Others

Trim'shaachchhalokii Pat't'aabhiraamat'ikaasahitaa

1985

PDF Proofread

Front matter

itivinis
RESEARCH INSTITUTE
MADRAS.
त्रिंशच्छलोकी
पट्टाभिरामटीकासहिता
1985
Trimsacchloki : K; };
with
Pattabhirama's Tīkā
EDITED BY
PANDITARAJA RAMA PISHAROTI.
Ernakulam,
AND
PANDIT V. SUBRAHMANYA SASTRI,
Sanskrit Department, Annamalai University.
UNDER THE INSTRUCTIONS OF
MR. K. R. PISHAROTI, M.A.,
Sanskrit Department, Annamalai University.
WITH
AITM
OURAS
AND
PUBLISHED IN
THE ANNAMALAI UNIVERSITY JOURNAL,
ANNAMALAINAGAR.
1937.
Price Eight Annas.

No text on this page.

THE KUPPUSWAMI SASTRY RESEARCH INSTITUTE, MADRAS. FOREWORD This brochure contains the text of a comparatively recent Sanskrit work called the Trimsacchlõki-(thirty ślokas)—by an unknown author, and a commentary thereon by Pattabhirāma. The commentator, Pattābhirāma, may be assigned to the latter half of the nineteenth century, A.D. He is also the author of a commentary, called Mañjūşā, on the Nyāya-siddhānta-muktāvali by Viśvanātl.a Pañcánana. In his Mañjūşā, Pattābhirāma refers, in several places, to Nilakantha, the author of the well-known commentary on Annambhatta's Dīpikā, called Prakāśikā. Nilakantha died in 1840 A.D. So, Patļābhirāma cannot be earlier than 1840 A.D. He is one of the disciples of Nșsimha-Śāstrī, who is the author of a commentary called Prabhā, on the Muktāvalī, and also of a commentary called Narasimha-prakāśikā, on Annambhatta's Dipikā. Pațţābhirāma wrote also commentaries on the Tarkasangraha and the Dīpikā. (See the Madras Bālamanīramā Press edition of the Muktāvali with commentaries.) Gautama, the sutra-kāra of the Nyāya-darśana, expounded methodically the basic principles of the dialectic and ratiocinative machinery of the Nyāya system. This machinery was amplified, perfected and refined by Gangesopādhyāya of Mithilā of the thirteenth century, by Raghunātha-širomaņi of the sixteenth century, and later, in the seventeenth century, by Jagadīša and Gadādhara. The dialectic literature of the later Nyāya is a vast banian tree, which had its roots struck deep and its huge trunk fully developed in Mithila in the Tattvacintāmaņi, had its immense foliage stretched out and ramified in the Dīdhiti in Nuddea, and bore fruit in the rich fruitage of Jāgadīsi and Gādādharī, which formed the colossal monument of Indian dialectics in the seventeenth century. Perched high on such broad-based and evergrowing dialectic eminence, the Nyāya dialecticians of the recent centuries have been carrying on their Śástraic discussions and making all their contributions to Sastraic thought in Sanskrit. Pattabhirāma Śästri is one of these recent Naiyāyikas. In the Trimsacchlöki, and in its commentary, in particular, the precise significance of certain types of Sanskrit expression, which are frequently used in polemical literature in Sanskrit, is considered with reference to appropriate illustrations and elucidated. The types of Sanskrit expression considered in this work are :-- (8) 6 'n Sara 6 atsu's fat's affa'; carffet'; 'aroya's aa'; 'ata'; 'terfa nena '; efa aer; trafaret fosila:'; 379184297 '; gte micaa'; '99'; '371 TT: '; 'HED '; 370€T'; forzar '; “(44.?; TET'; 'sterar';' gia'; “qa' 6 . 6 It may be observed here that Pattabhirama Šāstri and other members of the fraternity of Nyāya dialecticians look upon language as fixing the boundaries of thought. In the never-ending fight between speech and thought, these dialecticians carry on their interpretative function, with the firm belief that the language of Nyāya can be so far perfected and refined as to turn out to be an unfailing lasso, which never misses its mark when thrown into the firmament of thought and successfully catches specific types of thought in its nooses and exhibits them within certain well-defined limits :-with the firm conviction that the language of Nyāya is a perfect and efficient instrument, which helps to summarise, classify and analyse the results of thinking, however vagarious, tantalising and elusive thinking itself may be. In this connection, it may be well to ponder over these epigrams :- "Thought is language minus sound." "Language is thought plus sound." The manuscript of this work was made available by Panditarāja Rāma Pisharoti of Ernakulam, Cochin. As instructed by Mr. K. R. Pisharoti, M.A., formerly of the Sanskrit Department of this University, Panditarāja Rāma Pisharoti of Ernakulam and Pandit V. Subrahmanya Šāstri of the teaching staff of the Sanskrit Department in this University prepared the press-copy of this work and scrutinised the proofs, when this work was published in the Annamalai University Journal. This work is now made available separately in book-form, with a detailed table of contents in Sanskrit prepared by Pandit V. Subrahmanya Śāstri and with this foreword by~ Mahāmahopādhyāya Prof. S. KUPPUSWAMI SASTRIAR, M.A., I.E.S. (Retired). Annamalai University, Annamalainagar, Dated, 23—12_37.

सटीकायाः त्रिंशच्छ्लोक्या विषयानुक्रमणिका - १२ . Page. Lines. प्रथमा कारिका कथासु प्रयुज्यमानानां 'नचेति वाच्यम्' इत्यादिशब्दानां स्वानु- भवैकप्रमाणकार्थविशेषाणां निरूपणमस्य ग्रन्थस्य प्रयोजनम् इति प्रतिपादनम् ११-१८ द्वितीया कारिका 'नचेति वाच्यम्' इत्यत्र बोधविषये वादिविवादकथनम् १९-२१ तृतीया कारिका २ १-२ 'नचेति वाच्यम्' इत्यत्र बोधविचारः २-९ १-२ न च पाषाणे गन्धवत्त्वं नास्तीति वाच्यम्' इत्युदाहरणवाक्यस्य अन्वयबोधः २ असधात्वर्थविकल्पेन निरुक्तबोधाक्षेपः २ 'सामान्ये समवायेन गुणो नास्ति' इति वाक्यस्याप्रामाण्यापादनम् १३ नञः सप्तम्यन्तार्थान्विताभावबोधकत्वस्वीकारेण तद्वाक्यप्रामाण्योपपादनम् २ १४-२४ 'आकाशं सामान्ये समवायेन नास्ति' इति वाक्यस्याप्रामाण्योपपादनम् २ २६ नअर्थस्य वारद्वयं बोधेन तत्प्रामाण्यमिति मतान्तरोपक्षेपः २-३ २८-२ तन्निरासः ३.-६ 'सामान्ये समवायेन गुणो नास्ति' इत्यादीनां 'आकाशं न पश्यति' इति वाक्यतुल्ययोगक्षेमत्वम् ७-१२ नार्थमुख्यविशेष्यकबोधस्वीकारेण 'सामान्ये गगनं समवायेन नास्ति' इति वाक्यप्रामाण्योपपादनम् ३ ८ ३ ३ १२-१६ (६) ३ पादनम् ४ ४ १-५ Page. Lines. 'सामान्ये गगनं न समवैति' इति वाक्याप्रामाण्यात्तत्पर्यायस्य निरुक्तवाक्यस्याप्रामाण्यम् १७-२४ प्रतियोगिताया असधात्वर्थत्वं स्वीकृत्य प्रथमान्तार्थविशेष्यकप्रति- योगित्वप्रकारकबोधकथनेन निरुक्तवाक्यद्वयस्य प्रामाण्योप- ३-४ २५-१ प्रतियोग्यभावान्वयाविति व्युत्पत्तिविरोधादिना तत्परिहारः नसमभिव्याहृतासधातोरभावार्थकत्वं स्वीकृत्य पूर्वोक्तबोधवर्णनेन निरुक्तवाक्यद्वयस्यापि प्रामाण्योपपादनम् ६-१२ अत्रापि कल्पे पूर्वकल्पोक्तदोषाक्षेपः १३-१४ द्वितीयदोषनिरासशङ्का १५ तन्निरासः २७-२ परेषामाशयवर्णनेन प्रसक्ताक्षेपपरिहारः ३-६ परेषां मतेन पाषाणे गन्धो नास्ति' इति वाक्यस्य बोधोपसंहारः ५ पूर्वोक्तोदाहरणवाक्यस्य तत्तत्पदार्थनिरूपणपूर्वकं शाब्दबोधकथनम् ७-१५ उद्देश्याप्रसिद्धया निरुक्तशाब्दबोधाक्षेपः १६-२४ धर्मितावच्छेदकांशेऽपि भ्रमोपपादनेन शाब्दबोधसमर्थनम् २५-२६ तृतीयकारिकाया अक्षरयोजना ५-६ २७-५ पाषाणनिष्ठाभावप्रतियोगित्वस्य वारद्वयं भानं विना शाब्दबोधोपपादनम् ६ पक्षान्तरस्यावतरणिका चतुर्थकारिकार्धम् ६ ९ गन्धवत्त्वपदार्थमुख्यविशेष्यकबोधनिरूपणम् १०-११ अत्रापि उद्देश्याप्रसिद्धया बोधीक्षेपः १२-१५ युगपद्वृत्तिद्वयाङ्गीकारेण तत्परिहारः ६ १६ अक्षरयोजना ६ १७ ur ८ ६ w (७) w ६ Page. Lines. चतुर्थकारिकाया उत्तरार्धम् गन्धवत्त्वपदमुख्यार्थविशेष्यकबोधनिरूपणम् ६ १९-२१ अक्षरयोजना ६ २२-२३ अत्र पक्षे पुल्लिङ्गगन्धशब्दघटितोदाहरणवाक्यानुपपत्तिकथनेन पञ्चम- कारिकावतरणिका ६ २४-२६ पञ्चमी कारिका १-२ भिन्नवाक्यत्वं स्वीकृत्य अध्याहृतेदंशब्दार्थमुख्यविशेयकबोधनिरूपणम् ७ ३-५ श्लोकैकदेशस्याक्षरयोजना समभिव्याहृतपुल्लिङ्गगन्धपदार्थपरामर्शिनः इदंशब्दस्य नपुंसकत्वानुप- पत्तिकथनेन कारिकैकदेशावतरणम् ७-१० इदमितिशब्दयोरर्थान्तरकथनेनान्वयबोधनिरूपणम् ११-१३ कारिकागतस्य प्रायश इति पदस्याशयवर्णनम् १४-१८ षष्ठकारिकावतरणिका १९ षष्ठी कारिका २०-२१ भावप्रत्ययान्तवचिधात्वर्थवाक्यमुख्यविशेष्यकबोधोपपादनम् ७-८ २२-२ अक्षरयोजना सप्तमकारिकावतरणम् ९-११ सप्तमी कारिका ८ १२-१३ प्रकारभेदेन भावान्तवच्यादिप्रतिपाद्यज्ञानमुख्यविशेष्यकबोधकथनम् १४-२० अक्षरयोजना २१-२२ वक्तुं युक्तम्' इत्यादिघटितस्य वाक्यस्य बोधवर्णनम् २३-२ अष्टमी कारिका ९ इतिशब्दवैभववर्णनम् नवमी कारिका ९ १०-११ ८ ८ ८ (८) e. १० Page. Lines. ननुशब्दार्थविचारः ९-१० १०-२१ उदाहरणवाक्यम् ९ १२-१३ तस्य खण्डवाक्यार्थबोधनिरूपणम् १४-१८ प्राथमिकस्यैव विघ्नध्वंसपदस्य अन्यतरत्वावच्छिन्ने लाक्षणिकत्वमिति मतकथनम् १८-२० तत्रैव मतान्तरकथनम् ९ २०-२३ प्रथममतनिरासः ९-१० २४-४ द्वितीयमतनिरासः ४-१० उत्तरपदस्यैव अन्यतरत्वावच्छिन्ने लक्षणेति स्वमतनिरूपणम् १० १०-१६ उदाहरणवाक्यस्यान्वयबोधः १७-१८ ननुपदार्थान्वयकथनम् १० १९-२१ दशमी कारिका १० २३-२४ चेच्छब्दार्थविचारः १०-१५ २३-५ उदाहरणकथनपूर्वकं श्लोकैकदेशस्याक्षरयोजना १-२ अनुमानात्' इति वाक्यस्य तत्तत्पदार्थान्वयकथन- पूर्वकं विशिष्टशाब्दबोधनिरूपणम् ११ ३-१० तज्ज्ञानप्रयोज्यत्वस्य पञ्चम्यर्थत्वं स्वीकुर्वाणानां केषांचिन्मतेन शाब्द- बोधनिरूपणम् ११ १०-१४ चेच्छब्दस्यार्थान्तरकथनं श्लोकैकदेशान्तरस्याक्षरयोजना च ११ १५-१६ अत्र पक्षे पदार्थान्वयप्रतिपादनपूर्वकं विशिष्टान्वयबोधनिरूपणम् ११ १७-२१ समाधानवाक्ये पञ्चम्यन्तपदाभावे प्रतिबध्यत्वबोधासंभवेन नञः प्रतिबध्यत्वार्थकत्वाक्षेपः ११-१२ २२-१ तत्र यत इत्यध्याहारेण भ्रातृसमाधानम् १२ विवरणपर्यालोचनया तस्य युक्तत्वम् १२ ११ 'इति चेन्न. ........ २ (९) ६-७ तद्वाक्यस्य बोधः سه Page. Lines. श्लोकैकदेशावतरणम् १२ ५ जिज्ञासार्थकचेच्छब्दघटितमुदाहरणवाक्यम् १२ १२ ८-९ विषयबाधेन बोधाक्षेपः १२ ९-११ विषयाबाधोपपादनम् १२ ११-१३ उदाहरणवाक्यस्य तत्तत्पदार्थान्वयकथनम् १२ १४-१५ त्रेधा विकल्प्य जिज्ञासायां द्रव्यत्वजातिप्रमाणविषयकत्वालाभोपपाद- नपूर्वकं निरुक्तबोधाक्षेपः १२-१३ १६-३ इतिशब्दपूर्वभागस्य अव्ययैकपदत्वं विशिष्टवाक्यपरत्वञ्च स्वीकृत्य बोधोपपादनेन समाधानम् ४-९ निपातानां द्योतकत्वात् चेदादिशब्दानामर्थकथनमसंगतमित्याक्षेपः १३ १०-१३ नञादीनां निपातानां दीधितिकृद्भिः शक्यतावच्छेदकनिरूपणात् निपातानां वाचकत्वमेव १३-१४ निपातस्यापीवशब्दस्य द्योतकत्वोपपादकनैयायिकग्रन्थविरोधः १३ १४-१७ बाधकप्रतिसन्धानेन इवशब्दे द्योतकत्वकथनस्य सामान्येन निपातानां वाचकत्वेनाविरोधः १३ १७-१८ बाधकापनोदनेन इवशब्दस्यापि वाचकत्वपक्षस्य नैयायिकसंमतत्वम् १३ १८-२० भट्टाचार्यसंमत्या चेत्प्रभृतिनिपातार्थमुख्यविशेष्यकबोधस्य नैयायिका- विरुद्धत्वनिरूपणम् १३ २०-२३ इतिशब्दासमभिव्याहारस्थले बोधासंभवाक्षेपः १३-१४ २३-३ अध्याहार इति केषांचित्पक्षः १४ ३-४ तत्र चेच्छब्दस्य यद्यर्थकत्वमिति स्वसमाधानम् ४-५ श्लोकैकदेशान्तरमक्षरयोजना च १४ उदाहरणवाक्यम् १४ १३ १४ (१०) १४ १५ १५ Page. Lines. तत्र इतिपदपूर्वतनभागस्य विशिष्टान्वयबोधः १४ ८-९ इतिशब्दमध्याहृत्य निरुक्तबोधोपयोगिपदार्थान्वयकथनम् १४ १०-११ तमनध्याहृत्य तत्कथनम् १४ १२ अभिनिवेशप्रयुक्तस्य तद्वाक्यस्याप्रामाण्यं स्वीकृत्य बोधवर्णनम् १४ १३-१६ निरुक्तबोधस्य स्वानभिमतत्वम् १७ संभाव्यमाने, सति, गृहीतव्या, इति पदाध्याहारेण निरुक्तभागस्य बोधनिरूपणम् १४ १७-२१ बोधविषयस्याबाधितत्वम् १४ २१-२४ त्वंशब्दमध्याहृत्य जिज्ञासाश्रये चेदर्थजिज्ञासाप्रकारकबोधोपपादनम् १४-१५ २५-२ पञ्चमीति गृह्यतामित्यत्र बोधः २-५ एकादशी कारिका तथापि, यद्यपि, यदिच, तदा इतिशब्दानामर्थविचारः १५-१८ यद्यपितथापिपदघटितोदाहरणवाक्यम् १५ यद्यप्यर्थस्य नार्थेऽन्वयः १५ १० कार्यतावच्छेदकभेदस्याप्रयोजकत्वोपपादनम् १५ ११-१३ तथाप्यर्थस्य बोधेऽन्वयः १५ १४-१५ यद्यपितथापिघटितवाक्ययोरन्वयबोधौ १५ १६-१७ बोध्यमिति पदाभावे तथाप्यर्थः तदन्वयश्च १५ १८-२० यदिचतदापदघटितोदाहरणवाक्यम् १५ २१-२२ तत्तत्पदार्थान्वयनिरूपणपूर्वकं यदिचघटितस्य वाक्यस्य बोधवर्णनम् १५-१६ २२-२ 'अन्त्यावयवित्वे सतीति विशेषणीयम्' इतिवाक्यस्य अनेन, लक्षणे, इतिचाध्याहृत्य · अनीयर् ' प्रत्ययस्य साधुत्वमभ्युपगम्य धात्वर्थघटितत्वमुख्यविशेष्यकबोधोपपादनम् १६ २-८ लक्षणमिति पदाध्याहारे तदर्थमुख्यविशेष्यकबाधः १६ ९-१० लक्षणवाक्ये इत्यध्याहारे धात्वर्थविशेष्यको बोधः १६ ११-१२ ८ (११) १७ Page. Lines. लक्षणवाक्यमित्यध्याहारे बोधः १६ १३ अध्याहृतलक्षणशब्दः चेष्टावत्त्वघटितलक्षणत्वेन शरीरलक्षणत्वेन वा लक्षणबोधकः इति प्रतिपादनम् १६ अध्याहृतलक्षणवाक्यपदं चेष्टावत्त्वमिति वाक्यघटितलक्षणवाक्यत्वेन, शरीरलक्षणवाक्यत्वेन वा लक्षणवाक्यबोधकम् इति प्रतिपादनम् १६ २०-२३ अध्याहृतस्य लक्षणशब्दस्य चेष्टावत्त्वरूपलक्षणबोधकत्वं, लक्षणवाक्य- शब्दस्य च चेष्टावत्त्वमिति वाक्यबोधकत्वमभ्युपगम्यापि धात्वर्थविशेष्यत्वावगाहिबोधमुपपादयतां मतनिरूपणम् १६-१७ २४-७ उदाहरणवाक्यघटकतत्पदार्थज्ञानस्य,अन्त्यावयवित्वविशेषणस्य लक्षण- घटकत्वज्ञानप्रयोजकत्वोपपादनम् ९-१४ द्वादशी कारिका १७ १५-१६ प्रयोज्यत्वार्थकदाप्रत्ययघटितोदाहरणवाक्यम् १७ १८ घटकपदार्थान्वयः १९ ससन्दर्भ तुल्ययुक्तिकत्वार्थकदाप्रत्ययघटितोदाहरणवाक्यनिरूपणम् १७ २०-२२ तद्धटकपदार्थान्वयः १८ संभावनार्थकयदिचघटितं हेतुत्वार्थकदाप्रत्ययघटितञ्चोदाहरणवाक्यम् १८ तद्धटकपदार्थानामन्वयकथनम् १८ यदिशब्दार्थविचारः १८-२१ त्रयोदशी कारिका १८ चतुर्दशी कारिका १८ यदिघटितोदाहरणवाक्यम् १८ १२ आहार्यधीर्यद्यर्थ इति स्वमतेनोदाहरणवाक्यार्थनिरूपणम् १८-१९ १३-१ उदाहरणप्रथमवाक्यस्य तत्तत्पदार्थान्वयनिरूपणपूर्वकं शाब्दबोधवर्णनम् १८ १३-१९ 'तर्हि धूमोऽपि न स्यात्' इति वाक्यस्य पदार्थान्वयकथनपूर्वक शाब्दबोधनिरूपणम् १८-१९ २०-१ -२ ३ A ७-८ (१२) ४-७ Page. Lines. त्रयोदशश्लोकावशिष्टार्थकथनम् १९ २-३ निरुक्तोदाहरणवाक्यस्य शाब्दबोधे पक्षत्रयवर्णनम् १९-२० व्यापकत्वं तर्हिशब्दार्थ इति पक्षे पदार्थान्वयपूर्वकं वाक्यार्थनिरूपणम् १९ आरोपितत्वं तर्हिशब्दार्थ इति द्वितीयपक्षनिरूपणम् १९ ८-१२ भेद्यसंबन्धात्ययः तर्हिशब्दार्थ इति तृतीयपक्षनिरूपणम् १९-२० १२-४ अत्र पक्षे प्रथमवाक्यस्य नैरर्थक्याभावात्तदर्थनिरूपणम् तर्हिपदघटितद्वितीयवाक्यार्थवर्णनम् १९-२० १९-४ तृतीयपक्षे स्वयं दोषकथनम् २०-२१ धातोर्लक्षणां विनापि बोधनिर्वाहशङ्का २० ५-८ लिङ्त्वावच्छिन्नार्थस्य धात्वर्थविशेष्यतयान्वयासंभवेन तन्निरासः २० ९-११ निरुक्तज्ञानस्याहार्यत्वाच्छाब्दत्वासंभवप्रतिपादनम् २० १२-१५ पर्वतवृत्तित्वादेः स्वज्ञानविषयत्वादिसंबन्धेनान्वयशङ्का २० १५-१७ तादृशसंबन्धेनान्वयस्य व्युत्पत्तिविरुद्धत्ववर्णनम् १८-२५ चतुर्दशश्लोकोत्तरार्धस्याक्षरयोजना २१ २-४ खमते निराक्तोदाहरणवाक्यस्याप्रामाण्यापत्त्या उत्तरकारिकावतरणम् २१ पञ्चदशी कारिका २१ १०--११ अक्षरयोजना २१ १२-१६ आपत्तिवाक्यघटकलिङाद्यर्थनिरूपणम् २१-२२ १७-१४ षोडशी कारिका २१ १८-१९ अवाच्यत्वपरिष्कारः २१-२२ २१-१ २२ २.-४ अयुक्तत्वपरिष्कारः २२ सप्तदशी कारिका २२ ७-८ बाधकाभावो लिङर्थ इति निरूपणम् २२ ९-११ धात्वर्थे बाधकशुन्यत्वेन संभाव्यमानत्वोपपादनम् ११-१४ २० धात्वर्थे तदुपपादनम् २२ (१३) २४ Page. Lines. सच्छब्दार्थविचारः, बहुषु स्थलेषु सच्छब्दस्य विषयत्वाद्यनेकार्थ- कत्वोपन्यासः २२-२३ १४-५ सच्छब्दप्रभावनिरूपणम् २३ ६-२३ अष्टादशी कारिका २३ ७-८ श्लोकपूर्वार्धाक्षरयोजना २३ इतिशब्दप्रसक्तिकस्थलप्रसक्तिकत्वोपपादनम् २३ १०-११ उत्तरार्धविवरणम् २३ १२-१५ इतिशब्दस्येव सच्छब्दस्य लक्षणाविषयत्वविपर्ययादिप्रयोजकत्वनिरू- पणम् २३ १५-२३ आकारशब्दार्थविचारः २४-२६ १-१६ एकोनविंशी कारिका २४ १-२ विशी कारिका ३-४ भूतले घट इत्याकारकं ज्ञानम् इत्युदाहरणवाक्यस्य विषयिता आकारशब्दार्थः इति स्वमतेन तत्तत्पदार्थान्वयकथनपूर्वक शाब्दबोधवर्णनम् ५-१० शब्दः आकारार्थ इति मतेन तत्तत्पदार्थान्वयनिरूपणपूर्वकं उदा- हरणवाक्यस्य बोधवर्णनम् २४ १०-१४ तत्पक्षे वाक्यविशेषे पौनरुक्त्यशङ्का तत्समाधानञ्च २४ १४-१६ इतिना पौनरुक्त्यांदित्यंशनिरसनीयेन अभेदः आकारार्थः इति मतेन निरुक्तवाक्यस्य बोधवर्णनम् २४ १६-१८ इतिनेत्यादिश्लोकार्धस्याक्षरयोजना २४ १९ तन्मते तात्पर्यग्राहकेण इतिना अभेदार्थकस्याकारशब्दस्य न पौन- रुत्यमिति इतिनेति मूलखण्डनम २४-२५ २०-१ समानविषयकत्वमाकारार्थः इति मतेन बोधनिरूपणम् २५ १-३ तादृगित्यादिभागस्याक्षरयोजनाम् २५ ३-५ 2 (१४) Page. Lines. इदमि समवायेन घटत्वप्रकारकप्रत्यक्षस्य इदमर्थघटयो मार्थयोरभेदा- वगाहिशाब्दज्ञानसमानविषयकत्वं नेति प्रतिपादनम् २५ ६-१२ 'नायं घटः' इति बुद्धिप्रतिबन्धकयोः 'अयं घटः' इति शाब्दबोध- प्रत्यक्षज्ञानयोः एकधर्मावच्छिन्नं प्रति प्रतिबन्धकत्वपर्यवसितं समानविषयकत्वमस्तीति पूर्वदोषासंभवेन 'शब्देन पुनरुक्तितः' इति भागावतरणम् २५-२६ १२-२ वाक्यविशेषे पानरुक्त्योपपादनम् २६ २-६ एतादृशपौनरुक्त्यस्य सर्वपक्षसमानत्वाददोषत्वोपपादनम् २६ ७-१६ ददात्यर्थनिरूपणम् २६ १७-२० मध्येशब्दार्थविचारः २६-३० १८-९ एकविंशी कारिका २६ १७-१८ उदाहरणवाक्ये ददात्यर्थघटितबोधवर्णनम् २६ १९-२० निर्धारणविभक्त्यर्थनिरूपणम् २६-३० २३-६ भेदाभेदयोः निर्धारणषष्ठयर्थत्वं स्वीकृत्य तत्तत्पदार्थान्वयकथनपूर्वकं उदाहरणवाक्यस्य बोधवर्णनम् २६-२७ २३-५ निर्धारणषष्ठया भेदार्थकत्वव्यवस्थापनम २७-२९ विष्ण्वन्यस्य पुरुषस्योत्तमत्वसंभावनादशायां 'पुरुषाणां विष्णुरुत्तमः' इति वाक्यप्रामाण्यवारणाय षष्ठया भेदोऽप्यर्थः उत्तमत्वा- वच्छेदेन विष्ण्वन्यपुरुषान्यत्वस्यान्वयेन तद्वारणमिति प्रति- पादनम् २७ ६-१२ उद्देश्यविधेयभाववैपरीत्येन उत्तमत्वावच्छेदेन विष्ण्वभेदान्वयं स्वीकृत्य निरुक्तदोषवारणेन भेदस्य विभक्त्यर्थत्वाक्षेपः २७ १२-१९ उदाहरणवाक्यस्य पुरुषोत्तमो विष्णुरिति वाक्यस्य चाविलक्षणबोध- जनकत्वशङ्का १९-२२ विषयविषयतावलक्षण्येन तन्निरासः २२-२५ २७ २७ (१५) Page. Lines. उद्देश्यविधेयभाववैपरीत्येऽपि ‘प्रमेयानामभिधेयं द्रव्यम्' इति वाक्यस्य प्रामाण्यापत्तिः २८ २ परस्परमुद्देश्यविधेयभावेनान्वयात्तत्परिहारशङ्का २८ २-७ तथासत्यपि ' पदार्थानामभिधेयं प्रमेयम् इति वाक्यप्रामाण्यापादनम् २८ अभाववदवृत्त्युद्देश्यतावच्छेदककत्वरूपस्य उद्देश्यतावच्छेदकव्यापक- त्वस्य भानेन निरुक्तापत्तिपरिहारशङ्का २८ ९-१२ 'द्रव्याणां गुणाधिकरणं समवायिकारणम्' इति वाक्यस्य प्रामाण्या- पादनम् २८८ १२-१४ गुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वे निर्धारणविभक्तेः भेदार्थकत्वं मास्त्विति मतोपन्यासः २८-२९ १५-६ द्रव्याभिन्नत्वविशिष्टसमवायिकारणत्वत्वस्य प्रतियोगितानवच्छेदकत्वेन तदवच्छिन्नाभावघटितस्य व्यापकत्वस्याप्रसिद्धया निरुक्त- वाक्याप्रामाण्योपपादनम् २८८ १५-२४ उदाहरणवाक्यस्याप्यप्रामाण्यशङ्का २९ १-३ उत्तमत्वत्वस्य पुरुषाभिन्नोत्तमत्वत्वासमनियतत्वेन तत्परिहारः २९ ‘पदार्थानां गुणाधिकरणं समवायिकारणम्' इतिवाक्यस्य प्रामाण्या- नुपपत्त्या पूर्वोक्तमतनिरासः २९ ७-८ निर्धारणविभक्तेर्मेदार्थकत्वोपसंहारः २९ ८-९ निर्धारणविभक्तेरभेदार्थकत्वव्यवस्थापनम् २९-३० ९-६ 'घटानां विष्णुरुत्तमः' इति वाक्यप्रामाण्यवारणाय अभेदार्थकत्वस्वीकारः २९ ९-१० गुरुधर्मस्य प्रतियोगितानवच्छेदकत्वे, उद्देश्यान्वितभेदविशेष्यतापन्नस्य प्रकृत्यर्थस्य अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वसं- बन्धेन विभक्त्यर्थे भेदे अन्वयेनैव निरुक्तप्रामाण्यवारणाक्षेपः २९ ११-१५ 'समवायिकारणानां पृथिवी गन्धवती' इति वाक्यस्य प्रामाण्योप- पत्तये निरुक्तप्रकृत्यर्थस्य अन्वयितावच्छेदकसमनियतधर्मा- (१६) ३ Page. Lines. वच्छिन्नप्रतियोगिताकत्वसंबन्धेनैव भेदेऽन्वयस्य खीकरणीय- तया, विष्ण्वन्यत्वविशिष्टघटत्वसमनियतघटत्वावच्छिन्नभेद- मादाय घटानामित्यादिवाक्यप्रामाण्यापादनम् २९-३० मध्येशब्दस्य भेदाभेदोभयार्थकत्वम् ३० ६-७ मध्येशब्दः तात्पर्यग्राहकः इति मतान्तरोपन्यासः ३० द्वाविंशी कारिका ३० १०-११ अपेक्ष्य, वर्जयित्वा इत्यनयोरर्थविचारः ३०-३२ अपेक्ष्यपदघटितमुदाहरणवाक्यम् ३० १२ निरुक्तवाक्यस्य गौरवपदार्थविशेष्यकसप्तम्यर्थविरोधिज्ञानविषयत्वप्रका- रकबोधवर्णनम् ३० १३-१६ संभाव्यते इति क्रियापदमध्याहृत्य, गौरवपदार्थविशेप्यकतदर्थप्रकार- कबोधनिरूपणम् ३० १६-२२ द्वितीयबोधस्य युक्तत्वम् ३० २२-२३ अपेक्ष्यपदार्थान्वयपूर्वकं बोधनिरूपणम् ३०-३१ २३-३ प्रकृते गौरवपदार्थनिर्वचनं तत्समन्वयश्च ३१ ३-६ कुलालत्वस्य कारणतावच्छेदकत्वमपेक्ष्य कुलालपितृत्वस्य कारण- तावच्छेदकत्वे गौरवम्' इत्यत्र गौरवपदार्थमन्यादृशं निरुच्य अन्वयबोधनिरूपणम् ३१ ७-१२ 'कुलालत्वमपेक्ष्य कुलालपितृत्वस्य कारणतावच्छेदकत्वं गुरु' इति ३१ १४-१७ कुलालपितृत्वमपेक्ष्य कुलालत्वस्य कारणतावच्छेदकत्वे लाघवम्' इति वाक्यस्य बोधः ३१ २०-२३ कुलालपितृत्वस्य कारणतावच्छेदकत्वमपेक्ष्य कुलालत्वस्य कारण- तावच्छेदकत्वे लाघवम्' इति वाक्यस्य बाधः ३१ २३-२५ अपेक्षयेत्यत्र शाब्दबाधकथनम् ३२ १-२ वाक्यस्य बोधः .

(१७) Lines. २-४ ६ १०-११ १०-७ १२ १३ १४ १५-१७ १९-८ १९-४ Page. ' दण्डमपेक्ष्य दण्डरूपस्य कारणत्वे गौरवम् ' इति वाक्यस्य बोधः ३२ वर्जयित्वासमानार्थकेन विहायपदेन घटितमुदाहरणवाक्यम् ३२ तत्तत्पदार्थान्वयकथनपूर्वक तद्वाक्यस्य बोधवर्णनम् ३२ त्रयोविंशी कारिका ३२ संख्यानां न्यूनाधिकत्वविचारः ३२-३६ न्यूनसंख्याकपदघटितमुदाहरणवाक्यम् ३२ तत्तत्पदार्थान्वयः ३२ अधिकसंख्याकपदघटितमुदाहरणवाक्यम् ३२ उदाहरणवाक्ययोर्बोधः ३२ श्लोकपूर्वार्धन निरसनीयस्य, न्यूनत्वं व्याप्यत्वं अधिकत्वं व्यापकत्वम् इति मतस्योपपादनम् ३२-३३ व्याप्यत्वपरिष्कारः तत्समन्वयश्च ३२-३३ व्यापकत्वपरिष्कारः समन्वयश्च ३३ श्लोकोत्तरार्धभाववर्णनेन तन्मतनिरासः ३३ व्याप्यत्वादिशरीरे सामानाधिकरण्यादीनामनिवेशेन दोषपरिहारशङ्का ३३ तत्र सामानाधिकरण्यादिनिवेशावश्यकतानिरूपणम् ३३ चतुर्विंशी कारिका ३३ श्लोकेन निरसनीयस्य संख्यानिष्टे न्यूनाधिकत्वे न्यूनाधिकसंख्याक- त्वरूपे इति मतस्योपपादनम् ३३-३४ श्लोकार्थवर्णनेन तन्मतनिरासः ३४ पञ्चविंशी कारिका ३४ अक्षरयोजना ३४ न्यूनसंख्याकपदघटितोदाहरणवाक्यस्य निष्कृष्टो बोधः ३४ अधिकसंख्याकपदघटितोदाहरणवाक्यस्य निष्कृष्टो बोधः ३४ सामानाधिकरण्याघटितः निर्दुष्टः संख्याव्याप्यतावच्छेदकत्वपरिष्कारः ३५ ४-८८ ८-१४ १४-१७ १७-२१ २२-२३ २४-५ ५-१० ११-१२ १३-१८ १८-२० २१-२३ (१८) my Page. Lines. तत्समन्वयमुखेन अस्मिन्पक्षे प्रथमपक्षोक्तदोषाभावनिरूपणम् ३५ ५-१० निर्दुष्टः संख्याव्यापकतावच्छेदकत्वपरिष्कारः ३५ १०-१४ तत्समन्वयमुखेन स्वमते प्रथमपक्षोक्तदोषाभावनिरूपणम् ३५ १४-१९ न्यूनत्वाधिकत्वयोः उत्कर्षापकर्षरूपत्वात् परिष्कारारम्भवैयाक्षेपः ३५ १९-२५ न्यूनाधिकत्वयोः उत्कर्षापकर्षरूपत्वासंभवकथनेनाक्षेपनिरासः ३५-३६ २५-७ षडिंशी कारिका ३६ ८-९ अर्धन्यूनाधिकत्वविचारः ३६-३७ ८-२२ उदाहरणवाक्ये ३६ १०-११ अक्षरयोजना १२-१४ संख्यार्धन्यूनत्वपरिष्कारः ३६ १५-१९ तत्समन्वयः १९-२३ संख्यार्धाधिकत्वपरिष्कारः ३६-३७ २३-४ तत्समन्वयः ४--११ सप्तविंशी कारिका ३७ २१-१३ अष्टाविंशी कारिका ३७ १४-१५ गुणादिनिष्ठैकत्वद्वित्वादिविचारः ३७-४० १२-१२ गुणादौ व्यवह्रियमाणस्यैकशब्दस्यार्थविचारेण गुणादौ तत्त्वमेकत्वमिति श्लोकैकदेशावतरणम् ३७-४० १६-३ सामानाधिकरण्यसंबन्धेन एकत्वसंख्याविशिष्टः एकशब्दार्थः इत्याक्षेपः ३७-३९ १७-१४ आश्रयगतैकत्वसामानाधिकरण्यमादाय रूपरसावेकः इति प्रयोगापादनम् ३७ १९-२१ सदृष्टान्तं सामानाधिकरण्यविशेषस्य वृत्तिनियामकत्वस्वीकारेण तत्परिहारः३७ २१-२३ लौहितौ स्फटिको' इति प्रत्ययदृष्टान्तेन पुना रूपरसावेकः इति प्रयोगापादनम् ३७-३८ २४-३ उद्देश्यतावच्छेदकावच्छिन्नसामानाधिकरण्यस्य एकत्वांशे संबन्धता- खीकारेण तत्परिहारः ३८ ३-१२ (१९) ३९ - Page. Lines. एकं गुणत्वमिति प्रतीतिनियामकसामानाधिकरण्यविशेषनिरूपणम् ३८ १२-१५ घटात्यन्ताभावः एकः इत्यत्र तादृशसंबन्धनिरूपणम् ३८ १५-१७ भावत्वाभावः एकः इत्यत्र तादृशसंबन्धनिरूपणम् ३८ १७-२० आश्रयनाशजन्यरूपनाशे एकत्वप्रतीतिनियामकसंबन्धविशेषनिरूपणम् ३८ २०-२२ एकाकारायां प्रतीतौ भासमानानां विविधसामानाधिकरण्यानां संबन्ध- त्वकल्पनागौरवेणाक्षेपः ३८-३९ २३-२ तेषां प्रातिस्विकरूपेण संबन्धत्वाभावेन तत्परिहारः ३९ २-५ एकं रूपं, एको रसः इति शिष्यबोधकवाक्ये एकपदार्थप्रश्नः ३९ ५-१० एकपदस्य एकधर्मावच्छिन्नार्थकत्वोपपादनम् १०-१२ सामानाधिकरण्येन गुणादावेकत्वं भासते इति पूर्वपक्षम्य दीपिकोपष्ट- म्भेनोपसंहारः ३९ १३ घटरूपमेकम् ' इति वाक्यस्य रूपे द्वित्वादिसंशयानिवर्तकत्वेन निरुक्तपक्षनिरासः ३९ १४-१९ रूपत्वमेकमित्यस्यापि रूपत्वे द्वित्वादिसंशयानिवर्तकत्वेन तत्पक्षनिरासः ३९ १९-२२ एकपदस्य सजोतीयद्वितीयशून्यार्थकत्वेऽपि घटे द्वे रूपे एक शुक्लम् इति प्रयोगसाधारण्येन एकपदस्य तद्वयक्तित्वावच्छिन्नार्थक- त्वमिति श्लोकावतरणोपसंहारः ३९-४० २२-३ श्लोकैकदेशार्थकथनम् ३-४ द्वित्वादिकमित्येकदेशान्तरावतरणम् ४-८ अवशिष्टश्लोकभावनिरूपणम् ८-१२ यद्वा, अथवा, परन्तु, इत्यादीनां पदानां सप्तमीविशेषयोश्वार्थविचारः ४०-४२ १३-२ एकोनत्रिंशी कारिका १३-१४ त्रिंशी कारिका १५-१६ अथवापदघटितमुदाहरणवाक्यम् १७-१८ अथवापदपूर्वतनभागस्य बोधनिरूपणम् १९-२२ ४० ४० ४० ४० ४० (२०) ३ ४१ ८ ४१ Page. Lines. मानसबोधः ४० २२-२३ अथवापदार्थवैलक्षण्यनिर्वचनपूर्वकमन्वयबोधः ४१ १-२ भिन्नत्वरूपवैलक्षण्यार्थकत्वकथनम् परन्तुशब्दघटितमुदाहरणवाक्यम् ४-५ इतिशब्दाध्याहारेण तद्वाक्यार्थनिरूपणम् ४१ त्रिंशच्छलोकोत्तरार्धस्याक्षरयोजना सप्तमीविशेषघटितमुदाहरणवाक्यम् ९ तत्तत्पदार्थान्वयकथनपूर्वकं शाब्दबोधनिरूपणम् ४१ एकत्रिंशी कारिका ४१ १४-१५ ज्ञानज्ञाप्यत्वं सप्तमीविशेषार्थः इति मतेन पूर्वोक्तोदाहरणवाक्यार्थवर्णनम् ४१ १६-१८ अन्यादृशसप्तमीविशेषघटितमुदाहरणवाक्यम् ४१ १९ तत्तत्पदार्थान्वयकथनपूर्वकं वाक्यार्थनिरूपणम् ४१ २०-२२ स्यात्पदघटितस्य निरुक्तोदाहरणवाक्यस्य बोधनिरूपणम् ४१-४२ २३-२ एवकारार्थविचारः ४२ ३-१५ द्वात्रिंशी कारिका ४२ ३-४ श्लोकैकदेशयोजना ४२ अयोगव्यवच्छेदपदार्थनिरूपणम् ४२ ६-७ उदाहरणवाक्यात्तद्बोधवर्णनम् ४२ अत्यन्तायोगव्यवच्छेदपदार्थकथनम् ४२ ८-१० उदाहरणवाक्यात्तबोधवर्णनम् ४२ १०-११ अपरयोगव्यवच्छेदपदार्थः ४२ १२-१३ उदाहरणेन तद्बोधनिरूपणम् ४२ १४ त्रिंशच्छ्लोकीटीकायाः कुसुममालात्वेन दक्षिणामूर्तित्रिपुरसुन्दयोरर्पणम् ४२ १६-१९ ग्रन्थसमाप्तिः ४२ २१ ७-८

त्रिंशच्छोकी
(पट्टाभिरामकृतटीकासहिता)
आम्नायमौलिषु विचक्षणमानसेषु
न्यग्रोधसीनि पुरतश्च दृशोर्ममैकम् ।
यद्वस्तु वास्तवमनस्तमितप्रबोध-
माशास्महे तदिदमद्भुतशक्ति किंचित् ।। १ ।।
सिद्धान्ताः परमभ्यधायिषत यैः श्लोकैरिह त्रिंशता
तानेतान् विशदीकरोमि न ततो दोषो गुणो वापि मे ।
सिद्धान्तो यदि वा तदन्यविषयः सम्पद्यतां तावता
श्लाघामूलकृतोऽथवा परिभवो राज्ञो यथा सैन्यतः ॥
वक्ष्यमाणार्थानां प्रामाणिकत्वमुपपादयन् प्रयोजनप्रदर्शनपूर्वक निरूपणं
प्रतिजानीते
मू० स्वानुभूत्येकशरणा विषयाः पूर्वपक्षिणाम् ।
उच्यन्ते तत्रतत्रार्थाः श्लोकैात्रिंशता मया ॥ १ ॥
नन्वेतन्निष्ठनिरूपणस्य किं प्रयोजनमत आह—विषया इति ॥ पूर्वपक्षिणां
विदुषां सभासु पूर्वपक्षं पातयताम् । विषयाः पर्यनुयोज्यतया रहस्यत्वेन गोपनीया
इत्यर्थः ॥ नन्वस्य पदस्य कोऽर्थ इति पूर्वपक्षं पातयन्तं प्रति त्वया वक्तव्यमिति
यदि वादिनः पर्यनुयुञ्जीरन् तदा किं वक्तव्यमत आह-स्वेति ॥ तदा विलक्षण-
मुखविकारभ्रकौटिल्यशिरःकम्पहस्तचेष्टादिभिरभिनीयमानानुभवैकप्रमाणतयाऽयमोंवक्तव्य
इत्यर्थः ॥ १ ॥
मू० न चेति वाच्यं बोधोऽत्र विषयः पूर्वपक्षिणाम् ।
बहवो बहुधा तत्र वादिनः संप्रचक्षते ॥२॥
अत्र एषु मध्ये ॥२॥

२ %3 त्रिशच्छ्लोकी मू० ण्यल्लक्ष्यमानताभेद्यनज्युग्धातूक्तिभाकृतः । विशेष्योऽर्थ इतेः पूर्वविशेष्यस्थं विशेषणम् ॥ ३ ॥ अत्र प्रथममुदाहरणवाक्यार्थ परिष्कृत्य अनन्तरं श्लोकार्थ उच्यते । अत्रोदा- हरणम् ---नच पाषाणे गन्धवत्त्वं नास्तीति वाच्यम् । तत्रापि पृथिवीत्वेन गन्धानुमानात् । इति ॥ पाषाण इति सप्तम्यर्थो निरूपितत्वम् । वृत्तित्वमसधात्वर्थः । आख्या- तार्थश्चाश्रयत्वम् । नर्थश्वाभावः । पाषाणनिरूपितवृत्तिताश्रयत्वाभाववान्गन्ध इति नास्त्यन्तार्थः । ननु असधातुना किं सामान्यतो वृत्तित्वं प्रतिपाद्यते ; उत संबन्धविशेषा- वच्छिन्नवृत्तितात्वरूपेण । नाद्यः; कालिकसंबन्धेन गन्धस्यापि पाषाणवृत्तित्वात् । न द्वितीयः ; असधातो नार्थकत्वापत्तेः । अथ वृत्तितात्वमेवासधातुशक्यतावच्छेदकम् । प्रकृते तु संबन्धविशेषावच्छिन्नत्वेन लक्ष्यते । अथवा समवायनेत्यादिसंबन्धबोधक- तृतीयान्तपदमध्याहर्तव्यम् । तदवच्छिन्नत्वं तृतीयान्तार्थो वृत्तित्वेऽन्वेतीति चेन्न; तथा सति सामान्ये समवायेन गुणो नास्तीति वाक्यस्याप्रामाण्यापत्तेः । सामान्यनिरूपित- समवायसंबन्धावच्छिन्नवृत्तित्वाप्रसिद्धः ।। अथ सामान्ये समवायेन गुणो नास्ति ; पाषाणे समवायेन गन्धो नास्तीत्यादौ सामान्यनिरूपितत्वस्याभावो वृत्तित्वे बोयते । तन्निरूपितवृत्तित्वस्याभावो गुणादौ; अतो नानुपपत्तिः । न च सामान्यादौ गुणवत्तां गुणादौ सामान्यसमवेतत्वं वा सन्दिहानं पुमांसं प्रति तादृशवाक्यप्रयोगात् तादृशसन्देह- विरोधिबोधजनकत्वं तस्यावश्यकम् ; तच्च न संभवति । सामान्यानिरूपितसमवाय. संबन्धावच्छिन्नवृत्तित्वनिश्चयेऽपि सामान्यनिरूपितसमवायसंबन्धावच्छिन्नवृत्तित्वसन्देहस्यापि संभवात् । सामान्यानिरूपितसमवायसंबन्धावच्छिन्नवृत्तित्वस्य गुणत्वावच्छेदेनान्वयं स्वीकृत्य तादृशवाक्यस्योक्तसंशयनिवर्तकत्वमपि न संभवति । तादृशनिश्चयेऽपि एक एव गुणः सामान्यादन्यत्र सामान्ये च समवेतस्स्यादिति संभावनाया अनिरासेन पूर्वोक्तसन्देह- निवर्तकत्वासंभवात् इति वाच्यम् । सामान्यनिरूपितत्वाभावस्य गुणनिष्ठसमवाय- संबन्धावच्छिन्नवृत्तितात्वावच्छेदेनान्वयं स्वीकृत्य तादृशसन्देहनिवर्तकत्वोपपादनसंभवात् । गुणनिष्ठसमवायसंबन्धावच्छिन्नवृत्तितात्वावच्छेदेन सामान्यानिरूपितत्वनिश्चये सति सामान्ये गुणाभावनिश्चयस्याप्यौचित्यावर्जनीयतया तत्संशयाभावादिति चेन्न । एवमप्याकाशं सामान्ये समवायेन नास्ति इति वाक्यस्याप्रामाण्यापत्तेः ; सामान्यानिरूपितस्यापि समवायावच्छिन्नवृत्तित्वस्य गगने बाधात् । यत्त सामान्ये समवायेन गगनं नास्तीति नतु त्रिशच्छ्लोकी वाक्यस्य प्रामाण्योपपत्तये तत्र नार्थस्य वारद्वयं भानमङ्गीकृत्य सामान्यानि- रूपितसमवायसंबन्धावच्छिन्नवृत्तित्वाभाववत् गगनं इति बोधं स्वीकुर्वन्ति ; तन्मन्दमिव प्रति- भाति । अविलक्षणानुपूर्वीस्थले बोधवैलक्षण्यस्य संप्रदायविरुद्धत्वात् ; पृथिव्यां समवाये न गन्धो नास्तीति वाक्यस्य प्रामाण्यापत्तेः; जले समवायेन गन्धो नास्तीति वाक्यस्याप्रमाण्यापत्तेश्च; तादृशवाक्यजन्यशाब्दबोधस्य सामान्यादिविशेष्यकसमवायादिसंसर्गकगगनादिप्रकारकसंशय- विरोधित्वानुपपत्तेश्च । । तथा च अलोच्यते । " सामान्ये समवायेन गुणो नास्ति'", " सामान्ये समवायेन गगनं नास्ति" इत्यादिवाक्यानामप्रामाण्यमिष्टमेव । परन्तु तादृशवाक्यजन्यो भ्रमात्मक एव शाब्दबोधः सन्देहनिवर्तकः । नचैतत्सकलग्रन्थकारमतविरुद्धमिति वाच्यम् । “आकाशं न पश्यति चैत्रः", “आकाशं न पश्यति जात्यन्धः' इत्यादि- वाक्यानां शशशृंगं नास्तीतिवाक्यतुल्ययोगक्षेमतयाऽप्रामाण्यमभ्युपगच्छतां गदाधरभट्टाचा- र्याणामेतद्वाक्याप्रामाण्यस्याभिप्रेतत्वे बाधकाभावात् ।। यत्तु भूतले घटो नास्तीत्यत्र घटाभावो भूतलवृत्तिरिति नथमुख्य विशेष्यकबोधः समवायेनेति तृतीयान्तार्थः तदवच्छिन्नप्रतियोगिताकत्वमभावान्वयी । सामान्ये समवायन गगनं नास्तीत्यत्र समवायसंबन्धावच्छिन्नप्रतियोगिताकगगनाभावः सामान्यनिरूपितवृत्ति- त्वाश्रय इति बोधसंभवान्नानुपपत्तिरिति । तन्न । तथापि भूतले घटो न समवैतीत्यत्र कीदृशो बोधः । न तावद्धटाभावो भूतलवृत्तिरिति । समवेत्युपसर्गद्वयपूर्वकेण्धातोः समवायसंबन्धावच्छिन्नवृत्तित्वार्थकतायाअनुभवाधीनत्वेन घटाभावस्य भूतलासमवेतत- याऽप्रामाण्यापत्तेः । न च तत्र भूतलसमवेतत्वाभाववान् घट इति बोध इति वाच्यम् । तथा सति सामान्ये गगनं न समवैतीति वाक्यस्याप्रामाण्यापत्तेः । न च त्वयेव मयापि तादृश- वाक्यस्य प्रामाण्यं नाभ्युपेयत एव सामान्ये समवायेन गगनं नास्तीति वाक्यस्य प्रामाण्य एवास्माकमाग्रह इति वाच्यम् । न समवैतीत्यम्य समवायेन नास्तीति वाक्येन विवरणस्य सकलग्रन्थकारसम्मतत्वेन सामान्य गगनं न समवैति सामान्ये गगनं समवायेन नास्तीति वाक्ययोः पर्यायतया तयोरेकतरस्य प्रामाण्यमपरस्याप्रामाण्यमित्यर्बुजरतीन्यायहेयत्वात् ।। यत्त भूतले घटो नास्तीत्यत्र भूतलान्वितसप्तम्यर्थविशेषितस्याभावस्यासधात्वर्थप्रति- योगितायागन्वयात् भूतलवृत्यभावप्रतियोगी घट इति बोधः । समवायेनेत्यादि- तृतीयान्तार्थस्तदवच्छिन्नत्वं प्रतियोगित्वान्वयि । न समवैतीत्यत्र तु समवायसंबन्धा- वच्छिन्नपतियोगित्वमेव धात्वर्थः । इत्थं च सामान्यवृत्त्यभावीयसमवायसंबन्धा- ।

त्रिंश लोकी वच्छिन्नप्रतियोगितायाः गगने सत्त्वान्न काप्यनुपपत्तिरिति । तदशुद्धम् । नञसभि- व्याहारे यत्पदार्थस्य यत्पदार्थे येन संबन्धेनान्वयः, तत्संबन्धावच्छिन्नप्रतियो- गिताकतदभावः तद्विशेषणतया बोद्धयते नोति व्युत्पत्तिविरोधात् । भूतले घटो नास्ति किन्तु पट इत्यत्रानुषज्यमानस्य अस्तीत्यस्य वृत्तित्वबोधकत्वानुपपत्तेश्च । अनुषज्यमानपदाना- मन्तरेणानुपपत्तिप्रतिसन्धानं पूर्वविरुद्धार्थबोधकत्वस्योत्सर्गतोऽनुभवविरुद्धत्वात् ॥ परे तु भूतले समवायेन घटो नास्तीत्यत्र नन्समभिव्याहृतासधातोरभावोऽर्थः । युक्तञ्चैतत् । भू सत्तायामस भुवि इत्यन्योन्यार्थावेवासभूधातू विहितौ । तत्राभाव इत्यत्र नन्समभिव्याहृतभूधातोरभावार्थकतया तत्पर्यायस्य नञ्समभिव्याहृतासधातोरपि तदर्थकत्वं वाच्यम्। अत एव भूतले घटो न भवतीत्यत्र न भवतीत्यस्य नास्तीत्यनेन विवरणं संगच्छते । प्रतियोगित्वमाख्यातार्थः । समवायेनेत्यत्र तृतीयान्तार्थस्तदवच्छिन्नप्रतियोगिताकत्वं धात्वर्थान्वयि । न समवैतीत्यत्र तु समवायसंबन्धावच्छिन्नप्रतियोगिताकाभाव एव नमसमभिव्याहृतधातोरर्थः । अतो न काचिदनुपपत्तिरिति प्राहुः ॥ अत्र केचित् पूर्वपक्षयन्ति -एतत्कल्पेऽपि नञसमभिव्याहार इत्यादिनियमभंगः । भूतले घटो नास्ति किन्तु पट इत्यत्रानुषज्यमानास्तीत्यस्य वृत्तित्वबोधकत्वानुपपत्तिश्च समानः। अथ स्वभावतो वृत्तित्वार्थकस्य नन्समभिव्याहारदशायामभावार्थकतामापन्नस्याप्यन्यत्रानुषज्य- मानस्य वृत्तित्वार्थकत्वमुपपद्यते। स्वभावतो वृत्तित्वार्थकत्वात्। अभावार्थकतातात्पर्य- ग्राहकस्य नञः तदानीं तत्राभावात् । न च पूर्वत्रासधातोः प्रतियोगित्वार्थकतातात्पर्य- ग्राहकस्य नअस्तदानीमभावादनुषज्यमानास्तीत्यस्य वृत्तित्वबोधकत्वमस्तीति वाच्यम् । न हि वयं तात्पर्यग्राहकसमवधानासमवधानाभ्यामस्तेरभावार्थकतां वृत्तित्वार्थकता चाचक्षाणाः परमते तदसंभवमापादयामः ; येन तुल्यता स्यात् । किन्तु पूर्वत्रैकार्थप्रतिपादकस्यान्यत्रानुषज्य- मानास्तीत्यस्य शक्त्या लक्षणया वान्यार्थबोधकत्वमनुभवविरुद्धमित्येव । अन्यथा गंगायां घोषः, न मत्स्यः इत्यत्रापि स्वरसतो बोधापत्तेः । न च त्वन्मतेऽपीदं तुल्यम् । भूतले घटस्य न भावः, किन्तु पटस्येत्यत्र नविनिर्मोकेणानुषज्यमानभाव इत्यस्य स्वरसतो वृत्तित्वबोधक- त्वानुभवेन नन्समभिव्याहारदशायामभावार्थकतामापन्नस्य नविनिर्मोकेणानुषज्यमानस्य स्वरसतो वृत्तित्वबोधकत्वव्युत्पत्तेः स्वीकारात् । न च प्रतियोगित्वार्थकतामापन्नस्याप्यन्य- त्रानुषङ्गे तथा स्वीक्रियते प्रमाणाभावात् । घटस्य भूतले वर्तमानाभावप्रतियोगित्वं, किन्तु पटस्येत्यस्य प्रमाणत्वापत्तेश्चेति चेन्न ; तथापि न वर्तत इत्यस्य वृत्तित्वाभावबो- धकत्वं न स्यात् । नास्तीत्यस्य न वर्तत इत्यनेन विवरणात् ; तयोः समानार्थकत्वात् ।

त्रिंशच्छ्लोकी तथा चानुभवविरोधः । सामान्ये समवायेन गगनं न वर्तत इत्यस्याप्रमाणतापत्तेः । इष्टा- पत्तावर्द्धजरतीयन्याय इति । तदनालोचनविजंभितम् । यत एतन्मते नसमभिव्याहृतवृत्तित्वार्थकधातूनामभावार्थ- कत्वं नअर्थाभावविशेषणतापन्नवृत्तित्वार्थकत्वञ्चोभयमेव स्वीक्रियते । तात्पर्यवशाच्चैकैकबोधः । यत्र चैकार्थे बाधकं तत्रापरार्थमादायैव प्रामाण्यमुपपादनीयमिति न काचिदनुपपत्तिरित्यलं विस्तरेण ॥ तथाच नचास्य तथाच पाषाणनिष्ठाभावप्रतियोगी गन्धः इति बोधः । इतिपदस्य गन्धनिष्ठपाषाणनिष्ठाभावप्रतियोगित्वमर्थः । वाच्यमित्यत्रण्यत्वेन रूपेण विधिशक्तस्य कृतः प्रामाण्ये लक्षणा। तदन्वितनअर्थस्य वचिधात्वर्थेऽन्वयः । पुनः कृत्यत्वेन रूपेण कृता विषयो बोद्धयते । गन्धनिष्ठपाषाणनिष्ठाभावप्रतियोगित्व- मप्रमाणोक्तिविषयीभूतमित्यन्वयबोधः । उक्तिश्च श्रावणोपस्थितत्वात्पाषाणे गन्धवत्त्वं नास्तीत्यानुपूर्विकैव । तत्रापीत्यादेश्च पृथिवीत्वज्ञानजन्यतद्विशेष्यकगन्धप्रकारका- नुमितेरित्यर्थः । अपिशब्दस्वारस्यात्पाषाणे गन्धस्यालौकिकप्रत्यक्षविषयत्वं प्रतीय- तेऽनुभवात् , तस्यापिशब्दार्थस्य तत्पदार्थेऽन्वयात् तदन्तर्भावण तच्छब्दार्थकल्पनाद्वा उपपादनीयम् । अनुमानादित्यत्र पञ्चम्यर्थ. प्रयोज्यत्वमप्रामाण्यान्वयि । तथा चेदं सर्वमेकं वाक्यम् । नन्वत्र गन्धनिष्ठपाषाणनिष्ठाभावप्रतियोगित्वे उद्देश्ये अप्रमाणोक्तिविषयताविधेयकबोधो न संभवति । तादृशोद्देश्याप्रसिद्धेः । वाक्यस्य तदंशेऽप्रामाण्यमिष्टमेव , अभिनिवेशप्रयुक्तत्वादिति वाच्यम् । तथापीति- पदार्थविशिष्टापसिद्धेः । न ह्यसतिवस्तुनि कस्यचिवृत्तिः संभवति। न च इतिपदाद्गन्धस्य पाषाणनिष्ठाभावप्रतियोगित्वस्य च खण्डशो भानमिति वाच्यम् । तथाप्यत्रैकवाक्यता- बलादितिपदार्थ गन्धे पूर्वपदार्थस्य गन्धस्यान्वयो वाच्यः। स च व्यर्थः । नच पाषाण- निष्ठाभावप्रतियोगित्वमेव इतिपदार्थः । तत्र गन्धस्याधेयतयान्वयः। तावतैव विशेष्यस्थं विशेषणमिति वाक्यार्थोपपत्तेरिति वाच्यम् । तावतापि सर्वं ज्ञानं धर्मिण्यभ्रान्तं प्रकारे तु विपर्यय इति न्यायेन धर्मितावच्छेदकांशे भ्रमत्वं न संभवतीतिचेत्, मैवम् । रजतत्वेन शुक्तिज्ञानानन्तरं रजतत्वेन शुक्तिधर्मितावच्छेदकीकृत्य रजतवानयमितिवाक्यात् भ्रमात्मकबोधस्य सर्वानुभवसिद्धतया तादृशनिश्चयासिद्धेरिति ॥ श्लोकार्थस्तु, ण्यता ण्यत्प्रत्ययेन । लक्ष्या लक्षणावृत्या बोद्धया, मानता प्रामाण्यं भेद्यः स्वप्रतियोगिकत्वसंबन्धेन . या तस्याः विशेष्यः न त्रिंशच्छ्लोकी नर्थोऽभावः । तेन युज्यते अनुयोगितासंबन्धेन विशेष्यतया अन्वीयते , या धातूक्तिः वचिप्रतिपाद्योक्तिः । तद्भाजः तद्विशेष्यस्य । कृतः कृदर्थविषयस्य । इति- शब्दपूर्ववाक्यात् यादृशविशेष्ये यादृशविशेषणं बोद्धयते तादृशविशेषणरूपोय इत्यर्थः । स विशेष्यः इति । अत्र पाषाणनिष्ठाभावप्रतियोगित्वस्य वारद्वयं भानं त्वनुभवबलादास्थीयते नास्तीत्यत्र तिर्थस्योद्देश्यतावच्छेदकघटकतया मानमितिशब्दप्रभावकल्पितव्युत्पत्तिसंको- चाहनीयम् ॥ पाषाणे नास्तीति पदत्रयं तात्पर्यग्राहकम् । इतिशब्दार्थे पाषाणनिष्ठाभावप्रतियोगित्वे गन्धस्यान्वयाद्विशिष्टलाभ इत्यादिकं स्वयमूहनीयम् ॥ ३ ॥ इतिशब्दस्य मुख्यविशेष्यार्थबोधकत्वं नेत्याशयेन पक्षान्तरमाह- अथवा मू० आचष्टे प्राग्विशेष्यं वा तद्विशिष्टविशेषणम् । गन्धवत्त्वपदं गन्धनिष्ठपाषाणनिष्ठाभावप्रतियोगित्वपरम् । तत्र नच वाच्यमित्यस्या- न्वयः । बोधाकारस्तु पूर्ववत् । पाषाणनिष्ठाभावप्रतियोगित्वस्य वारद्वयं भानादिकं तु पूर्ववत् ॥ नन्वत्रगन्धवत्त्वपदस्य गन्धनिष्ठपाषाणनिष्ठाभावप्रतियोगित्वरूपविशिष्टार्था- प्रसिद्धिः । न च गन्धवत्त्वपदात् गन्धस्य पाषाणनिष्ठाभावप्रतियोगित्वस्य च खण्डशो भानमिति वाच्यम् । तर्हि गन्धवत्त्वपदात् गन्धस्य शक्त्या पाषाणनिष्ठाभावप्रतियोगित्वस्य च लक्षणया भानोपगमस्य युगपद्वृत्तिद्वयविरोधेनासंभवादिति चेत् , न। परस्परान्वय- बोधस्थले युगपवृत्तिद्वयम्याभ्युपगमात् । अयमेव वा पक्षान्तरानुसरणे बीजम् ॥ श्लोकार्थः-पूर्वविशेष्यवाचकपदं तादृशविशेष्यनिष्ठं विशेषणमाचष्टे बोधयतीति । शब्दार्थः । मू० विशेषणान्वितोवच्याद्यर्थस्तत्र विशेषणम् ॥ ४ ॥ पाषाणे नास्तीत्यनेन पाषाणनिष्ठाभावप्रतियोगित्वमुच्यते । प्रतिपादकत्वमिति- पाषाणनिष्ठाभावप्रतियोगित्वप्रतिपादकत्वमेव वा इतिशब्दार्थः । पाषाणे नास्तीतितु तात्पर्यग्राहकम् । तथा च गन्धवत्त्वं पाषाणनिष्ठाभावप्रतियोगित्वप्रतिपादका- प्रमाणोक्तिविषयीभूतमित्यन्वयबोधः । श्लोकार्थस्तु-विशेषणान्वितः पूर्वविशेषणान्वितः, तत्प्रतिपादकत्वोक्तिविशेष्यकृदर्थविषयः । पूर्वविशेष्ये विशेषणमिति ॥ ४ ॥ नन्वत्र पक्षे न च पाषाणे गन्धो नास्तीति वाच्यमिति प्रयोगानुपपत्तिः । पुल्लिंग- गन्धशब्दप्रतिपाद्येऽभेदसंबन्धेनान्वितमर्थ बोधयतः विशेष्यनिघ्नस्य वाच्यपदस्य नपुंसकत्वा- नुपपत्तेरित्यस्वरसादाह ।

त्रिंशच्छ्लोकी मू० अथवाऽस्मिन् पूरणीयं सामान्येनेदमादिकम् । विशेष्यं तु तदर्थः स्यात्सायशो वा विशेषणम् ॥ ५ ॥ पाषाणे गन्धो नास्तीति भिन्नं वाक्यम् । इति वाच्यमित्यनयोस्तात्पर्यग्राहकत्वम् । तथाचेदमिति न वाच्यमित्यन्वयः । इदंशब्दस्य गन्धवाचकत्वेऽपि उत्सर्गतो नपुंसकत्वम् इतिशब्दस्य पाषाणनिष्ठाभावप्रतियोगित्वप्रतिपादकत्वमर्थः । बोधाकारस्तु पूर्ववत् । तथा श्लोकार्थस्तु-अस्मिन् वाक्ये । सामान्यत इदंशब्दादिकमध्याहर्तव्यम् । तादृ- शेदंशब्दार्थस्तु पूर्वविशेष्यम् । ननु अध्याहृतेदंशब्दस्य गन्धार्थकत्वे पुंस्त्वानुपपत्तिः । नचोत्सर्गतः पदानां नपुंसकत्वमिति वाच्यम् । यत्पदप्रतिपाद्यार्थपरामर्शकत्वमिदमादीनां यत्र तत्र तेषां तत्समानलिङ्गकत्वस्यैवाभियुक्तसम्मतत्वेन तादृशनियमस्य स्वपरामृश्यमाना- थबोधकपदान्तरासमवधानविषयत्वादित्याशयेनाह–प्रायशो वा विशेषणमिति । चेदंशब्दस्य पाषाणनिष्ठाभावप्रतियोगित्वमर्थः । तदर्थकपुल्लिङ्गपदान्तरसमवधानाभावा- प्रकृते नपुंसकत्वम् । इतिशब्दस्य गन्धनिष्ठत्वप्रतिपादकत्वमर्थः । तथा च पाषाण- निष्ठाभावप्रतियोगित्वं गन्धनिष्ठत्वप्रतिपादकाप्रमाणोक्तिविषयीभूतमित्यन्वयबोधः । ननु नच गन्धस्य पाषाणसंबन्धाभाव इति वाच्यमित्यत्राध्याह्रियमाणेदंशब्दस्य विशेषणीभूतगन्ध- परामर्शकत्वं विशेष्यभूतपाषाणसंबन्धाभावपरामर्शकत्वं वा न संभवति । उभयोरपि पुंस्त्वादत आह–प्रायश इति । तत्र तुल्यवित्तिवेद्यतया उत्तरकालीनमानसेन वा लभ्यस्य पाषाणसंबन्धाभावाधिकरणत्वस्य गन्धवृत्तित्वस्य वा परामर्शकमिदमादिपदमिति भावः ॥ ५॥ अध्याहारं विनाप्याह- मू० अथवा पूर्वलक्ष्योक्तिवादात्म्येत्यर्थभागिनः । भावान्तार्थस्य वचसो नञप्रामाण्यभेद्यता ॥ ६ ॥ पाषाणे गन्धो नास्तीत्येकं पदमनुकरणं विलक्षणानुपूर्वीविशिष्टतादृशवाक्य- परम् । अभेद इतिशब्दार्थः । वाच्यमित्यत्र कृत्यप्रत्ययो भावार्थकत्वाद्यर्थः । तद-

१०
त्रिंशच्छ्लोकी
वच्छिन्नोपस्थापकत्वे वाकारसमभिव्याहारस्येव शक्त्या खोपस्थाप्यैकतरार्थविलक्षणान्यतरत्वा-
वच्छिन्नघटकैकपदार्थोपस्थापकपदान्तरसमभिव्याहारस्यापि ज्ञानं प्रयोजकम् । अतो
विघ्नध्वंसपदस्य प्रथमोपस्थितत्वेऽपि समाप्तिपदश्रवणात्प्रागन्यतरत्वावच्छिन्नोपस्थापकत्वास-
भवेन तस्य प्रथमोपस्थितत्वभकिञ्चित्करम् । एवं यस्मिन्पदे इत्यादि समाधानमप्यसङ्ग-
तम् ।
यतः उत्तरपदे वाकारसमभिव्याहारं विना पूर्वपदे वाकारसमभिव्याहारोऽनुभव-
विरुद्धः । तथाहि-घटं वा पटं वाऽऽनयेति घटं पटं वाऽऽनयेत्येवानुभवसिद्धः प्रयोगः ।
न तु घटं वा पटमानयेति प्रयोगानुभवः शक्यते नाटयितुम् । तत्र घटं वा पटं वाऽऽनयेत्युभयत्र
वाकारसमभिव्याहारस्तेनैव प्रत्याख्यातः । तेन यस्मिन्पदे इत्यादिग्रन्थाथपर्यालोचनायां यत्र
घटं पटं वाऽऽनयेत्युच्यते तत्र पटपदस्य लक्षणा । यत्र घटं वा पटमानयेत्युच्यते तत्र घटपदस्य
लक्षणेत्यर्थः स्वरसतो लभ्यते । स चानुभवविरुद्धः । किन्तु सर्वत्रोत्तरपदस्यैव लक्षणा
तत्रैव वाकारसमभिव्याहारः । घटं वा पटं वाऽऽनयेत्यत्र घटपदे वाकारसमभिव्याहारस्तु घटपदं
न घटत्वावच्छिन्नोपस्थापकमिति तात्पर्य ग्राहयति । पटपदे वाकारसमभिव्याहारस्तु
पटपदं घटपटान्यतरत्वावच्छिन्नोपस्थापकमिति तात्पर्य ग्राहयति । नच वैपरीत्ये विनिग-
मनाविरह इति वाच्यम् । पूर्वपदे वाकारसमभिव्याहारं विनाप्युत्तरपदे वाकारसमभिव्या-
हारस्य, उत्तरपदे वाकारसमभिव्याहारं विना पूर्वपदे वाकारसमभिव्याहाराभावस्य च विनि
गमकत्वमित्यादिकमालोचनयीम् । विनापीत्यत्रापिशब्दस्वारस्यान्मङ्गलसामानाधिकरण्यमपि
तथाच मङ्गलप्रतियोगिकाभावसमानाधिकरणमङ्गलसमानाधिकरणनास्तिकादि-
कर्तृकग्रन्थघटकसमाप्तिज्ञानज्ञाप्यविघ्नध्वंससमाप्त्यन्यतरनिरूपितकारणताव दवन्मङ्गलमित्य
न्वयबोधः । तत्र ननुपदस्य ग्रन्थकारसंबोधनमर्थः । तस्य कर्मतासंबन्धेन कारणभेदेऽन्वयः ।
ग्रन्थकारसंबोधनकर्मत्वं नाम ग्रन्थकारसमवेतबोधजनकव्यापारजन्यज्ञानविषयत्वमिति सर्व
सुस्थम् ॥ श्लोकार्थस्तु स्पष्टः ॥ ९ ॥
सूच्यते ।
-
प्रसंगाच्चेच्छब्दस्यार्थमाह-
सू० स्वानुमत्यतिपाते तद्विशिष्टे वा विशङ्कने ।
जिज्ञासायां कचिचेत्तद्भेद्यता कर्तरि कचित् ॥ १० ॥

११ त्रिंशच्छ्लोकी उदाहरणं चास्य इतिचेन्नेति । तत्र स्वस्यानुमतिः अभ्युपगमापरपर्यायो ज्ञान- तस्या अतिपातः अभावः । तदर्थकश्वेच्छब्दः । तत्र यत्र चेदित्यनन्तरं पृथङ्न श्रूयते तत्र चेत्पदसमभिव्याहृतनञ एवानुमत्यभावोऽर्थः । यत्र पृथङ्नन श्रूयते किंत्वितिचेदित्येव तत्र चेदित्यस्य तदर्थकत्वं बोध्यम् । तत्र न कारणमित्यत्र विशिष्टकारण- भेदस्य प्रकारितासंबन्धेन मङ्गलस्य विशेप्यितासंबन्धेनानुमतावन्वयः, इतिशब्दप्रभा- वात् । तत्र चेच्छब्दार्थः स्वानुमत्यभावः----स्वनिष्ठानुमत्यभावः । स च नैकदा म्वनिष्ठानुमत्यभावत्वेन विशिष्टरूपेण चेच्छब्देन प्रतीयते । किन्तु स्वनिष्ठत्वं विधेयतया, अनुमत्यभावश्चोद्देश्यविधया । तथाच तादृशविशिष्टभेदप्रकारकमङ्गलविशेष्यकानुमत्य- भावः स्वनिष्ठः इति विशिष्टबोधः । यत्र इति चेदनन्तरं पञ्चम्यन्तपदं श्रूयते तत्र पञ्चम्य- न्तार्थज्ञानज्ञाप्यत्वस्यानुमत्यभावेऽन्वयः । केचित्तु तज्ज्ञानप्रयोज्यत्वं पञ्चम्यन्तार्थः । तस्य स्वनिष्ठत्वेऽन्वयः । प्रयोज्यत्वं स्वरूपसंबन्धविशेषः । प्रतिबद्धयाभावसंबन्धप्रतिबन्धकयोः प्रयो- ज्यप्रयोजकभावस्य सिद्धान्तसिद्धत्वात् । प्रकृते शिष्टाचारविषयत्वेन मङ्गलम्य समाप्तिसाधन- स्वानुमानादिति यदि स्यात्तदा तादृशानुमत्यभावः शिष्टाचारविषयत्वज्ञानजन्यमङ्गलवि- शष्यकसमाप्तिकारणत्वप्रकारकानुमितिप्रयोज्यस्वनिष्ठत्ववानिति विशिष्टबोध इत्याहुः । प्रकारान्तरेणाह-तद्विशिष्टे वा विशङ्कन इति । स्वानुमत्यभावविशिष्टशङ्कायामित्यर्थः । शङ्का स्वोक्तार्थविशेप्यकाप्रामाणिकत्वप्रकारकज्ञानम् । प्रकृते तु केवलज्ञानमेव शङ्का । स्वानुमत्यभावो नाम प्रतिबद्धयत्वम् , न तु पूर्वोक्तः । तत्र नन एव प्रतिबद्धयत्व- मर्थः। चेच्छब्दस्य शङ्कार्थः । तत्र मङ्गलादेः विशेष्यित्वादिनाऽन्वयः। कारण- त्वानुमानादित्यत्र पञ्चम्यों निरूपितत्वम् । अन्वयश्चास्य प्रतिबद्धयत्वे । मङ्गलविशेष्यकयथोक्तभेदप्रकारिका शङ्का निरुक्तानुमाननिरूपितप्रतिबद्धयत्वाश्रयीभूतेति विशिष्टबोधः । यत्रेति चेदित्येव श्रूयते तत्र जिज्ञासेतरार्थकस्थले सर्वत्र नञ्शब्दः प्रयोक्तव्य इत्यभिप्रायो ग्रन्थकारस्य । अत्र केचित्पूर्वपक्षयन्ति । इति चेन्नेत्यत्र यदि नत्रः प्रतिबद्धघ- त्वमेवार्थः तर्हि तदनन्तरं यत्र पञ्चम्यन्तपदं श्रूयते तत्र तदर्थतन्निरूपितत्वविशिष्टप्रतिबध्य- त्वप्रकारकबोधसंभवेऽपि यत्र पृथक् पञ्चम्यन्तपदं न श्रूयते, किन्त्विति चेन्नेत्यनन्तर शिष्टा- चारविषयत्वेन मङ्गलस्य समाप्तिसाधनत्वमनुमीयत इत्येव, तत्र का गतिः । नहि निरूपका- तत्र - तथा च १२ त्रिंशच्छ्लोकी विशेषितप्रतिबध्यत्वप्रकारकबोधः क्वचित्स्वारसिकः सन्ननुभूयते । अतोऽयमर्थोऽनुपपन्नइति । अत्रामद्भातरः-यत्र पृथक् पदं न श्रूयते तत्राप्यत इति पञ्चम्यन्तं पदमध्याहार्यमिति–पाहुः । युक्तं चैतत् । इति चेन्नेत्यत्र सैवरेवं विवरणं क्रियते इतिचेन्न । कुतः, यतः शिष्टाचारविषयत्वेन मङ्गलस्य समाप्तिसाधनत्वमनुमीयते अत इत्यर्थ इति । तस्मादेतद्विवरणपालोचनया अत इत्यादिकमध्याहार्यमेव । अत्रोक्तपक्षद्वयमेकविषयकमेव । विषयान्तरमप्याह-जिज्ञासायां क्वचिदिति । अत्रोदाहरणम् ---द्रव्यत्वजातौ किं मानम् ? न तावत्प्रत्यक्षम् , घृतजतुप्रभृतिषु द्रव्यत्वाग्रहादितिचेन्न । कार्यसमवायिकारणतावच्छेदकतया द्रव्यत्वजात्यनुमानादिति । अत्र द्रव्यत्वजातिविषयकप्रमाकरणविषयकजिज्ञासा कार्यसमवायिकारणतावच्छेदकत्वविषयक- द्रव्यत्वजात्यनुमितिज्ञाननिवर्तनीया इति बोधः । तादृशानुमितिज्ञाननिवर्त्यत्वं कथं द्रव्यत्वजातिप्रमाणजिज्ञासायाः इच्छाया विषयसिद्धिमात्रनिवर्तनीयतया प्रमाणजिज्ञासाया प्रमाणसिद्धिमात्रनिवर्त्यत्वादिति चेत् । द्रव्यत्वजातावनुमितिज्ञाने द्रव्यत्वजातिविषयकानुमि- त्यात्मकप्रमाकरणज्ञानस्याप्यौचित्यावर्जनीयतया परम्परयाऽनुमितिज्ञाननिवर्त्यत्वस्य, तस्य विशिष्टानुमितिज्ञानस्यानुमानज्ञानरूपतया साक्षाद्वा तन्निवर्तनीयत्वस्य प्रमाणजिज्ञासायां सत्त्वात् । अत्रानुमानपदमनुमितिज्ञानपरम् । निरूपितत्वं पञ्चम्यर्थः । नाथस्तु निवर्त्यत्वम् । तस्य चेच्छब्दार्थे जिज्ञासायामन्वयः । नन्चत्र जिज्ञासायां द्रव्यत्वजातिप्रमाणविषयकत्वं दुर्लभम् । न च मानपदार्थस्य विषयताविशेषसंबन्धेन जिज्ञासैकदेशे ज्ञानेऽन्वयात्तल्लाभ इति वाच्यम् । विचारासहत्वात् । किमत्र किंशब्दार्थविशेषितस्य मानपदार्थस्य विषयतासंबन्धेनान्वयः, उत किंशब्दार्थस्यापि प्रातिस्विकरूपेण विषयतासम्बन्धेनान्वयः, आहोस्विद्रव्यत्वजातौ किं मानमित्येक वाक्यम्। तत्र मानविशेष्यकजिज्ञासाविषयप्रकारकाभेदसंसर्गकबोधः प्रथममुत्पद्यते । तत इतिचेदिति श्रवणे तत्र विषयतासंबन्धेन मानपदार्थमात्रस्यान्वय इति । नाद्यः, जिज्ञासायाः द्रव्यत्वजातिप्रमाणमात्रविषयकतया जिज्ञासान्तर्भावण तद्विषयकत्वाभावात् तद्विशेषि- तप्रमाणविषयकत्वस्य जिज्ञासायां दुर्घटत्वात् । अत एव न द्वितीयोऽपि । नापि तृतीयः, इतिशब्दपरिक्षयापत्तेः । भिन्नवाक्यतया प्रतीयमानानां वाक्यानामेकवाक्यतासम्पादन- स्येतिशब्दप्रभावत्वेन तद्धटितभिन्नवाक्यैः प्रातिस्विकरूपेण बोधासंभवात् । यद्यपि जिज्ञासा- त्रिशच्छ्लोकी १३ विषयत्वोपलक्षितस्य मानस्य विषयतया ज्ञानेऽन्वयं स्वीकृत्यैकवाक्यतापि संघटते । जिज्ञा सायाश्चोपलक्षणतया निवेशेन जिज्ञासाविषयकत्वाभावेऽपि न क्षतिरिति वक्तुं शक्यते । तथापि न तावत्प्रत्यक्षं घृतजतुप्रभृतिषु द्रव्यत्वाग्रहादित्यस्य भिन्नवाक्यत्वं दुर्वारमेव । अत्रायं समाधिः । यत्र किंशब्दसमभिव्याहृतनन्वित्यादिग्रन्थोत्तरं इतिचेन्नेति श्रूयते तत्रेतिशब्दपूर्वमेकमेव पदमव्ययं विशिष्टतादृशवाक्यपरम् । इतिशब्दार्थस्तु प्रतिपाद्यत्वं तस्य चेच्छब्दार्थेऽन्वयः । तत्र किंशब्दः यद्याशङ्काविषयपरः तदा चेच्छब्देनाप्याशङ्काभिधीयते । यदि जिज्ञासाविषयपरः तदा चेच्छब्देनापि जिज्ञासाभिधीयते । तत्र द्रव्यत्वजाति- विषयकप्रमाकरणं जिज्ञासाविषयीभूतमित्यादिबोधस्तु तादृशपदोपस्थाप्यवाक्यघटकीभूत- पदज्ञान इति बोध्यम् ॥ अत्र केचित् बभ्रमः-निपातानां द्योतकत्वात् अयं पक्षः सर्वोऽप्यनुपपन्नः । तत्र ननुपदस्य तदर्थविशेष्यत्वेनाभिमतार्थबोधकपदे स्वार्थान्तर्भावण लक्षणातात्पर्यग्राहकत्वोक्ति- संभवेऽपि चेत्पदस्य तथा वक्तुमयुक्तत्वादिति ।। अन्यथा नः . , तन्न, निपातानां द्योतकत्वस्य नैयायिकसिद्धान्तविरुद्धत्वात् । शक्यतावच्छेदकनिरूपणं एवकारशक्यतावच्छेदकनिरूपणं च दीधितिकृतां विरुद्धघत। अथ निपातानां द्योतकत्वस्य नैयायिकसंप्रदायविरुद्धत्वे इवशब्दम्य न सादृश्यार्थकत्व , किन्तु सादृश्यप्रतियोगिवाचकपदस्यैव तत्सादृश्यावच्छिन्ने लक्षणेति तत्र ग्रन्थकृतां निरूपण तव विरुद्धयेतेतिचेन्न । तत्र चैत्र इव मैत्रः, चैत्रभिव मैत्रमानयेत्यादौ चैत्रमैत्रपदयोः समानलिङ्ग- वचनकत्वानुपपत्तिरूपबाधकप्रतिसंधानेन तथोक्तेः । अत एव इवशब्दार्थप्रतियोग्यनुयोगि- वाचकपदयोरपि समानवचनकत्वादिना भाव्यमिति व्युत्पत्त्यन्तरं स्वीकृत्येवशब्दम्य साह- श्यार्थकता केचिदाचक्षते । स्यादेतत् । निपातार्थस्य मुख्यविशेष्यतया भानं नैयायिकसंप्रदाय- विरुद्धमिति । नैष दोषः । पुरुषे दण्डो नवेति संशयस्य दण्डाभावदण्डोभयविशेष्यतानिरूपित- पुरुषवृत्तित्वनिष्ठप्रकारताशालित्वमुपपादयता गदाधरभट्टाचार्येण निपातार्थविशेष्यकत्वस्यापि सूचितत्वादिति । अथात्र पक्षत्रयेऽपि क्वचिद्विशेष्यत्वादिना प्रथमाद्यन्तार्थस्यान्वयबोधार्थ १४ त्रिंशच्छ्लोकी । । अथवा- कचित्पूर्वपदेन वाक्यबोधार्थं च इतिशब्दस्यावश्यकत्वमापतितम् । तथाच यत्रेतिशब्दसमभि- व्याहारो नास्ति, यथा आत्मवादे मुक्तावल्यम्-नातिरिच्यते चेत् तर्हि समूहालम्बने नीला- कारः पोताकारः स्यादिति । तत्र का गतिः ? अत्र केचित् तत्रापि इतिशब्दोऽध्याहर्तव्य इत्याहुः । वस्तुतस्तु चेच्छब्दो द्विविधः । यद्यर्थ एकः आशङ्काद्यर्थकोऽपरः । तत्र तावत् यत्रे- तिशब्दसमभिव्याहारो न दृश्यते तत्र यद्यर्थक एव चेच्छब्द इत्यवधेयम् । तद्भवता कर्तरि कचित् । तत्र तच्छब्देनाशङ्का जिज्ञासा चाभिधीयते । तद्विशेष्यत्वं क्वचित्तदाश्रयस्यैव यथा-शब्दाश्रयत्वेनाकाशस्य कारणत्वे कान्यथासिद्धिरिति चेत्पञ्चमीति गृहाण इति । शब्दा- श्रयत्वावच्छिन्नत्वप्रकारेण कारणत्वप्रकारकाकाशविशेष्यकग्रहविरोधिग्रहविषयीभूतान्यथा- सिद्धिर्जिज्ञासाविषयीभूतेति तत्रेतिपदपूर्वाव्ययात्मकतादृशपदोपस्थाप्यवाक्यस्यार्थः । कथमि- तिचेदित्थम् । शब्दाश्रयत्वेनेत्यनन्तरमितिशब्दोऽध्याहर्तव्यः । तदर्थे प्रकारत्वे तृतीयान्तार्थस्य शब्दाश्रयत्वावच्छिन्नत्वस्यान्वयः तस्य कारणत्वपदार्थ कारणत्वग्रहेऽन्वयः । इतिशब्दमनध्याहृत्य तृतीयार्थस्यावच्छिन्नत्वस्य प्रकारितासंबन्धेन कारणत्वग्रहेऽन्वयो वाच्यः। यद्वा-तृतीयार्थस्यावच्छिन्नत्वस्य कारणत्वग्रहरूपकारणत्वपदार्थकदेशकारणत्वे स्वरूपसंबन्धे- नान्वयः । नचात्र घटादिकं प्रतीत्यस्याध्याहर्तव्यतया शब्दाश्रयत्वावच्छिन्नघटादिनिरूपित- कारणत्वाप्रसिद्धयाऽप्रामाण्यापत्तिरितिवाच्यम् । इष्टापत्तेः । अभिनिवेशेनच प्रयोगात् । पक्षत्र- येऽपि विरोधिग्रहविषयत्वस्य सप्तम्यर्थस्यान्यथासिद्धावन्वय इति बहवः । तत्र सप्तम्या विरोधि- ग्रहविषयत्वार्थकत्वं न स्वारसिकमिति प्रतिभाति । वस्तुतस्तु कारणत्व इत्यनन्तरं संभाव्य- माने सतीति पूरणीयम् । आनुभाविकं चैतत् । कान्यथासिद्धिरित्यनन्तरं गृहीतव्येति पूरणीयम् । अत एव पञ्चमीति गृहाणेत्युत्तरम् । इदानीं सप्तम्यर्थस्य प्रयोज्यत्वस्य गृहीतव्येत्यत्र तव्यप्रत्ययप्रकृत्यर्थे ग्रहेऽन्वयः । तथा च शब्दाश्रयत्वावच्छिन्नत्वप्रकारकसंभावनाविषयी- भूतकारणताप्रयोज्यग्रहविषयीभूतान्यथासिद्धिः केत्यर्थः। तत्र संभावनाविषयीभूतकारणता- प्रयोज्यत्वं सविशेषणे हीति न्यायेन कारणत्वसंभावनाप्रयोज्यत्व एव पर्यवस्यति । अन्यथासिद्धि- अहेच कारणत्वसंभावनायाः प्रयोजकत्वमबाधितमेव । कारणत्वं संभाव्यैवान्यथासिद्धेनिरूप्य- त्वात् । यद्वा कारणत्वपदं पूर्ववृत्तित्वपरं तत्संभावनाप्रयोज्यत्वे न कापि विप्रतिपत्तिरित्या- दिकमवसेयम् । अत्र चेदन्तार्थस्य तादृशवाक्यप्रतिपाद्यजिज्ञासाया अध्याह्रियमाणत्वमिति- ।

लाकी १५ पदार्थेऽन्वयः । पञ्चमीत्यत्र विषयत्वमितिशब्दार्थः । तथाचैतादृशवाक्यप्रतिपाद्यजि- ज्ञासाश्रयस्त्वं पञ्चमान्यथासिद्धिविषयकज्ञानवान् भूया इति बोधः । एवं पञ्चमीति गृह्य तामिति यत्र श्रूयते तत्र तादृशवाक्यप्रतिपाद्यजिज्ञासाश्रयत्वन्समवेतः पञ्चमान्यथासिद्धि- ग्रहो भूयादित्यर्थः । जिज्ञासान्वितस्याध्याहृततृतीयान्तयुप्मच्छब्दार्थस्य तृतीयार्थसमवेतत्व- द्वारा ग्रहेऽन्वयादित्यादिकं तत्र तत्र स्वयमूह नीयम् । श्लोकार्थस्तु उक्तः ॥ १० ॥ मू० तथापि स्यादबाध्यत्वे यद्यपि स्यादनादरे । यदि चेषदनिष्टत्वे तदा तञ्जन्यवेदने ॥ ११ ॥ प्रथमस्योदाहरणम्-यद्यपि स्नेहत्वं नित्यवृत्तितया न कार्यतावच्छेदकम् । तथापि जन्यस्नेहत्वं तथा बोध्यमिति । अत्र स्नेहत्वं नित्यवृत्तित्वप्रयोज्यकार्यतावच्छेदकभेदवदिति बोधे यद्यप्यर्थस्यानादरस्याप्रयोजकत्वज्ञानरूपस्य विषयतया, अप्रयोजकत्वरूपस्य वा स्वरूप- संबन्धेन भेदेऽन्वयः स्वीकर्तव्यः । अत्र शुद्धस्नेहत्वे कार्यतावच्छेदकभेदो हि जलत्वजात्यसिद्धि- प्रयोजकतयोपन्यस्यते । स च न तथा भवितुमीष्टे । जन्यत्वविशेषितस्नेहत्वस्य कार्यतावच्छेद- कत्वमादाय जलत्वजातिसिद्धयुपपादनसंभवादितिभावः । तदेवाह-तथापि जन्यस्ने- हत्वं तथा बोध्यमिति । तथापीत्यस्य शुद्धस्नेहत्वविशेष्यककार्यतावच्छेदकभेदप्रकारकज्ञाना- प्रतिबद्धघत्वमर्थः । तस्य तथा बोध्यमित्यत्र कार्यतावच्छेदकप्रकारकज्ञानेऽन्वयः । तथा चा प्रयोजकनित्यवृत्तित्वप्रयोज्यकार्यतावच्छेदकभेदवत् स्नेहत्वमिति प्रथमवाक्यार्थः । स्नेहत्वविशेष्यककार्यतावच्छेदकभेदप्रकारकज्ञानाप्रतिबध्यकार्यतावच्छेदकत्वप्रकारकज्ञानविष - यीभूतं जन्यस्नेहत्वमिति द्वितीयवाक्यार्थः । यत्र बोध्यमिति न श्रूयते किन्तु तथापि जन्यस्नेहत्वं कार्यतावच्छेदकमित्येव तत्र निरुक्तज्ञानाप्रतिबध्यज्ञानविषयत्वपर्यन्तं तथाप्यर्थः। तस्य कार्यतावच्छेदकत्वेऽन्वय इत्यादिकं द्रष्टव्यम् । द्वितीयोदाहरणम् –यदिच हस्तादौ शरीरव्यवहारो न भवति तदाऽन्त्या- वयवित्वे सतीति विशेषणीयम् । अत्र नञ्समभिव्याहृतभूधातुनाऽभावोऽभिधीयते । आख्यातेन प्रतियोगित्वम्। ईषदनिष्टत्वं यदि चेत्यनेनोच्यते । तच्च बलवद्वे- १६ त्रिंशच्छ्लोकी . षाविषयत्वम् । तथाच बलवद्वेषाविषयहस्तादिनिष्ठाभावप्रतियोगित्वाश्रयः शरीरव्य- वहार इति प्रथमवाक्यार्थः । द्वितीयवाक्याथै इतिशब्दानन्तरं अनेनेति पूरणीयम् । तत्र यदि लक्षण इति सप्तम्यन्तलक्षणपदमध्याहियते । तदा विपूर्वकशिधा- तूत्तरस्य भावकर्मणोरित्यधिकारविहितस्यानीयप्रत्ययस्य साधुत्वार्थकत्वम् । विपूर्वकशिष्- धातोघटितत्वमर्थः । लक्षण इत्यत्र सप्तम्यर्थो निष्ठत्वम् । अन्त्यावयवित्वे सतीत्येकं पदम् । तादृशानुपूर्वीविशेषविशिष्टवाक्यपरम् । इतिशब्दार्थश्च प्रतिपाद्यत्वम् । अनेनेत्यत्रेद- शब्दार्थो धर्मः । तृतीयार्थो निरूपितत्वम् । तथाच सप्तम्यन्तसत्पदसमभिव्याहृता. न्त्यावयवित्वपदप्रतिपाद्यान्त्यावयवित्ववैशिष्टयरूपो यो धर्मस्तन्निरूपितघटितत्वं निरुक्तलक्षण- निष्ठमिति बोधः । यदिच लक्षणमिति प्रथमान्तलक्षणशब्दोऽध्याहियते, तदा कर्मण्यनीय- प्रत्ययः । कर्मत्वं च प्रकृते आश्रयत्वम् । तथाचानीयप्रत्ययार्थस्याश्रयस्याभेदेन लक्षणेऽन्वयः । शेषं पूर्ववत् । यदि लक्षणवाक्य इति सप्तम्यन्तलक्षणवाक्यशब्दोऽध्याहियते, तदाऽन्त्याव- यवित्वे सतीत्यव्योपस्थापिततादृशानुपूर्वीविशेषविशिष्ट इत्यर्थाभेदे, सचाध्याहृततृतीयान्तेदंश- ब्दार्थवाक्येऽन्वेति । शेषं पूर्ववत् । एवं लक्षणवाक्यमिति प्रथमान्तलक्षणवाक्यशब्दाध्याहारपक्षेs प्यूहनीयम् । पक्षचतुष्टयेऽपि कृत्यप्रत्ययत्वेन रूपेणेष्टसाधनत्वमनीयप्रत्ययार्थः । अन्वयश्चास्य प्रकृत्यर्थे । इष्टं च प्रकृतेऽतिव्याप्तिवारणं बोध्यम् । अत्र लक्षणशब्देन न केवलं चेष्टावत्त्वत्वेन रूपेण चेष्टावत्त्वरूपशरीरलक्षणमुपस्थाप्यते । केवलचेष्टावत्त्वस्यान्त्या- वयवित्वघटितत्वाभावेन बाधापत्तेः । नाप्यन्त्यावयवित्वविशिष्टचेष्टावत्त्वत्वरूपेण तादृश- विशिष्टधर्मस्यान्त्यावयवित्वघटितत्वे निर्विवादेन प्रकृतानुपयोगात्तादृशविशिष्टलक्षणे पुनरन्त्या- वयवित्वघटनाया इष्टसाधकत्वाभावात् । किन्तु चेष्टावत्त्वघटितलक्षणत्वेन सामान्यतः शरीर- लक्षणत्वेन वा । एवं लक्षणवाक्यशब्देन न केवलं चेष्टावत्त्वं शरीरत्वमित्यानुपूर्वीविशेषविशिष्ट- वाक्यत्वेन, नाप्यन्त्यावयवित्वे सति चेष्टावत्त्वं शरीरत्वमिति तादृशानुपूर्वीविशिष्टवाक्यत्वे- न वारूपेण लक्षणवाक्यमुपस्थाप्यते। किन्तु चेष्टावत्त्वं शरीरत्वमिति वाक्यघटितलक्षणवाक्य. त्वेन सामान्यतः शरीरलक्षणवाक्यत्वेन वेति बोध्यम् । केचित्तु लक्षणशब्देन चेष्टावत्त्वेन रूपेण चेष्टावत्त्वरूपलक्षणमुपस्थाप्यते । विपूर्वकशिषधात्वर्थो विशेष्यत्वम् । शेषं पूर्ववत् । युज्यते चैतत् । अन्त्यावयवित्वे त्रिंशच्छूलोकी सति चेष्टावत्त्वं शरीरलक्षणमिति ज्ञानेऽन्त्यावयवित्ववैशिष्टयनिष्ठप्रकारतानि- रूपितविशेष्यतायाः चेष्टावत्त्वे सत्त्वात् । एवं लक्षणवाक्य शब्देन चेष्टावत्त्वं शरीरत्व- मित्यानुपूर्वीविशिष्टवाक्यत्वेनैव रूपेण लक्षणवाक्यमुपस्थाप्यते । अन्त्यावयवित्वे सति चेष्टावत्त्वं शरीरत्वमिति वाक्यं शरीरलक्षणपरमित्याकारकज्ञानेऽन्त्यावयवित्वे सतीति पदस्याव्यवहितोत्तरत्वसंबन्धेन चेष्टावत्त्वं शरीरत्वमिति वाक्ये प्रकारतयाऽन्त्यावयवित्वे सतीति वाक्यनिष्ठप्रकारतानिरूपितविशेष्यतायाः चेष्टावत्त्वं शरीरत्वमितिवाक्ये विद्यमानत्वा- न्न काप्यनुपपत्तिरित्याहुः । एतन्मते तादृशविशेष्यतायामतिव्याप्तिवारणरूपेष्टप्रयोजकत्वमक्षत- मेवेति ध्येयम् । इत्थं च तदेत्यत्र तच्छब्देन शरीरव्यवहारनिष्ठहस्तनिष्ठाभावप्रतियोगित्वमुप- स्थाप्यते । विशेषणानां लक्षणघटकत्वं विशेषणवाचकपदानां लक्षणवाक्यघटकत्वं चाति- व्याप्त्यादिवारणप्रयोजनकत्वमनिश्चित्यानावश्यकत्वेनाध्यवसीयते । तत्रातिव्याप्तिवारण- प्रयोजनकत्वं तदघटितस्यालक्ष्यसाधारणतामनध्यवसाय न व्यवस्यते । तच्चातिव्याप्ति- निरूपकाधिकरणे लक्ष्यतावच्छेदकशून्यत्वनिश्चये स्यादिति प्रकृते लक्ष्यतावच्छेदकीभूतशरीर- व्यवहारविषयत्वस्य हस्तादिनिष्ठाभावप्रतियोगित्वज्ञानं तद्धटकत्वज्ञानजनकमित्यादि ॥ ११ ॥ मू० प्रयोज्यत्वेऽपि वा तुल्ययुक्तिकत्वे क्वचिद्भवेत् । परिसंभावनाहेतुत्वार्थकत्वं तयोः क्वचित् ॥ १२ ॥ कचित् प्रयोज्यत्वं तदेत्यत्र दाप्रत्ययार्थः । यदिचार्थस्तु पूर्ववत् । यथा यदिच पर्वते धूमोऽस्ति तदा वह्निः पर्वतेऽस्तीति । तत्र तच्छब्देन धूमनिष्ठपर्वतवृत्तित्वमभिधीयते । दाल्प्रत्ययेन प्रयोज्यत्वम् । अन्वयश्चास्य वृत्तित्वे । वाकारेणात्रापि पूर्वोक्तार्थ एव युज्यत इत्युक्तं भवति । क्वचित्तुल्ययुक्तिकत्वं दाल्प्रत्ययार्थः । यथा एकः पटत्वस्य जातित्वाभावं मनुते । अन्यस्तु घटत्वस्य । तत्र पटत्वजातित्ववादी अपरं प्रति प्रत्यवति- ष्ठते—यदिच घटत्वं जातिः तदा पटत्वमपि जातिरिति । अत्रापि यदिचार्थः पूर्ववत् , १८ त्रिंशच्छूलोकी । बलवद्वेषाविषयत्वस्य तत्राप्यविशिष्टत्वात् । तदेत्यत्र तच्छब्दस्य घटत्वनिष्ठजातित्वमर्थः तुल्ययुक्तिकत्वं दाल्पत्ययार्थः जातित्वेऽन्वेति । केचित्तु यदिचेत्यस्य कचित्संभावनार्थकता- माचक्षते यत्र तादृशोऽर्थो वक्तुरपि सम्मतः यथा-यदि च घटत्वं जातिरित्यत्रैव । तदर्थसंभावना च विषयतया जातित्वेऽन्वेति । कचित्तदाशब्दस्य हेतुत्वार्थकत्वमपि । हेतुत्वं जन्यत्वम् । यदिच तत्र दण्डो वर्तते तदा घटोत्पत्तिरपीति । अत्र तत्पदस्य दण्डोऽर्थः जन्यत्वं दाल्पत्ययार्थः । तस्य घटेऽन्वय इत्यादिकं स्वयमूहनीयम् ॥ १२ ॥ इदानीं प्रसङ्गवाक्यघटकचशब्दासमभिव्याहृतयदिशब्दार्थ श्लोकद्वयेन स्पष्टयति । मू० आहार्यधीर्यदेरर्थः चक्षते केचिदन्यथा । तदभिव्याहतस्यैव तहेरर्थान्तरार्थता ॥ १३ ॥ व्यापनारोप्यताभेद्यसंबन्धित्वात्ययाश्च तत् । समीचीनं न तद्भाति यतो बहु निरर्थकम् ॥ १४ ॥ आहार्यज्ञानविषयत्वं यदिशब्दार्थ इति सम्मतम् ; यथा—यदि पर्वते वह्निर्नस्यात् तर्हि धूमोऽपि न स्यादिति । अत्र वह्निशब्दार्थान्वितो नअर्थाभावो मुख्यविशेष्यः । पर्वतवृत्तित्वं तदंशे प्रकारः। अथवा-वहिरेव मुख्यविशेष्यः । तदंशे पर्वतनिष्ठाभाव- प्रतियोगित्वं प्रकारः । नसमभिव्याहृतासधात्वर्थाभावान्वितप्रतियोगित्वस्य तिङर्थ- त्वात् । आहायज्ञानविषयत्वं यदिशब्दार्थः, तच्च पर्वतविशेष्यकवह्निप्रकारकज्ञानोत्तरकाली. नज्ञानविषयत्वम् । अन्वयश्चासधात्वर्थे । लित्वेन रूपेण लिङों न विवक्षितः। तथाच पर्वतविशेष्यकवह्निप्रकारकज्ञानोत्तरकालीनज्ञानविषयपर्वतनिरूपितवृत्तित्वाश्रयः इति, वह्निः तादृशज्ञानोत्तरकालीनज्ञानविषयपर्वतनिष्ठाभावप्रतियोगीति वा तदर्थः । तर्हि धूमोऽपि न स्यादित्यत्र तहत्यिस्य वन्यभावविशेष्यकपर्वतवृत्तित्वज्ञानज्ञाप्यत्वं वह्निविशेष्य- कपर्वतनिष्ठाभावप्रतियोगित्वज्ञानज्ञाप्यत्वं वार्थः । तस्यापि यथायोगमन्वयः । लिड्त्वेन रूपेणापत्तिरर्थः धात्वर्थेऽन्वेति । तथाच वन्यभावविशेष्यकपर्वतवृत्तित्वज्ञानज्ञाप्यं यत् पर्वतवृत्तित्वमापत्तिविषयीभूतं तदाश्रयो धूमाभाव इति, वह्निविशेष्यकपर्वतनिष्ठाभावप्रतियोगि वन्यभावः अत्र तु त्रिचच्छूलोकी त्वज्ञानज्ञाप्यः यः पर्वतनिष्ठाभावः आपत्तिविषयः तत्प्रतियोगी धूम इति वा वाक्यार्थः । अत्र केचिद्याचक्षते । यदि वहिर्न स्यादिति वाक्यं तात्पर्यग्राहकम्। तत्समभिव्याहृतस्य- तर्हिशब्दस्यैवार्थान्तरार्थकत्वमिति । किं तदर्थान्तरमित्याह-व्यापनेति । व्यापनं व्यापकत्व- मित्येकः पक्षः । तथा च तर्हिशब्दस्य पर्वतविशेष्यकज्ञानविषयत्वोपलक्षितो यो वहिः तत्प्रति- योगिकाभावव्यापकत्वमित्यर्थः । अन्वयश्चास्य नार्थ एव । तथाच पर्वतविशेष्यकज्ञानविष- यत्वोपलक्षितवघभावव्यापको धूमाभावः आपत्तिविषयपर्वतवृत्तित्ववान् इति, धूमः पर्वत- विशेष्यकज्ञानविषयत्वोपलक्षितवढ्यभावव्यापकापत्तिविषयीभूतपर्वतनिष्ठाभावप्रतियोगीति वा बोधः। आरोपितत्वं तर्हिशब्दार्थ इति द्वितीयः पक्षः। तच्च वयभावविशेष्यकपर्वतवृत्तित्वारोप- जन्यारोपविषयत्वं वह्निविशेष्यकपर्वतनिष्ठाभावप्रतियोगित्वारोपजन्यारोपविषयत्वं वा । तस्य यथायोग्यमन्वयः । तदा च वयभावविशेष्यकपर्वतवृत्तित्वारोपजन्यारोपविषयपर्वतवृत्तित्ववान् धूमाभाव इति, वह्निविशेष्यकपर्वतनिष्ठाभावप्रतियोगित्वारोपजन्यारोपविषयपर्वतनिष्ठाभाव- प्रतियोगी धूम इति वा बोध इति । भेद्यसंबन्धात्ययस्तर्हिशब्दार्थ इति तृतीयः पक्षः । अत्र पक्षे यदि वहिर्न स्यादितिवाक्यस्याप्यर्थवत्त्वमेव । वक्ष्यमाणनैरर्थक्यदृषणन्तु न तृतीयपक्षे । किन्तु पूर्वपक्षद्वय एव इत्यवसेयम् । अत्र यदिशब्दस्य पर्वतसंब- न्धित्वाभावोऽर्थः । अन्वयश्चास्य नार्थे । असधातोः वृत्तित्वप्रकारकाहार्यज्ञानमर्थः । विषयत्वमाख्यातार्थः । अथवा-पर्वतसंबन्धित्वमेवार्थः । अन्वयश्चास्य वह्नौ। नसमभिव्याहृता- सधातोः अभावप्रतियोगित्वप्रकारकाहायज्ञानमर्थः । विषयत्वमाख्यातार्थः । तथाच पर्वतावृत्ति- वन्यभावः पर्वतवृत्तित्वप्रकारकाहार्यज्ञानविषयः पर्वतवृत्तिवह्निः पर्वतनिष्ठाभावप्रतियोगित्व- प्रकारकाहार्यज्ञानविषयत्ववानिति वा प्रथमवाक्यार्थः । द्वितीय तह त्यस्य न केवलं पर्वता- वृत्तित्वं पर्वतनिष्ठाभावप्रतियोगित्वं वार्थः । तथा सति तह-त्यस्य वह्नयभावस्य पर्वतवृत्तित्वे वहेः पर्वतनिष्ठाभावप्रतियोगित्ते इत्यादिविवरणासंगत्यापत्तेः । किन्तु वन्ह्यभावविशेष्यकपर्वत- वृत्तित्वज्ञानविरोधिज्ञानविषयत्वविशिष्टपर्वतावृत्तित्वम् ।अन्वयश्चास्य नगर्थे ।अथवा-वह्निविशेष्य- कपर्वतनिष्ठाभावप्रतियोगित्वप्रकारकज्ञानविरोधिज्ञानवषयत्वविशिष्टपर्वतवृत्तित्वं तदर्थः । अन्व. यश्चास्य धूमे। तथाच वह्नयभावविशेष्यकपर्वतवृत्तित्वज्ञानविरोधिज्ञानवषयत्वविशिष्टपर्वतावृत्ति- त्ववान् धूमाभावः पर्वतवृत्तित्वप्रकारकापत्तिविषयः, वह्निविशेष्यकपर्वतनिष्ठाभावप्रतियोगित्वज्ञा- २० त्रिंशच्छ्लोकी । । नविरोधिज्ञानविषयत्वविशिष्टपर्वतवृत्तित्ववान् धूमः पर्वतनिष्ठाभावप्रतियोगित्वप्रकारकापतिवि- षय इति वा बोधः । असधात्वर्थवृत्तित्वप्रकारकापत्त्यन्वितविषयत्वस्य नसमभिव्याहृतासधात्व- भावप्रतियोगित्त्वप्रकारकापत्त्यन्त्रितविषयत्वस्य वाऽऽख्यातार्थत्वात् । अत्र प्रथमवाक्ये वृत्तित्व- प्रकारकाहार्यज्ञानत्वेन रूपेणासधार्थता । द्वितीये च वृत्तित्वादिप्रकारकापत्तित्वेनेति विशेषः । अत्र च धातोः लक्षणाभ्युगम एव दोषः। नन्वसधातोवृत्तित्वादिमात्रमर्थः । आख्यातस्य लिङ्- त्वेन कदाचिदाहार्यज्ञानं कदाचिदापत्तिश्चार्थः । तत्र धात्वर्थस्य प्रकारितयाऽन्वयः । तस्य विषयतया मुख्यविशेष्येऽन्वय इति न धातोलक्षणाकल्पनापत्तिः । आख्यातस्यापयर्थकत्वं तवापि सम्मतम् । अत एव यदि वह्निन स्यात् तर्हि धूमोऽपि न स्यादित्यस्य प्रामाण्यमुपपद्यत इति चेन्न । लिङ्त्वावच्छिन्ननिरूपितवृत्तिज्ञानप्रयोज्यप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति धातुपदनिरूपितवृत्तिज्ञानजन्योपस्थितेः हेतुतायाः स्वर्गकामो यजेतेत्यादौ क्लृप्तत्वेन लिङ्त्वावच्छिन्नार्थस्य धात्वर्थविशेष्यतयान्वयासभवात् । नच त्वयेव मयापिवलिङर्थापत्त्यादेविशेषणतयैव धात्वर्थेऽन्वयः स्वीक्रियत इति वाच्यम् । तथापि पर्वता- वृत्तित्वपर्वतवृत्तित्वयोः पर्वतवृत्तित्वपर्वतनिष्ठाभावप्रतियोगित्वयोः परस्परविरुद्धतयाऽहार्य- शाब्दबोधानङ्गीकारमते पर्वतावृत्तिधूमाभावत्वावच्छेदेन पर्वतवृत्तित्वस्य, पर्वतवृत्तिधूमत्वा- वच्छेदेन पर्वतनिष्ठाभावप्रतियोगित्वस्य च बोधासंभवात् । नच पर्वतवृत्तिधूमे पर्वतनिष्ठा- भावप्रतियोगित्वस्य स्वरूपसंबन्धेन नान्वयः स्वीक्रियते। अपि तु स्वज्ञानविषयत्वादिन- येन केनचित्सम्बन्धेन । एवं पर्वतावृत्तिधूमाभावत्वावच्छिन्ने पर्वतवृत्तित्वस्यापीति वाच्यम् । भूतले घटसत्तादशायां भूतले घटो नास्तीति प्रयोगवारणाय निरूपितत्वसम्बन्धावच्छिन्न- धात्वर्थवृत्तित्वनिष्ठप्रकारतानिरूपितस्वरूपसम्बन्धावच्छिन्नाश्रयत्वनिष्ठप्रकारतानिरूपितविशेष्य. तासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति वृत्तित्वार्थकधातुसमभिव्याहृताख्यातसमभि- व्याहृतयत्किंचित्पदनिरूपितवृत्तिज्ञानजन्योपस्थितेर्विशेष्यतासम्बन्धेन कारणत्वस्य, नस- मभिव्याहृतासधात्वर्थाभावनिष्ठनिरूपितत्वसम्बन्धाविच्छन्नप्रकारतानिरूपितस्वरूपसम्बन्धाव- च्छिन्नप्रतियोगित्वनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रति नन्समा भिव्याहृतासधातुसमभिव्याहृताख्यातसमभिव्याहृतयत्किंचित्पदनिरूपितवृत्तिज्ञानजन्योपस्थि- तेः कारणत्वस्य च वाच्यतया स्वेच्छाधीनसम्बन्धेन तादृशान्वयबोधस्य व्युत्पत्तिविरुद्धत्वात् ।

निरालाना १ प्रकृते तादृशव्युत्पत्तिसम्कोचकल्पने च तवैव गौरवमिति तृतीयपक्षे दूषणं मनसि निधाय प्रथ- मपक्षद्वये दूषणं प्रकाशयति समीचीनं न तीदीत । बहु बहुपदघटितं वाक्यं । निरर्थकं स्यादिति शेषः । सम्भवति सार्थकत्वे निरर्थकत्वकल्पनाया अन्याय्यत्वादिति भावः। तस्मा- प्रथमोक्तस्वपक्ष एव समीचीन इति तात्पर्यम् । (१४) ननु त्वन्मतेऽपि यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यादिति वाक्यस्या- प्रामाण्यापत्तिः । नचेष्टापत्तिः। तादृशवक्तरि आप्तत्वव्यवहारस्य सर्वानुभवसिद्धत्वात् । यदा पर्वते वह्निर्नास्तीत्यभिदधानं पुमांस प्रति पर्वतवर्तिनं धूममुपदर्शयन् यदि कश्चि- ब्रूयात् यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यादिति। तदा मध्यस्थः किमेनं सत्यवादि- नमामनुते। इत्यत आह मू० अभिवेशाभियुक्तानां वाक्यानामप्रमाणता । तेषामवश्यवाच्यत्वात् प्रयोगो न विहन्यते ॥ १५ ॥ अभिवेशः आग्रहात्मको ज्ञानविशेषः । अप्रमाणता इप्टैवेति शेषः । तर्हि किमर्थ प्रयोक्तव्यमित्यत आह तेषामिति । तादृशवाक्यानामित्यर्थः । अवश्यवाच्यत्वादिति । पर्वते वह्निविरहमभिदधानस्य पुंसः वह्निविरोधिवढ्यभावबुद्धिप्रतिबन्धकतदापादककापत्ति- रूपमानसज्ञानोपधायकस्वार्थबोधार्थत्वेनावश्यवाच्यत्वादित्यर्थः । तथाच मुख्यतात्पर्यविषय पर्वते वह्निमत्त्वमुपादाय वक्तरि सत्यवादिताव्यवहार इति भावः । (१५) प्रसङ्गादापत्तिवाक्यघटकलिङाद्यर्थमाह । मू० प्रसङ्गवाक्ये चापत्तिर्लिङगदिभिरुदीर्यते । अन्ये वदन्त्यवाच्यत्वमयुक्तत्वं परे जगुः ॥ १६ ॥ आपत्तिलिङाद्यर्थः तस्य धात्वर्थेऽन्वय इति स्वमते तत्रान्वयबोधः पूर्वोक्त एव । अवाच्यत्वमापत्तिवाक्यघटकलिङाद्यर्थ इति केचित् । अवाच्यत्वमनिष्टापत्तित्वं । तच्च २२ त्रिंशच्छ्लोकी स्वानिष्टत्वे सति स्वज्ञानकारणसमवहितत्वं । तस्य धात्वर्थेऽन्वयः । धूमविशेष्यकपर्वत- वृत्त्यभावप्रतियोगित्वज्ञानं प्रति वह्निविशेष्यकपर्वतनिष्ठाभावप्रतियोगित्वज्ञानस्य धूमाभाव- विशेष्यकपर्वतवृत्तित्वज्ञानं प्रति वह्नयभावविशेष्यकपर्वतवृत्तित्वज्ञानस्य वा कारणत्वान्नानुपप- त्तिरिति । बोधप्रकारस्तु पूर्ववत् । परेतु अयुक्तत्वमापतिवाक्यघटकलिङाद्यर्थ इत्याहुः । अयु- क्तत्वं युक्तिशून्यत्वम् । युक्तिः प्रमाणं । प्रमापकशून्यत्वं भ्रमविषयत्वमिति यावत् । तस्य धात्वर्थेऽन्वयः ॥ १६ ॥ मू० बाधकाभावमन्ये तु लिङाद्यर्थ प्रचक्षते । सत्पदप्रकृतिधर्ममाचष्टे तद्यथोचितम् ॥ १७ ॥ अन्ये तु बाधकाभाव एवापत्तिवाक्यघटकलिङाद्यर्थ इत्याचक्षते । स च बाधकशून्य. त्वेन संभाव्यमानत्वं । बाधकं च स्वज्ञानप्रतिबन्धकम् तच्छून्यत्वप्रकारकसंभावनाविषयत्वं लिङर्थः । तस्य धात्वर्थेऽन्वयः । युज्यते चैतत् । धूमाभावनिष्ठपर्वतवृतित्वज्ञानं प्रति हि पर्वते धूमवत्त्वज्ञानं प्रतिबन्धकम् । तच्च पर्वते वह्नयभावज्ञाने सति न संभवति व्यापकाभाव- ज्ञाने व्याप्यज्ञानस्यासंभवादिति धूमाभावे पर्वतवृत्तित्वज्ञानप्रतिबन्धकं नास्तीति तच्छ्रन्य- त्वेन संभाव्यमानत्वं धूमाभावनिष्ठपर्वतवृत्तित्वादेरक्षतमिति । सच्छब्दपूर्वशब्दो भावं बोधयति। सच्छब्दस्तु यथायोगं सन्तमर्थम् । स च यत्र सविषयकधातुना सह समभि- तत्र विषयत्वम् । यथा अभावस्य वैशिष्टयं संबंधान्तरं ससिद्धधतीति । संबन्धान्तरत्वप्रकारकसिद्धिविषयीभूतमित्यर्थः । यत्र भूतार्थप्रत्ययान्तेन तत्रोत्तरकालीनत्वम् । यथा अतिशयितः सन्निद्रातीत्यादौ शयनोत्तरकालोननिद्रावानित्यर्थः । यत्र भविष्यदर्थक- प्रत्ययान्तेन तत्र पूर्वकालीनत्वम् । यथा तृप्तिं प्राप्स्यन् सन्नभ्यवहरतीति । तृप्तिप्राप्ति- पूर्वकालीनाभ्यवहारवानित्यर्थः । यत्र वर्तमानार्थकप्रत्ययान्तेन समभिव्याहियते तत्र समान- कालीनत्वम् यथा दण्डमवलम्बमानः सन् गच्छतीति । दण्डावलम्बनसमानकालीनगमनवा- नित्यर्थः । एवं गच्छन्तं सन्तं चैत्रं पश्येत्यादौ चैत्रविशेष्यकगमनप्रकारकदर्शनवांस्त्व- मिति बोधः । दण्डवन्तं सन्तं गच्छन्तं चैत्रं पश्येत्यादौ दण्डावलम्बनसमानकालीन- व्याहियते । 1, स्वपदार्थोऽत्र वक्ता।

त्रिंशच्छलोकी
२३
गमनविशिष्टचैत्रविषयकदर्शनवानिति बोधः । तृप्ति प्राप्स्यन्तं सन्तमभ्यवहरन्तं चैत्र
पश्येत्यादौ तृप्तिप्राप्तिपूर्वकालीनाभ्यवहारविशिष्टचैत्रविषयकदर्शनवानिति बोधः । शयितं
सन्तं निद्रावन्तं चैत्रं पश्येत्यादौ शयनोत्तरकालीननिद्राविशिष्टचैत्रविषयकदर्शनवानिति
बोधः। शयानं सन्तं निद्रावन्तं चैत्रं पश्येत्यादौ शयनसमानकालीननिद्राविशिष्ट-
चैत्रविषयकदर्शनवानिति बोधः इत्यादिकमूहनीयमिति ॥ १७ ॥
प्रसंगात्सच्छब्दप्रभावमाह ।
मू० असौ पट्टाभिषिक्तः सन्नितिसाम्राज्यकर्मणि ।
क्वचिद्भग्नोद्यमो जज्ञे बाधते तं स्वयं क्वचित् ॥ १८ ॥
यथा दण्डमवलम्बमानः
असौ सच्छब्दः इतिशब्दस्य साम्राज्य पट्टाभिषिक्तः तत्तुल्यप्रभाव इत्यर्थः ।
तत्तुल्यप्रभावत्वं च तत्प्रसक्तिकस्थलप्रसक्तिकत्वे सति तत्प्रयोज्यकार्यप्रयोजकत्वम् । यथा
घटो भूतलवृत्तिरिति ज्ञायत इत्यत्रेतिशब्दप्रसक्तौ सच्छब्दः प्रयुज्यते भूतलवृत्तिः
सन् ज्ञायत इति । क्वचिच्च भग्नोद्यमः संपद्यते । यथा भूतले घटो नास्तीति ज्ञान-
मस्य जातमित्यादावितिशब्दः प्रयुज्यते। सच्छब्दस्योद्यमः परं भज्यते । दृश्यते
च क्वचित् इतिशब्दसंबन्धयोग्यताविधुरावेशः सच्छन्दः ।
सन्नुपयातीत्यत्र प्रयुज्यमानः सच्छब्दः तमितिशब्दं बाधते । प्रभवतश्च व्यक्तमुभावपि
संबन्धिपदं गौणतामापादयितुं सच्छब्दपूर्वपदस्य धर्मलाक्षाणिकत्वात् । विपर्यासयति च
विषयतां सच्छब्दः । भूतलवृत्तिर्घटो ज्ञायत इति सच्छब्दवियुञ्जाने वाक्ये भूतलवृत्तित्वं
धर्मितावच्छेदकतया भासते। घटो भूतलवृत्तिः सन् ज्ञायत इत्यत्र विधेयकोटिप्रविष्ट-
तया। संकुचन्ति च भूयस्यो व्युत्पत्तयः सच्छब्दसमभिव्याहारवशात् । न हि प्रथमाद्य.
न्तार्थस्य भेदसंबन्धेन साक्षान्नामार्थे धात्वर्थे वा अन्वयो व्युत्पत्तिसिद्धः । कल्पयति च
कांचन व्युत्पत्तिमधिकां सच्छब्दः। यथा गच्छन्तं सन्तं चैत्र पश्येत्यादौ सच्छब्दोत्तरद्वि-
तीयायाः निरर्थकत्वेऽपि आवश्यकत्वम् । एवं गच्छत्पदोत्तरद्वितीयाया अपीत्यादिकं
चिरमालोकनीयम् ॥ १८॥

२४ त्रिंशच्छ्लोकी मू० आकारार्थो विषयिता शब्द इत्यपरे जगुः । इतिना पौनरुक्त्याच्च नाभेदार्थत्वमिष्यते ॥ १९ ॥ तादृग्वाक्यजीतुल्यविषयत्वार्थतापि नो प्रत्यक्षाद्यव्यापकत्वाच्छब्देन पुनरुक्तितः ॥ २० ॥ यामन्वेति । भूतले घट इत्याकारकं ज्ञानमित्यत्राकारशब्दार्थो विषयिता । सा च वारद्वयं प्रतीयते । घटपदार्थो घटत्वावच्छिन्नः इतिशब्दार्थनिरूपितत्वद्वारा एकविषयिता- भूतल इत्यत्र सप्तम्यन्तार्थों भूतलवृत्तित्वमपि इतिशब्दार्थद्वारा अपरविषयि- तायामन्वेति । तयोरेकत्रापरस्यावच्छिन्नत्वसंबन्धेनान्वयः । तथाच भूतलवृत्तित्वविष- यित्वावच्छिन्नघटविषयित्ववत् ज्ञानमिति घटविषयित्वावच्छिन्नभूतलवृत्तित्वविषयित्ववत् ज्ञानमिति वा बोध इति स्वमतम् । अपरे तु भूतले घट इत्येकं पदमव्ययं तादृशवि- लक्षणानुपूर्वविशिष्टपरम् । इतिशब्दार्थोऽभेदः । आकारशब्दार्थो वाक्यम् । तत्कत्वं तज्जन- कत्वं । तथाच तादृशविलक्षणानुपूर्वीविशिष्टवाक्यजनकं ज्ञानमिति बोधः । भूतले घट इत्येतादृशशब्दप्रयोग प्रति भूतलवृत्तित्वप्रकारकघटविशेष्यकज्ञानस्य कारणत्वान्नानुपपत्ति रित्याहुः । अत्र केचिदाचक्षते । एवं रीत्या भूतले घट इत्याकारकं ज्ञानं भूतले घट इति शब्दजनकम् इति वाक्ये पौनरुक्त्यापत्त्याऽप्रामाण्यापत्तिरिति । अन्येतु तत्रेष्टापत्ति- मेव स्वीकुर्वन्ति। अत्र केचित् भूतले घट इत्येकं पदमव्ययं भूतलवृत्तित्वनिष्ठप्रकारतानि- रूपितघटत्वावच्छिन्नविशेष्यताकार्थकम् । आकारशब्दार्थश्चाभेदः । तथाच भूतलवृत्तित्व- निष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकाभिन्नं ज्ञानमित्यन्वयबोधं स्वीकुर्वन्ति । तन्मतं दूषयति इतिनेति । आकारशब्दस्याभेदार्थकत्वन्न संभवति इतिशब्दस्याभेदार्थकतया पौनरुत्त्यापत्तेः। इदमापाततः । इतिशब्दस्य यद्यभेदार्थकतामङ्गीकुर्भः तदा स्यादेवाकार- शब्दस्येतिशब्दप्रतिपाद्यार्थप्रतिपादकत्वात्पौनरुक्त्यम् । परंतु इतिशब्दस्यार्थबोधकत्वमेव नाङ्गी- कुर्मः । नचैवमितिशब्दस्य नैरर्थक्यात्प्रयोगानुपपत्तिरिति वाच्यम् । पूर्वशब्दस्याव्ययता- त्पर्यग्रहणायेतिशब्दप्रयोगावश्यकत्वादिति । यदाच तात्पर्यग्राहकस्यैवेतिशब्दस्याभेद- प्रतिपादकत्वमध्यवसीयते । तदा न प्रयुज्यत एवाकारशब्दः । भूतले घट इति त्रिंशच्छ्लोकी २५ ज्ञानमित्येव तदानी प्रयोगादित्यादि। केचित्त भतले घट इत्येकं पदं अव्ययं तादृशवाक्य- परम् । समानविषयकत्वमाकारशब्दार्थः । तादृशवाक्यसमानविषयकत्वं च तादृशवाक्यजन्य- शाब्दबोधसमानविषयकत्वमित्याचक्षते । तन्मतमुपन्यस्य दूषयति तागिति । तादृक् तादृशानुपूर्वीविशेषविशिष्टं यद्वाक्यं तज्जन्या या धीः तत्तल्यविषयत्वार्थकत्वमपि न संभवतीत्यर्थः । तत्र युक्तिमाह प्रत्यक्षाद्यव्यापकत्वादिति । प्रत्यक्षादाव- संभवादित्यर्थः । अयं भावः । समवायसंबन्धावच्छिन्नघटत्वनिष्ठप्रकारतानिरूपि- तेदन्त्वावच्छिन्नविशेष्यताशालिप्रत्यक्षाद्यनन्तरं अयं घट इत्याकारकं ज्ञानमस्य जातमिति व्यवहियते सर्वैः। स चानुपपन्नः स्यात् । ताशवाक्यसमानविषयक- त्वस्य तत्रासंभवात् । तादृशवाक्याद्धि समवायसंबन्धावच्छिन्नघटत्वनिष्ठावच्छेदकताका- भेदसंबन्धावच्छिन्नप्रकारतानिरूपितेदन्त्वावच्छिन्नविशेष्यताशालिबोधो जन्यते । तादृशप्रत्य- क्षादिकं तु समवायसंबन्धावच्छिन्नघटत्वनिष्ठप्रकारतानिरूपितेदन्त्वावच्छिन्नविशेष्यता- शालि । कथंकारमनयोः समानविषयकत्वम्। ननु तद्वाक्यजन्यशाब्दबोधसमानविषयकत्वं नाम तद्वाक्यजन्यशाब्दबोधनिष्ठविशिष्टविषयिताघटितधर्मावच्छिन्नप्रतिबन्धकतानिरूपित- प्रतिबध्यतावच्छेदकविशिष्टविषयिताघटितधर्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छे- दकविशिष्टविषयिताश्रयत्वमेव । भूतलवृत्तित्वप्रकारकघटविशेष्यकज्ञानस्य भूतले घट इति वाक्यजन्यभूतलवृत्तित्वप्रकारकघटविशेष्यकशाब्दबोधनिष्ठा या भूतलवृत्तित्वविशिष्टघटत्वा- वच्छिन्ननिरूपितविषयिता तद्धटितधर्मावच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकवि- शिष्टविषयिताघटितधर्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकविशिष्टविषयिताक- त्वेन तत्समानविषयकत्वोपपत्तिः । एवं विशेषणतासंबन्धावच्छिन्नघटभेदत्वावच्छिन्नप्रकारता- निरूपितेदन्त्वावच्छिन्नविशेष्यताशालिज्ञान प्रति अभेदसंबन्धावच्छिन्नघटत्वावच्छिन्नप्रकार- तानिरूपितेदन्त्वावाच्छन्नविशेष्यताशालिबुद्धेरिव समवायसंबन्धावच्छिन्नघटत्वप्रकारतानि- रूपितेदन्त्वावच्छिन्नविशेष्यताशालिबुद्धेरपि प्रतिबन्धकत्वात् ताशवाक्यजन्यशाब्द- बोधनिष्ठाभेदसंबन्धावच्छिन्नघटत्वावच्छिन्नप्रकारतानिरूपितेदन्त्वावच्छिन्नविशेष्यताघटितध- विच्छिन्नप्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकविशेषणतासंबन्धावच्छिन्नघटभेदत्वाव - च्छिन्नप्रकारतानिरूपितेदन्त्वावच्छिन्नविशेष्यताघटितधर्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिब- २६ त्रिंशच्छ्रलोकी प्रत्य- न्धकतावच्छेदकसमवायसंबन्धावच्छिन्नघटत्वनिष्ठप्रकारतानिरूपितेदन्त्वावच्छिन्नविशेष्यताया- स्तत्राक्षतत्वात् । इत्यत आह शब्देन पुनरुक्तित इति । तथाच यदि समानविषयकत्वमी- दृशं स्यात् तदा अयं घट इत्याकारकं अयं घट इति वाक्यजन्यशाब्दबुद्धिप्रतिबध्यतावच्छेदक- विषयिताघटितधर्मावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकविषयिताशालि क्षमस्य जातमिति (शब्दान्तरसमभिव्याहृतम् ) वाक्यं यदा प्रयुज्यते तदा अयं धट इति वाक्यजन्येत्यादेः पौनरुक्त्यापत्तिः अयं घट इत्याकारकमित्यनेनैव तसिद्धेरित्यर्थः । अत्र वदन्ति । घटत्वनिष्ठप्रकारतानिरूपितेदन्त्वावच्छिन्नविशेष्यताशालीत्यर्थकतास्वी- कारपक्षेऽप्ययं दोषः समानः। तादृशविषयिताया एव तथाविधप्रतिबन्धकतावच्छेदकत्वादिति । नच तादृशविषयितात्वेनायं घट इत्याकारकमित्यनेन बोधः । अयं घटइतिवाक्यजन्येत्यनेन तु प्रतिबन्धकतावच्छेदकत्वेनेत्येकरूपेण वारद्वयं भानाभावान्न पौनरुत्यमिति वाच्यम् । एवमपि अयं घट इत्याकारकसमवायसंबन्धावच्छिन्नघटत्वनिष्ठप्रकारतानिरूपितेदन्त्वावच्छि- न्नविशेष्यताशालिप्रत्यक्षमस्य जातमिति वाक्ये तव पौनरुत्यापत्तिः तादृशविषयतायाः तादृशविषयतात्वेनैव वारद्वयं भानात् । एवं अयं घट इत्याकारकमयं घट इति शब्द- जनकं प्रत्यक्षमस्य जातमिति वाक्ये तादृशजनकतात्वेन तादृशशब्दजनकतायाः वारद्वयं भानात्पौनरुत्यम् । तत्रेष्टापत्तौ ममापि प्रकृतवाक्ये तुल्यमिति। अनुभवविरोधस्तूभयोः समान इति ॥ २०॥ । मू० घटकत्वं ददात्यर्थस्तद्धीविषयतापि वा । निर्धारणविभक्त्यर्थो मध्येशब्दार्थ उच्यते ॥ २१ ॥ प्रथमस्योदाहरणम् । तदान्त्यावयवित्वे सतीति विशेषणं शरीरलक्षणे देयमिति । शरीरलक्षणनिरूपितघटकत्वाश्रयीभूतमिति तन्निरूपितघटकत्वप्रकारकज्ञानविषयीभूतमिति वा बोधः । निर्धारणविभक्त्या योऽर्थः प्रतिपाद्यते स एव मध्येशब्देनापि प्रतिपाद्यते इत्यर्थः । निर्धारणविभक्त्यर्थोऽन्यत्र प्रतिपादितोऽपि न्यूनताभङ्गाय प्रकृते किञ्चित्प्रति- पाद्यते। तत्र निर्धारणविभक्तिः पुरुषाणां विष्णुरुत्तम इत्यत्र । पुरुषाणामित्यत्र षष्ठ्यर्थो त्रिंशच्छलोकी २७ भेदोऽभेदश्च । तत्र पुरुषपदार्थस्याभेदे निरूपितत्वसंबन्धेनान्वयः । अभेदस्य चानुयोगितासंब- न्धेन विष्णुपदार्थे उद्देश्यतावच्छेदकघटकतयान्वयो विष्णोः पुरुषाणामित्यत्र षष्ठयर्थभेदे प्रतियोगितयान्वयः । तस्य चानुयोगितया पुरुषेऽन्वयः। पुरुषस्य च पुनर्भेदे प्रतियोगिता- संबन्धेनान्वयः । तस्य चानुयोगितासंबन्धेनोत्तमपदार्थेऽन्वयः। तस्य चाभेदसंबन्धेन विष्णुपदार्थेऽन्वयः । तथाच पुरुषाभिन्नो विष्णुः विष्ण्वन्यपुरुषान्योत्तमाभिन्न इति बोधः अत्राभेदमात्रस्य निर्धारणविभक्त्यर्थत्वे विष्ण्वन्यपुरुषस्योत्तमस्य सत्त्वेऽपि पुरुषाणां विष्णु- रुत्तम इति वाक्यस्य प्रामाण्यापत्तिः। पुरुषाभिन्ने विष्णौ उत्तमाभेदसत्त्वात् । अतो भेदार्थकत्वं स्वीकृतम् । नच भक्षितेऽपि लशुने न शान्तो व्याधिः विष्ण्वन्यपुरुषोत्तमस्य सत्त्वेऽपि विष्ण्वात्मकोत्तमपुरुषे विष्ण्वन्यपुरुषान्यत्वस्य सत्त्वेन तादृशवाक्यप्रामाण्यापत्ते- दुरित्वादिति वाच्यम् । विष्ण्वन्यपुरुषान्यत्वस्योद्देश्यतावच्छेदकीभूतोत्तमत्वावच्छेदेना- न्वयस्वीकारेण विष्ण्वन्यपुरुषोत्तमस्य सत्त्वे तादृशवाक्यस्य प्रामाण्यविरहात् इदानी विष्ण्व- न्यपुरुषान्यत्वस्योद्देश्यतावच्छेदकव्यापकत्वाभावादिति । अथ विष्ण्वन्यपुरुषस्योत्तमत्व- संभावनादशायां पुरुषाणां विष्णुरुत्तम इति वाक्यस्य प्रामाण्यापत्तिवारणाय निर्धारणवि- भक्तेमैदार्थकत्वमपि स्वीकृत्य तादृशभेदस्य प्रातिलोम्यानुलोम्याभ्यां वारद्वयं भानस्वीकार- प्रयासस्तु नादर्तव्यः । किन्तु पुरुषाणामुत्तम इत्यत्र षष्ठ्यभेदस्योत्तमपदार्थेऽन्वयं स्वीकृत्य पुरुषाणामुत्तम इत्यस्योद्देश्यत्वं विष्णुरित्यस्य विधेयत्वमित्युद्देश्यविधेयभाववैपरीत्य- मेव स्वीकार्यम् । तावता विष्ण्वन्यपुरुषस्योत्तमत्वसंभावनायां पुरुषाणां विष्णुरुत्तम इति वाक्यस्य प्रामाण्यवारणसंभवात् । तदानीमुद्देश्यविधेयभावमहिम्ना पुरुषाभिन्नोत्तमत्वव्याप- कत्वस्य विष्णुत्वे लाभेन विष्ण्वन्यपुरुषस्याप्युत्तमत्वे तादृशव्यापकभावबाधात् । नचैवमपि पुरुषोत्तमो विष्णुरिति वाक्यस्य पुरुषाणामुत्तमो विष्णुरिति वाक्यस्य च परस्परवैलक्षण्यानु- पपत्तिः । उभयत्रापि पुरुषाभिन्नोत्तमत्वावच्छेदेन विष्णुतादात्म्यस्य बोधेन विषयवैल- क्षण्याभावादिति वाच्यम् । पुरुषोत्तमो विष्णुरित्यत्र पुरुषोत्तमपदार्थयोरभेदः संसर्गमर्या- दया भासते पुरुषाणामुत्तमो विष्णुरित्यत्र प्रकारतयेति विषयतावैलक्षण्येन, पुरुषपदा- थेऽभेदसंबन्धस्य प्रतियोगित्वस्योत्तमपदार्थेऽनुयोगित्वस्य भानेन विषयवैलक्षण्येन च वैलक्षण्योपपत्तेरिति । नच पुरुषाणां विष्णुरुत्तम इत्यत्र विष्णुपदार्थस्योद्देश्यत्वमुत्तमप- २८ त्रिंशच्छ्लोकी दार्थस्य विधेयत्वञ्चानुभवसिद्धमिति वाच्यम् । तादृशानुभवस्य निमूलत्वादिति चेन्न । एवं सति प्रमेयानामभिधेयं द्रव्यमिति वाक्यस्य प्रामाण्यापत्तेः । अथ तद्वारणाय पुरुषाभिन्नो- तमत्वावच्छिन्नविष्णुत्वावच्छिन्नयोः प्रमेयाभिन्नद्रव्यत्वावच्छिन्नाभिधेयत्वावच्छिन्नयोश्च मिथः उद्देश्यविधेयभावः स्वीक्रियताम् । तेन च परस्परोद्देश्यविधेयभावमहिम्ना परस्परव्याप्यव्या- पकभावो लभ्यते । तथाच प्रमेयाभिन्नद्रव्यत्वव्यापकत्वस्याभिधेयत्वे सत्त्वेऽप्यभिधेयत्व- व्यापकत्वस्य प्रमेयाभिन्नद्रव्यत्वेऽसत्त्वात् न प्रमेयानामभिधेयं द्रव्यमिति वाक्यस्य प्रामा- ण्यापत्तिरिति चेत् । एवं सत्यपि पदार्थानामभिधेयं प्रमेयमिति वाक्यस्य प्रामाण्यापत्तेदुर्वार- त्वात् । पदार्थाभिन्नप्रमेयत्वव्यापकत्वस्याभिधेयत्वे अभिधेयत्वव्यापकत्वस्य पदार्थाभिन्न- प्रमेयत्वे च सत्त्वात् । ममत्वप्रामाण्यं स्फुटमेव । अथ प्रकृते व्यापकत्वं न समानाधि- करणाभावप्रतियोगितानवच्छेदकधर्मावच्छिन्नत्वरूपम् । किंत्वभाववदवृत्तितत्कत्वमेव । एवञ्चाभिधेयत्वाभावस्य पदार्थाभिन्नप्रमेयत्वाभावस्य चाप्रसिद्धत्वान्न तादृशवाक्यस्य प्रामा- ण्यापत्तिरिति चेत् ; एवमपि द्रव्याणां गुणाधिकरणं समवायिकारणमिति वाक्यस्य प्रामाण्यापत्तिः । द्रव्याभिन्नसमवायिकारणत्वाभाववदवृत्तित्वस्य गुणाधिकरणत्वे, गुणाधिकरण- त्वाभाववदवृतित्वस्य द्रव्याभिन्नसमवायिकारणत्वे च सत्त्वेन तादृशार्थबाधाभावात् । यनु लघुधर्मसमनियतगुरुधर्मस्याभावप्रतियोगितावच्छेदकत्वानङ्गीकारमते निर्धारण- विभक्तेः भेदार्थकत्वस्वीकारप्रयासो न कर्तव्यः । किन्तु परस्परोद्देश्यविधेयभावलभ्यव्या- प्यव्यापकभावः । व्यापकत्वं च स्वाभाववदवृत्तितत्कत्वम् । तत्समानाधिकरणाभाव- प्रतियोगितावच्छेदकत्वावच्छिन्नभेदवद्धर्मकत्वं वा। उभयथापि न क्षतिः। तथाहि स्वाभाववदवृत्तितत्कत्वं स्वनिष्ठान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकाभाववदवृत्तितत्कत्वम् । अन्यथा अतिप्रसंगात् । एवञ्च प्रमेयानामभिधेयं द्रव्यमिति वाक्यस्य न प्रामाण्यापत्तिः । न वा द्रव्याणां गुणाधिकरणं समवायिकारणमिति वाक्यस्य। तस्य द्रव्याभिन्नत्वविशिष्टसम- वायिकारणत्वत्वस्य समनियतशुद्धसमवायिकारणत्वत्वापेक्षया गुरुत्वेनाभावप्रतियोगितानवच्छे- दकतयान्वयितावच्छेदकीभूततादृशगुरुधर्मावच्छिन्नस्वनिष्ठप्रतियोगिताकाभाववदवृत्तिगुणाधि- करणत्वकत्वरूपगुणाधिकरणत्वव्यापकत्वाप्रसिद्ध्या तद्बोधकत्वासंभवात् । नन्वेवमपि त्रिंशच्छ्लोकी २९ पुरुषाणां विष्णुरुत्तम इति वाक्यस्य प्रामाण्यानुपपत्तिः । पुरुषाभिन्नोत्तमत्वत्वस्य समनि- यतशुद्धोत्तमत्वत्वापेक्षया गुरुत्वेनाभावप्रतियोगितानवच्छेदकतया तदवच्छिन्नप्रतियोगिता- निरूपकाभाववदवृत्तिविष्णुत्वकत्वरूपविष्णुत्वव्यापकत्वाप्रसिद्ध्या तद्बोधकत्वासंभवादिति यत उत्तमत्वत्वं उत्कर्षत्वम् , तथाच पुरुषाभिन्नोत्तमत्वत्वं सामानाधिकरण्य- घटितसामानाधिकरण्यसंबन्धेन पुरुषाभिन्नत्वविशिष्टोत्कर्षत्वम् । तत्समनियतत्वं न शुद्धो- त्कर्षत्वस्य तस्य सिंहादिनिष्ठमृगोत्कर्षेऽपि सत्त्वात् तत्र निरुक्तविशिष्टोत्कर्षत्वस्यासत्त्वादिति । चेन्न । तन्न । एवमपि पदार्थानां गुणाधिकरणं समवायिकारणमित्यादिवाक्यानां प्रामा- ण्यानुपपत्तेर्वज्रलेपायितत्वात् । तस्मानिर्धारणविभक्तेः भेदार्थकत्वं स्वीकृत्य प्रातिलोम्या- दिप्रयासोऽवश्यादर्तव्यः । भेदार्थकत्वमात्रस्वीकारे घटानां विष्णुरुत्तम इति वाक्यस्य प्रामाण्यापत्तिः विष्ण्वन्यघटान्योत्तमाभेदस्य विष्णौ सत्त्वात् । अतोऽभेदार्थकत्वस्वीकारः । अथ लघुसमनियतगुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्व निर्धारणविभक्तेरभेदार्थकत्वस्वी- कारमन्तरेणापि घटानां विष्णुरुत्तम इति वाक्यस्य प्रामाण्यं शक्यते वारयितुम् , उद्देश्या- न्वितभेदविशेष्यतापन्नस्य प्रकृत्यर्थस्यान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धनैव भेदान्वयस्वीकारेण विष्ण्वन्यत्वविशिष्टघटत्वस्य समनियतघटत्वापेक्षया गुरुत्वेनाभावप्रतियो- गितानवच्छेदकतया तदवच्छिन्नप्रतियोगिताकभेदाप्रसिद्ध्या तद्बोधकत्वासंभवादिति चेन्न । लघुधर्मसमनियतगुरुधर्मस्याभावप्रतियोगितावच्छेदकत्वमनङ्गीकृत्यान्वयितावच्छेदकावच्छि - नप्रतियोगिकत्वसंबन्धेन प्रकृत्यर्थम्य भेदेऽन्वयस्वीकारे समवायिकारणानां पृथिवी गन्धवतीति वाक्यस्य प्रामाण्यानुपपत्तिः । पृथिव्यन्यत्वविशिष्टसमवायिकारणत्वावच्छिन्न- प्रतियोगिताकभेदवगन्धावच्छिन्नाभिन्ना पृथिवीत्यन्वयबोधो वक्तव्यः । सच न संभवति । पृथिव्यन्यत्वविशिष्टसमवायिकारणत्वस्य स्वसमनियतपृथिव्यन्यत्वविशिष्टद्रव्यत्वापेक्षया गुरु. त्वेनाभावप्रतियोगितानवच्छेदकतया तदवच्छिन्नप्रतियोगिताकभेदस्याप्यप्रसिद्धत्वेन तद्वो- धकत्वासंभवात् । अतो न प्रकृत्यर्थस्यान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वसंबन्धन विभक्त्यर्थभेदेऽन्वयः स्वीकर्तव्यः । किन्तु अन्वयितावच्छेदकसमव्यापकरूपावच्छिन्नप्रति. योगिताकत्वसंबन्धेनैव । एवं च समवायिकारणानां पृथिवी गन्धवतीत्यत्र पृथिव्यन्यत्वविशि- ३० त्रिंशच्छ्लोकी ष्टसमवायिकारणत्वस्याभावप्रतियोगितानवच्छेदकत्वेऽपि तत्समव्यापकस्य पृथिव्यन्यत्ववि- शिष्टद्रव्यत्वस्यावच्छेदकतया तदवच्छिन्नप्रतियोगिताकभेदगादाय तादृशवाक्यस्य प्रामाण्य- मिति वाच्यम् । एवं च घटानां विष्णुरुत्तम इत्यत्रापि विष्ण्वन्यत्वविशिष्टघटत्वस्या- भावप्रतियोगितानवच्छेदकत्वेऽपि तत्समव्यापकस्य शुद्धघटत्वस्यावच्छेदकतया तदवच्छिन्न- प्रतियोगिताकभेदमादाय तादृशवाक्यस्य प्रामाण्यापत्तेदुर्वारत्वात् विभक्तेरभेदार्थकत्वमाव- श्यकमिति । एवंच निर्धारणविभक्तेरभेदो भेदश्चार्थ इति सिद्धे यत्र पुरुषाणां मध्ये विष्णुरुत्तम इति प्रयुज्यते तत्र मध्येशब्दस्यैवाभेदो भेदश्चार्थः । अन्वयस्तु पूर्ववदिति। श्लोकार्थस्तूक्तः । अत्र केचित् । मध्येशब्दः षष्ठयादेः निर्धारणार्थत्वस्फुटीकरणार्थ एवे- त्यपिप्राहुः इत्यास्तां विस्तरः ॥ २१ ॥ मू० अवधित्वमपेक्ष्यार्थस्तद्धीविषयताऽपि वा। भेदश्च वर्जयित्वादेर्व्यवर्थश्चाविवक्षितः ॥ २२ ॥ गौरवमिति । । उदाहरणश्च प्रथमस्य कुलालत्वमपेक्ष्य कुलालपितृत्वस्य कारणतावच्छेदकत्वे अत्र कारणत्वावच्छेदकत्वपदं कारणतावच्छेदकत्वप्रकारकज्ञान- परम् । विरोधिज्ञानविषयत्वं सप्तम्यर्थः । अन्वयश्चास्य गौरवे। तथाच कुलालपि- तृत्वनिष्ठं कुलालत्वमपेक्ष्य गौरवं कुलालपितृत्वविशेष्यककारणतावच्छेदकत्वप्रकारकग्रह- विरोधिग्रहविषयीभूतमित्यन्वयबोधः । अथवा कारणतावच्छेदकत्व इत्यनन्तरं संभाव्यमाने सतीति पूरणीयम् । सतिसप्तम्याः प्रयोज्यत्वमर्थः । संभाव्यमानाभिन्नकारणतावच्छेद- कत्वप्रयोज्यत्वं कारणतावच्छेदकत्वसंभावनाप्रयोज्यत्व एव पर्यवस्यति । वच्छेदकत्वपदं कारणतावच्छेदकत्वसंभावनापरम् । प्रयोज्यत्वं सप्तम्यर्थः । गौरवमित्यनन्तरं संभाव्यत इति पूरणीयम् । तत्र संभावनायां कारणतावच्छेदकत्वसभावनाप्रयोज्यत्वमन्वेति । तथाच कुलालपितृत्वनिष्ठं कुलालत्वमपेक्ष्य गौरवं कारणतावच्छेदकत्वसंभावनाप्रयोज्यसभा- वनाविषयीभूतमित्यन्वयबोधः । युज्यते चैतत् । कुलालपितृत्वस्य प्रथमतः कारणता- वच्छेदकत्वमसंभाव्य गौरवं न केन चिदुद्भावयितुं शक्यमिति । अत्र कुलालपितृत्वमपेक्ष्ये- त्यत्रापपूर्वकेक्षधात्वर्थः अवधित्वं अवधिमत्त्वम् अवधितानिरूपकत्वं । अवधित्वचेदम- यद्वा कारणता- त्रिंशच्छ्लोको ३१ स्माद्गुर्विति प्रतीतिसाक्षिकस्वरूपसंबन्धविशेषः । अथवा अवधित्वं निरूपितत्वम् । तथाच कुलालत्वमपेक्ष्य कुलालपितृत्वस्य गौरवमित्यस्य कुलालत्वनिरूपितकुलालपितृत्वनिष्ठगौरव- मित्यर्थः । प्रकृते गौरवमवच्छेदकगौरवम् । तच्चाधिकपदार्थघटितत्वम् । कुलालत्वघटकपदा- थपर्याप्तसंख्याधिकसंख्यापर्याप्त्यधिकरणपदार्थघटितत्वमिति यावत् । अत्र कुलालत्वनिरू- पितत्वमव्याहतमेव । नच कुलालत्वघटकपदार्थाप्रसिद्धिः तस्याखण्डपदार्थरूपत्वा- दिति वाच्यम् । स्वस्यैव स्वघटकत्वोपगमात् । तत्पर्याप्तसंख्या एकत्वसंख्येति नानुप- पत्तिः । नचैव रीत्या गौरवनिरुक्तौ कुलालत्वस्य कारणतावच्छेदकत्वमपेक्ष्य कुलाल- पितृत्वस्य कारणतावच्छेदकत्वे गौरवमित्यत्रानुपपत्तिः। तत्र निरुक्तरीत्या शाब्दबोधाङ्गी- कारासंभवादिति वाच्यम् । तत्र गौरवपदस्य स्वाश्रयघटकपदार्थपर्याप्तसंख्याधिकसंख्या- पर्याप्त्यधिकरणपदार्थघटितधर्मवृत्तित्वरूपत्वात् । तथाच कुलालत्वनिष्ठकारणतावच्छेद- कत्वाश्रयधर्मघटकपदार्थपर्याप्तसंख्याधिकसंख्यापर्याप्त्यधिकरणपदार्थघटितधर्मवृत्तित्वं कुलाल- पितृत्वनिष्ठकारणतावच्छेदकत्वनिष्ठमित्यन्वयः । संख्यायाः न्यूनत्वाधिकत्वे चानुपदमेव अत्र कारणतावच्छेदकत्वस्य कुलालपितृत्वनिष्ठत्वांशेऽप्रामाण्यमिष्टमेव उक्तवाक्यस्याभिनिवेशप्रयुक्तत्वादित्यवसेयम् । एवं कुलालत्वमपेक्ष्य कुलालपितृत्वस्य कारणतावच्छेदकत्वं गुर्वित्यत्र कुलालत्वपदं कुलालत्वनिष्ठकारणतावच्छेदकत्वपरम् । तेन कुलालत्वनिष्ठकारणतावच्छेदकत्वाश्रयधर्मघटकपदार्थपर्याप्तसंख्याधिकसंख्यापर्याप्त्यधिकरणप- दार्थघटितधर्मवृत्तित्वाश्रेयीभूतं कुलालपितृत्वनिष्ठकारणतावच्छेदकत्वमित्यन्वयबोधः । धर्मि- तावच्छेदकत्वांशे भ्रमत्वानङ्गीकारे तु कुलालपितृत्वस्येत्यत्र पष्ठयों न वृत्तित्वं किन्तु वृत्तित्वेन संभाव्यमानत्वम् । अस्य वाक्यस्य प्रामाण्यग्रहे तु गुरुपदमपि यथोक्तगुरुत्वेन संभा- व्यमानपरं द्रष्टव्यम् । कुलालपितृत्वमपेक्ष्य कुलालत्वस्य कारणतावच्छेदकत्वे लाघव- मित्यत्र तु कुलालत्वनिष्ठं कुलालपितृत्वघटकपदार्थपर्याप्तसंख्यान्यूनसंख्यापर्याप्त्यधिकरण. पदार्थघटितत्वं कुलालत्वविशेष्यककारणतावच्छेदकत्वप्रकारकसंभावनाप्रयोज्यसंभावनाविष- यीभूतमित्यन्वयबोधः । कुलालपितृत्वस्य कारणतावच्छेदकत्वमपेक्ष्य कुलालत्वस्य कारण- तावच्छेदकत्वे लाघवमित्यत्र तु कुलालपितृत्वनिष्ठकारणतावच्छेदकत्वाश्रयधर्मघटकपदार्थ- पर्याप्तसंख्यान्यूनसंख्यापर्याप्त्यधिकरणपदार्थघटितधर्मवृत्तित्वम् कुलालत्वनिष्ठकारणतावच्छे- निर्वक्ष्येते ।

३२ त्रिंशच्छ्लोकी दकत्वनिष्ठमित्यन्वयबोधः। यत्रतु अपेक्षयेत्येव श्रूयते तत्रापेक्षाशब्दार्थो निरूपितत्वम् । तृतीयाओं वैशिष्टयम् । अन्वयश्च पूर्ववदित्यवसेयम् । एवं दण्डमपेक्ष्य दण्डरूपस्य कारणत्वे गौरवमित्यत्र दण्डनिष्ठकारणतावच्छेदकसंबन्धघटकपदार्थपर्याप्तसंख्याधिकसंख्या- पर्याप्त्यधिकरणपदार्थघटितसंबन्धावच्छिन्नत्वं दण्डरूपनिष्ठकारणत्वनिष्ठमित्यन्वयबोध इत्यादिकं स्वयमूहनीयम् । वर्जयित्वेत्यत्र तु भेदो धात्वर्थः । आदिपदात् विहाये- त्यादेः परिग्रहः ।यथा नित्यद्रव्याणि विहाय वृत्तिमत्त्वं साधर्म्यमिति । अत्र पदार्थानामित्य- ध्याहार्यम् । नित्यद्रव्याणीत्यत्र प्रतियोगितानिरूपकत्वं द्वितीयार्थः । विपूर्वकधात्वर्थो भेदः । ल्यबर्थश्वाविवक्षितः । अन्वयश्चास्य पदार्थे । तथाच नित्यद्रव्यप्रतियोगिकान्योन्या- भाववत्पदार्थनिरूपितसाधर्म्यत्ववत् वृत्तित्वमित्यन्वयबोधः ॥ २२ ॥ मू० न्यूनाधिकत्वे संख्यामा व्याप्यव्यापकते न हि । सामानाधिकरण्यादेविरहेऽप्यवगाहनात् ।। २३ ॥ अत्र द्रव्याण्यपेक्ष्य पार्थिवानि न्यूनसंख्याकानीत्यत्र शाब्दबोधो विचार्यते । द्रव्यपदं द्रव्यत्वावच्छिन्नपर्याप्तसंख्यापरम् । निरूपितत्वमपेक्ष्यार्थः । तम्य न्यूनत्वेऽन्वयः । एवं पार्थिवाण्यपेक्ष्य द्रव्याण्यधिकसंख्याकानीत्यत्र पार्थिवपदं पार्थिवत्वावच्छिन्नपर्याप्तसंख्यापरम् । निरूपितत्वमपेक्ष्यार्थः । तस्याधिकत्वेऽन्वयः । तथा च द्रव्यत्वावच्छिन्नपर्याप्तसंख्यान्यूनसंख्या- पर्याप्त्यधिकरणानि पार्थिवानि, पार्थिवत्वावच्छिन्नपर्याप्तसंख्याधिकसंख्यापर्याप्त्यधिकर- णानि द्रव्याणीति च बोधो जायते । तत्र पार्थिवत्वावच्छिन्नपर्याप्तसंख्यायां द्रव्यत्वाव- च्छिन्नपर्याप्तसंख्यान्यूनत्वम् द्रव्यत्वावच्छिन्नपर्याप्तसंख्यायां पार्थिवत्वावच्छिन्नपर्याप्तसंख्या- धिकत्वं च किमिति संदेहः । अत्र न्यूनत्वं व्याप्यत्वम् । तच्च तत्समानाधिकरणभेदप्रति- योगितावच्छेदकत्वे सति तत्समानाधिकरणत्वम् । द्रव्यत्वावच्छिन्नपर्याप्तसंख्याधिकरणे जलादौ पार्थिवत्वावच्छिन्नपर्याप्तसंख्यावद्भेदस्य पृथिव्यां तत्समानाधिकरणत्वस्य च सत्त्वा- न्नानुपपत्तिः । नच द्रव्याण्यपेक्ष्य समवायिकारणानि न्यूनसंख्याकानीति वाक्यस्य प्रामाण्यापत्तिः संख्याया व्यासज्यवृत्तित्वेन द्रव्यत्वावच्छिन्नपर्याप्तसंख्याधिकरणे पृथि- त्रिंशच्छूलोकी ३३ तच्च तादृशञ्च व्यादौ प्रत्येकं समवायिकारणत्वावच्छिन्नपर्याप्तसंख्यावद्भेदस्य सत्त्वादिति वाच्यम् । समवायसंबन्धावच्छिन्नप्रतियोगिताकभेदस्यैव विवक्षितत्वात् । द्रव्यत्वावच्छिन्नपर्याप्त सं- ख्याधिकरणे समवायिकारणत्वावच्छिन्नपर्याप्तसंख्यानिष्ठसमवायसंबन्धावच्छिन्नप्रतियोगिता- वच्छेदकताकभेदस्यासत्त्वेनानुपपत्त्यभावात् । एवमधिकत्वं व्यापकत्वम् । तत्समानाधिकरणान्योन्याभावप्रतियोगितानिरूपितसमवायसंवन्धावच्छिन्नावच्छेदकताशून्यत्वे सति तन्निष्ठसमवायसंबन्धावच्छिन्नप्रतियोगितावच्छेदकताकभेदसमानाधिकरणत्वम् । पार्थिवत्वावच्छिन्नपर्याप्तसंख्याव्यापकत्वं द्रव्यत्वावच्छिन्नपर्याप्तसंख्याया- मव्याहतमेवेति केषां चिन्मतम् । तदनेन दृष्यते । यद्येवं न्यूनत्वाधिकत्वे संख्यायां स्यातां तदा यत्र भूतले दश घटाः सन्ति पटाश्च पट तत्रैतान्घटानपेक्ष्यैते पटा न्यूनसंख्याका इति सर्वै व्यवहियते । स च व्यवहारो नोपपद्यते । तावद्धटत्वावच्छिन्न- पर्याप्तसंख्यायाः तावत्पटत्वावच्छिन्नपर्याप्तसंख्यायाश्च परस्परसामानाधिकरण्याभावात् । एवमेतान् पटानपेक्ष्यैते घटा अधिकसंख्याका इति सर्वैर्व्यवह्वियते। सोऽपि न स्यात् । तावद्धटत्वावच्छिन्नपर्याप्तसंख्यायास्तावत्पटत्वावच्छिन्नपर्याप्तसंख्याधिकरणपटवृत्तिभेदप्रतियो- गितानिरूपितसमवायसंबन्धावच्छिन्नावच्छेदकतावत्त्वेन तच्छून्यत्वाभावादित्यर्थः । ननु किमिदमारोप्य शिरश्छेद्यते । यतो न्यूनत्वशरीरे सामानाधिकरण्यं अधिकत्वशरीरे च समानाधिकरणभेदप्रतियोगितानवच्छेदकत्वं च निवेश्य वयं दृष्यामहे । यद्येवं विशेषणं नोपाददामः तदा कस्य कक्षमवलम्बस इति चेत् । तर्हि यत्र दश घटाः सन्ति पटाश्च दश तत्र तावद्धटत्वावच्छिन्नपर्याप्तसंख्यायां तावत्पटत्वावच्छिन्नपर्याप्तसंख्यायाञ्च परस्परन्यू- नाधिकभावव्यवहारः स्यात् । परस्परसमानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकत्वात् परस्परावच्छिन्नप्रतियोगिताकान्योन्याभावसमानाधिकरणत्वाच्च । अतः सामानाधिकरण्या- दिनिवेशेनैव बोधो वक्तव्य इति । (२३) । मू० न न्यूनाधिकसंख्यत्वे यत आत्माश्रयो भवेत् । तत्रान्यथा निरुच्येते किमत्रैवापराद्भयते ॥ २४ ॥ अत्र केचित् द्रव्याण्यपेक्ष्य पार्थिवानि न्यूनसंख्याकानीत्यत्र द्रव्यत्वावच्छिन्नसमवेत- ३४ त्रिंशच्छ्लोकी संख्यान्यूनसंख्याकसंख्यावन्ति पार्थिवानीति बोधः । द्रव्यत्वावच्छिन्नेषु प्रत्येकं समवेता यावत्य एकत्वादिसंख्याः तावन्न्यूनसंख्याकत्वस्य पार्थिवत्वावच्छिन्नसमवेतसंख्यासु विद्य- मानत्वान्नानुपपत्तिः । एवं पार्थिवत्वावच्छिन्नसमवेतसंख्याधिकसंख्याकसंख्यावन्ति द्रव्याणी- त्येव पार्थिवान्यपेक्ष्य द्रव्याण्यधिकसंख्याकानीत्यत्र बोध इति न कदाचिदनुपपत्तिरिति वदन्ति । तन्मतमनेन दूष्यते। पार्थिवत्वावच्छिन्नसमवेतसंख्यानिष्ठसंख्यायाः द्रव्यत्वाव- च्छिन्नसमवेतसंख्यानिष्ठसंख्यान्यूनत्वस्यापि तन्न्यूनसंख्याकत्वरूपस्य, द्रव्यत्वावच्छिन्नसम- वेतसंख्यानिष्ठसंख्यायां पार्थिवत्वावच्छिन्नसमवेतसंख्याधिकत्वस्य च तदधिकसंख्याकत्व- रूपस्यैव निर्वाच्यतया आत्माश्रयप्रसङ्गात् । अनवस्थापत्तेश्च । यदिच तत्र न्यूनत्वाधि. कत्वे अन्यथा निरुच्येते तर्हि प्रकृत एव तथा निरुच्येतां । किं तावत्पयन्तीक्रमणेने- त्यर्थः ॥ २४ ॥ मू० व्याप्यव्यापकते याभ्यां निरूप्येते विशेषतः । तद्रूपवत्त्वरूपे तु ते स्यातामिति मन्महे ॥ २५ ॥ तद्रूपावच्छिन्नपर्याप्तसंख्यानिष्ठसंख्यात्वव्याप्यधर्मावच्छिन्नपर्याप्तिसंबन्धावच्छिन्नव्या- पकतानिरूपितपर्याप्तिसंबन्धावच्छिन्नव्याप्यत्वम् । तद्रूपावच्छिन्नपर्याप्तसंख्यानिष्ठसंख्या- त्वव्याप्यधर्मावच्छिन्नव्याप्यतानिरूपितपर्याप्तिसंबन्धावच्छिन्नव्यापकत्वं च । विशेषतः संख्या- त्वव्याप्यव्यापकरूपाभ्यां याभ्यां धर्माभ्यां निरूप्येते अवच्छियेते । तद्रूपवत्वरूपे तादृश- व्याप्यतावच्छेदकव्यापकतावच्छेदकधर्मवत्त्वरूपे ते संख्यानिष्ठन्यूनत्वाधिकत्वे स्यातामित्यक्ष- रार्थः । द्रव्याण्यपेक्ष्य पार्थिवानि न्यूनसंख्याकानीत्यत्र द्रव्यत्वावच्छिन्नपर्याप्तसंख्यानिष्ठसंख्या- त्वव्याप्यधर्मावच्छिन्नपर्याप्तिसंबन्धावच्छिन्नव्यापकतानिरूपितपर्याप्तिसम्बन्धावच्छिन्नव्याप्य तावच्छेदकसंख्यात्वव्याप्यधर्मावच्छिन्नसंख्यापर्याप्त्यधिकरणानि पार्थिवानीत्यन्वयबोधः । पा- थिवान्यपेक्ष्य द्रव्याण्यधिकसंख्याकानीत्यत्र तु पार्थिवत्वावच्छिन्नपर्याप्तसंख्यानिष्ठसंख्यात्वव्या- प्यधर्मावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्नव्याप्यतानिरूपितपर्याप्तिसम्बन्धावच्छिन्नव्यापकताव - च्छेदकसंख्यात्वव्याप्यधर्मावच्छिन्नसंख्यापर्याप्त्यधिकरणानि द्रव्याणीत्यन्वयबोधः । एवं च यत्र भूतले दश घटाः सन्ति पटाश्च षट् तत्रैतान् घटानपेक्ष्य एते पटा न्यूनसंख्याकाः, एतान् पटा- त्रिंशच्छ्लोकी ३५ नपेक्ष्य एते घटा अधिकसंख्याका इति व्यवहारश्चोपपद्यते । एवं तद्धर्मावच्छिन्नपर्याप्तसं- ख्यानिष्ठसंख्यात्वव्याप्यधर्मावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्नव्यापकतानिरूपितपर्याप्तिसंबन्धाव- च्छिन्नव्याप्यतावच्छेदकत्वं नाम, तद्धर्मावच्छिन्नपर्याप्तसंख्यापर्याप्त्यवच्छेदकधर्मसमानाधिक- रणान्योन्याभावप्रतियोगितावच्छेदको यो धर्मः तदवच्छिन्नपर्याप्तसंख्यापर्याप्त्यवच्छेदकधर्मा- धिकरणमात्रवृत्तिः, तदवच्छिन्नपर्याप्तिनिरूपकतावच्छेदकत्वम् । तावद्धटत्वावच्छिन्नपर्याप्ता या दशत्वसंख्या तत्पर्याप्त्यवच्छेदकीभूतो यस्तावद्घटान्यतमत्वरूपो धर्मः तत्समानाधिकरणा- न्योन्याभावप्रतियोगितावच्छेदकः तादृशधर्माधिकरणमात्रवृत्तिश्च षड्घटान्यत्वरूपो धर्मः, तद वच्छिन्नपर्याप्तिनिरूपकतावच्छेदकः षट्त्वरूपसंख्यात्वव्याप्यधर्मः तदवच्छिन्नसंख्यापर्याप्त्य- धिकरणत्वं षण्णां घटानामस्तीति नैतान् घटानपेक्ष्य एते पटा न्यूनसंख्याका इति प्रयोगानुप- पत्तिः । एवं तद्धर्मावच्छिन्नपर्याप्तसंख्यानिष्ठसंख्यात्वव्याप्यधर्मावच्छिन्नपर्याप्तिसंबन्धावच्छि- नव्याप्यतानिरूपितपर्याप्तिसंबन्धावच्छिन्नव्यापकतावच्छेदकत्वं नाम, तद्धर्मावच्छिन्नपर्याप्त- संख्यापर्याप्त्यवच्छेदकधर्मावच्छिन्नप्रतियोगिताकान्योन्याभावसमानाधिकरणो यः, तद्धर्माव- च्छिन्नपर्याप्तसंख्यापर्याप्त्यवच्छेदकधर्मसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकस्त - दवच्छिन्नपर्याप्तिनिरूपकतावच्छेदकत्वम् । षट्पटनिष्ठा या षट्त्वसंख्या तत्पर्याप्त्यवच्छेदकी- भूतो यः षट्पटान्यतमत्वरूपो धर्मः तदवच्छिन्नप्रतियोगिताकान्योन्याभावसमानाधिकरण- तद्धर्मसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकश्च तावत्पटेतरचतुर्व्यक्तितदन्यतमत्व- रूपो धर्मः, तदवच्छिन्नपर्याप्तिनिरूपकतावच्छेदकीभूतो यो दशत्वरूपसंख्यात्वव्याप्यधर्मः तदवच्छिन्नसंख्यापर्याप्त्यधिकरणत्वस्य दशघटेषु विद्यमानत्वान्नैतान् पटानपेक्ष्यैते घटा अधिकसंख्याका इति प्रयोगानुपपत्तिरिति सर्व समञ्जसम् । अथैतच्छाखात्रयारोहो निरर्थकः । सर्वत्र न्यूनत्वमपकर्षः, अधिकत्वमुत्कर्षः षट्पटनिष्ठबहुत्वसंख्यापेक्षया दशघटनि- ठबहुत्वसंख्यायामुत्कर्षस्य, दशघटनिष्ठबहुत्वसंख्यापेक्षया पट्पटनिष्ठबहुत्वसंख्यायामपकर्षस्य च सकलानुभवसिद्धत्वात् । नच त्रयाद्यपेक्षया एकस्य द्वयोश्च न्यूनसंख्याकत्वं न स्यादिति वाच्यम् । एकत्वे द्वित्वसंख्यायां च बहुत्वत्वशून्यत्वस्यैव न्यूनत्वरूपत्वात् । नचैवं याद्यपेक्षयैकस्मिन् न्यूनसंख्याकत्वं न स्यादितिवाच्यम् । तत्रैकत्वसंख्यायामने- कत्वत्वशून्यत्वस्यैव न्यूनत्वरूपत्वादिति चेन्न । अननुगमापत्तेः । किञ्च इदमस्माद्बहुतर- ३६ त्रिंशच्छ्लोकी मित्यादिप्रतीतौ निरुक्ताधिकसंख्याकत्वस्यैव विषयत्वसंभवेन संख्यायामुत्कर्षापकर्षाख्य- जातिसद्भावे मानाभावः। बाधकश्च तादृगुत्कर्षापर्ययोः सांकर्यप्रसंगः । तथाहि । चतुर्नि- ठसंख्यावधिकोत्कर्ष विहाय पण्णिष्ठसंख्यावधिकापकर्षः त्रिनिष्ठसंख्यायां, पण्णिष्ठसंख्याव- धिकापकर्ष विहाय चतुर्निष्ठसंख्यावधिकोत्कर्षः सप्तनिष्ठसंख्यायां, उभयोश्च पञ्चनिष्ठसंख्या- यां समावेश इति । अपिचैतादृशोत्कर्षापकर्षाभ्यां द्रव्यनिष्ठसंख्यासु न्यूनाधिकभावनि- र्वाहसंभवेऽपि गुणादिनिष्ठसंख्यासु न्यूनाधिकभावस्य निर्वाहयितुमशक्यत्वात् अयमारंभः सार्थकएव ॥ २५॥ मू० समव्याप्यव्यापकते निरूप्येते यतस्तदा । तद्वत्त्वरूपे ते स्यातामर्धत्वेन विशेषिते ॥ २६ ।। यत्र दश घटाः सन्ति पटाः पञ्च तत्रैतान् घटानपेक्ष्यैते पटा अर्धन्यूनसंख्याकाः, एतान् पटानपेक्ष्यते घटा अर्धाधिकसंख्याका इति व्यवहियते । तत्र किमिदमर्धत्व- विशिष्टन्यूनत्वार्धत्वविशिष्टाधिकत्वं वेति प्राप्ते अभिधीयते। समव्याप्यव्यामकत्वे यतः संख्यात्वव्याप्ययादृशरूपाभ्यां निरूप्येते अवच्छिद्यते । तद्वत्त्वरूप तादृशव्याप्यत्व- यापकत्वावच्छेदकधर्मवत्त्वरूपे अर्धत्वेन विशेषिते अर्धन्यूनत्वाधिकत्वे स्यातामित्यक्षरार्थः । अयमर्थः । तद्धर्मावच्छिन्नपर्याप्तसंख्यार्धन्यूनत्वन्नाम तद्धर्मावच्छिन्नपर्याप्तसंख्यासमव्या- प्यतावच्छेदकधर्मवत्त्वम् । तच्च तद्धर्मावच्छिन्नपर्याप्तसंख्यापर्याप्त्यवच्छेदकधर्मसमानाधि- करणो यो धर्मः स्वावच्छिन्नपर्याप्तिनिरूपकतावच्छेदकत्वस्वाधिकरणधर्मावच्छिन्नपर्याप्त- संख्यापर्याप्त्यवच्छेदकधर्माधिकरणमात्रवृत्तिधर्मावच्छिन्नपर्याप्तिनिरूपकतावच्छेदकत्वोभयसं- बन्धेन तद्विशिष्टसंख्यात्वव्याप्यधर्मवत्त्वम् । दशघटपर्याप्तदशत्वसंख्यापर्याप्त्यवच्छेदकद- शघटान्यतमत्वसमानाधिकरणो यः पञ्चघटान्यतमत्वरूपो धर्मः तदवच्छिन्नपर्याप्तिनिरूप- कतावच्छेदकत्वस्य पञ्चत्वत्वे सत्त्वात्तादृशोभयसंबन्धेन तावद्धटान्यतमत्वावच्छिन्नपर्याप्तसं- ख्यापर्याप्त्यवच्छेदकधर्मसमानाधिकरणधर्मविशिष्टो यः पञ्चत्वत्वरूपो संख्यात्वव्याप्यधर्मः, तदवच्छिन्नसंख्यापर्याप्त्यधिकरणत्वस्य पञ्चघटेषु सत्त्वान्नानुपपत्तिः । एवं तद्धर्मावच्छि- नपर्याप्तसंख्यार्धाधिकत्वन्नाम तद्धर्मावच्छिन्नपर्याप्तसंख्यासमव्यापकतावच्छेदकसंख्यात्व- त्रिंशच्छ्लोकी ३७ व्याप्यधर्मवत्त्वम् । तच्च स्वाधिकरणस्वभिन्नस्वावच्छिन्नपर्याप्तिनिरूपकतावच्छेदकतद्धर्माव- च्छिन्नपर्याप्तसंख्यानिष्ठसंख्यात्वव्याप्यधर्मावच्छिन्ननिरूपितपर्याप्त्यवच्छेदकयत्किंचिद्धर्माधि करणैतदुभयमात्रवृत्तित्वसंबन्धेन यत्किंचिद्धमविशिष्टधर्मावच्छिन्नपर्याप्तिनिरूपकतावच्छेदकस- ख्यात्वव्याप्यधर्मवत्त्वम् । स्वं पञ्चघटान्यतमत्वम् । तदवच्छिन्नपर्याप्तिनिरूपकतावच्छे- दकत्वम् पञ्चनिष्ठपञ्चत्वसंख्यावृत्तिपञ्चत्वत्वस्यास्ति । पञ्चत्वत्वस्य सर्वत्रैकत्वात् । तदवच्छिन्ननिरूपितपर्याप्त्यवच्छेदकधर्मः प्रागुक्तपञ्चघटव्यतिरिक्तपञ्चघटमात्रनिष्ठतावद- न्यतमत्वमपि । एवं च स्वाधिकरणे स्वभिन्नतादृशधर्माधिकरणेचैतदुभयमात्रे वृत्तित्वम् दशघटान्यतमत्वस्येति निरुक्तसंबन्धेन यत्किंचिद्धर्मविशिष्टधर्मो दशघटान्यतम- त्वम् । तदवच्छिन्नपर्याप्तिनिरूपकतावच्छेदकीभूतो यो दशवरूपसंख्यात्वव्याप्यधर्मस्त- दवच्छिन्नसंख्यापर्याप्त्यधिकरणत्वस्य दशघटेषु विद्यमानत्वान्नानुपपत्तिरित्यादिकं सुदूरतर- मालोचनीयम् ॥ २६ ॥ मू० गुणादौ द्वित्वमेकत्वमथ द्वित्वादिकं पुनः । तवृत्तित्वविशिष्टान्यतरत्वादि प्रकीर्तितम् ॥ २७ ॥ वा त्रयो वा चत्वारो भेदा यत्र निवेशिताः । द्वित्वत्रित्वचतुष्दवादिसंज्ञास्तेषां प्रकीर्तिताः ॥ २८ ।। । द्वौ । न तावदे- ननु गुणादावयमेक इत्यादिशब्दः प्रयुज्यते । तत्रैकशब्दस्य कोऽर्थः । कत्वसंख्याविशिष्टः, गुणे गुणानङ्गीकारात् । अथ सामानाधिकरण्यसंबन्धनकत्वसंख्या- विशिष्ट एव एकशब्दार्थः, घटनिष्ठैकत्वसंख्यायाः सामानाधिकरण्यसंबन्धन घटरूपे सत्त्वादेकमिदमिति प्रयोगोपपत्तिः । अथ सामानाधिकरण्यसंबन्धेन संख्याविशिष्टस्या- प्येकशब्दार्थत्वे इमौ रूपरसावेक इति प्रयोगापत्तिः । एतद्रूपरसयोरुभयोरपि सामाना- धिकरण्यसंबन्धेनैकत्वसत्त्वादिति चेन्न । प्रत्येकं वर्तमानसामानाधिकरण्यस्यैव वृत्तिनि- यामकत्वस्वीकारात् । फलानुरोधित्वात्कल्पनाथाः । यथा स्फटिके लोहितप्रतीत्या स्फटिक- निष्ठलौहित्यसामानाधिकरण्यस्यैव संबन्धता न तु भूतलादिनिष्ठसामानाधिकरण्यस्येति । अथ प्रत्येकवृत्तिलौहित्यसामानाधिकरण्यमादाय यथेमौ स्फटिको लोहितावित्येकमेव जपाकु- ३८ त्रिंशच्छ्लोकी सुमगतं लौहित्यमुभयोरवभासते। एवं रूपरसयोः प्रत्येकं वर्तमानमेकत्वसामानाधिकर- ण्यमादाय इमौ रूपरसावेक इत्येकमेवाश्रयगतमेकत्वमुभयोरवभासतां । प्रत्येकवृत्ति- सामानाधिकरण्यस्य प्रत्येकस्मिन् वृत्तिनियामकतायाः त्वयापि वाच्यत्वादिति चेत् । एक इत्याकारकप्रतीतावुद्देश्यतावच्छेदकावच्छिन्नसामानाधिकरण्यस्यैवैकत्वांशे संबन्धत्वोपगमात् तथाचैकस्मिन् रूपे इदमेकमिति प्रतीत्या रूपनिष्ठतद्वयक्तित्वावच्छिन्नसामानाधिकरण्यस्यैव वृत्तिनियामकत्वम् । नतु रसनिष्ठतत्तद्वयक्तित्वावच्छिन्नसामानाधिकरण्यस्यापि वृत्तिनि- यामकत्वं स्वीक्रियते । एवञ्चमौ रूपरसावेक इत्यत्र नास्मक्लप्तवृत्तिनियामकयोः प्रत्येक- वृत्तिसामानाधिकरण्ययोः संबन्धभावः । तयोरुद्देश्यतावच्छेदकीभूतरूपरसव्यक्तिनिष्ठ- वक्ष्यमाणद्वित्वानवच्छिन्नत्वात् । किन्तु द्वित्वावच्छिन्नसामानाधिकरण्यस्यैव संबन्धत्वं संभावनीयम् । तस्य च वृत्तिनियामकत्वन्नास्माभिरुपकल्प्यते फलबलात् । स्फटि- कादौ तु इमौ द्वौ स्फटिकौ लोहिताविति प्रतीतेः प्रत्येकवृत्तिसामानाधिकरण्यस्य तादृश- स्फटिकद्वयवृत्तिसामानाधिकरण्यस्य वा संबन्धतास्वीकारेणोपपत्तिः । अथैवमेकं गुणत्वमि- त्यत्र कथमुपपत्तिः सामानाधिकरण्यसंबन्धनापि गुणत्वे एकत्वसंख्याविरहादिति चेन्न तत्र सामानाधिकरण्यघटितसामानाधिकरण्यसंबन्धेनैव गुणत्वे एकत्वस्य विषयत्वाङ्गीकारा- दतिप्रसक्तेश्च पूर्वोक्तदिशैव वारणीयत्वात् । अथैवमपि घटात्यन्ताभावः एक इति प्रत्य- यानुपपत्तिः । तत्रोभयत्र समवायघटितसामानाधिकरण्यविरहादिति चेन्न । तत्र विशे- पणतासंबन्धघटितसामानाधिकरण्यस्यैव संबन्धत्वोपगमात् । इति प्रत्ययानुपपत्तिः । तत्र विशेषणताघटितसामानाधिकरण्यस्याप्यभावादिति चेन्न । तत्र समवायविशेषणताद्वयघटितसामानाधिकरण्यविशेषणत्वोभयघटितसामानाधिकरण्यस्यैव संबन्धत्वोपगमात् । अथैवमपि आश्रयनाशजन्ययत्किंचिद्रूपनाशं विषयीकृत्यायं नाश एक इति प्रत्ययानुपपत्तिः तत्र निरुक्तसंबन्धस्य कस्याप्यसंभवादिति चेन्न । तत्र कालि- कसंबन्धघटितसामानाधिकरण्यस्यैव संबन्धत्वोपगमादित्यादिकं स्वयमूहनीयम् । स्यादे- तत् । एक इत्याकारकप्रतीतौ कचित्समवायः कचित्समवायघटितसामानाधिकरण्यं कचिदुभयत्र समवायघटितसामानाधिकरण्यसमवायैतदुभयघटितसामानाधिकरण्यं क्वचित्स- मवायविशेषणताद्वयघटितसामानाधिकरण्यं कचित्समवायविशेषणताद्वयघटितसामानाधिकर- । अथ भावत्वाभाव एक त्रिंशच्छ्लोकी । ण्यविशेषणत्वैतदुभयघटितसामानाधिकरण्यं कचित्तु समवायकालिकविशेषणत्वोभयघटित- सामानाधिकरण्यमित्यादिनानासंबन्धानां संबन्धत्वाङ्गीकारे गौरवमिति चेन्न । न हि तावत्संबन्धानां तत्तत्संबन्धत्वेन संबन्धता स्वीक्रियते येन गौरवं स्यात् । किन्तु सम- वायस्यैकसंबन्धता । सामानाधिकरण्यानां तु सर्वेषां सामानाधिकरण्यत्वेनापरसंबन्धते- त्याशयेन गौरवाभावात् । अथैवं रूपरसगन्धस्पर्शसंख्यापरिमाणसंयोगेति विभागवाक्ये रूपमे रस एकः गन्ध एकः स्पर्श एकः एवं क्रमेण सर्वैरपि विद्वद्भिः शिष्याणां बोधनं क्रियते । तत्रैकपदस्य का गतिः । नच तत्र रूपत्वावच्छिन्नं यदेकत्वसामानाधिकरण्यं तदेव संबन्धतया स्वीकार्यमिति वाच्यम् । तथा सति यत्र रूपत्वेन रूपेण घटपटकुड्यकु- सूलादिनानापदार्थगतनानारूपाणि विषयीकृत्य रूपाण्यकमिति प्रयुज्यते । तदा तादृशवा- क्यस्य प्रामाण्यापत्तेरिति । नैष दोषः । तत्रैकपदस्यैकधर्मावच्छिन्नार्थकत्वात् । स च धर्मो रूपत्वं रूपत्वनिष्ठं यदेकत्वसामानाधिकरण्यघटितं सामानाधिकरण्यं तस्यैकं रूपत्वमिति प्रतीत्यनु- रोधेन संबन्धतायाः स्वीकर्तव्यतया रूपत्वस्यैकत्ववत्त्वेऽविवादात् । तदेतत्सर्वमभिप्रेत्य एकार्थसमवायादिनैव तादृशव्यवहारोपपत्तौ गुणे गुणानङ्गीकारादिति दीपिकायां स्थित- मिति चेन्न । एतद्धटरूपमेकमिति वाक्यजन्यप्रतीतौ यद्यतटरूपत्वावच्छिन्नसामानाधि- करण्यसंबन्धेनैतद्धटनिष्ठैकत्वविशिष्टमेवावभासते । तदैकस्मिन् घटे द्वे रूपे उत्पन्ने इत्याद्यभिदधानं पुमांसं प्रति एतद्धवृत्तिरूपमेकमिति वाक्यं न प्रयुञ्जीरन् । न हि ततो जायमाना धीस्तथाविधसंशयं निवर्तयितुमीष्टे । परिभावयतु तावदिदं स्वयमेव नयने निमील्य मनसा अन्नभट्टः घटे वर्तमान रूपं तद्वृत्येकत्ववत्त्वेन विदानोऽपि कश्चि- पुमान् अस्मिन् रूपान्तरोत्पत्ति संशेते न वेति। एवं रूपत्वादावेकत्वादिसामानाधि- करण्यज्ञानेऽपि रूपत्वान्तरसंभावनाविरोधाभावाद्रूपत्वान्तरं संदिहानं प्रति एक रूपत्वमिति प्रयोगानुपपत्तिरिति । न हि रूपत्वमेकत्वसमानाधिकरणतया अजानानो रूपत्वान्तरसंभवं किमिति संदिग्धे । तस्मादनुभवविरोधादन्नंभट्टवचनमनादरणीयम् । यद्येतद्धटवृत्ति- रूपमेकमित्यस्य भिन्नरूपासमानाधिकरणमित्यर्थः रूपत्वमेकमित्यस्य स्वाश्रयप्रतियोगिका- न्योन्याभावासमानाधिकरणरूपत्वमित्यर्थः । तथाप्येकं रूपं ज्ञातं एक रूपं जानामी- त्यादावेकपदं तद्वयक्तित्वावच्छिन्नपरमावश्यकम् । न हि तत्र स्वभिन्नरूपासमानाधिकरणत्व- त्रिंशच्छ्लोकी रूपमेकत्वं विषयः रूपान्तरस्यापि तद्भूतले तदानीं सत्त्वात् । ज्ञानमात्रत्वेकरूपस्यैवेति एकस्मिन् घटे द्वे रूपे उत्पन्ने एकं शुक्लमपरं नीलमित्यत्रैकपदस्य तद्व्यक्तित्वावच्छिन्नार्थ- कत्वमावश्यकमिति सर्वत्रैव तथास्त्वित्याशयेनाह गुणादाविति । गुणादिनिष्ठं यदेकत्वं तत्तद्व्यक्तित्वादिरूपमित्यर्थः । ननु यत्र रूपमेकं रस एक उत्पन्न इत्यत्रेमौ रूपरसौ द्वाविति सर्वैर्व्यवहियते । तत्र किमदं द्वित्वं न तावत्संख्यारूपं गुणादौ तदसंभवात् । आश्रयगतद्वित्वादिभानन्तु पूर्ववदेव निरसनीयम् । अथापेक्षावुद्धिविशेषविषयत्वमेव द्वित्वमिति चेत् । विषयतायाः व्यासज्यवृत्तित्वे मानाभावेन प्रत्येकमपि द्वित्वादिप्रत्ययापत्तिः । अत आह द्वित्वादिकं पुनरित्यादि । तत्तदिति । यादृशव्यक्तीनां द्वित्वादिकं वक्तव्यं तत्तद्व्यक्तिवृत्तित्वविशिष्टतावदन्यतरत्वादिकमेवेत्यर्थः । अयं भावः। यत्र रूपरसौ द्वाविति प्रयुज्यते तत्रतपरसवृत्तित्वविशिष्टैतपरसान्यतरत्वावच्छिलत्वं द्वित्वमिति यत्रैतद्रूपरसस्प- स्त्रिय इति प्रयुज्यते तत्रैतद्रूपरसस्पर्शवृत्तित्वविशिष्टतावदन्यतमत्वत्वावच्छिन्नत्वं त्रित्वमिति संज्ञेत्यादिकं स्वयमूहनीयम् ॥ २८ ।। मू० वैलक्षण्ये भवेत् यद्वापदमप्यथवेति च । परन्त्वपितुकिन्तूनां वैलक्षण्यमुदीरितम् ॥ २९ ॥ ॥ विरुद्धत्वं च भिन्नत्वं वैलक्षण्यं द्विधा मतम् । विरोधिज्ञानविषया विकल्पोत्तरसप्तमी ॥ ३० ॥ प्रथमस्योदाहरणं यथा न च यत्र शरीरे चेष्टा न जाता तत्राव्याप्तिरिति वाच्यम् तादृशे प्रमाणाभावादित्यनन्तरं, अथवा चेष्टावदन्त्यावयविवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वं तदिति । तादृशे प्रमाणाभावादित्यत्र तादृश इत्यनन्तरं शरीर इति पूरणीयम् । शरीर इत्यत्र सप्तम्यर्थो विशेष्यत्वम् । तादृशपदं चेष्टानधिकरणत्वपरं, प्रकारित्वं सप्तम्यर्थः । तथाच शरीरविशेष्यकचेष्टानधिकरणत्वप्रकारकप्रमाकरणाभावज्ञानज्ञाप्याप्रामाण्याश्रयीभूतं तादृश- वाक्यमित्यन्वयबोधः । अथ तादृशप्रमाणविरहज्ञानज्ञाप्याव्याप्तिविरहकं शरीरलक्षणमिति सामान्यतः शरीरलक्षणत्वावच्छिन्नविशेष्यकमानसबोधो जायते । अथवेत्यनेन पूर्वोक्ता- त्रिंशच्छ्लोकी ४१ धवलक्षण्यं प्रतिपाद्यते । पूर्वोक्तार्थबोधोतरतादृशमानसज्ञानविषयीभूताव्याप्तिविरहज्ञाप- कातिरिक्तज्ञापकज्ञाप्याव्याप्तिविरहकत्वं तत् । अन्वयश्चास्य तत्पदार्थे शरीरलक्षणत्वाव- च्छिन्ने। यद्वा पूर्वोक्तचेष्टाधिकरणत्वलक्षणभिन्नत्वमर्थः । तस्यापि तत्पदार्थे अन्वय इति ॥ द्वितीयस्योदाहरणम् । न हि दृश्यत्वमदृश्यत्वं वा कस्य चिस्वभावादाच- क्ष्महे । परन्तु महत्वोद्भूतरूपादिकारणसमुदायवशादृश्यत्वं तदभावे चादृश्यत्वमिति । अत्र स्वभावादित्यनन्तरमितिशब्दः पूरणीयः । तथा अऽदृश्यत्वमित्यनन्तरमपि । अत्र परन्तुशब्देन पूर्वोक्तिवैलक्षण्यमुत्तरोक्तौ प्रतीयते । तच्च तद्विरुद्धार्थकत्वमिति ॥ तृतीयस्यार्थः विकल्पसूचकपदादुत्तरा या सप्तमी सा विरोधिज्ञानं विषयः स्वप्रतिपाद्यं यस्याः सा तथा उदाहरणश्चास्य-तस्य नित्यत्वे भूतले घटाभावबुद्धिप्रसङ्गादिति । अत्र तत्पदमभाव- वैशिष्ट्यपरम् । विशेष्यत्वं षष्ठ्यर्थः । नित्यत्वपदं नित्यत्वज्ञानपरम् । विरोधिज्ञानविष- यत्वं सप्तम्यर्थः। घटानयनानन्तरमपीत्यपिशब्दस्वारस्यात्स्वाव्यवहितोत्तरघटाभावोत्तरकाली- नत्वं सूच्यते । तथाचाभाववैशिष्ट्यविशेष्यकनित्यत्वप्रकारकज्ञानविरोधिज्ञानविषयो यो घटानयनोत्तरकालीनघटाभावबुद्धिप्रसङ्गस्तस्मादित्यर्थः ॥ ३० ॥ ॥ म० ज्ञानज्ञाप्यत्वविषया सेति कचिन्प्रचक्षते । समानयुक्तिकत्वार्था क्वचिदेपा विलोक्यते ।। ३१ ।। अत्र प्रथमस्योदाहरणम् इदमेव पूर्वोक्तं । तस्येत्यत्र षष्ठ्यर्थो विशेष्यत्वम् । नित्यत्व- पदं नित्यत्वज्ञानपरम् । ज्ञाप्यत्वं सप्तम्यर्थः । तस्य प्रसंगेऽन्वयः । ज्ञानं च संभाव- नात्मकं बोध्यम् । ज्ञायते हि तस्य नित्यत्वं संभावयतो यथोक्तातिप्रसङ्ग इति। द्वितीय- स्योदाहरणम् --समवायस्यातिरिक्तत्वे अभावस्यापि वैशिष्ट्यं संबन्धान्तरं सिद्धयेदिति । अत्र समवायस्येत्यत्र षष्ठ्यर्थो विशेष्यत्वं, अतिरिक्तत्वपदमतिरिक्तत्वसिद्धिपरम् । समा- नयुक्तिकत्वं सप्तम्यर्थः । तच्च स्वजनकसमानजनककत्वं स्वं समवायातिरिक्तत्वसिद्धिः तज्ज- नक यल्लाघवज्ञानं तत्समानजनककत्वं संबन्धान्तरत्वप्रकारकसिद्धेरिति अत्रापि लाघवज्ञान- संभवादितिभावः। यदि चात्र सिद्भयेदित्यत्र स्यादिति प्रयुज्यते तदा समवायस्येत्यत्र ।

४२ त्रिंशच्छ्लोकी षष्ठ्यर्थो निष्ठत्वम् । अतिरिक्तत्वपदं यथाश्रुतार्थकमेव । समानयुक्तिकत्वं सप्तम्यर्थः । तच्च स्वज्ञापकज्ञाप्यत्वम् । अन्वयश्चास्य संबन्धान्तरघटकभेद इत्यवसेयम् ॥ ३१ ॥ म. अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ ३२ ॥ व्यतिरेचको निपात एवकारः कचिदयोग व्यवच्छिनत्ति अयोगव्यवच्छेदबोधं जनयति। अयोगः उद्देश्यतावच्छेदकसमानाधिकरणाभावप्रतियोगित्वम् । तस्य व्यवच्छे- दोऽभावः व्यापकत्वमिति यावत् । यथा अयं शङ्कः पाण्डुर एवेति विशेषणसंगतैवकारेण शङ्खत्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वाभावः पाण्डुरत्वे बोध्यते । क्वचिदत्यन्ता- योगं व्यवच्छिनत्ति अत्यन्तायोगव्यवच्छेदबोधं जनयति । अत्यन्तः उद्देश्यताव- च्छेदकव्यापको योऽयोगः अभावः तव्यवच्छेदः तदप्रतियोगित्यम् । यथा सरोज नीलं भवत्ये- वेत्यादौ क्रियासंगतैवकारस्थले सरोजत्वव्यापकात्यन्ताभावाप्रतियोगित्वं नीलभवनरूपधा- त्वर्थ बोध्यते । क्वचिदपयोग व्यवच्छिनत्ति अपरयोगव्यवच्छेदबोधं जनयति । अपरै- विशेषान्यैर्यो २ । तादाम्यादिसंबन्धः तद्व्यवच्छेदस्तदभावः । यथा पार्थ एव धनुर्धर इत्यादौ विशेष्यसंगतैवकारस्थले पार्थान्यतादात्म्याभावो धनुधेरे बोध्यत इत्यादि यद्यपि बहु वक्तव्यम् । तथापि ग्रन्थान्तरेषु बहुशः प्रपञ्चितत्वात् विस्तरभयाच्च विरम्यते ॥ ३२ ॥ श्रीत्रिंशच्छ्लोकीटीका सेयं पट्टाभिरामेण । 1. वक्षसि साक्षात् कौसुममालेब दक्षिणामूर्तेः ।। पट्टाभिर मपोतग्रथिता सेयं प्रसूनमालेव । त्रिंशच्छ्लोकीटीका ध्रियतां पुरसुन्दरी देवी ॥ शुभमस्तु इति तार्किकचूडामणिपट्टाभिरामशास्त्रिकृता त्रिंशच्छ्लोकीटीका समाप्ता ॥ समाप्तोऽयं ग्रन्थः॥

No text on this page.

No text on this page.

No text on this page.

Trim'shaachchhalokii Pat't'aabhiraamat'ikaasahitaa

Author
1985
Title
Trim'shaachchhalokii Pat't'aabhiraamat'ikaasahitaa
File name
Trim'shaachchhalokii Pat't'aabhiraamat'ikaasahitaa
Text
OCR done
Citation
1937
Publisher
The Annamalai University Journal
Language
Sanskrit
Pages
63
Library
Others
Classification
Nyaya
DLI number
368404
Barcode
5010010033965.00
Scanning centre
RMSC, IIIT-H
Rights
IN_COPYRIGHT
VMLT id
zrY7Pi02Bs4
Download PDF

Trim'shaachchhalokii Pat't'aabhiraamat'ikaasahitaa