दुष्कर्मनाशान- न्तरं वासुदेवस्त्वां समुद्धरिष्यनि । ततस्स्वकर्मणार्जितान् शा. श्वतान् लोकान् लप्स्यसे'' इति धर्मराजोऽब्रवीत् । राजा च तद- शृणोत् । ततो वर्षसहस्रान्ते स वासुदेवेन समुट्टतः आत्मनः उदन्तं तस्मै विज्ञाप्य नमस्कृत्य तेनानुज्ञातो दिव्यं विमानमा- रुह्य दिवं जगाम । तस्मात्परस्यापहारो दूरीकर्तव्यः ॥ LESSON XXI ॥ गुरुभक्तिमहिमा ॥ पुरा एकलव्यो नाम कश्चन निषाद आसीत् । स क- दाचित् द्रोणाचार्ये धनुर्विद्यामभ्यसितुं तत्समीपमाजगाम । द्रो- णस्तु पाण्डवासंमत्या तं शिष्यं न प्रतिजग्राह । परन्तु समा- गतं तं समीक्ष्य "शियोऽसि नैषा३ । प्रयोगो बलवत्तरो भवतु । गृहानेव निवर्तस्व" । इत्यनुगृहीतवान् । स तु तस्य पादौ शिरसा निपीड्य वनं प्रत्याजगाम । आगत्य च मृन्म- यो द्रोणप्रतिकृतिं कृत्वा तस्यामाचार्यकृत्तिमकरोत् । तस्याः पुरतो भक्त्या नियमेन समाहितः इष्वस्त्रप्रयोगमभ्यसितवा- न् । क्रमेण स धनुर्विद्याविचक्षणः, बाणमन्धान, तद्विमोचन तदुपसंहारेषु लाघवं परमं प्राप । अस्मिन्नवसरे पाण्डवा मृ- गयासाधनानि गृहीत्वा तदनमाजग्णुः । तदा अन्यः क- श्चन नरो यदृच्छया कंचन श्वानमादाय पाण्डवाननुजगाम ।

संस्कृतावतारे तेषु सर्वेषु मृगयाव्यापारव्यग्रेष्व सौ श्वा नष्टमार्ग एकलव्यं प्रत्यागत्य वुक्कति स्म । विजने बने नष्टस्य बुक्कतश्शुनश्शब्दं श्रुत्वा तस्य मुखे सप्त शरान् स लाघवादर्पयामास । स तु श्वा शरपूर्णास्यः पाण्डवान् प्रत्याजगाम । तं दृष्ट्वा पाण्डवाः परमं विस्मयं गताः, प्रयोक्तुलाघवं प्रशशंसुः । आत्मन्यवज्ञा चाकुर्वन् । ततस्तमन्विष्यन्तः पाण्डवा एकलव्यं दृष्ट्वा को भवान् ? कस्य शिष्य इति चापृच्छन् । स निषाद आत्मानं निषादाधिपतेहिरण्यधनुषः सुतं द्रोणशिष्यं च निवेदयामास । अथ पाण्डवा वनान्नित्य यथावृत्तं सर्व द्रोणाय विज्ञापया- मासुः । ततश्वार्जुनो रहसि द्रोणमित्यमपृच्छत् । “आचार्य ! भवता त्वविशिष्टशिष्यो मे न भविष्यती” त्युक्तं किल ? । तत्सत्यं चत्कस्मान्मद्विशिष्टो महावीरशिष्योऽन्योऽत्ती” ति। द्रोणस्तु मुहूर्तमालोच्य सव्यसाचिना सह निपादसकाशमा- गतवान् । तत्र च मलदिग्धाङ्गं जटिलं चीरवाससं धनुष्पा- णि सततं शरानभ्यस्यन्तमेकलव्यं ददर्श । एकलव्यस्त्वन्ति- कमागतमाचार्य दृष्ट्वा तस्य पादयोः प्रणमति स्म । अनन्तर- मात्मानं तच्छिष्यं विज्ञापयामास । ततो द्रोणः " एकलव्य ! यदि मम शिष्योऽसि दक्षिणा मे प्रदीयता” मित्यत्रवीत् । स च "किमक्षितं भगवतः । आज्ञापयतु मां गुरुः” इत्य- वदत् । द्रोणस्तु तव दक्षिणः करांगुष्ठो दीयता" मित्यादिदेश । स च दारुणं तद्वचश्चत्वाप्यात्मनः प्रतिज्ञा परिपालयितुका- मो हृष्टमना अङ्गुष्ठं छित्वा तस्मै समर्पयामारा। अनन्नर- द्वितीयो भागः। मर्जुनो विगतज्वरो बभूव । द्रोणश्च परां प्रीतिमभजत् । भो बालाः ! पश्यत । अयं गुरुभक्त्या विद्यामवाय । तदर्थमगु- ठं च ददौ । अहो ! गुरुभक्तमहिमा !! ॥ LESSON XXII || संस्कृतभाषा ॥ एषा भापा भूमण्डले समुपलभ्यमानानां भाषाणां मूल भूता वर्तते । तत एव तालु सर्वासु उत्तमा भाषान्तरपदैरमि. श्रिता च विराजते । भुवि विराजमाना वेदाः, रसमया रामा- यण, भारत, भागवतादीतिहासपुराणप्रभृतयः, स्मृतिशा- स्वादयश्चैतद्भाषामया एवं दृश्यन्ते । पूर्वमनया सर्वेऽप्याबाल- गोपालं व्यवहारमकुर्वन् । अद्यत्वेतु पण्डिता अपि महता प्रया- सेन व्यवहरन्ति । परन्तु संप्रति सर्वेऽपि संस्कृतभाषापदानि तदपभ्रंशपदानि च सर्वासु भाषास्वपि मिश्रीकृत्यैव व्यवहर- न्ति । अत एषा जीवत्येवेति वक्तुमुचितम् । न मृतभाषेति वक्तुं शक्यते । एपा व्याकरणशास्त्रेण शब्दशुद्धिरूपसंस्कारमापादि- तेति हेतोरेनां संस्कृतभाषां वदन्ति । अन्यदेशवासिभिरागि- लेयादिभिश्च बहुमन्यमाना विराजते । पूर्वमेषा सर्वैराहता ऽभवत् । संप्रति तु सधैरुपेक्षिता दीनां दशामापन्नास्ति । अत- स्तन्महिमवदिनो विषादन्ति । तस्माद्भो विद्यार्थिनो यथेयं भाषा भूमिमखिलामपि यथापूर्वमानन्दयेत्तथा युष्माभिः पठि- वा प्रयतितव्यम् ।।

श्रीः महाकविश्रीकालिदासकृतौ रघुवंशे ॥ दशमः सर्गः॥ पृथिवीं शासितुस्तस्य पाकशासनतेजसः । किंचिडूनमनुनधैः शरदामयुतं ययौ ॥ ॥१॥ न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् । सुताभिधानं स ज्योतिः सद्य शोकतमोपहम् ॥ २॥ अतिष्ठत्प्रत्ययापेक्षसन्ततिः स चिरं नृपः। प्रामन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः ।। ॥३॥ ऋश्यशृङ्गादयस्तस्य सन्तः सन्तानकाक्षिणः । आरेभिरे यतात्मानः पुत्रीयामिष्टिमृत्विजः ॥ तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् | अभिजग्मुनिदाघार्ताश्छायावृक्षमिवाध्वगाः ।। ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धर्हि लक्षणम् ।।६।। भोगिभोगासनासीनं ददृशुस्तं दिवौकसः । तत्फणामण्ड लोदर्चिमणियोतितविग्रहम् ॥७॥ ॥४॥ :

द्वितीयो भागः ।
२५
श्रियः पद्मनिषण्णायाः क्षोमान्तरितमेखले ।
अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे ॥ ॥८॥
प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
दिवसं शारदमिव प्रारम्भमुखदर्शनम् ॥ ॥९॥
प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा ॥१०॥
बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः ।
आविर्भूतमपां मध्ये पारिजातमिवापरम् ।। ॥११॥
दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः ।
हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् ।। ॥१२॥
मुक्तशेषविरोधेन कुलिशत्रणलक्ष्मणा ।
उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥ ॥१३॥
योगनिद्रान्तविशदैः पाचनरवलोकनैः।
भृग्वादीननुगृह्णन्तं सौखशायनिकान्मुनीन् ।। ॥ १४ ॥
प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् ।
अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् ।। ॥१५॥
नमो विश्वसृजे पूर्व विश्वं तदनु बिभ्रते ।
अथ विश्वस्य संहत्रे तुभ्यं त्रेधा स्थितात्मने ॥१६॥
रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते
देशे देशे गुणेष्वेवमवस्था त्वमविक्रियः ॥
॥१७॥

संस्कृतावतारं
॥२०॥
अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः ।
अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥१८॥
हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।
दयालुमनघस्पृष्टं पुराणमजरं विदुः ।। ॥१९॥
सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः ।
सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥
सप्तसामोपगीतं त्वां सप्लार्णवजलेशयम् ।
सप्ताचिर्मुखमाचख्युः सप्तलोकैकसंश्रयम् ।। ॥२१॥
चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः ।
चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात् ॥ ॥२२॥
अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।
ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥२३॥
अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
स्वपतो जागरूकस्य याथार्थ वेद कस्तव ? || २४ ॥
शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः ।
पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम् ॥ २५॥
बहुधाऽप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः ।
त्वय्येव निपतन्त्योधा जाह्नवीया इवार्णवे ॥२६॥
त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् ।
गतिस्त्वं वीतरागाणामभूयस्सन्निवृत्तये ॥ २७॥

द्वितीयो भागः ।
॥ २९ ॥
प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिमहिमा तव ।
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा? ॥२८॥
केवलं स्मरणेनाऽपि पुनासि पुरुषं यतः ।
अनेन वृत्तयश्शेषा निवेदितफलास्त्वयि ॥
उदघेरिव रत्नानि तेजांसीव विवस्वनः ।
स्तुतिभ्योऽप्यतिरिच्यन्ने दूराणि चरितानि ते ॥३०॥
अनवाप्तमवाप्तव्यं न ते किंचन विद्यते ।
लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः ।।
महिमानं यदुत्कीर्त्य तव संह्रियते वचः ।
श्रमेण तदशक्तया वा न गुणानामियत्तया ॥३२॥
इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् ।
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ।। ३३ ।।
तस्मै कुशलसंप्रश्नव्यञ्जितपीतये सुराः।
भयमण्लयोटेलादारख्युनतोदधेः ।। ॥ ३४॥
अथ वेलासमासन्नशैलरन्ध्रानुनादिना ।
स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः ॥३५॥
पुराणस्य कस्तस्य वर्णस्थानसमीरिता ।
बभूव कृतसंस्कारा चरितार्थैव भारती ॥ 1३६॥
बभौ सदशनज्योत्स्ना सा विभोर्वदनोद्गता ।
निर्यात शेषा चरणागङ्गे वोर्ध्वप्रवर्तिनी ॥ ॥ ३७॥

२८ : संस्कृतावतारे "जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ । अङ्गिनां तमसेवोभौ गुणौ प्रथममध्यमौ ।। ॥ ३८॥ विदितं तप्यमानं च तेन मे भुवनत्रयम् । अकामोपनतेनेव साधोहृदयमेनसा !! ॥ ३९॥ कार्येषु चैककार्यत्वादभ्योऽस्मि न वज्रिणा। स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते ॥ ॥४०॥ स्वासिधारापरिहृतः कामं चक्रस्य तेन मे । स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा ॥४१॥ स्रष्टुवरातिसर्गात्तु मया तस्य दुरात्मनः । अत्यारूढं रिपोस्सोढं चन्दनेनेव भोगिनः ॥४२॥ धातारं तपसा प्रीतं ययाचे स हि राक्षसः । दैवात्सगोदवध्यत्वं मर्येष्वास्थापराङ्मुखः ॥ ४३ ॥ सोऽहं दाशरथिभूत्वा रणभूमेलिक्षमम् । करिष्यामि शरैस्तीक्ष्णैस्तच्छिर कमलोच्चयम् ॥ ४४ ॥ अचिराद्यज्वभिर्भागं कल्पितं विधिवत्युनः । मायाविभिरनालीढमादास्यध्वे निशाचरैः॥॥४५॥ वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि । पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ।। ॥४६ ॥ मोक्ष्यथ स्वर्गबन्दीनां वेणीबन्धानदूषितान् । शापयन्त्रितपौलस्त्यबलात्कारकचग्रहः" ।। ॥४७॥ ..

द्वितीयो भागः। २९ रावणावग्रहलान्तमिति वागमृतेन सः। अभिवर्ण्य मरुत्सस्य कृष्णमेघस्तिरोदधे ।। ॥४८॥ पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः। औरनुययुर्विष्णुं पुष्पै युमिव द्रुमाः ॥ ॥४९॥ अथ तस्य विशां पत्युरन्ते काम्यस्य कर्मणः । पुरुषः प्रबभूवाग्नेविस्मयेन सहविजाम् ।। हेमपात्रगतं दोामादधानः पयश्चरुम् । अनुप्रवेशादायस्य पुंसस्तेनाऽपि दुर्वहम् ।। ॥५१॥ प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः । वृषेव पयसां सारमाविष्कृतमुदन्वता ॥ ॥५२॥ अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः। प्रमूर्ति चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत् ॥५३॥ स तेजो वैष्णवं पत्न्योविभजे चरुसज्ञितम् । द्यावापृथिव्योः प्रत्यग्रमहर्षतिरिवातपम् ।। ॥५४॥ अर्चिता तस्य कौसल्या प्रिया केकयवंशजा । अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥ ५५ ॥ बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः । चरोरर्धार्धभागाभ्यां तामयोजयतामुभे । ॥५६॥ साऽपि प्रणयवत्यासीत्सपत्न्योरुभयोरपि । भ्रमरी वारणस्येव मदनिष्यन्दलेखयोः ।। ॥५७॥ ते

संस्कृतावतारे
ताभिर्गर्भः प्रजाभूत्यै दधे देवांशसंभवः ।
सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः ॥५८॥
सममापनसत्वास्ता रेजुरापाण्डुरत्विषः ।
अन्तर्गतफलारंभाः सस्यानामिव संपदः
गुप्तं ददृशुरात्मानं सर्वाः स्वमेषु वामनः ।
जलजासिगदाशाङ्गचक्रलांछितमूर्तिभिः ।। ॥ ६०॥
हेमपक्षप्रभाजालं गगने च वितन्वता।
उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ।।
विभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बिनम् ।
पर्युषास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥ ॥ ६२ ॥
कृताभिषेकैर्दिव्यायां तिस्रोतसि च सप्तभिः ।
ब्रह्मर्षिभिः परं ब्रह्म गृणाद्भिपतस्थिरे ।।
ताभ्यस्तथाविधान्स्वमाञ्छ्रुत्वा प्रीतो हि पार्थिवः ।
मेने परायमात्मानं गुरुत्वेन जगद्गुरोः ।।
विभक्तात्मा विभुस्तासामेकः कुक्षिष्वनेकधा ।
उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ।। ॥६५॥
अथाग्रमहिषी राज्ञः प्रमृतिसमये सती ।
पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः॥ ॥६६॥
राम इत्यभिरामेण वपुषा तस्य चोदितः ।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ।। ॥६७॥

संस्कृतावतारे रघुवंशमदीपेन तेनाप्रतिमतेजसा । रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन् । ॥६८॥ शय्यागतेन रामेण माता शातोदरी बभौ । सैकतांभोजबलिना जाह्नवीव शरत्कृशा॥ ॥६९॥ कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् । जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम् ।। ॥ ७॥ सती लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ । सम्यगागमिता विद्या प्रबोधविनयाविव ।। ॥ ७१॥ निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत् । अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥ ७२ ॥ तस्योदये चतुर्मूर्तः पौलस्त्यचकितेश्वराः। विरजस्कैनभस्वद्भिर्दिश उच्छुसिता इव ।। || ७३॥ कृशानुरपधूमत्वात् प्रसन्नत्वात् प्रभाकरः। रक्षोविप्रकृतावास्तामपविद्धशुचाविव ।। ॥ ७४॥ दशाननकिरीटेभ्यस्तक्षणं राक्षसश्रियः । मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः ॥७५ ॥ पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः । आरंभं प्रथमं चक्रुर्देवदुन्दुभयो दिवि ।। ॥७६॥ सन्तानकमयी दृष्टिभवने चास्य पेतुषी । सन्मङ्गलोपचाराणां सैवादिरचनाभवत् ।। ॥ ७७॥ कुमाराः कृतसंस्कारास्ते धात्रीस्तन्यपायिनः । आनन्देनाग्रजेनेव समं वधिरे पितुः ।। ॥ ७८॥ : :

द्वितीया भागः । स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा । मुमूर्छ सहजं तेजो हविषेत्र हविर्भुजाम् ॥ ॥ ७९ ॥ परस्पराविरुद्धास्ते तद्रघोरनचं कुलम् । अलमुद्योतयामासुर्देवारण्यमिवर्तवः ॥ ॥८०॥ समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ । तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ।। ॥८१॥ तेषां द्वयोयोरैक्यं बिभिदे न कदाचन । यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः ॥ ॥८२। ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च । मनो जहर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥ ८३ ।। स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः । धर्मार्थकाममोक्षाणामवतार इवाङ्गभाक् । ॥ ८४॥ गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः । तमेव चतुरन्तेशं रत्नैरिव महार्णवाः ।। ।। ८५॥ सुरगज इव दन्तैर्भग्नदैत्यासिधारै- नय इव पणबन्धव्यक्तयोगैरुपायैः । हरिरिख युगदीधैंदर्भिरशस्तदीयैः पतिरवनिपतीनां तैश्चकाशे चतुर्भिः ॥ ८६॥ इति वुवंशे दरामः सर्गः ।

No text on this page.

Samskrutavatara Vol.2

Author
Taataachaar^ya V R T
Title
San'skrutaavataara
File name
Samskrutavatara Vol.2
Text
OCR done
Citation
1923
Published
2006/01/25
Publisher
Komalambha Press,kumbakonam
Language
Sanskrit
Pages
36
Library
Canegie Mellon Univeristy
Classification
Mathematical And Applied Linguistics. Phonetics. Graphemics. Grammar. Semantics
Keywords
Sanskrit Second Reader fo use in Secondary schools
DLI number
495380
Barcode
1990020084722.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Copyright Permitted
VMLT id
zq6cin3a4lD
Download PDF

Samskrutavatara Vol.2