Jayakar Library , Pune

Bramhasutravritti.

Vrajanath Bhatta · 12-01-2006

PDF Proofread

Front matter

चौखम्बा-संस्कृत-ग्रन्थमाला।
(अन्यसंख्या २४)
ब्रह्मसूत्रवृत्तिः।
ब्र
मरीचिका
श्रीवजनाथभट्टकृता
श्रीमदाचार्यश्रीवल्लभाधीश्वरशुद्धाद्वैतसंप्रदाय विदुषा
भीरतगोपालभद्देन संशोधिता।
काभ्याम् ।
विद्याविलास-नानि यन्त्रालये, हरिदासगुप्तेन
मुद्रयित्वा प्रकाशितम्।
..
सन् १९०५
बैक्रमसम्बत् १९६२
शुभम्

॥ श्रीहरिः ॥ . . अयि श्रीश्रीवल्लभाचार्यशुद्धाद्वैतसम्प्रदायसिद्धान्तज्ञानरसि- काः सहृदयवराः !, इदं किलाभिक्षायतां तत्रभवद्भिर्भवद्भिः। यदेषा श्रीभगवत्कृष्णद्वैपायनप्रणीतब्रह्मसूत्राणां विवृतिरणु- भाग्यानुसारिणी मरीचिकाख्या श्रीवजनाथभट्टकता सम्मुधु प्रका- शिता परीवर्ति। एनां च, 'नानामतध्वान्तविनाशनक्षमो वेदान्तसिद्धान्तविका- सने पटुः । आविष्कृतोऽयं भुवि भाज्यभास्करो मुधा बुधा धावत नान्यवर्त्मसु' इत्यणुभाष्ये श्रीश्रीवल्लभाचार्यः स्वभाप्यस्य भास्कर- रूपतया निरूपणाद् अणुभाग्यविभाकरानुगामिकिरणरूपेण व्यप- दिशन् मरीचिकेति न्यरुपयद् ग्रन्थकारः । स च, गुदाद्वैतसम्प्रदायस्य सौलश्येन बोधार्थमेनां सम्राट- श्रीजयसिंहाशानुसारेण व्यरचयदिति, 'सम्राटश्रीजयसिंहाक्षां प्राप्य व्रजनाथभट्टेन । अणुभायभास्करस्य मरीचिकेयं कृता जयताद' इति प्रशस्तिलेखाज्ज्ञायते । तां चैनां नानाविधदर्शनप्रकाशाय प्रयतमानेन श्रीहरिदास- गुप्तामिधमहाशयेन प्रवर्तितो भायादिभिः संशोध्य प्रकाशित पानस्मि । अग्रे च क्रमशः सप्रकाशाख्यव्याख्योऽणुभाग्यग्रन्थोऽपि प्रका- शयिष्यत इति शुद्धाद्वैतसम्प्रदायपुस्तकमभिलण्यद्भिःसुधीभिरवधेय- मिति, प्रकाशयिता। रत्नगोपालभः श्रीकृष्णाय नमः। ब्रह्मसूत्रवृत्तिः। त्र मरीचिका श्रीघ्रजनाथभट्टकृता नत्वा श्रीवल्लभाचार्यपादपद्मयुगं सदा ॥ तदीयभाष्यमार्गेण व्याससूत्रार्थ ईर्यते ॥१॥ अथ वेदान्तानां विचार आरम्भणीयो न वेति विशये साङ्ग- वेदाध्ययनादेवार्थनिश्चयेन विचारे विशेषाभावाद् वेदान्तवाक्यार्थ- झानादेव ब्रह्मज्ञानस्यापि सम्भवाद् विरुद्धवाक्यानामपि सर्वभवन- समर्थे ब्रह्मणि विरोधाभावेन निर्धारसम्भवादनारम्भणीय एव वि- चार इति प्राप्ते, उच्यते । सन्देहवारणार्थ विचार अवश्यकः । अत एव भगवान् व्यासस्तत्कर्तव्यत्वं प्रतिजानीते । अथातो ब्रह्मजिज्ञासा ॥ १ ॥ अथशब्दोऽधिकारार्थः । जिज्ञासापदं विचारार्थकम् । यस्मा- तू कर्मादिभ्यो ब्रह्मज्ञानमेव पुरुषार्थसाधकम् अतस्तज्शानाय विचा- रोऽधिक्रियत इति सूत्रार्थः। विचारस्य वेदान्तविषयकत्वात् त्रैवर्णि- क एवाधिकारी । ब्रह्मण इति शेषषष्ठीसमासाद् ब्रह्मसम्बन्धि सर्व विचार्यमिति सिद्धम् ॥१॥ तद्ब्रह्म जगत्कर्तृ, आहोखिदकर्तृ इति संदेहे फलवाक्ये सत्यं झानमित्येवोक्तत्वात्, तस्माद्वा एतस्मादात्मनः, यतो वा इमानि भू- तानित्यादिवाक्येष्वपवादार्थमारोपेणापि कर्तृत्वकथनसम्भवादकर्तृ इति प्राप्त उच्यते। जन्माद्यस्य यतः शास्त्रयोनित्वात् ॥ २॥ , २ ब्रह्मसूत्रवृत्तौ । जन्म आद्यस्य आकाशस्य यतः, ब्रह्मणो विचार्यत्वात्तद् ब्रह्मे- त्यायाति । तस्माद्वा इति श्रुतिसिद्धमाकाशस्य प्रथमकार्यत्वम् । एतेन यतो वा इमानीत्यादिश्रुत्युक्ताः सर्व एव सृष्टिप्रकाराः सूचि- ताः । कुतः शास्त्रयोनित्वात् । शास्त्रोक्तकारणत्वादित्यर्थः । वेदरूप- शास्त्रस्य परमाप्तत्वेन अणुमात्रमप्यन्यथाकथनासम्भवात् कर्तृत्वा- दिधर्माणां ब्रह्मणि विरोधाभावेन तत्कथनस्यापवादार्थत्वेन वक्तुम- युक्तत्वात् सर्वज्ञं सर्वशक्तिमत् सर्वकर्तृ ब्रह्मेति सिद्धम् ॥ २॥ तद् ब्रह्म समवायिकारणं निमित्तं वेति संशये, यतो वा इमानीत्यत्र पञ्चमीश्रवणातू समवायित्वस्य क्वाप्यश्रवणान्नि- मित्तमेवेति प्राते, उच्यते । तत्तु समन्वयात् ॥ ३ ॥ तुशब्दः पूर्वपक्षं व्यावर्तयति । तद् ब्रह्मैव समवायिकारणं, कुतः समन्वयात, अस्तिभातिप्रियत्वेन ससच्चिदानन्दरूपेण सम्यग- नुवृत्तत्वात् ।अतः, स आत्मान र स्वयमकुरुतेतिश्रुतेर्ब्रह्मण एव सम- वायित्वम् । निमित्तत्वन्तु सर्ववादिसम्मतमस्त्येव । एवं ब्रह्मजिज्ञा- सां प्रथमसूत्रेण प्रतिज्ञाय किंलक्षणकं ब्रह्मेत्याकाङ्क्षायां जन्मादिसू- त्रद्वयेन वेदप्रमाणकं जगत्कर्तृ समवायि चेत्युक्तम् । एवं त्रिसूत्र्या जिज्ञासालक्षणविचारस्य कर्तव्यता सिद्धा ॥३॥ तत्र ब्रह्मणि चतुर्धा विचारः । खरूपसाधनफलप्रति- पादकवेदान्तवाक्यस्त्रिविधैर्मतान्तरनिराकरणेन च । तत्र स्व- रूपविचारानन्तरं मतान्तरनिराकरणं विना साधनफलयोनि रूपयितुमशक्यत्वात् क्रमेणतच्चतुष्टयमध्यायचतुष्टयेन निरूप्यते । प्रथमेऽध्याये स्वरूपवाक्यानां विचारः । तानि पुन: सन्दिग्धासन्दिग्धभेदाद् द्विविधानि । तत्र निःसन्दिग्धाना मविचार्यत्वात् सन्दिग्धानां कार्यप्रतिपादकान्तर्यामिप्रतिपादको- पास्यस्वरूपप्रतिपादकप्रकीर्णकभेदेन चतुर्विधत्वात् प्रत्येक क्रमे- ण चरणचतुष्टयेन प्रतिपाद्यन्ते । तत्र प्रथमपादस्य कार्यप्रतिपाद- कवाक्यनिर्णायकत्वात् सच्चिदानन्दरूपेणाऽऽकाशवायुतेजोवाक्या- नि षविधान्यपि निर्णीयन्ते । अन्यत्रान्यवाचकान्यपि वेदान्तेषु भगवद्वाचकानीति । तत्र लक्षणविचार एव सद्रूपाणां वाचकता- . अतः ator १ अध्याये १ पादः। • -1 या निर्णीतत्वाश्चिद्रूपस्य ज्ञानप्रधानस्य निर्णयार्थ ज्ञानस्य सप्तद्वा- रत्वात् सप्तभिः सूत्रैक्षित्यधिकरणमारभ्यते । तत्र ब्रह्मणः स्व- प्रकाशत्वेन सर्वप्रमाणाविषयत्वाद, यतो वाच इति श्रुतेश्च विचारः कर्तुं न शक्यते, उत विरोधपरिहारेण कर्तुं शक्यत इति संशये ब्रह्मणः सर्वव्यवहारातीतत्वाद्विचारानहतेत्याशङ्याह । ईक्षते शब्दम् ॥ ४॥ न विद्यते शब्दो यत्रेत्यशब्दं सर्ववेदान्ताद्यप्रतिपाद्यं ब्रह्म न भवति । कुतः? ईक्षतेः । तदेक्षतेत्यादिश्रुतिषु ब्रह्मण ईक्षाप्रतिपा- दनात् । एवञ्च सर्वव्यवहारातीतोऽपि लोकसृष्टिद्वारा व्यवहायों भ- विष्यामीतीच्छयेक्षणाद् विचारविषय इति सबै सुस्थम् ॥ ४ ॥ ननु यतो वा इमानि, निष्कलं निष्क्रियमित्यादिश्रुतेर्ब्रह्मणः कर्तृ- त्वमकर्तृत्वं च प्रतीयते । ततो विरुद्ध सर्वधर्माश्रयत्वकल्पनापेक्षया- लौकिककर्तृत्वादेर्बाध उचितः। ईक्षत्यादिकं तु प्रकृतिगुणसम्बन्धा- द्भविष्यतीत्याशय परिहरति । गौणश्चेन्नात्मशब्दात् ॥ ५॥ ईक्षत्यादियुक्तः परमात्मा गौणः प्रकृतिगुणतत्त्वसम्बन्धवा- नितिचेन्न, कुतः आत्मशब्दात् । आत्मा वा इदमेक एवेत्युपक्रम्य, स पेक्षतेत्युक्तम् । आत्मशब्दः पुनः सर्वेषु वेदान्तेषु निर्गुणपरव्र- ह्मवाचकत्वेनैव सिद्धः । तद्वाच्यस्यैव जगत्कर्तृत्वमत्रोच्यते । अ- न्यतरबाधपक्षस्तु न युक्तः। तथा सति सगुणस्य कर्तृत्वापत्तौ ब्रह्मणः स्वातन्त्र्यं भज्येत । अतः स्वतःप्रमाणभूतश्रुतिबलात् सर्वभवनसा- मर्थ्य विरुद्धसर्वधर्माश्रयत्वं च ब्रह्मणि मन्तव्यम् ॥ ५ ॥ नन्वात्मशब्दोऽपि यज्ञदत्तो ममात्मेतिवदुपचारादस्त्वित्याशय परिहरति । तन्निष्ठस्य मोक्षोपदेशात् ॥ ६ ॥ तदात्मानः स्वयमकुरुतेत्युपक्रम्य, यदा होवैष एतस्मिन्नर- श्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ मोऽभयं गतो भवतीति। लौकिकधर्मरहिते ब्रह्मगि जगत्कर्तरि परिनिष्ठितो मु. .

ब्रह्मसूत्रत्तौ। . + को भवतीत्यर्थः । यदि जगत्का गौणः स्यात्तनिष्ठस्य संसार एवं स्यान्न मोक्षः॥६॥ हेत्वन्तरमाह। हेयत्वावचनाच ॥ ७ ॥ यदि जगत्कर्ता सगुणः स्यात् तदा वेदान्तेषु साधनोपदेशप्र- सङ्गे हेयत्वेन पशुपुत्रादिवदुपदिष्टः स्यानत्वेवम् । अत ईक्षत्यादयो न सगुणधर्माः। पूर्वोक्तानामीक्षतिहेतुसाधकत्वबोधनार्थ चकारः ॥७॥ सृष्टिवाक्यानामीक्षतिहेतूनां भगवत्परत्वमुक्त्वा प्रलयवा- क्यानां तत्परत्वमाह । स्वाप्ययात् ॥८॥ ब्रह्मणो न व्यवहारातीतत्वं, कुतः १ यत्रतत्पुरुषः खपितीति- श्रुत्या स्वस्मिन् ब्रह्मणि जीवस्याप्ययात लयप्रतिपादनादिवर्थः ॥८॥ सुषुप्तिवाक्यानां ब्रह्मपरत्वमुपपाद्य मुक्तिवाक्यानामाह । गतिसामान्यात् ॥ ९॥ गती मोक्षे सामान्यात् । समानस्य भावः सामान्यम् । यथा सर्वासामपां समुद्र एकायनमित्यादिश्रुत्या सर्वस्य शुद्धब्रह्मसाम्यप्र- तिपादनादित्यर्थः॥९॥ किच। श्रुतत्वाच ॥ १० पूर्णमद इति, सर्वे वेदा यत्पदमामनन्तीतिच श्रुत्या निःसन्दि- ग्धं ब्रह्मणः सर्वकार्यत्वं प्रतिपादितमतो ब्रह्मणः सर्वत्र प्रतिपाद्यमा- नत्वादशब्दत्वशङ्कानवकाश इति सिद्धम् । अधिकरणपूर्णत्वबोधक- श्वकारः॥१०॥ एवं चिद्रूपस्य कारणत्वनिरूपणेन तत्प्रतिपादकश्रुतीनां ब्र- झपरत्वं निरूप्य, आनन्दरूपस्य कारणतानिरूपणेन तत्प्रतिपादक- वाक्यानां ब्रह्मपरत्वं निरूप्यते, आनन्दमयाद्यष्टभिः सूत्रः । षडिन्द्रि- पस्वरूपद्वयानन्दभेदेन आनन्दस्याष्टविधत्वात् । तत्र तैत्तिरीयशाखा- . .

१ अध्याय १ पादः। ५ यां ब्रह्मभृगुप्रपाठकद्वये श्रुतस्य मयत्प्रत्ययान्तस्यानन्दमयपदस्याब्रह्म- वाचकत्वे सम्पूर्णप्रपाठकस्य ब्रह्मपरत्वं न स्यादिति सन्निराकरणार्थ- मधिकरणारम्भः । तत्राब्रह्मान्नमयादितुल्यवचनात् प्रियमेव शिर इत्यादिना सुखवाचकशब्दानामेवोक्तत्वादब्रह्मपरत्वमुत आनन्दस्य जगत्कारणत्वेन ब्रह्मत्वप्रतिपादनार्थत्वात् फलत्वेनोपपादनार्थत्वात् प्रपाठकस्य तस्याब्रह्मत्वे प्रपाठकवैयापत्तेरानन्दमयपदस्य ब्रह्मपर- त्वमेवेति संशये, अन्नमयादिषु विकारार्थकमयट्प्रत्ययदर्शनात् त- प्रायपाठादानन्दमयस्यापि न ब्रह्मपरत्वमिति प्राप्ते, उच्यते । आनन्दमयोऽभ्यासात् ॥ ११ ॥ आनन्दमयशब्दवाच्यः परमात्मा, नान्यः। कुतः अभ्यासात । अभ्यसनं पुनः पुनः कीर्तनं तस्मात् । यदेष आकाश आनग्दो न स्यात्, एष ह्येवानन्दयातीत्यादिप्वभ्यर्हितत्वेन फलत्वसूचकेनाभ्यासेन आनन्दमयस्य ब्रह्मत्वं सूच्यते ॥ ११ ॥ ननु लोके मयटो विकारार्थकत्वदर्शमादानन्दमवपदस्य न ब्रह्मपरत्वमित्याशय परिहरति । । विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १२ ॥ विकारवाची शब्दो मयट्प्रत्ययो यस्मिस्तद्विकारशब्दम् आ. नन्दमयपदं तस्माद् ब्रह्मवाचकं तन्न भवति, ब्रह्मणोऽविकारात्मक- त्वादितिचेन्नाय विकारे मयट्, किन्तु प्राचुर्यमतति प्राप्नोतीति प्राचु- र्यात् । विकारार्थकमयटो, द्वयचश्छन्दसीतिनियमन वेदे द्वयव्यति- रिक्तस्थले विधानाभावात्तत्प्रकृतवचनेऽत्र मयडित्यर्थः । प्राचुर्येण प्र- स्तुतं वचनं तत्प्रकृतवचनं तस्मिन् मयडित्युक्त्यानन्दस्यात्र, को ह्येवान्यादित्यादिना स्तुतत्वेन तदर्थकोऽत्र मयडितिभावः ॥ १२ ॥ शब्दबलविचारेण मयटो विकारार्थकत्वं निवार्यार्थबलविचारे- णापि तदर्थकत्वं निराकरोति । तहेतुव्यपदेशाच्च ॥ १३॥ एष ह्येवानन्दयातीति श्रुत्या तस्यानन्दमयस्यान्यानन्दं प्रति हे- तुत्वेन व्यपदेशादित्यर्थः । एतस्यापि विकृतत्वेऽस्यापि सत्कारणत्वा- ६ ब्रह्मसूत्रहत्तौ। *- . दन्यनिषेधपूर्वकमेतस्यैव कारणत्वप्रतिपादकं वाक्यं व्यर्थ स्यादिति- भावः । अतो नाऽऽनन्दमयशब्दो विकारार्थकः ॥ १३ ॥ नन्वन्नमयादिवदुपासनापरत्वेनापि श्रुत्युपपत्तेःपक्षपुच्छादि- त्वेन मोदप्रमोदादीनामुक्तत्वाश्च ब्रह्मत्वेन सामान्यतः साधितमप्याव- श्यकोपपत्त्यभावान्नं ब्रह्मपरत्वमित्याशङ्याह । मान्त्रवर्णिकमेव च गीयते ॥ १४ ॥ सत्यं ज्ञानमित्यारश्य ब्रह्मणा विपश्चितेत्यन्तो मन्त्रः। मन्त्र- णाभिधया मुख्यया वृत्त्या, प्रतिपाद्यं मान्त्रवर्णिकम् । तत्र, सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेत्यनेन ब्रह्मणा सह नानाविध- कामाशनात्मकसायुज्यरूपफलस्यैव मुख्यतया कथनात् तस्य ब्रह्मण एव आनन्दमयत्वेन सर्चकर्तृत्वेन सर्वान्तरत्वेन परमफलत्वेन सर्व- स्मिन् प्रपाठके उपपादनं गम्यते । अत आवश्यकोपपत्तिसद्भावादा- नन्दमयः परमात्मैवेति सिद्धम् । चकारो विधिमुखविचारेणाधिक- रणसम्पूर्णत्वबोधकः ॥ १४ ॥ निषेधमुखेनेदमेव पुनश्चतुःसूच्या विचार्यते दाढाय । ननु ब्रह्मणा सह फलभोक्तृत्वाजीव एवानन्दमयोऽस्त्विस्याश- ... ड्य परिहरति । . नेतरोऽनुपपत्तेः ॥ १५॥ इतरो जीव आनन्दमयो न भवतीत्यर्थः । कुतः ? अनुपपत्तेः आनन्दमयस्य जगत्कर्तुत्वेनात्रोक्तस्तस्य च जगद्व्यापारवर्जमित्यनेन जीवे निषिध्यमानत्वान्नानन्दमयो जीवः॥ १५ ॥ अत्रैव हेत्वन्तरमाह। भेदव्यपदेशाच्च ॥ १६ ॥ रस ५ ह्येवायं लब्ध्वानन्दीभवतीति, एषह्येवानन्दयातीति जी- वानन्दयार्भेदेन व्यपदेशाच नानन्दमयो जीवः ॥ १६ ॥ नन्वानन्दमयस्य जगत्कारणत्वेन निरूपणान्मतान्तरे प्रकृतेर- पि जगत्कारणत्वोक्तः प्रकृतिरेवानन्दमयशदार्थो भवत्वित्याशय परिहरति । . " १ अध्याये १ पादः। ७ । कामाच्च नानुमानापेक्षा ॥ १७ ॥ आनन्दमयनिरूपणानन्तरं, सोऽकामयतेतिश्रुतत्वाज्जडायाः प्रकृतेः कामनासम्भवात, चकारात् स तपोऽतप्यतेतिश्रुत्युक्ततपसो- ऽप्यसम्भवातू प्रकृतेरपेक्षा नास्तीत्यर्थः॥ १७ ॥ हेत्वन्तरमाह। अस्मिन्नस्य च तद्योगं शास्ति ॥ १८ ॥ अस्मिन्नानन्दमयेऽस्य जीवस्य च आनन्दमयमात्मानमुपसं- कामतीति श्रुत्या तेन रूपेण योग शास्ति फलत्वेन कथयति । नहि जीवस्य जडापत्तिर्युक्ता। अत आनन्दमयशब्दवाच्यो न जीवा, नापि जडः, किन्तु ब्रह्मैवेति सिद्धम् ॥ १८॥ अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत इत्यादि श्रूयते । तत्र त्रेधा संशयः सम्भवति । किमधिष्ठातृदेवता- शरीरमाहोस्विद् ब्रह्मणः शरीरमुत परब्रह्मैवेति । तत्र हि- रण्मयशब्दस्य सुवर्णविकारवाचित्वात् । केशनखादीनां शरी- रधर्माणां प्रतीयमानत्वाद् दृश्यत इति चाक्षुषत्वोक्तरिन्द्रियवत्व- श्रवणाच्च सूर्यमण्डलस्थोऽधिकारी जीव एव कश्चिदुपासनार्थमनो- क्त इति ज्ञायते । अथोच्यते, सर्वेश्यः पाप्मय उदित इत्यपहनपाप्म- स्वादिश्रवणान्न जीव इति तर्हि ब्रह्मण एव कार्यविशेषार्थ परिगृही- तो देहोऽस्त्वेतद्वाक्यप्रतिपाद्य इति प्राप्ते, उच्यते । अन्तस्तद्धर्मोपदेशात् ॥ १९ ॥ । । - . . . अन्तहश्यमानः परमात्मैव । कुतः? तद्धर्मोपदेशात् । अप- हतपापमत्वरूपब्रह्मणोऽसाधारणधर्मोपदेशात् । वेदान्तेषु तत्तत्प्रक- रणे एकोऽप्यसाधारणो ब्रह्मधर्मो विद्यमानः शिष्टान् साधारणत्वेन सन्दिग्धान् धर्मास्तद्धर्मत्वनैव निश्चिनांतीति मर्यादा । ब्रह्मणः श- रीरमिति पक्षस्त्वसङ्गतः । सर्वकरणे स्वतः समर्थस्य ब्रह्मणः का वा- नुपपत्तियन स्वस्यापि शरीरं कल्पयेत् । आनन्दस्वरूपमेव ली- लार्थ शरीरधर्मयुक्तं भासते । इच्छया तच्चाक्षुषमपि भवति । हि- M ८ ब्रह्मसूत्रवृत्तौ। अ रण्मयशब्दस्यानन्दवाचकत्वान्मयदः प्राचुयार्थकत्वात् । परब्रह्मैवात्र प्रतिपाद्यम् ॥ १९ ॥ हेत्वन्तरमाह। भेदव्यपदेशाच्चान्यः ॥ २० ॥ अन्तर्यामिब्राह्मणे य आदित्ये तिष्ठन्नादित्यादन्तर इत्यादिश्रु- त्या आधिदैविकस्य सूर्यमण्डलतदभिमानिभ्यां भेदेन निर्देशात् सू. र्यमण्डलस्खः परमात्मैवास्मिन् वाक्ये प्रतिपाद्य इति सिद्धम् ॥ २० ॥ अस्य लोकस्य का गतिरित्याकाश इति होवाचेत्यादि श्रूयते । तत्रास्य प्रकरणस्य सन्दिग्धत्वाद् भूनाऽऽकाशः प्रतिपाद्यते, ब्रह्म वेति संशये, आकाशशब्दस्य भूताकाशे निरूढत्वात् स एव प्रतिपा- ध इति प्राप्ते, उच्यते। आकाशस्तल्लिङ्गात् ॥ २१ ॥ आकाशशब्दवाच्यः परमात्मैव, कुतः? तल्लिङ्गात् सर्वगति- स्वादिब्रह्मलिङ्गानामस्मिन् प्रकरणे प्रतिपादनात् सर्वजगत्कारणत्वा- दिधर्माणां भूताऽऽकाशेऽसम्भवाद् रूढिं बाधित्वा लिङ्गवशादाकाश- शब्दस्य ब्रह्मपरत्वं, ब्रह्मणः सर्वशब्दवाच्यत्वान्न लक्षणा । तस्मा- दत्राकाशशब्दो ब्रह्मपर इति सिद्धम् ॥ २१ ॥ प्रस्तोतर्यादेवता प्रस्तावमन्वायतेत्युपक्रम्य श्रूयते, कतमा सा देवतेति प्राण इति होवाच सर्वाणि ह वा इमानि, भूतानि प्राणमे- वाभिसंविशन्ति प्राणमभ्युजिहते इत्यादि । तत्रासन्यः प्राणो ब्रह्मवेति विशये मुख्यप्राणेऽपि खापादौ सर्वभूतसंवेशनस्य, यदा पुरुषः स्वपिति प्राणं तर्हिवागप्येतीत्यादिश्रुत्योपपादनात् । यथा प्राणवि- द्यायां न ब्रह्मपरत्वमेवमस्यापि वाक्यस्येति विशेषाशङ्काकाङ्क्षायां पूर्वोक्तन्यायमतिदिशति । अत एव प्राणः ॥ २२ ॥ अस्मिन्नपि प्रकरणे भूयसां ब्रह्मलिङ्गानां श्रवणात प्राणश- ब्दवाच्यं ब्रह्मैवेति सिद्धम् ॥ २२ ॥ अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु वै , .

. १ अध्याये १ पादः। ९ . सर्वतः पृष्ठेचनुत्तमेषूत्तमेषु लोकेषु, इदं तावद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिरिति श्रूयते । तत्न ज्योतिःशब्दवाच्यं प्राकृतं ज्योतिर्ब्रह्मवेति संशये, अन्नासाधारणब्रह्मधर्माऽभावात् प्राकृतं ज्योतिरेव वाच्यमिति प्राप्ते, उच्यते। ज्योतिश्वरणाभिधानात् ॥ २३ ॥ अत्र ज्योतिःशब्दवाच्यं ब्रह्मैव, कुतः? चतुष्पाद्ब्रह्मनिरूपणे ज्योतिषश्चतुर्थचरणत्वेनाभिधानात् । अतः पादानां ब्रह्मधर्मत्वाज्ज्यो- तिषो ब्रह्मत्वम् ॥ २३॥ ननु नात्र चतुष्पाद् ब्रह्म निरूप्यते । किन्तु गायत्री वा इदं सर्वमित्युपक्रमादायत्रीछन्दः । ब्रह्मशब्दोऽपि तस्यैव प्रकृतत्वात्तत्पर एवेति छन्दस एव पादाभिधानानात्र ब्रह्मधर्माः पादा इत्याशय समाधत्ते। छन्दोऽभिधानान्नेति चेन्न तथाचेतोऽर्पणनि- गदात्तथा हि दर्शनम् ॥ २४ ॥ - .. . . नैष दोषः। तथाचेतोऽर्पणनिगदात् । गायत्री वा इदं सर्व यदिदं किश्चेति गायत्रीद्वारा ब्रह्मणि चेतसोऽर्पणं निगद्यते । वर्णस- माम्नायरूपगायत्र्याः सर्वत्वमुपचारं विना न सम्भवतीति तद्वारा तत्प्रतिपाद्यब्रह्मणि बुद्धिप्रवेशार्थ तथा निरूपणम् । कस्मादेवं प्रति- पाद्यत इत्याशङ्ख्याह । तथा हि दर्शनम् । तथा तेनैव प्रकारेण दर्शनं शानं भवति । स्थूला. बुद्धि हत्यैव ब्रह्मणि प्रविशदिति, हि युक्तम् । लोके दृष्टं सूचीसूत्रादौ, स्वतो यन्न प्रविशति, तदुपायेन प्रवेश्यत इति ॥२४॥ किश्च । भूतादिपाव्यपदेशोपपत्तेश्चैवम् ॥ २५ ॥ भूतादयो भूतपृथिवीशरीरहृदयानि चत्वारि पादा व्यपदिश्य- न्ते । नह्येतानि गायत्र्याः पादा भवितुमर्हन्ति । ब्रह्मणस्तूपपद्यन्ते । यावद् ब्रह्मपरत्वेन मुख्यमुपपद्यते, न तावद्रोणं कल्पनीयमिति । '. ૨ १० ब्रह्मसूत्रत्तौ। . गायत्रीशब्दस्यार्थाः पादा न भवन्तीति चकारार्थः । अतः पादानां ब्रह्मधर्मत्वम् ॥ २५॥ ननु त्रिपादस्याऽमृतं दिवीति सप्तम्याऽऽधारत्वं प्रतिपाद्य- ते । अतः परो दिवो ज्योतिर्दीप्यत इत्यत्र पञ्चम्याऽनाधारत्वं प्रतिपाद्यत इत्युपदेशभेदात् पूर्वोक्तपरामर्शाभावान्न ज्योतिषो ब्रह्म- त्वमित्याशय परिहरति : उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २६ ॥ नैष दोषः । उभयस्मिन्नप्यविरोधात मन्त्र दिव्येवोक्तम्, अस्मिन् वाक्ये सर्वत्रोच्यते । सर्वत्र विद्यमानस्य दिवि विद्यमानत्वं, न विरु- यते । अतः परमित्यत्राऽतः शब्देन न तत्राविद्यमानत्वं, किन्तु ततो. ऽप्यन्यत्र सत्त्वं बाध्यते । तस्मात् सप्तमीपञ्चमीनिर्देशौ न विरुद्धौ॥२६॥ कौषीतकिब्राह्मणोपनिषदि इन्द्रप्रतर्दनसंवादे इन्द्रेण प्रतर्दनाय वरदाने, मामेव विजानीह्येतदेवाहं मनुष्याय हिततमं मन्य इत्युप- क्रम्य त्वाष्ट्रवधादिनाऽऽत्मानं प्रशस्य खोपासनायाः पापाभावं फ- लत्वेन प्रतिपाद्य, कस्त्वमिति विवक्षायां, प्राणो वा अहमस्मि प्रज्ञा- त्मानं मामायुरमृमित्युपाखंत्युक्त्याऽऽयुषः प्राणत्वमुपपाद्य; अमृत- त्वं च प्राणस्योपपाद्य, प्राणेन ह्येवामुष्मिल्लोकेऽमृतमानोतीति फलं प्रतिपादितम् । तत्र प्राण आसन्यो ब्रह्म वेति संशये, अत्र साधका- साधारणधर्मस्याभावाद् बाधकानां च विद्यमानत्वात् प्राणशब्दवाच्य आसन्य एवेति प्राप्ते, उच्यते । प्राणस्तथानुगमात् ॥ २७ ॥ प्राणशब्दवाच्यः परमात्मैव, कुतः १ तथानुगमात् । अस्मिन् वाक्ये पौर्वापर्येणालोच्यमाने पदार्थानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते । उपक्रमे वरं वृणीवेतीन्द्रेणोक्तः प्रतर्दनः, त्वमेव मे वृणीष्व यं त्वं मनुष्याय हिततमं मन्यस इति परमपुरुषार्थ वरं वृ- तवान् । तस्मै हिततमत्वंनोपदिश्यमानः प्राणः कथं परमात्मा न स्मात् । न हि तदन्यद्धिततममस्ति । क्षीयन्ते चास्य कर्माणातिश्रुतेः पापाभावोऽपि ब्रह्मज्ञान एव । प्रज्ञात्मत्वं च तस्यैव सम्भवति । उप- संहारेऽप्यानन्दोऽजरोऽमृत इति, एष लोकाधिपतिरित्यादि तस्यैवो- . , १ अध्याये १ पादः। १.१ पपद्यते । अतः सर्वत्रानुगमात् प्राणः परमात्मा ॥ २७ ॥ शङ्कते। न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्ध- भूमा ह्यस्मिन् ॥ २८ ॥ यदुक्तं, प्राणो ब्रह्म । तन्न, कुतः ? वक्तुरात्मोपदेशात् । व- क्ताहीन्द्र आत्मानमुपदिशति । मामेव विजानीहीत्युपक्रम्य, प्राणो वा अहमस्मि प्रज्ञात्मानं मामायुरमृतमित्युपाखेति । स एष प्राणो व. क्तुरात्मत्वेनोपदिश्यमानः कथं ब्रह्म स्यात् । एवञ्च वाचो धेनुत्वो- पासनवदिन्द्रस्य प्राणत्वेनोपासना बोध्यते । अन्ये ब्रह्मधर्माः प्राण- स्तावका इति नेदं ब्रह्मोपाख्यानमिति चेन्न । अध्यात्मसम्बन्धभूमा हस्मिन् । अस्मिन् प्रकरणे आत्मानमधिकृत्य यः सम्बन्ध आत्मनो धर्मास्तेषां बाहुल्यं प्रतीयते, एष लोकपाल इत्यादिना । यावत्प्र- करणस्य ब्रह्मपरत्वं सिद्ध्यति तावदन्यपरत्वं न युक्तमिति हि- शब्दार्थः ॥२८॥ नन्वेवं, मामेव विजानीहीत्याद्यात्मोपदेशः कथं सङ्गच्छत इ- त्याड्याह। शास्त्रदृष्टयातूपदेशो वामदेववत् ॥ २९ ॥ व्यवहारदृष्टयोपदेशे भवेदेवायं दोषः। अत्रतु, अहं ब्रह्मेति- शास्त्रीयदर्शनेनोपदेशः । ननु तत्त्वमसि, अयमात्मा ब्रह्मेत्यादिवाक्ये- भ्यः खात्मनि ब्रह्मत्वेन दर्शनं शास्त्रष्टिनत्वन्यात्मन्यन्यस्य, त- थाच प्रतर्दनस्येन्द्रात्मनि ब्रह्मत्वदर्शनं न शास्त्रहष्टिरित्याशड्याह । वामदेववत् । तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्य- श्चेति, य एव प्रत्यबुध्यत स सर्व भवतीत्यादिश्रुत्या वामदेवस्या यथा ज्ञानावेशात्सर्वधर्मस्फूर्तिरेवमत्रापि ब्रह्मावेशादुपदेश इति ॥ २९ ॥ ननु प्रकरणेऽस्मिन् यद्यपि भूयांसो ब्रह्मधर्माः श्रूयन्ते, तथापि, न वाचं विजिज्ञासीत वक्तारं विद्यादित्यादिजीवधर्माः । तथाऽध खलु प्राण एव प्रशात्मेदं शरीरं परिगृह्यति शरीरधारणात्मकमुख्यप्राण- धर्मश्च प्रतीयते । अतः कथमकान्ततोऽस्य ब्रह्मप्रकरणत्वमित्याशय परिहरति ।

? १२ ब्रह्मसूत्रवृत्तौ । जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैवि- ध्यादाश्रितत्वादिह तद्योगात् ॥ ३० ॥ न, कुतः१उपासात्रैविध्यात्। एतत्प्रकरणोक्तधर्माणां जीवधर्मत्वे मुख्यप्राणधर्मत्वे च स्वीक्रियमाणे ब्रह्मजीवमुख्यप्राणानां स्वातन्त्र्येणो- पासनं त्रिविधं स्यात् । तद् वाक्यभेदप्रसङ्गान युक्तम् । तर्हि प्रकर- णोक्तानां तद्धर्माणां का गतिरित्याशङ्ग्याह । आश्रितत्वादिह तद्यो- गात् । जीवधर्माणां ब्रह्मणि विरोधो न, जीवस्य ब्रह्माकारत्वात् तद्ध- र्माणामपि ब्रह्माश्रितत्वात । इहेत्युभयत्र सम्बद्धम् । मुख्यप्राणस्य तु ब्रह्मणि योगात् तद्धर्माणामपि तद्योगात् । अतः प्रकरणोक्तसर्वधर्मा- णां ब्रह्मणि सम्भवातू प्राणशब्दवाच्यं ब्रह्मेति सिद्धम् । अत एव प्राण, इस्यत्र प्राणशब्दमाने सन्देहः । अत्रार्थेऽपि सन्देहः । बाधकधर्मा अपि वर्तन्त इति तनिर्णयार्थ पृथगधिकरणमुक्तम् ॥३०॥ . --- इति श्रीब्रह्मसूत्रवृत्तौ मरीचिकाख्यायां प्रथमाध्यायस्य प्रथमः पादः।।

१ अध्याये २ पादः। १३ प्रथमाध्यायस्य द्वितीयः पादः । प्रथमे पादे कार्यप्रतिपादकानि वाक्यानि ब्रह्मपरत्वेन निर्णीय द्वितीयेऽन्तर्यामिप्रतिपादकानां तत्परत्वेन निर्णय उच्यते । तत्राथ खलु क्रतुमयः पुरुष इत्यारभ्य, स क्रतुं कुर्वीत. मनामयः प्राणशरीर इत्यादि श्रूयते । तत्राग्रे सत्यसङ्कल्पादिधर्मकथनात् किं विज्ञानमयो जीवो ब्रह्मत्वेनोपास्य, उत ब्रह्मैवान्तर्यामिरूपमिति संशये, सर्व ख- ल्विदं ब्रह्मेति पूर्ववाक्ये जडस्य जगतो ब्रह्मत्वेनोपासनस्योक्तत्वा- जीवस्यापि तत्त्वेनोपासनं युक्तं, नतु मध्ये ब्रह्मनिरूपणस्य प्रस- क्तिरितिं जीवस्यैव ब्रह्मत्वेनोपासनोक्ताऽस्मिन् वाक्य इति प्राप्त, उच्यते । सर्वत्रप्रसिद्धोपदेशात् ॥ १॥ अथ खल्विस्यादि ब्रह्मवाक्यमेव । कुतः, ? सर्वत्र वेदान्तेषु प्र- सिद्धस्य ब्रह्मण एवोपदेशदर्शनात् । एवञ्च, क्रतुं कुर्वीतेत्युपदेशो नो- पासना । परम, अशान्तस्य, निखिलजगतो ब्रह्मत्वेनोपासनेन शुद्धा- न्तःकरणस्य मननात्मकब्रह्मोपदेश एव युक्तो, नतु जीवोपासना । अतोऽत्रानन्दात्मकप्राणशरीरादिरूपोऽन्तर्यामी निरूप्यते, न जीवः॥१॥ ननु क्रतुमयः पुरुष इत्यादिना यथाकामं लोकान्तरीयदेहक- थनासदर्थमन्योपासना युक्ता, न ब्रह्मज्ञानस्यदृशं फलं युक्तमित्याश- य समाधत्ते। विवक्षितगुणोपपत्तेश्च ॥ २॥ विवक्षितो गुणो लोकान्तरे तादृशफलप्राप्तिः । सा प्रकृतेऽपि भगवत्स्वरूपलाभादुपपद्यत इति तदर्थमपि नान्यापेक्षा ॥ २ ॥ नन्विदं नैकान्ततो ब्रह्मवाक्यत्वसाधकम्, उपपत्त वेऽपि सम्भवादित्याशङ्ख्याह । अनुपपत्तेस्तु न शारीरः ॥३॥ जीवस्य तिरोहितानन्दत्वेन निराकारत्वादानन्दात्मकप्राणशरी-

ब्रह्मसूत्रवृत्तौ ।
रादिरूपस्यानुपपत्ते यं वाक्यार्थः॥३॥
ननु प्राप्तव्यफलरूपानन्दात्मकप्राणशरीरादे वेऽप्युपपत्तेनों-
क्तदोष इत्याशय परिहरति ।
कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
एतमितः प्रेत्याभिसम्भवितास्मीति फलवाक्ये, एतं प्राणशरी-
रादिरूपं कर्मत्वेन प्राप्तव्यत्वेन शारीरं जीवं च कर्तृत्वेन व्यपदिशति।
अधिकरणसमाप्तिसूचकश्चकारः ॥४॥
यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाफतण्डुलो वैधम-
यमन्तरात्मन् पुरुपो हिरण्मय इति श्रूयते । तत्रोपक्रमबलीयस्त्वे
जीवो वाक्यार्थः । उपसंहारबलीयस्त्वे ब्रह्म ति संशये, तन्त्र यक.
स्यान्यपरत्वेनैकार्थवाचकत्वं भवति तस्य बलवत्त्वमिति पूर्वतन्त्रे न्यु-
त्पादितत्वाश्चतुर्विधभूतनिरूपणार्थ जीवस्याराग्रमात्रस्यान्तर्हृदये प्र.
तिपादकत्वेन वाऽन्यार्थोपपत्तेर्जीवस्यैव फलदशायां हिरण्मयत्वा-
ज्जीव एव वाक्यार्थो, न ब्रह्मति प्राप्ते, उच्यते।
शब्दविशेषात् ॥ ५॥
हिरण्मयः पुरुषः परमात्मैव, न जीवः । फलदशायामपि
नियमतस्ताहशमूर्तिलाभे प्रमाणाभावात् । अतः शब्देनैव विशेषस्यो-
कत्वाद् ब्रह्मैव वाक्यार्थः ॥५॥
ननु हृदयायतनत्वाज्जीवस्य स एवात्र युक्तो वाक्यार्थ इस्या-
शङ्याह ।
--
स्मृतेश्च ॥ ६॥
ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठतीत्यादिप्रमाणान्तरात
परमात्मैव वाक्यार्थः ॥६॥
उपक्रमप्राबल्याभिप्रायेणाशङ्य समाधत्ते ।
अर्भकौकरत्वात्तव्यपदेशाच्च नेति चेन्न
निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥

१ अध्याये २ पादः।
१५
नन्वर्भकमोकोऽल्पं हृदयात्मकं स्थानं यस्य तत्त्वाद् व्रीह्यादि-
तुल्यत्वव्यपदेशाच्च जीवो वाक्यार्थो, न परमात्मा व्यापकत्वादि-
तिचेद्, नाल्पस्थानकथनं दूषणमावहति । निचाय्यत्वाद् हृदये शातुं
शक्यत्वाद् व्रीह्यादितुल्यत्वव्यपदेशोऽपि न दोषाय । एवं व्योमवत्
एवं व्रीह्यादितुल्यत्वेन यत्प्रतिपादनं तद्योमवत्, व्योमेव चतुर्विध-
भूतान्तरत्वज्ञापनार्थम् ॥ ७ ॥
ननु हृदयदेशे नित्यभगवत्स्थितिश्चेत्तदा जीववत्तस्यापि सुख-
दुःखभोगापत्तिरित्याशय परिहरति ।
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
न, कुतः ? वैशेण्यात सर्वरूपत्वानन्दमयत्वसर्वकर्तृत्वादिर्वि-
शेषस्तद्भावो वैशेष्यं तस्मात । अतो हृदयस्थित्यविशेषेऽपि जीवस्यैव
भोगो न ब्रह्मणः॥८॥
यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनम् इत्यादिकठवल्ली-
षु पठ्यते । अत्र ब्रह्मक्षत्रयोरोदनत्वकथनात् कश्चिद्भोक्तोच्यते ।
स जीवो ब्रह्म वेति संशये, ब्रह्मक्षत्रभोजनस्यानुचितत्वाल्लौकिकभो-
पतृवत्कथनातू, क इत्था वेद यत्न स इत्यनेन स्थानाज्ञानकथनाच
जीव एव कश्चिदुपासनाविशेषलब्धसामथ्र्यो भोक्ता भविष्यति, न
ब्रह्म, उक्तधर्मासम्भवादिति प्राप्ते, उच्यते ।
अत्ता चराचरग्रहणात् ॥ ९ ॥
अत्ता भगवानेव । कुनः ? चराचरग्रहणात् । चरः सर्वप्राणि-
मारणार्थ परिभ्रमन् मृत्युः, अचरं फेनाप्यचाल्यं ब्रह्मक्षत्रं रूपं तयो-
रत्तृत्वस्य जीवेऽसम्भवात् परमात्मैवात्ता। ब्रह्मक्षत्रयोमुक्तिदानेन स्व-
स्मिन् प्रवेशस्य भोजनपदार्थत्वात, सर्वत्र विद्यमानस्यापि सूक्ष्मत्येन
स्थानाशानस्य युक्तत्वादू, बोधनार्थ लोफवत्कथनस्य युक्तत्वाद् ब्रह्मैव
वाक्यार्थः ॥९॥
ननु जीवपरत्वेन सामञ्जस्येन वाक्यार्थोपपत्तो किमिति ब्रह्म-
परत्वं कल्पयत इत्याशमाह ।
प्रकरणाच्च॥ १० ॥

१६
ब्रह्मसूत्रवृत्तौ।
अस्मिन् प्रफरणे, आसीनो दूरं व्रजतीत्यादिना ब्रह्मण एव मा-
हात्म्यं प्रतिपाद्यते । अतः प्रकरणानुरोधाद् ब्रह्मैव वाक्यार्थ इति
सिद्धम् ॥ १०॥
ऋतं पिबन्तावित्यादि तस्यैवाग्रे श्रयते । तत्रास्य वाक्यस्योत्त-
रशेषत्वे जीवपरत्वं, पूर्वशेषत्वे ब्रह्मपरत्वमिति । किमत्र जीवद्वयं नि-
रूप्यते, उत जीवब्रह्मणी वेति विशये ब्रह्मप्रकरणस्य सामान्यत्वेन,
यस्तु विज्ञानवानित्यादिनाऽने विद्वदविद्वतो वयोर्वक्तव्यत्वात् प्रथ-
ममन्त्रेऽपि तयोनिदेश उचितः । अतो बद्धमुक्तजीवपरत्वेन वाक्या-
र्थोपपत्ते वप्रकरणपाठाजीव एव वाक्यार्थ इति प्राप्ते, उच्यते ।
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
गुहा हृदयाकाशस्तन प्रविष्टौ जीवपरमात्मानावेव प्रतिपाद्यौ,
न जीवौ, कुतः? तद्दर्शनात् तयोर्जीवब्रह्मणोर्दर्शनात् प्रतिपादितत्वात्।
प्रश्ने, योऽयं प्रेत इत्यादिना जीवः पृष्टः । अन्यत्र धर्मादित्यादिना ब्रह्म
पृष्टम् । तत्र ब्रह्म निरूप्य जीवनिरूपणे तस्य फलं निरूपयन मध्ये
तुल्यतयोभयोः वरूपं कथयति फलभोगयोग्यत्वात् । अतो ब्रह्मप-
रमेवेदं वाक्यम् ॥ ११ ॥
विशेषणाच्च ॥ १२ ॥
गुहां प्रविष्टावित्यादिविशेषणानां जीवब्रह्मपरत्वेनैव सामञ्जस्या-
वकारादात्मानं रथिनं विद्धीत्याद्युत्तरग्रन्थपर्यालोचनादपीदं ब्रह्मवा-
क्यमेवेति सिद्धम् ॥ १२ ॥
य एषोऽक्षिणि पुरुषो दृश्यत इत्यादि श्रूयते । अत्र प्रतिबि-
म्बपुरुषस्य ब्रह्मत्वेनोपासनपरमिदं वाक्यं, ब्रह्मपरं वेति विशये
ब्रह्मप्रकरणस्य समाप्तत्वाद् दृश्यत इति वचनाञ्च प्रतिबिम्बस्य ब्रह्म-
त्वेनोपासनपरमेवेदं वाक्यं, न ब्रह्मपरमिति प्राप्ते, उच्यते ।
अन्तर उपपत्तेः ॥१३॥
अन्तरः अक्षिणि दृश्यत्वेनोक्तः परमात्मैव । कुतः ? उपपत्तेः
सर्वत्र ब्रह्महटेस्तत्स्थानस्योत्कृष्टत्वात्तत्रार्षस्य ब्रह्मदर्शनस्योपपत्तेः ।
अतः प्रतिबिम्ब पुरुषत्वनियमाभावाच्च ब्रह्मैव वाक्यार्थः ॥ १३ ॥

१ अध्याये २ पादः। १७ स्थानादिव्यपदेशाच्च १४ ॥ अक्षिणि पुरुषो दृश्यत इत्यारभ्य, एतं संयद्वाम इत्याचक्षत इ- त्यादिना कर्मफललयस्थानत्वकर्मफलदातृत्वसर्वलोकभानादिधर्मा- गां व्यपदेशात् तेषामन्यनासम्भवाद् ब्रह्मैव वाक्यार्थः ॥ १४ ॥ ननूपासनापरमेवेदं वाक्यमस्तु, किमत्याग्रहेण ब्रह्मपरत्वो- पपादनेनेत्याशङ्ख्याह । सुखविशिष्टाभिधानादेव च ॥ १५ ॥ एतदमृतमभयमेतद्ब्रह्मेत्यनेनाऽमृतशब्देनानन्दमयत्वप्रतिपादनाद ब्रह्मपरमेवेदं वाक्यम् । एषा मुख्योपपत्तिरितिसूचनार्थमेवकारः ॥१५॥ स्वरूपतो ब्रह्मपरत्वं प्रतिपाद्य फलतोऽपि तत्परत्वमाह । श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥ अथ यदुवै वास्मिन् शव्यं कर्म कुर्वन्तीत्यादिना ब्रह्मविदो देवयानाऽऽख्या या गतिरुक्ता सैवाक्षिपुरुषविदोऽभिधीयते । श्रुता उपनिषद्विद्या येन तस्य गतेरभिधानादित्यर्थः । अतो ब्रह्मपरमेवेदं वाक्यम् ॥ १६ ॥ ननु तद्धर्मवत्वेनोपासनोपपत्तेौणवृत्त्या पूर्वोक्ता उपपत्तयो- ऽक्षिपुरुषपरत्वेनापि सङ्गच्छन्त इत्याशय परिहरति । अनवस्थितेरसम्भवाच्च नेतरः ॥ १७ ॥ इतरोऽक्षिपुरुषो नात्र वाक्यार्थः । कुतः१ अनवस्थितेः अ- स्थिरत्वात् । अक्षिपुरुषस्यान्यसांमुख्य एव सम्भवातुपासनाकाले एकान्ते तस्याभावादस्थिरत्वम् । किश्चोपासनं हि मनसा भवति । तत्र चाक्षिपुरुषस्यासम्भव एव । अतः सर्वत्र सदा विद्यमानत्वाद्भ- गवानेव वाक्यार्थ इति सिद्धम् ॥ १७ ॥ य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यम- यतीत्युपक्रम्य, यः पृथिव्यां तिष्ठन्नित्यादि श्रूयते । तत्राधिदेवमधिवे- दमधियशमधिभूतमध्यात्म चावस्थितो यमयिताऽन्तर्यामीति निरू- प्यते । तत्राधिदैवाद्याधारधर्माणां षण्णामेकस्मिन्नुपचारादधिदेवा- १८ ब्रह्मसूत्रवृत्तौ। दिषु सर्वेष्वेक एवान्तर्यामी, उताधिदेवादिनामभेदाद्भिन्न इति वि. शये, देवादिकमधिकृत्य ये वर्तन्तेऽभिमानेन तेषामेव तत्तच्छब्दवा- च्यत्वात् तत्तत्संज्ञानां ब्रह्मविषयकत्वासम्भवादन्तर्यामिब्राह्मणं तत्तद्- भिमानिदेवतोपासनापरं, नतु ब्रह्मपरमिति प्राप्तेऽभिधीयते । अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥ अधिदेवादिष्वन्तयांमी भगवानेव, नान्यः । कुतः ? तद्धर्म- व्यपदेशात् । तेषां तदभिमानिनां देवानां ये धर्मास्तत्तदधिष्ठातृत्वाद- यस्तेषां ब्रह्मणि व्यपदेशात् । तेषां तत्सामर्थ्य भगवत एवातस्तैर्धमै- भगवानेव व्यपदिश्यते । अत इदं ब्रह्मवाक्यमेव ॥ १८ ॥ ननु वेदान्तवन्तर्यामिणोऽप्रसिद्धत्वात् तस्य च कापिले प्र- सिद्धत्वादन्तर्यामिनिरूपणे कपिलमतस्य श्रौतत्वापत्तिरित्याशङ्ख्याह । न च स्मार्तमतद्धर्माभिलापात् ॥१९ ॥ स्मात सांख्यस्मृतिसिद्धमन्तर्यामिरूपमत्र नोच्यते । कुतः ? अतद्धर्माभिलापातू.. सत्त्वरजस्तमोरूपतद्धर्माणामनभिलापात, पृथि- वीशरीरादीनां तद्विरुद्धधर्माणामभिलापाच ब्रह्मैव वाक्यार्थः ॥ १९ ॥ ननु देवशरीराद्यधिष्ठातृत्वाज्जीव एव वाक्यार्थोऽस्त्वित्याश- याह। . शारीरश्वोभयेऽपि हि भेदेनैनमधीयते ॥२०॥ शारीरो जीवः, नेत्यनुवर्तते, न वाक्यार्थों भवितुमर्हति । यतो यो विज्ञाने तिष्ठन्निति काण्वाः, य आत्मनि तिष्ठन्निति माध्यन्दिना एनं जीवमन्तर्यामिभेदेनाधीयते । अतोऽन्तर्यामिब्राह्मणे ब्रह्मैवार्थों नान्य इति सिद्धम् ॥२०॥ अथ परा यया तदक्षरमधिगम्यते यत्तददृश्यमग्राह्यमित्यादि मुण्डके श्रूयते । तत्र साङ्खयाभिमतप्रकृतिसर्वधर्माणां श्रवणात् का. पिलमतविद्या, उत ब्रह्मविद्यैवेति संशये, अन भूतयोनित्वकथनादने, दिव्यो ह्यमूर्तः पुरुष इत्याद्युक्त्वा, एतस्माज्जायते प्राण इत्यादिना सृष्टिकर्तृत्वं पुरुषस्योक्तम् । एवं सति प्रकृतिपुरुषयोः सृष्टिकर्तृत्वो- क्त्या सांख्याविद्यैवेति प्राप्ते, उच्यते । -- १ अध्याये २ पादः। १९ अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥ अदृश्यत्वादिगुणकः परमात्मैव । कुतः ? तथाऽक्षरात्सम्भव- तीह विश्वमिति जगत्कर्तृत्वरूपब्रह्मधर्मोक्तेः । न हि वेदान्तेषु ब्रह्मा- दपिऽतिरिक्तस्य जगत्कर्तृत्वं क्वचि श्रुतमस्ति ।अत इयं ब्रह्मविद्यैव ॥२१॥ ननु प्रकृतिपुरुषसम्बन्धिसृष्टिप्रतिपादकत्वेनैव वाक्यार्थोपप- चौ किमिति ब्रह्मपरत्वं कल्प्यत इत्याशयाह । विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥२२॥ इतरौ प्रकृतिपुरुषो नात्र वाक्यार्थभूती । कुतः? विशेषणभे- दव्यपदेशाभ्यां विशेषणभेदो व्यपदेशश्च ताभ्याम् । न ह्यदृश्य- त्वसर्वशत्वपुरुषत्वादीनि विशेषणानि प्रकृतेर्भवन्ति । न हि, दि- व्यो ह्यमूर्त इत्यत्रोक्तानि विशेषणानि साङ्ख्याभिमतपुरुषस्य भव- न्ति । ब्रह्मविद्यैवैषेति, सर्वत्र ब्रह्मविद्यामित्याद्युक्तेश्च व्यपदेशभ- दः । अतो ब्रह्मपरत्वमेव युक्तम् ॥ २२ ॥ रूपोपन्यासाच्च ॥ २३ ॥ अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यावित्यादिरूपोपन्यासस्य प्रकृति- पुरुषयोरसम्भवाजगदात्मकस्य ब्रह्मण एव सम्भवाद् ब्रह्मैव वाक्यार्थ इति सिद्धम् ॥ २३ ॥ ब्रह्मणः साकारत्वमुपपादयितुमधिकरणारम्भः । तत्र को न आत्मा, किं ब्रह्मेत्युपक्रम्य, तस्य ह वा एतस्यात्मनो वै. श्वानरस्य मूर्धेव सुतेजा इत्याद्याम्नायते। तत्र वैश्वानरशब्दात् संवत्सरो घा अग्निर्वैश्वानर इति, संवत्सरोवै प्रजापतिरिति च श्रुतेहिरण्यगों- पासनपरमिदं वाक्यं, किं वोपक्रमे ब्रह्मात्मपदश्रवणात्तदेकवाक्यत्वेन ब्रह्मपरमिति संशये, हिरण्यगर्भस्य समष्टयभिमानित्वेन लोकावयव- त्वोपपत्तेस्तदुपासकस्यान्नभोजनात्मफफलस्यापि सम्भवाद् वेदगर्भ- त्वेनाग्नित्रयात्मकत्वस्यापि युक्तत्वाद्धिरण्यगर्भोपासनपरमिति प्राप्ते, उच्यते। वैश्वानरः साधारणशब्दविशेषात् ॥ २३ ॥ 4 ' . २० ब्रह्मसूत्रवृत्ती वैश्वानरपवाच्यः परमात्मैव । कुतः १ येऽस्मिन् वाक्ये हिर- ण्यगर्भसाधारणशब्दाः श्रुतास्तेभ्योऽपि प्रादेशमानस्यैव धुमुर्धत्वा- दिरूपे विशेषाम्नानादु विरुद्धसर्वधर्माश्रयत्वं सर्वभवनसमर्थपरमा- मन एव, नान्यस्य सम्भवति । अतो वैश्वानरशब्दो ब्रह्मपरः ॥२४॥ एतद्वाक्यस्य ब्रह्मपरत्वे प्रमाणान्तरमुपन्यस्यति । स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥ केचित् खदेहे हृदयावकाशे, इति स्मर्यमाणं रूपं ज्ञापकं स्याता प्रादेशमानवैश्वानरस्य ब्रह्मत्वे श्रुतिभ्यः श्रुतस्य मननात्मकस्मरण- सम्भवात् । यदि प्रादेशमानवैश्वानरस्य ब्रह्मत्वं न स्यात, तदेवशं स्मरणं नोपपद्यतेति हेतोःप्रादेशमानवैश्वानरप्रतिपादकवाक्यस्य ब्र. झपरत्वम् ॥ २५॥ ननु स्मरणेनैवार्थनिर्णये, स्मृतावपि 'अहं वैश्वानरो भूत्वा इत्युक्तत्वाद्, अग्निर्वैश्वानर इति श्रीतशब्दादुपासनार्थ तस्यैव ता. ग्निकल्पनात्, पुरुषेऽन्तःप्रतिष्ठितं वदेत्यन्तःप्रतिष्ठानाच जाठरोऽग्नि- रेव वैश्वानरो, न ब्रह्म, विरुद्धधर्मदर्शनादित्याशय परिहरति । शब्दादिभ्योऽन्तःप्रतिष्ठानान्नेति चेन्न, तथा दृष्ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते॥२६॥ न, कुतः ? तथा दृष्टयुपदेशात् । ब्रह्मणः सर्वभोक्तृत्वबोधना- थे तथा दृष्टिर्जाठरत्वेन दृष्टिरुपदिश्यते । ब्रह्मणः सर्वरूपत्वसम्भवा- तू । नन्वेवं स्मृत्यनुरोधाज्जाठर एव वाक्यार्थोऽस्त्वित्याशङ्याह । अ- सम्भवात् । तत्र धुमूर्द्धत्वादिधर्माणामसम्भवात् । उपासनार्थ तद्ध- मैकल्पनं भविष्यतीत्याशङ्याह । पुरुषमपि चैनमधीयते वाजसनेयि. नः, स एषोऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेदेत्यादि । अतः पुरुषत्वं पुरुष- विधत्वं वा न जाठरस्य सम्भवतीति परमात्मैव वैश्वानरः ॥२६॥ वैश्वानरो न ऊत्येत्यादिमन्नैर्देवताया महाभूताग्ने वै- श्वानरपदार्थत्वमस्तीत्याशय परिहरति । अत एव न देवता भूतं च ॥ २७ ॥ । ननु १ अध्याये २ पादः। अत एव पुरुषविधत्वासम्भवादेव देवता भूतं च न वैश्वानर- पदवाच्यमित्यर्थः । उपनिषद्वाक्यानां ब्रह्मपरत्वे सम्भवत्यन्यकल्पना न युक्तंति मुख्योपपत्तिः। अतो वैश्वानरो भगवानेवेति सिद्धम् ॥२७॥ अतः परं ब्रह्मणः प्रादेशमानत्वं स्वाभाविक, कृत्रिमं वेति प- रिमाणं विचार्यते । अस्मिन् सिद्ध पूर्वोक्तविचारः सङ्गतो भवेदिति । तत्रास्मिन् विषये प्रकारभेदेन चत्वार ऋषयो वेदार्थचिन्तकाः । तौ- ल्येन शब्दार्थबलविचारको जैमिनिः । शब्दोपसर्जनेनार्थविचारक आश्मरथ्यः । केवलार्थबलविचारको बादरिः। केवलशब्दबलविचा- रका आचार्याः । तत्राचार्यों विचाराविचारयोदोषं पश्यन् विचार- मपि वदस्तेषामल्पबुद्धिण्यापनाय नामान्याह । तत्र जैमिनिमतमुप- न्यस्यति । साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥ साक्षादपि व्यापकस्य प्रादेशमात्रत्वं कल्पनां विनापि स्वरूपे. णैवाविरोधं मन्यते जैमिनिः । आकाशवद् व्यापकं सर्वतःपाणिपा- दान्तं ब्रह्म । अतः साकारमनन्तमूर्त च । अतः प्रादेशमात्रत्वं स्वाभा- विकमिति जैमिनेर्मतम् ॥ २८ ॥ अभिव्यक्तरित्याश्मरथ्यः ॥ २९ ॥ अभिव्यक्तेहेतोः साकारं ब्रह्म, वस्तुतो निराकारत्वेऽपि माया- पगमने तावति देशे साकारमिव सच्चिदानन्दं रूपं भातीत्याश्मरथ्यो मन्यते ॥ २९ ॥ अनुस्मृतेर्बादरिः ॥ ३० ॥ यद्यद्धिया त उरुगाय विभावयन्तीति वाक्यानुरोधेनानुस्मृ- तेहेंतोब्रह्मणः साकारत्वं, वस्तुतो निराकारमेव । अत आकाराणाम- तात्त्विकत्वं मन्यते बादरिः ॥ ३० ॥ सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥ जैमिनिमते ब्रह्मणः साकारत्वश्रवणात तदेकदेशी नियतसा . कारं मन्यमानो नियमेन प्रादेशमात्र ब्रह्मस्वरूपं जानानि । तन्निराक- रणाय जैमिनिः, सम्पत्तरिति सम्पत्तिकृतं प्रादेशमात्रत्वं, न नियत- ।"

• २२
ब्रह्मसूत्रवृत्तौ।
मिति वदति । ननु प्रादेशमानत्वस्य कथं सम्पत्तिकृतत्वमित्याशझ्या-
है । तथा हि दर्शयति। वाजसनेयिब्राह्मणे, तथा तु व एतान् वक्ष्यामि
यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति श्रुतिः प्रादेशमात्रत्वं सं-
पत्तिकृतमिति दर्शयति । एवञ्च सम्पत्तेरेव प्रादेशमात्रत्वं, नतु प्रा-
देशमात्र एव वैश्वानर इत्येकदेशिनं परिहरति जैमिनिः ॥ ३१ ॥
मुख्यमाचार्यमतमाह।
आमानन्ति चैनमस्मिन् ॥ ३२ ॥
एनं वैश्वानरमस्मिन् मूर्द्धचिबुकान्तराले जाबालाः समामन-
न्ति, एषोऽनन्तोऽव्यक्त आत्मा योऽविमुक्त प्रतिष्ठित इति, सोऽवि.
मुक्तः कस्मिन् प्रतिष्ठित इत्यादिना, वोः प्राणस्य च यः सन्धिः स
एष धौलोकस्य परस्य च सन्धिर्भवतीति । अतोऽनन्त एव व्यापक एव
प्रादेशमात्रः । अनवगाह्यमाहात्म्ये भगवति विरुद्धसर्वधर्माश्रये, न
विरोधसम्भावनापि । अतो ब्रह्मस्वरूपविचारे प्रमाणमेवानुसतव्यं, न
युक्तिः। युक्तिबलेन ब्रह्मस्वरूपविचारका भ्रान्ता एव । तस्य युक्त्यगो-
चरत्वात् । अतः प्रादेशमात्र एव व्यापक इति वैश्वानरपदवाच्यः
परमात्मैवेति सिद्धम् ॥ ३२ ॥
.
इति श्रीब्रह्मसूत्रवृत्ती मरीचिकाख्यायां प्रथमाध्यायस्य
द्वितीयः पादः ॥२॥

१ अध्याये ३ पादः। २३ प्रथमाध्यायस्य तृतीयः पादः । द्वितीयपादे ब्रह्मण आधेयत्वं प्रतिपाद्यास्मिन् पादे आधारत्वं प्रतिपाद्यते, सर्व ब्रह्मेति बोधनाय । यस्मिन् द्यौः पृथिवी चान्तरिक्ष- मोतं मन इत्यादि श्रूयते । तत्र धुपृथिव्यादीनामाधारं ब्रह्म? उन पदा- र्थान्तरम् ? इति संशये, धुश्वादीनां, सूत्रे मणिगणा इव प्रोतानां भारत्वेन परमात्मनस्तद्वाहकत्वासंभवाद्, अमृतस्यैष सेतुरित्युक्त्या सेतोगतिसाधनत्वेन ब्रह्मणः फलत्वेन तदसंभवातू स्मृतिप्रतिपाद्या प्रकृतिरेवैतद्वाक्यार्थों युक्त इति प्राप्ते, उच्यते । धुभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥ यस्मिन् द्यौरितिवाक्योक्तानां धुश्वादीनामायतनं ब्रह्मैव, कुतः खशब्दाद् आत्मशब्दादित्यर्थः । तथाच सर्वेषामात्मत्वेन जगदा- धारत्वेन भारासंभवात् तज्ज्ञानेनाऽमृतप्राप्तेरुपचारेण सेतुत्वस्यापि संभवाद् ब्रह्मैवात्र वाक्याथों, नान्य इति भावः ॥ १ ॥ नन्वस्मिन् प्रकरणे एकविज्ञानेन सर्वविज्ञानमुपक्रम्यान्यवा- ग्विमोककथनमनुपपन्नमित्याशझ्याह । मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥ मुक्तानां देहाद्यध्यासत्यागेन जीवन्मुक्तानामुपसृप्यं ब्रह्मास्मि- न प्रकरणे व्यपदिश्यते । तदन्यवाग्विमोकं विना सर्वाध्यासराहित्य न भवतीति तत्कथनमित्यर्थः । तत्रापि विकारस्य वाचारम्भणमात्र- स्वादन्यवाग्विमोक एव, नतु प्रपञ्चस्य । तस्य ब्रह्मरूपत्वादिति भावः॥२॥ नन्वस्मिन् प्रकरणे, अरा इव ब्रह्मपुरे मनोमय इत्यादिना जड- धर्माणां जडदृष्टान्तानां च निरूपणात सांख्यानरूपितप्रकृतिपुरुषा- नुमापकमेवैतत् प्रकरणमित्याशझ्याह । नानुमानमतच्छब्दात् ॥ ३ ॥ a .. R २४ ब्रह्मसूत्रत्तौ। . इदं प्रकरणं सांख्यमतानुमापकं नास्ति । कुतः १ अतच्छन्दात्। निःसन्दिग्धतया कोऽपि तन्मतख्यापकः शब्दो नास्ति । आत्मसर्व- शानन्दरूपादयस्तु ब्रह्मवादख्यापका बहवः शब्दाः सन्ति । तद्वशात् संदिग्धानामपि ब्रह्मपरत्वेनैव निर्णय उचितः । अतो द्युभवाद्यायतनं ब्रह्मैव, न प्रधानम् ॥ ३ ॥ ननु मनोमयः प्राणशरीरनेतेति निःसन्दिग्धजीवप्रतिपादक. घचनाज्जीवधर्मा जडधर्माश्च, तथा सर्वज्ञत्वादयोऽपि योगप्रभावा- जीवविशेषधर्मा इति जडजीवविशिष्टः सांख्यवादोऽत्र प्रतिपाद्य इ. त्याशझ्याह। प्राणभृच्च ॥४॥ न अतच्छब्दादित्यनुवर्तते । प्राणभृज्जीवोऽपि न वाक्यार्थः । तत्प्रतिपादकशब्दाभावात् । न हि सांख्यमते आनन्दाऽमृतरूपो जीवो भवितुमर्हति ॥ ४॥ भेदव्यपदेशात् ॥ ५॥ तमेवैकं जानथेति कर्मकर्तृभावेन भेदेन व्यपदेशान्न जीवो धाक्यार्थः॥५॥ हेत्वन्तरमाह। प्रकरणात् ॥ ६ ॥ ब्रह्म देवानामित्यारम्भे, स ब्रह्मविद्यामिति च तेषामेवैतां ब्रह्म- विद्यामित्यन्ते च ब्रह्मविद्याया एव निरूपणेन ब्रह्मप्रकरणाद् ब्रह्मैवात्र प्रतिपाद्यमित्यर्थः । ब्रह्मैवेदममृतं पुरस्तादित्यादौ तु विस्पष्टं ब्रह्मैव प्र. तिपाद्यते ॥६॥ अथापि संशये निश्चितं विशेषहेतुमाह । स्थित्यदनाभ्यां च ॥ ७ ॥ द्वा सुपर्णेति वाक्ये, अनननन्यो अभिचाकशीतीत्यनेन पर- मात्मनः स्थितिमान, जीवस्य च कर्मफलोपभोगो निरूप्यते । अतः स्थित्यदनाभ्यां जीवपरमात्मानौ परामृष्टौ सांख्यप्रतिपाद्यवैलक्षण्यमत्र गमयतः। अतो विशेषोपपत्तेः सत्त्वात् सर्वहेतवोऽत्र ब्रह्मवाक्यत्व- १ अध्याये ३ पादः। २५ -- -- i भ . . --- साधका दृढा इति धुभवाद्यायतनं ब्रह्मैवेति सिद्धम् ॥ ७ ॥ छान्दोग्ये, यो वै भूमा तत्सुखमिति सुखलक्षणमुक्त्वा भूमल- क्षणं वदति, यत्र नान्यत् पश्यति नान्यद्विजानाति स भूमेति । तत्र भूमशब्देनात्र बाहुल्यमुच्यते ? ब्रह्म वेति संशयेऽस्मिन् प्रपाठके तत- स्त ऊर्व वक्ष्यामीति सनत्कुमारेण नारदं प्रत्युत्तरोत्तरं बाहुल्यक- थनस्य प्रतिज्ञातत्वात् सुखपर्यन्तमुत्तरोत्तरं भूयस्त्वमुक्त्वाऽग्रे सुख- स्य फलत्वात सुषुप्तावेव तस्याभिव्यक्तेः सुषुप्तिरेव, यो वै भूमेति वाक्ये भूमत्वेनोच्यते । सुखाभिव्यञ्जकत्वेन सुखापेक्षयापि तस्या अन्तरङ्गत्वादतो न ब्रह्मवाक्यांमदमिति प्राप्त, उच्यते । भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥ अत्र भूमा भगवानेव । कुतः? संप्रसादादध्युपदेशात् । संप्र- सादः सुषुप्तिः, तस्मादधि आधिक्येनोपदेशात् । यत्र नान्यत् प- श्यतीत्यादिधर्माणां सुषुप्तिसाम्येऽपि, स एवाधस्तादित्यादिना सर्व- रूपत्वादयोऽधिका धर्मा उच्यन्ते । न हि ते सुषुप्ती सम्भवन्ति । एवं सत्यत्रत्यात्मशब्दस्यापि सामञ्जस्यम् । प्रकरणस्थान्यपरत्वे तत्र ल- क्षणा स्यात् । लोके बाहुल्यवाचकावेन भावशब्दत्वेऽपि भूमशब्दस्य, भगवतः सर्वरूपत्वादत्र भगवद्वाचकत्वे न दोषः । अतोऽत्र भूमा भगवानेव ॥८॥ धर्मोपपत्तेश्च ॥ ९ ॥ अस्मिन् प्रकरणे, नान्यत् पश्यतीत्यादिनाऽन्यादर्शनादयो गुणा उक्ताः। ते भगवत्येवोपपद्यन्ते, नान्यत्र । चकारात्, स वा एष एवं पश्यन्नित्यारभ्य सहस्राणि च विंशतिरित्यन्तेनोक्तं फल- मपि तस्य भगवद्विद एवोपपद्यते । तस्माद् भूमशब्दं ब्रह्मैवेति सिद्धम् ॥९॥ गार्गिब्राह्मणे, कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति, स होवाच एतद्वै तदक्षरं गार्गि!ब्राह्मणा अभिवदन्त्यस्थूलमनण्वित्यादि पठ्यते । तत्राक्षरशब्देन पदार्थान्तरमत्रोच्यते ? ब्रह्म वेति संशये, अचेतनसाधारण्यस्य, ओतप्रोतत्वकथनेन, वर्णतुल्यत्वस्य च प्रती- तेराकाशवब्रह्मपरत्वमेवोचितम् । अत्र विरुद्धधर्माणामाशय नि- ४ ब्रह्मसूत्रवृत्तौ। राकरणाददृश्यत्वाद्यधिकरणेन गतार्थत्वं न शक्ष्यम् । तत्र सन्दि- ग्धधर्माणामेव ब्रह्मधर्मत्वेनोपपादनात् । अतो भूतसूक्ष्मं वा, प्रक- तिर्वात्र प्रतिपाद्यते। किश्चात्र प्रापश्चिकसकलधर्मराहित्यं ब्रह्मध- र्मोऽक्षर उच्यते । तदुपासनार्थ भविष्यति। अतोऽक्षरशब्देनान्यदेव ब्रह्मधर्मयुक्तत्वेनोपास्यमत्रोच्यत इति प्राप्ते, उच्यते । अक्षरमम्बरान्तधृतेः ॥ १० अक्षरशब्दवाच्यमत्र परमात्मैव । कुतः ? अम्बरान्तानां पृथि- व्यादीनां धारकत्वेनोक्तेः । न हि ब्रह्मातिरिक्त सर्वधारकत्वं सम्भ- वति । अक्षरपदोक्तिः परोक्षेण ब्रह्मनिरूपणार्था । अन्यपरत्वसन्देह- वारणार्थ ब्रह्मधर्मकथनम् । अतोऽक्षरपदवाच्यं ब्रह्मैव ॥ १० ॥ ननु यस्मिन् द्यौः पृथिवी चेति वाक्ये, असाधारणब्रह्मध- मन्तिरदर्शनाद् विधारणं च ब्रह्मधर्म इत्युक्तम् । नतु सर्वत्र तस्य ब्रह्मधर्मत्वे प्रमाणमस्तीत्याशङ्कयाह । सा च प्रशासनात् ॥ ११ ॥ सा च अम्बरान्तधृतिरस्मिन्नपि वाक्ये ब्रह्मधर्म एव । कुतः? प्रशासनात् । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिवी वि. धृते तिष्ठत इतिश्रुत्युक्तप्रशासनाद्धेतोर्विधृतिर्ब्रह्मधर्म एव । अप्रति- हताज्ञाशक्त्यात्मकप्रशानस्य ब्रह्मधर्मत्वात् ॥ ११ ॥ ननूपासनार्थ ब्रह्मधर्मनिरूपणमित्याशङ्याह । अन्यभावव्यावृत्तेश्च ॥ १२ ॥ अन्यस्य भावोऽन्यभावः । अब्रह्मधर्म इति यावत् । तस्यात्र व्यावृत्तिः क्रियते । नान तादृशो धर्म उक्तोऽस्ति, योऽब्रह्मण्युपा- सनार्थ भवेत् । यो वा एतदक्षरमविदित्वा गार्गीत्यादिनाऽस्मिन् प्रकरणे शुद्धब्रह्मप्रतिपादनमेव,न तूपासनाप्रतिपादनमिति चकारेण सूच्यते । अतोऽक्षरशब्दवाच्यं ब्रह्मैवेति सिद्धम् ॥ १२॥ प्रश्नोपनिषदि पञ्चमप्रश्ने, एतद्वै सत्यकामः परं चापरं ब्रह्म यदोङ्कार इत्यादिनैकद्वित्रिमात्रोपासनया फलविशेषं निरूप्य अर्द्धचतुर्थमानोपासनया परं पुरुषमभिध्यायीतेत्युक्त्वाऽने परात्परं ..

१ अध्याये ३ पादः। २७ IA . पुरिशयं पुरुषमीक्षत इति फलमुक्तम् । तत्र पुरुषमभिध्यायीतेत्यत्र ध्यानविषयो विराट् पुरुषो ब्रह्मा वा, परमात्मैव वेति संशये पूर्वमो- कारोपासनाकथनेनात्राप्यमुख्यप्रवाहपतितत्वाद् विराट् पुरुष उ- पासनाविषयः । अथवाग्रे परात्परमिति कथनात् सर्वेभ्यः परो ब्रह्म परपुरुष एवात्रोपास्योऽस्त्विति प्राप्ते, उच्यते । ईक्षतिकर्मव्यपदेशात् सः ॥ १३ ॥ सः, अभिध्यानविषयः परपुरुषः परमात्मैव । कुतः? ईक्षतेः कर्मत्वेन व्यपदेशात् । जीवधनात् केवलजीवाधारभूनाद् ब्रह्मलोकात् पररूपपुरुषदर्शनमीक्षत्यर्थः । तत्कर्म ब्रह्मव भवितुमर्हति । तदेव ध्यानकर्मत्वनाप्युच्यते । उभयोरेकत्वात् । ध्यानफलं परपुरुषदर्शन ब्रह्मसाक्षात्कार ईक्षतिनोच्यते । न तदन्यध्यानफलं भवितुमर्हति । अतो ध्यानविषयः परमात्मैवेति सिद्धम् ॥ १३ ॥ अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोs- स्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा व विजिशासित- व्यमित्यादि छन्दोग्ये श्रूयते । तत्र दहराकाशो जीवा ? ब्रह्म वेति संशयः। तत्र स्पष्टार्थाग्रिमप्रजापतिप्रकरणे अमृताभयरूपत्वेन जी- वस्यैव निरूपणादेतत्प्रकरणस्यापि तेनैकार्थत्वत्योचितत्वादत्रापि द. हरशब्दार्थो जीवो भवितुमर्हति, न ब्रह्म। प्रजापतिप्रकरणादर्थान्तर- प्रसक्तरिति प्राप्ते, उच्यते । दहर उत्तरेभ्यः ॥ १४ ॥ दहरः परमात्मा, न जीवः । कुतः ? उत्तरेभ्यः, उत्तरसूत्रषु वक्ष्यमाणहेतुभ्यः । तेषामपि ब्रह्मपरत्वस्य साधनीयत्वात सामान्य- रूपेण कथनम् । अतोऽग्रिमप्रकरणस्यापि ब्रह्मपरत्वेनैव निर्णयादिदं प्रकरणद्वयं ब्रह्मपरं, न तु जीवस्य ब्रह्मत्वेन निरूपणपरम् । तस्माद ब्रह्मैव दहरपदवाच्यम् ॥ १४ ॥ उत्तरहेतुषु हेतुद्वयमाह । गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॥ १५ ॥ गतिः शब्दश्च ताभ्याम् । गतिव्रह्मलोकगतिः, एवमेवेमाः .

२८ ब्रह्मसूत्रवृत्तौ । . सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तीति, एष आ- स्माऽपहतपाप्मा सत्यकामः सत्यसङ्कल्प इति केवलब्रह्मवाचकाः शब्दाश्च । ताभ्यामत्र दहरशब्दवाच्यं ब्रह्मैव । नन्वहरहर्गमनं जी- वस्यैव स्वप्नमायामनोरथादिषु युक्तम् । तथा अपहतपाप्मादयो जी- वस्य ब्रह्मरूपत्वाज्जीवपरा एव शब्दा युक्ता इत्याशड्याह । तथाहि दृष्टम् । गतिशब्दौ ब्रह्मण्येव युक्तौ, न जीवे । गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तीति कथनाद ब्रह्मविषयिण्येवान जीवानां गतिः प्रतिपा- द्यते, न स्वप्नमायामनोरथादिगमनम् । सुषुप्तौ सुखमहमस्वाप्स, न किञ्चिदवेदिषमित्यनुभवात् । जीवानां मायावेष्टनेन दोषयुक्तत्वाद- पहतपाप्मत्वासम्भवश्व । जीवस्य ब्रह्मरूपत्वमपि न । अंशो नाना- व्यपदेशांदित्यनेन भगवदंशत्वेनैव वक्ष्यमाणत्वात् । अतो गतिशब्दो ब्रह्मविषयौ युक्तौ, न जीवपरौ । तथा लिङ्गं च वर्तते गतिशब्दयोब- झपरत्वनिरूपणे । अत्र गतिविषयस्य ब्रह्मलोकशब्देन नित्यत्वनिरू- पणान्मनोरथादिकल्पितलोकानां, यथैवेह कर्मजितो लोकः क्षीयते एवमेवामुन पुण्यजितो लोकः क्षीयत इति श्रुत्या क्षयिष्णुत्वकथनाद् ब्रह्मविषयिण्येवात्र गतिः प्रतिपाद्यते । अपहतपाप्मब्रह्मलोकादयः शब्दा ब्रह्मपरा एव युक्ता, न जीवपराः । एतं ब्रह्मलोकं न विन्दन्ती. ति कथनात् । जीवस्य स्वाज्ञानासम्भवात् । अतो लिङ्गादपि गतिश- ब्दयोर्ब्रह्मपरत्वं युक्तम् । चकारात, तमेव विदित्वेति श्रुत्या ब्रह्मणो शानं मोक्षाय, नत्वात्मनो ब्रह्मत्वेन ज्ञानमित्युक्तम् । अतो दहरशब्द- वाच्य ब्रह्मैव ॥ १५॥ हेत्वन्तरमाह। धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥ अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदायेति श्रुत्युक्त- विधारणं ब्रह्मण एव सम्भवति, नान्यस्य । चकारात सेतुत्वमपि त. स्यैव । ननु परिदृश्यमानस्य जगतो महत्वादतिसूक्ष्मत्वादाकाशस्य तद्धारणासम्भवाद् वासनारूपेण जगतो विद्यमानत्वादरूपं गौणं धारणं वाच्यम् । तच्च जीव एव सम्भवतीति, न धारणात्मकहेतो. झत्वसाधकत्वमित्याशङ्ख्याह । अस्य धारणात्मकस्य महिम्नोऽस्मिन् ब्रह्मण्येवोपलब्धेः । यद्यत्र गौणं धारणमुच्यते, तर्हि तस्य संसारिध- १ अध्याये ३ पादः। २९ WA4- ममहिमा न स्यात् । विरुधद्धर्माश्रयत्वं तु ब्रह्मण्यनेकप्रमाणसिद्धत्वाद् भूषणतामावहति । अत एतादृशमहिम्नो जीवेऽसम्भवाद् दहरः परमात्मैव ॥ १६ ॥ प्रसिद्धेश्च ॥ १७ ॥ एतत्प्रकरणोक्तानामाकाशशब्दवाच्यत्वापहतपाप्मत्वादिनि- खिलधर्माणां ब्रह्मण्येव प्रसिद्धेब्रह्मैव दहरपदवाच्यं, न जीवः । विधिमुखेनाधिकरणसमाप्तिसूचकश्चकारः ॥ १७ ॥ इतरनिषेधद्वारा पुनर्विचारयति । ननु ब्रह्मस्वरूपं जीवस्वरूपं च श्रुत्येकसमधिगम्यमिति, यथा ब्रह्मणोऽसाधारणधर्मदर्शनादिदं प्रकरणं ब्रह्मण इति निीयत, तथात्र जीवस्यासाधारणधर्मदर्शनातू तस्यैवेदं प्रकरणमिति निश्चिते, यावान् वाऽयमाकाशस्तावानेषोऽन्त- हृदयमाकाश. इत्याकाशतुल्यत्वादयो धर्मा जीवस्यैव भविष्यन्तीति नास्मिन् प्रकरणे ब्रह्मप्रतिपादनमिति सूत्राद्धेनाशय समाधत्ते । इतरपरामर्शात् स इति चेन्नासम्भवात् ॥१८॥ इतरो जीवः, तस्य परामर्शाद् उपक्रमोपसंहारमध्येषु, अथ य एष सम्प्रसादोऽस्माच्छरीरात समुत्थाय परं ज्योतिरूपं सम्पद्य खन रूपेणाभिनिष्पद्यत इत्यादिवभिनिष्पत्तिकथनेन जीवस्यैव प- रामर्शात् स जीव एवात्र प्रतिपाद्यत इति चेन्न । जीवे जगदाधारत्वा- दिधर्माणामसम्भवात् । जीवपरामर्शस्त्वन्यार्थ इत्यग्रे वक्ष्यति । अतो दहरशब्दवाच्यो न जीवः ॥ १८ ॥ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥ उत्तरात् प्राजापत्यप्रकरणात् । तत्र मनोरूपदिव्यचक्षुधि प्र- तीयमानो जीव एवाऽमृताऽभयरूप उक्तः । तस्यैव जाग्रत्स्वप्नसुषु- प्तिसाक्षित्वमुक्त्वा सर्वत्र तस्याऽमृतरूपत्वं निरूपितमिति जीवेऽपि तादृशधर्मसम्भवादुत्तरप्रकरणानुरोधादत्रापि जीवो वाक्यार्थ इस्या- शङ्ख्याह । आविर्भूतस्वरूपस्तु । तुशब्देन पक्षं व्यावर्तयति । जीवे तादृशधर्मवत्त्वं न दूभ्यते, किंत्वधिकं किञ्चिदुच्यत इति नकारप्रयोगा- ऽभावः । जीवे यदा भगवदाविर्भावो भवति तदा ते धर्मा आविर्भव- Ad4H ब्रह्ममूत्रवृत्तौ । - न्ति, नतु सहजास्ते जीवे वर्तन्ते । अत उपदशावसरे भगवदाविर्भा- वन मर्वत्र भगवन्तं पश्यन् प्रजापतिरिन्द्रात्मन्यपि तथैवोक्तवान् । एवमन्यत्रापि जीवे भगवद्धर्मकथनं भगवदावेशप्रयुक्तमिति बोध्यम्। अतोन जीवो दहरः ॥ १९ ॥ ननु तादिमध्यावसानेषु जीवपरामर्शस्य किं प्रयोजनमि- त्याशङ्ख्याह। अन्यार्थश्च परामर्शः ॥ २० ॥ अन्य एवार्थः प्रयोजनं यस्य परामर्शस्य स तथा । एवं च खस्य ब्रह्मज्ञानेन ब्रह्मधर्मवत्त्वं भवतीति ज्ञाने सति ब्रह्मज्ञानार्थ प्रय. नो भवति, तेन ब्रह्मात्मकत्वं फलं च भवतीति बोधनार्थ जीवपरा. मर्श इत्यर्थः । चकारादेतादृशप्रयत्न भगवदाविर्भावो भवतीति सू. चितम् । अतो जीवपरामर्शदर्शनाज्जीवप्रतिपादनमत्रति न भ्रमि- तव्यम् ॥ २० ॥ ननु परामर्शवशेन प्रकरणोक्तधर्माणां जीव उपपत्त्या च न प्रकरणस्य जीवपरत्वं कल्प्यते, किन्तु प्रकरणोक्तधर्माणां ब्रह्मण्यनु- पपत्त्या जीवपरत्वकल्पनमिति सूत्रेणाशङ्य समाधत्ते । अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥ अल्पे पुण्डरीके अवस्थानश्रुतेर्ब्रह्मणो व्यापकत्वेन तत्रासम्भ- वाजीवस्य त्वाराग्रमात्रत्वेन तत्र सामञ्जस्याज्जीवोऽत्र निरूप्य इति चेत् । इदं तु पूर्वमुक्तं, निचाय्यत्वादेवं व्योमवच्चेत्यन । हृदयक- मले ब्रह्मणो निचाय्यत्वाद् द्रष्टुं शक्यत्वात् तदायतनत्वेन निरूप्यते इति तस्यार्थः । विरुद्धधर्माश्रयत्वं तु भूषणमेव । अतो दहरशब्दवा- च्यो भगवानेवेति सिद्धम् ॥ २१ ॥ दहराकाशेग्निवायुसूर्यादीनां वर्तमानत्वं दहरस्वरूपनिरूपणे उक्तमिति, तद्विरुद्धवाक्यमाशय परिहरति । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः, तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभातीति श्रूयते । तत्र यद्यप्यत्र ब्रह्मप्रक- रणादिदं वाक्यं ब्रह्मपरमिति ज्ञायते, तथापि दहरनिरूपणे सूर्यादीनां तन विद्यमानत्वमुक्तम् । तत्रैव चेत्तेषामभानं स्यात् तदा कुत्र भास- . .

१ अध्याये ३ पादः। ३१ न्त इति नास्मिन् वाक्ये ब्रह्मनिरूपणं, किन्तु सत्यलोकस्थितस्तेजो- विशेषः कश्चिदत्र निरूप्योऽस्ति यत्र सूर्यादीनामभानमिति प्राप्ते, उच्यते। अनुकृतेस्तस्य च ॥ २२ ॥ तमेव भान्तमनुभाति सर्वमित्यनेन सूर्यादिभानस्य भगवदनु- कृतिनिरूपणार्थत्वादस्मिन् वाक्ये ब्रह्मैव प्रतिपाद्यं, नार्थान्तरम् । न तत्र सूर्यो भातीत्यादिना तेषां स्वतो भानं निषिद्धयते । किञ्च, तस्य भासा सर्वमिदं विभातीत्यनेन सूर्यादीनां स्वतो भानं नास्तीत्यु. च्यते । सर्वोऽपि पदार्थो भगवद्भासनमनुकरोति सूर्य रश्मय इवेति । अत इदं ब्रह्मवाक्यमेव ॥ २२ ॥ उक्तेऽर्थे संमतिमाह । अपि स्मयते ॥ २३ ॥ न तद्भासयते सूर्य इति, यदादित्यगतं तेजो जगद्भासयतेऽ. खि ठम्, यच्चन्द्रमसि यच्चानौ तत्तेजो विद्धि मामकमिति च गीता- यां स्मर्यते । अपीति समुच्चयः । अतः सर्वावभासको भगवानव, तमव सर्वमनुकरोतीति निरूपणादिदं वाक्यं ब्रह्मपरमेवेति सि. द्धम् ॥ २३॥ पुनबांधकान्तरमाशङ्ख्य परिहरति । अङ्गुष्ठमात्रः पुरुषो मध्ये आत्मनि तिष्ठति, ईशानो भूतभव्यस्यति, अङ्गुष्ठमात्रः पुरुषो ज्योति- रिवाधूमक इति च श्रूयते । तत्र यावान् वा अयमाकाश इति दह- रपदवाच्यब्रह्मणो व्यापकत्वश्रवणादत्र चाङ्गुष्ठमात्रश्रवणेन विरोधा- लोकान्तरगमनयोग्यदेहयुक्त उपासनार्थमीशानत्वादिधर्मवान् जीव एवान प्रतिपाद्यो, न भगवानिति प्राप्ते, उच्यते । शब्दादेव प्रमितः ॥ २४ ॥ अत्रेशान इति शब्दादेवाङ्गुष्ठप्रमितो भगवानेवीच्यते। यथा द- हरवाक्ये सूक्ष्मस्यैव व्यापकत्वमुक्तं, तथाऽत्राङ्गुष्ठमात्रस्यैवेशा- नत्वमुक्तम् । नातादृशोऽन्यो भवितुमर्हति । अतोऽङ्गुष्ठमात्रो भगवा- निति सिद्धम् ॥ २४ ॥ , ब्रह्ममूत्रवृत्तौ । ।' . ननु श्रुती भगवतो माहात्म्याथै विरुद्धधर्माश्रयत्वमनेकरूप- त्वं चोच्यते । तत्र प्रादेशमात्रत्वं ध्यानार्थमुक्तम् । अङ्गुष्ठमात्रत्वस्य तु प्रयोजनं न पश्याम इत्याशङ्ख्याह । हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥ निष्प्रयोजनत्वव्यावर्तकस्तुः । प्रयोजनमाह । हृदि अङ्गुष्ठः मात्रं निरूप्यते । तत्र हेतुः । अपेक्षया, । ईश्वरः सर्वभूतानां हृद्देशे- ऽर्जुन तिष्ठनीति स्मृत्युक्तनियमनात्मकेश्वरकार्यापेक्षया । ननु प्रादे- शादिमात्रेणैव नियमनं भविष्यतीत्याशझ्याह । मनुष्याधिकारत्वात् । मनुष्याधिकारेणैव मृत्यूपाख्यानप्रवृत्तेर्मनुष्यहृदयास्याङ्गुष्ठमात्रत्वात तत्परिमाणमेवोक्तम् । अतोऽङ्गुष्ठमात्रोऽत्र परमात्मैवोच्यत इति सिद्धम् ॥ २५॥ ननु मनुष्यहृदयापेक्षया ब्रह्मणोऽङ्गुष्ठमात्रोक्तेर्ब्रह्मविद्यायां मनु- प्याणामेवाधिकारो, न देवादीनामित्याशङ्कायामाचार्यः स्वमतेन स- माधत्तं । तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥ तेषां मनुष्याणामुपरि विद्यमानानां साध्यादीनामपि ब्रह्म विद्यायामधिकारं बादरायणो मन्यते । कुतः ? तेषां सातिशयध मज्ञानजनितविशिष्टजन्मवत्त्वेन तादृशाधिकारस्य सम्भवात् । अत्र जैमिनिप्रभृतीनां विप्रतिपत्तेः स्वनामग्रहणम् । धर्मयुक्तनैवर्णिकेश्यो हीनानां तु वेदाध्ययनाभावादेवानधिकारः सिद्धः। तदुरितनानां तु, यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्या- णामिति श्रुत्या ब्रह्मज्ञानेन मोक्षश्रवणात् तेषामधिकारः सिद्धः ॥२६॥ ननु देवादीनामुत्तरकाण्डोक्तज्ञानाधिकारे स्वीक्रियमाणे पूर्व- काण्डोक्तवेदाध्ययनोपनयनयज्ञादिष्वप्यधिकारो वक्तव्यः। स तु तेषां ब्राह्मण्याभावाद् देशद्रव्याभावाद् देवतान्तराभावाच न सम्भवति । तदभावेऽपि यागादौ क्रियमाणे वेदविरोध इति सूत्रार्द्धनाशय परिहरति। विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥२७॥ .

१ अध्याये ३ पादः। नैवं वक्तुं शक्यते । श्रुती, साध्या वै देवाः सत्रमायन्नित्या- दिनाऽनेकानां प्रतिपत्तिः कर्मणि प्रवृत्तिः, तस्या दर्शनात् । एकशतं वर्षाणि प्रजापताविन्द्रो ब्रह्मचर्यमुवासेति श्रुत्या ज्ञानेऽपि प्रवृत्तिद- नादुपरितनानामपि ज्ञानकर्माधिकारः सिद्धः ॥२७॥ ननु देवादीनां कर्मकरणे विरोधाभावेऽपि शब्दे वैदिके विरो- धो भविष्यति । वेदार्थज्ञानानन्तरं हि कर्मकरणं सम्भवति । तत्र साध्यादीनां कर्मकरणं वेद एवोच्यते, तज्ज्ञात्वा साध्यादीनां कर्म- करणं विरुद्धम् । साध्यान्तरकल्पने त्वनवस्था स्यातू । सोऽग्निष्टोमेन वसुनयाजयदित्यत्रोत्पन्नानां वसूनां वृत्तान्तकथने तु नित्यानित्य- संयोगविरोधाद् वेदस्याप्यनित्यत्वं स्यादित्याशय परिहरति । शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानु- मानाभ्याम् ॥ २८ ॥ न, शब्दोक्तानां साध्यादिपदार्थानाम् अतः शब्दादेव प्रभवात् प्रकाशनात् । लौकिकघटादिपदार्थेभ्यो भगवदवयवभूताः सचिदान- न्दात्मका वैदिका घटादयः पदार्था भिन्ना एवाङ्गीकर्तव्याः। तत्प्रति- पादकत्वाद् वेदस्य न नित्यानित्यसंयोगः । तत्र प्रमाणमाह । प्रत्य- क्षानुमानाभ्याम् । इदानीमेव प्रत्यक्षं यजमानो यजमानकृत्यम् ऋ- त्विजोऽपि वकृत्यं वेदादेव जानन्ति । जमदग्नीनां पञ्चावत्तमित्यत्र तु स्वस्मिञ्जामदग्न्यत्वमनुमाय पुरोडाशादिषु पञ्चावत्तत्वं कुर्वन्ति । यजमानत्वं प्रत्यक्षगम्यं, जामदग्न्यत्वमनुमानगम्यम् । अतो वेदबो- धितभगवदवयवात्मकयजमानादीनां तत्तत्संस्कारैः स्वस्मिन्नावेशात तत्तत्कार्यकरणं युज्यते । अतोऽलौकिकपदार्थप्रतिपादकत्वाद् वैदि- कशब्दे न विरोध इति सिद्धम् ॥ २८ ॥ विशेषोपपत्ति पूर्वोक्तस्योपष्टम्भिकामाह । अत एव च नित्यत्वम् ॥ २९ ॥ अत आधिदैविकपदार्थप्रतिपादकत्वादेव वेदस्य लौकिकप्रप- चवलक्षण्येन नित्यत्वं शेयम् । चकाराच्छब्दब्रह्मवेदपुरुषादिशब्दवाच्य- त्वं च क्षेयम् । अत आधिदैविकपदार्थनिरूपकत्वादु वेदस्य नित्यत्वं सिद्धम् ॥ २९॥ ५ ३४ ब्रह्मसूत्रवृत्तौ। ननु वेदवाच्यानामाधिदैविकघटादीनामतीन्द्रियत्वेन व्यव- हारविषयत्वाभावाद वैदिकपदार्थेषु शक्तिग्रहार्थ लौकिकपदार्थोऽपे- क्षितः । लौकिकप्रपञ्चस्य वैदिकप्रपञ्चानुकारित्वात् । तथा सति लो. किकप्रपञ्चस्य सृष्टिप्रलयसत्त्वात् तथैव नित्यानित्यसंयोगदोषप्राप्ति- रित्याशङ्याह । समाननामरूपत्वादावृत्तावप्यविरोधो दर्श- नात् स्मृतेश्च ॥ ३०॥ यद्यपि लौकिकप्रपञ्चस्यापि ब्रह्मात्मकत्वात् तस्याप्यांविर्भाव- तिरोभावावेव, नाशोत्पत्तिप्रतीतिर्धान्तस्तथापि लौकिकप्रतीत्यनुसा- रेणावृत्तावप्युत्पत्तिप्रलयसत्वेऽपि समाननामरूपत्वात् प्रलये ब्रह्मणि लीनस्य घटादिपदार्थस्य सृष्टिकाले तथैव नामरूपविशिष्टस्योद्गमाद् भेदकान्तराभावाजलप्रवाहवन्नित्यत्वेन प्रतीतेन नित्यानित्यसंयोगा- मको विरोधः । कुतः१ दर्शनात् । वेदपितृमातृस्त्रीशरीरगङ्गादिषु त. देवेदमितिव्यवहारदर्शनातू, सूर्याचन्द्रमसौ धाता यथापूर्वमकल्प. यदित्यादिश्रुतिदर्शनाच्च । प्रजाः सृज यथापूर्व याश्च मय्यनुशेरते इत्यादिस्मृतेश्च । ऋषीणां पूर्वचरितस्मरणात्मकसम्मृतश्च । अतो न शब्द कोऽपि विरोधः ॥३०॥ अर्थबलविचारेण पूर्वपक्षमाह । मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ ३१ ॥ ननु, असो वा आदित्यो देवमध्वित्यादिनोक्तमधुविद्यायां सू- यस्य देवमधुत्वेनोपासनोक्तेस्तदुपासनायां सूर्यस्य कर्तृत्वासम्भवा. देवं देवतान्तरोपासनास्वपि तत्तदेवानां कर्तृत्वासम्भवात् सर्वत्र झाने कर्मणि च देवानामनधिकार इति जैमिनिराचार्यों मन्यते ॥३१॥ ज्योतिषि भावाच ॥ ३२ ॥ ज्योतिश्चक्रे नक्षत्रादिरूपेण भोगकरणदर्शनाद्, अग्निः पुच्छ- स्य प्रथम काण्डमित्यादिश्रुतेश्च तेषां प्राप्तश्वर्याणां सर्वोपास्यानां मानकर्मणोरुपयोगाभावान्नाधिकारो देवानामिति प्राप्ते ॥ ३२ ॥ बादरायणः स्वमतेन सिद्धान्तमाह ।

१ अध्याये ३ पादः। ३५ भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥ पूर्वपक्षव्यावर्तनाथै तुः। भावं देवानां ज्ञानकर्माधिकारसद्भावं बादरायण आचार्यों मन्यते । किमलौकिकज्ञानेनाधिकारं मनुते ? । तहलौकिकशानं जैमिनेरप्यस्तीति तुल्यबलत्वाद् विकल्पापत्तिरि- त्याशङ्याह । अस्ति हि । देवा वै सत्रमासतेत्यादिभिः, तद्यो दे- वानां प्रत्यबुध्यत स एव तदभवदित्यादिभिश्च श्रुतिभिर्देवानामपि बानकर्माधिकारोऽस्ति । हि युक्तोऽयमर्थः। यत्र मध्वादिविद्यासु सू- यादिदेवानामुपास्यत्वं दृश्यते, ते देवा भगवदवयत्रभूता आधिदैवि- का भिन्ना एवातस्तेषामुपासनमाधिभौतिकानामेतत्सूर्यादीनां युक्त- मेवेतिभावः । नच पूर्वकल्पीया वखादय एनत्कल्पीयवस्त्रादीनामु. पास्या इति वाच्यम् । तेषामनित्यत्वेनानुपास्यत्वात् तेषामुपास्यत्व- बोधकवेदस्यानित्यत्वप्रसङ्गाश्च । अतो भगवदवयवात्मकाधिदेवा- नामुपास्यत्वबोधकदेवानामप्यधिकारोऽस्तीति सिद्धम् ॥ ३३ ॥ प्रसङ्गाच्छ्द्रस्याधिकारमाशङ्ख्य परिहरति । छान्दोग्ये, अह हारे त्वा शूद्र तवैव सह गोभिरस्त्विति शूद्रानेन मुखेनालापयिष्यथा इति च जानश्रुति शूद्रत्वेन सम्बोध्य रयिकः संवर्गविद्यामुक्तवान् । अतो यथा, एतया निषादस्थपतिं याजयेत, हविष्कृदाधावेति शूद्रस्येनि लिङ्गात् कर्मविशेषे शूद्रस्याधिकार एवमिहापि संवर्गविद्यायां शूद्र- स्याधिकार इत्याशय परिहरति । शुगस्य तदनादरश्रवणात् तदाद्रवणात् सृच्यते हि ॥ ३४ ॥ अस्य जानश्रुतेः, तदनादरश्रवणात, कंवर एनमेतत् सन्तर सयुग्वानमिव रयिकमात्थेति, तस्माद् हंसादनादरश्रवणात् शुक् शोको जातः । तेन किं जातमित्याकाङ्क्षायामाह । तदाद्रवणात तत् तदनन्तरम् आद्रवणाच्छ्रद्रत्वं जातमित्यर्थः । शुचमनु आद्रवतीति शूद्रः। पृषोदरादित्वात् सिद्धः। ननु योगापेक्षया प्रबलत्वाद् रूढेर्जा- तिशूद्रवाचकत्वं कुतो न भवतीत्यत आह । सूच्यते हि । क्षत्रिय प्रति परोक्षवादेन शूद्रसम्बोधनेन हंसवाक्यजनितशोकवत्त्वसूचनात् तवृत्तान्ताभिशत्वेन स्वस्य सर्वशत्वं सूच्यते । ब्रह्मविदां सर्वज्ञत्वं ब्रह्मसूत्रवृत्तौ । युक्तमिति हि शब्दार्थः। अतः शुचं प्रत्याद्रवणाज्जानश्रुति प्रति शूद्रे ति सम्बोधनं न जातिशूद्रत्वेन ॥३४॥ ननु जानश्रुतेजातिशूद्रत्वाभावे किं नियामकमत आह । क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥३५॥ जानश्रुतेगोनिस्करथकन्यादिपदार्थानां रयिकाय दानात् क्ष- त्रियत्वमवगम्यते । नहि क्षत्रियादन्यो ब्राह्मणायैतदातुमर्हति । च- काराद् विद्योपदेशोऽप्यन्यस्य न सम्भवतीति । ननु गवादिपदार्था- नामन्यस्यापि वदान्यस्य धनवतो दानसम्भवान्नेदमेकान्ततः क्षत्रि- यत्वसाधकमित्याशङ्ख्याह । उत्तरत्र चैत्ररथेन लिङ्गात् । उत्तरत्र संवर्गविद्योपासने, अथाह शौनकं च कापेयमभिप्रतारिणं च काक्ष- सेनिमिति क्षत्रियब्राह्मणावुक्तौ । अतोऽत्रापि क्षत्रियब्राह्मणावेव युक्ती, न शूद्रब्राह्मणौ । कक्षा चित्रा सेना यस्य स कक्षसेनः । तस्यापस्य काक्षसेनिः । स एव सूत्रे चैत्ररथशब्देनोक्तः । चित्रा रथा यस्य स चित्ररथः, तस्यापत्यं चैत्ररथ इत्यर्थात् । चैत्ररथस्याभिप्रतारिणः क्ष त्रियत्वं तु, एतेन वै चित्ररथं कापेया अयाजयन्निति श्रुत्यन्तराद् बोध्यम् । शौनक कापेयो याजकः । याज्यश्च चित्ररथः क्षत्रियः। नहि शूद्रो याज्यो भवति । तत्पुनश्च काक्षसेनिरभिप्रतारी । अत उत्तरब्राह्मणक्षत्रियो गुरुशिष्यौ संवर्गविद्यायामुक्तौ।अतोऽत्रापि तथैव भवितुमर्हतीति न जातिशुद्रस्य संवर्गविद्यायामप्यधिकारः ॥ ३५ ॥ किश्च। संस्कारपरामर्शात् तदभावाभिलापाच्च ॥ ३६॥ कापि विद्यायां शूद्रस्याधिकारश्चेत् संवर्गविद्यायामधिकारः कल्प्येत । सर्वत्र विद्योपदेशे उपनयनाख्यः संस्कारः परामृश्यते । तं होपनिन्ये, अधीहिं भगव इति होपससाद, तान् नुहानुपनीयेत्या- दिवाक्येषु विद्याप्रदानमुपनयनपूर्वकं दृश्यते । शूद्रस्य तु तदभावा- भिलापात संस्काराभावकथनाचतुर्थ एकजातिः शुद्र इति, न शूद्रे पातकं किञ्चिन्न च संस्कारमहतीत्यादिवाक्येभ्यः । न शुद्राय मति दद्यादिति निषेधोऽपि चकारेण समुचीयते ॥ ३९ ॥ किञ्च।

१ अध्याये ३ पादः।
:
तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥
सत्यकामो ह वै जाबाल इति वाक्ये गौतमस्य सत्यकामवचनं
श्रुत्वा, नैतदब्राह्मणो विवक्तुमर्हतीति शूद्राभावनिर्धारणे सति, च-
काराद् वर्णित्वनिर्धारणे सत्युपनयनार्थ प्रवृत्तेः । अतो न जातिशूद्र-
स्य कापि विद्यायामधिकारः ॥ ३७॥
अथ विद्याधिकारचिन्ता दूरे, वेदश्रवणादीनामेव निषिद्ध-
स्वादित्याह ।
श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥ ३८ ॥
अथास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूणमिति । पधु
घा एतच्छनशातं यच्छूद्रस्तस्माच्छूद्रसामीप्ये नाध्येतव्यमिति । उ-
दाहरणे जिह्वाच्छेदो धारणे शरीरभेद इत्यादिना वेदश्रवणम् अध्य-
यनम् अर्थशानमेतत्त्रयमपि.तस्य प्रतिषिद्धम् । इदं, वेदाक्षरविचारण
शूद्रः पतति तत्क्षणादिति स्मृतेरपि सम्मतमित्याह । स्मृतेश्च । अ-
धिकरणसम्पूर्णताबोधकश्चः । स्मार्ते शाने पौराणिके च सच्छूद्रा-
णामधिकारो, नतु कर्मजातिशूद्राणाम्। अतः क्वचिदपि वैदिकविषये
न शूद्राधिकार इति सिद्धम् ॥ ३८॥
प्रासङ्गिक परिहत्य प्रकृतं समन्वयोपयोगिविचारमारभते ।
कठवल्ल्यां श्रूयते । यदिदं किञ्च जगत्सर्व प्राण एजति निःसृतं म-
हद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्तीति । तत्र प्राणशब्दा-
द् वज्रोधमनशब्दाच्च किमत्र प्राणोपासना, इन्द्रोपासना वा प्रतिपा-
चते ? उत ब्रह्मप्रकरणत्वाद् ब्रह्मोपासना वेतिं ? विशये, बलवद्-
बाधकश्रवणात् प्रकरणस्य दुर्बलत्वात् प्राणा एवानोपास्याः । प्रा-
णशब्दस्य च प्रत्यक्षत. उपलभ्यमानत्वात् । अमृतं वै प्राणा इति
श्रुतेरमृतप्राप्तिरपि प्राणोपासकस्य युक्ता । वज्रमुद्यतमित्यपि वियो-
गेन मरणजननेन प्राणानां भयरूपत्वाद् युक्तम् । अथवा इन्द्रोऽत्रो-
पास्यः। वज्रमुद्यतमित्यस्येन्द्रपक्षे सामञ्जस्यात । प्राणशब्दवाच्य-
स्वमपीन्द्रस्य बलाधिष्ठातृत्वाद् युज्यते । अत इन्द्र एवान वाक्या-
थों, न ब्रह्मेति प्राप्ते, उच्यते ।
कम्पनात् ॥ ३९ ॥

३८ ब्रह्मसूत्रवृत्तौ। प्राण एजतीत्यस्मिन् वाक्ये कम्पनं प्रतीयते । एज कम्पने इति धात्वर्थात् । तच्च भगवतः सर्वजगद्भयजनकत्वेन कम्पजननाद भगवद्धतुकमेव भवितुमर्हति, न प्राणहेतुकमिन्द्रहेतुकं वा । वज्रोद्य. मनमपि भगवतः सम्भवति । सर्वकर्तृत्वात् सर्वायुधत्वाच । 'नन्वेष वज्रस्तत्र शक ! तेजसा हरेर्दधीचे स्तपसा च तेजित' इति वाक्येन बजे विशेषतो भगवत्सम्बन्धकथनाच । अतो भगवत एव मारक रूपमनोच्यते । तस्मात् कम्पनाखेतोर्ब्रह्मैवात्र वाक्यार्थः । प्राणशद. धाच्यत्वं तु ब्रह्मणो व्युत्पादितमेव ॥ ३९ ॥ य एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरमि- सम्पद्य स्वेन करेणाभिनिष्पद्यत इति श्रूयते । तत्र परज्योतिःशब्द. घाच्यं महाभूतात्मकं ज्योतिर्ब्रह्म वेति संशये, ज्योतिःपदस्य कल्या भौतिकतेजोवाचकत्वात् तद्वाचफमेवात्र ज्योतिःपद मिति प्राप्तेभि- धीयते । ज्योतिर्दर्शनात् ॥ ४० ॥ ज्योतिःशब्दं ब्रह्मैव । कुतः १ दर्शनात, न्यायादित्यर्थः । सु. धुप्त्यवस्थायां सता सौम्य तदा सम्पन्नो भवति सति सम्पद्य न वि- दुः सति सम्पद्यामह इति, अहरहर्ब्रह्मलोकं गच्छन्तीत्यादिषुसर्वत्र ब्रह्मसम्पत्तिरुक्ता । तन्न्यायादत्रापि सम्प्रसादशब्देन सुषुप्तिकथनात् परज्योतिःसम्पत्तिर्ब्रह्मप्राप्तिरेवेति ज्योतिःशब्देन ब्रह्मैवाच्यते, न भौ- तिकं तेजः। अतो यः कश्चन शब्दो ब्रह्मधर्मबोधकशब्दैः सह पठितः स ब्रह्मवाचक एवेति बोध्यम् ॥ ४० ॥ आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तब्रह्मेति श्रूय. ते । तत्राकाशशब्देन सढ्या भूनाकाशो वा, प्रकरणाद् ब्रह्म वेति सन्देहे भूताकाश एवात्र ग्राह्यो रूढेर्बलीयस्त्वात् । भूनाफाशस्या- प्यवकाशदानान्नामरूपनिर्वाहकत्वं युज्यते । अतो भूताकाश एवात्र प्रतिपाद्य इति प्राप्तेऽभिधीयते । आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥ आकाशः परमात्मैव । कुतः ? भूताकाशस्य श्रुतिसिद्धं यत् प्रयोजनं तस्माद् अर्थान्तरस्य प्रयोजनान्तरस्य व्यपदेशात् कथना-

१ अध्याये ३ पादः।
दित्यर्थः । अवकाशदानेन नामरूपनिवाहकत्वं न महात्म्यप्रतिपादक-
म् । अत्र तु, वै इति निश्चयवाचकपदकथनान्माहात्म्यरूपं नामरूप-
निर्वाहकत्वमुक्तम् । तद्ब्रह्मण एव भवतीत्याकाशशब्दवाच्यं ब्रह्मैवान ।
एवमन्यत्राप्यतदीया उत्कृष्टधर्मा यत्राम्नातास्तद् ब्रह्मैव भवतीति
शेयम् । नामरूपनिर्वाहकत्वरूपब्रह्मधर्मस्थान्यत्रानुक्तस्य कथनार्थीम-
दमधिकरणम् । अतोऽत्राकाशः परमात्मेति सिद्धम् ॥ ४१ ॥
बृहदारण्यके ज्योतिर्ब्राह्मणे, याचवल्क्य ! किं ज्योतिरयं पुरुष
इत्यारण्य, अभयः ह वै ब्रह्म भवति य एवं वेदेत्यन्तं श्रूयते । तनेदं
जीवस्य ब्रह्मत्वप्रतिपादनेन जीववाक्यम्, आहोस्विद् ब्रह्मणो शेयत्व-
प्रतिपादनेन ब्रह्मवाक्यमिति संशये, आपाततोऽत्र जीवस्य ब्रह्मभाव-
प्रतिपादनादन्यप्रतीतेर्जीववाक्यमेवेदमिति प्राप्तेऽभिधीयते ।
सषप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
व्यपदेशादित्यनुषज्ज्यते । तथाच सुषुप्तिनिरूपणे उत्क्रान्ति-
निरूपेण च जीवब्रह्मणो देन व्यपदेशात् कथना ब्रह्मण एव चय-
त्वेन निरूपणेन ब्रह्मवाक्यमेवेदमिति युक्तम् ॥ ४२ ॥
किश्च ॥
पत्यादिशब्देभ्यः ॥ ४३ ॥
सर्वस्य वशीत्यादिभ्यः शब्देश्यः स्पष्टमेवेदं प्रकरणं ब्रह्मण
इति निश्चीयते । अतोऽत्र ब्रह्मैव प्रकरणार्थ इति सिद्धम् ॥४३ ॥
इति श्रीब्रह्मसूत्रवृत्तौ मरीचिकाख्यायां प्रथमाध्यायस्य
तृतीयः पादः॥३॥

ब्रह्मसूत्रत्तौ। प्रथमाध्यायस्य चतुर्थः पादः । . एवं सकलवेदान्तानां ब्रह्मणि समन्वये प्रतिपादिते, केषां चिद् वेदार्थाविदुषां कचिद् वेदे सांख्यमतानुसारिशब्ददर्शनात् तन्मत- मपि वेदमूलकमेवेत्याशङ्का स्यात, तनिवारणं चतुर्थपादे क्रियते । तत्रेक्षत्यधिकरणे सांख्यमतमशब्दमित्युक्त्या निराकृतं, तद्वेदे प्रतिपादि- तमित्याशय निराकरोति । आनुमानिकमप्येकेषामिति चेन्न शरीररूपक- विन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥ एकेषां कठशाखासु, इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः,मनसस्तु परा बुद्धिर्बुद्धरात्मा महान् परः, महतः परमव्यक्तम- व्यक्तात् पुरुषः परः,पुरुषान्न परं किञ्चित् साकाष्ठासा परा गतिरित्या- नुमानिकं सांख्यमतसिद्धं प्रकृत्यादिकं श्रूयते। बुद्धः सकाशादात्मा अ. हङ्कारः परः । ततो महान् महत्तत्त्वम् । ततोऽव्यक्तं प्रकृतिः । ततः पुरुषः पर इति श्रुतेरर्थः । अतोऽहङ्कारादिपदार्थानां सांख्यमतसि- खानां श्रुतौ दर्शनात् सांख्यमतमपि श्रौतं भवितुमर्हतीति चेद्, नैवं शब्दसादृश्येन तन्मतस्य वैदिकत्वसिद्धिर्वक्तुं शक्या। तेषां शब्दानां प्रकृते भिन्नार्थकत्वात् । सन्दिग्धपदानां पूर्वापरानुसारेणार्थः कर्त- व्यः। पूर्व तु, आत्मानं रथिनं विद्धि शरीरं रथमेव तु, बुद्धिं तु सा- रथिं विद्धि मनः प्रग्रहमेव च, इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोच. रान्, आत्मन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण इत्युक्तमतस्तदनुसारे णैवास्यार्थ उचितः । तदेवाह । शरीररूपकविन्यस्तगृहीतेः । शरीरस- म्बन्धिन इन्द्रियादयो रथादिषु रूपकभावेन पूर्वम्, आत्मानं रथिनं विद्धीत्यादौ विन्यस्ताः । तेषामेवात्र गृहीतेः ग्रहणात् । तत्र जीव- स्य ब्रह्मप्राप्तौ मुख्यं साधनं शरीरं रथत्वेन रूपितम् । तन्निर्वाहका- णीन्द्रियाणि हयाः । तन्नियामक प्रग्रहो रश्मिः, स च सूताधीनः। तद्वतिस्तु मार्गाधीना । मार्गस्तु प्राप्याधीन इति । एवं सम्यग ज्ञात्वा १ अध्याये ४ पादः। प्राप्यदेशं प्राप्नोतीति पूर्वमुक्तम् । तेषामेवात्र ग्रहणं युक्तम् । तत्रेन्द्रि- याणां नियामका विषयाः । तेषां तदधीनत्वात् । विषयाणां सम्य- क्त्वेन मनसा भावनादू, मनसाऽभावितविषयाणामिन्द्रियाकर्षकत्वा- भावाद् विषयेभ्यः परं मनः । बुद्धेर्मनोनियामकत्वात् ततः परत्वम् । बुद्धेः सकाशादात्मा विज्ञानं ब्रह्मविषयकत्वान्महत् तत्परम् । म हतो विज्ञानातू परमव्यक्तं, न व्यक्तम् अप्रकटं भगवत्कृपा तस्या भगवदधीनत्वात् । तत उत्कृष्टः पुरुषो भगवानेवेति पूर्ववाक्यस- म्बद्ध एवार्थः । एषु सर्वेषु भूतेषु गूढोत्मा न प्रकाशते, हश्यते त्व. ग्न्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिरिति स्वयं दर्शयति । सूक्ष्मया उपनिषदनुसारिण्या बुद्ध्या भगवान् दृश्यते प्राप्यत इत्यर्थः । च- कारण, ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरमिति स्मृतेर्ग्रह- णम् । अतो ब्रह्मप्राप्तिसाधनबोधकमिदं वाक्यं, न सांख्यमतसिद्ध- पदार्थबोधकम् ॥ १॥ नन्वत्रेन्द्रियादिरूपधर्मिप्रवाहाद्धर्मरूपा भगवत्कृपाऽव्यक्तश- देन प्रहीतुमयुक्तेत्याशङ्कयाह । सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥ तुः पूर्वपक्षनिरासे । सूक्ष्म तद् ब्रह्मैव, अव्यक्तमपि तदेव । धर्मधर्मिणोरभेदाद् भगवत्कृपापि सूक्ष्मशब्देनोच्यते । कुतः ? अ. ईत्वात् सूक्ष्मत्वाद् अव्यक्तशब्देन वक्तुं योग्यत्वात् । अतोऽत्र भगव- कृपैवाव्यक्तशब्दवाच्या ॥२॥ नन्वव्यक्त शब्दवाच्यभगवत्कृपाया भगवद्रूपत्वे पुरुषस्य ततः परत्वमनुपपन्नम् । नोकस्मिन्नेव परापरभावो भवति । धर्मरूपत्वे तु धर्मिप्रवाहपाठानुपपत्तिरित्याशङ्ख्याह । तद्धीनत्वादर्थवत् ॥ ३ ॥ धर्मधर्मिणोरभेदेऽपि कृपायास्तदधीनत्वाद् भगवतस्ततः परत्वं युज्यते । ननूक्तमेकस्मिन् परापरभावानुपपत्तिरित्याशय दृष्टान्तेन समाधत्ते । अर्थवत् । अर्थः पुरुषार्थः फलं, तद्वत् । यथा, ब्रह्मवि- दानोति परमितिवाक्ये एकस्यैव ब्रह्मणः सचिद्रूपेण साधनीभूत- ४२ ब्रह्मसूत्रवृत्तौ । ज्ञानविषयत्वं. तस्यैवानन्दरूपेण फलत्वमुक्तम् । तथात्रापि कृपा. विष्टः साधनम. आनन्दरूपः फसमिति नोक्तदोषावकाशः । यद्वा भव्यक्तशब्देनाक्षरं ब्रह्म । महान् आत्मविषयकं विज्ञानम् । तस्य विषयाधीनत्वादक्षरब्रह्मणस्ततः परत्वम् । अत, इन्द्रियेभ्यः परा ही इति वाक्ये सांख्यमतसिद्धः कोऽपि पदार्थों नास्तीति, म त. न्मतं श्रुतिमूलकमित्यर्थः ॥ ३॥ ज्ञेयत्वावचनाच ॥ ४ ॥ सांख्यवादिनां प्रकृतिपुरुषान्तरं शेयत्वेनोक्तम् । अस्मिन् वाक्ये त्वव्यक्तादयः पदार्था एवोक्ता, न तु तेषां झेयत्वमुक्तम् । नहि पदार्थनिर्देशमात्रेण सांख्यमते पुरुषार्थः सिद्ध्यति । चकारातू तेषां मते प्रकृतिपुरुषयोः संश्लिष्टत्वम्, अत्र तु परापरभाव उक्त इत्यपि वैलक्षण्यं सूचितम् । अतः, पूर्वापरविचारेण पूर्वमर्थ उक्तः । अ- स्मिन् सूत्रे त्वेतद्वाक्यार्थमात्रविचारेणापि सांख्याभिमतोऽयों न सिद्धयतीत्युक्तम् ॥ ४॥ ननु ज्ञेयत्वमप्यत्रोच्यते । इन्द्रियेभ्यः परा ह्या इत्यस्मिन् वाक्ये पदार्थनिर्देशमा कृत्वाऽने, अशब्दमस्पर्शमरूपमव्ययं तथा- ऽरसं नित्यमगन्धवश्च यत्, अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात प्रमुच्यत इत्यनेन निचाय्य तं मृत्युमुखात् प्रमुच्यत इति कथनाज्ञयत्वं वदतीत्याशङ्य परिहरति । वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ प्रकरणं हि वाक्याथै नियामकं, तश्च परमात्मन एव । अतोऽ- स्मिन्नपि वाक्ये प्राक्षः परमात्मैव निचाय्यो, नतु प्रधानम् । अत: प्र- करणस्य नियामकत्वादशब्दमित्यपि वाक्यं ब्रह्मवाक्यमेव ॥५॥ ननु नात्र सर्वमेकं प्रकरणम्, अपि विन्द्रियेभ्यः परा हा इत्यारभ्य नाचिकेतमुपाख्यानमित्यन्तं प्रकृतिपुरुषनिरूपकं भिन्नमेव प्रकरणम् । तनेन्द्रियेभ्यः परा इति वाक्ये पदार्थनिर्देशः । एष सर्वेषु भूताध्वति वाक्ये पुरुषनिरूपणम् । अशब्दमिति तु प्रकृतिनिरूपणम् । अत एतावत प्रकरणं सांख्यमननिरूपकमस्त्वित्याशङ्याह ।

१ अध्याये ४ पादः। ४३ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥ अत्र कठवल्लयां, स त्वमग्निं स्वर्यमध्येऽपि मृत्यो प्रबृहीत्यादिना प्रथममग्निप्रश्नः प्र ते ब्रवीमीत्यादिना तदुत्तरम् । ये यं प्रेते विचिकि. त्सा मनुष्य इति जीवविषयको द्वितीयः प्रश्नः । देवैरत्रापीत्यादिनो- तरम् । अन्यत्र धर्मादन्यत्राधर्मादिति ब्रह्मविषयकस्तृतीयः प्रश्नः । सर्वे वेदा यत्पदमामनन्तीत्यादिनोत्तरनिरूपणम् । एवं त्रयाणामग्नि- जीवब्रह्मणामुपन्यासः कथन, तेषामेव प्रश्नश्च । कथने प्रश्नस्य हेतुत्व- सुचनार्थ सुत्रे प्रश्नस्य पश्चानिर्देशः । यद्यत्र सांख्यमतमपि निरूप. णीयं स्यात् तदा चतुर्थस्याप्युपन्यासः प्रश्नश्च स्यादनः प्रकरणा- नुरोधात प्राचस्य ब्रह्मण एवात्न निरूपणं, न मतान्तरीयपदार्थस्येति शेयम् ॥ ६ ॥ ननु सांख्यमतेऽन्यवाचकानां पदानां प्रकृते ब्रह्मवाचकत्वे प्रमाणाभाव इत्याशड्याह । महहच्च ॥ ७ ॥ महान्तं विभुमात्मानं, वेदाहमेतं पुरुषं महान्तमित्यादौ यथा महच्छब्दो यौगिकः सन् ब्रह्मवाचकः । एवमव्यक्तशब्दोऽप्यनाक्षरवा- चकः ।। नहि वेदान्तेषु, प्रथमकार्यरूपं महत्तत्त्वं महच्छब्देन वक्तुं शक्यते । तस्यैवाखीकारात् । अत, इन्द्रियेभ्यः परा ह्या इति वाक्ये साङ्ख्यपदार्थगन्धोऽपि नास्तीनि, न तन्मतस्य वेदमूलकत्वमिति सि- दम् । अधिकरणसमाप्तिबोधकश्चः ॥७॥ श्रुत्यन्तरे पुनराशय परिहरति । ननु पूर्ववाक्ये प्रकरणात पदानामन्योऽर्थ उक्तः । यद्वाक्यं प्रकरणापेक्षारहितं, तदेव सावन्य- मतमूलं भविष्यति । अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृज- माना सरूपाः, अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभो- गामजोऽन्यः। देवात्मशक्तिं स्वगुणैर्निगूढामिति । ज्ञाशो द्वावजावीशा- नीशी । अजा ह्येका भोक्तृभोग्यार्थयुक्ता । ऋषि प्रसूतं कपिलं यस्तमने ज्ञानैर्बिभर्ति जायमानं च पश्येदित्यादि श्वेताश्वतरोपनिष- दि । अन्यत्र च कपिलप्रशंसकानि तन्मतीयपदार्थनिरूपकाणि च वाक्यानि वर्तन्त इति कापिलमतस्यापि वेदमूलकत्वमित्याशय 4 रिहरति ।

ब्रह्मसूत्रवृत्तौ । चमसवदविशेषात् ॥ ८॥ यथा, अर्वाम्बिलश्चमस ऊर्ध्वबुध्रस्तस्मिन् यथो निहितं विश्व- रूपम्, तस्यासते ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति मन्त्रे कर्मविशेष कल्पयित्वा तत्राम्बिलचमसं कल्पयित्वा तस्मिन यशोरूपं सोमं सप्त होतारो मन्त्रेण भक्षयेयुरिति विशेषः कल्पयितुं न शक्यते । किन्तु मन्त्रान्तरेण व्याख्यात एवार्थों बुद्ध्यते । तथा:- प्रापि लोहितशुक्लकृष्णशब्देन सत्त्वरजस्तमांसि कल्पयित्वा तदनुसा. रेण सर्व कापिलमतं वैदिकमिति न कल्पयितुं शक्यते । कपिलर्षि- स्तावकवाक्यस्यापि नित्यभगवदात्मकाधिदैविककपिलस्तावकत्वान्न दोषः । अन्यथा नित्यानित्यसंयोगविरोधदोषः स्यात् । अतो मन्त्र- मात्रेण प्रकरणादिकमनपेक्ष्य न विशेषः कल्पयितुं शक्यते ॥ ८ ॥ ननु, अर्वाम्बिसश्चमस इति मन्त्रस्य मन्त्रान्तरे व्याख्यानम- स्ति । शिरश्चमसः प्राणा वै यशःप्राणा वा ऋषय इति । न त्वजाम- न्त्रस्य तथा व्याख्यानमस्तीत्याशझ्याह । ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॥ ९ ॥ तुः पक्षव्यावर्तकः । अजाशब्देन ज्योतिरत्रोच्यते । भगवतः प्रथमोत्पन्ना ज्योतीरूपा देवता अजाशब्देनोच्यते । यथा साल्पदो- ग्ध्री तथेयमप्युपासितापसुखदात्रीति झापनायाजापदप्रयोगः। कुतः ? उपक्रमात् तदेवाग्निस्तद्वायुस्तदादित्यस्तदु चन्द्रमा इति ज्यो- तिषोपक्रमात् । द्वा सुपर्णेति वाक्यमने उक्तम्। मध्यपठितोऽयं मन्त्र पूर्वोत्तरसम्बन्धमेवार्थ वक्ति । जीवब्रह्मरूपमजद्वयमुक्तम् । अस्मिन् प्रकरणेऽयमों न स्पष्ट इति श्रुत्यन्तरसम्मतिं दर्शयति । तथाही- त्यादि । तथाहि, यदग्ने रोहित रूपं तेजसस्तद्रूपं यच्छुक्लं तदा यत्कृष्णं तदन्नस्येति श्रुत्यन्तरे स्पष्टमेवैकेधीयते । अतस्त्रिवृत्कृत- तेजसो रोहितशुक्लकृष्णत्वं युक्तम् । अतश्चमसवाक्यवदनापि श्रुत्य . न्तरेणार्थविशेषोक्तरिदं वाक्यं न.साङ्ख्यमतस्य मूलम् ॥ ९ ॥ ननु योगरूढिभेदेन शब्दप्रवृत्तेद्वैविध्यात, प्रथमकार्यात्मक- ज्योतिषि, न जायत इत्यजेति योगासम्भवाद रूढेश्छान्दोग्याप्रसिद्ध- त्वात् कथमजाशब्दस्य प्रथमकार्यवाचकत्वमित्याशङ्याह । ।

१ अध्याये ४ पादः। कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥ यथाजा वर्करसहिता सवस्त्रा च स्वामिहितं करोति दुग्धा- दिना, तथेयमप्युपासिता हितं करोतीति ज्ञापनायाजाकल्पताया उ- पदेशान्न पूर्वपक्षे उक्तो विरोधः । चकाराद् देवानां परोक्षप्रियत्वात परोक्षवादोऽयमिति सूचितम् । मध्वादिवत् । यथा, आदित्यो वै दे- वमधु, वाचं धेनुमुपासीत, धुप्रभृतीनामग्नित्वं पञ्चाग्निविद्योक्तम् । तथात्रापि कथनान्न दोषः । अतोऽजाशब्दमात्रान्न साङ्ख्यमतस्य वेदमूलकत्वमिति सिद्धम् ॥ १० ॥ ननु, यस्मिन् पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः, तमेवमन्य आत्मानं विद्वान ब्रह्माऽमृतोऽमृतम् इति बृहदारण्यकोक्तमन्ने पञ्च- पञ्चेतिसङ्खन्याश्रवणात् साङ्घन्यमतस्य सम्भवति वेदमूलकत्वमित्या- शङ्ख्य परिहरति । न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥११॥ यद्यप्यन पञ्चपञ्चेत्यनेन पञ्चानां पञ्चगुणत्वमुच्यते । पञ्चश- ब्दस्य सङ्ख्यावावित्वे पञ्चसङ्घयायाः पञ्चसङ्खचेत्यर्थकथने स- सन्यायां सङ्ख्याभावेनानन्वयात षष्ठीसमासानुपपत्तेः पूर्वपञ्चशब्द. स्य सङ्खयेयपरत्वे द्वितीयस्य सङ्खन्यापरत्वे पञ्चसङ्खयेयानां पञ्चस- वन्यत्यर्थात् पञ्चपदार्थानामेव बोधात् समीहितासिद्धेश्च । अतोऽत्र पञ्चजनानां पञ्चपञ्चेति वीप्सा वा यथासम्भवमों भवति । तथा- प्यत्याग्रहेण सङ्खयोपसङ्ग्रहादपिन समीहितसिद्धिः । कुतः१ नानाभा. वात् । सान्योपसङ्ग्रह कश्चन धर्मः पञ्चानामनुगतो वक्तव्यः । स च तन्मते न सम्भवति । तथा सति पश्चैव तत्त्वानि भवेयुः । अतस्ते- षां नानाभावः स्त्रीकर्तव्यः । स्वीकृते तु तास्मिन् प्रकृते समासानुप- पत्तिः । किश्चात्र साङ्ख्यमतपदार्थानिरूपणमस्मिन् वाक्य एव प्रती- यते । यत आकाशो यस्मिन्नित्यधिकरणत्वेनोक्त आत्मा चातिरेके- णोच्यत इत्याह । अतिरेकाचति । अत एतन्मन्वेणापि न सालचम- तस्य वेदमूलकत्वसिद्धिः ॥ ११ ॥ ननु मन्त्रार्थस्त्ववश्यं कश्चन वक्तव्यः । अतो लक्षणया ज्योतिःशास्त्रवच्छास्त्रीयपरिभाषया वा पञ्चपञ्चशब्दस्य पञ्चविंशति- ब्रह्मसूत्रहत्तौ। ? संख्याबोधकरवाद पञ्चविंशतितस्वान्तर्गतात्माकाशयोरेव माहात्म्या- थैमाधाराधेयभावप्रदर्शनाचतन्मन्त्रस्यैव सांख्यमते मूलत्वमित्या. शय निराकरोति । प्राणादयो वाक्यशेषात् ॥ १२ ॥ पञ्चजनशब्दवाच्याः प्राणादय एव । कुतः प्राणस्य प्रागामुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो मन इति वाक्यशेषात् । नन्वस्य वाक्यशेषत्वं कथमिति चेदुच्यते । प्राणस्य प्राणमितिवाक्ये करणात्मकाःप्राणादय उक्ताः । ते ज्ञानक्रियात्मकं कार्य स्वेन व्या- पारेण जनयन्तीति तेषां करणान्तरानपेक्षणातू प्राणस्य प्राणमिति कथनं बाधितं स्यात् । अत एतद्वाक्यस्य पञ्चजनवाक्यरोषत्वमङ्गी. कृत्य द्वयोर्वाक्ययोरेकोऽर्थो वक्तव्यः । एवञ्च बुद्धः संशयविपर्यास- निश्चयस्मृतिस्वापलक्षणपश्चवृत्तिजनकत्वात् पञ्चजनाः प्राणादय एव । तेषां तत्तत्कार्यजनकत्वं न स्वतः, किन्तु सर्वेषामाधिदैविकरूपभगव- त एवेति प्राणादीनां प्राणादिरूपो भगवानेवेत्येवं द्वयोर्वाक्ययोरेक- वाक्यतयार्थकरणे सर्वसामञ्जस्यम् । अतः प्राणादय एवं पञ्चजना इति, न तन्मतं सिद्ध्यति ॥ १२ ॥ ननु काण्वपाठे प्राणस्य प्राणमितिषाक्ये, अन्नस्यामिति नास्ति, तदा कथं पञ्चजनकत्वं तत्राह । ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥ एकेषां काण्वानां पाठेऽन्ने असति ज्योतिषा पञ्चसङ्ख्याप्रण- म् । यत एतत्पूर्व पठितमन्त्रे तद्देवा ज्योतिषां ज्योतिरित्युक्तमतस्तेन ज्योतिषाऽत्र सङ्खन्यापूर्तिः । अत एतत्पश्चजनमन्त्रस्यापि न साङ्ख्य- मतमूलत्वमिति सिद्धम् ॥ १३ ॥ ननु, तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इति, तत्तेजो- सृजतेति, एतस्माजायते प्राण इति, इद५ सर्वमसृजतेत्यादौ क्वचि. दाकाशादिकायाः क्वचित्तेजआदिकायाः क्वचित् प्राणादिकायाः क्व. चिदक्रमिकायाः सृष्टेः प्रतिपादनाद् वस्तुनो द्वैरूप्यासम्भवेन सृष्टि- प्रतिपादकश्रुतिवाक्यानां परस्परं विगानदर्शनात् तेषां ब्रह्मोपासन- विधेस्तावकत्वेनार्थवादत्वान्न तैर्ब्रह्मणो जगत्कारणत्वं सिद्ध्यति । कि- १ अध्याये ४ पादः। न्तु दृश्यमानजगतः कारणविचारेऽनेकेषु स्मार्तमतेषु कापिलमतस्या- भ्यर्हितत्वेन तदुक्तप्रकारेणैव कार्यकारणविचार उचित इति प्राप्ते, उच्यते । कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥ सृष्टिभेदेषु ब्रह्मणःकारणत्वे न विप्रतिपत्तिरस्ति । कुतः १ यथा व्यपदिष्टस्य एकत्राकाशादिषु कारणत्वेनोक्तस्यान्यत्रापि तस्यैव कारणत्वेनोक्तः । अतः कार्यप्रकाराणामनेकत्वेऽपि सर्वत्र कारणत्वेन ब्रह्मण एवोक्तेः कारणत्वे विगानं नास्तीत्यर्थः । कार्यप्रकारेषु भेदेन निरूपणं तु ब्रह्मणो माहात्म्याय । अनेकप्रकारेण जगत्कर्तृत्वबोधना- त् । अत एव, न तस्य कार्य करणं,च विद्यत इत्यादिभिलौकिककर्तृ- त्वनिराकरणम् । अतः श्रुतिषु परस्पर विरोधाभावात् तदुक्तप्रका- रेण ब्रह्मण एव कारणत्वं युक्तं, नतु कापिलस्मृत्यभिमतप्रकृतरिति सिद्धम् ॥ १४ ॥ ननु कार्योत्पत्तिप्रकारभेदानां ब्रह्मणो माहात्म्यबोधकत्वात तन्निरूपकश्रुतीनां परस्परं विगानाभावेऽपि कारणनिरूपिकाणाम, असद् वा इदमन आसीत्, संदव सौम्येदमग्र आसीत, तद्धक आ- हुरसदेवेदमग्र आसीत, अव्याकृतमासीत्, नासदासीन्नो सदासीत् तम आसीदित्यादीनां श्रुतीनाम् असदादीनां कारणत्वेन प्रतिपाद- कत्वाद् ब्रह्मणः कारणत्वे विगानमस्तीति प्रकारान्तरेणाशय परि- हरति । समाकर्षात् ॥ १५ ॥ आकृप्यते स्वस्थानात् प्रच्याव्यत इत्याकर्षः । एतेषां जगत्का- रणप्रतिपादकानाम् असदादिपदानां लोकप्रसिद्धार्थात् समाकृष्य ब्रह्मपरत्वं कल्प्यते । यथाऽनेकविरुद्धधर्माश्रयत्वं ब्रह्मणस्तथाऽनेकश. ब्दवाच्यत्वमपि । ब्रह्मणोऽनभिव्यक्तत्वाद् असत्तमइत्यादिशब्दवा- च्यत्वम् । एवंरीत्यैकवाक्यत्वसम्भवादन्यार्थकरणमबोधविजृम्भितम्। अतः शब्दवैलक्षण्येऽपि श्रुतीनामेकार्थत्वान्न विप्रतिषेध इति सि- द्धम् ॥ १५॥ कौषीतकिब्राह्मणोपनिषदि बालाक्यजातशत्रुसंवादे, कैष एत- ब्रह्मसूत्रवृत्तौ । दूघालाके पुरुषोऽशयिष्टेत्यादी जीवं प्रक्रम्य तस्मात् सर्वोत्पत्तिनिरू. पिता । तत्र ब्रह्मणोऽनुप्रवेशश्चोक्तः । तत्न ब्रह्मसहितो जीव एव कर्ता ब्रह्मैव वेति संशयेऽस्मिन् प्रकरणे ब्रह्मोपक्रम्य जीवपर्यवसानोक्त्या ब्रह्मत्वेनोक्तो जीव एव कर्ता भवितुमर्हति । ब्रह्मत्वादयोऽपिजीवस्यैव धर्मा राजत्वादिवत् । एवञ्च लोके जीवस्य कर्तृत्वं दृश्यमानं साह- जिकमेव । तथाच जीवस्याणुत्वात् स्वतः कर्तृत्वासम्भधन प्रकृति- द्वारकमेव कापिलमतोक्तरीत्या भविष्यतीति प्राप्ते प्रोच्यते । जगद्वाचित्वात् ॥ १६ ॥ एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्मत्येतत्प्रकरणोपक्रमवा- क्ये जीववाचकपुरुषपदोक्त्या जीवकर्तृत्वं निरूप्य यस्य चैतत्कमें- त्यत्र, एतच्छब्दस्य जगद्वाचित्वात् तत्कर्तृत्वमत्रोच्यते । एवं च जीवजडात्मकस्य जगतो ब्रह्मकर्तृकत्वमन्यत्रोक्तमत्रापि तदेवोच्यत इति भगवानेव जगत्कर्ता, न जीवः । तस्य जगत्कर्तृत्वस्यान्यना- ध्रुतत्वादश्रुतकल्पनापत्तेः । सुषुप्तावपि ब्रह्मण्येव जीवस्य लयस्तत एव सर्वमिति शेयम् । प्राणादिशब्दवाच्यत्वं ब्रह्मणि पूर्व साधितमेव । अतो न जीवो, नापि तदधिष्ठिता प्रकृतिर्जगत्कारणं, किन्तु ब्रह्मैव॥१६॥ नन्वत्र कैष एतद् बालाके पुरुषोऽशयिष्टेति जीवं प्रक्रम्य तस्य शयनोत्थानादिधर्मानुक्त्वा ब्रह्मत्वं जगत्कर्तृत्वं चोच्यते । तज्जीवे खतोऽसम्भवातू प्रकृतिद्वारकं भविष्यति । अथवा प्राण एवैकधा भवतीति मुख्यप्राणलिङ्गमप्यन्यत्र दृश्यते । सुषुप्तौ तस्यैव वृत्तेरुप- लम्भात् तस्यैव विद्यमानत्वात् तत एवोत्पत्तिप्रलयौ । तस्य च प्र. कृत्यंशत्वेन जडात् प्रधानादेव सृष्टिरुक्ता भवति । अतोऽस्मिन् प्रक- रणे जीवात् प्राणाद्वा सृष्टिरक्तति न ब्रह्मणो जगत्कारणत्वमिति सु. नेणाशय परिहरति । जीवमुख्यप्राणलिङ्गादिति चेत् तद्व्याख्यातम् ॥ १७ ॥ जीवप्राणयोः कर्तृत्वकथनं तु जीवस्य ब्रह्माश्रितत्वात प्राणस्य ब्रह्मयोगादुक्तं, नतु तयोः स्वातन्त्र्येण जगत्कर्तृत्वं सम्भवतीति व्याख्यातं पूर्वमेव 'आश्रितत्वादिह तद्योगाद्' इति सूत्रेण । जीवस्य ब्रह्माश्रितत्वान्मुख्यप्राणस्य ब्रह्मणा सह योगाद् ब्रह्मकार्यमेव तयो- १ अध्याये ४ पादः। निरूपितं, नतु तयोः स्वातन्त्र्येण कार्यकर्तृत्वमस्तीत्यर्थः । अतः सर्व कार्य ब्रह्मण एव, नान्यत इति निरूपणादस्मादपि वाक्याद् ब्रह्मका- रणत्वमेव निरूपितं जगतो, न प्रकृतिकारणत्वमिति सिद्धम् ॥ १७ ॥ स्वमतेन जीवमुख्यप्राणलिङ्गसमाधानमुक्त्वा जैमिनिमतेना- ऽपि परिहारमाह। अन्यार्थ त जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥ खापप्रतिबोधौ जीवधर्मावेव । चक्षुरादिलयाश्रयत्वं प्राण- धर्म एव । नैतौ ब्रह्मणि सम्भवत इति नियतधर्मवादी जैमिनिस्तयो- धर्मयोः कीर्तनमस्मिन् प्रकरणेऽन्यार्थमिति वदति । जीवप्राणयो- ब्रह्मभेदे ब्रह्मनिरूपणे तन्निराकरणावश्यकत्वज्ञापनार्थ तुः । सुषुप्ती पश्चाज्जीवलयोद्गमनिरूपणवैलक्षण्येन ब्रह्मणो शानार्थ सुषुप्त्यव- स्थायां मृतिवलक्षण्यबोधनार्थ यत् प्राणनिरूपणं तदपि तदाश्रयव्र- झज्ञानार्थमित्यन्याथै जीवमुख्यप्राणधर्मकीर्तनमित्यर्थः । यो वै बालाके एषां पुरुषाणां कर्तेत्युपक्रमे मुख्यतया ब्रह्मैव निर्दिष्टम् । उपसंहारे तु तज्ज्ञानेनासुरनयः सर्वभूतश्रेष्ठयं खाराज्यमाधिपत्यं चेति फल- मुक्तम् । न तद् ब्रह्मज्ञानं विनाऽन्येन सम्भवति । अत उपक्रमो- पसंहाराभ्यामेवावगम्यते, यदस्मिन् प्रकरणे मुख्यं ब्रह्मैव प्रतिपाद्य- मिति । अपिच प्रश्नव्याख्यानाभ्यामपि ब्रह्मपरत्वं प्रकरणस्य ज्ञायते। कैष एतद् बालाके पुरुषोऽशयिष्टेति प्रश्नो जीवस्य शातत्वादधिक- रणात्मकब्रह्मविषयक एव । यत्रैष एतद् बालाके पुरुषोऽशयिष्टेति- व्याख्यानमपि ब्रह्मपरमेव । ननु नाडीग्धपि सुप्तिसम्भवात् कथं ज्ञातव्यं नाडीव्यतिरिक्त आत्मैवात्र प्रतिपाद्यत इत्याशय तन प्रमा- णमुपन्यस्यति । एवमेके शाखिनो वाजसनेयिनः स्पष्टमधीयते । हप्तबालाकिब्राह्मणे, सहावाचाजातशत्रुर्यप एतत्सुप्तोऽभूद् य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषो- तिहृदय आकाशस्तस्मिन् शेत इति । अत्राकाशशब्देन ब्रह्मोक्तम् । सता सौम्य तदा सम्पन्नो भवति । स्वमपीतो भवतीति चेत्यन्यत्रा- पि तथैवोक्तम् । अतोऽत्र जीवमुख्यप्राणलिङ्गानामाधारभूतब्रह्मज्ञाना- ब्रह्मसूत्रत्तौ। र्थत्वान्न तेन प्रकृतिकारणवादः सिद्ध्यतीति ब्रह्मैव जगत्कारणमिति सिद्धम् ॥ १८ ॥ वाक्यान्तरे जीवब्रह्मवादेन प्रकृतिकारणावादमाशय परिह- रति । बृहदारण्यके चतुर्थे षष्ठे चाध्याये याज्ञवल्क्यमैत्रयीसंवादे यदेवाऽमृतत्वकरणं तदेव मे बहीति मैत्रेय्या पृष्टो याज्ञवल्क्यस्तां स्तुत्वा ज्ञानमुपदिदेश। तत्र प्रकरणी जीवो ब्रह्म वेति विशये, आ. त्मनस्तु कामाय सर्व प्रियं भवतीत्यादिनाऽऽदिमध्यावसानेषु जीव- निरूपणदर्शनाज्जीव एवात्र प्रकरणी विनायते । तस्यैवोत्कर्षार्थ ब्रह्मत्वं जगत्कर्तृत्वं चोच्यते । नतु ततोऽतिरिक्तं ब्रह्म वक्तुं युक्तम् । अतो वेदे सृष्टिनिरूपकवाक्यानामेतन्न्यायनान्यपरत्वान्न ब्रह्मणो ज- गत्कारणत्वप्रतिपादने तात्पर्यमिति सांख्याभिमतः प्रकृतिकारणवाद एवास्त्विति प्राप्ते, उच्यते । वाक्यान्वयातू ॥ १९ ॥ । एतद्वाक्यस्य ब्रह्मण्येत्रान्वयान्न जीवस्य प्रकरणित्वं सम्भवती: त्यर्थः । भगवत्सम्बन्धेनैव सर्वस्य जीवस्य च प्रियत्वम् । तस्यैवान- न्दमयत्वात् । तमेव विदित्वाऽतिमृत्युमेति, आनन्दायेव स्वल्विमानि भूतानि जायन्ते, सर्व एवात्मानो व्युश्चरन्ति, एष ह्यवानन्दयातीत्या. दिश्रुतिभिर्निःसन्दिग्धं ब्रह्मणः स्वरूपं तत्कार्य तदंशा जीवाश्च नि: कपिता इतीदं वाक्यमपि तैः सहकार्थ युक्तम् । नत्वस्य भिन्नरीत्या जीवनिरूपणपरत्वम् । एवञ्च सर्ववेदान्तानामविरुद्धार्थप्रतिपादकत्वं भवति । तथाच वाक्यान्वयादिदमपि वाक्यं ब्रह्मपरमेव, नतु जीव परमिति, न प्रकृतिकारणवादशङ्कावकाशः॥ १९ ॥ जीवधर्मा जीव एव नियता, न ब्रह्मणि सम्भवन्तीति य एकदेशिनो मन्यन्त, तेषां मतेन प्रकृते सिद्धान्तकथनार्थ तन्मता- न्यनुवर्तते। प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥ भगवता स्वस्य लौकिकभांगसिद्ध्यर्थ यः स्वांशो विस्फुलिङ्गवत् पृथक्कृतः स जोव इत्यास्मरथ्यमतन जीवोपक्रमाज्जीवस्यैवेदं प्रकर- १ अध्याय ४ पादः। ५१ यमित्याशङ्कासमाधानमाह । प्रतिक्षासिद्धलिङ्गमिति । एकविज्ञा- नेन सर्वविज्ञानप्रतिज्ञा जीवस्य भगवदंशत्वेन तदभेदे सति सिद्धय- ति । तथाच तस्याः प्रतिक्षायाः सिद्धरिदं लिङ्ग, यथा जीवो भगवदं- शस्तथा जडोऽपीतिज्ञापकः। अतो जीवोपक्रमेऽपि न दोषः ॥२०॥ उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॥ २१ ॥ चैतन्यमानं जीवोऽनादिसिद्ध एव वासनया देहादिसते प्रविष्टोऽतश्चिद्रूपे ब्रह्मणिं चिन्मात्ररूपेण प्रवेशे तस्य मोक्ष इत्यौ- डुलोमिमतेनापि जीवोपक्रमशङ्कासमाधानमाह । उत्क्रमिष्यत एव. म्भावादिति । अत्र जीवमुपक्रम्य भगवतः श्रवणकीर्तनादिकं निरू- पितम् । तत्संसारभावादुत्क्रमिष्यतो जीवस्य लिङ्गम्, मुक्तौ जीवो भगवानेव भविष्यतीतिज्ञापकम् । कुतः १ एवम्भावात, मैत्रेय्या एवाऽमृतीभावात् । सर्वेषां जीवानां ब्रह्मत्वेऽमृतावं सिद्धमेवेति तदर्थ शानादिप्रयासवैयर्थ्य स्यात् । अतो शानन संसारादुत्क्रमिष्यतो जीवस्याऽमृत्वमिति शापनार्थ जीवोपक्रमः । अतो जीवो ब्रह्मभिन्न एवेति पक्षेपि न जीवोपक्रमे दोषः ॥ २१ ॥ भगवत आसक्त्या विषयभोक्तुरूपं जीत्र इति काशकृत्स्नमते जीवोपक्रमसंशयवारणमाह। अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥ भगवत एवावस्थाविशेषो जीव इत्यवस्थितलिङ्गीवोपक्रमः। अतः संसारदशायामपि जीवो ब्रह्मैवेति तेनोपक्रम्य भगवच्छ्रवणा- दिविधानेऽपि न दोषः । अतो न मैत्रेयीब्राह्मणेनापि, जीवद्वारा प्रक- तिः कारणमिति सांख्यमतसिद्धिरिति सिद्धम् ॥ २२ ॥ ननु श्रुत्युक्तकारणत्वाद् ब्रह्मणो निमित्तकारणत्वमस्तु, स. मवायिकारणं तु प्रकृतिरेव कार्यानुरूपत्वात् । समवायिनिमित्त- कारणयोर्भेदोऽवश्यं युक्तः । अतो ब्रह्मवादेऽपि सांख्यस्मृत्यभिमता प्रकृतिः समवायिकारणत्वार्थमपेक्षितवेत्यर्द्धजरतीयन्यायेन ब्रह्म- कारणत्वमुपनिषदुक्तं, प्रकृतिकारणत्वं स्मृतिखिदमुभयमप्यस्त्वि- याण्ड्याह प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥ ।

५२ ब्रह्मसूत्तो। प्रकृतिः समवायिकारणं, चकारानिमित्तकारणं च ब्रह्मैव। कुतः ? येनाश्रुतं श्रुतं भवतीत्यादिः प्रतिज्ञा । यथैकेन मृत्पिण्डेन स. वै मृण्मयं विज्ञातं स्यादित्यादिईष्टान्तः । तयोरनुपरोधाद अबाधादि. त्यर्थः । तद्यदि ब्रह्मैव सर्वसमवायिकारणं स्यात् तर्हि तज्ज्ञानेन सर्व ज्ञातं भवति, नान्यथा । अतो न प्रकृतिर्जगत्समवायिकारणं, कि- न्तु ब्रह्मैव ॥ २३ ॥ अत्रैव हेत्वन्तरमाह। अभिध्योपदेशाच्च ॥ २४ ॥ सोऽकामयत बहुस्यां प्रजायेयेत्यभिध्यानस्योपदेशाद् ब्रह्मैव ज- गत्समवायिकारणं श्रुत्यभिमतम् । जडायाः प्रकृतेरभिध्यानासम्भ- वात् । चकारणेदं सर्व यदयमात्मेतिश्रुत्युक्तं जगतो ब्रह्मत्वं ब्रह्मण एव समवायित्वे भवति, नान्यस्य समवायित्वे । यद्वा, सर्व खल्विदं ब्रह्म तजलानिति शान्त उपासीतेत्यादौ सर्वस्य ब्रह्मत्वेनोपासनोपदे- शो ब्रह्मणः सर्वसमवायित्वे युक्त इति । चकारणैकत्वन पृथक्त्वेन बहुधा विश्वतोमुखमिति स्मृतिः परिगृहीता ॥ २४॥ किञ्च । साक्षाचोभयाम्नानात् ॥ २५ ॥ सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते, आकाशं प्रत्यस्तं यन्तीति श्रुत्या, चकाराद्, अहं सर्वस्य जगतः प्रभवः प्रलय- स्तथेति स्मृत्या च साक्षादेवोभयोर्ब्रह्मणः सकाशाद् ब्रह्मण्येव च सृष्टिप्रलययोरेवाम्नानात् कथनादित्यर्थः । न हीदं ब्रह्मणो निमित्त कारणत्वे सम्भवति । अतो ब्रह्मैव समवायिकारणम् ॥ २५॥ ननु, स एव सर्व सृजति स एवावति हन्ति चति श्रुतौ ब्रह्म- णो निमित्तकारणत्वमात्रप्रतीतेराकाशादेव समुत्पद्यन्त इति वाक्य- स्यौपचारिकत्वेनाप्युपपत्तेः प्रकृतिसमवायिकारणवाद् एव युक्त इ. त्याशय परिहरति । आत्मकृतेः परिणामात् ॥ २६ ॥ तदात्मान५ स्वयमकुरुतेति श्रुतावात्मनः स्वस्यैव कृतेः कर- णाद् ब्रह्मैव जगत्कारणमुक्तमिति । आत्मकृतिः कथं सम्भवतीत्याश-

१ अध्याये ४ पादः।
तत्रोपपत्तिमाह । कार्याकारण ब्रह्मणः परिणामात् । ब्रह्मणः स-
भवनसमर्थत्वादविकृतमेव सुवर्णादिवत् कार्यरूपेण परिणामस.
म्भवात् । अतो जगतो ब्रह्माधिकृतपरिणामरूपकार्यत्वाद् ब्रह्मैव सम-
वायिकारणमिति सिद्धम् ॥ २६ ॥
ननु जडानां ब्रह्मकारणकत्वेऽपि चेतनेषु मनुष्यादिषु योनि-
बीजयोः समवायिकारणत्वदर्शनाज्जीवानां योन्यात्मकप्रकृतेः कार-
णत्वमस्त्वित्याशङ्ख्य परिहरति ।
योनिश्च हि गीयते ॥ २७ ॥
जगतो योनिश्च ब्रह्मैव । चकाराच्छाक्तवादनिरासः । अत्र यु-
क्तिश्रुती प्रमाणमित्याह । हि गीयते । सदेव सौम्येदमन आसीद, एक-
मेवाद्वितीयमित्यादिश्रुतिषु सृष्टेः पूर्वमेकमेवोक्तम् । आकाशादेव स-
मुत्पद्यन्ते, आनन्दाद्ध्येव खल्विमानि भूतानि जायन्त इत्यादिवेवका-
रेणैकमेव ब्रह्म जगत्कारणमुक्तमिति युक्तिः । गीयते च ब्रह्मणो यो-
नित्वं, कर्तारमीशं पुरुषं ब्रह्मयोनि, यद्भूतयोनि परिपश्यन्ति धीरा
इत्यादिश्रुतिषु, मम योनिर्महद् ब्रह्म, तासां ब्रह्म महद्योनिरहं बीज-
प्रदः पितेत्यादिस्मृतिषु च । अतो ब्रह्मैव जगतो योनि/जं पुरुषो
जीवश्चेति, इदं सर्व यदयमात्मेतिश्रुत्युक्तं भगवतः सर्वरूपत्वं सि-
द्धम् । अतो ब्रह्मवादे केनाप्यंशेन प्रकृतिप्रवेशाभावात् सासन्यमतम.
शब्दमितिसिद्धम् ॥ २७॥
एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥
पतेन ब्रह्मणो जगत्कारणत्वस्थापनेन ब्रह्मवादे स्थापिते सा-
जन्यमते निराकृते च सति सर्वे पातञ्जलादिवादा व्याख्याताः। अवैदि-
का अनुपयुक्तास्ते वादाः । अतस्ते नादर्तव्या इत्यर्थः । वैदिकानां वे.
दानुसारेण वस्तुविचारः कर्तव्यः । तद्विरुद्धवादानामप्रामाण्याद्
ब्रह्मवादे न कोऽपि शङ्कावकाश इति सर्व सुस्थम् । अत एवानिमा-
ध्याये विस्तरेण मतान्तराणि निराकरिष्यन्ते । अध्यायसमाप्तिसूचि-
का सूत्रकदेशावृत्तिः ॥ २८॥
इति श्रीब्रह्मसूत्रवृत्ती मरीचिकाख्यायां प्रथमाध्यायस्य
चतुर्थः पादः॥४॥
समाप्तोऽयं प्रथमोऽध्यायः॥१॥

ब्रह्ममूत्रवृत्तौ। अथ द्वितीयाध्यायस्य प्रथमः पादः । प्रथमाध्याये वेदान्तवाक्यानां सन्दिग्धानां ब्रह्मपरत्वेन सम- वयो निरूपितः । अतः परं स्मृतिविप्रतिषेधनिराकरणाय द्वितीया. ध्याय आरभ्यते स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृ- त्यनवकाशदोषप्रसङ्गात् ॥ १ ॥ ननु कपिलादिमहर्षिकृतसास-यस्मृती प्रधानस्यैव जगत्कार णत्वमुक्तम् । सा तु मोकोपयोगित्वेन धर्माधुपयोगिमन्वादिस्मृति- भ्योऽन्तरङ्गा जगत्कारणनिर्णये । तत्राप्यनिर्णायकत्वाङ्गीकारे वैय- ापत्तेः । अतो न ब्रह्म जगत्कारणमिति चेन्न । अहं सर्वस्य जगतः प्रभवः प्रलयस्तथेत्यादिशुद्धब्रह्मकारणताबोधकस्मृत्यन्तरानवकाशा- न्न तथाङ्गीकर्तव्यमित्यर्थः ॥ १॥ इतरेषां चानुपलब्धेः ॥ २॥ प्रकृतिव्यतिरिक्तानां महदादीनां लोके वेदे चानुपलब्धेने सालयमतमङ्गीकर्तव्यम् ॥२॥ एतेन योगः प्रत्युक्तः ॥ ३ ॥ साङ्खन्यस्मृतिनिराकरणेन योगस्मृतिरपि निराकृता शेया । योगशास्त्रस्य वैदिकत्वशङ्कया तन्निराकरणार्थ पृथक् सूत्रारम्भः ॥३॥ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥ ननु जगतो विलक्षणत्वादचेतनत्वाश्चैतनं न कारगाम् । विल- क्षणत्वं च विज्ञातं चाविज्ञातं चेति श्रुतिवाक्याज्यम् । अतोऽचतना प्रकृतिरेव कारणत्वेनाङ्गीकर्तव्या ॥४॥ ननु नास्य जगतः श्रुतिवाक्यादचेतनत्वं वक्तुं युक्तम् । मृद- ब्रवीत, आपोऽब्रुवन्, तत्तेज ऐश्तेत्यादिश्रुतौ भूनेन्द्रियाणां चेतनत्वो तरित्याशझ्याह ।

२ अध्याये १ पादः। अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५॥ तुशब्दः पक्षव्यावर्तकः । तत्तदभिमानिदेवतानामेव चेतनत्वेन व्यपदेशः । कुतः ? विज्ञातं चाविज्ञातं चेति तत्रैव चेतनाचतनविशेष- कथनात् । अग्निर्वाग्भूत्वा मुखं प्राविशदित्यादौ चेतनानामन्या- दिदेवतानामचेतनानुगतिनिरूपणाश्च । तथाच, न जगतश्चेतनत्व- मित्यर्थः ॥ ५॥ अतोऽचेतना प्रकृतिरेव जगत्कारणं, नतु चेतनं ब्रह्मति प्राप्ते, उच्यते। दृश्यते तु ॥ ६॥ तुः पक्षव्यावर्तनार्थः । लौकिके केशगोमयवृश्चिकादौ कार्य- कारणयोरूप्यं दृश्यते । तथापि कश्चित् कारणांशोऽनुवर्तत एवेति- चत, प्रकृतेऽपि ब्रह्मसत्तायाः सर्वत्रानुवृत्तिर्दश्यत एव । अतो वेल- क्षण्यानुरोधान्न ब्रह्मकारणत्वं दूषणीयमिति ॥ ६ ॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥ ननु श्रुतौ जगत्कारणत्वेनासवुक्तमितिचेन्न । इदं वचनं प्रति- षेधमात्रार्थम् । अग्रे कथमसतः सजायतेति कथनात् ॥ ७ ॥ शङ्कते। अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८॥ कार्यस्य कारणे लये कार्यस्य स्थौल्यसावयवत्वपरिच्छिन्नत्वा- शुद्धत्वादिधर्मः कारणस्यापि तद्धर्मवत्त्वप्रसादसमअसं ब्रह्मकार- णवचनमिति प्राप्ते॥८॥ परिहरति । न तु दृष्टान्तभावात् ॥ ९ ॥ ब्रह्मकारणवादे न किञ्चिदसामञ्जस्यमस्तीति तुशब्दः । स्वप. क्षस्थापनपरपक्षनिराकरणयुक्तीनां सत्त्वात् । तत उत्पन्नस्य तत्रैव लये कारणे तधर्मसम्बन्धो न भवति । शरावरुचकादीनां मृदिलये- ५६ ब्रह्मसूत्रत्तौ। ऽपि मृदस्तद्धर्मवत्त्वादर्शनात् । अतो दृष्टान्ताभावान्नास्मन्मते दूषः णलेशो ऽपि ॥९॥ स्वपक्षदोषाच्च ॥१०॥ एत एव दोषाः प्रतिवादिपक्षे दुष्परिहराः । निर्विशेषात् प्रधानात् . सविशेषकार्योत्पत्तिर्लये तद्धर्मसम्बन्धप्रसक्तिरसत्कार्य- वादाङ्गीकार एवमादिदोषाणां प्रतिवादिपक्षे सम्भवान्नेदं मतं समी- चीनमित्यर्थः ॥ १०॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवम- प्यविमोक्षप्रसङ्गः॥११॥ किञ्च, वेदार्थे केवलतर्केण विचारो न युक्तः । तस्याप्रति- ष्ठानात् । तर्को हि स्वोत्प्रेक्षिता युक्तिः । सकेनोक्ता नान्यैरङ्गीक्रियते। ऋषीणां खातन्त्र्येण बुद्धिवैलक्षण्यसम्भवाद्, वस्तुनि विकल्पास- म्भवान्नियामकस्यैकस्याभावाच । अतो न तर्कस्य प्रतिष्ठा । अत्र पूर्व- पक्षी परिहरति । अप्यन्यथानुमेयमिति चेद् । एवमपि सति व. यमन्यथानुमिमीमहे, तर्के नाप्रतिष्ठादोषो भविष्यति । प्रति- ष्ठितः कोऽपि तर्को नास्तीति तु न वक्तुं शक्यम् । सकलव्यवहार- बाधापत्तेः । आर्ष धर्मोपदेशं चेति स्मृतेश्च । अतः सदोषतर्क परित्यज्य निरवद्यतर्केण निर्णयो भविष्यतीति चेद् । एवमपि श्रुत्य- नुसारिणां ब्रह्मवादिनां निरवद्यतर्कसद्भावेऽपि प्रकृतिकारणवादि- नस्तर्कत्य दोषाविमोक्षप्रसङ्गः । नियामकप्रमाणाभावाद् ऋषीणां परस्परं वैमत्यसम्भवाच्च । अतस्तर्कमूलकसाङ्ख्यमतानुसारेण प्रः कृतेर्जगत्कारणत्वं नाङ्गीकर्तव्यमितिभावः ॥ ११ ॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२॥ एतेन साङ्खयमतनिराकरणेन शिष्टापरिग्रहा अणुमायाकार णवादा ये सर्वथा शिष्टैन परिगृहीतास्ते निरस्ता ज्ञातव्याः ॥१२॥ एवं ब्रह्मणो जगत्कारणत्वे स्मृतिविरोध परिहृत्य दोषान्तर- माशय परिहरति।

२ अध्याये १ पादः।
५७
भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॥ १३ ॥
ननु निर्विशेषस्य ब्रह्मणो जगत्कारणत्वे भोक्तु ग्यत्वं, भोग्य-
स्थ च भोक्तृत्वं प्राप्नोति । अत एफस्यैव भोक्तृभोग्यविभागो न सं-
भवतीति चेत्, स्याल्लोकवत् । लोके यथा फटककुण्डलादीनां सुव.
कार्यत्वेन सुवर्णाभेदेऽपि, न कटकस्य कुण्डलत्वमेवमेव, न भो-
ग्यस्य भोक्तृत्वम् । तथाच कार्याणां कारणात्मकत्वेऽपि परस्पर
कार्यात्मकत्वाभावासोक्तदोषः ॥ १३ ॥
ब्रह्मकारणवादे श्रुतिविरोधं परिहरति ।
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥
ननु, चाचारम्भणं विकार इति श्रुत्या घटपटादिविकाराणां
घाङ्मात्रारब्धत्वेन वस्तुतोऽभावात् कस्य ब्रह्म कारणं स्यादित्याश-
ट्य वाचारम्भणश्रुतेरर्थमाह । आरम्भणशब्दादिभ्यः कार्यस्य कारणा-
नन्यत्वमुच्यते, नतु मिथ्यात्वमिति ॥ १४॥
भावे चोपलब्धेः ॥ १५ ॥
भाव एव विद्यमान एव घटे घटोपलब्धिनत्वभावे । वाङ्मात्रा.
रस्यत्वे तु मिथ्यैवात्र घटोऽस्तीत्युक्ते घट उपलभ्येत । चकारण,
मृत्तिकेत्येव सत्यमिति श्रुतिरपि सत्यत्वप्रतिपादिका संगृहीता।
अतो घटारिकार्याणां सत्यत्वाद् वाचारम्भणभुतिः कारणानन्यत्व-
मेव प्रतिपादयतीत्यर्थः ॥ १५ ॥
सत्त्वाच्चावरस्य ॥ १६ ॥
अवरस्य प्रपश्चस्व सत्त्वात् । यदिदं किञ्चन तत्सत्यमित्याच-
क्षते, सदेव सौम्येदमन आसीदित्यादिश्रुतिभ्यस्त्रैकालिकत्वाद् ब्रह्म-
त्वं, नतु मिथ्यात्वम् ॥ १६ ॥
असदव्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्य
शेषात् ॥ १७॥

५८ ब्रह्मसूत्रवृत्तौ। ननु, असद्धा इदमन आसीदिति श्रुत्या पूर्व कार्यस्यासत्त्वमु- च्यत इति चेन्न । अव्याकृतत्वरूपधर्मान्तरेण तथा व्यपदेशः, तदा- मान स्वयमकुरुतेतिवाक्यशेषाज्ञातव्यः । तत्र हि स्वस्यैव कि- यमाणत्वमुक्तम् ॥ १७ ॥ युक्तेः शब्दान्तराच्च ॥ १८॥ समवेतमेव कार्य सद् उत्पाद्यत इति युक्तम् । समवायात्म- कसम्बन्धस्य द्विनिष्ठत्वेन नित्यत्वेन च कार्यस्यापि कारणे स्थितिर- व्यक्तरूपेण सर्वदाङ्गीकर्तव्या । कुलालादीनां प्रवृत्तिस्त्वभिव्यक्त्या। शब्दान्तरं तु, सच्छब्दातू, तदात्मान५ स्वयमकुरुतेत्यात्मशब्दः । अतो- घटादिकार्यस्य सत्यत्वमेव युक्तं, न मिथ्यात्वम् ॥ १८ ॥ नन्वेवं घटादीनां नित्यत्वे प्रलयकालेऽप्युपलब्धिः स्यादित्या- शङ्याह। पटवच्च ॥ १९ ॥ यथा संवेष्टितः पटो न व्यक्तं गृह्यते, विस्तृतस्तु सम्यग्गृह्य- ते । तथाऽऽविर्भावानाविर्भावेण जगतोऽपि ग्रहणाग्रहणे शेये ॥ १९ ॥ यथा च प्राणादिः ॥ २० ॥ यथा प्राणापानानां नियमने जीवनमात्रं सम्पद्यते । अनियमने त्वाकुञ्चनादिकमपि । नैतावता प्राणभेदो वक्तुं युक्तः। तथा जग- तोऽपि पूर्वमसत्त्वं न वक्तुं शक्यम् । शानक्रियाभेदात् सूत्र- छयमुक्तम् ॥ २०॥ इतरव्यपदेशाद्धिताकरणादिदोषप्रसाक्तिः ॥ २१ ॥ नन्वनेन जीवेनात्मनानुप्रविश्येत्यादिश्रुतिभिरितरस्य जीव- स्यापि ब्रह्मत्वेन व्यपदेशाद् ब्रह्मणो जगत्कारणत्वे तद्धिताकरणदो- षप्रसक्तिः । जीवहिताकरणं तु जीवानां दुःखदर्शनानायत इति प्राप्ते ॥ २१॥ उच्यते।

C. २ अध्याये १ पादः। अधिकं तु भेदनिर्देशात् ॥ २२ ॥ पूर्वपक्षब्यावर्तकस्तुशब्दः । यदि ब्रह्म तावदेव स्यात्तदाऽयं दोषः । तत्तु जीवाजडाश्चाधिकम् । आत्मा द्रष्टव्य इत्यादिवाक्येषु कर्मकर्तृभावेन भेदेन निर्देशाद् विज्ञानमय आनन्दमय इति भेदनि- देशाद्वा । अतोऽधिकस्य नियमेनांशहितकरणादर्शनादंशभूतजीवानां दुःखादिदर्शनेऽपि न ब्रह्मणो जगत्कारणत्वे दोषः ॥ २२ ॥ अश्मादिवच्च तदुपपत्तिः ॥ २३ ॥ यथा हीरमाणिक्यपाषाणादीनां पलाशचम्पकचन्दनानां पा- र्थिवत्वाविशेषेऽप्युशनीचत्वं दृश्यते । तथा जीवमात्रस्य ब्रह्मांशत्वे. ऽपि ब्रह्मादिस्थावरान्तानामुश्चनीचत्वं कार्यवैलक्षण्यं चोपपद्यते ॥ २३॥ उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥ ननु लोके कुलालादीनां घटादिकार्यकरणे चक्रादिसाधनान्त- रोपसंहारदर्शनान केवलस्य ब्रह्मणो जगत्कारणत्वमुपपद्यत इति- चेन्न । क्षीरवद्धि । यथा दुग्धं साधनान्तरमनपेक्ष्यैव दधि भवति तथा ब्रह्मापि साधनान्तरनिरपेक्षं जगद्रूपं भवतीत्यर्थः ।। २४ ॥ देवादिवदपि लोके ॥ २५ ॥ खतो भिन्नकार्यकरणे दृष्टान्तः । यथा देवर्षिपितरो बाह्यनि- रपेक्षा एव योगसामात सर्व कुर्वन्ति । तथा ब्रह्मापि साधनान्तर- निरपेक्षमेव सर्वे करोति ॥ २५ ॥ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥२६॥ ननु ब्रह्म साधनान्तरनिरपेक्षमेव खात्मानं जगत कुर्यात तदा कृत्स्नं ब्रह्मैकमेव कार्य स्यात् । यद्ययभेदेन जगद् भवति, तदा नि- कलं निष्क्रिय शान्तमिति निरवयवत्वश्रुतिविरोधः । अतो न जगतो ब्रह्मकारणत्वं युक्तमिति प्राप्ते ॥ २६ ॥ उच्यते। ।

६० ब्रह्मसूत्रवृत्तौ। । श्रुतेस्तु शब्दमूलत्वात् ॥ २७॥ तुः पक्षव्यावर्तकः । ब्रह्मणो जगत्कारणत्वं निरवयवत्वं चोमव- मपि श्रूयते । श्रुतिसिद्धं च युक्त्या न बाधनीयम् । ब्रह्मणः शाब्दमूल. त्वाच्छब्दैकसमधिगम्यत्वात् । अचिन्त्याः खल ये भावा न तांस्तकेंण योजयेदिति वाक्यात् । सर्वभवनसमर्थे ब्रह्माणि विरोधाभावाच ॥२७॥ आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥ ब्रह्मणो जगत्सृष्टौ देशकालसापेक्षतापि नास्ति । यत आत्मन्ये- व सर्व सृजति । यतोऽस्य विचित्राः शक्तयः श्रूयन्ते । यद्वा, अनन्त- रोऽबाह्य इतिश्रुत्यनुरोधाद् बाह्यसटिं पूर्व निरूप्यान्तरवृष्टिं निलप- यति । आत्मनीति ॥२८॥ स्वपक्षदोषाच्च ॥ २९॥ प्रधानवादिनः स्वपक्षदोषा दुष्परिहराः । युक्तिविरोधात । प्र- माणाभावेन तस्याचिन्स्यत्वकल्पनानुपपत्तेश्च ॥ २९ ॥ सर्वोपेता च तदर्शनातू ॥ ३० ॥ सर्वशक्तिभिरुपेता युक्ता परा देवता ब्रह्मैव । चकारात सत्य. त्वादिगुणयुक्ता च । यः सर्वज्ञः सर्वशक्तिः सर्वका सर्वकाम इत्या. दिश्रुतिषु तथा दर्शनात् ॥ ३०॥ विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥ ननु लोके इन्द्रियवत एव कर्तृत्वदर्शनादू ब्रह्मणो विकरणत्वा- निरिन्द्रियत्वान्न फर्तृत्वं सम्भवतीति चेद्, एतस्याः समाधान पू. वमेव, श्रुतेस्तु शब्दमूलत्वादितिसूत्रेणोकम् । अनवगाद्यमाहात्म्ये ब्रह्मणि श्रुतिरेव प्रमाणम् । न तु कुतावकाशः ॥ ३१ ॥ न प्रयोजनवत्वात् ॥ ३२॥ ननु प्रयोजनवतो लोके कर्तृत्वदर्शनादू ब्रह्मण आप्तकामत्वेन २ अध्याये १ पादः। ६१ प्रयोजनाभावाग्न कर्तृत्वं सम्भवतीति प्राप्ते ॥ ३२॥ उच्यते। लोकवत्तु लीला कैवल्यम् ॥ ३३ ॥ तुः पक्षव्यावृत्ती । इयं हि लोकवल्लीला । न हि लीलायां कि- श्चित प्रयोजनं दृष्टम् । लीलाया एव स्वतः फलरूपत्वात् । सा लीला कैवल्यं मोक्षरूपैव । ब्रह्मणो लीलाया एवान्यस्य कीर्तने मोक्ष इत्य- थः । यद्वा सा लीलैव केवला, नत्वस्याः प्रयोजनान्तरमित्यर्थः ॥३३॥ ननु जीवेषु सुखदुःखप्रलयकरणदर्शनादीश्वरो विषमो निर्घ- णश्च स्यादित्याशङ्ख्य परिहरति । वैषम्यनैपुण्ये न सापेक्षत्वात् तथाहि दर्शयति ॥ ३४ ॥ ईश्वरस्य सुखदुःखदाने कर्मसापेक्षत्वान्नोक्तदोषः। यत, एष ह्येव साधु कर्म फारयति पुण्यो वै पुण्येन कर्मणेत्यादिश्रुतिस्तथा द- शयति । कर्मसापेक्षतया करणेऽपीश्वरत्वं न विरुद्धयते । विरुद्धध. माश्रयत्वादिति माहात्म्यम् । वस्तुतस्तु वादिबोधनायैतदुक्तम् । आ- त्मसृष्टवैषम्यनैपुण्यसम्भावनैवान नावतरति ॥ ३४ ॥ न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥ ननु कर्म न सम्भवति, अविभागात् पूर्व कार्याणां विभागाभा- वादतः कथं फर्मसापेक्षमीश्वरस्य सुखादिवानमितिचेन्न । बीजाङ्कर- वत् प्रवाहस्यानादित्वात् । अतो न कर्मणामभाव इति भावः ॥३६॥ प्रवाहानादित्वे प्रमाणमाह । उपपद्यते चाप्युपलभ्यते च ॥३६ ॥ प्रवाहस्यानादित्वमुपपद्यते । अन्यथा जीवानामभावे कस्य सं- सारः स्यात् । कृतहानाकृताभ्यागमश्च स्यात् । अतो नियमार्थे कर्म- णां प्रवाहस्यानादित्वमङ्गीकार्यम् । श्रुतिस्मृत्योरुपलभ्यते च प्रवहा- स्यानादित्वम् । अनेन जीवनात्मनानुप्रविश्येति श्रुतौ सर्गादौ जीवप-

६२
ब्रह्मसूत्रवृत्तौ।
दप्रयोगात् प्रवाहानादित्वं सूच्यते । तपसैव यथापूर्व स्रष्टा विश्वमि-
दं भवानिति स्मृतावपि तथोक्तम् ॥ ३६ ॥
एवमखिलजगत्कारणत्वं ब्रह्मण उपपाद्योपसंहरति ।
सर्वधर्मोपपत्तेश्च ॥ ३७ ॥
वेदोक्ताः सर्वे धर्माः सर्वसमर्थत्वाद् ब्रह्मण्येवोपपद्यन्ते, न
प्रधानादौ । अतस्तस्य जगत्कारणत्वं निष्प्रत्यूहमिति सिद्धम् ॥ ३७॥
इति श्रीब्रह्मसूत्रवृत्ती मरीचिकाख्यायां द्वितीयाध्यायस्य
प्रथमः पादः ॥१॥

२ अध्याये २ पादः। द्वितीयाध्यायस्य द्वितीयः पादः । स्वातन्त्र्येणाखिलविरुद्धवादनिराकरणार्थ पादारम्भः । तत्र प्रथममनुपपत्त्या प्रकृतिकारणवादं निरस्यति । रचनानुपपत्तेश्च नानुमानम् ॥ १॥ भूर्भुवादिलोकानामचेतनेन प्रधानेन रचनाया अनुपपत्तेर्न प्र- धानं जगत्कारणम् । अतो न जगत्कारणान्यथानुपपत्त्या तदनुमात- व्यम् ।सर्वशक्तिमता चेतनेन ब्रह्मणा जगत्कारणसम्भवादन्यथानुप- पत्तिपरिक्षयाश्च ॥१॥ प्रवृत्तेश्च ॥ २॥ यदि प्रधानमेव जगत्कारणं तदा तत्तत्कार्यार्थ जीवानां प्रवृ. त्तिदृश्यमाना बाधिता स्यात् । सर्वस्यैव प्रधानपरिणामत्वात् । अतः प्रवृत्त्यन्यथानुपपत्त्या न प्रधानं जगत्कारणम् । यद्वा प्रधानस्य जड- त्वाञ्चेतनप्रेरणं विना तस्यैव प्रवृत्त्यसम्भवान्न प्रधानकारणवाद उ- पपद्यते ॥२॥ पयोऽम्बुवचेत्तत्रापि ॥ ३ ॥ ननु यथा पयः स्वत एव विचित्रफेनरचनां करोति, यथा वा नद्यादिजलं स्वत एव स्पन्दते, तथा प्रधानप्रवृत्तिरपि स्वत एव भवि. प्यतीति चेन्न । तत्रापि पयसा विचित्रफेनरचनायां दोहनाधिश्रय. णादौ चेतनप्रवृत्तिदर्शनाजलस्पन्दने दृष्टिकर्तृणां मेघानामेव चे. तनानां सत्त्वादतोऽचतनप्रधानप्रवृत्त्यसम्भवात प्रधानकारणवादो न युक्तः ॥३॥ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ४ ॥ प्रधानस्यानपेक्षत्वाद् अन्यापेक्षाभावान्निरन्तरकार्यकरणमेव स्यान्न तु तद्यतिरेकेणावस्थितिः । पुरुषाधिष्ठानस्यापि सत्त्वात् । तथा सति मोक्षानुपपत्तिः॥४॥ ॥

C ब्रह्मसूत्रवृत्तौ । अन्यत्राभावाच्च न तृणादिवत् ॥ ५॥ ननु यथा तृणपल्लवजलानि स्वयमेव दुग्धादिभावेन परिणमः न्ते तथा प्रधानपरिणामोऽपि युक्तोऽङ्गीकर्तुमितिचेद् अन्यत्र शृङ्गादौ पूषे च दुग्धात्मकपरिणामस्याभावान्न तथा नियमेन परिणामोऽङ्गी- कर्तव्यः । चेतनक्रियाऽपि तत्र सहकारिणीति सूचनार्थ चकारः । अतो लोकदृष्टान्तासम्भवादचेतनं प्रधानं जगत्कारणत्वेन नाङ्गीक- तव्यम् ॥ ५॥ अभ्युपगमेऽप्यर्थाभावात् ॥ ६॥ यथाकथञ्चित् प्रधानस्य कारणत्वेऽङ्गीकृतेऽपि तस्य जडत्वेन प्रेक्ष्यकारित्वासम्भवान्न पुरुषार्थसिदिः ॥ ६ ॥ एवं केवलप्रधानस्य जगत्कारणत्वमिति मतं निरस्य पुरुष रितस्य तस्य कारणत्वं भविष्यतीत्याग्रङ्मय परिहरति । पुरुषाश्मवदिति चेत् तथापि ॥ ७ ॥ यथा पङ्गुः पुरुषोऽन्धमारुह्य परस्परोपकाराय गच्छति । याऽयाकान्तः स्वसन्निधानमात्रेण लोहे क्रियामुत्पादयति । एवं पुरु पाधिष्ठितं तत्सन्निहितं वा प्रधानम् । तत्र प्रधानप्ररकत्वं पुरुषस्य स्वतस्तदा प्रधानस्याप्रयोजकत्वं दोषः । यदि तत्प्रेरकत्वं प्रधानाधीनं तदा निरन्तरं कार्यकरणं स्यात् । प्रकृतिपुरुषयोनित्यसम्बन्ध- सत्त्वात् ॥ ७॥ अङ्गित्वानुपपत्तेश्च ॥ ८॥ यदि प्रकृतिपुरुषयोरङ्गाङ्गित्वं स्यात्, सम्भवेत् सा प्रक्रिया। तदेव तु न सम्भवति । पुरुषस्याङ्गित्वे ब्रह्मवादाङ्गीकार आपधेत । मतहानिश्च स्यात् । प्रकृतेरङ्गित्वेऽनिर्मोक्षः ॥ ८॥ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॥ ९॥ ननु प्रकृतिरन्यथानुपपत्त्याऽनुमिता । तथा च तथैवानुमात- व्या यथा सकलदोषाणां परिहारो भवतीति चेत् तथापि तस्या शस २ अध्याये २ पादः। क्तिवियोगाज्ज्ञानशक्तेरभावानोक्तरीत्या दोषाणां परिहारः सम्भव- तीत्यर्थः ॥९॥ विप्रतिषेधाच्चासमञ्जसम् ॥ १०॥ सावयमतानुवर्तिनां, केचित् षड्विंशतिं प्राहुरपरे पञ्चविंश- तिमिति न्यायेन परस्परं विगानादसमञ्जसमिदं दर्शनम् । वस्तुतस्तु जगत्कारणनिर्णयस्यालौकिकत्वाद्वेदानुसारेणैव स वक्तव्यो, न तु युक्त्याभासैरिति ॥ १०॥ एवं सांख्यमतं निरस्यातः परं परमाणुकारणवादं निरस्यति । महद्दीर्घवहा हूस्वपरिमण्डलाभ्याम् ॥ ११ ॥ एवं हि नैयायिकानां प्रक्रिया । परमाणुद्वयं संयुज्य स्थू- लकार्यार्थ प्रथमं द्वयणुकं भवतीति । तत्र परमाणोरुपर्यधोभावेन मिलने तद्विगुणपरिमाणेन व्यणुकं महत् स्यात् । प्राक्पश्चाद्भावेन मिलने दीर्घवद् द्वयणुकं स्यात् । यतः परमाणुपरिमाणं ह्रस्वं परितोमण्डलं चाङ्गीकृतम् । अनेन सूत्रेण तन्मतानुवाद उप- हासाथ कृतः॥ ११॥ ततः किमत आह । उभयथापि न कर्मातस्तद्भावः ॥ १२ ॥ उभयथापि न द्वयणुकं सम्भवति । परमाणुषु प्रदेशाभावेनो- भयोः सङ्घटनाभावात् कल्पना मनोरथमानम् । यतः परमाणाव- संयुक्तांशाभावन परमाणुद्वयसम्बन्धे एक एव परमाणुः स्यात् । किञ्च, संयोगजकर्मापि न सम्भवति । कारणान्तरासम्भवात् । प्र. यत्नवदात्मसंयोगेऽहटवदात्मसंयोगे वा कारणत्वेनाभ्युपगम्यमाने पूर्वोक्त एव दोषः । प्रदेशाभावेन द्वयणुकोत्पत्त्यसम्भवलक्षणः ॥१२॥ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३ ॥ परमाणुद्वयणुकयोः समवायोऽभ्युपगम्यते । स च नित्यो नित्यमेव सम्बन्धिनमपेक्षते । सम्बन्धस्योभयनिष्ठत्वात् । अतोऽपि न द्वयणुकस्योत्पत्तिः सम्भवति । किञ्च समवायस्य सम्बन्धत्वेन संयोगतुल्यत्वात् तस्यापि सम्बन्धान्तरापेक्षा । एवं तत्सम्बन्धस्या- ६६ ब्रह्मसूत्रवृत्तौ। पि सम्बन्धान्तरापेक्षा । एवं तत्सम्बन्धस्यापि सम्बन्धन्तरापेक्षाया. मनवस्था ॥१३॥ नित्यमेव च भावात् ॥ १४ ॥ परमाणूनां कारणान्तरस्य च नित्यमेव भावात् सत्त्वात् स- दैव द्वयणुकादिकार्य स्यात् ॥ १४ ॥ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ १५ ॥ यद् रूपादिमत् तदनित्यमितिव्याप्त्यङ्गीकारात् परमाणोरपि रूपादिमत्त्वाद् विपर्ययोऽनित्यत्वं स्यात् । अपरमाणुत्वं च । नचेयं व्याप्तिः परमाण्वतिरिक्तविषयेति वाच्यम् । श्रुतिबलेन ब्रह्मणो जग- कारणत्वे सिद्धे तदर्थं परमाण्वङ्गीकारस्याप्रामाणिकत्वात् ॥१५॥ उभयथापि च दोषात् ॥ १६ ॥ परमाणूनां रूपादिमत्त्वेऽनित्यत्वं दोषः । तेषां नीरूपत्वे कार्य रूपानुपपत्तिर्दोषः ॥ १६ ॥ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७॥ वैदिकशिष्टानामपरिग्रहात् सर्वथानपेक्षाऽक्षपादीयदर्शने। अतस्तदुक्तं नादर्तव्यमिति भावः ॥ १७॥ अतः परं बाह्यसमयं निराकरोति । समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८ ॥ एवं हि बाह्या मन्यन्ते । परमाणुसमूहात्मकः पृथिव्यादिभू- तसमुदाय एकः । रूपविज्ञानवेदनासंज्ञासंस्कारसंक्षकपश्चस्कन्धस- मुदायोऽपरः । एतदुभयसमुदायसम्बन्धे जीवस्य संसारस्तस्यापगमे मोक्ष इति । तत्रोच्यते । एवमुभयहेतुकेऽपि समुदाये स्वीक्रियमाणे सर्वपदार्थानां क्षणिकत्वाज्जीवमात्रस्य क्षणिकत्वाद्वा जीवस्य तद्- प्राप्तिः स्यात् । कुतस्तत्सम्बन्धे जीवस्य संसार इति भावः ॥१८॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्र- ।

२ अध्याये २ पादः। ६७ , निमित्तत्वात् ॥ १९॥ एतेषां क्षणिकत्वेऽपि पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वात् सन्ततेरेव जीवजडरूपत्वानोक्तदोष इति चेन्न । एतेषामुत्पत्तिमात्रे निमित्तत्वमङ्गीक्रियते, न तु समुदाये । अतः स्थैर्याभावेनानुसन्धा. नाभावात समुदायानुपपत्तेश्च नोक्तदोषपरिहार इति भावः ॥ १९ ॥ किश्च । उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥ अग्रिमस्योत्पत्तिरपि न सम्भवति । उत्पन्नो ह्युत्पादयति । उत्पत्तिक्षण एव तस्य नष्टत्वान्नोत्तरोत्पादकत्वं सम्भवति । एकक्षण एवोत्पत्तिस्थितिप्रलयकार्यकरणादिसर्वाङ्गीकारे विरोधात् किमपि न स्यात् ॥ २०॥ असति प्रतिज्ञोपरोधो योगपद्यमन्यथा ॥ २१॥ सर्व क्षणिकमित्येका क्षणिकत्वप्रतिज्ञा । चतुर्विधान हेतून प्रतीत्य चित्तचैत्या उत्पद्यन्त इति द्वितीया प्रतिज्ञा । तत्र पदार्थस्य क्षणान्तरसम्बन्धस्वीकारे क्षणिकत्वप्रतिक्षा हीयेत । तदनङ्गीकारे द्वितीया प्रतिज्ञा नश्यति । वस्तुनः क्षणान्तरसम्बन्धाभावेन चतुर्वि- धहेतुसमुदायासम्भवात् । हेतुसमुदायश्चेन्नाङ्गीक्रियते तदा नियाम- काभावात् सर्व सर्वतो युगपत् स्यात् ॥ २१ ॥ प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिर- विच्छेदात् ॥२२॥ किञ्च, बुद्धिर्बोध्यं त्रयादन्यत्र संस्कृतं क्षणिकं च । अयं तु निरोधस्यमाकाशं चेति बाह्याः कथयन्ति । तत्र निरोधद्वयाङ्गी- कारं प्रत्याचष्टे । भावानां बुद्धिपूर्वको विनाशः प्रतिसंख्यानिरोधः । अबुद्धिपूर्वको नाशोऽप्रतिसङ्ख्यानिरोधः । एतन्निरोधद्वयमपि न प्राप्नोति । पदार्थानां सन्ततेरविच्छेदात् । भावानां च क्षणिकत्वेन नाशकसम्बन्धाभावात प्रथमनिरोधोऽशक्यवचनः। द्वितीयनिरोधस्तु ब्रह्मसूत्रवृत्तौ । पदार्थानां क्षणिकत्वाङ्गीकारेणैवानुक्तसिद्धो विशेषतो वक्तव्यः ॥२२॥ उभयथा च दोषात् ॥ २३ ॥ ते हि मन्यन्ते, प्रतिसङ्ख्या प्रतिसङ्खन्यानिरोधान्तर्गताविद्या- नाशो मोक्ष इति । तत्राविद्यायाः सपरिकराया निर्हेतुकनाशे मोक्ष- साधननिरूपकशास्त्रवैफल्यम् । अविद्यातत्कातिरिक्तस्य पदार्थ- स्यानङ्गीकारात् सहेतुकविनाशोऽपि न सम्भवति । वन्ध्यापुत्रकृतर- ज्जुसर्पनाशवत् । अत उभयथा दोषान्नेदं मतं समीचीनम् ॥ २३ ॥ आकाशे चाविशेषात् ॥२४॥ यञ्च तैरुक्तं, प्रतिसङ्ख्या प्रतिसङ्खयानिधिद्वयमावरणाभावा मकमाकाशं चैतत्त्रयमपि निरूपाख्यमिति। तत्राकाशेऽपि पदार्थान्त. रवद् वस्तुत्वव्यवहारस्याविशेषान्नायमभ्युपगमः समीचीनः ॥ २४ ॥ अनुस्मृतेश्च ॥ २५॥ स एवायं घट इत्याद्यनुस्मरणदर्शनादनुभवस्मरणयोरेका- श्रयत्वादेकविषयकत्वनियमाञ्च सर्वोऽपि क्षणिकचाहो बांधितो मन्तव्यः॥२५॥ किञ्च, विनष्टाद् बीजादडुरोत्पत्तिदर्शनान्नानुपम प्रादुर्भाव वैनाशिका मन्यन्ते । तथा सत्यसत्तोऽलीकाज्जगदुत्पतिरिति प्राप्ते, उच्यते। नासतोऽदृष्टत्वात् ॥२६॥ असतो न कार्यमुत्पद्यते । शशश्चङ्गादिभिरसद्भिः कार्योत्प- तेरदृष्टत्वात् ॥ २६ ॥ उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥ अभावाद् भावोत्पत्तेरङ्गीकारे उदासीनानामपि क्षेत्रादिकम कुर्वतामपि धान्यादिसिद्धिः स्यात् । अभावस्य सुलभत्वात् ॥ २७॥ एवमसतः कारणत्वं निराकृत्य विज्ञानवादिसस्मतं प्रपञ्चस्या- सत्यत्वं निराकरोति ।

२ अध्याये २ पादः। नाभाव उपलब्धेः ॥ २८ ॥ विज्ञानवादी हि विज्ञानमय एव प्रपञ्चो, न तु बाह्यः कश्चन पदार्थोऽस्तीति मनुते । तत्राह । अस्य बाह्यपदार्थजातस्याभावो ना- ङ्गीकर्तुं शक्यः । उपलब्धेः । बाह्यप्रपश्चः सर्वोऽप्युपलभ्यते । यः पदार्थमुपलभन्नेव नोपलभ इति वदति स कथमाप्तः स्यात् ॥ २८ ॥ ननु यथा स्वाप्निकपदार्थ उपलभ्यते, नचासौ सत्य इति वक्तुं शक्यः कालान्तरे बाधात् । एवमसन्नेव बाह्यः पदार्थ उपलभ्यत इति नोपलब्धिमानण वस्तुसत्त्वं वक्तुं शक्यामित्याह । वैधाच्च न स्वप्नादिवत् ॥ २९ ॥ स्वानिकपदार्थानां स्वप्ने स्वप्नान्ते वाऽन्यथाभावोपलम्भान स्वानिकपदार्थवद् बाह्यो घटादिर्शातव्यः । वर्षानन्तरं दृष्टो घटादि- स्तथैव दृश्यते । न तथा स्वाप्निको घटादिः । चकारात् स्वस्य मोक्षे प्रवृत्तिव्याघातश्च स्यादिति ॥ २९ ॥ यच्च तैरुच्यते, बाह्यपदार्थ विनापि वासनावैचित्र्येण ज्ञान- वैचित्र्यं भवतीति । तत्राह । न भावोऽनुपलब्धेः ॥ ३०॥ वासनानां न भावः सम्भवति । तव मत्त बाह्यार्थस्यानुप- लब्धः । उपलब्धस्य हि वासनाजनकत्वं हष्टम् । वासनानामना- दित्वस्वीकारे स्वन्धपरम्पराप्रसक्तिः । अर्थ विना वासनाया अस- म्भवात् । वासनां विनाओंपलब्धईष्टत्वादन्वयव्यतिरेकाभ्यां बाह्या- थसिद्धिरप्रत्यूहव ॥ ३० ॥ क्षणिकत्वाच्च ॥३१॥ आलयविज्ञानस्य क्षणिकत्वाद्वासनाया आधारोऽपि न स- स्भवति ॥ ३१॥ सर्वथानुपपत्तेश्च ॥ ३२॥ बाह्यमतं यथा यथा विचार्यते तथा तथाऽनुपपन्न एव भातीतिः कियद् दूषणं वक्तव्यमित्यर्थः । चकारादु वेदविरोधो मुख्यो दोषः सू- । ब्रह्मसूत्रवृत्तौ। चितः। एवं सौत्रान्तिकविज्ञानवादिनी प्रत्युक्तौ । माध्यमिकोऽत्य- न्तासम्बद्धभाषित्वेनोपेक्षितः सूत्रकारेण ॥ ३२ ॥ इदानी दिगम्बरमतं निरस्यति । ते ह्यन्तर्निष्ठा बाह्यवस्तुन्यु- दासीना बाह्यवस्तुनिराकरणार्थ सप्तभङ्गीन्यायं प्रतिवस्तु योजयन्ति । स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्याद- स्तिचावक्तव्यः, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च स्यान्नास्ति चावक्तव्यश्चेति सप्तभङ्गीन्यायः । अत्र स्याच्छब्दस्तिङन्तप्रतिरूपको निपातोऽनेकान्तद्योतकः । तन्मतं दूषयति । नैकस्मिन्नसम्भवात् ॥ ३३॥ अयं सप्तभङ्गीन्यायो नैकस्मिन् योजयितुं शक्यः। अस्तिना- स्तिशब्दप्रतिपादितयोर्भावाभावयोरेकत्रासम्भवात् ॥ ३३॥ ननु बाह्यपदार्थे औदासीन्यान्नास्यैकत्रासम्भवलक्षणो दोष इत्यत आह। एवञ्चात्माकान्य॑म् ॥३४॥ एवं सत्यपि चात्मनो वस्तुपरिच्छेदादकात्स्न्यै सर्वत्वाभावः स्यात् । यद्वा तैः शरीरपरिमाण आत्माङ्गीक्रियते । तथा सति शरीराणां तुल्यत्वाभावादात्मनो, न कान्यं कृत्स्नशरीरतुल्यत्वाभा- वः प्राप्नोति ॥ ३४॥ नच पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥ मनु शरीराणामवयवोपचयापचयानुसारेणात्मनोऽप्यवय- वोपचयापचयाङ्गीकारेण तत्तुल्यत्वात् पर्यायादविरोध इति चेन्न । एवं सत्यात्मनो विकारित्वं स्यात् । आत्मनः सङ्कोचविकासाङ्गीका- रेऽपि विकांरित्वं दुष्परिहरमेव ॥ ३५ ॥ अन्त्यावस्थितेश्वोभयनित्यत्वादविशेषः ॥ ३६॥ अन्त्यावस्थितिर्मोक्षसामयिकपरिमाणावस्थितिस्तस्या अङ्गीकारात् पूर्वोक्तदोषपरिहारार्थ चोभयनित्यत्वं महत्परिमाणमणुपरिमाणं चेदङ्गीक्रियते, त भयथापि शरीरपरिमाणव्याघातान्मतान्तरप्रवे- शाच न नास्तिकाभिमतात्मसिद्धिः ॥३६ ॥ ।

२ अध्याये २ पादः। ७१ एवं बाह्यमतानि निरस्य तार्किकाधभिमतमीश्वरं निराकरोति। पत्युरसामञ्जस्यात् ॥ ३५ ॥ ईश्वरो जीवेभ्यो भिन्नस्तेषां नियामकश्चेदङ्गीक्रियते, तदा वैषम्यनैघृण्यात्मकासामञ्जस्यप्रसक्तेनैवाङ्गीकर्तव्यः । कर्मसापेक्षत्वे स्वातन्त्र्याभावादनीश्वरत्वं प्रसज्ज्यत । अतः शुष्कतर्केण नैवमी- श्वरोऽङ्गीकर्तव्यः ॥ ३७॥ सम्बन्धानुपपत्तेश्च ॥ ३८ ॥ जीवब्रह्मणाविभुत्वनाजसंयोगानङ्गीकारात सम्बन्धाभावेन नि- यामकत्वानुपपत्तिः । तुल्यत्वादपि न नियामकत्वं सम्भवतीति सू. चनार्थ चकारः ॥ ३८ ॥ अधिष्ठानानुपपत्तेश्च ॥३९॥ जगत्कर्तृत्वेन कल्प्यमान ईश्वरो लौकिकन्यायेनाधिष्ठित एव कार्य करोतीति कल्पनीयम् । तथाचेश्वरस्याप्यधिष्ठाने कल्प्यमाने मतविरोधाऽनवस्थाप्रसक्तिश्च स्यात् । अतोऽधिष्ठानानुपपत्तेन तन्मत- सिद्धस्येश्वरस्य कर्तृत्वं सम्भवतीत्यर्थः ॥ ३९ ॥ करणवच्चेन्न भोगादिभ्यः ॥ ४० नन्वसम्बन्धदोषपरिहारार्थ ब्रह्म करणवदङ्गीकर्तव्यमिति चेन्न । तथा सति सुखदुःखभोगादिकं प्रसज्ज्येत । करणवतो भो- गनियमात् ॥ ४०॥ अन्तवत्त्वमसर्वज्ञता वा ॥४१॥ प्रकृतेर्जीवस्य च नियमनार्थमीश्वरः स्वीकृतः । नियमनं चै- तयोः परिच्छेदे सति सम्भवति । तथाङ्गीकारे जीवप्रकृत्योरन्तवत्वं भवेत् । तथाचानित्यत्वे मोक्षशास्त्रवैफल्यं प्रसज्ज्येत । एतदोषनिरा- साय तयोविभुत्वे नित्यत्वे चाङ्गीकृते सम्बन्धाभावादीश्वरस्यास- ज्ञता वा स्यात् । अतोऽसङ्गतस्तार्किकसमयः॥४१॥ अतः परं पाश्चरानिकमतेऽपि विरुद्धांशनिराकरणार्थमधि- ॥

ब्रह्मसूत्रवृत्ती। करणान्तरमारभते । ते हि वासुदेवात् सङ्कर्षणतस्मात् प्रद्युम्न- स्तस्मादनिरुद्ध इति चतुर्ग्रहोत्पत्तिं वदन्ति । तद् दूषयति । उत्पत्त्यसम्भवात् ।। ४२ ॥ संकर्षणस्य जीवत्वाङ्गीकाराजीवस्योत्पत्तेरसम्भवान्नेदं मतं युक्तमित्यर्थः । जीवस्योत्पत्त्यङ्गीकारे तु तस्यानित्यत्वप्रसक्त्या मो- क्षशास्त्रवैफल्यं प्रसज्येत ॥४२॥ नच कर्तुः करणम् ॥४३॥ यदपि तैरङ्गीक्रियते, कर्तुः संकर्षणनामकजीवात् प्रद्युम्नसंश- कं मन उत्पद्यत इति । इदं लोके प्रसिद्धम् । कुलालादिभ्यः कर्तृभ्यो दण्डादिकरणानामुत्पत्तेरदर्शनात् ॥ ४३ ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥४४॥ यद्येते सर्वे परमेश्वरा विज्ञानादिमन्त इत्युच्यते, तथा सति सर्वेष्वीश्वरत्वस्याप्रतिषेधः । तथाचानेकेश्वरत्वदोषप्रसक्तिरित्यर्थः ४४ विप्रतिषेधाच्च ॥४५॥ अस्मिन् मते कल्पनाबाहुल्या वेदनिन्दादर्शनाच्च विप्रति- षेधः । चकाराद् वेदप्रक्रियाविरोधश्च सूचितः। अतोऽसमझसमिदं दर्शनम् ॥ ४५॥ इति श्रीब्रह्मसूत्रवृत्ती मरीचिकाख्यायां द्वितीयाध्यायस्य द्वितीयः पादः ।

२ अध्याये ३ पादः।
द्वितीयाध्यायस्य तृतीयः पादः ।
एवं पूर्वपादें वेदविरुद्धानि मतानि निराकृत्य ब्रह्मवादे जड-
जीवनिरूपकनुतिषु विरुद्धांशनिराकरणाय तृतीयः पाद आरभ्यते ।
तन वेदान्ते सृष्टिद्विधा निरूप्यते । एतस्माजायते प्राण इतिश्रुत्य -
रोधेन भूतभौतिकं सर्वे ब्रह्मण एव विस्फुलिङ्गन्यायेन जायत इत्येकः
प्रकारः । अपरस्तु वियदादिक्रमेण सृष्टिर्जायत इति । तत्र क्रमस-
ष्टिनिरूपणे छान्दोग्ये, तत्तेजोऽसृजतेति तेजोऽबन्नानां सृष्टिरुक्ता, न
वाय्वाकाशयोः। तैत्तिरीयोपनिषत्सु, आकाशः सम्भून इत्यादिना त-
योरपि सृष्टिरुक्ता। वाक्यद्वयस्यापि क्रमसृष्टिनिरूपकत्वादेकवाक्यत्वं
युक्तम् । अत आकाशस्योत्पतिरस्ति न वेति संशये पूर्वपक्षी नेत्याह ।
न वियदश्रुतेः ॥ १॥
विमतम् आकाशं नोत्पद्यते । छान्दोग्ये सष्टिनिरूपणे तदुत्प-
तेरश्रवणात् ॥१॥
अस्ति तु ॥२॥
तुः पक्षव्यावर्तकः । तैत्तिरीयके वियदुत्पत्तिरस्ति । तथाच
तदेकवाक्यताये छान्दोग्येऽपि साङ्गीकर्तव्येत्यर्थः ॥२॥
शङ्कते।
गौण्यसम्भवात् ॥३॥
तैत्तिरीयोपनिषदुक्ता वियदुत्पत्तिर्गौणी । आकाशस्य निरव.
यवत्वाद् व्यापकत्वाच्च मुख्योत्पत्तेरसम्भवात् ॥ ३ ॥
शब्दाच्च ॥ ४॥
वायुश्चान्तरिक्षं चैतदमृतमिति, आकाशवत् सर्वगतश्च नित्व
इत्यादिशब्दादाकाशस्य नित्यत्वबोधनादपि तदुत्पत्तिगणी व-
कध्या॥४॥

ब्रह्मसूत्रवृत्ती। नम्घाकाशः सम्भूत इस्यत्रैकस्यैव सम्भूतशब्दस्याग्न्यादौ मु- ख्योत्पत्तिवाचकत्वम, आकाशे गौणोत्पत्तिवाचकरवमिति युगपद वृत्तिद्वयविरोधानाङ्गीकर्तुं युक्तमत आह । स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५॥ एकस्यापि पदस्य कचिन्मुख्या वृत्तिः, कचिद् गौणीति स्याता यया तपसा ब्रह्म विजिज्ञासत्र, तपो ब्रह्मेति भुतो प्रथमब्रह्मशब्दो मुख्यार्यको, द्वितीयस्तु गौणार्थकः । एवं सम्भूतशब्दोऽपीति नाका- शस्य पृथिव्यादिवम्मुख्योत्पत्तिरिति प्राप्ते॥५॥ उच्यते। प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥ ६॥ यद्याकाशस्योत्पत्तिर्नाङ्गीकि येत, तह.कविज्ञानेन सर्वविज्ञानप्र- तिज्ञा हीयते । अव्यतिरेकाद् आकाशस्यानुद्रमात् । अत आकाग- स्यालौकिकत्वेन तज्ज्ञानस्य सर्वशतायामपक्षितत्वाल्लौकिकत्वेन जी- पचद् ब्रह्मरूपरधानङ्गीकाराकविज्ञानेन सर्वविज्ञानप्रतिक्षासिद्ध्यर्थ तदुत्पत्तिरङ्गीकार्येत्यर्थः । नन्वाकाशस्यानुगमेsपि जीववैलक्षण्येऽपि वस्तुसामथ्र्येनैतादृशमप्येकं ब्रह्मरूपमस्तीति स्वीकारान्न प्रतिज्ञाहा- निरत आह । शब्देश्यः । येनाश्रुतं श्रुतं भवतीतिशब्दात प्रकृतिवि. कारमावेनैव श्रुतिरेकविज्ञानं व्युत्पादयतीति न वस्तुसामध्येन ता- इशं ब्रह्मरूपमङ्गीकर्तव्यमित्यर्थः ॥ ६ ॥ यावद्विकारं तु विभागो लोकवत् ॥ ७॥ आकाशोत्पत्तावसम्भावनानिरासकस्तुशब्दः।यत्किञ्चिद् वि- कृतं तस्य सर्वस्य विभाग उत्पत्तिईष्टा । आकाशमपि लौकिकन्यव• हारविषयत्वाद्विकृतम् । अतोऽस्याप्युत्पत्तियुक्ता । एवमाकाशोत्पत्ती श्रुतिसिखायाम, आकाशवत् सर्वगतश्च नित्य इत्यादिश्रुतिभ्य आ. काचनियामकतदाधिदैविकरूपब्रह्मप्रतिष्ठादिका बोध्याः ॥७॥ एतेन मातरिश्वा व्याख्यातः॥८॥ भाकायोत्पत्तिस्थापनेन वायोरुत्पत्तिः समर्थिता । सैषा मन- ॥

२ अध्याये ३ पादः।
७५
स्तमिता देवतेत्यादिश्रुतिराधिदैविकवायुपरा ॥ ८ ॥
ननु यथाऽऽकाशोत्पत्तिः समर्थिता तन्नित्यत्वप्रतिपादकश्रुती-
नामन्यार्थप्रतिपादनेन, तथा ब्रह्मणोऽप्युत्पत्तिरस्त्वित्यत आह ।
असम्भवस्तु सतोऽनुपपत्तेः॥९॥
तुः पक्षव्यातकः । सन्मात्रस्य ब्रह्मण उत्पत्तरसम्भवः । नहि
कार्योत्पत्ती कारणस्योत्पत्तिरङ्गीक्रियते । कुण्डलोत्पत्ती कनकोत्पत्ते-
रनभ्युपगमात् । ब्रह्मण उत्पत्तिः खतो न सम्भवति । अन्यतश्चेदान-
वस्था । यत्सर्वस्य मूलं तदेव ब्रह्मेतिस्वीकारात् । अतोऽनुपपत्तेब्रह्म
म उत्पत्तेरसम्भवः॥९॥
तेजोऽतस्तथा ह्याह ॥ १० ॥
अतो वायुभावापनब्रह्मणस्तेज उत्पन्नम् । तथाहि, बायोरप्रिं-
रितिश्रुतिराह ॥ १०॥
आपः॥ ११॥
अनेराप इति श्रुतेस्तेजोरूपब्रह्मणा आपो जाताः । सर्वश्रुती-
नामविरोध इतिसूचनार्थमेकमिदं सूत्रं श्रुतिसिद्धार्थानुवादक-
मुकम् ॥ ११॥
ता आप पेक्षन्त बहसः स्याम प्रजायेमहीति, ता अन्नमसुज-
तेति श्रूयते । अत्रान्नशब्देन बीह्यादय उत प्रविधीति संशये, तैत्ति-
रीये, अद्भयः पृथिवी पृथिव्या ओषधय मोषधीभ्योऽम्नमिति श्रक-
जादू अन्नमयं हि सौम्य मन इत्यादी तेजोऽबन्नानां सहबारोपल-
म्भाव पृथिव्योषध्यमानां मध्येऽभेदविवक्षया यत्किञ्चिन्निरूपणीये।
5नमुकमिति प्राप्ते, उच्यते ।
पृथिव्यधिकाररूपशब्दान्तरेभ्यः॥१२॥
अत्रान्नशब्देन पृथिवी । यतोऽधिकारो भूतानामेव, बतु भौ-
तिकानाम नीलं च पृथिव्या एव सम्भवति । अद्भयः पृथि.
वीति शब्दान्तरम् । पश्यों हेतुभ्योऽनशब्देन पृथिव्येवोच्यते, न.
खन्नम्॥ १२॥

७६
ब्रह्ममूत्रवृत्ती।
तदभिध्यानादेव तु तल्लिङ्गात् सः ॥ १३ ॥
कार्यरूपादाकागाद् वाय्वादीनामुत्पत्ति तुशब्दो चारयति
किन्तु, तदभिध्यानात् तस्य ब्रह्मणोऽभिध्यानं तत्तत्कार्योत्पादनार्थ त.
स्यालोचनं, ततस्तदात्मकत्वं, तेन तच्छन्दवाच्यत्वं तस्मात् तद्भावा-
पन्नब्रह्मण एव कार्य, नत्वाकाशादिभ्यः केवलेभ्यः । तल्लिङ्गात् स.
कार्यकर्तृत्वं लिङ्गं ब्रह्मण एवेति सर्ववेदान्तेषु निश्चितमतस्तस्मा.
देव कार्योत्पत्तिन्तु फेवलेभ्यो भूतेभ्यः । तस्मात् स एव सर्व
सुजतीत्यर्थः ॥ १३॥
उत्पत्तिक्रमं विचार्य लयक्रम विचारयति।
विपर्ययेण तु क्रमोऽत उपपद्यते ॥१४॥
उत्पत्तिक्रमेण न लयः, किन्तु तद्विपर्ययेण । अत उत्पस्यन-
न्तरं प्रलयः । यतस्तथैवोपपद्यते । प्रवेशविपर्ययेण निर्गमनदर्शनात ।
इदं च क्रमसृष्टौ बोध्यम् ॥१४॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादि-
ति चेन्नाविशेषात् ॥ १५॥
ननु तैत्तिरीयोऽन्नमयादयः पञ्च कोशा निकपिताः । तत्रान
मयप्राणमययोः सामग्री पृथिवीवायुरूपा पूर्व निरूपिता । आनन्द-
मयः परमात्मैव । अतोऽन्तरा मध्ये विज्ञानमनसी उक्त ते क्रमेण
प्रातिलोम्यक्रमण उत्पन्ने वक्तव्ये । तयोरप्रे कथनारमकाल्लिङ्गात् ।
अतस्तयोरुत्पत्तिर्वक्तव्यति चेन्न । अविशेषात् । नामरूपात्मकविशे-
'पयुक्तानामेवोत्पत्तिरुच्यते । एतयोस्तु विशेषाभावान्नोत्पत्तिरुक्ता ।
विज्ञानमयस्य जीवत्वात् । अतो भूतभौतिकसृष्टी प्रवेशाभाधान्न त
योरुत्पत्तिर्वक्तब्येत्यर्थः ॥ १५ ॥
ननु विज्ञानमयस्य जीवस्योत्पत्त्यनङ्गीकारे जातो देवदत्त इ.
त्यादिसकलव्यबहारोच्छेदप्रसक्तिरित्याशयाह ।
चराचरव्यपाश्रयस्तु स्यात्तव्यपदेशो भाक्त-
स्तहावभावित्वात् ॥१६॥

२ अध्याये ३ पादः। तुः पक्षव्यावर्तकः । चराचरे स्थावरजङ्गमे शरीरे तयोर्विशे- घेणापाश्रय आश्रयः शरीरसम्बन्धः, स तु स्यात् । न तु स्वतो जीवस्योत्पत्तिरस्ति । ननु जीवस्यानुत्पत्तो जातकर्माद्यनुपपत्तिरत आह । तद्वयपदेश इति । शरीरजन्ममरणादिना जीवस्य तव्यपदे- शो जन्ममरणादिव्यपदेशो भाक्तो लाक्षणिकः । तद्भावभावित्वात् शरीरान्वयव्यतिरेकेण जीवोपलब्ध्यनुपलब्धी । अतो लक्षणया दे- हधर्मों जीवे उच्यते । न तु मुख्या जीवस्योत्पत्तिः ॥ १६ ॥ ननु जीवस्याप्युत्पत्तिरस्तु, किमिति लाक्षणिकत्वं स्त्रीक्रियत इत्याशझ्याह। नात्माऽश्रुतेर्नित्यत्वाच्च साभ्यः ॥ १७॥ आत्मा नोत्पद्यते, कुतः ? अश्रुतेः । नह्यात्मन उत्पत्तिः कुत्र- चिपिश्रूयते । देवदत्तो जात इति देहोत्पत्तिरेव, न तु जीवोत्पत्तिह- च्यते । विस्फुलिङ्गवदुश्चरणन्तु नोत्पत्तिः । नामरूपसम्बन्धाभावा- त् । किञ्च, ताभ्यः श्रुतिभ्यः, अयमात्माऽजरोऽमरः, न जायते म्रि- यते वेत्यादिश्य आत्मनो नित्यत्वादपि नोत्पत्तिः ॥ १७ ॥ आत्मनो गुणान्तिरूपयन् प्रथमतश्चैतन्यगुणमाह । ज्ञोऽत एव ॥ १८ ॥ अत एव, विज्ञानमय इत्यादिश्रुतिश्य आत्मा क्षः चैतन्य- रूपो शेयः ॥ १८॥ उत्क्रान्तिगत्यागर्तानाम् ॥ १९॥ अत एवेत्यनुवर्तते । स यदाऽस्माच्छरीरादुत्क्रामति चन्द्रम- समेव ते सर्वे गच्छन्ति, तस्माल्लोकात पुनरेत्यस्मै लोकाय कर्मण इ. त्यादिश्रुत्युक्तानामुत्क्रान्तिगत्यागतीनां जीवसम्बन्धिनीनां श्रवणादू यथायोग्यं तस्य परिमाणमङ्गीकर्तव्यम् । यद्यप्याराग्रमात्री ह्यपरो- ऽपि दृष्ट इति श्रुतौ परिमाणमुक्तं । तथापि बहुवादिविप्रतिपत्तिनिरा- साय युक्तिभिः साध्यते ॥ १९ ॥ स्वात्मना चोत्तरयोः ॥२०॥ ऊर्णनाभिर्वथा तन्तून् सृजते सञ्चरत्यपि, जाग्रत्स्वप्ने तथा जीवो ब्रह्मसूत्रवृत्तौ । गच्छत्यागच्छते पुनरितिश्रुत्युक्तयोर्गत्यागत्योः स्वात्मना स्वरूपेणैव सम्भवात् तदनुरोधेनाणुत्वं तस्य स्वीकर्तव्यमित्यर्थः । उत्क्रमणे तु देहेन्द्रियादिभिः सम्बन्धोऽप्यस्ति । अतो निःसन्दिग्धत्वाय गत्याग- तिकथनम् । अतो व्यापके गस्यागत्योरसम्भवान्मध्यमपरिमाणत्वे- नित्यत्वप्रसक्तेरणुपरिमाणो जीव इत्यङ्गीकर्तव्यमित्यर्थः ॥२०॥ शङ्कते। नाणुरतच्छुतेरिति चेन्नेतराधिकारात् ॥२१॥ ननु, स वा एष महानज आत्मा योऽयं विज्ञानमयः प्रायोग्वि- त्यत्रातच्छतेरणुत्वविपरीतव्यापकत्वश्रुतेर्नाणुर्जीव इति चेन्न। इतरा- धिकारादू इतरस्य परब्रह्मणोऽधिकारात । अतो ब्रह्मनिरूपणमेवा- स्मिन् वाक्ये कृतं, न तु जीवखरूपनिरूपणमित्यर्थः ॥ २१ ॥ खशब्दोन्मानाभ्यां च ॥ २२ ॥ स्वयं विहृत्य स्वयं निर्मायेत्यादिश्रुतो स्वशब्दोऽणुपरिमाणं जीवस्य ज्ञापयति । स्वप्ने व्यापकस्य शरीरपरिमाणस्य वा वित हरणासम्भवात् । बालाग्रशतभागस्य, आराममात्रो परोऽपि दृष्ट इत्यादौ चोन्मानम् । चकारण स्वमप्रबोधयोः सन्धा वा गतिदर्श- नम् । एतैर्हेतुभिर्जीवस्याणुत्वमेव सिद्ध्यतीत्यर्थः ॥ २२ ॥ ननु जीवस्याणुत्वे सकलशरीरव्यापि चैतन्यं न सम्भवतीत्या. शड्याह । अविरोधश्चन्दनवत् ॥ २३॥ चन्दनं यथैकदेशस्थितं सकलदेहसुखं करोति, अतितप्ततैल- स्थितं वा तापनिवृत्ति करोति । तथा जीवोऽप्येकदेशखितः सकलदेहे चैतन्य सम्पादयतीत्यर्थः ॥ २३ ॥ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाइदि हि ॥२४॥ ननु चन्दनेऽवस्थितिवैशेण्याद् अनुपातत्वचि सम्यक्तयाऽध- स्थानरूपात् त्वच एकत्वात् तत्र सकलशरीरे सुखमुपपद्यते, नत्वत्र तथा सम्भवतीति, चेन्न । जीवस्यापि स्थान विशेषाभ्युपगमात् । कि २ अध्याये ३ पादः। तत् स्थानमित्यत आह । हदि हि । जीवस्य हदि स्थितिरुता । हिश- देन गुहां प्रविष्टाविति युक्तिः सूचिता ॥ २४ ॥ गुणाहा लोकवत् ॥ २५ ॥ यद्वा जीवस्य स्वरूपतोऽणुत्वेऽपि सकलशरीरव्यापिचैतन्य- गुणाच्छरीरव्यापकत्वम् । लोकवत् । लोके यथा मणेरल्पत्वेऽपि त. कान्तिबहुदेशं व्याप्नोति, तवत् ॥ २५ ॥ ननु गुणिनं विहाय गुणस्याधिकदेशेऽवस्थितिः कापि न रष्टे- स्थाशय हटान्तमाह। व्यतिरेको गन्धवत् ॥ २६ ॥ यथा चम्पकादिपुष्पाणां गन्धस्तद्वयवाहितदेशेऽप्युपलभ्यते तथा जीवस्य चैतन्यगुणोऽपीत्यर्थः । यथा वृक्षस्य सम्पुष्पितस्य दू. रादू गन्धो वातीति वेदोक्याऽस्य दृष्टान्तत्वं युक्तम् ॥ २६ ॥ तथा च दर्शयति ॥२७॥ जीवस्य हृदयमानत्वमणुपरिमाणं चोक्त्वाऽलोमभ्य आन- खाग्रेभ्य इति तस्य चैतन्यगुणेन सफलशरीरव्यापित्वं दर्शयति॥२७॥ ननु चैतन्यस्य जीवगुणत्वे किं प्रमाणमत आह । पृथगुपदेशात् ॥ २८ ॥ प्रक्षया शरीरं समारुह्योति भुतौ प्रज्ञायाः फरणत्वेन पृथगुपदे- शाचैतन्यस्य गुणत्वम् ॥ २८ ॥ ननु तत्त्वमस्यादिवाक्यैः परं ब्रह्मैव जीव इति कथं तस्याणुत्वं सम्भवतीत्याययाह। तद्गुणसारत्वात्तु तदयपदेशः प्राज्ञवत् ॥२९॥ पझव्यावर्तकः । तद्गुणसारत्वात् तस्य ब्रह्मणो गुणाः प्र. भाद्रष्टत्वाव्यस्त एव जीवे सारा जडलक्षण्यकारिण इति हेतोस्त- व्यपदेशः, अमात्य राजपदप्रयोगवज्जीवे भगवद्वयपदेशो मैत्रेयीब्राह्म- मादौ । ननु निरूपणस्थले उपचारासम्मवाद कथमन्यस्यान्यधर्मव.

ब्रह्ममूत्रवृत्तौ। ड्याह। - त्वेन कथनं, तबाह । प्राशवत् । यथा, तवा अस्यैतदतिच्छन्दोपहत पाप्मेत्यादिना प्राशस्त्ररूपमुक्तम् । न हि सुषुप्तिसाक्षिणः प्राशस्यैता. दृशं स्वरूपं सम्भवति । अपहतपाप्मादीनां ब्रह्मलिङ्गत्वात् । अतो - दाभेदेनैतदुक्तमिति संयम् । एवमेव ब्रह्माभेदविवक्षया शारीरस्य जीवस्यापि ब्रह्मधर्मनिरूपिकाः श्रुतयो शेयाः ॥ २९ ॥ ननु जीवस्यात्यन्तमपकृष्टस्य सर्वोत्कृष्टत्वेन व्यपदेशोऽत्यन्त. प्रत्ययिततरे वेदेऽयुक्तः । नच ब्रह्मण आनन्दांशप्राफट्यात् तद्गुण- सारत्वेन व्यपदेश इति वाच्यम् । तथा सति प्राशे यथाऽऽनन्दांश. स्तिरोहितो भवति तथाऽत्रापि स्यादतोऽयुक्तस्तद्वयपदेश इत्याश- यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥३०॥ यावदयमात्माऽऽनन्दांशप्राकट्येन ब्रह्म भवति तावदयं व्यप- देशः । पश्चात्तु ब्रह्मधर्माणामाविर्भावाद् ब्रह्मत्वं युक्तमेवेतिभावः । अतो न पूर्वोक्तदोषो, यतस्तदानी ब्रह्मधर्माणां स्वस्मिन् दर्शनमस्ति । चकाराज्जीवस्याप्यानन्दांशः प्रकटित इति सूचितम् । यद्वा, अयं व्यपदेशो नात्यन्तमयुक्तस्य, किन्तु राजज्येष्ठपुत्रवद् ब्रह्मभावयोग्य स्य । तथाच न पूर्वोक्तो दोषः । तदुक्कं निबन्धे, व्यापकत्वश्रुतिस्तस्य भगवत्त्वेन युज्यते । मानन्दांशाभिव्यक्ती तु तत्र ब्रह्माण्डकोटयः ॥ प्रतीयेरन् परिच्छेदो ब्यापकत्वं च तस्य तदिति ॥ ३० ॥ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥३१॥ जीवस्य संसारदशायामप्यानन्दांशस्य नात्यन्ताभावः । किन्तु पुस्त्वादिवत् । यथा सेकादिसामर्थ्यलक्षणं पुंस्त्वं बाल्ये विद्यमानमेव यौवने प्रकटीभवति । तथाऽऽनन्दांशस्यापि संसारवशायां तिरोहित- स्य ब्रह्मभावे सत्यभिव्यक्तियोग आविर्भाव इत्यर्थः ॥ ३१ ॥ ननु जीवस्य संसारावस्थायां सचित्प्राकट्यमेव । मोक्षे आ- नन्दांशस्यापि प्राकट्यमिति कथमेवं वैरूप्यं स्वीक्रियत इत्याशङ्कयाह। नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो ३ अध्याये ३ पादः। ३ वाऽन्यथा ॥ ३२ ॥ यदि संसारावस्खायामपि जीवस्यानन्दांशः प्रकट इत्युच्येत, तां सत्यानन्दांशस्य नित्यमुपलब्धिः स्यात् । तथाच संसाराव- स्थाया असम्भवः स्यात् । अथ जीवस्य सर्वदैवानन्दांशस्यानुपल- ब्धिः स्वीक्रियेत, तथा सति मोक्षदशा न स्यात् । मथान्यथानुपप- त्याऽन्यतरनियमः स्त्रीक्रियेत, जीवो निरानन्द एव, ब्रह्म त्वानन्दम. यमिति । तथाच, ब्रह्मैव सन् ब्रह्माप्येतीतिश्रुतिविरोधः प्राप्नोति । अतः पूर्वोक्त एव प्रकारोऽङ्गीकर्तव्य इति सिद्धम् ॥ ३२ ॥ अतः परं सावधानां मते कर्तृत्वं प्रमंतिगतमेवेति, तन्मतनि- रासाय जीवगतकर्तृत्व व्यवस्थापनार्थमधिकरणान्तरमारण्यते । कती शास्त्रार्थवत्त्वात् ॥ ३३ ॥ कर्ता जीव एव । ज्योतिष्टोमादिविधायकशास्त्राणामर्थवत्त्वा- तू । अन्यथा ब्रह्मणः कर्मणामनुपयोगाज्जडस्याशक्यत्वात्कर्मविधयो व्यर्थाः स्युः॥३३॥ विहारोपदेशात् ॥ ३४॥ यद्यत्कामयते तत्तद्भवतीति श्रुत्या जीवस्यैव गान्धर्वादिलोकेषु विहार उपदिष्टः । तथाच साधुकारी साधुर्भवतीति श्रुतौ कर्तृत्व- भोक्तृत्वयोः सामानाधिकरण्याज्जीव एव कर्ता सिद्धयति ॥ ३४॥ नन्विन्द्रियः कर्मकरणदर्शनातेषामेव कर्तृत्वमस्त्वित्याश- उपादानात् ॥३५॥ तदेषां प्राणानां विज्ञानेन-विज्ञानमादायेतिश्रुत्युक्ताजीधेन स- चप्राणानां विज्ञानोपादानाजीव एव कर्ता । इन्द्रियाणां तु करणत्वमे. च । अतः स्वातन्त्र्याजीव एव कर्ता ॥३५॥ व्यपदेशाच्च क्रियायां नचेन्निर्देशविपर्ययः ॥ ३६॥ विज्ञान यज्ञ तनुते कर्माणि तनुतेऽपि चतिश्रुती यागादिकि- बायां विज्ञानात्मकजीवस्यैव कर्तृत्वेन व्यपदेशात् तस्यैव कर्तृत्वमि- ११ ८२ ब्रह्ममूत्र सौ। त्यर्थः । सास-यपते तु फर्मणि बुद्ध्यादीनामेव कर्तृत्वं, भोगे तु जीव- स्य । साजन्यमताग्रहेण पूर्वोक्तव्यपदेशाङ्गीकारो नचेत्तहि, विज्ञान यशं तनुत इति श्रुती, विज्ञानेन विज्ञानमादायेतिशुतिवनिर्देशस्य वि. पर्ययः स्यात् । विज्ञानन यचं तनुत इति निर्देशः स्यादित्यर्थः ॥ ३६ ॥ ननु जीवस्य कर्तृत्वं चेत्तर्हि स्त्रस्य हिताकरणादिदोषप्रसङ्ग इत्याशझ्याह। उपलब्धिवदनियमः ॥ ३७ ॥ चक्षुषा यथेष्टमनिष्टं चोपलभते तथेन्द्रियैः कर्म कुर्वञ्जीव इष्ट- मनिटं वा प्राप्नोतीति न हिताकरणनियम इत्यर्थः ॥ ३७ ॥ नन्वेवमपि जीवस्य क्रियायां स्वातन्त्र्यलक्षणं कर्तृत्वं चेत् ख- स्थाहितं न कुर्यादित्याशङ्ख्याह । शक्तिविपर्ययात् ॥ ३८ ॥ जीवस्य शक्तविपर्ययात् तथा सामाभावान हितकरणनियम इत्यर्थः ॥ ३८ ॥ शक्तिविपर्यये हेतुमाह। समाध्यभावाच्च ॥३९ ।। जीवस्य क्रियाशानशक्ती योगेन भवतः । समाधेरभावाच्छ- त्यभावः । चकारान्मन्त्रसामर्थ्याभावोऽपि सूचितः ॥ ३९ ॥ ननु कर्मकर्तृणां पाचकादीनां कर्तृत्वभोक्तृत्वयोर्भदो दृश्यते तथात्रापि भविष्यतीत्यत आह । यथा च तक्षोभयथा ॥ ४० ॥ यथा तक्षा स्वयं रथं निर्माय तत्रारुह्य विहरति । परार्थनि- र्माण स्त्रयं तेन न विहरति च । तथा जीवोऽपि स्वार्थ परार्थ च करोति कारयति चेत्यर्थः । नच कर्तृत्वस्य दुःखरूपत्वाजीवे तन्ना. ङ्गीक्रियत इति वाच्यम् । पयःपानादिकर्तृत्वस्य सुखरूपस्य ह. ष्टत्वात् ॥४०॥ तत्कर्तृत्वं जीवधर्मों वा, ब्रह्मधमों वेति संशये निर्णयमाह।

२ अध्याये ३ पादः।
परात्तु तच्छुतेः ॥ ४१॥
कर्तृत्वं ब्रह्मधर्म एव । पराद् ब्रह्मण एव तत्कर्तृत्वं जीवे समायाति।
तस्य ब्रह्मांशत्वादैश्वर्यादिवत् । कुतः? तच्छ्तेः । यमधोनिनीषति,
सर्वकर्ता सर्वभोक्ता सर्वनियन्तेति तस्यैव कर्तृत्वश्रुतेः । ब्रह्मणः स-
रूपत्वान्न कश्चिद्दोषः शयः॥४१॥
ननु ब्रह्मणः सर्वकर्तृत्वे वैषम्य नैघृण्यं च स्याजीवानां दु:-
खदातृत्वात्तदनुकूलकर्मकारणाश्चेत्याशङ्ख्याह ।
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥४२॥
पूर्वपक्षव्यावर्तकस्तुशब्दः । भगवान् फलदाने जीवकृतप्रय-
नापेक्षः । अतो जीवस्य याहशप्रयत्नाभिनिवेशं पश्यति तादृशं कर्म
कारयतीति न भगवति दोषः । अन्यथा विहितप्रतिषिद्धयोर्वेयर्थ्य
स्यातू ॥४२॥
अधुना जीवस्य ब्रह्मसम्बन्धिरूपमाह ।
अंशो नानाव्यपदेशादन्यथाचापि दाशकितवा-
दिवमधीयत एके ॥४३॥
जीवो ब्रह्मणोंऽश एव । सर्व एवात्मानो व्युञ्चरन्ति कपूयच-
रणा रमणीयचरणा इत्यादिनानाव्यपदेशात् । ननु ब्रह्मणों निरवय-
वत्वाज्जीवस्यांशत्वं न सम्भवतीति चेन्न । ब्रह्मणः स्वरूपं न लोक-
सिद्धं, किन्तु श्रुतिसिद्धमेव तत् । तथाच यथा श्रुतिर्वदति तत्स्वरूपं
तथैवेति मन्तव्यं, नतु कुकल्पनाभिः प्रत्यवस्थातव्यम् । ननु जीव-
स्य ब्रह्मांशत्वे तत्सजातीयत्वमायाति । ब्रह्मदाशा ब्रोमे कितवा
उतेतिश्रुत्यन्तरे त्वेकविज्ञानेन सर्वविज्ञानप्रतिज्ञानाद्दाशादीनां ब्रह्म-
त्वं प्रतीयते । तत्कार्यत्व एव समञ्जसं स्यादिति चेन्न । अन्यथा प्र-
कारान्तरेणापि शरीरत्वेन च प्रकारेणैके शाखिनो दाशकितवादि-
त्वमधीयते । तथाचानन्दांशस्य तिरोहितत्वान जीवस्य ब्रह्मसाजा-
त्यम् । चिद्रूपेण तु साजात्याङ्गीकारे इष्टापत्तिरिति भावः ॥ ४३ ॥
मन्त्रवर्णात् ॥ ४ ॥

ब्रह्ममूत्रवृत्तौ ।
पुरुष एवेद सर्वमित्युपक्रम्य, पादोऽस्य विश्वाभूतानीत्यनेन
भूतानां जीवानां पादत्वं, पादेषु स्थितत्वेन वांशत्वमुक्तमिति त-
देव जीवस्य स्वरूपमित्यर्थः ॥४४॥
अपि स्मयते ॥ ४५ ॥
ममैवांशो जीवलोके जीवभूतः सनातन इति जीवस्यांशत्वं
स्मर्यतेऽपीत्यर्थः ॥ ४५ ॥
ननु जीवस्य ब्रह्मांशत्वे तदुःखेन ब्रह्मणोऽपिदुःखित्वं
स्यादू, हस्तादिवेदनया शरीरस्येवेत्याशझ्याह ।
प्रकाशादिवन्नैवं परः॥ ४६॥
परो भगवान् पवं जीवदुःखेन दुःखी न । प्रकाशादिवत् ।
नाग्नेहि तापो न हिमस्य तत्स्यादिति न्यायेन यथा प्रकाशादिरूपा.
णामग्न्यादीनासन्यस्य तापकत्वेऽपि स्वस्य न तापादि । तथा द्वैतबु-
यांशस्य दु:खित्केपि परस्य भगवतो दु:खित्वं नेत्यर्थः । यद्वा,
यथा प्रकाशादिकं प्रकाश्यदोषेण न दुण्यतिं तथा ब्रह्माप्यंशदोषेण
न दुप्यतीत्यर्थः ॥ ४६॥
स्मरन्ति च ॥ ४७॥
तत्र यः परमात्मा हि स नित्यो निगुणाः स्मृतः, न लिप्यते
फलश्चापि पनपत्रमिवाम्भसा, कर्मात्मा ह्यपरो योऽसौ मोक्षबन्धैः
स युज्यते, एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःस्नेन बाह्य
इत्यादिना सर्वेऽप्युषयोंऽशिनो दुःखासम्बन्धमंशस्य च दुःखसम्बन्ध
स्मरन्ति । चकारण, तयोरल्या पिप्पलं स्वाद्वत्तीतिश्रुतिः परिगृही.
ता॥४७॥
ननु जीवस्य भगवदंशत्वेन विधिविषयत्वाभावात् कर्मसम्ब
न्धोऽनुपपन्नः । किश्चैकस्यैव जीवस्यानेकदेहसम्बन्धादयं शूद्रोऽयं
पतित्यिं स्त्रीति शानमशक्यम् । अतः कर्ममार्तयनियमस्यासम्भ-
वाज्जीवस्यापि दुःखित्वं न सम्भवतीत्याथझ्याह ।
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्॥४८॥

२ अध्याये ३ पादः। ८५ अनुज्ञापरिहारौ विधिनिषेधौ जीवस्य देहसम्बन्धात् । यदा यो देहो गृहीतस्तत्सम्बन्धात् । ज्योतिरादिवत् । यथा शवाग्निश्च- गडालभाण्डस्थितं जलं तद्घटादिकं च परिह्रियते । उत्कृष्टं ज्योति- रादिकं च गृह्यते । एवं जीवोऽप्युत्कृष्टापकृष्टशरीरसम्बन्धाद्विधिनि- बेधी भजत इति नोक्तदोषः ॥४८॥ ननु शरीरस्यापि बाल्यकौमाराद्यवस्थाभेदेन भेदात् कर्मकाले ब्राह्मणत्वादि कथम् । उपनयनकालीनशरीरस्य तदानीमभावात् । नच जीवैक्यादिदमुपपन्नमिति वाच्यम् । देहान्तरेऽपि तस्यैव जीव- स्य सत्त्वाचण्डालदेहेऽपि ब्राह्मणत्वं स्यादित्याशङ्याह । असन्ततेश्वाव्यतिकरः ॥ ४९ ॥ बाल्यादिषु शरीराणां भेदेऽपि सन्ततेरैक्यादेकत्वं विवक्षित- म् । जन्मान्तरे तु सन्तते दान्न पूर्वोक्तो व्यतिकरः । अतो न कर्म- णां साङ्कमिति भावः ॥ ४९ ॥ ननु ब्रह्मणः सच्चिदानन्दमयत्वात्तदंशो जीवोऽपि तथा भवि- तुमर्हतीति कथं तस्य संसारित्वमत आह । आभास एव च ॥ ५० ॥ आनन्दांशतिरोधानाजीवो ब्रह्माभास इत्युच्यते । नत्वाभा- सोक्त्या तस्य मिथ्यात्वं बोध्यम् । व्यापकस्य सर्वत्र विद्यमानस्य च ब्रह्मणः प्रतिबिम्बासम्भवात् । अतोऽस्य संसारित्वमुपपन्नमिति भावः ॥५०॥ ब्रह्मणो नियामकत्वप्रतिपादनाय नैयायिकाद्यभिमतं जीवरूपं निराकरोति । अदृष्टानियमात् ॥५१॥ नैयायिकादिभिर्हि, नानात्मानो व्यवस्थात इत्युक्त्या भोगव्य- वस्थासिद्धयर्थ जीवनानावं स्वीकृतम्, अदृष्टस्य भोगनियामकत्वं च । खभोग्यवस्तूनां देशान्तरे उत्पत्त्यन्यथानुपपत्त्या जीवस्य व्याप- फत्वं चोरीकृतम् । इदं सर्वथानुपपन्नम् । सर्वेषामेव व्यापकानां जीवानामनेकदेहसम्बन्धस्य सत्त्वादेतजीवस्येदमद्दष्टमेतस्य नेति

ब्रह्मसूत्रवृत्तौ ।
नियमो न स्यात् । अतोऽदृष्टस्यानियमान्न तार्किकायभिमतं जीवस्त्र.
रूपं युक्तमित्यर्थः ॥ ५१॥
ननु मनःप्रभृतीनां करणानां नियामकत्वेनाङ्गीकारात्तेषां चे-
श्वरेच्छया नियतत्वाद् यदीयं यत्र मनस्तच्छरीरावच्छेदेन तदीयमह-
ष्टं तत्रोत्पद्यत इतिनियमान्नोक्तदोष इत्याशझ्याह ।
अभिसन्ध्यादिष्वपि चैवम् ॥ ५२ ॥
अभिसन्ध्यादिषु ईश्वरेच्छामनःप्रभृतिषु नियामकत्वेनाङ्गी-
क्रियमाणेष्वप्येवं पूर्वोक्तदोषप्रसक्तिः । आत्मनां व्यापकत्वेन सर्वत्र
सम्बन्धसम्भवादस्येदं मनोऽस्य नेतिनियमाभावादित्यर्थः । तदभिम-
तेश्वरनिराकरणं च, पत्युरसामञ्जस्यादिति सूत्रेण पूर्व कृतमेव ।
अतो नेश्वरेच्छयापि नियमसिद्धिः॥५२॥
नन्वात्मनो विभुत्वेऽपि तस्मिस्तादृशःप्रदेशविशेषोऽस्ति येना-
ऽहष्टनियमादिकं सम्भविष्यतीतिकल्पने नोक्तदोषापसिरित्याशा
परिहरति ।
प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ।।
अन्यस्यात्मनोऽपि प्रदेशस्य तवान्तर्भावान्न प्रदेशकल्पनेना-
पि दोषपरिहारः सम्भवति । यद्वा तहेहस्यैव देशान्तरगमने पूर्वदे-
यस्य त्यक्तत्वात् स प्रदेशोऽन्तर्भवेत्तिरोभवेदित्यर्थः । अतो नेदं मतं
समीचीनमिति भावः ॥५३॥
इति श्रीब्रह्मसूत्रवृत्ती मरीचिकाख्यायां द्वितीयाध्यायस्य
तृतीयः पादः॥२॥३॥

२ अध्याये ४ पादः।
८७
द्वितीयाध्यायस्य चतुर्थः पादः ।
पूर्वपादे जीवस्वरूपं विचार्य तच्छरीरवर्तिनां प्राणादीनां वि.
चारार्थमनिमश्चरण आरश्यते ।
तथा प्राणः ॥१॥
प्राणा इन्द्रियाणि । यथा जीव उत्क्रान्त्यादिधर्मवांस्तथा तेऽपि
बोध्याः । इन्द्रियाणां प्रियत्वसूचनाय प्राणशब्द उक्तः । मनसो
मुख्यत्वात्तदभिप्रायेण प्राण इत्येकवचनम् । जीवे आनन्दमात्रांशस्य
तिरोभावो, जडेषु प्राणेन्द्रियेषु चिदंशस्यापि तिरोभावात पृथक्तमा
तन्निरूपणं कृतम् । नच जीव इव प्राणेषु ब्रह्मव्यपदेशाभावान्न तेषु
जीवधर्मातिदेशो युक्त इति शङ्मयम् । ये प्राणं ब्रह्मोपासत इति श्रुतौ
तत्रापि तद्यपदेशस्य सत्त्वात् ॥ १॥
नन्विन्द्रियाणामुत्क्रान्तिश्रुतिौणी भविष्यतीस्याशझ्याह ।
गौण्यसम्भवात् ॥२॥
इन्द्रियाणामुत्क्रमणश्रुतिौणी न सम्भवति । एकस्या एव श्रु-
तेर्जीवे मुख्यत्वस्येन्द्रियेषु गौणत्वस्य चासम्भवात् ॥ २॥
तत्प्राक् श्रुतेश्च ॥ ३ ॥
सृष्टेः प्राक् पूर्वमपि प्राणादीनां स्थितिश्रुतेरपि तेषां नित्यत्व.
मित्यर्थः । श्रुतिश्च, असद्वा इदमन आसीत, तदाहुरित्युपक्रम्य, प्राणा
वा ऋषय इत्यादिका शेया । प्राणानां जडत्वेन जीवविचारापेक्षया-
ऽधिक्येनात्र विचारः क्रियते । न च प्राणानां पूर्व सत्त्वे सदेव सौ-
म्येदमग्र आसीदितिश्रुतिविरोधः स्यादिति वाच्यम् । असद्वा इदम-
प्र इति श्रुतौ प्राणानामुत्पत्तिरेव निषिध्यते, जीवस्येवोद्गमस्तु न नि-
विध्यते । अत उद्गमात् पूर्वावस्थानिरूपिका, सदेव सौम्यति श्रुतिरि-
ति न विरोधावकाशः । चकारान्मोक्षे सम्पत्तिश्रुतिः परिगृहीता ॥३॥
तत्पूर्वकत्वाद् वाचः ॥ ४ ॥

८८.
ब्रह्मसूत्रवृत्ती।
मनः पूर्वरूपं घागुत्तररूपमितिश्रुतेर्वाचो मनःपूर्वकत्वाद्
वेदात्मकवाचो यत्र नित्यत्वं तत्र तत्पूर्वरूपमनसो नित्यत्वं सुतरामे
वेत्यर्थः ॥४॥
सप्तगतेर्विशेषितत्वाच्च ॥ ५ ॥
तमुत्क्रामन्तं प्राणोऽनून्क्रामतीति श्रुती सप्तानां चक्षुरादीनां
गतिश्रवणाद् एकीभावश्रुती च सप्तानां गतिभिर्जीवगतेविशेषित
स्वाज्जीवगत्या सप्तानां गतीनां विशेषितत्वाच तेषां जीवतुल्यत्वमिन
त्यर्थः । चकारण तत्तदुपाख्यानेषु चक्षुरादीन्द्रियाणां देवतास्वं सं-
बादश्च परस्परमुक्तः स संगृहीतः। अतः सर्वथा जीवतुल्यत्वमेतेषु
शेयम् ॥५॥
केचित्विदं सूत्रमग्रिमसूत्रपूर्वपक्षनिरूपकं याचख्युः । तथा-
हि । ते प्राणाः किं त इत्यपेक्षायां सप्त प्राणाः प्रभवन्तीति, अष्टौ
ग्रहा अष्टावतिग्रहा इति सप्त वै शीर्षण्याः प्राणा द्वाववाशाविति नव
वे पुरुषे प्राणा नाभिदेशमीति दश वै पशोः प्राणा आत्मैकादश इत्या.
दिश्रुतिघनेकविधसंख्यानां प्रतीतेः किं युक्तमितिसंशये सप्त प्राणा
इन्यर्थः । कुतः१ गतेः, सप्त इमे लोका इतिथुनो सप्तानामेव गति-
श्रवणाज्जीवस्योत्क्रमणसमये सप्तानामेव विशषितत्वाच । अन्ये भे-
दास्त्वेतेषामेव वृत्तय इति प्राप्ते, उच्यते ।
हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥
पूर्वसूत्रस्य प्रथमोक्तरीत्या व्याख्याने तु पूर्वपक्ष उत्सूत्रं शेयः ।
तुः पूर्वपक्षव्यावर्तकः । हस्तौ चादातव्यं च, उपस्थश्वानन्दयितव्यं च,
पायुश्च विसर्जयितव्यं च, पादौ च गन्तव्यं चेति श्रुती हस्तादयश्चत्वार
इन्द्रियत्वेन गणिताः । एवं च हस्तादीनां चक्षुरादितौल्ये स्थिते सति,
अतो हतो.वं, सप्तैवेति न, फिन्त्वेकादशैवेन्द्रियाणीति सिद्धम् ॥६॥
अणवश्व ॥ ७॥
सर्वे प्राणा अणुप्रमाणायाः । गतिमत्त्वे सति निस्यत्तस्या-
ऽणुत्वं विनाऽसिद्धेः॥७॥
श्रेष्ठश्च ॥ ८॥

२ अध्याये ४ पादः। श्रेष्ठो मुख्यप्राणः, सोऽपि नित्यगतिशीलोऽणुपरिमाणश्च शेयः॥८॥ ननु यः प्राणः स वायुः, एष वायुः पञ्चविधः प्राणोऽपानो ध्यान उदानाः समान इति श्रुतेः, सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्चेति साङ्खयोक्तेश्च मुख्यप्राणो वायुरिन्द्रियाणां क्रिया वास्त्वि- त्याशङ्ख्याह। न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥ एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चेति श्रुती प्राणवा- खोः पृथगुपदेशान्मुख्यः प्राणो, वायुः क्रिया वा न भवतीत्यर्थः ॥९॥ अथ मुख्यः प्राणः स्वाधीनः पराधीनो वेति संशये, सुप्तेषु वागादिषु प्राण एको मृत्युनानाप्तः प्राणः संवर्ग इत्यादिश्रुत्या प्राणः खतन्त्र इति प्राप्ते, उच्यते। चक्षुरादिवत्तु तत्सहशिष्टयादिभ्यः ॥ १० ॥ तुः पूर्वोक्तशङ्कानिरासार्थः । चक्षुरादिवत् प्राणोऽप्यस्वतन्तः मुख्यतया भगवदधीनः । व्यवहारे तु जीवाधीनः । कुतः ? चक्षुरा- दिभिः सह शासनात् । अतः प्राणः पराधीनो, न स्वतन्त्रः ॥ १०॥ ननु प्राणस्य जीवकरणत्वे व्यापारोऽपेक्षितः । तत्र वृत्तय- स्त्वेकादेशव । एकादशामी मनसो हि वृत्तय इति वाक्यात । भ- तोऽस्य व्यापारान्तरमपेक्षितमित्याशङ्ख्याह । अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥ प्राणस्याकरणत्वान्न पूर्वोक्को दोषःशड्यः, करणस्यैव व्यापा- रवत्त्वनियमात् । अन्यस्योपकारकस्य तु कार्यमात्रमपेक्षितम्। तथाहि श्रुतिरेव शरीरस्थितिलक्षणं कार्य प्राणस्य दर्शयति, तस्मिन्नुत्क्राम- स्वयेतर इत्यादिना । अतो व्यापाराभावेऽपि स्वरूपस्थितिमात्रेण त- स्योपकारित्वं सिखम् ॥११॥ ननु व्यापार विनोपकारित्वं न सम्भवतीत्याण्ड्याह । पञ्चवृत्तिर्मनोवढ्यपदिश्यते ॥ १२॥ १२ ? , ९० ब्रह्ममूत्रवृत्तौ। अहमेवैतत्पश्चधात्मानं विभज्यैतद्वाणमवष्टभ्य विधारयामीति श्रुतौ प्राणस्य पञ्चवृत्तिश्रवणान्मनोवश्वायं व्यपदिश्यते । यथा मन. सः स्वरूपत एव द्वारभेदेनैकादश वृत्तय एवमेव प्राणस्यापि पञ्चधा. त्मानं विभज्य कार्यकरणं व्यपदिश्यते । अतो न पूर्वोक्तो दोषः ॥१२॥ अणुश्च ॥ १३ ॥ आसन्यप्राणोऽणुः । प्राणानामुक्तमप्यणुत्वं पञ्चधात्मानं विम- ज्येतिवचनान्मुख्यप्राणे सन्दिग्धमतः पुनरुच्यते । चकारात्पूर्वोक्तध- मर्माणां समुच्चयः ॥ १३॥ अथ वागादीन्द्रियाणां देवताधिष्ठानयुक्तानां वदनादिकायें प्र- वृत्तिरुत जीवाधिष्ठानभगवत्प्रेरणयोः सत्त्वात् स्वत एवेति संशये वि. अषकार्यान्तरस्यादर्शनान्न देवतान्तरापेक्षेति प्राप्ते, उच्यते। ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४॥ तुः पक्षव्यावर्तकः । वागादीन्द्रियाणां ज्योतिरादि अग्न्यादि- कमधिष्ठानमङ्गीकर्तव्यम् । अग्निवर्वाग्भूत्वा मुखं प्राविदिति श्रुती तदामननात् कथनादित्यर्थः ॥ १४॥ अथ यदग्न्यादीनां वागाधधिष्ठातृत्वमुक्तं तत्स्वत एवोतान्य- सहितानां वेति संशये केवलाग्न्याधिष्ठानेनैव कार्यसिद्धेस्तस्यापि नियामकान्तरकल्पनेऽनवस्थाप्रसक्तस्तेषां स्वतोऽकिश्चित्करत्वे देवता- त्वव्याघाताश्च खत एव नियामकत्वमिति प्राप्ते, उच्यते । प्राणवता शब्दात् ॥ १५ ॥ वागादिकं प्राणवत्ता अग्न्यादिनाऽधिष्ठितमङ्गीकर्तव्यम् । सोध्य. मग्निः परेण मृत्युमतिक्रान्तो दीप्यत इत्यादिशब्दात् । अत्र परेणा- पहतपाप्मना प्रायन युक्तोऽग्निर्दीप्यत इत्युक्त्या दीप्यमानस्यैवाधि- छातृत्वात प्राणासहितस्यान्तेरधिष्ठातृत्वमुक्त, नतु केवलस्यत्यर्थः ॥१५॥ ननु प्रागसहितस्माधिष्ठातृत्वे सर्वाधिष्ठाहत्वं न स्यादत आह। तस्य च नित्यत्वात् ॥ १६ ॥ अग्न्यादीनां प्राणसम्बन्धस्य नित्यत्वात् सर्वदेवाधिष्ठातृत्व- २ अध्याये ४ पादः। मित्यर्थः । चकारात् प्राणस्यापि नित्यत्वं पूर्वमुक्तं सूचितम् ॥ १६ ॥ अथेन्द्रियाणां प्राणाधीनव्यापारत्वात् प्राणशब्दवाच्यत्वाब प्राणस्यैव वृत्तिरूपाणीन्द्रियाणि तत्त्वान्तराणि वेति संशये लाघवा- तु प्राणवृत्तिरूपाण्येवेति प्राप्ते, उच्यते । तदिन्द्रियाणि तद्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥ तानीन्द्रियाणि तत्वान्तराण्येव । कुतः ? तद्यपदेशात । एत- स्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चेतीन्द्रियशब्देन व्यपदेशात् । अतः कचित् प्राणशब्दवाच्यत्वेऽपि तेषां नेकत्वम् । ननु तर्हि भेदव्य- पदेशादासन्योऽपि तत्वान्तरं स्यादत आह । अन्यत्रेति । श्रेष्ठान्मुख्य- प्राणादन्यत्र भेदः । मुख्यप्राणे तु तत्त्वान्तरत्वं नास्तीत्यर्थः ॥ १७ ॥ भेदश्रुतेः ॥१८॥ यत्रापीन्द्रियेषु प्राणशब्दः प्रयुक्तः, तमुलकामन्तं प्राणोऽनूका- मति, प्राणमनूत्क्रमन्तं सर्वे प्राणा अनूकामन्तीत्यादी तत्रापि भदेन श्रुते कस्वामित्यर्थः ॥१८॥ वैलक्षण्याच्च ।। १९॥ प्राणस्येन्द्रियाणां च वैलक्षण्यादपि नैकत्वम् । वागादिषु सुप्तेषु प्राणस्य जागरणं सर्वेन्द्रियाणां स्वामित्वं चेत्याधनकविधं वैलक्षण्यं शेयम् ॥ १९ ॥ इदानीं भूतभौतिकानां सृष्टिः परब्रह्मण एवेति निर्णीय नाम- अपव्याकरणमपि तत पवेनिनिर्णयार्थमधिकरणान्सग्मारभ्यते । तंत्र घटादिपदार्थानां नामरूपनिर्माणं जीवादेवोत ब्रह्मण इति संशये लोके घटादिपदार्थानां नामरूपनिर्माणस्य कुलालादिभ्यो दर्शनादलौकिक- ऽपि स्थावरजङ्गमे मयूरादिसंशा मूर्तिश्च हिरण्यगात्मकजीवादेव भविष्यतीति प्राप्ते, उच्यते । संज्ञामूर्तिक्लूप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥ पूर्वपक्षव्यावर्तकस्तुशब्दः । पदार्थानां महामूर्योः क्लप्ति - मरूपयोर्निर्माणं, तत् त्रिवृत्कुर्वत एव, यत्रिवृत् करोति तस्मादेव ।

९२
ब्रह्मसूत्रवृत्तौ।
कुतः १ उपदेशात् । सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन
जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमे
कैकं करवाणीति श्रुती नामरूपव्याकरणत्रिवृत्करणयोः समानकर्तृ-
कत्वेनोपदेशातात्रिवृत्कर्ता तु परमेश्वर एव । जीवस्य देहसम्बन्धा-
नन्तरमेव कर्तृत्वात् त्रिवृत्करणेऽसामर्थ्यात् । अतो नामरूपव्याकर-
णमपि तत्कर्तृकमेवेति सिद्धम् ॥ २०॥
अथान्नमशितं त्रेधा विधीयत इत्यादिश्रुनेर्वाक्प्राणमनासि
भौतिकानि, उत, एतस्माजायते प्राणो भनः सर्वेन्द्रियाणि चेति श्रुतेः
स्वतन्त्राणीति संशये, पूर्वपक्षमाह ।
मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१॥
पुरीषमांसादिकं भौमं तेजोऽबन्नप्रकृतिकं शेयम् तत्र हेतुः यथाश-
दम् । अन्नमशितमित्यादिश्रुत्या निःसन्दिग्धं प्रतिपादनात् । ततः
किमत आह । इतरयोश्च । इतरयोर्मनःप्राणयोरपि यथाशब्दं भौति-
कत्वं शेयम् । एतस्माज्जायते प्राण इत्युद्मश्रुतिस्तु तेषां स्तुति-
परा । पूर्वोक्तोपपादकश्रुतिबाधात् । अतो भौतिकान्येव मन आदीनी-
त्येवं प्राप्ते ॥ २१॥
उच्यते।
वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२॥
मनआदि अन्नादिभिर्विशेष्यते कार्यक्षम क्रियत इति । अतो
वैशेष्यादेव हेतोर्मनः प्रभृतिष्पन्नमयत्वादिवादः । ननु कथं शायते,
वैशेण्याद् गौणोऽयं वाद इति । अत्रोच्यते । अथात्मनोऽन्नाद्यमागा-
यदिति श्रुतौ प्राणः सर्वस्यान्नस्यात्ता निर्दिष्टः । स कथं तत्परिणाम-
कार्यमिति वक्तुं युक्तम् । सृष्टौ प्रथमतो निर्दिष्टा वागावयोऽपि तत्रा-
न्निभोगार्थमनुप्रविष्टाः । अतो मनःप्रभृतीनां न भौतिकत्वं, किन्तु
तत्त्वान्तराण्येवैतानीति सिद्धम् । तवादपदवीप्साऽध्यायसमाप्तिबो-
इति श्रीब्रह्मसूत्रवृत्ती मरीचिकाख्यायां द्वितीयाध्यायस्य चतुर्थः
पादः । समाप्तमायं द्वितीयोऽध्यायः ॥२॥
धनार्थी ॥ २२॥

३ अध्याये १ पादः।
अथ तृतीयाध्यायस्य प्रथमः पादः।
तुतीयेऽध्याये साधनानां विचार्यमाणत्वात् साधनेष्वन्तरङ्ग-
त्वात् प्रथममधिकारिणः पश्चानिप्रक्रमेण जन्म विचार्यते । तब
ब्रह्मज्ञानीपयिकशरीरान्तरनिष्पत्तयेऽस्माच्छरीरात् फेवल एष जीवो
निर्गच्छति, संस्कृतभूतसहितो वेति संशयः । तत्रालौकिकऽर्थे श्रुत्य-
नुसरणस्याचितत्वात्, तत्र ते देवाः श्रद्धां जुह्वतीति वाक्ये श्रद्धाक-
पायामेव होमश्रवणात् केवल एव गच्छतीति प्राप्ते, उच्यते ।
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः
प्रश्ननिरूपणाभ्याम् ॥१॥
तस्य ब्रह्मज्ञानलक्षणस्य फलस्य अन्तरे या प्रतिपत्तिस्तस्यां
साधनीयायां, ब्रह्मशानौपयिफजन्मार्थमिति यावत्, संस्कृतैर्भूतः स-
परिवक्तः सहितो रहति गच्छति । कुतः १ प्रश्ननिरूपणाभ्याम् ।
वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवाचसो भवन्तीति प्रश्नः ।
असो वा व लोक इतिं निरूपणम् । प्रवेऽपां पुरुषत्वेन कथनाद्
उत्तरे चाहुतिफलत्वेन कथनात तेषां च पाञ्चभौतिकवादामन्तुक-
भूतानां फलत्वासम्भवात संस्कृतभूतसहितो गच्छतीति सिद्धम्॥१॥
ननु संस्कृतपञ्चभूतैः सह गमने प्रश्नोत्तरयोरपामेव प्रहर्ष
कुत इत्याशमाह।
व्यात्मकत्वात्तु भूयस्त्वात् ॥ २॥
तुशब्दोऽद्भिरेष सहित इतिशङ्काऽपाकरणार्यः । अपां प्र.
हणम्॥२॥
लौकिकयुक्त्याऽप्यपामेव प्रहणं युक्तमित्याह ।
प्राणगतेश्च ॥३॥
तमुत्कामन्तमिति श्रुत्या प्राणस्य गतेरुक्तत्वाद, आपोमयाः
प्राणा इत्यपां प्राणपोषकत्वश्रवणात प्राणो गच्छन् स्वाप्यायकं गू.
हीत्वा गच्छतीति युक्तमपां ग्रहणम् ॥ ३॥

ब्रह्मसूत्रवृत्तौ। ननु प्राणस्य जीवसङ्गे गमनं नोपपद्यते, यनास्य पुरुषस्येति श्रुत्या वाक्प्राणादीनामग्निवायुभावश्रवणादित्याशय समाधत्ते । अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥ अग्निवायुभावबोधकथुतेर्मुक्तविषयत्वाद् उत्क्रमणश्रुतेरमुक्तवि- षयत्वेन भाक्तत्वाद् गौणत्वादित्यर्थः । अतोऽग्न्यादिभावावेदकश्रुत्यो- स्क्रमणश्रुतेरवाध इति ॥४॥ ननु देवाः श्रद्धां जुह्वतीतिप्रथमाहुतियोधकश्रुतावपामश्रव. णात कथं ताभिः परिष्वक्तो गच्छतीत्याशय परिहरति । प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५॥ ता एव आपः श्रद्धाशब्दे नोच्यन्ते । हि युक्तम् । श्रद्धा का आप इति श्रुतेः । किमुपचारेण ? नेत्याह । उपपत्तेः । उपक्रमोप- संहारयोरपां श्रवणान्मध्ये श्रुतः श्रद्धाशब्दोऽपि तत्परत्व एवोपपद्य- ते । निष्कामकर्तुः संस्कारार्थ भूतानामेव श्रद्धाविषयत्वाच्छ्रद्धापद- प्रयोगः । तस्माद् भूतैः सम्परिष्वक्तो रहतीति सिद्धम् ॥५॥ अथ सर्वे जीवाः सम्परिवक्ता रहन्त्युत शानाधिकारिण ए- वेति विचार्यते । तत्र पञ्चाहुतिनिरूपणे नाधिकारिणः श्रुताः । अतो विशेषाश्रवणात् सर्वेषामेव पश्चाहुतिप्रकारेण जन्मेत्याशय परि- हरति । अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥ न । इष्टादिकारिणो हि धूमादिमार्गेण गच्छन्तः प्रथमं सोम- भावं प्राप्नुवन्तीत्युक्तम् । सोऽत्रापि प्रथम सोमभाव उच्यते । अतः श्रुतिसाम्यादपीष्टादिकारिणः सम्परिष्वक्ता गच्छन्तीति सिवम ध ननु, तं देवा भक्षयन्तीति श्रुती तेषां सोममावे भक्षणोके पश्चाहुत्यभाव इत्युत्सूत्रमाशय परिहरति । भाक्तं वाऽनात्मवित्त्वात् तथाहि दर्शयति ॥ ७॥ वाशब्देन शङ्का निराक्रियते । तेषां भक्षणं माक्तं गौणम् । कुतः ? अनात्मवित्त्वात् । अन्नभावे सति मुख्य भक्षणं भवेत् । स तु

३ अध्याये १ पादः।
?
सर्वभवनश्रुतेरात्मविद् एव सम्भवति, नत्वन्यस्य । तथाहि श्रुतिरेव
शब्दस्य गौणभावं दर्शयति । न स वेद यथा पशुरित्यत्र यथा पशु-
शब्दः पोषकपर एवमन भक्षणं भोग्यभावपरम् । देवास्तं स्वसेवां का-
रयन्तीत्यर्थः ॥ ७॥
सफलां प्रथमाहुति विचार्य द्वितीयाहुर्ति विचारयितुमधिक-
रणान्तमारभ्यते । तत्र सोमलोके कर्मफलं भुङ्क्त इति निश्चितं,
किं सर्वफलं भुक्त्वा वृष्टिर्भवत्युन सदाचारार्थ सानुशय इति संश-
यः । तत्र सावशेषफलभोगे प्रमाणामावादुत्तमशरीरादेव सदाचार-
सिद्धेर्निरनुशय एवावरोहतीति प्राप्ते, उच्यते।
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेत-
मनवं च ॥८॥
कृतस्य सोममावस्यास्यये नाये सति, अनुशयवान् अवान्तर-
फलसाधकसुकृतफललेशसहितो दृष्टिभावं प्राप्नोति । कुतः १ दृष्ट-
स्मृतिभ्याम् । दृष्टं हि भोगसाधकमूलधननाशेऽपि ताहशवस्त्रोपक-
रणादिसहित एव तत्स्थानादपगच्छति । तथाऽत्रापि सानुशयोऽव-
रोहति । स्मृतिश्च, यद्यत्र नः स्वर्गसुखावशेषितमित्यादि । तर्हि
नाद्भिः परिप्वक्तः स्यादित्याशयाह । यथेतं, यथागतम् । अन्यथा
प्रश्नोत्तरयोर्बाधः स्यात् । तावान्तरफलसाधकसहितः स्यादत आह।
अनेवं च । अनुशयलेशसहितो मिन्नप्रकाराद्भिः परिग्वतः । चका-
रादू वैराग्यहितोऽवरोहतीति सिद्धम् ॥ ८॥
ननु, तद्य इह रमणीयचरणा इत्यादिश्रुनेस्तस्य रमणीयचर-
णादेव सम्यग्जन्मसिद्धः किमनुशयसहभावेनेत्याशङ्य परिहरति ।
चरणादिति चेन्नोपलक्षणार्थेति कार्णाजिनिः ॥९॥
चरणश्रुती या योनिरुता सोपलक्षणार्थी, अनेन पूर्वजन्मनि
समीचीनं कृतमितिज्ञापिका । नत्वग्रिमजन्मनि समीचीनकरणे
नियामिका । नतोऽनुशयोऽपेक्ष्यते ज्ञानार्थमिति कार्णाजिनिमतम् ।
वस्तुतस्तु चरणश्रुतेः प्रकरणान्तरीयत्वात् तदनुरोधेन पञ्चाग्नि-
विद्यायामाशङ्कानुदयात समाधानवेयर्थ्य नाम्ना सूच्यते ॥९॥

ब्रह्मसूत्रत्ती।
मनु चरणश्रुतेर्मार्गान्तरेऽपि पूर्वजन्मकृतकर्मचापने प्रयोजना-
ऽभावाद् वैयर्थ्यापत्तिभिया विधायकत्वं वाच्यम् । तत एवाग्रिमदेहे
रमणीयत्वप्राप्ते नुशयोऽपेश्यते इत्याशय परिहरति ।
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ।। १०
घूमादिमार्गस्य तच्छुत्यपेक्षत्वात् काम्यकर्मिणः सुकृतफल-
भोगानन्तरं न्यायतो दुष्कृतभोगस्योपखितत्वादसमीचीनयोनिप्रा.
तिर्मा भवत्विति लोकन्यायं बाधित्वा रमणीयं जन्म बोध्यते । अतः
सार्थकत्वान्नानुशयाभाववाधिका श्रुतिः ॥ १०॥
मतान्तरेणानुशयपदार्थमाह ।
सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥
विहितनिषिद्धकर्मणी अनुशय इति बादरिराचार्यों मन्यते ।
खमते तु फलांश एवानुशयः ॥ ११ ॥
ननु, ये वैके चास्माल्लोकात् प्रयान्तीति भुती सर्वपदादिष्टा-
दिकारिव्यतिरिक्तानामपि सोमभावप्राप्तिः श्रूयते । तस्मात् सर्वेषा-
मपि सोमभावानन्तरं जन्मेति शङ्कते ।
अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥
परिहरति ॥ १२॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ
तद्गतिदर्शनात् ॥ १३ ॥
तुशब्दः शङ्कामपनुदति । इतरेषां विहितव्यतिरिक्तकर्तृणां सं-
अमने यमसन्निधाने सुखं दुःखं वानुभूय, मारोहावरोही विशेषानु-
भवार्थमारोहोऽनुभूयावरोहः । कुतः १ तातिदर्शनात् । वैवस्वते वि-
विच्यन्त इति श्रुतो तेषां विलक्षणगतेदर्शनात् ॥ १३ ॥
स्मरन्ति च ॥ १४ ॥
व्यासादयोऽपि, यमेन पृष्टस्तत्राहमित्यादिना यमगति स्मर-
न्ति । चकाराल्लोकप्रसिद्धिः॥ १४ ॥

३ अध्याये १ पादः। अपि सप्त ॥ १५॥ पापभोगाथै यमलोकगमनमवश्यमङ्गीकर्तव्यम् । यतो नरका- स्तत्र सप्त सन्ति रौरवादयः ॥१५॥ ननु नरकेषु चित्रगुप्तादयो यमाद्भिन्ना एवाधिकारिणः भूप- न्ते । तेषां स्वातन्त्र्ये पक्षान्तरं स्यादित्याना समाधत्ते । तत्रापि च तद्व्यापारादविरोधः ॥१६॥ चित्रगुप्तादीनां यमायत्तत्वात तत्रापि नरफेवपि तस्यैव यम- स्यैव व्यापारान्न पक्षान्तरप्राप्तिलक्षणो विरोध इत्यर्थः ॥ १६ ॥ ननु पञ्चाग्निविद्यानिरूपणे, मचिरादिमार्गनिरूपणे च गत्य- न्तरस्यानुक्तत्वान्न यमगतिरस्तीत्याशमाह । विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७॥ तुशब्दः पक्षम्यावर्तकः । विद्यया देवयानं कर्मणा सोमभाव इति श्रुस्या तत्र तयोरेव प्रकृतत्वात् कारणत्वेन कथनान यममार्ग उक्तः । नैतावता तस्य बाधः । श्रुत्यन्तरसिद्धत्वात् ॥ १७ ॥ ननु, जायस्वेत्यादिभुत्या यस्तृतीया प्रवाहमार्ग उक्तस्तव यममार्गः कुतो न निविशत इत्याशङ्कयाह न तृतीयेऽतथोपलब्धेः ॥ १८ ॥ तृतीये प्रवाहमागें तथा यमलोकवत सुखदुःखोपलब्ध्यभा. पान तस्मिन्नन्ताव इत्यर्थः । कीट: पतङ्गो यदि दन्दशूक इति श्रुत्या तत्तधोनी निवृतर्विद्यमानत्वात् तथा दुःखोपभोगाभावात, त- तच्छारीरदुःखस्यापि सत्त्वात् तथा सुखोपमोगाभावाञ्च ॥ १८॥ स्मयतेऽपि च लोके ॥ १९ ॥ मूच्छादिषु यमलोकगमनसम्भाषणादिकं लोकेऽपि स्मर्यते इति ॥ १९॥ १३ ९८ ब्रह्मसूत्रत्तौ। साधकान्तरम्। दर्शनाच्च ॥ २० ॥ यमपुरुषाणामजामिलप्रभृतिभिर्दर्शनात् । चकारात् तेषां वाक्यादिश्रवणादपि यममार्गे न विवदितव्यम् ॥ २०॥ ननु तृतीयाहुनी वृष्टेरन्नमिति श्रुतम् । तत, लोके बीजं विना केवलवृष्टरन्नानुपलब्धर्वाधितमित्याशङ्ख्याह । तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥ संशोकजस्य, तस्माद् यत्र कच शोचति स्वेदते वा पुरुषस्तेज- स एव तद्ध्यापो जायन्त इति श्रुतेः कारणभूतजलस्य तृतीयशब्दाव- रोधः, तृतीयाहुतौ शब्देन वृष्टिशब्दनावरोधो ग्रहणम् । तस्माद्यत्र कच वर्षति तदेव भूयिष्ठमन्नं भवतीति श्रुतेदेवहोमात् कारणशक्ति- युक्ताभ्योऽद्भयो बीजान्तरनिरपेक्षाभ्योऽन्नं भवतीत्यर्थः ॥ २१ ॥ ननु समानधूममार्गश्रुतौ तस्मिन् यावत्सम्पातमुषित्वा अथै- तमेवमध्वानं पुनर्निवर्तन्त इत्युक्तेः, यर्थतमिति वायुर्भूत्वा धूमो भ- वतीत्यादि, आकाशाश्चन्द्रमसमित्युक्तत्वात् कार्यरूपवाय्वादिसह- भावेन कार्यरूपवृष्टिभावः प्रतीयते, न कारणरूप इत्याशय परि- हति । साऽऽभाव्यापत्तिरुपपत्तेः ॥ २२ ॥ सा वाय्वादिरूपापत्तिराभाव्यापत्तिरेव वाय्वादिवदाभानमेव, त तु मुख्यं वाय्वादित्वम् । कुतः १ उपपत्तेः । गौणत्वेनान्यस्यान्य. भावबोधकस्य वायुभूत्वेत्यस्य तथैवोपपत्तेः । तस्मान्न कार्यरूपवृ. ष्ट्यादिभावः ॥ २२॥ नातिचिरेण विशेषात् ॥ २३ ॥ वृष्टेरन्नरूपता च नातिचिरेण । कुतः १ विशेषात् । अतो वै खलु दुर्निप्रपतरमिति श्रुत्याऽन्नभावापन्नस्यैव विलम्बश्रवणादू ब- ३ अध्याये १ पादः। ९९ हुकालस्थितौ हि कार्यरूपवृष्टित्वम् ॥ २३ ॥ ननु, संसर्गजैः कर्मदोषैर्याति स्थावरतां नर इत्युक्तेरस्याधि- कारिणोऽन्नत्वासम्भव इत्याशड्याह । अन्याधिष्ठितेऽपूर्ववदभिलापात् ॥ २४ ॥ अन्यैर्जीवधिष्ठिते व्रीह्यादावपूर्ववत्तद्भावापत्तिः । अतिथिव. त् । कुतः १ अभिलापात् । व्रीहियवा भोषधिवनस्पतय इत्यादिना जगति स्थितव्रीह्यादिभावस्यैवाभिलापात् । अतोऽन्यजीवाधिष्ठितवी- ह्यादौ सम्बन्धमात्रान्नोक्तदोष इति भावः ॥ २४॥ नन्वन्याधिष्ठानेऽङ्गीक्रियमाणेऽधिष्ठातृजीवानामशुद्धत्वादन्न- स्याशुद्धत्वे तेन योग्यदेहानुपपत्तिरित्याशय परिहरति । अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥ ना शब्दात् । देवा अन्नं जुह्वति तस्या आहुते रेतःसम्भवतीति श्रुतेर्देवहोमात्मकसंस्कारेणैवान्तस्य शुद्धत्वान्नोक्तदोष इत्यर्थः ॥२५॥ ननु पुरुषभक्षणमात्रादेव नान्नस्य रेतोभावो रश्यते । बाल्य- कौमारवाचकेषु व्यभिचारात । अतः श्रुतस्य पुरुष देवैरन्नहोमाद् रेतोभावस्यानुपपत्तिरित्याशय समाधत्ते । रेतःसिग्योगोऽथ ॥ २६ ॥ अत्र श्रुतौ पुरुषशब्देन मन्त्रवद्रेत सेचनसमर्थ उच्यते । त. घोगोऽत्र विवक्षितः । कथं ज्ञायते, तत्राह । अथ । आनन्तर्यात् । पू. र्वत्र देवेहोंमे कृते फलस्य जातत्वात् कथं चतुर्येवाहुतिरफला स्यात् ॥ २६ ॥ फलं निरूपयति । तस्या आहुतेगर्भः सम्भवतीति श्रुतम् । तत्र यो- नावन्तःस्थितमेव फलं बहिर्निर्गतं वेति संशयः। तत्र गर्भशब्दस्यान्त:- खितवाचकत्वाच्छरीरपरत्वे लक्षणाप्रसङ्गः । ततश्च गर्भस्यवाहुतिफ- लत्वेन कथनात् षण्मासानन्तरं गर्ने ज्ञानसम्भवात् ताशस्याधिका- रिणो गुरूपसत्त्यादिकम न कर्तव्यमिति प्राप्ते, उच्यते ।

१०० ब्रह्मसूत्रवृत्तौ। योनेः शरीरम् ॥ २७ ॥ योनेर्निर्गतं शरीरं गर्भशब्दो बोधयति, नत्वन्तःस्थितम् । अग्नेरुन त्थितस्य फलत्वात् । शरीरपदाद् वैराग्यादिसाधनसम्पत्तिः सूचिता। अग्ने ब्रह्मज्ञानान्तरङ्गसाधनं गुरुपसत्यादिकं तु कर्तव्यमेव । तदर्थ- मेवैताहशशरीरसम्पादनात् ॥ २७ ॥ इति श्रीब्रह्मसूत्रवृत्तौ मरीचिकाख्यायां तृतीयाऽध्यायस्य प्रथमः पादः।

३ अध्याये २ पादः। १०१ तृतीयाध्यायस्य द्वितीयः पादः पूर्वस्मिन् पादे पञ्चाग्निप्रकारेण मोक्षान्तरङ्गसाधनशानभक्ति- सिद्ध्यर्थमधिकारिणो योग्यदेहो निरूपितः । अस्मिन् पादे मुक्ति- योग्यता निरूपणीया । तत्रोपनिषत्सु स्वाप्निकसृष्टेरप्युक्तत्वात् तस्याः सत्यत्वे तत्कृतगुणदोषसम्बन्धेन मुक्तौ प्रतिबन्धः स्यादतः स्वप्नसृष्टे- मिथ्यात्वनिरूपणेन प्रतिबन्धकरवाभावो निरूप्यते । तत्र सूत्रद्वयेन पूर्वपक्षमाह । संध्ये सृष्टिराह हि ॥ १॥ सन्ध्ये स्वप्ने । तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं तृतीयं स्वप्नस्थानमिति श्रुतेः । तत्र, न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजत इत्यादिना तन्निषेधात्, सृजत इत्युक्तेश्च ॥१॥ निर्मातारं चैके पुत्रादयश्च ॥ २ ॥ पषु सुनेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः, तदेव शुक्र तद् ब्रह्मेत्यादिना काठकचतुर्थवल्ल्या एके शाखिनो भगवन्तं निर्मा- तारं वदन्ति । यद्यपि, न तत्र रथा न रथयोगा इत्यपि ब्रह्मप्रक- रणं, तथापि तत्र जीवस्यापि कर्तृत्वप्रतीतनिःसन्दिग्धं वचनमुदाह- तम, एषु सुप्तेषु जागर्तीत्यादि । तत्र जागर्तीत्यनेन कर्तुरभ्रान्त- त्वात् सृष्टः सत्यत्वमुक्तम् । कामं काममित्यनेन सृष्टेरिच्छा- पूर्वकत्वमुक्तम् । शतायुषः पुत्रपौत्रानित्यादिना कामविषयाः पुत्र- दय उक्ताः। ते च परलोकसाधका इति लोकत्रयपरिकर उक्तः । सूत्र चकारद्वयेन कारणकार्यधर्माः सर्वे स्वप्नसृष्टावुक्ताः । यद्यपि, एषु सुप्तेवितिस्वप्नसृष्प्रितिपादकवाक्यस्य ब्रह्मप्रकरणीयत्वाज्जीवः पृथक्त्वेन स्वसृष्टिकर्ता नास्ति, तथापि जीवस्यापि भगवदभेदेन तत्सृ. ष्टिकर्तृत्वं सम्भवति । तथा स्वमसृष्टीवाधिष्ठानत्वेऽपि जीवाभेदेन ब्रह्माप्यधिष्ठानं भवत्येव । सुषुप्त्युत्क्रान्स्योरेव भेदेन व्यपदेशादन्यत्र भगवभेदेनैव जीवस्यावस्थानात् । अतः स्वप्नसृष्टविद्यमानत्वात् त- . , १०२ ब्रह्मसूत्रवृत्तौ । - स्कृतगुणदोषसम्बन्धेन जीवस्य मोक्षप्रतिबन्धः स्पादिति प्राप्ते ॥२॥ उच्यते। मायामानं तु कात्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥३॥ तुः पक्षव्यावर्तकः । स्वप्नसृष्टिर्मायामात्रम् । तत्र हेतुः, का- स्न्येनेत्यादिः । यद्वस्तुनो याहरादेशकालसापेक्षं रूपं तपेण तस्याः सिव्यक्तिः कात्स्न्येनाभिव्यक्तिस्तवभावात् । स्वप्ने पदार्थानां विशक लिततया भानातू सा सृष्टिर्मायामात्रमेव । फिञ्च । यथा, ऐतहाः म्यमिदं सर्वे, तत्सत्यमित्यादिश्रुतौ प्रपञ्चस्य सत्यत्वं निरूप्यते, न तथा क्वापि स्वप्नप्रपञ्चम्य सत्यत्वं निरूप्यते । अतः प्रदर्शनार्थत्वान्मा. यिकत्वमेव । तस्य लोकप्रतिच्छायरूपत्वाजीवतां मृतानां च दर्शन- मुपपद्यते । अतः स्वप्नसृष्टर्मायामात्रत्वान्न जीवस्य तत्कृतगुणदोष- सम्बन्धेन मोक्षप्रतिबन्धः । स्वप्न दीक्षिनस्यान्नभोजनादिप्राय: श्चित्तं तु, वचनबलादेव तत तदानीं जीवस्य कर्तृत्वारोपा- होषसम्बन्धं कल्पयित्वा तन्निरासाय विधीयते । अन्यत्र तु स्वप्ने जीवस्य कर्तृत्वाभावात्न गुणदोषसम्बन्धः । तत्र जीवब्रह्मणाविद्य. मानत्वाद्देवताऽऽज्ञादिरपि युक्ता । स्वप्नपदार्थानां त्वलौकिकत्वात् क्वचिन्न संवादः, क्वचिद्भगवदावेशेनेषसंवादोऽपि भवति । अतः स्वप्नस्य मायामात्रत्वमिति सिद्धम् ॥३॥ ननु किमर्थं तर्हि खप्नसृष्टिरत्राह । सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥ स्वप्नः शुभाशुभफलस्य सूचको भवति । चकारेण क्वचिः दानाविशेषदानाप तत्र दृश्यते । कलिकालाधनुरोधात् प्रत्यक्षत आझाद्यसम्भवात् । प्रातः स्वप्नपदार्थदर्शनेऽपि तत्सूचितफलस्य ह. टत्वात् । अस्वार्थस्थ युक्तत्वं हि शब्देन द्योत्यते । अन प्रमाणमाह । यदा कर्मसु काम्येग्वित्यादिश्रुनेः । किञ्च तद्विदः स्वप्राध्यायविदो- ऽपि तस्य, आरोहणं गोवृषकुराणामित्यादिना सूचकमाचक्षते । अतःशुभाशुभफलसूचनार्थ स्वमदर्शनम् ॥ ४॥ ननु जीवार्थ भगवान सृष्टिं करोति, स्वस्थ सर्वा लीलाच तस्मै ३ अध्याय २ पादः। प्रदर्शयति, भगवदंशश्वायं जीवः । तथासस्येतस्य दुःखित्वाचनुपप- त्तिरित्याशङ्मयाह । पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥ तुः पक्षव्यावर्तकः । अस्य जीवस्य पराभिध्यानात् परस्य भगवतोऽभिध्यानं स्वस्यैतस्य जीवस्य च भोगेच्छा तस्मात तिरोहि- तमैश्वर्यादि । अतो भगवदिच्छया जीवस्यैश्वर्यादिषड्गुणतिरोभा- बाद बर्थोसञ्जय दीनत्वसर्वदुःस्त्रसहनसर्वहीनत्वजन्माधापद्विषयत्व- देहविहम्बुद्धिविषयासक्त्यादयो भवन्ति । अतो बन्धविपर्ययावेतस्य जाती । हि युक्तश्चायमर्थः । एकस्य जीवस्यैकांशप्राकट्येपि तद्धर्म- दर्शनात । आनन्दोवस्तु पूर्वमेव तिरोहितो यतो जीवभावः । अत पवास्थ काममयत्वम् । आनन्दस्याकामरूपत्वात् । निद्रायाश्च सुतरां भगवधर्मतिरोभावकत्वम् । अतो भगवत ऐश्वर्यादिलीलासिद्ध्यर्थ जीवस्यैश्वर्यादितिरोभाव उक्तः । अत्रायं भावः । भगवतः परम- कारुणिकत्वात् नदिच्छया जीवस्य बन्धोऽसम्भावितः । अनी जीव- स्य भोगेच्छयैव भगवदिच्छाया उत्तजनम् । अधवा जीवस्य भग- घदभिन्नत्वाद्भगवदिच्छयैव जीवेच्छा। तयैतस्य बन्धविपर्ययो । अत्रा- नन्दतिरोभावरूपोऽनादिवन्धो देहादिष्वहम्बुद्ध्यादिरूपः पूर्वसिद्ध एवं | जन्यस्तु बन्धो जीवस्य भोगेच्छया भगवदिच्छाकृत इति शेयम्। तस्मान्नपूर्वोक्तो दोषः ॥५॥ एवं स्वमतेन जीवस्यैश्वर्यादिधर्मतिरोभावं निरूप्य मतान्तरण निरूपयति। देहयोगाहा सोऽपि ॥ ६॥ देहयोगांदेवास्य सर्वतिरोभावो विपर्ययो वा । अविशब्दाद- न्यदपि ज्ञातव्यम् । अस्मिन् पक्षे देहवियोग एवं पुनरैश्वर्यादिप्राप्तिः। पूर्वकल्प विद्यमानेऽपीति शेषः ॥ ६ ॥ एवं प्रसङ्गाजीवस्याज्ञानं निरूप्य सुषुप्तो केवलमज्ञान वक्तुं स्थानखमाभावी निरूपयति ।

। १०४ ब्रह्ममूत्रवृत्तौ । तदभावो नाडीषु तच्छृतेरात्मनि च ॥ ७ ॥ नाडीरनुक्रम्य, तासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यति, अथास्मिन् प्रागा एवैकधा भवतीति, तथा प्राज्ञनात्मना स. परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमिति श्रूयते । तत्र स्वप्नवत् प्रप- ञ्चसृष्टिमपि भगवान् मायिकी करोति, न वेति संशयः । तत्र, एष सु. प्लेषु जागर्तीत्यत्न जीवस्खापमात्रे भगवत्सृष्टेः कथनात स्वप्नं न कञ्चन पश्यतीत्यत्र दर्शनमात्रनिषेधान्न बाह्य किञ्चन वेद नान्तरमिति जागरणखानप्रपञ्चयोरविशेषेणादर्शनकथनात् सुषुप्तावपि प्रपञ्चनिर्मा- णसम्भवान्मुक्तावपि तत् स्यात् । परं सुपुप्ताविवाहानमात्रम् । तथा सति सुषुप्तिवत् पुनर्बन्धप्रसङ्ग इति प्राप्त, उच्यते । नाडीवात्मनि तस्य स्वप्नस्याभावः । कुतः ? तच्छुतेः प्रपश्चाभावश्रुतेः । कामनया हि प्रपञ्चनिर्माणम् । सुषुप्तस्तु तद्वा अस्यैतदात्मकाममित्यादिना- Sकामरूपश्रवणात् । तत्र तन्न सम्भवतीत्यर्थः । नाडीवात्मनि चेतिकथनातू सुषुप्तद्धिरूपत्वं सूच्यते । अत एव बृहदारण्यकषष्ठे, ता वा अस्यैता हिता नाड्यः, तद्वा अस्यैतदात्मकाममिति भेदेन सुषु. प्तिमाह । अतः सुषुप्तौ प्रपञ्चसृष्टेरभावान्न सर्वदा प्रपञ्चनिर्माणम् । तेन नोक्तदोषः ॥ ७ ॥ प्रबोधे विचार्यते । तत्र नाडीभ्यो भगवतो वा हृदयदेशं समा- गत्य जागर्ति, उत यत्र स्थितस्तत एवेति संशये, प्रतियोन्याद्रवति बुद्धा- न्तायैवेतिब्रह्मप्रकरणीयश्रुतेर्हृदयदेशमागत्य जागर्तीति प्राप्ते, उच्यते। अतः प्रबोधोऽस्मात् ॥ ८॥ नाडीषु सुप्तौ,अतो नाडीभ्य एव प्रबोधः । प्रतियोन्याद्रवणश्रुः तिस्तु ब्रह्मप्ररकणीयत्वाद् भगवतः प्रबोधव्यवस्थामाह । तस्माद् यत्न स्थितस्तत एव प्रबोध इति सिद्धम् ॥८॥ ननु प्रिययेव प्राज्ञेनात्मना पारवक्तस्य प्रबोधेन ज्ञाने जाते मुक्तिरेवस्यान्न पुनरागमनम् । देहनिर्वाहार्थ तु भगवदिच्छया. ऽन्यो जीवः समायाति । नाडीभ्यः प्रबोधे तु मुक्त्यसम्भवात स एव जीवः समायाति । तथाच भगवति सुप्तस्य तत एत्र मुक्त्यस. म्भवान्माक्षार्थ प्रयत्नो व्यर्थ इत्याशय परिहरति । , ३ अध्याये २ पादः। १०५ स एव तु कर्मानुस्मृतिशब्दविधिम्यः ॥ ९ ॥ तुः शङ्कानिरासे । भगवतः प्रबोधे स एव । कुतः? कर्मानु- स्मृतिशब्दविधिभ्यः । सामिकृतस्य लौकिककर्मणः समापनं दृश्यते । अतः स पवेति जानीमः । अनुस्मृतिरप्यनुभवितुरेव नान्यस्य सम्भ- पति । शब्दश्च पुण्यो वै पुरग्रेन कर्मणेत्यादिः । विधयश्चे, श्वोभूते ब्रह्माणं वृणीत इत्याचा अन्यस्यानुपपद्यमानाः स एवेति शापयन्ति । अतः पूर्वपक्षयुक्तीनां दुर्बलत्वात स एव प्रतिबुद्ध्यत इति सिद्धम् ॥९॥ ननु यत्र कर्मानुस्मृत्यादिहेतवो न सम्भवन्ति मुग्धादिषु तत्र स एवेत्या नियामकाभावाइन्यो भविष्यतीत्याशड्स परिहरति । मुग्धेऽईसम्पत्तिः परिशेषात् ॥ १० ॥ मुग्धे मुग्धभावे अर्द्धसम्पत्तिरेव, न सर्वा ।मुग्धस्य यागादाव- नधिकारात । लौकिकव्यवहारस्याप्यपूर्वस्यासाधनत्वाज्जीवनाधि- कारप्राप्तकर्ममात्रकरणादर्घसम्पत्तिरेव शेया। परिशेषात् । स एव वा, न चेतिनिश्चयप्रमाणाभावात् सन्देहोऽवशिष्यते । अत्र जीवाव- शानामेव विचार्यत्वात् प्राणायनविघातकता मूच्छा नेह विचार्यते । अत एक एव जीवः स्वप्नादिदोषसम्वन्धरहितः पश्चाग्निसाधितदे- हयुक्तो भगवज्ञानरहितो शानाधिकारीति सिद्धम् ॥ १० ॥ अथवा ज्ञानविषयनिर्णयाय ब्रह्मस्वरूपं विचार्यते । तत्र प्रथ- ममन्योऽन्यं विरुद्धवाक्यानां निर्णयः क्रियते । तत्र पूर्वाध्यायद्वयेन समन्वयविरोधः परिहतः । तथा ब्रह्मणि धर्मविरोधः परिहर्तव्यः अन्यथा वेदान्तानामबोधकत्वं प्रसज्येत । तत्र विरुद्धानां स्वगत. धर्माणामग्रिमे पादे विचारः । जडजीवधर्मत्वेन प्रतीतास्त्वत्र विं. चार्यन्ते । तत्र क्वचिज्जडजीवधर्मा भगवति बोध्यन्ते, सर्वकर्मा स- र्वकाम इत्यादिना । कचित्वस्थूलादिवाक्ये प्रापचिकधर्मा निषिद्ध्यन्ते। नच सर्वकामादयो जीवधर्मा नेति वाच्यम् । तेषां जीवगतत्वेन प्रतीतेः । नच ते धर्माः कारणत्वेन ब्रह्मणि सन्तीति वाच्यम् । नेल- रोऽनुपपत्तेरित्यादिना सर्वत्र जीववैलक्षण्यस्योक्तत्वाद् ब्रह्मणि त- धर्माणां निषेधाच्च । एवं वेदान्तेषु वाक्यानां परस्परविरोधे प्राप्ते केषां चिन्मतेनाविरोधमाशय परिहरति ।

१.६ ब्रह्मसूत्रसौ। न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥३१॥ सर्वत्र कारणत्वेन भगवतो विद्यमानत्वादस्थूले स्थूलोऽनणा- वनणुरुच्चावचफर्तर्युच्चावचकर्ता उच्चावचकामे उच्चावचकामः . थिव्यां गन्धो जलादावगन्धः । एवं स्थानतः परस्य ब्रह्मण उभय- लिङ्गत्वमुपपद्यते । अपिशब्दनावच्छेदभेदेनाचिन्स्यसामर्थ्याद्वोभय- लिङ्गत्वं सम्भवतीति संगृह्यते । तत्र, कुतः १ सर्वत्र हि । सर्वत्रैव हि ब्रह्मवाक्येवताशमेव ब्रह्मस्वरूपं निरूप्यते । अतः स्थानभेदेनोभ- यवाक्यसमाधानं न सम्भवतीत्यर्थः । ब्रह्मवाक्यानामनुवादकत्वे वैया स्वरूपप्रतिपादकत्वं युक्तमिति हिवब्दार्थः। अचिन्त्वसा- माङ्गीकारे झानानुदयप्रसङ्गः । अत एतन्मतानुसारेण लानत उभयलिङ्गवाक्यानां विरोधो न परिहर्तुं शक्यः ॥ ११ ॥ प्रकारान्तरेणाविरोधमाशय परिहरति । न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२॥ भेदात् प्रपञ्चधर्मविशिष्टं ब्रह्म भिनं, तदर्माभावविशिष्टं च भिन्नमिति सर्वत्र कारणकार्येषु भेदाङ्गीकाराच पूर्वोचो विरोध इति चन्ना मधुब्राह्मणे, अयमेव स योध्यमिति प्रत्येकमभेदवचनान्नानेना- ऽपि प्रकारेण विरोधपरिहारः ॥ १२॥ अपि चैवमेके ॥ १३॥ एके शाखिन एवं भेदनिषेधेनाभेदमेव वदन्ति । नेह नागाs- स्ति किञ्चन, मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतीति । अत्रे घशब्दो बहुस्यामितीच्छया प्रतीतस्य भेदस्य व्यावृत्त्यर्थः ॥ १३ ॥ अतो भेददर्शनस्य प्रत्युत निषिद्धत्वात् तदङ्गीकारेण विरो. धपरिहारासम्भवादुपनिषद्वाक्येषु परस्पर विरोधे प्राप्ते, एकदेशिम- तेन परिहारमुच्यते । अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ रुप्यते निरूप्यते व्यवहियत इति रूपं सर्वव्यवहारविषयत्वं, तद्युक्तं रूपवजगत् । ब्रह्म तु तद्विलक्षणम् । ननु जगतः कार्यत्वाद ३ अध्याये २ पादः। १०७ कार्यकारणयोरवैलक्षण्यमपि स्यादित्याशङ्कयाह । तत्प्रधानत्वाद् ब्रह्म- स्वरूपप्रतिपादकवाक्येषु ब्रह्मणः प्रधानत्वान्मुख्यत्वात् तस्यैव नि- रूपणमुचितं, नतु जगतोऽपि । अतो ब्रह्मणो जगद्विलक्षणत्वात्तद्धर्मा- पां निषेध उचितः । सर्वकर्मादयस्तु जगद्धमा उपचारातुच्यन्ते । अत्रारूपमितिवक्तव्येऽकपदिति भिन्नवत्कथनं सर्वकर्मादीनां जगद्ध- र्माणामेवैवं निर्णयो, नतु प्रशासनाद्यसाधारणधर्माणाम् ।तेषां भगव- धर्मत्वे विरोधाभावात् । अतः प्रपञ्चवत्तद्धर्माणामपि कार्यत्वाद्भगव- त्वं, न भगवद्धर्मत्वमिति । एवं ब्रह्मस्वरूपनिरूपकवाक्यानां मुख्य- तया तन्निरूपकत्वं धर्मप्रतिपादकानां तूपचारेण तन्निरूपकत्वमित्ये. कदेशिमतेन विरोधपरिहारः ॥ १४ ॥ नन्वेवं निर्द्धर्म के ब्रह्मणि सर्वव्यवहाराभाचे शास्त्रथैफल्यं, ते त्वोपनिषदं पुरुषं पृच्छामि, यतो पाचो निवर्तन्त इति वाक्यानां विरो- धश्चेत्याशड्याह। प्रकाशवाचावयात् ॥ १५ ॥ यथा सौरः प्रकाशो व्यवहार्योऽव्यवहार्यश्च स्वतः स्थापयितुं सम्पादयितुं च न शक्यते । सूर्योदये मेधावभावे च व्यवहर्तुं शक्यते। तथा ब्रह्मापि लौकिकेन्द्रियैर्व्यवहर्तुं न शक्यते । भगवत्कृपया तत्स- न्निधाने तु व्यवहर्तुं शक्यते । उभयथा श्रुतिनिरूपयतीत्यर्थः । क- थमेतज्ज्ञायते, तत्राह । अवेयात् । अन्यथा ब्रह्मप्रतिपादक शास्त्रं व्यथै स्यात् । चकारण, आसीनो दूरं व्रजति, अपाणिपादो जवनो प्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण इत्यादीनामलौकिकभगवन र्माणामकार्याणां खत:सिमानां विरोधो नास्तीत्युच्यते तस्माद व्यव- हार्येऽपि ब्रह्मणि न शास्त्रवैफल्यम् ॥ १५ ॥ ननु श्रुत्युक्तानां दर्शनश्रवणादिधर्माणामकार्यत्वकल्पनापेक्षा- यामलौकिकानीन्द्रियाणि कल्पनीयानि । तथा सत्यकारणकार्यत्वप- रिहारेऽपि पश्यत्यचक्षुरितिश्रुतिविरोध इत्याशय परिहरति । आह च तन्मात्रम् ॥ १६॥ यथा सैन्धवधनोऽनन्तरोऽबाह्य इत्यादिना श्रुतिस्तन्मात्रं प्रशान- घनमात्रमाह । अतः स्वरूपातिरिक्तेन्द्रियाणामभावाद-वेदात्मनिःश्वा- १०८ ब्रह्मसूत्रत्तौ। ससमुत्थानादिक्रियाणामपि तत एव सम्भवात् सर्वाकारस्वर- पात्मकत्वस्याङ्गीकारान्नेन्द्रियादिकल्पनया श्रुतिविरोधः गड्यः। चकारेण, सर्वेन्द्रियविवर्जितमिति स्मृतिरपि संगृहीता ॥ १६ ॥ ननु ब्रह्मणः समवायनिमित्तरूपेण जगत्कारणत्वात् कारमान धर्माणामेव कार्ये दर्शनात् कामादिधर्माणां च श्रुत्योक्तत्वाद् ब्रह्मणि सत्त्वमङ्गीकर्तव्यम् । तथाच निषेधक श्रुतिविरोध इति प्रकारान्तरे- णाशय परिहरति । दर्शयति चाथो अपि स्मयते ॥ १७ ॥ दर्शयति श्रुतिरेव, अथात आवेशो नेति नेतीत्यादिना ब्रह्म णि जडजीवधर्माणामभाव इति । अग्रे, अन्यत्परमस्तीत्यनेन ब्रह्मणः प्रपञ्चातिरिक्तकथनात् प्रपञ्चधर्माणां तत्र कथनमौपचारिकमेव यु. तम् । श्रुतेरन्यार्थत्वनिराकरणाय स्मृतिसम्मतिमाह । अनादिमत्परं ब्रह्मेत्यादि स्मर्यतेऽपीत्यर्थः । अतः प्रपञ्चधर्माणामुपचाराद् ब्रह्मणि कथनं युक्तम् ॥ १७॥ अत्रैव निदर्शनमाह। अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥ अत एवेमं निर्णयमाश्रित्य, समः प्लुषिणा समो मागेन समो मशकेन सम एमिस्त्रिभिलोकैरित्यादिना निरुपमस्य भगवत उपमा- कथनम् । न तत् तत्तद्धर्मसम्बन्धं विनोपपद्यते । स्वतन्त्रताहशधर्म- वत्त्वस्य ब्रह्मणि वक्तुमयुक्तत्वात् । मन्विदमपि विरुद्ध मित्याशय दृष्टान्तेन समाधत्ते । सूर्यकादिवत् । सूर्येण सहितं कं जलं सूर्यकम् । यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्, ए- कधा दशधा चैव दृश्यते जलचन्द्रवदित्यन प्रतिबिम्बसहितस्य ज. लस्योपमानत्वम् । तथा, समः प्लुषिणेत्याद्यपि भगवतः सर्वकारण- त्वेन तत्तद्धर्मसम्बन्धाद् बोध्यं, नतु स्वातन्त्र्येण भगवति ते धर्माः सम्भवन्ति । चकारस्त्वेवं विरोधाभावो वाच्योऽधिकरणं चैकदेशिनः सम्पूर्णमिति बोधनार्थः ॥ १८ ॥ अतो जडजीवधर्माणां भगवत्युपचारात् कथनं, निषेधस्तु म ख्य इत्येकदोशिमतं दूषयति ।

३ अध्याये २ पादः। अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९॥ तुः पूर्वमतव्यावृत्त्यर्थः । म तथात्वं, ब्रह्मण उपचारेण जडजीव- सम्बन्धात् सर्वकामत्वादिकं न सम्भवति । कुतः ? अम्बुवदनह- णात् । यथा खच्छमम्बु प्रतिबिम्ब गृहाति, तथा धर्माः सर्वकामत्वा- इयो धर्मिणं भगवन्तं न गृह्णन्ति । स्वातन्त्र्यापत्त्या धर्मव्याघातात् । सर्वाधारत्वेन ब्रह्मणस्तद्धर्मवत्त्वं तु स्वाभ्युपगमविरुद्धम् । नच वेदे भ्रमाधर्मकल्पनं सम्भवति । अप्रतारकत्वात् सर्वज्ञत्वाच्च । अतः सर्वकामादयो ब्रह्मधर्माः स्वाभाविका एक, नतूपाधिसम्बन्धादोप- चारिकाः ॥ १९ ॥ सिसाम्तेन विरोधं परिहरति । वृद्धिहासभाक्त्वमन्त वावुभयसामञ्जस्यादेवम् ॥२०॥ यथैकस्यैवाफाशस्य करकादिप्यन्तीवाद् वृद्धिहासभाक्त्व. मेवमेवोभयसामञ्जस्याद् एवं सत्तदनुप्रवेशाद् ब्रह्मणोऽपि सर्वकामा- दयः सम्भवन्ति । नचैवं धर्माणामोपाधिकरवप्रसङ्गः । जपाकुसुम- लौहित्यवदन्यधर्मत्वाभावाद् ब्रह्मधर्माणामेवान्यत्र प्रतिभानात् ॥२०॥ अत्र हेत्वन्तरमाह। दर्शनाच॥ २१॥ भगवति सर्वे विरुद्धा धर्मा दृश्यन्ते, अल्परिमाणं, महत्प- रिमाणम् । एवं बाल्यकिशोरावस्थास्वपि शेयम् । नहि दृष्टेऽनुपपन्ने नाम, व्यघातात् । चकारणोलूस्खलबन्धनादो प्रत्यक्षेणैवोभयधर्मवत्त्वेन दर्शनं संगृह्यते । अतस्तद्वस्त्वेताहशमिति मन्तव्यम् । ततः श्रुतिस्मृ- तिप्रत्यक्षैः सर्वविरुधर्माश्रयत्वेन ब्रह्मप्रतीतने कश्चिदू विरोधः शयः ॥ २१॥ एवं वस्तुस्वरूपविचारेण परमार्थतो विरोथं परिहत्य युक्त्या परिहरति । प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति ११० ब्रह्मसूत्रवचौ। च भूयः ॥ २२॥ प्रकृतं यदेतावत्त्वं प्राकृतधर्मवस्वं तदेव प्रतिषेधति श्रुतिः, न- स्वलौकिकसर्वकामवत्त्वादिकम् । प्रतीतस्यैव प्रतिषेध्यस्वादप्रतीतस्य चालौकिकधर्मवत्त्वस्य प्रतिषेधायोगात् । अस्थूलादिवाक्यैर्ब्रह्मणो ज. गवलक्षण्यमेवोच्यते । नतु घेदोक्तधर्मा निषिध्यन्ते । अत्र प्रमाणमा- ह। ततो ब्रवीतीत्यादि । यत्र वाक्ये धर्मान् निषेधति, पुनस्तत्रैव तान विधत्ते, यतो घाचो निर्वतन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो वि- छानित्यादौ । तस्माल्लौकिकधर्माणामेव प्रतिषेधो, न त्वलौकिकानाम- पीति शेयम् ॥ २२॥ एवं शब्दबलविचारेण विरोधं परिहत्यार्थबलविचारेण सत्प. रिहारावाधिकरणान्तरमारचयति । तत्र, न चक्षुषा गृह्यते, कश्चि- खीरः प्रत्यगात्मानमैक्षत, नापि वाचा, सर्वे घेदा यस्पदमामन- न्ति, अस्पर्शमगन्धमरसं, सर्वरूपः सर्वगन्धः सर्वरस इत्यादिविरु- द्धवाक्यानां दर्शनाद वस्तुनो द्वैरुप्यासम्भवात स्वतःप्रमाणभूतधा- क्यद्वये एकस्य प्रामाण्यमन्यस्योपचरितार्थत्वं कल्प्यम् । तत्रक स्योपचरितार्थत्वमितिजिज्ञासायां प्रत्यक्षानुरोधेन पूर्वपक्षमाह । तदव्यक्तमाह हि ॥ २३ ॥ तद् ब्रह्माव्यक्तमेव भवितुमर्हति । यतः, माह हि श्रुतिप्रत्य- क्षाभ्याम् । नेति नेतीत्यात्माऽग्राह्यो नहि गृह्यत इति । महि प्रयत इत्यनुभवं श्रुतिराह । नहि चक्षुषा वा मनसा था कस्यापि दर्शनम- स्ति । सर्वरूपत्वे तु ब्रह्मणः सर्वेषां दर्शनं स्यात् । अतो धर्मप्रति पादकानि वाक्यान्युपचरितार्थान्येवेति प्राप्ते ॥ २३ ॥ उच्यते। अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ अपिः पूर्वपक्षिगर्हणे, यतोऽसौ मूर्खःसंराधने सम्यकप्रकारक सेवायां भरावत्ताये जाते द्रष्टुं शक्यते । श्रद्धाभक्तिध्यानयोगाद- वेहि, भक्त्या त्वनन्ययेत्यादि, ज्ञातुं द्रष्टुं च तत्वेनेत्युक्तः। किञ्च, त- तस्तु तं पश्यते निष्कलं ध्यायमानः, अनेकबाहूदरवक्त्रनेत्रं पश्या-

३ अध्याये २ पादः।
भीत्यादिना सगुणनिर्गुणं च रूपं दृश्यत्वेनोच्यते । अतः प्रत्यक्षानु-
मानाभ्यां संराधकस्य स्वानुभवो, ध्रुवादीनामनुमापकत्वात त.
अनितमनुमानं ताभ्यां, श्रुतिस्मृतिभ्यां वा ब्रह्म साकारमनन्तगुणपूर्ण
चेति, नाव्यक्तमितिं ज्ञेयम् ॥ २४ ॥
इममेव सिद्धान्तं प्रकारान्तरेण स्थिरीकर्तुमधिकरणान्तरमार-
चयति । तत्र सूत्रद्वयेन पूर्वपक्षद्वयमाह ।
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्य.
भ्यासात् ॥ २५ ॥
ननु प्रत्यक्षानुरोधेन ब्रह्मण उभयरूपत्वं न संम्भवति । अत-
स्तत्प्रतिपादकवाक्यानां वस्तुशक्त्या निर्णय उचितः । तत्र यथा प्र-
काशजलसुवर्णानां सूर्यचन्द्रमणिप्रकाशादिषु हिमतप्तकुण्डादिजले-
षु सुवर्णे चानेकविधरूपस्य दृश्यभवनेऽपि नानेकविधत्वमङ्गीकि-
यते, एकरूपत्वेनैव तेषां निर्णयात् । तथा ब्रह्मणोऽप्यवैशेष्यमङ्गी-
कर्तव्यम् । ननु साक्षात्कारानुरोधेन ब्रह्मणि तावन्तो धर्मा अङ्गी-
क्रियन्त इत्याशयाह । प्रकाशश्व फर्मणि । भगवतः प्रकाशस्तु तपः-
प्रणिधानादिकर्मणि भवति । तत्र तु भक्तच्छानुरोधा यथाकामं
प्रकटीभवतीति स प्रकाशो वस्तुनिर्णायको न भवतीत्यर्थः । चकारे-
णाप्रकाशोऽन्यथा प्रकाशश्च भवति, तदप्यभ्यासात् । बहुवारमनेक-
रूपेण प्रकटीमवति । अतोऽनेकरूपदर्शनं न वस्तुनिर्णायकं भव.
तीति भावः ॥२५॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
अतोऽभ्यासादनन्तेन रूपेणाविर्भावः । नोकं घस्तु स्वतो-
नेकविधं भवति । तथा सति लिङ्गविग्रह एव भवति, न स्वरूपम्।
हीस्यनेन, यद्यखियान उरुगाय विभावयन्तीति प्रमाणं सूचितम् ।
अतः श्रुतेः प्रत्यक्षस्य वा निर्णायकत्वान्निर्मकमेव ब्रह्मेति प्राप्त गर६॥
उच्यते।
उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥

११२ ब्रह्मसूत्रवृत्ती। तुः पक्षव्यावर्तकः । नहि ब्रह्मस्वरूपनिर्णयो युक्त्या कर्तुं श. क्यः । शब्दैकगम्यस्य ब्रह्मणः स्वरूपनिर्णयः शब्देनैव भवति । अत उभयव्यपदेशाद् निर्गुणत्वेनानन्तगुणत्वेनं सर्वविरुद्धधर्माश्रयत्वेन व्यपदेशावुभयरूपं ब्रह्म ज्ञेयम्। तदुभयमपि वास्तविक नित्यम् । गुणा- नामपि तदात्मकत्वेन निर्गुणत्वम् । आश्रयाश्रयिभावरूपेण स्फुर- मातूं सविशेषमपि । नन्वेकस्य कथमनेकधा भानं, तत्राह । अहिकु- एडलवत् । यथैक एंव सर्प ऋजुरनेकाकारः कुण्डलश्च भवति, तथा ब्रह्माप्यचिन्त्यशक्त्या सर्वप्रकारं भक्तेच्छया तथा स्फुरति।अतः प्रमा- णसिसकलविरुद्धधर्माश्रये भगवति, न कापि श्रुतिरुपचरितार्थेति सिद्धम् ॥ २७ ॥ एवं धर्मिस्वरूपविचारेण ब्रह्मणो निर्मकत्वं सधर्मकत्वं च स्थापयित्वा धर्मखरूपविचारेणदमेव स्थापयितुमधिकरणान्तरमाह। तन धर्माः किं ब्रह्मणो भिन्नास्तत्कार्यरूपा उत ब्रह्मैवेति संशये, लोके कार्यस्यैव पटरूपादेस्तद्धर्मत्वव्यपदेशात् तन्नित्यतायां प्रमाणाभावात स्वाभाविकत्वेन नित्यत्वोक्तौ,एकमेवाद्वितीयमितिश्रुतिविरोधाश्च धर्माः प्रपञ्चवत् कार्याः, तथाच ब्रह्म निर्मकमेवति प्राप्ते, उच्यते । प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ वाशब्दः पूर्वपक्षव्यावर्तकः । यथा प्रकाशाश्रयाः सूर्यादयः प्रकाशेन न भिन्नाः पृथकस्थित्यभावात् । नापि प्रकाशः सूर्य एव । सूर्यस्य प्रकाशभेदेन प्रतीतेः । अतस्तद्वस्त्वेताहशमिति मन्तव्यम् । तत्र हेतुः । तेजस्त्वातू तेजःशब्दवाच्यत्वाद्, अथ यदतः परो दिवो ज्योतिरित्यादिना । अतो ब्रह्मधर्माणामपिचिद्रूपत्वेन स्वरूपानतिरेकान्न कार्यत्वेनानित्यत्वमिति नेयम् । तस्माद् यथाश्रुतमेव ब्रह्म सध- मकं निर्द्धर्मकं चेति सिद्धम् ॥ २८ ॥ पूर्वोक्तैकदशिमतेनाप्युभयवाक्यसमाधानमाह । पूर्ववद्वा ॥ २९ ॥ अथवा, अरूपचदेव हीत्यादिपञ्चसूत्र्या यः पूर्वमेकदेशिमतेन सिद्धान्त उक्तो, निर्द्धर्मकमेव ब्रह्म सर्वकामादिधर्मनिरूपणं तूपचारा. दिति तद्वद्वा ब्रह्म शेयम् । अत्रायमाशयः । उपपत्त्योत्पत्त्या च द्वेधा ब्रह्मस्वरूपविचार। तत्र सिद्धान्तिमतेनोपपत्त्या विचारे धर्मिग्राहक ३ अध्याये २ पादः। ११३ प्रमाणभूतैरुपनिषद्वाक्यैर्यादृशं ब्रह्म बोध्यते सधर्मकं निर्द्धर्मकं च ताह- शमेव तद्वस्तूपपद्यते । अन्यथाकल्पनस्य कल्पनामात्रत्वात् । एकदेशि- मतेन तूत्पत्त्या विचारेप्रथमं ब्रह्म निर्द्धर्मकमेव । ततो, बहु स्यामितिस- टीच्छयाप्रथमं ब्रह्म स्वधर्मरूपेण भवति। ततः क्रियादिरूपेण प्रपञ्चरूपे- ण चेति । अनया रीत्याऽपि ब्रह्मस्वरूपमुभयात्मकं सिद्ध्यति । अन्यथै- कतरश्रुतिबाधः स्यात् । धर्माणां नित्यत्वं तु ब्रह्मात्मकत्वादेव शेयम् । अयं भावः । निर्गुणमेव ब्रह्माङ्गीकर्तव्यम् । अत्र न विवदामः । किन्तु केवलनिर्गुणत्वे सृष्टिप्रक्रियाबन्धमोक्षव्यवस्थादीनामनुपपत्तिरस्तिः । ननु प्रतिबिम्बेनैव समाधेयमिति चेदुच्यते । नहि निर्द्धर्मकस्य प्रति- बिम्ब सम्भवति । लोके कुत्रापि तथाऽदर्शनात् । तस्मादचिन्त्यतद- भिन्नशक्त्या सगुणमपि स्वरूपं वास्तविकमेवाङ्गीकर्तव्यम् । तदेव. सृष्टिसमये गुणानाविष्कृत्य सृष्टिं करोति । ननु सधर्मकत्वे, एकवि- शानेन सर्वविज्ञानातिज्ञाभङ्गः स्यादिति चेदुच्यते । गुणाः स्व- स्वरूपान्नात्यन्तं भिन्नाः। तस्मात् तेषामपि तत्स्वरूपत्वेनेकविज्ञानेन सर्वविज्ञानप्रतिज्ञापि सुस्थैव । अतो न कोऽपि दोषः शयः । मत- द्वयमपि सूत्रकारसम्मतमित्युपन्यस्तम् ॥ २९ ॥ एकदेशिमते उपपत्त्यन्तरमाह। प्रतिषेधाच्च ॥ ३०॥ एकमेवाद्वितीयं ब्रह्मेतिश्रुतावेकमेवेत्येवकारेणान्यनिषेधप्राप्ता- धद्वितीयमितिप्रतिषेधाद्धर्मप्रतिषेधोऽपि गम्यते । ऐक्षतेतिकथना- बर्माणां पुनरभिव्यक्तिः । चकारेणैकब्रह्मविज्ञानेन सर्वविज्ञानप्रति- हा संगृहीता । अतो ब्रह्मणि न कोऽपि विरोधोऽस्तीति सिद्धम् ॥३०॥ एवं धर्मधर्मिविरोधं परिहस्य ब्रह्मणो धय॑न्तरपरिहाराया- धिकरणान्तरमारमते । तत्र पूर्वपक्षः । परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥३१॥ अतो ब्रह्मणोऽपि परम् अन्यदुत्कृष्टमस्ति । तत्र चत्वारो वैदिक- हेतवः । अथ य आत्मा स सेतुर्विधृतिरिति सेतुव्यपदेशः। तत्र पा- पाब्धितरणाथै सेतुव्यपदेशात् तरणानन्तरं प्राण्यस्यैव फलत्वात् फ- लात्मकमन्यत् किश्चिदस्तीति ज्ञायतेतिया, यावान् वायमाकाशस्तावा- ब्रह्मसूत्रत्तौ। नेषोऽन्तर्हृदय आकाश इत्युन्मानव्यपदेशः। तेन परिच्छेदो निलपितः। तथा उभावस्मिन् द्यावापृथिवी अन्तरेव समाहिते इत्याधाराधेयस. म्बन्धो निरूपितः। तथा, य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते, य एषोऽन्तरक्षिणि पुरुषो दृश्यत इत्यत्रादित्याक्षिस्थितयोः पुरुषयोः परस्परं धर्मातिदेश उक्तो धर्मिभेद एव सम्भवति । धम्र्येक्ये तु स एवायमित्युच्येत । अतोऽस्य देशकालवस्तुस्वरूपपरिच्छेदाचतुर्विध. परिच्छेदरहितं फलरूपमन्यत् किञ्चिदस्तीति प्राप्ते ॥३१॥ उच्यते। सामान्यात्तु ॥ ३२ ॥ तुः पक्षव्यावर्तकः । ब्रह्मणि संसारसागरोत्तरणोपायत्वसामा- न्यातू सेतुव्यपदेशः । निर्लेपायाकाशव्यपदेशः । कामादिदोहाय चतु- पात्त्वमुक्तम् । अमृतत्वाय षोडशकलत्वं निरूपितम् । अदुर्लभत्वाय सम्बन्धकथनम् । दिव्यत्वज्ञापनायाक्षिस्थिते आदित्यधर्मातिदेशः। अतो गुणार्थमेव सेतुत्वादिवचनं, नतु तद्वतदोषार्थम् । मतो नातः परमन्यदस्तीति मन्तव्यम् ॥ ३२ ॥ तहन्यसमानत्वेन कथनं किमर्थमित्याशयाह । बुद्ध्यर्थः पावत् ॥ ३३॥ तथा व्यपदेशो बुद्ध्यर्थो शानार्थः । तथोपासनार्थमित्यर्थः । अयुक्तत्वमाशय दृष्टान्तमाह । पादवदिति । यथा भूतादीनां पाद- त्वज्ञानमुपासनार्थ तथेदमपीत्यर्थः ॥ ३३ ॥ ननु स एवायमित्यतिदेशेऽप्यक्षिस्थितस्य दिव्यत्व सिद्धौ धर्मा- तिदेशस्य वैयर्थ्यमित्याशय, तथोक्तौ समानधर्मज्ञानं न स्यादित्यन हेतुमाह। स्थानविशेषात् प्रकाशादिवत् ॥ ३४ ॥ यथा, यदादित्यगतं तेज इतिवाक्यादादित्यचन्द्राग्निगततेज- सामैक्ये स्थानभेदात् समानधर्मवत्वं नास्ति, तथा प्रकृते तथोक्ता दिव्यसिद्धावपि धर्मभेदः स्यादतो धर्मातिदेशः । आदिपदाद् यथैक- स्यैव कालस्योपाधिविशेषसम्बन्धादुत्तरायणाद्युत्कृष्टधर्मवत्त्वं, दक्षि- अध्याये २ पादः। ११५ णायनाधपकृष्टधर्मवत्वं, तस्यपि रशान्तः संगृह्यते ॥ ३४ ॥ किश्च। उपपत्तेश्च ॥ ३५ ॥ ब्रह्मणः परस्य निखिलप्रमाणविरोधादनुपपत्त्या ब्रह्मैव परम- काष्ठापन्नं फलरूपं चेत्युपपन्नमित्यर्थः ॥ ३५ ॥ तथाऽन्यप्रतिषेधात् ॥ ३६॥ न तत्समश्चाश्यधिकश्च दृश्यत इति श्रुत्वाऽन्यप्रतिषेधादन्य- कल्पना निर्मूला । सेतुत्वादिकथनं तूक्तमेव ॥ ३६ ॥ अथ प्रकरणमुपसंहरन् फलितार्थमाह। अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥ अनेन ब्रह्मणोऽन्यस्य परत्वनिरासेन, आयामशब्दादिभ्यः, आ- काशवत् सर्वगतश्च नित्यः, ज्यायान् दिवो ज्यायानाफाशात् तेनेदं पूर्ण पुरुषेण सर्व, सर्वतःपाणिपादमित्यादिव्यापकत्ववाचकश्रुति- स्मृतिवाक्येभ्यः साक्षात्सर्वगतप्रतिपादकेश्य एव सर्वगतत्वं सिद्ध्य- ति, नतु काणादानामिव कर्तृत्वाद्यनुपपत्त्येत्यर्थः । तस्माद् ब्रह्मणि श्रुतिरेव प्रमाणमन्यत्त्वभ्युच्चयमात्रपर्यवसन्न, सिवसाधनत्वादिति भावः ॥३७॥ एवं भगवतः सर्वोत्तमत्त्वनिरूपणेनोत्तमाधिकारिणां भजनी- यत्वप्रयोजक रूपमुक्त्वा फलप्रेपसूनां भजनप्रयोजकं. फलदातृरूपं निरूपयति । फलमत उपपत्तेः ॥ ३८ ॥ अत ईश्वरादेवहिकं पारलौकिक वा फलं भवति । उपपत्तेः, सर्वस्य वशी सर्वस्येशान इति श्रुती वस्तुमात्रेशितृत्वोक्त्या तस्य फ- लदातृत्वोक्तेः । अन्यस्य त्वन्यदीयपदार्थदाने सामर्थ्यासम्भवान्न दातृत्वं सम्भवतीति भावः ॥ ३८ ॥ श्रुतत्वाच्च ॥३९॥ स वा एष महान आत्माऽन्नादो वसुदान इत्यादिश्रुती, ११६ ब्रह्मसूत्रवृत्तौ । चकारेण, सुखं दुःखं भवो भाव इत्यारभ्य, भवन्ति भावा भूतानी मत्त एव पृथग्विधा इति स्मृती भगवतः सर्वफलदातृत्वं यते- ऽपीत्यर्थः॥ ३९॥ अत्र कर्मवादी प्रत्यवतिष्ठते । धर्म जैमिनिरत एव ॥ ४० अत एव, श्रुतेत्यादिहेतोरुपपत्तेश्च जैमिनिः कर्मवादी धर्म यामा दिकं फलदातृत्वेन मनुते । अयं भावः । कर्मणः फलदातृपक्षेऽप्युप- पत्तिश्रुती तुल्ये । एवञ्च भगवतोऽपिं फलादिदाने कर्मसापेक्षत्वे अ- समर्थत्वम् । नैरपेक्ष्ये तु कर्मविधिवैयर्थ्य, वैषम्यनैघृण्यप्रसक्तिश्च । अतः कर्मणैव फलम् । ईश्वरस्य फलदातृत्वबोधकवाक्यानि त्वर्थ- वादत्वेन नेयानीति प्राप्ते ॥४०॥ उच्यते। पूर्व तु बादरायणो हेतुव्यपदेशात् ॥ ११ ॥ तुः पूर्वपक्षनिरासे । बादरायण आचार्य इतः पूर्वमुक्तमीश्वर- मेव फलदातृत्वेन मनुते । कुतः? हेतुव्यपदेशात् । एष एव साधु कर्म कारयतीति श्रुतौ फलदानेच्छयेश्वरस्यैव कर्मकारणे हेतुत्वेन क- थनात् । वैषम्यनैघृण्यदोषस्त्वात्मसृष्टया परिहरणीयः । कर्मद्वारा फलदानान्न कर्मविधिवैयर्थ्यम् । ननु स्वतः फलदानसमर्थस्येश्वर- स्य फलार्थ कर्मकारणे को हेतुः, कार्यवैचित्र्यं च कथमित्याद्याशङ्का तु, कृतप्रयत्नापेक्षस्त्वितिसूत्रे निरस्ता।अतः फलार्थिभिरपि भगवानेव सेव्यो नान्य इति सिद्धम् ॥ ४१ ॥ । इति श्रीब्रह्मसूत्रवृत्ती मरीचिकाख्यायां तृतीयाध्यायस्य द्वितीयः पादः॥

३ अध्याये ३ पादः।
११७
तृतीयाध्यायस्य तृतीयः पादः ।
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥१॥
सर्ववेदान्तैरनेकरूपनिरूपकैः प्रत्ययो शानं यस्य तादृशं ब्रह्म ।
कुतः । चोदना विधिवाक्यं, तस्याविशेषात् । यथा ज्योतिष्टोमे
शाखाभेदेन धर्मभेदेऽपि ज्योतिष्टोमविधेरेकरूपत्वात् तदेकत्वं, तथा.
ऽत्रापि शाखाभेदेवनेकधा एकमेव ब्रह्म निरूप्यते । शाखान्तरोक्त-
धर्माणामसति बाधे उपसंहार्यत्वात् ॥१॥
भेदान्नेति चेदेकस्यामपि ॥२॥
ननु धर्मभेदादेकत्वं नास्तीति चेत् तत्राह । एकस्यामपि, य.
थैकस्यामप्यतिरात्रव्यक्तौ षोडशिग्रहणाग्रहणरूपधर्मभेदेऽप्यतिरानं-
न भिद्यते, तथाऽत्रापि धर्मभेदो धर्मिभेदको नेत्यर्थः ॥२॥
नन्वेवं सति शाखान्तरीयधर्मा उपसंहर्तव्याः स्युः । तथाऽव-
तारान्तरेश्वतारान्तरधर्मा अपीत्याशङ्याह ।
स्वाध्यायस्य तथात्वेन समाचारेऽधिकाराच्च
सववच्च तन्नियमः॥ ३ ॥
स्वाध्यायस्य वेदस्य सम्बन्धी यः समाचारः सोमयागाद्यात्म-
कस्तस्मिस्तथात्वेन स्वस्य शाखोक्तप्रकारेण नियमोऽन्यूनाधिककर
जलक्षणोऽस्तीति शेषः । कुतः । तत्सच्छाखिनां स्वस्खशाखोक्तप्रकारे-
गैव कर्मकरणऽधिकारात् । न्यूनाधिककरणे, यदस्य कर्मण इति दो-
षश्रवणाच । दृष्टान्तेनाप्येतत् साधयति । सवत्रत् । यथा सवा होम-
विशेषा आथर्वणिकानामेव कार्यत्वेन नियम्यन्ते, नान्येषां, तथेत्यर्थः ।
उपासनायामपि रामकृष्णादिरूपेषु तत्तद्रूपोपासकस्य तत्तदवतार-
धर्मा एव भावनीया, न त्ववतारान्तरधर्मी अपि । ब्रह्मणः सर्वधर्म-
स्वेऽपि तदवतारे तेषां विरुद्धधर्मत्वात् ॥३॥

११८ ब्रह्ममूत्रवृत्ती। दर्शयति च ॥ ४ ॥ अवतारान्तरधर्माणामवतारान्तरभक्तस्य खोपास्ये विरोधा- दनुपसंहर्तव्यत्वेऽपि ब्रह्मणः सर्वधर्मवत्त्वाद् वेधेकत्वेन विद्यामामे- कत्वं, सर्वे वेदा यत्पदमामनन्तीत्यादिना दर्शयति । चकाराद् भेद- दर्शननिन्दां, यदा होवैष इतिश्रुत्युक्तां दर्शयतीत्यर्थः ॥ ४ ॥ ननु स्वाध्यायस्यतिसूत्रेऽवतासन्तरेऽवतारान्तरधर्माणामनुप- संहार इत्युक्तम् । श्रीरामोपनिषत्सु, यो वै ये मत्स्यकूर्माद्यवतास इत्युक्त्या श्रीरामे, तथा श्रीभगवति, नमस्ते रघुवर्यायेत्यादिषु श्रीकृष्णे- ऽवतारान्तरधर्माणामुपसंहारः कथं दृश्यत इत्याराड्याह । उपसंहारोऽर्थाभेदाद् विधिशेषवत् समाने च ॥ ५ ॥ इदं सूत्रं योगविभागेन सामान्यविशेषोपासकपरं योज्यम् । तथाहि । नमस्ते रघुवर्यायेत्यादिषु य उपसंहारः, स त्वर्थस्य भगव- ल्लक्षणस्योभयत्राप्यवतारद्वयेऽपि धर्मेरभेदाच्छुद्धब्रह्मोपासकानां, त. दभिन्नस्य तदभिन्नत्वमिति न्यायेन धर्माणां भेदाभावेन विरोधभाना- ऽसम्भवात् सर्वधर्माणामुपसंहार इत्यर्थः । च पुनरेकान्तिभक्तानां तु समानधर्मविशये विधिशेषवत्तत्तदवतारोपासनविध्युक्तप्रकारवद्- विरुद्धधर्माणामुपसंहार इत्यर्थः। नतु विरुद्धधर्माणां, तेषु समानत्वा भावातू॥५॥ अन्यथालं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥ ननूपसंहारो धर्माणां भेदे सति भवति । तथाच भिन्नानां तेषां ब्रह्मणा भेदे स्वीकृतेऽनेकरसानां तेषामेकरसब्रह्मत्वस्वरूपत्के ब्रह्मणोऽन्यथात्वं स्यात् । शब्दादू एकत्वैकरसत्वनिरूपकश्रुतेर्ब्रह्मण एकरसत्वनिरूपकश्रुतेर्ब्रह्मण एफरसत्वेन निरूपणात् तद्विरुद्धमन्यन थात्वमनेकरसत्वं स्यात् । ब्रह्मण एकरसत्वे चाङ्गीक्रियमाणेऽनेकरस- धमैरभेदो न स्यादिति सूत्रार्द्धनाशय परिहरति । न अविशे गत् । यथैकरसत्वं ब्रह्मणः श्रुलितो निर्णीयते, तथा श्रुतित एव विरवधर्म वत्त्वेन निर्णयविशेषान्न दोषः ॥ ६॥ प्रकारान्तरेण समाधत्ते।

३ अध्याये ३ पादः।
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ॥ ७ ॥
शानप्रकरणे ज्ञानिनं प्रत्येकरसमदृश्यमग्राह्यमिति निरूपयति
श्रुतिः। भक्तिप्रकरणेन भक्तियोगस्य बहुविधत्वाद् भक्तानुभवभेदेन
भिन्नभिन्नप्रकारेणाथर्वणोपनिषदि निरूपयति । एवं प्रकरणभेदात्
स्वरूपस्यान्यथात्वं नास्तीत्यर्थः । तथाच शानिनः सर्वत्रैकरसत्वेन
भानातू सर्वधर्माणामुपसंहारः । उत्तरतापिन्यां ज्ञानिप्रकरणे उपसं-
हारोक्तः। भक्तस्य त्वनेकरसत्वेन भानात तदसाधारणधर्माणामे-
घोपसंहार इतिं व्यवस्थितविकल्पाश्रयेण वा समाधानम् । अत्र हु-
धान्तः । परोवरीयस्त्वादिवत् । यथा परोवरीयस्त्वानामकव्रतवि-
शेषस्य दीक्षाप्रकरणे पठितत्वाद् दीक्षासहितस्यैव परोवरीयस्त्वम् ।
तां विनोक्तरीत्या व्रते तु न परोवरीयस्त्वम् । तथाऽत्रापीत्यर्थः ॥७॥
ननु शानिभक्तयोरपि ब्रह्मोपासकत्वरूपसंज्ञाया एकत्वात्
तयोः प्रकरणभेद् एव नास्तीति संझेकत्वात् पूर्वसूत्रोक्तव्यवस्थाऽनु-
पपन्नेत्याशय परिहरति ।
संज्ञातश्चेत् तदुक्तमस्ति तु तदपि ॥ ८ ॥
उपास्यब्रह्मण एकत्वादुपासकस्यापि ब्रह्मोपासकत्वसंशाऽवि.
शिष्टेति सर्वधर्मोपसंहारः स्यादिति चेद्, एतच्छङ्कोत्तरं पूर्वमेवोक्तं,
न वा प्ररकणभेदादिति । एकान्तभक्तस्य तत्स्वरूपैकनिष्ठत्वेन तत्र
भक्त्यतिशयेनान्यधर्माणामनुपसंहारः । अनेकान्तभृक्तस्य तु साधार-
णप्रकारेण श्रीरामादिस्वरूपेषु ब्रह्मत्वेन ज्ञानात सर्वधर्मोपसंहारे
बाधकामाव.इत्युक्तमित्यर्थः । संशैकत्वेऽप्यान्तरनिष्ठाभेदान्नैकरूपो-
पासनेत्यर्थः । संझेकत्वस्याप्रयोजकत्वमाह । अस्ति तु तदपि । परो-
वरीयस्त्वाद्युपासनेषु भिन्ने पूगीयोपासनेतिसंझेकत्वेऽपि यथा धर्म-
भेदस्तथाऽत्रापीत्यर्थः ॥ ८॥
ननूपास्यरूपेषु बाल्यपोगण्डादिरूपा अवस्था उच्यन्ते । एवञ्च
विग्रहे न्यूनाधिकभावान्मध्यमपरिमाणप्रसक्त्या सच्चिदानन्दत्वमनु-
पपन्नमित्याशङ्ख्याह।
व्याप्तेश्च समञ्जसम् ॥ ९ ॥

११० ब्रह्मसूत्रहत्तौ। सर्वतः पाणिपादान्तमित्यादिश्रुतेः साकारमेव व्यापकं ब्रह्म, सर्वरस इति श्रुत्या रसात्मकं च यादृग्रूपेण भक्तानां सम्यग्लीलार. सानुभवो भवति तापं प्रकटीकृत्य विहरतीति नोक्तदोषः । तद्व- स्त्वंव प्रमाणसिद्धं तारशमिति मन्तव्यम् ॥९॥ ननु लीलाया नित्यत्वेन तत्सम्बन्धिभक्तानामपि नित्यत्वादेक- स्य भक्तस्यानेकलीलासम्बन्धोऽनुपपन्नः । तथात्वे तु लीलाया अनि- स्यत्वं स्याद् भक्तस्य वाऽनेकत्वम् । तदुभयमपि प्रमाणविरुद्धमि. स्वाशयाह। सर्वाभेदादन्यत्रेमे ॥ १०॥ लीलासम्बन्धिसर्वपदार्थानां भगवता सहाऽभेदादन्यत्रानि- मलीलायामपि इमे एव भक्ता, न त्वन्ये । एवं लीलासम्बन्धिनां भगवद्रूपत्वाद् भगवत इव व्यापकत्वेनैकस्यैव सर्वलीलासम्बन्धित्वं न विरुद्धमिति भावः । एतेन सच्चिदानन्दात्मकसर्गादिलीलाया अपि भगवल्लीलात्वेन नित्यत्वात् तत्सम्बन्धिजीवानांविसर्गलीलासम्बन्धि. त्वं न स्यात् । तत्सम्बन्धित्वे तु लीलाया अनित्यत्वं स्यादित्याशङ्का परिहृता । तत्रापि सर्वाभेदात् सर्गादिलीलामध्यपातिनां सर्वेषां जी. वानां पदार्थानां च ब्रह्मणा सहाभेदाद ब्रह्मणश्चैकत्वाद् व्यापकत्वाञ्च पूर्वलीलातोऽन्यत्र उत्तरलीलायामपि इमे पूर्वलीलासम्बन्धिन एव पदार्था जीवाश्चेत्यर्थकथनात् । तदुक्तं निबन्धे, व्यापकत्वश्रुतिस्त्वस्य भगवत्वेन युज्यत इति ॥ १०॥ मनु यथा लीलास्थितजीवानां भगवदभिन्नत्वेन व्यापकत्वमु. कं, तथा साधकजीवानामपि ब्रह्मांशत्वेन भगवदभिन्नत्वात् पूर्णान- न्दादिधर्मवत्त्वं स्यात् । नच तेषां तद्वत्त्वं वक्तुं शक्यम् । दुःखनाशाथै भगवत्प्रार्थनदर्शनादित्याशदयाह । आनन्दादयः प्रधानस्य ॥ ११ ॥ पूर्णानन्दादयः प्रधानस्य भगवत एव धर्मा, न तु जीवस्य । भ. गवदभेदादेव ते धर्मा जीवे आविर्भवन्ति । साधकजीवानां तु भगव- दभेदास्फूर्त्या पूर्णानन्दादिभगवद्धर्माविर्भावाभावाद् दुःखस्फूर्तिः । भतस्तन्नाशार्थ भगवत्मार्थनं तेषां युक्तमेव । श्रीभगवता सार्द्ध जीवा.

३ अध्याये ३ पादः। १२१ नामभेदप्रफारस्तु श्रीकृष्णचैतन्यमतेऽप्येवम् । तथाहि चैतन्यगुणो- देशदीपिकायां धामपरिकरपरिच्छद्भक्त शक्तिस्वरूपैः कृष्णस्य प- ञ्चतत्त्वात्मकत्वं निरूपितम् । सन्दर्भेऽपि, एकमेव तत्त्वं चतुर्दा विराजते स्वरूपतद्वैभवजीवप्रधानरूपेणेत्युक्तम् । अत्र वैभवशब्देन धामपरिकरपरिच्छदभक्तशक्त्यादीनां ग्रहणं शेयम् । तेषामपि तत्त्व- तो व्यतिरिक्तत्वाभावात् । अतोऽनादित एव तत्तत्परिकररूपेण वि- राजता भगवता साथै भक्तानामभेदः । अतो यावत्पर्यन्तं साधक- भक्तस्य सिद्धदेहात्मकेन भगवता सार्द्धमभेदो न स्फुरति, तावत् पूर्णानन्दस्फूर्तिः स्वस्मिन्न भवति । पूर्णानन्दादिधर्माणां भगवद्धर्म- त्वात् । पूर्वोक्तप्रकारेण भगवदभेदस्फूर्ती तु ते धर्मा जीवे स्वत आ- विर्भवन्ति । जीवस्य चाक्षरांशत्वादक्षरस्य गणितानन्दत्वाद् भगव- दभेदस्फूर्ति विना जीवे पूर्णानन्दास्फूर्तियुक्तैवेति शेयम् । सच्चिदा- नन्ददेहानां पूर्वसिद्धत्वं तु, अव्यक्तमूलं भुवनाध्रिपेन्द्रतिश्लोकसु- बोधिन्यामुक्तम् । सन्दर्भेऽपि, वैकुण्ठेऽनादिभूता पव सच्चिदानन्द- मया देहा वर्तन्त इत्युक्तम् ॥ ११ ॥ ननु प्रियशिरस्त्वादिधर्माणामपि प्रधानधर्मत्वाऽविशेषाषा- मप्युपसंहारः कर्तव्य इत्याशङ्याह । प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२॥ प्रियशिरस्त्वादीनामप्राप्तिः । कुतः। प्रियमोदाद्युपचयापचयौ हि भेदे सम्भवतः । अन्तःकरणशुद्धितारतम्येन ह्यानन्दे प्रियत्वमोदत्वा- दयो धर्मा उपचयापचयभेदेन भासन्ते। यस्य त्वन्तःकरणशुद्धि- जाता, तस्य तु नि दमेकरसमखण्डमानन्दात्मकमेव ब्रह्म भासते । अतो न शुद्धाभेदशानिनां प्रियशिरस्त्वादिधर्माणामुपसंहारः ॥ १२ ॥ ननु निर्गुणे ब्रह्मणि सगुणधर्माणामनुपसंहारेतद्धर्माणां त्यागः स्यादित्यत आह । इतरे त्वर्थसामान्यात् ॥ १३ ॥ इतरे विरुद्धधर्मा वजनाथत्वमत्स्यत्वरघुवर्यत्वादयः, अर्थस्य ब्रह्मणः सामान्याद् धर्मिरूपेणोपसंहार्या, न तु धर्मरूपेण । यथा रघुवर्यादिधर्माणां धर्मिरूपत्वेन अर्थस्य सामान्यान्मत्स्यादिषूपसंहा- ।

१२२ ब्रह्मसूत्रवृत्तौ। रः । तथा निराकारे ब्रह्मणि साकारत्वादयः, पुरुषे शृङ्गपुच्छत्वादयो धर्मा नोपसंहार्याः, किन्तु धर्मिरूपा एव त इति बोध्याः ॥ १३ ॥ आध्यानाय प्रयोजनाभावात् ॥ १४ ॥ आध्यानाय हि गुणानामुपमहारो यावता ध्यानसिद्धिस्ताव- तामेव गुणानामुपसंहारः। अन्येषां तु प्रयोजनाभावान्नोपसंहारः । तथा भक्तिमार्गीयाणां शुद्धान्तःकरणानामन्तःकरणशुद्धिरूपप्रयो- जनस्याभावान्न पक्षपुच्छादीनामुपसंहारः । तावता परोक्षवादेनोक्त- प्रियवादिनैव ध्यानसिद्धेः । एकान्तश्रीरामभक्तस्यापि श्रीरामोपा- सनोक्तधर्मरव चारितार्थेन न मत्स्योपासनोक्तधर्माणामुपसंहारः । कुतः । प्रयोजनाभावात् । यथा निर्गुणोपासकस्यापि स्वरूपेणैव चा. रितार्थं न सर्वेषां गुणानामुपसंहारः ॥१४॥ आनन्दादीनां धर्मिरूपेणोपसंहारे पक्षादीनामनुपसंहार हेत्व- न्तरमप्याह। आत्मशब्दाच्च ॥ १५ ॥ आनन्द आत्मेत्यनेन आनन्दस्यात्मत्वेन कथनात् तेषामप्या- नन्दरूपत्वादात्मस्वरूपेणेव मोदप्रमोदादीनामुपसंहारः कर्तव्यो, नतु पक्षपुच्छादिरूपेण, न वोपचयापचयरूपेण. न वा भेदेन । किन्त्वा- त्मरूपणैवोपसंहर्तव्याः । अनेन निर्गुणोपासकैरानन्दादीनां धर्म- स्वेनोपसंहारेऽनुपपत्तिः परास्ता । आनन्दस्यात्मरूपत्वन कथनाद् धर्मरूपत्वाभावात् ॥ १५ ॥ ननु तैत्तिरीयेऽन्नमयादिग्विवानन्दमयेऽपि, तस्यैष एव शा- रीर आत्मत्युक्तम् । शरीराभिमानी शारीरो जीव एव । अग्रे, आन- न्दो ब्रह्मति व्यजानादिति ब्रह्मत्वकथनादानन्दमयस्य जीवत्वमपि न वक्तुं शक्यमत आनन्दादयोऽपि धर्मरूपा पवेति पूर्वसूत्रोक्तमानन्द स्य धर्मिरूपत्वमनुपपन्नमित्याशझ्याह । आत्मगृहीतिरितरवदुत्तरात् ॥ १६॥ नस्यैष एव शारीर आत्मनि यदितरवद् आत्मगृहीतिरन्नम- यादिष्वात्मग्रहणं, तदुत्तरात सर्वेभ्य उत्तर आनन्दमयस्तस्मा- ३ अध्याये ३ पादः। २२३ तोः । तथाचान्नमवादिषप्यानन्दमयस्यात्मत्वेन कथनात् तत्प्रकारे- णानन्दमयेऽपि, तस्यैष एव शारीर आत्मेतिकथनादानन्दमयस्य प- रमकाष्ठापनत्वेन ततोऽतिरिक्तब्रह्मणोऽभावान्न जीवत्वमित्यर्थः ॥१६॥ अन्वयादिति चेत् स्यादवधारणात् ॥ १७ ॥ नन्वन्नमयादिष्वन्योऽन्तर आत्मेतिकथनात् प्रत्येक भिन्नेम्व. लमयादिषु शारीर आत्मा जीवः शरीराभिमानी भिन्न भिन्न उ. च्यते । आनन्दमये तु या तथोक्तिः सा तु तस्यान्वयाद् व्यापकत्वेन सर्वत्रान्वयात् सम्बन्धान्न तु जीवत्वेनेति सूत्रार्द्धनाशय परिहरति । स्यात् । आनन्दमय एवान्नमयादिशरारीभिमानी स्यान्न तु भिन्नो जीवः । कुतः । एष ह्येवत्येवफारेण तस्यैवात्मत्वेनावधारणान्निार- णादित्यर्थः ॥ १७॥ ननु तैत्तिरीयोपनिषत्सु, तस्माद्वा एतस्मादित्याकाशादिमहा- भूतसृष्टिमुक्त्वाऽग्रं, आषधीभ्योऽन्नम् अन्नात पुरुषः स वा एष पु. रुषोऽन्नरसमय इत्युक्तम् ।भार्गव्यां विद्यायामपि, अन्नं ब्रह्मेति व्यजा- नादित्युक्तम् । तत्र, स वा एष पुरुष इत्यत्र, स एवेति प्रत्यभिज्ञाना- दन्नकार्यात्मक एव पुरुषः प्रतीयते । अग्रे तस्य ब्रह्मत्वेन शानकथनं दूपासनार्थमित्यागङ्ग्याह। कार्याख्यानादपर्वम् ॥ १८ ॥ अन्नकार्यभौतिकपुरुषस्याख्यानात् कथनाद् ब्रह्मत्वेन ज्ञान- विषयं, स वा एष इत्यनेन प्रतिपाद्यमपूर्व तस्यैवाध्यात्मिकरूपं - दति श्रुतिरित्यर्थः । आध्यात्मिकपुरुषरूपनिरूपणात्, स वा एष इति न प्रत्यभिज्ञानम् । आधिभौतिकाध्यात्मिकभेदस्य स्पष्टत्वादि- त्यर्थः॥ अथवा बृहदारण्यके, आत्मेत्येवोपासीतेत्युपक्रम्य तस्य सर्व- भ्यः प्रियत्वमुक्त्वाऽग्रेऽन्यस्य प्रियत्वं निराकृत्य, ईश्वरो हि तथा स्याद् आत्मानमेव प्रियमुपासीतेति पठितम् । अत्रात्मपदेन जीवात्मनः प्रियत्वेनोपासनं विधीयते, उत ब्रह्मण, ईश्वरपदादिति संशये, यथा श्रुस्यन्तरे पुत्रादीनामौपाधिकप्रियत्वकथनाजीवात्मन एव प्रियत्वमुच्यते तथेहापि प्रतीतर्जीवात्मन एव प्रिय वनोपासनो- १२४ ब्रह्मसूत्रवृत्तौ। तेति प्राप्ते, उच्यते । कार्याख्यानादिति । प्राणन्नेव प्राणो भवतीत्या. दिपूर्वश्रुतावेफस्यैवात्मनः सर्वेन्द्रियकार्यः कृत्वा आख्यानादपूर्व जी- वभिन्नमीश्वरमेव श्रुतिर्वदतीत्यर्थः । अत एवात्रेश्वरो हीत्यत्रेश्वरपदं सर्वस्मादन्तरमिति चोक्तम् ॥ १८ ॥ ननु भगवद्विग्रहे चक्षुरादीनां वैलक्षण्येन प्रतीतेरात्मनश्च- करसत्वात् सर्वेन्द्रि कार्यकर्तृत्वं ब्रह्मणि न सम्भवतीत्याशङ्याह । समान एवञ्चाभेदात् ॥ १९ ॥ अप्यर्थे चः । एवमपि सति चक्षुःश्रोत्रादीनां वैलक्षण्येन भा- नेऽपि समान एकरूप एव भगवान् । कुनः । चक्षुरादीनां ब्रह्मत्वेन परस्परमभेदादित्यर्थः । तथाचानन्द एव ब्रह्मण्याकारसमर्पकस्तथा तथा भातीति न वैजात्यशङ्कति भावः ॥ १९ ॥ अथ यन कार्यार्थ जीवविशेषे भगवदाशम्तद्भगवदाविष्टजी- वोपासकेन सकलभगवद्धर्माणां तत्रोपसंहारः कर्तव्यो न वेत्याश- ड्य सूत्रद्वयेन विकल्पमेव स्थापयति । सम्बन्धादेवमन्यत्रापि ॥ २० ॥ अन्यत्रापि भगवदाविष्टजीवेऽपि, एवं सकलब्रह्मधर्मोपसंहा. रेणोपासनं कार्यम् । कुतः । अयोगोलके वन्हरिव तस्मिन् भगवदावे- शलक्षणसम्बन्धादित्यर्थः ॥ २० ॥ निषेधपक्षमुपपादयति । न वाऽविशेषात् ॥ २१ ॥ यस्तु भगवदाविष्टं भक्तं शात्वैतद्भजनेनैवाहं कृतार्थः स्यामिति शात्वा तं भक्तं भजते, तस्य तद्भक्तभजनमेव परमपुरुषार्थसाधकमि. ति तत्र भगवद्धर्मोपसंहारे विशेषाऽभावात् स न कार्यः ॥ २१ ॥ दर्शयति च ॥ २२॥ उपसंहारो नाम तत्रानुपलभ्यमानानां धर्माणां नत्र भावन- म् । तादृशभक्तेषु तु भगवान सर्वधर्मान् प्रत्यक्षतो दर्शयताति तन- कानां नोपसंहारापेक्षेत्यर्थः ॥ २२॥ ।

३ अध्याये ३ पादः। १२५ ननु तादृशभक्तेऽलौकिकभगवद्धर्मान् ऐश्वर्यादीन् दृष्ट्वा तद्भ- के स्वसेव्ये द्युलोकव्याप्त्यादयो धर्मा उपसंहर्तव्याः स्युरित्याशय, नेत्याह। सम्भृतिाव्याप्त्यपि चातः ॥ २३ ॥ सकलवीर्यसम्भृतिधुव्याप्त्यादयोऽपि धर्मा नोपसंहर्तव्याः । अतः पूर्वोक्तविशेषाभावरूपहेतोरित्यर्थः ॥ २३ ॥ ननु तैत्तिरीयोपनिषत्सु, सहस्रशीर्षा पुरुष इत्यादिना पुरुष- विद्या निरूप्यते । ब्रह्मप्रपाठकेऽपि, स वा एष पुरुषोऽनरसमय इस्या- रश्य, प्राणमयादय आनन्दमयान्ता निरुप्यन्ते । तेषु पुरुषविधत्वं चोच्यते । एवं चान्नमयादिषु पुरुषविधत्वश्रवणात् तेष्वपि सहस्र- शीर्षवत्त्वाद्युपसंहारः कर्तव्य एवेत्याशङ्ख्याह । पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥ पुरुषविद्यायां सहस्रशीर्षा इत्यत्र यथाऽनेकोपलक्षकसहस्र- पदेन साकारव्यापकाधिदैविकब्रह्मस्वरूपं निरूप्यते, न तथा इतरे. षाम् अन्नमयादीनां भौतिकानां पुरुषविधस्याध्यात्मिकस्य चाम्ना- नं निरूपणम् । तस्मात् तेषु सहस्रशीर्षवत्त्वाद्युपसंहारो न कर्तव्य इत्यर्थः ॥ २४॥ अतः परं भगवतो निदोषत्वं ज्ञात्वा भजनं कर्तव्यमितिज्ञाप- नार्थमधिकरणान्तरमारभते । वेधाद्यर्थभेदात् ॥ २५॥ बृहदारण्यके छान्दोग्ये च देवानां दैत्यपराजयार्थ यज्ञे वा- गादिपूनानसमये दैत्यैः कृतः पापवेध उक्तः। आसन्ये दैत्यैः क्रिय- माणोऽपि पापवेधो नाभूदित्युक्तम् । तत्र को हेतुरित्याकाङ्क्षायामु- च्यते । वागादिषु यः पापवेध, आदिपदाद दैत्यैः पराजयश्चोक्तः, सो- ऽर्थस्य भगवल्लभगास्य भेदात् सम्बन्धाभावादित्यर्थः । आसन्यस्य तु नित्यं भगवत्मम्बद्धत्वान्न दोषसम्बन्धः । एवञ्च होषसम्बन्धाभावोऽन्यस्य तस्य निर्दोषत्वे किं वाच्यमित्यर्थः ॥ २५ ॥ भगवत्सम्बन्धाभावे गुणहानिमप्याह । यत्सम्बन्धा- १२६ ब्रह्मसूत्रवृत्तौ। हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दः- स्तुत्युपगानवत् तदुक्तम् ॥ २६॥ हानी जीवस्य भगवत्सकाशाद् विभागे ये जीवनिष्ठा धर्मास्ति- रोहिता भगवदिच्छयाऽऽनन्दांशैश्वर्यादयस्त भगवत्सम्बन्धे सति पु. नराविर्भूता भवन्तीति, परमं साम्यमुपैतीतिश्रुतेरित्यर्थः । न तु सर्व- था सर्वभगवद्धर्मवत्त्वम् । ननु तैरेव धर्मेः साम्यं, नान्यैरत्र किं नि- यामकमित्याशङ्याह । उपायनशब्दशेषत्वात् । उपायनं प्राप्तिः सा स्वधर्माणामेव नान्येषाम् । तथाचोपायनशब्देन फथनात् तैरेव धर्मः साम्यमित्यर्थः । नन्वानन्दादिभिः साम्ये ब्रह्माऽभद एव स्यादित्या. शझ्याह । कुशेत्यादि । कुशा औदुम्बर्यः समिधस्तत्सम्बन्धि यच्छ- न्दःस्तुत्युपगानं तद्वत् । तदानसम्बन्धिन्यभित्वा शूर नानुम इत्यू. चि, अच एवोपसंहृत्य भकारण गानं क्रियते ।नैतावता भकाराणाम् ऋगात्मकत्वं सम्भवति । तथात्रापीत्यर्थः । ननु तत्त्वमस्यादिवा- क्यैर्जीवेऽभेदबोधनादत्राभेदोऽस्त्वित्याण्याह । तदुक्तम् । अभेदको धनतात्पर्य पूर्वमुक्तमित्यर्थः ॥ २६ ॥ सम्पराये तर्तव्याभावात् तथा ह्यन्ये ॥ २७ ॥ सम्यक् परस्य पुरुषोत्तमस्याऽऽयो शानं येन स सम्परायो भक्तिमार्गस्तस्मिन् प्राप्तव्ये सति तर्तव्यस्य पापस्याभावाजहाननेव, भक्त्या न पापनाशः, नराणां क्षीणपापानामितिवाक्यात् पूर्वमेव पा. पानां नष्टत्वात् । ननु सर्वे पाप्मानं तरन्तीतिश्रुस्या भक्त्या पाप- नाशः कुतो नाङ्गीक्रियते, तत्राह । तथा ह्यन्ये । तस्याः श्रुतर्ज्ञानमा. यविषयत्वाज्ज्ञानानन्तरं पापवन्तो भक्तिमार्गीयज्योऽन्य इत्यर्थः । ननु भक्तंः पापनाशकत्वबोधकानां, कचित् केवलया भक्त्याऽधं धु- न्वन्तीत्यादिवचनानां का गतिरिति चेत् । तत्र, यथा हि मानोरुद- यो नृचक्षुषामित्युक्तरीत्या यथा सूर्येण स्वोदयात् पूर्वमेव तमो ना. श्यते, न तु स्वोत्पत्यनन्तरमितिसूचनान्न दोषः ॥ २७ ॥ ननु तर्हि भरतस्य भक्त्युत्तरं मृगदेहारम्भकपापस्थित्यस- म्भव इत्याशङ्याह।

३ अध्याये ३ पादः।
१२७
।
छन्दत उभयाविरोधात् ॥ २८ ॥
छन्दतो भक्तिमार्गे भगवतो विशिष्टफलदानेच्छातो घा भक्ते-
रनन्तरमपि पापनाशां भवति । नराणां क्षीणपापानामित्यादीनां, भ-
रतस्य मृगते हारम्भकप्रारब्धकर्मसत्त्ववोधकवचनानां चाविरोधादेवं
ज्ञातव्यमित्यर्थः ॥ २८ ॥
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ २९ ॥
गतेानस्यार्थवत्त्वं फलजनकत्वमुभयथा मर्यादापुष्टिभेदेन ।
अन्यथा एवमनङ्गीकारे, ज्ञानेनैव हि फैवल्यं, यमेवैष वृणुत इति
घाक्ययोर्विरोधः स्यात् ॥ २९ ॥
उपपन्नस्तल्लक्षणार्थोपलब्धेलॊकवत् ॥ ३०॥
मुमुक्षोः सकाशाद् रहस्यभजनकतवोपपन्न उपपत्तियुक्तः ।
कुतः । भगवल्लक्षणस्यार्थस्य पुरुषार्थस्य स्वाधीनत्वेनोपलब्धेः । अत्र
हष्टान्तः । लोकवत् । लोके यथा स्वाधीनपतिका भर्तारं स्वाधीनं
फलत्वेन मनुते, न तु गृहवित्तादिकं तथेत्यर्थः ॥३०॥
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥३१॥
भगवतो धारणरमनभजनध्यानादीनां समुदितानामेव फल-
साधरुत्वमित्यनियमः । यतः सर्वासां धारणादिभक्तीनां फलं प्र.
त्यविरोधः, समुदितानामेव फलसाधकत्वं, न प्रत्येकमेवलक्षणो
विरोधो नास्ति । कुतः । शब्दानुमानाभ्याम् । चिन्तयश्चेतसा कृष्ण-
मिति श्रुतेः, केवलेन हि भावनेतिस्मृतेश्चेत्यर्थः ॥ ३१ ॥
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥
यस्मिजीव कार्यविशेषसाधनार्थ भगवता ये स्वकीयधर्माः
स्थापितास्ते आधिकारिका उच्यन्ते । तेषां स्थितिवदधिकारं या-
यत्कार्यम् । तस्मिन् कार्य सम्पन्ने तान् धर्मान् भगवानाकर्षतीत्य-
थः । न तु यावत् तेषां जीवनं तावत् स्थापयति । तेषां कृतार्थता
तु भक्त्यैवेति भावः ॥ ३२॥

१२८ ब्रह्ममूत्रवृत्तौ। अक्षरधियां ववरोधः सामान्यतद्भावाभ्या- मौपसदवत् तदुक्तम् ॥ ३३ ॥ अक्षरविषयकशानानां मोक्षसाधनेषु योऽवरोधो गणना सा सामान्यतद्भावाभ्यां भवति । अत्र मुख्या मुक्तिः पुरुषोत्तमप्रा. प्तिरव । ज्ञानिनां तु साक्षात् पुरुषोत्तमसम्बन्धाभावात् तत्सम्ब- न्ध्यक्षरसम्बन्धरूपा सामान्यमुक्तिर्भवति । सम्बन्धोऽत्राभेदसम्बन्धी बोध्यः । अत्राऽक्षरशानस्य साक्षात् साधनत्वम् । भक्तानां तु व्र. झभावोत्तरं भगवद्भावेन पुरुषोत्तमप्राप्तिकपा मुख्या मुक्तिः । अत्रा. ऽक्षरशानस्य परम्परासाधनत्वम् । अक्षरज्ञानेन ब्रह्मभावोत्तरं भगव. द्भावात् । एवं मोक्षद्वयेऽप्यक्षरविषयकधियां सामान्यतद्भावाभ्यां साधनत्वमित्यर्थः । अक्षरब्रह्मपुरुषोत्तमयोब्रह्मस्वरूपेण सामान्यम् । नन्वक्षरज्ञानवतामपि केषां चित् तत्रैव लयः, केपां चिद् भक्तिभावो भवतीत्यत्र किं नियामकं तत्राह दृष्टान्तेन | औपसदवत् । उपस- दाख्ये कर्मणि यजमानः सर्वेष्वृत्विक्षु ये कामयेत, यशयशस- मृच्छत् तं प्रथमं तानूनप्त्राख्यमाज्यं स्पर्शयेत् । तत्र यथा यजमा- नेच्छा नियामिका तथाऽत्र भगवंदिच्छंत्यर्थः । ननु भगवत्सम्बन्धि- श्रवणादीनां यथा भगवत्प्रापकत्वं, तथाऽक्षरशानस्य कुतो नेत्या- शङ्ख्याह । तदुक्तम् । गीतासु, यदक्षरं वेदविदो वदन्तीत्युपक्रम्य, स याति परमां गतिमित्यन्तनाक्षरज्ञानेन तस्यैव प्राप्तिनतु भगवत इत्युक्तम्॥३३॥ इयदामननात् ॥ ३४ ॥ तैत्तिरीयोपनिषत्सु, आनन्दगणने अक्षरानन्द इयद् गणित- स्वादल्प इत्यामननात् कथनात् अवानन्दतारतम्यकथ- नमानन्दानुभवयोग्यलयपूर्वदशापेक्षया । अग्रे ब्रह्मणि लये तु भोक्तु- रभावात् तत्र निर्द्धर्मके ब्रह्मणि संख्याद्यभावाच नानन्दतारतम्यं सम्भवति । पूर्णपुरुषोत्तमस्यागणितानन्दत्वेन तदपेक्षयोत्कर्षनि- रूपणं त्वचिन्त्यशत्त्वाऽवसयम् ॥ ३४ ॥ अथ शानमार्गीयाणां यथा स्वात्मत्वेन निर्विशेषब्रह्मज्ञानं भव- ।

३ अध्याये ३ पादः।
ति, तथा भक्तिमार्गीयस्यापि ज्ञानिवत् स्वात्मत्वेन पुरुषोत्तमज्ञानं
भविष्यतीत्याशङ्ख्य निषेधति ।
अन्तरा भूतग्रामवत् स्वात्मनः ॥ ३५॥
भगवता भक्तिमार्गे स्वीयत्वेनाङ्गीकृतो य आत्मा स स्वात्मा,
तस्य स्वात्मत्वेन पुरुषोत्तमचानम् अन्तरा भजनेऽन्तरायरूपमिति
भगवाँस्तन्न सम्पादयतीत्यर्थः । एतद् दृष्टान्तेन साधयति । भूतग्रा-
मवत् । तादृशभक्तविग्रहस्यालौकिकत्वाद् यथा तेषु लौकिको भूत-
प्रामो न सम्भवति तथेदं ज्ञानमपि ॥ ३५ ॥
अन्यथाऽभेदाऽनुपपत्तिरिति चेन्नोपदेशा-
न्तरवत् ॥ ३६॥
अन्यथा तारशशानस्य बाधफत्वे, एकादशस्कन्धे भक्तेषू.
वाविवभेदलानेनोपदेशानुपपत्तिरिति चेन्न । उपदेशान्तरवत् ।
यथा गायत्र्युपदेशेन संस्कृतं ब्राह्मणशरीरं वैदिककर्मोपयोगि भ-
वति तथा ज्ञानोपदेशसंस्कृतो भक्तो भक्तिरसानुभवयोग्यो भवति ।
तदर्थमुपदेशो, नत्वभेदज्ञानार्थमित्यर्थः । शानिनां भक्तानां च लो-
किकभावः सर्वथा निवर्तनीयः । तनिवृत्ति विनोभयोरपि फलप्रा.
प्त्यसम्भवात् । तन्निवृत्तिस्तु शानेनैव भवति । यथा फेवलसुव.
णार्थिनः सुवर्णेन कटककुण्डलार्थिनश्च सुवर्णपिण्डे धात्वन्तरभ्रमो
निवर्तनीयस्तथाऽक्षरे लयप्रेप्सूनां शानिनां भगवल्लीलानुभवयोग्यानां
भक्तानां च लौकिफभावो निवर्तनीयः । तन्निवृत्तिश्च ज्ञानेनैव भव.
तीति ज्ञानोपदेशोपयोगः ॥ ३६ ॥
व्यतिहारो विशिंषन्ति हीरतरवत् ॥३७ ॥
भक्ता, अहं कृष्णः कृष्णोऽहमिति यद्विशिषन्ति स व्यतिहा-
र। सोऽपीतरवजनेयः । विप्रयोगोद्रेके यथाऽश्रुप्रलापादयो व्यभि-
चारिभावास्तथा व्यतिहारोऽपि । नैतावताऽभेदज्ञानस्य भक्तिफलत्व-
मित्यर्थः॥ ३७॥
सैव हि सत्यादयः ॥ ३८ ॥

१३०
ब्रह्मसूत्रत्तौ।
भक्तानां सत्यशमदमादिरूपा भक्तिरेवेति तस्य शानमार्गीय
सत्यादिसाधनानि स्वत एव भवन्तीति न तदर्थ पृथक्प्रयत्नापने-
त्यर्थः॥३८॥
कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥
इतरत्र विहितभक्तेरन्यत्र कामाद्यौपाधिकभगवद्भावे कामाचेव
मुक्तिसाधनम् । किश्चान्यमागें हेयत्वेनोक्तेभ्य मायतनादिश्यां गे-
हादिभ्यस्तत्र मुक्तिर्भवति । भगवत्सेवासाधनस्वात् ॥ ३९ ॥
आदरादलोपः ॥ ४. ॥
धर्णाश्रमधर्माणां भगवर्माणां च युगपत् करणे प्रसक्ते भगव-
धर्मे वादरवणात कर्मभिस्तेषामलोपः॥४०॥
उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥
कर्मभगवर्मयोर्युगपत्करणे उपस्थिते, मत आदराद्धंतो-
स्तद्वचनादू भगवखाणामलोपवचनाद् भगवद्धर्माणां कर्माङ्गत्वेने-
त्यर्थः ॥४१॥
तन्निर्धारणानियमस्तदृष्टेः पृथग्ध्यप्रतिबन्धः
फलम् ॥ ४२ ॥
मम फर्मकरणे करणे वा भगवदिच्छास्तीति निरिणाऽनियम
माधुनिकानामतस्तैनिकामतया कर्तव्यमेव । तद्रष्टेः तस्या भगव-
दिच्छाया दृष्टिीनं यस्याऽम्बरीषोमवयुधिष्ठिरादेस्तस्य पृधम् जीव-
कृतकर्मफलाद्भिन्नमीश्वरकृतकर्मणो यत्फलं सन्मार्गरक्षालोकसंग्र-
हादिकं तदेव फलं, न तु स्वर्गादिकम् । पूर्वोक्तनिष्कामकर्तुस्तु अप्र-
तिबन्धः कर्मजप्रतिबन्धाभावः फलमित्यर्थः ॥ ४२ ॥
प्रदानवदेव तदुक्तम् ॥ ४३ ।।
तस्मात् त्वमुद्धवोत्सृज्येत्यनेन भगवतोद्धवं प्रति सर्वात्मभा-
घोपदेशः, स प्रदानवत् प्रकर्षेण दानमेव कृतम् । न तु साधनसाध्यः
सः। तदुक्तं, नायमात्मा प्रवचनेन लभ्य इतिश्रुत्या ॥४३॥

३ अध्याये ३ पादः। लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ॥ १४ ॥ वरणस्य लिङ्गं सर्वात्मभावस्तस्य भूयस्त्वात् सर्वतोऽधिक- त्यात तद्वरणमेव सर्वतः कालकर्मादिभ्यो बलीयः। तस्य प्रतिबन्ध किमपि न भवतीत्यर्थः । ननु चानमार्गीयमानेन प्रतिबन्धः स्पादित्या- शङ्याह । तदपि । उक्तमिति शेषः, अन्तरा भूतप्रामवत् स्वात्मन इतिसूत्रेण ॥४४॥ अथ सूत्रद्वयेन पूर्वपक्षमाह । पूर्वविकल्पः प्रकरणात् स्यात् किया- मानसवत् ॥ ४५ ॥ छान्दोग्ये सनत्कुमारनारदसंबादे, यत्र नान्यत पश्यतीत्या. दिना वरणलिङ्गभूयस्त्वं नोच्यते, किन्तु पूर्वविकल्पः स्यात् । पूर्वप्र- पाठकोक्तश्वेतकेतूाख्यानझानस्यैव प्रकारभेदो निरूप्यते। आत्मप्रकर- पादुभयोः प्रणवकयोः । अत्र इमान्तः । क्रियामानसवत् । बाह्या पूजा क्रियेत्युच्यते । आन्तरी मानसमित्युच्यते । परन्तु प्रकरणभेदात पूजात्वाविशेषः । एवं प्रकारभेदेऽपि ज्ञानत्याविशेष इत्यर्थः ॥ ४५ ॥ अतिदेशाच्च ॥ ४॥ नामैवैतत्रामोपास्नेत्गादिविद्या अनूध नामब्रह्मातिदेशापि हानप्रकारविशेष एवायमिति प्राप्त ॥ ४६॥ सिद्धान्तमाह। विद्यैव तु निर्धारणात् ॥ ४ ॥ तुः पूर्वपक्षम्यावर्तकः । अत्र विचैत्र सर्वात्मभाव एक निसल्या ते । भूमेव सुखं, भूमा स्वेष विजिशासितव्य इत्यानन्धरसफपुरुषोत्तः सत्येव जिज्ञास्यत्वेन निरिणादित्यर्थः। ४७ ।। दर्शनाच्च ॥ १८ ॥ रश्यते च सर्वात्मभावयतां ब्रजमकानां पूर्व सर्वधिस्मनिर्भ-

१३२
ब्रह्मसूत्रत्तौ।
गवत्स्पर्शादिनाने सर्वसामर्थ्यम् । तदुक्तं ताभिरेव, चित्तं सुखेन
भवताऽपहृतं गृहेग्वित्यादि । अत्रापि, तस्य ह वा एतस्यैवं पश्यत एवं
मन्वानस्यैवं विजानत आत्मनः प्राणा इतिश्रुतिदर्शनात् सर्वात्मभाव
एवोक्त इतिभावः ॥४८॥
ननु तरति शोकमात्मविदित्युपक्रमाजशानमेवात्र प्रतिपाद्यं, न
सर्वात्मभाव इत्यादयाह ।
श्रुत्यादिबलीयस्त्वाच्च न बाधा ॥ ४९ ॥
एवमुपक्रमगतात्मवाक्यानुरोधात् सर्वात्मभावलिङ्गभूयस्त्वस्य
न बाधा, वाक्यापेक्षया श्रुतिलिङ्गयोर्बलीयस्त्वात् । अतः श्रुतिलिङ्गा-
नुरोधात् सर्वात्मभाव एवात्र प्रतिपाद्यो, न शानम् ॥ ४९ ॥
ननु स्ने महिम्नि प्रतिष्ठित इतिश्रुत्या न सर्वात्मभाव उच्यते,
फिन्तु ब्रह्मणः स्वाधारत्वमेव युक्तमिति प्रतिपाद्यत इत्याशझ्याह ।
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्
दृष्टश्च तदुक्तम् ॥ ५० ॥
भूमा कुत्र प्रतिष्ठित इतिप्रश्शे, स्ने महिम्नीत्युत्तरमुक्त्वा, स
वा एष एवं पश्यन्नित्यनेन तच्छब्दस्य पूर्वपरामर्शित्वाद् भूमाधिकरण-
सर्वात्मभावादिभ्यो हेतुभ्यः सर्वात्मभाव एवात्र प्रतिपाद्यो, न ब्रह्म-
णः स्वाधारत्वमित्यर्थः । अन्यथा कुत्र प्रतिष्ठित इति प्रश्ने, न का-
पीत्येव वदेत् । ननु सर्वात्मभावस्थापि फलं मुक्तिरेवेत्याशङ्याह ।
प्रशान्तरपृथक्त्ववत् । सर्वात्मभाववद्भक्तप्रशातो भिन्ना प्रशान्तरं मु-
मुक्षुभक्तस्य वकृतार्थताविषयकं ज्ञानम् । तस्य यथा पृथक्त्वं
पृथक्फलसाधकत्वं कर्मशानादिफलेभ्यः पार्थक्येन मोक्षसाधकत्वं,
तथा सर्वात्मभाववद्भक्तप्रशाया भगवल्लीलासाधकत्वं, न तु स्वका-
मनासाधकत्वम् । अतः सर्वात्मभावस्य भगवल्लीलासाधकत्वं, न तु
मोक्षसाधकत्वम् । अत्र व्यासः स्वानुभवमेव प्रभाणयति । दृष्टश्च ।
एताहशभक्तस्य स्वरूपानुभवातिरिक्तफलाभावोऽस्माभिरेव वजभ-
तादौ दृष्टः। अन्न शब्दोऽपि प्रमाणमित्याह । तयुक्तम् । अहं भक्तपरा-
धीन इत्यारश्य, वशे कुर्वन्ति मां भक्त्यति भगवतोक्तमित्यर्थः ॥५०॥

३ अध्याये ३ पादः। न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥५१॥ ननु सर्वात्मभावनिरूपकसनत्कुमारनारदसंवादप्रपाठके तस्य सर्वेषु लोकेषु कामचारो भवतीत्युक्त्या सर्वात्मभाववद्भक्तस्याप्य- न्यकामना दृश्यत इत्याशङ्ख्याह । न । तर्हि कथमेवमुक्तं तनाह । सामान्यादप्युपलब्धेः । तत्समानधर्मसम्बन्धादपि श्रुतौ तत्प्रयोग उपलभ्यते बहुशः । प्रकृतेऽपि विविधसुखप्रधानालोकानां भगव- सम्बन्धिसर्वसुखेषु कामचारो भवतीत्यभिप्रायेण तथोच्यते । ननु यथाश्रुतार्थः किमर्थं त्यज्यत इत्याशङ्ख्याह । मृत्युवन्न हि लोकापत्तिः। यथा, न पश्यो मृत्युं पश्यतीति ताशभाववतो मृत्युनिषेधः क्रियते तथा भगवत्स्वरूपातिरिक्तलोकान्तरसम्बन्धोऽपि न सम्भ- वतीत्यर्थः ॥५१॥ अन हेत्वन्तरमाह। परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः॥५२॥ शब्दस्य आत्मन एवंद सर्वमिनिपूर्वोक्तश्रुतिवाक्यस्य, परेण, सर्वमाप्नोति सर्वश इति वाक्येन ताद्विध्यम् पकरूपत्वमस्तीति, न लोकान्तरसम्बन्धो वक्तुं शक्य इत्यर्थः । नन्वात्मन एवेदः सर्वमि- त्युक्तमेव, पुनः सर्वमानांतीति किमर्थमुक्तं, तत्र हेतुमाह । तुः शङ्कानिरासे । हेतूनां बाहुल्ये दाय॑ भवतीति पुनरनुबन्धः कृत इत्यर्थः॥५२॥ एक आत्मनः शरीरे भावात् ॥ ५३ ॥ अत एवेक शाखिन आत्मनो भगवतो भक्त शरीरे भावादा- विर्भावात् तेन सह कामोपभोगनिरूपिका, सोऽभुते सर्वान् कामा- नितिश्रुतिं पठन्तीत्यर्थः ॥ ५३ ॥ व्यतिरेकस्तावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥ ज्ञानिनां हृदये परमव्योमाविर्भावस्य व्यतिरेकः । कुतः १ त- दावाभावित्वात् । वरणाभावेन भगवद्भावस्याभावात् । ननु भ• गवतो शानविषयत्ववदाविर्भावोऽप्यस्तु तत्राह । न तूपलब्धिवत् ।

१३४ ब्रह्ममूत्रवृत्तौ। उपलब्धिर्शानं यथा साधनसाध्यं तद्वद् भगवद्वरणं विना हृदये परमव्योमाविर्भावाभावेन भगवदाविर्भावा न भवतीत्यर्थः । तस्य साधनान्तरासाध्यत्वात्॥५४॥ तत्र निदर्शनमाह। अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥ हि यतः प्रतिवेदम् अङ्गावबद्धा ऋत्विजो हौत्रौद्गात्रादिप्रति- घेदनियतकर्मफरणार्थमवबद्धा वृता यजमानेन ने यथा सर्वशास्त्री. यकर्मकरणसमर्था अपि तत्राधिकाराभावात् मर्वशास्त्रामु न प्रभव- न्ति, तथान भगवतस्ताहशवरणाभावाज्ज्ञानिनां हर्दि परमव्योमावि. र्भावो न भवतीत्यर्थः॥ ५५॥ ननु केषांचित् फर्मज्ञाननिष्ठानामपि कृपया भक्तिमार्गे वरण हश्यत इति ऋत्विष्टान्तवैषम्यमित्याशङ्याह । मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥ यथैक एव कश्चिन्मन्त्रोऽनेककर्मसु विनियुज्यते, कश्चिद् द्वयोः, कश्चिदेकनव, तथा शास्त्रे विधानात् । एवं भगवदिच्छया जीयोऽपि कश्चित् कर्मनिष्ठां प्राप्य वरणेन भक्तिनिष्ठां प्राप्नोति, कश्चित्तु ज्ञाननिष्ठा- मेव प्राप्य, कश्चित्तु प्रथमत एव भक्तौ वियत इति विरोधो नेत्यर्थः ॥१६॥ ननु लिङ्गभूयस्त्वादितिसूत्रे सर्वात्मभावस्य सर्वतोऽधिकत्वं यनिरूपितं, तन्नोपपद्यते । सर्वात्मभाववद्भक्ते यथा सर्वत्र भग वद्भाव उक्तस्तथा लौकिकनायकस्यापि, सा सा सा सा जगति सकल इत्यादिषु सर्वत्र नायिकाभानदर्शनादतो लौकिकरसतुल्य- त्वाभास्य सर्वोत्कृष्टत्वमित्याशड्याह । भूम्नः क्रतुवज्ज्यायत्वं तथा हि दर्शयति ॥५५॥ भूनः सर्वात्मभावस्य ज्यायस्त्वं सर्वोत्कृष्टत्वं यम् । न- चोक्तं लौकिकरसतुल्यत्वं दोषः । ऋतुवदिति । यथा दर्शपूर्णमासा- दियागेषु दोहनाधिश्रयणादिकर्मणां लौकिककमतौल्येऽपि न लौकि- कत्वम् अलौकिफप्रमाणैकसमधिगम्यत्वात । तथास्यापि भावस्य तथात्वं शेयम् । तत्रोपपत्तिमाह । तथाहीत्यादि । तथाहि, भा- ३ अध्याये ३ पादः। १३५ त्मनः प्राणा इत्यादिश्रुतिः सर्वात्मभाववतः सर्वे भगवत एवेति द- यति । लौकिकनायकप्राणानां तु तत्त्वजन्यत्वान्न सर्वात्मभाव- वद्भक्तप्राणादितौल्यम् । अतोऽस्य सर्वतो ज्यायस्त्वे कोऽपि दोषो न शयः । इदं भक्त्यादीनामप्युपलक्षणम् । तेषामपि प्रतीत्या लौकिक- क्रियारूपत्वेऽपिभगवद्विषयत्वादलौकिकप्रमाणबोधितत्वाचालौकिक- त्वमेवेति शेयम् ॥ ५७॥ एवं सर्वात्मभावस्वरूपं विचार्य प्रक्रान्त उपासनानिर्णय उ. पसंहारे निरूपयति । नाना शब्दादिभेदात् ॥ ५८ ॥ सर्वेषु श्रीरामाधवतारेषु नानैवोपासना कार्या, न तु सर्वा. पतारविशिष्टस्यैकस्य ब्रह्मणः । तत्सत्स्वरूपसम्बन्धिशब्दानां मन्त्राणां विधायकशब्दानाम् आदिपदादाकारचरित्राणां च भेदादित्यर्थः ॥१८॥ विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥ पार्थक्येन कर्तव्यानामुपासनानां विकल्पो, न त्वग्निहोत्रद- शंपूर्णमासादिवत् समुच्चयः । कुतः । अविशिष्टफलत्वात् । एको- पासनेनैव मोक्षात्मकफलसिद्धावन्योपासनस्याविशिष्टफलत्वात् । तेनापि मोक्षस्यैव सिद्धः ॥ ५९ ॥ काम्यास्तु यथाकाम समुच्चीयेरन्न वा पूर्व- हेत्वभावात् ॥ ६॥ पास्तु काम्योपासना भिन्नभिनफलिफास्ता यथाकामं समु. बीयेरन् । यस्य यत्फलकामना तेन तावत्युपासना कर्तव्या । पूर्व- हेतोरविशिष्टफलत्वस्याभावात फलगतविशेषस्य विद्यमानत्वात् । यत्र पुनरेकोपासनस्यैव स्वकामितानेकफलसाधकत्वं तत्र तेनैव कार्यसिद्धौ, न वा उपासनानां समुच्चयो नास्तीत्यर्थः ॥ ६॥ अङ्गेषु यथाश्रयभावः ॥ ६१ ॥ एकफलसाधकानामुपासनानां भिन्नभिन्नणलवानातानां भिमाङ्गयुक्तानामङ्गेषु यथाश्रयभावः, यदङ्गं यत्रानातं तदङ्गविशिष्टं . ।

ब्रह्मसूत्रवृत्ती।
तदेवोपासनं कार्य, न त्वन्यत्रानातानामन्यत्रोपसंहारः कार्यः ॥ ६ ॥
कुतः?
शिष्टश्च ।। ६२॥
तदङ्गानां तत्रैव शासनादन्यत्रोपसंहारे प्रमाणाभावात् ॥ ६ ॥
समाहारात् ॥ ६३ ॥
ज्ञानमार्गे सर्वावतारधर्माणां ब्रह्मणिं समाहारातू सर्वधर्म-
विशिष्टब्रह्मोपासनं कार्यम् । तद्ग्रह्मैवावताररूपमित्येकस्मिन्नवतारे-
ऽवतारान्तरधर्माणामप्युपसंहारे बाधकं नास्तीत्यर्थः ॥ १३ ॥
गुणसाधारण्यश्रुतेश्च ॥ ६ ॥
ऐश्वर्यवीर्यादिगुणानां सर्वावतारेषु साधारण्यं धूयत इत्येक-
स्मिन्नवतारे सर्वावतारधोपसंहारो युक्त इत्यर्थः ॥ ६४ ॥
नन्वेवमुपासनं किं नित्यं ? न, किन्त्वैच्छिकमित्याह ।
न वा तत्सहभावाश्रुतेः ॥ ६५ ॥
एकस्मिन्नवतारे सर्वावतारयुक्तोपासनं न वा, तथा रुचिचे.
कर्तव्यं, न तु नियमतः। तेषां रूपाणां नियततया तत्सहभावव.
गाभावातू ॥६५॥
दर्शनाच्च ॥६६॥
उपासनस्य फलं दर्शनम् । तत्तु स्वधर्मविशिष्टैकावतारस्य
भवति, न तु सर्वावतारधर्मविशिष्टस्य । अतो दर्शनाखेतोभक्तिमार्गीयस्य
स्वधर्मविशिष्टकावतारोपासनं युक्तमित्यर्थः । सर्वोपासनानां फलं
दर्शनामति सूत्रकृताऽन्ते तदेवोक्तम् ॥ ६६ ॥
इति श्रीब्रह्मसूत्रवृत्ती मरीचिकाख्यायां तृतीयाध्या-
यस्य तृतीयः पादः ।। ३ ॥३॥

३ अध्याये ४ पादः।
तृतीयाध्यायस्य चतुर्थः पादः ।
पुरुषार्थोऽतःशब्दादिति बादरायणः ॥ १ ॥
पुरुषार्थो भगवानेव । अतःशब्दाद्, अतः परं नान्यदायसर
हीत्यतःपघटितश्रुतिवाक्पादित्यर्थः ॥ १॥
अत्र कर्मवादी प्रत्यवतिष्ठते ।
शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनि: ॥२॥
विष्णोरिज्यत्वेन कर्मशेषत्वात् कर्माङ्गदेवतास्वरूपक्षानं यागे
फलातिशयहेतुरिति पुरुषसम्बन्ध्यर्थवादरूपं वेदान्तेवात्मनिरूपण-
म् । यथाऽन्येषु द्रव्यगुणकर्मस्वर्थवादः। यस्य पर्णमयी जुहूर्भवती-
त्यादि द्रव्यनिरूपणार्थमर्थवादः । यदाके चक्षुरेव भ्रातृव्यस्य वृ-
ङ्क्ते इति संस्कारेऽर्थवादः । यत्प्रयाजाऽनुयाजा इज्यन्त इत्यादि क-
मनिरूपणेऽर्थवादः । तद्वत् । अतो विष्णुस्तुतेरर्थवादरूपत्वेना.
प्रशंसाद्वारेण कर्मण एव प्रशंसारूपत्वात् कर्मण एव फलसाधक-
त्वं न भगवानस्येत्यर्थः॥२॥
ननु नमेव विदित्वा मुनिर्भवतीत्यादिश्रुतौ शानवतः सर्वत्याग-
कथनात् पूर्वोक्तं न युक्तमित्याशङ्याह ।
आचारदर्शनात् ॥३॥
वशिष्ठप्रभृतीनां ब्रह्मज्ञानिनामग्निहोत्राद्याचरणदर्शनान्न ज्ञान-
स्व कर्मबाधकत्वं सम्भवतीत्यर्थः ॥३॥
तच्छ्रुतेः ॥ ४ ॥
जनकादीनां ब्रह्मविदां 'जनको ह वैदेहो बहुदक्षिणेन यशेने-
जे' इत्यादिकर्मफरणनिरूपकश्रुते तोर्न शानस्य कर्मबाधकत्वम् ॥४॥
समन्वारम्भणात् ॥ ५ ॥
तं विद्याकर्मणी समन्वारभेते इति श्रुतौ शानकर्मणोः साहि-
खेन फलारम्भकत्वदर्शनान्त पूर्वोक्तम् ॥५॥

१३८ ब्रह्मसूत्रवृत्तौ। तद्वतो विधानात् ॥ ६ ॥ वशिष्ठो ब्रह्मेन्यनेन ज्ञानवतो ब्रह्मत्वेन वरणकथनाज्ज्ञानस्य कर्माधिकारसम्पादकत्वमेव । बाधकत्वं तु सुदूरनिरस्तम् ॥ ६ ॥ ननु यदहरवत्यादिश्रुन्या त्यागस्यापि विधानात् कर्मतत्त्याग- योच्छिको विकल्पोऽङ्गीकार्यो नाङ्गाङ्गिभाव इत्याशङ्ख्याह । नियमाच ॥ ७ ॥ यावजीवाग्निहोत्रविधाननियमाद, आश्विनं धूम्रललाममित्या- दिश्रुती कर्माकरणे प्रायश्चित्तविधानाच्च फर्मकरगानियम एवं श्रु. तेरभिमनो, न तु तत्त्याग इत्यर्थः । त्यागविधः कर्माशक्तविषयकत्वं व्यवस्थापनीयमितिभावः । अतो ब्रह्मज्ञानस्य कर्मशेषत्वन निरूप- णात् कर्मव फलसाधकत्वात् कर्तव्यं, न तु तत्त्याग केवलज्ञानात् फलं सिद्ध्यतीति जैमिनिमने प्राप्त ॥७॥ उच्यते । अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥८॥ तुः पक्षव्यावर्तनार्थः । स वा अयमात्मा सर्वस्य वशीन्यादि- श्रुग्या भगवान् सर्वापेक्षयाऽधिक उपदिश्यतेऽतः कर्मसाम्यमपि न वक्तुं शक्यम् । तदङ्गत्वं तु दूरपरास्तम् । अत्र विश्वासार्थमाचार्यः खानुभवं प्रमाणयति । बादरायणस्यैवं तद्दर्शनात् । एवं कमादिश्य आधिक्येनैव तस्य भगवता भक्तिमार्गस्य च तत्सम्बन्धिसर्वात्म- भाषस्य च दर्शनादू अनुभवादित्यर्थः ॥८॥ आचारदर्शनादित्यस्योत्सरमाह । तुल्यं तु दर्शनम् ॥ ९॥ यथा जनकादीनां कर्मफरणाचारस्तथा शुकभरतादीनां कर्म- त्यागाचारः । तथाचाचारदर्शनस्य तुल्यत्वान्न ज्ञानं कर्माङ्ग- मित्यर्थः ॥९॥ ननु जनको ह वैदेह इनि जनकस्य कर्मकरणनिरूपकश्रुति- साहाय्यात् कर्मकरणाचारदर्शनं त्यागाचारदर्शनादधिकबलमित्या. शयाहा ३ अध्याये ४ पादः। असार्वत्रिकी ॥ १० ॥ ब्रह्मविदां सर्वेषामेव कर्मकरणनिरूपणाभावात् कुत्र चिजन- कादौ कर्मकरणनिरूपिका श्रुतिरसार्वत्रिकी । य एतद्ध स्म वै' इति कर्मत्यागनिरूपिका श्रुतिदृश्यते । अतो न सर्वेषां कर्मकरणनियम इत्यर्थः ॥ १०॥ ननु तेषां ब्रह्मवित्त्वेऽप्यकेषां कर्मत्याग एकेषां कर्मकृतिरिति- विभागे किं नियामकमित्याशझ्याह । विभागः शतवत् ॥ ११ ॥ तत्रैतस्यानन्दस्यान्यानि भूतानि मात्रा उपजीवन्तीतिश्रुतेर्भग- घदानन्दस्य सर्वत्र विद्यमानत्वेऽपि मानुषाद्यधिकारभेदेन तत्तदान- न्ददानाद् यथा मानुषानन्दादारभ्याक्षरानन्दपर्यन्तं शतोत्तरमानन्दो- कर्षरूपी विभाग उक्तस्तथा प्रकृतेऽपि येषु भगवदनुग्रहोत्कर्षेणा- न्यभावरहित्यं सर्वथा लौकिकभादराहित्यं व्यसनावस्थति यावत्, तेषु सर्वथा कर्मत्यागः । येषु भगवदनुग्रहस्थ न्यूनत्वं, तेषु लौकि- कभावसद्भावाद् व्यसनावस्थाया असम्भवेन कर्मत्यागोऽपि नास्तीति विभाग उपपद्यत इति भावः । व्यसनावस्थायामेव कर्मपरित्याग इति तु भक्तिवर्द्धन्यादिग्रन्थे निर्णीतम् । अत्र निर्गुणब्रह्मणो यद्ग- णितानन्दत्वमुक्तं, तत्तु लयात्पूर्वानुभवमादाय । यतः पुरुषाधिका- रतारतम्येनानन्दभोगे तारतम्यं शतसंख्यया सूचितम् । ब्रह्मणि लये तु भोक्तुरवाभावान्नानन्दतारतम्यम् । अग्रे त्वानन्दभात्रावशेषात् संख्या नास्ति । तर्हि पूर्णत्वं स्यादिति चेत्, पूर्णत्वस्यापि धर्मत्वेन निर्मके तदसम्भवात् । पूर्णत्वं तु सधर्मकत्वात् पुरुषोत्तम एत्र तस्य ब्रह्मानन्दापेक्षयाऽऽधिक्यं त्वचिन्त्यशक्त्यावसपम् ॥ ११ ॥ तद्धता विधानादित्यस्योत्तरमाह। अध्ययनमात्रवतः ॥ १२ ॥ वेदाध्ययनमात्रवत: कर्मण्यधिकारो, नतु ब्रह्मविदोऽप्रीत्यर्थः॥१२॥ यन्चोक्तमग्निहोत्रादिविधायकश्रुतिषु कर्मकरणनियमदर्शनं सत्यागे बाधकमिति, नियमाच्चतिसूत्रेण, तत्राह । - १४० ब्रह्मसूत्रवृत्तौ । नाविशेषात् ॥ १३ ॥ न कर्मणा न प्रजयेत्यादिश्रुतिषु मोक्षप्राप्ती त्यागदर्शननियमा- विशेषान्न कर्मनियमो बाधक इत्यर्थः॥ १३ ॥ अधाग्रहण, ब्रह्मिष्ठो ब्रह्मा भवतीत्यत्र ब्रह्मिष्ठपदेन ब्रह्मज्ञान- वानेवोच्यते, न वेदाध्ययनमात्रवानित्युच्येत, तत्रापि बमः । स्तुतयेऽनुमतिर्वा ॥ १४ ॥ दर्शपूर्णमासावेताहशो यत्र ब्रह्मविदपि ब्रह्मत्वरूपाविज्या- धिकारीति दर्शपूर्णमासस्तुतये, न तु तत्र तस्याधिकारोऽभिप्रेतः । ब्रह्मज्ञाने कमापक्षयात्कर्षस्य पूर्वमुपपादितत्वात् ॥ १४ ॥ नन्वेष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्द्धते नो कनीया. नितिश्रुत्या ब्रह्मविदः कर्मकरणे प्राप्तगुणदोषयोनिषेधः क्रियते । तथा. च तस्य कर्मकरणमावश्यकमित्याशङ्याह । कामकारेण चैके ॥ १५ ॥ कामकारेण परानुग्रहार्थमिच्छामात्रेण यत्करणं तेन प्राप्तयो- गुणदोषयोनिषेधार्थमिदं वाक्यमेके शास्त्रिनः पठन्ति। न त्वेतत्कथनेन करणनियमप्रसक्तिरित्यर्थः । परानुग्रहार्थमिच्छामात्रेण यत्कर्मकरणं, न तस्माद्गुणदोषयोः प्रसक्तिः । इदन्तु, पृथग्घ्यप्रतिबन्धः फलमि- त्यनेन पूर्वमुक्तम् । ताहराकर्मणो भक्तित्वमेव, न कर्मत्वमित्यने, स्तु. तिमात्रमितिसूने व्युत्पादयिष्यते । ब्रह्मविदो हि यज्ञाङ्गदवानां भगव- अक्तत्वं ज्ञात्वा यजनं कुर्वन्तीति, न तत् कर्मरूपं भवति । भूतभा: वोद्भवकरा विसर्गः कर्मसंक्षित इति सन्दर्भोक्तकर्मलक्षणव्याप्तेः । अत एव सन्दर्भेऽप्युक्तं, तदीयाराधने तु गुण एवेति । तस्मात् क- मत्वाभावादेव कर्मसम्बन्धिगुणदोषयोरप्राप्तिः । किन्तु भगवदीया- राधनरूपा भक्तिरेख सेति शेयम् ॥ १५ ॥ उपमई च ॥ १६ ॥ एके शाखिनस्तत् केन के पश्येदित्यादिनाऽखण्डब्रह्मभाने कर्मतदधिकारादीनामुपमई च पठन्तीति शानस्य कर्माङ्गत्वं सुदूर ३ अध्याये ४ पादः। १४१ निरस्तं घेदितव्यम् । अखण्डब्रह्मभानं तु ब्रह्मे येव, नत्विदं ब्रह्माते सखण्डम् । तत्रोद्देश्यत्वेन प्रपञ्चस्यापि भानात् सखण्डत्वम् ॥ १६ ॥ ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥ यदहरेव विरजेत् तदहरेव प्रव्रजेदिति श्रुत्या प्रव्रजनविधाना- दुर्ध्वरेतःसु सन्न्यासिषु कर्माभावोऽङ्गीकार्य इति कर्मशेषत्वं झाने न सम्भवति । नन्वेवमग्निहोत्रादिकर्मशेषत्वाभावेऽपि ज्ञाने सन्न्यासा- अमीणकर्मशेषत्वमस्त्वित्याशयाह । शब्दे हि । ज्ञानवरूपं च श. देकगम्यं, न युक्तिगम्यम् । श्रुतौ तु तमेवं विद्वानमृता भवतीति ज्ञानस्य मोक्ष एव फलं श्रूयते । अतो न सन्न्यासाश्रमीणकर्मशेषत्व- मपीत्यर्थः । ननु ज्ञानेनैव मोक्षे सन्यासवैयर्थ्यमिति चेद्, ब्रह्मवि- व्यतिरिक्तसङ्गस्य भगवद्भावविस्मारकत्वेन त्यागस्य भगवद्भावपोष- कत्वेनोपयोगात् फलोपकार्यन्तरङ्गान्तःकरणशुद्धिसम्पादकत्वाच॥१७॥ अत्र पूर्वपक्षमाह। परामर्श जैमिनिरचोदना चापवदति हि ॥१८॥ किं प्रजया करिष्याम इत्यादिश्रुतौ ब्रमप्राप्तिं विना प्रजादिस- पदार्थानां वैयर्थ्यकथनात संकलश्रुतिभिमान एव फलत्वेन परा- मृश्यते । तं परामर्श कर्मस्वातन्त्र्यवादी जैमिनिरपवदति बाधत इ. त्यर्थः । यतो, वीरहा वा एष देवानामितिश्रुत्या कर्मत्यागस्य निन्दि- तत्वेन प्रव्रजननिरूपकश्रुतेरन्धपझ्वादिविषयकत्वं मनुते । तथा सिद्धस्त्ररूपब्रह्मनिरूपणश्रुतिषु ब्रह्मज्ञानस्याविधेयत्वेन तदचोदनापी फलत्वेन मोक्षपरामर्शमपवदतीत्यर्थः । अतो जैमिनिसम्मत्या विधि- सम्बन्धेन च कर्मेवाऽनुष्ठेयं, न तु मोक्षसाधनत्वेन तत्त्यागादिक- मिति प्राहे ॥ १८॥ उच्यते । अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥ जैमिनेर्गुरुबादरायणोऽनुष्ठेयं कर्मापवदनीति सम्बन्धः । कुतः । साम्यश्रुतेः । यथा, वीरइतिश्रुत्या कर्मत्यागकर्तुनिन्दा श्रूयते, एवं भगवज्ज्ञानरहितस्यापि निन्दा, आसुयां नामेतिश्रुत्योच्यते । वस्तु. ।

१४२ ब्रह्ममूत्रवृत्तौ । म. तस्तु, नमेतं वेदानुवचनेनेतिश्रुन्या कर्मणां शानसापेक्षतोक्तेस्तेषांशान- साम्यं तच्छेषित्वं च दुरापास्तमिति मन्तव्यम् ॥ १९ ॥ एवं सति पूर्वकाण्डवैयर्थमायातीत्याशङ्याह । विधिर्वा धारणवत् ॥ २० ॥ कर्मणां विधिर्भक्तिसाधनत्वनैव कर्मानुष्ठंयमितितात्पर्येणाच्य- ते । धारणवत् । यथा योगशास्त्रे समाधिसिद्ध्यर्षे मानण्या मूर्नेर्धारण साधनत्वेन विधीयते तद्वत् । समाधिसिद्धौ तु, नतःकिञ्चन न स्मरे- दित्यादिवाक्येभ्यो यथा धारणात्यागतथा भक्तिसिद्धौ तु कर्मणां त्याग इति भावः ॥ २०॥ स्तुतिमात्रमुपादानादिति चन्नापूर्वत्वात् ॥ २१ ॥ नन्वेष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्द्धते नो कनीया- नितिश्रुत्या झानिनि विहितनिपिद्धकर्मणोः फठाजनक वेन साम्पमु- क्तमिति ज्ञानस्य कमशेषत्वं नास्तीति यदुक्तं, तन्नोपपद्यते । यत इयं श्रीनिस्य स्तुनिमानम् । किञ्चानया श्रुत्या शानिनोऽपि कर्मोपादा- नात कर्मकृतिस्वीकारात् । यदि ज्ञानिनां कर्मकरणं न स्यात् तदा तत्कृतगुणदोषाप्राप्त्या निषेधोऽनुपपन्नः स्यात् । प्राप्तिपूर्वकत्वानिषे- धस्य । मात्रपदेन यत्किञ्चिद्गुणदोपसम्बन्धस्तेषामस्त्येवेति सूचित म् । तथाच शानिनोऽपि कर्मकरणप्रसक्त्या कर्मशेषत्वं झानस्याया- तीति चन्नैष दोषः । मानिनः कर्मफलासम्बन्धस्यापूर्वत्वादन्यतः प्रा. प्त्यभावाद् विधयत्वमेव, न तु स्तुत्यर्थ तत्कीर्तनम् । नच निषधस्य प्राप्तिपूर्वकत्वनियमः । सूर्ये तमःकार्याभाव इत्युक्त्या तमःकार्यप्रा- तिबोधासम्भवात् । ननु लोकसंग्रहार्थ तवामपि कर्मकरणं, तन्नि- धोरणानियम इत्यत्रोक्तं, तत्कथमुक्त शानिनां कर्मकरणाप्रसक्तिरिति । उच्यते । तादृशरीत्या यत् कर्मकरणं, तद् भक्तिरूपमेव । अत एव तत्रोक्तम्, अप्रतिबन्धः फलमिति । तस्माद् भगवदिच्छया ज्ञानिना कृतस्य फर्मणो भगवदभिप्रेतार्थकरणेन भक्तिरूपत्वन विध्यधीनतया कृतत्वेन कर्मत्वाभावाद् देवानां भगवदीयत्वेन भजनात् सम्यगंवोक्तं ज्ञानिनः कर्मकरणाप्रसक्तिरिति ॥ २१॥ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २२॥ ।

३ अध्याये ४ पादः। १४३ ननु ब्रह्मविद्यानिरूपकाणां, भृगु वारुणिरित्युपाख्यानानां, पारिप्लवे शंसतीनिश्रुत्या कर्माङ्गशंसनशेषत्वमुच्यते । शंसने च श- ब्दमात्रप्राधान्येन तदर्थस्य मन्त्रार्थवदप्रयोजकत्वात् कथं ज्ञानस्य कर्मप्राधान्यमिति चन्न । कर्मापेक्षया ज्ञानस्य विशेषितत्वाद् विशि- तृतया कथनान्न ज्ञानस्य कर्मशेषत्वमित्यर्थः । नच ज्ञानस्य विशिष्ट- त्वेन कथनमाख्यानम्वेवेति शङ्यम् । आख्यानातिरिक्तश्रुतौ, ब्रह्मवि. दाप्नोति परमित्यादौ शानोत्कर्षकथनात ॥ २२ ॥ नन्वेवमाख्यानश्रुतीनां विद्याप्रतिपादकत्वं न स्यादित्याशयाह । तथा चैकवाक्यतोपबन्धात् ॥२३ ।। यथा केवलश्रुतीनां विद्याप्रतिपादकत्वं, तथैवाख्यानश्रुतीनामि- त्यर्थः । नह्याख्याननिरूपणस्य कोपयोगस्तनाह । एकवाक्यतोपबन्धा- त् । आचार्यवान् पुरुषो वेदेतिभुत्यैकवाक्यताज्ञानार्थमुपाख्यानरीत्या गुरुशिष्यकापबन्धात् । तथाच विद्याया माहात्म्यनिरूपणार्थमा- ख्यानपूर्वक निरूपणमित्यर्थः ॥ २३ ॥ पुरुषार्थोऽतःशब्दादित्यारभ्य शानस्य कर्मानपेक्षत्वं फलसाधने उक्तमिति तवैवोपपत्त्यन्तरमाह । अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २४ ॥ यतो ज्ञानी ज्ञानेन स्वयं यज्ञात्मको जातोऽत एव जरामर्याग्नि- होत्रेऽग्नीन्धनाधनपक्षांता, तस्यैवं विदुषों यजमानस्येत्यादितैत्तिरी- यकश्रुती ॥ २४॥ नन्नवं कर्मकाण्डवैयर्थ्यमित्याशय कर्मणां ज्ञाने फलोपका- रित्वाभावऽपि स्वरूपोपकारित्वमस्त्येवेत्याह । सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २५ ॥ सर्वेषां कर्मशानभक्तीनां पुरुषोत्तमशानेऽपेक्षाऽस्ति । अन्यथा यज्ञादिनिरूपकश्रुतिवैययं स्यात् । अत पतन्निर्णये सैव श्रुतिः प्र- माणमित्यर्थः । ननु यज्ञादिविधायफश्रुतिबलात् कर्मणामेव ज्ञानद्वारा फलसाधकत्वमस्त्वित्याशङ्कां दृष्टान्तेन निरस्यति । अश्ववत् । यथा खेष्टफलसाधकदेशव्यवधायकदेशातिक्रमेऽश्वस्य साधनत्वं, न तु १४४ ब्रह्मसूत्रवृत्ती। तशस्थितफलाप्तावपि । तथा कर्मणां शानोत्पत्तिप्रतिबन्धकान्तःकर- णदोषनिरास उपयोगो, न तु शानफलसिद्धावपीत्यर्थः ॥ २५ ॥ ननु तस्मादेवंविच्छान्तो दान्त इत्यादिना शमादीनामेव ज्ञान- साधनत्वमुच्यते, न तु यज्ञादेरित्याशङ्याह । शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २६ ॥ आत्मन्येवात्मानं पश्यदिति ज्ञानमार्गीयज्ञानाङ्गतया शमद- मादिविधेहेनोमानी शमदमाद्युपेतः स्यात् । ज्ञानमार्गे तेषामवश्यानु- ठेयत्वात् । अन्यथा शानमवकीर्येत । अतस्तस्मादेवंविदितिश्रुतौ श- मदमादीनामुक्तिः । कर्मणां तु बहिरङ्गत्वादनुक्तिरिति झयम् । भक्तिमार्गे तु खत एव शमदमादयो भवन्ति, तथापि शानमागें त- षामावश्यकत्वाज्ज्ञानी तद्युक्तः स्यादेवत्यर्थः ॥ २६ ॥ ननु शमादीनां सत्त्वशुद्ध्यर्थमपेक्षणात तत्र चाहारशुद्धौ स- त्वशुद्धिरितिश्रुत्याऽऽहारशुद्धरन्तरङ्गसाधनत्वात् तद्विरुद्धसर्वान्नभ- क्षणस्य, चाक्रायणे छान्दोग्योपनिषत्सु श्रवणान सत्वशुद्धऑनस्या- न्तरङ्गसाधनत्वमित्याशय सर्वान्नानुमतिश्रुतिव्यवस्थामा । सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात् ॥ २७॥ आहारदौल यन प्राणात्यये प्राप्ते सर्वान्नानुमतिः श्रूयते, न त्वाहारसुलभत्वे । यतश्छान्दोग्योपनिषत्सु चाक्रायणे तथा दर्शना- दित्यर्थः । एवञ्च ज्ञानिनोऽप्यनापदि विहितत्यागश्चित्तमालिन्यं जन- यतीति सत्त्वशोधकशमादिकमवश्यमनुष्ठातव्यमित्यर्थः ॥ २७॥ अबाधाच्च ॥ २८ ॥ आपदि सर्वान्नभक्षणेन चित्तदोषासम्भवानाने बाधाभावा- चन दोष इत्यर्थः ॥ २८ ॥ अपि स्मयते ॥ २९ ॥ आपद्यविदुषोऽपि दुष्टान्नभक्षणे पापामाधो, जीवितात्ययमा- पन्त इत्यादिना स्मर्यते यत्र तत्र विदुषस्तथान्नभक्षणे दोषाभावे किं

३ अध्याये ४ पाद:।
वक्तव्यमित्यर्थः । यतस्तस्य झानाग्निरेष दोषसत्त्वेऽपि नाशकोऽस्ती-
तिभावः॥ २९ ॥
शब्दश्चातोऽकामकारे ॥ ३० ॥
यतो शानिनो ज्ञानाग्निरेव सर्वकर्मदहनसमर्थोऽतस्तस्य पूर्णद-
शायां यथेष्टाचरणेऽपि न दोषः । परं तु साधनदशायां कामनिवर्तकः
शब्द, एवंविच्छान्तो दान्त इत्यादिरूपः श्रूयते । अतः साधनदशायां
शमदमाधनापदि शिष्टान्नभक्षणं सर्वथा तेनानुष्ठेयमितिभावः ॥ ३० ।।
ननु ज्ञानाग्निः सर्वकर्माणीतिस्मृया ज्ञानस्य सर्वकर्मनाशक-
त्वकथनाज्जातज्ञानस्याश्रमकर्माणि न कर्तव्यानीत्याशङ्याह ।
विहितत्वाच्चाश्रमकर्मापि ॥ ३१ ॥
यथाऽनापदि शिष्टान्नभक्षणमेव कर्तव्यं, तथा विहितत्वादा-
श्रमकर्मापि कर्तव्यमित्यर्थः । अन्यथा विहितत्यागजनितदूषणे चि-
त्तमालिन्यं स्यादितिभावः ॥ ३१ ॥
ननु कृतस्यापि कर्मणो ज्ञानेन नाशात् किमर्थमपार्थकर्म शा-
निना कर्तव्यमित्याशमाह ।
सहकारित्वेन च ॥ ३२ ॥
शमदमादीनां ज्ञानान्तरङ्गसाधनानां सहकारीण्याश्रमकर्मा-
णि । अत आश्रमकर्मरहितैः यमदमादिभिर्टानं स्थिरीकर्तुमशक्यम-
तस्तान्यपि कर्तव्यानीत्यर्थः ॥ ३२॥
एवं शानमार्गीयाणां शानस्थैर्यसाधनान्युक्त्वा भक्तिमार्गीयाणां
भक्तिसाधनानि श्रवणादीन्यवश्यकर्तव्यानीत्याह ।
सर्वथापि त एवोभयलिङ्गात् ॥ ३३ ॥
यद्यपि भक्तानां श्रवणकीर्तनादीनि कर्तव्यान्येव, तथापि व-
र्णाश्रमधर्मादिसाधनानां श्रवणादीनां च युगपदुपस्थिती सर्वथापि
त एव भवणादय एव कर्तव्याः । नानुध्यायद बहून् शब्दान्, अन्या
वाचो विमुञ्चतिलिङ्गात् । शृण्वन्ति गायन्तीत्यादिस्मृतिलिङ्गा-
च्चेत्यर्थः ॥ ३३॥

१४३
ब्रह्मसूत्रत्तौ।
अनभिभवं च दर्शयति ॥ ३४ ॥
युगपदुपस्थिती प्राधान्येन भगवर्मा एव कर्तव्या इत्यत्र ग-
मनान्तरमुच्यते । यतः, सर्व पाप्मानं तरतीत्यादिश्रुतिः कर्माकर-
णजदोषैर्भक्तस्यानभिभवं दर्शयतीत्यर्थः ॥ ३४ ॥
अन्तरा चापि तु तद्दष्टेः॥ ३५॥
भगवर मेश्य प्राश्रमधर्मा न्यूना इत्यल्पमुच्यते । अपि तु
तरष्टेः, तस्मिन् भगवति इष्टिरन्यभावरहित्वपूर्वकं भगवद्भावो
व्यसनावस्थेतियावत् सा विद्यते यस्य तस्य वर्णाश्रमधर्मा अन्तरा
फलप्राप्ती बाधका इत्यर्थः । व्यसनावस्थापन्नस्य भक्तस्य निरन्तरं
भगवद्भावनायुक्तत्वेन भगवद्धर्मकर्मफरणयोर्युगपत्स्थित्यसम्भवादू
योमपद्ये कर्मणां त्याग आवश्यकः । अत एव ताशव्यसनावस्था.
पन्ना भक्ता निरपेक्षा इत्युच्यन्ते । तानुद्दिश्यैव, मद्भक्तो धाऽन.
पक्षेकः सलिङ्गानाश्रमांस्त्यक्त्वेति भगवतीकम् । सापेक्षा अपि
भक्ता द्विविधाः, स्वार्थ फलापेक्षा लोकसंग्रहापेक्षाश्च । व्यसनद-
शापनानां स्वार्थापेक्षा नास्त्येव । लोके विषमष्टरभावाल्लोकसंग्र-
हापेक्षापि नास्ति । अतस्तेषां सर्वथा निरपेक्षत्वम् ॥ ३५ ॥
अपि स्मर्यते ॥ ३६॥
अपिशब्देनाश्रमधर्माणामन्तरायत्वे किं वाच्यं, यतो झाना-
न्तरङ्गसाधनानां वैराग्यादीनामप्यन्तरायत्वं न ज्ञानं न च वैराग्य-
मित्यादिना स्मर्यत ॥ ३६ ॥
ज्ञानादिभ्यो भक्तः साधनत उत्कर्षमुक्त्वा फलतोऽ.
प्युत्कर्षमाह।
विशेषानुग्रहश्च ॥ ३७॥
शान्यपेक्षया भके विशेषानुग्रहः महं भकपराधीन इत्यादिना
स्मयते ॥ ३७॥
भक्त्युत्कर्षकथने फलितार्थमाह ।
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३८ ॥

३ अध्याये ४ पादः। अतः पूर्वोक्तोदाहृतश्रुतिभ्य इतरद् मुक्तरति भक्तिमार्गतदी- यत्वमेव ज्यायः । हेत्वन्तरमप्याह । लिङ्गाश्चेति । मुक्तानां देहेन्द्रिया. घभावेन केवलमात्मस्वरूपेणैव ब्रह्मानन्दानुभवः । भक्तानां त्व- लौकिकदेहेन्द्रियादिभिः सर्वोत्कृष्टभजनानन्दानुभव इति तदीयत्वमे- व सर्वोत्कृष्टमित्यर्थः ॥ ३८ ॥ ननु भक्तिमार्गस्यापि मोक्षसाधनत्वेन तत्र तदीयत्वस्य सा- धनोत्कृष्टावस्थारूपत्वेन मोक्षान्तरङ्गसाधनत्वमेव । एवञ्च तदीयत्वं न सर्वोत्कृष्टमित्याशङ्कयाह । तद्भूतस्य तु नातगावो जैमिनेरपि नियमात- दूपाभावेभ्यः ॥ ३९॥ सद्भूतस्य पुष्टिमार्गे तदीयत्वं प्राप्तस्य जैमिनेरप्यतद्भाधस्त- द्भावराहित्यं न कदाचिदपि । दृढतया कर्ममार्गनिरूपकत्वेन. भ. तिसम्बन्धाभावसूचनार्थ जैमिनेर्ग्रहणम् । एवञ्चान्यस्य भाक्तिलेश- घतः का वार्ता, याद भगवत्कृपया जैमिनेरपि तदीयत्वं स्थात् तदा घतिरोधानं कदापि न भवतीति, न तदीयत्वस्य मोक्षसाधनत्वश- ङ्कालेशोऽपीत्यर्थः । तत्र नियमादयो हेतवः । सदा पश्यन्ति सूरय इति सदापदोक्त्या भक्तानां भगवदर्शनं नित्यमेवेति नियम उक्तः । सौऽश्रुने इति श्रुत्या मुक्तस्य ब्रह्मस्वरूपानुभव उच्यते । स च वर गैकसाध्य इति तदीयत्वस्य फलरूपत्वात् साधनरूपाभावउक्तः । फलं हि साधनादुत्तमं भवति । तदीयत्वापेक्षयान्यस्योत्कृष्टस्याभा- वादपि न तदीयत्वस्य निर्विशेषमोक्षफलकत्वमित्यर्थः ॥ ३९ ॥ ननु ध्रुवादिभक्तानां ध्रुवादिलोकसम्बन्धिभोगस्य भगवदी- धत्वस्य फलं ब्रह्मादिलोकाधिकार पवेत्स्चराङ्याह । रु चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥४०॥ भगवदीयस्य भगवानाधिकारिकफल न ददाति । कुतः । अब्रह्मभुवनालोकाः पुनरावर्तिनोऽर्जुनेतिस्मृतिवाक्येन तन्त्र पतननि, रूपगाात् । किञ्च नाहशभक्तस्य निरन्तरं भक्तिरसानुभवनाकातम्या अप्यभावेन तादृशफलस्यायोगाद् असम्बन्धादपि न ददानीत्यर्थः ।

ब्रह्मसूत्रवृत्तौ । ध्रुवादीनां तु कार्यविशेषार्थ तदिच्छानुरोधेन च दानं, नैतावता स- र्वभक्तेश्यस्तहानमिति नियमः । ४० ॥ उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४१ ॥ एके भक्ता आधिकारिकफले पतनमान दोषः, किन्तूपपूर्व- पतनं भक्तिसम्बन्धाभावादिति वदन्ति । परमत्राधिकारसमाप्तौ भग- वदनुग्रहाशापि सम्भवति । मुक्तौ तु तदसम्भवान्महापतनमेव सेति भावः । एवं मुक्तिस्वरूपं निरूप्य भक्तिमार्गोत्कर्षार्थमाह । भावमश- नवत् । भक्तिमार्गे तु साक्षात्प्रभुसम्बन्धाभावेऽपि भगवदानन्दभोगव- न्मन्यते । ननु साक्षाद्भगवत्स्वरूपानुभवो जीवस्य न सम्भवतीत्याश- झ्याह । तदुक्तम् । सोऽश्नुते सर्वान् कामान्, अत्र ब्रह्म समश्नुत इत्यादिश्रुतिषु तथोक्तमित्यर्थः ॥ ४१ ॥ ननूत्कृष्टभगवद्भावे भगवस्वरूपानुभवे वा सम्पन्ने गृहत्यागः कर्तव्यो न वेति संशये फलस्व सिद्धत्वान्न कर्तव्यो गृहत्याग इति प्राप्ते, उच्यते। बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४२ ॥ उभयथापि भगवद्भावमा स्वरूपानुभवे वा गृहाद् बहिर्गमनं त्यागः कर्तव्यः । त्वं तु सर्व परित्यज्येतिस्मृतेरुद्धवविदुरादीनां तथै- वाचाराचेत्यर्थः ॥४२॥ नन्वयं पुष्टिमार्गीयफलस्य त्यागात्मफसाधनजन्यत्वमायाती- त्याशङ्याह । स्वामिनः फलश्रुतेरित्यायः ॥ ४३ ॥ पुष्टिभक्तस्य स्वामिनो भगवत एव फलश्रुतर्न साधनत्वेन वि. हितत्वेन च त्यागः कर्तव्यः । साधनदशायां गृहादीनां भगवद्भाव- बाधकत्वभानेनार्थात्तेषां त्यागो भवतीति शयम् । अत्रेविष्णोरवतार- त्वेन भक्तिमार्गसिद्धान्तज्ञत्वात् तन्नामोक्तम् ॥४३॥ आविज्यमित्याडुलोमिस्तस्मै हि परिक्रीयते ॥४४॥ औडुलोमिराचार्यस्तु जीवानां भगवल्लीलार्थमेव प्रकटितत्वेन

३ अध्याये ४ पादः।
१४९
लीलोपयोगस्य तेषां त्यागं विनाऽसम्भवाद् भक्तस्य सर्वत्यागपूर्वक
यद्भगवन्निकटगमनं तदाविज्यम् ऋत्विक्कर्मैव मनुते । यथा ऋ.
विजां कर्मणि प्रयासो यजमानकार्यार्थ तथाऽत्रापि भगवल्लीलास-
पादनार्थमेव तेषां त्यागादिकमित्यर्थः । भक्तानाम् ऋत्विक्त्वनिरूप-
णस्य तात्पर्यान्तरमाह । तस्मै हि परिक्रीयते । तस्मै यजमानाय स्व-
कार्यकारणार्थम् ऋत्विक् परिक्रीयते वरणेन स्वीक्रियत इत्यर्थः ।
एवं प्रकृते स्वीयतल्लीलासम्पादनार्थ वृता भक्तास्तल्लीलानुभववि-
रोधिगृहादिकं त्यक्त्वा भगवनिकट गच्छन्तीत्यर्थः ॥ ४४ ॥
श्रुतेश्च ॥ ४५ ॥
भक्तिरस्य भजनमित्यादिश्रुतिरूपप्रमाणाप्ययं सिद्धान्तो
ज्ञेयः ॥ ४५ ॥
ननु वरणश्रुनिर्भगवत्प्राप्ता धरणातिरिक्तसाधनान्तरं निषेध-
ति। तस्मादेवंविदित्यादिश्रुतिस्तु साधनान्तराणिं निरूपयति । एवं
श्रुतिविप्रतिषेधे प्राप्ते मर्यादापुष्टिभेदेन तयोर्व्यवस्थामाह ।
सहकार्यन्तरविधिः पक्षेण तृतीयं तहतो वि-
ध्यादिवत् ॥ ४६॥
जीवानां भगवदगीकारो मर्यादापुष्टिभेदेन द्विधा । तत्र श्रुती
शमदमादिसहकार्यन्तरविधिर्मर्यादापक्षणोच्यते । पुष्टिमार्गे तु वर-
णातिरिक्तसाधनानपेक्षणात् तद्वतो भगवद्विषयकपरमस्नेहवतस्तृ-
तीयं साधनं मानसिकम् । कायिकवाचनिकमानसिकभेदेन त्रिविध-
साधनेषु मानसिकस्यास्यहितत्वात् तद्रहणम् । तथाच तादृशस्य भ-
तस्य मानसिकसाधनमावि विध्यादिवज्ज्ञेयम् । यथा स्नेहवतो भक्त-
स्य भगवत्कार्ये प्रवृत्ती विधिरर्थवादो वाप्रयोजकः । तस्य स्वत एक
प्रवृत्तिसम्भवात् । तथा मनसेवाप्तव्यमितिश्रुतियोधितं मानसिक सा.
धनं भगवद्भावाप्रयोजकमित्यर्थः । भगवदगीकारबलेन तस्य स्वत एव
प्राप्तिसम्भवात् । भगति मनोनिवेशस्तु भावस्वाभाव्यादेव, न तु
विधिबलेन। एवं मानसिकसाधनस्य पुष्टावप्रयोजकत्वकथनेन कायि-
कवाचनिकयोरप्रयोजकत्वमर्थादेव सिद्धम् ॥ ४६ ॥

१५० ब्रह्मसूत्रवृत्तौ। ननु बहिस्तूभयर्थत्यादिना पूर्णभावयुक्तस्य गृहत्यागावश्य कत्वमुक्तम् । तच्छान्दोग्योपनिषदुक्तोपसंहारविरुद्धम् । तत्रान्ते, कुटुम्बे शुचौ देशे स्वाध्यायमधीयान इति गृहस्थाश्नमस्यैव कथनादि त्याशय तत्तात्पर्यमाह। कृत्स्नभावात्तु गृहिणोपसंहारः॥ १७ ॥ स्यागे वाङ्मनसयोरेव भगवति विनियोगः । गृहस्थाश्रमे तु कुटुम्बमाहित्येन सेवाकरणात् सर्वेन्द्रियाणां भगवद्विनियोगः, परि- जनकृतार्थता चाधिका सम्पद्यत इति गृहिणोपसंहारः कृत इत्यर्थः । मर्यादामार्गीयगृहिव्यवच्छेदार्थ तुः । पूर्वोक्तत्यागावश्यकत्वं तु व्य- सनदशायामेव । ताहशाधिकारस्य दुर्लभत्वेन पूर्व गृह एव स्थित्वा भजन कर्तव्यमित्यत्रोक्तम् । पूर्णाधिकाराभावे त्यागधर्मापक्षनिर्वा- हात् कर्मत्यागेन विकमजदोषप्रसक्तेश्च ॥४७॥ किश्च। मौनवदितरेषामप्युपदेशात् ॥ ४८ ॥ सरन्यासिनो यथा मौनानीहादयो धर्मा उपदिष्टास्तथा गृ- हिण इतरेषामण्युपदेशः कृतः । आत्मनि सर्वेद्रियाणि सम्प्रतिष्ठाप्ये- स्यादिना । अतः सम्यामिधर्मापेक्षयात्राधिकधर्माणामुपदेशाद् गृ- हिणांपसंहारो युक्तः॥४८॥ ननु तत्र शुचौ देशे स्वाध्यायमधीयान इतिकथनात् कथं सर्वेन्द्रियाणां भगवत्सेवापरत्वं सम्भवतीत्याशङ्ख्याह । अनाविष्कुर्वन्नन्वयात् ॥ १९ ॥ यतो भगवता महान्वयं सम्बन्धं प्राप्य वर्तते । अतो गृहस्था- भ्रमधर्वेदाध्ययनादिभिर्भगवद्भावमनाविष्कुर्वन् भगवद्भजनं कुर्श- हित्याशकेन श्रुती ने धर्मा उक्ता इत्यर्थः ॥ ४९ ॥ वैदिककर्मफरणे तश्पर्यमुक्त्वा लौकिकतत्करणसमयमाह । ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५० ॥ यथा भगवद्भावगोपनार्थ वैदिककर्मकरणं, तथा लौकिकस्या- ३ अध्याये ४ पादः। ध्यनावश्यकत्वात् करणम् । परं तु भगवत्कार्याप्रतिबन्धेनैहिकमप- योत्पादनतत्संस्कारादिकं कार्यम् । ननु तेषां बाध एवास्त्वित्याश- झ्याह । तदर्शनात् । धार्मिकान् विदधदिति श्रुतौ धार्मिकपुनविधान- दर्शनाद् गृहस्थाश्रमतद्धर्माणां बाधाभावेऽपि भगवत्सेवासमयाऽ. तिबन्धेन तेषां करणमित्यर्थः॥५०॥ नन्वेवंप्रकारेण भजनं कुर्वतो भक्तिमार्गीयस्य भगवद्रसानुभ- पात्मकं फलं भवति, न वेत्याशङ्याह । एवं मुक्तिफलानियमस्तदेवस्थावधृतस्तदव- स्थावधृतेः ॥ ५१ ॥ एवम्भूतस्य गृहिणो जीवन्मुक्तस्य मुक्तेयंत्फलं भगवद्रानु- भवस्तस्यानियम एव । अत्र हेतुमाह । तदवस्थेत्यादि । न स पुनराव- तत इति श्रुत्या मोक्षावस्खाया एव नियमः क्रियते । न तु पुष्टिमार्गी यफलस्य । जीवन्मुक्तिदशा तु तस्यौत्सर्गिक्येवेतिभावः । अतस्तथेत्य- यः । अत्र भक्तस्य भगवद्रसानुभवानियम उक्तः, स तु भक्तिमार्गी- यसर्वाभिप्रायेण । तत्र शुद्धपुष्टिभक्तस्य परमानुग्रहभाजनत्वान्मुक्त. यंत्फलं भगवद्रसानुभवस्तदेव ताशसाधनसम्पत्ती नियमेन भवति। येषां भक्तानां शुद्धपुष्टिमार्गीयसाधनं न सम्पन्नं, तेषां तु साधनाभा- पादेव न विलक्षणभगवत्सबन्धात्मकं फलं भवति, मोक्षस्तु भवत्येव सर्वेषामित्यभिप्रायेण मुक्तिफलानियम उक्तो, न तु शुद्धपुष्टिसाधन- सम्पत्तावपि न मुख्यं फलं भवतीत्यभिप्रायेणेति शेयमिति ॥ यता, नन्वेवरीत्या भक्तिमार्गीयगृहिणो भगवद्रसानुभवात्मकं फलमेतजन्माव्यवधानेन भवति न वेत्याशङ्ख्याह । एवं मुक्तिफला- नियमस्तदवस्थावधृतेस्तवस्थावधृतेः । एवम्भूतस्य गृहिणो जीवन्मु. तस्य मुक्तेर्यत्फलं भगवद्रसानुभवस्तस्यानियम एव । एतजन्मोत्तर जन्मान्तरब्यवधामेन वेत्यनियम इत्यर्थः । जन्मान्तरव्यवधानं तु तेषां तदिच्छानुरोधिभगवदिच्छातो भवति । ताहशभक्तानामेव ता- हशीच्छा भवति, यदस्माकं जन्मान्तरं भवतु । तेनास्माकं भगवद्भ- जनरसानुभवो भवतु । लोकानां शिक्षणेनास्माभिः कृतार्थता सम्पा- दनीया तदुपर्यनुग्रहोऽपि सम्पद्यतामित्याकारकतदिच्छानुरोधेन भ.

१५२ ब्रह्मसूत्रवृत्तौ । गवदिच्छया तेषां जन्मान्तरं भवति। परंतजन्म मुक्तिरूपं दुःखाऽस्पृ- ष्टं, ग तु बन्धरूपम् । न कर्मबन्धनं जन्म वैष्णवानां च विद्यते । वि. गारिनुचरत्वं च मोक्षमाहुर्मनीषिणः । यथा सौमित्रिभरतावितिपा- मोक्तेः । आर्तभक्तानां त्वेताहशीच्छा न भवति, तेषां भगद्विप्रयोगस्य सोदुमशक्यत्वादिति ज्ञेयम् । अनियमे हेतुमाह । तदवस्थावधृतस्तद- घस्थावधृतेः । न स पुनरावर्तत इति श्रुत्या मोक्षावस्थाया एव नियमः क्रियते, न तु पुष्टिमार्गीयफलस्य । जीवन्मुक्तदशा तु तस्यौत्सर्गिक्ये- वेतिभावः । अतस्तथेत्यर्थः । आवृत्तिरध्यायसमाप्तिसूचिका ॥ ११ ॥ इति श्रीब्रह्मसूत्रवृत्तौ मरीचिकाख्यायां तृतीयाध्यायस्य चतुर्थः पादः ॥ ३ ॥४॥ समाप्तश्चायं तृतीयोऽध्यायः ।

४ अध्याये १ पादः। १५३ अथ चतुर्थाध्यायस्य प्रथमः पादः । तुरीयेऽध्याये फलं विचारयंस्तस्यान्तरङ्गसाधनरूपश्रवणादिषु विचारयति । तत्र, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि- ध्यासितव्य इत्यनेन विहितं श्रवणादिकं सकृत् कर्तव्यमसकृद्वति संशये सकृत्करणेऽपि शास्त्रार्थसम्पादनसम्भवातू सकृदेव कर्तव्यं, नासकृद् गौरवादिति प्राप्ते, उच्यते । आवृत्तिरसकृदुपदेशात् ॥ १॥ श्रवणादीनामावृत्तिरेव श्रुतितात्पर्यविषयः । कुतः । असकृदु- पदेशात् । छान्दोग्ये श्वेतकेतूपाख्याने, ऐतदात्म्यमिदं सर्वमित्यारण्य तत्वमसीत्यन्तोपदेशवाक्यस्य नवकृत्व उपदेशात् ॥ १॥ अत्रैव प्रमाणान्तरमाह। लिङ्गाच्च ॥ २॥ श्रुतेरनुमापकत्वात् स्मृतिर्लिङ्गमित्युच्यते । तथाच, यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्रयुक्तम्' इतिस्मृतेरपि श्रव- यादीनामावृत्तिरेव फलसाधिकेति शेयम् । अत्र चक्षुर्यथैवेति दृष्टा- तनापि श्रवणादीनामावृत्तदृष्टद्वारैव फलसाधकत्वं सूचितम् । अतः श्रवणादिकमसकृत् कर्तव्यमिति सिद्धम् ॥२॥ एवं श्रवणादीनामावृत्तौ ज्ञानिनां फलं विचारयति । आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥ शानिनो हि भगवन्तमात्मरूपेणोपासते । एवं निरन्तरमुपासने क्रियमाणेऽनेकजन्मभिस्तषां हृदये तथैव भगवान् स्फुरति । तदा स्वानन्दांशस्याप्याविर्भावात खाभेदेनैव तमनुभवन्ति । एवं स्थिती किञ्चित्कालविलम्बेन प्रारब्धक्षये तत्रैव प्रविशन्ति । एतदेवाह । आ- त्मेति तूपगच्छन्ति । आत्मेत्युपासनात् तमेवोपगच्छन्ति प्राप्नुवन्ती. २० १५४ ब्रह्मसूत्रवृत्तौ। स्यर्थः । एतादृशाः सर्वोपकारिण इति परार्थमपि ज्ञानं भगवता तेषु दत्तमित्युत्तमाधिकारिण्युपस्थिते शानमुपदिशन्त्यपीत्युपदेशोऽपितेषां फलानुभवमध्यपातीत्युपदिशन्ति चेत्युक्तम् ॥ ३॥ ननु ब्रह्मण आत्मत्वेन ज्ञानमुपासनार्थ, गुरौ भगवत्त्वेन ज्ञा. नमपीति तस्य फलत्वमनुपपन्नमित्याशड्याह । न प्रतीकेन हि सः ॥ ४ ॥ प्रतीकेन अन्यस्यान्यरूपेणोपासनेन से मोक्षो न भवति । अत- स्मिस्तबुद्धिरूपे प्रतीक भेदज्ञानस्य विद्यमानत्वात् । भेदहष्ट्याभि- मानेनेतिवाक्ये भेददर्शनस्य संसारप्राप्तिफलकत्वनिरूपणात् ॥४॥ ननु सर्व खल्विदं ब्रह्म, आत्मैवेदं सर्वमित्यादौ सर्वत्र ब्रह्मह- ष्टिः प्रतीकात्मिका मोक्षसाधनत्वेनोक्ता । अतः प्रतीकोपासनस्य नि. विशेषब्रह्मप्राप्तिलक्षणमोक्षस्य साक्षादसाधनत्वकथनमनुपपन्नमित्या- शड्याह । ब्रह्मदृष्टिरुत्कर्षात् ॥ ५॥ सर्वस्य वस्तुतो ब्रह्मात्मकत्वेन तन ब्रह्मरष्टेः प्रतीकत्वाभावन शानाधिकारोत्कर्षात् सा खत एव भवतीत्यर्थः । पूर्वोक्तवाक्येषु त्व- नुवादमात्रं, न विधानम् । अतः प्रतीकोपासनस्य न साक्षान्मुक्ति- साधनत्वमिति सम्यगेव ॥५॥ ननु छान्दोग्ये, प्राचीनयोग्यकं त्वमात्मानमुपास्से इत्यादित्य. मेव भगवो राजनिति होवाचेति, पुनरिन्द्रद्युम्नप्रश्ने, वायुमेव भगयो राजनित्यादावाकाशाऽऽपप्रभृतय आत्मत्वेनोपासनाविषया उक्ताः । तत्रैवासौ वा आदित्यो देवमध्वित्युक्त्वाने उच्यते, य एतमेवं विद्वा- नादित्यं ब्रह्मेत्युपास्त इति । यद्यपि, सर्व खल्विदं ब्रह्मेतिश्रुतौ सर्वा- नुवादेन ब्रह्मत्वबोधनान्न प्रतीफत्वं, तथाप्यत्र तु प्रत्येकमादित्यादी ब्रह्मत्वोक्तेः प्रतीकत्वमेव । तथोपासनेन फलकथनातू प्रतीकोपासना- या अपि फलसाधकत्वं सूचितम् । एवञ्च पूर्वत्र सर्वं खल्विदं ब्रह्मे- तिवाक्ये वस्तुतः सर्वस्य ब्रह्मत्वं नाभिप्रेतं, किन्तु तथा प्रतीकोपा- सनम् । एवं तस्यापि फलदर्शनातू प्रतीकोपासनस्य फलासाधक- स्वकथनमनुपपन्नमित्याशझ्याह ।

४ अध्याये १ पादः। १५५ आदित्यादिमतयश्वाङ्ग उपपत्तेः ॥ ६ ॥ भगवतः स्वरूपभूतशक्त्यात्मकादित्यादौ या ब्रह्मत्वमतय उ. क्तास्ताः साकारव्यापकस्य ब्रह्मणः प्रत्येकमङ्गमपि तथोपासितं फ. लदमिति ज्ञापनार्थम् । युक्तं चैतत् । ब्रह्मण आनन्दमात्रकरपादमुखो- दरादेरङ्गमपि ताहशमिति नात्र प्रतीकोपासनमित्यर्थः ॥ ६ ॥ एवं सूत्रषट्केन श्रवणाद्यावृत्तौ शानिनां सर्वत्र जगति प्रत्ये. कपदार्थेषु च भगवद्रूपत्वेन भानलक्षणफलमुपपाद्याग्रिमसूत्रषट्केन पुष्टिभक्तानां भगवत्स्वरूपाविर्भावात्मकं फलं तत्प्राप्ती साहजिकमु- कटस्नेहात्मकं साधनं चाह । आसीनः सम्भवात् ॥ ७ ॥ उत्कटस्नेहात्मकसाधनसम्भवाद् भगवांस्तदधीनः संस्तदने आसीनो भवति ॥७॥ एवं बहिःप्राकट्य मुक्त्वान्तरपि तदाह । ध्यानाच ॥ ८ ॥ उत्कटभावेन निरन्तरस्मृतिरूपध्यानादपि हृदि प्रकटः सन्ना- सीनो भऋतीत्यर्थः ॥८॥ एवमेतादृशभक्तेच्छयैव बहिरन्तश्च भगवत्प्राकट्यमित्युक्त्वा लीलाविष्करणमपि भक्तभावाश्रीनमित्याह । अचलत्वं चापेक्ष्य ॥ ९ ॥ भक्तेच्छामपेक्ष्याचलत्कं, चकाराच्चलस्वमपीत्यर्थः ॥९॥ स्मरन्ति च ॥ १० ॥ केचन भक्ताः स्वरूपदर्शननिरपेक्षास्तत्स्मरणानन्दमनुभव- न्तस्तेनैव विस्मारितापवर्गान्तफलास्तिष्ठन्ति । चकाराच्छ्रवणकीर्तः नादिपराणां ग्रहणम् । तदुक्तम् । अथ ह वा व तव महिमाऽमृतस- मुद्रीवघुषाऽसल्लीढया स्वमनसि निष्पन्दमानानवरतसुखेन वि. स्मारितहष्ट श्रुतमुखलेशाभासाः परमभागवता. एकान्तिन, इति ।

१५६ ब्रह्मसूत्रवृत्तौ । अनेन श्रवणजन्यभगवत्परत्वमुक्तम् । अथवा 'अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज । साधुभिर्ग्रस्त हृदयो भक्तैर्भक्तजनप्रिय' इत्या दिस्मृतयः पूर्वोक्ते भगवता भक्तवश्यत्वे प्रमाणत्वेनोक्ता एतेन सू- प्रेण ॥ १० ॥ ननु बहिर्भगवदाविर्भाववतो भक्तस्यान्तःसदाविर्भाववतश्च न्यूनाधिकभावोऽस्ति, न वेति विशयेऽन्तर्भगवदाविर्भावस्योत्कृष्टत्वातू तद्वतो भक्तस्याधिक्यमितिप्राप्ते, उच्यते । यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥ यत्न भक्तेष्वेकाग्रता एकस्मिन् प्रकटे भगवत्स्वरूपे ग्राहक- चित्तधारा, न वन्तर्बहिर्विज्ञानं तत्र भक्तेषु बहिर्भगवदाविर्भावयुत- स्थान्तस्तदाविर्भावयुतस्य च भावे तद्विपये स्वरूपे च विशेषाभावा- न्यूनाधिकात्रो नास्तीत्यर्थः । तथाच भक्तेष्वेवाग्रतैवाधिक्य. सम्पादिका, न तु बहिराविर्भावोऽन्तविर्भावो वेतिभावः ॥ ११ ॥ ननु पूर्वमन्तःप्रकटस्य भगवत उत्कटभावाद्यदा बहिराविर्भा. वस्तदा भक्तस्य पूर्वमिदं स्वरू मन्तरन्वभूवमधुना बहिरनुभवामीति ज्ञानं भवति, न वति संशयऽन्तरनुभवबहिरनुभवयोरत्यन्तवैलक्ष- एयात् ताइशज्ञानं भवत्येवंति प्राप्त, उच्यते। आप्रायणात् तत्रापि हि दृष्टम् ॥ १२ ॥ प्रायणं हि सतामहमितिवाक्यातू प्रायणं नाम परमपुरुषार्थ- रूपं पारलौकिकं फलमुच्यते । एवं सति प्रायां मर्यादीकृत्य तेषां सैवावस्था नित्या। भगवत्स्वरूपे आन्तरत्वबाह्यत्वानुसन्धानरहिताः केवलस्वरूपैकनिष्ठास्तिष्ठन्तीत्यर्थः । ननु प्रायणानन्तरं भगवति सा- युज्यं भविष्यतीत्याशङ्याह । तत्रापि हि दृष्टीमति । तत्रापि प्रायणे- ऽपि पूर्ववद्भगवता सममालापावलोकनश्रीमचरणकमलस्पर्शादिक दृष्टमेव तस्य फलं भवति, नत्वपूर्व सायुज्यादिकम् । यतोऽयं कृपा- विषयोऽतो युक्तमेव तथेति हिशब्दार्थः ॥ १२ ॥ आवृत्तिरसकृदुपदेशादितिसूत्रषट्केन पूर्व शानिनां शानमि- श्रभक्तानां च श्रवणाद्यावृत्त्या सर्वत्र जगति भगवद्रूपत्वेन झानमुक्त- म । जातज्ञानानां तेषामेवाधुना सूत्रत्रयेण जीवन्मुक्तिदशा निरूप्यते।

४ अध्याये १ पादः। तत्र मर्यादाभक्तानपूर्वकत्वनियमाज्शानात् पूर्व सञ्चितकर्मणां स- त्वात् तदुत्तरमपि कर्मकरणदर्शनाञ्च तेषां कर्मणां भोगेकनाश्यत्वनि- यमान्मुक्तिरनवसरपराहतेत्याशङ्कायामाह । तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तय- पदेशात् ॥ १३॥ तस्य ब्रह्मज्ञानत्याधिगमे प्राप्तौ सत्याम् उत्तराघस्याऽश्लेषः पू- घस्य विनाशश्च भवतीत्यर्थः । कुतः। तदव्यपदेशात् । यथेषीका- तूलमग्नौ प्रोतं प्रयतैवं हास्य सर्वे पाप्मानः प्रयन्त इतिश्रुतेः । 'यथैधांसि समिद्धोऽग्निर्भस्ममात् कुरुतेऽर्जुन ! शानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा' इनिस्मृतेश्चेत्यर्थः ॥ १३ ॥ ननु पापस्य शास्त्रे निन्दितत्वात् तन्निवृत्तिानेन भवतु, सुकृ- तस्य तु शास्त्रोक्तसाधनजन्यत्वात् तन्नाशो भोगेनैवेति तथैव मुक्तिर- नवसरपराहतेति विशेषाशङ्कायां पूर्वोक्तन्यायमेवातिदिशति । इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥ इतरस्य पुण्यस्याप्येवं पूर्वस्याश्लेष उत्तरस्य विनाश इत्यर्थः । उभे हैवैष तरतीतश्रुतेः, ज्ञानाग्निः सर्वकर्माणीतिस्मृतेश्च तव्यप- देशादित्यर्थः । ननु तादृशक्षानिनो मर्यादामार्गीयत्वात् कदाचिद् भ. रतजयादिवत् सङ्गदोषण भगवद्भावात् पाते सति विहिन निषिद्धक मसम्बन्धे पूर्वोक्तदोषनादवमित्याशय सूत्रैकदेशन परिहरति । पाने त्विति । एवमसंश्लेष इत्यनुषज्ज्यते । मर्यादाभक्तौ भगवद्भावा. उच्युतिः पात इत्युच्यते । अप्यर्थे तुः । तथाच, न कहिचिन्मत्पराः शान्तरूपे नङ्कयन्तीतिवाक्यात तेषां पातो न सम्भवति । तथापि भ. गदिच्छया मर्यादामार्गीयवाद् भगवांश्चत् तथा करोति, तथाप्यु- तरसुकृतदुष्कृतकर्मणोरसंश्लष एवेत्यर्थः ॥ १४ ॥ ननु देहस्य कर्मजत्वाद् भक्तिमिश्रज्ञानेन कर्मनाशाद्देहनाशे सति जानिनः पवचनानुपपत्तिर्जिज्ञासोश्च तादृशगुरोरभावेन गुरूप- सत्त्याद्यसम्भवेन मार्गोच्छेदापत्तिश्चेत्याशय परिहरति । अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥ । ।

१५८ ब्रह्मसूत्रवृत्तौ। पूर्वे पूर्वसूत्राभ्यां ज्ञाननाश्यत्वेन प्रोक्ते सुकृतदुष्कृतकमणी ते अनारब्धं भोगायतानाख्यं कार्य याश्यां तादृशे एव नश्यते, नाशेष। ननु ज्ञानं सर्वकर्मदहनेऽसहायशुरमिति पूर्वमुक्तं, तत् कथमुच्य- तेऽनारब्धकार्यकर्मनाशकामति । तत्राह । तदवधः । तत् ज्ञानेनार. ब्धकार्यकर्मादहनम् अवधेः कार्यमात्रस्य पूर्वावधिरूपभगवदिच्छात इत्यर्थः । तथाचाखिलकर्मदहनसर्वसमर्थस्यापि शानस्य भगवादच्छया प्रतिबन्धात् प्रारब्धकार्यविषये सङ्कोच इत्यर्थः॥ १५ ॥ ननु जीवन्मुक्तानां प्रारब्धकर्मभोग एव कर्तव्यो, न त्वन्यद- प्यग्निहोत्रादि । दृश्यते च जनकादीनां तत्करणम्।अतः कृतस्य कर्मणः फलावश्यम्भाव इत्याशय तेषां कर्मकरणप्रयोजनमाह । अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥ तुशब्दः पक्षव्यावर्तकः । तेषामग्निहोत्रादिकरणं तत्कार्यायैव प्रारब्धकर्मनाशायैव । तेषामग्निहोत्रादिकारकं प्रारब्धमस्तीति तद्भा- गार्थ कर्म क्रियते, न त्वपूर्वफलार्थम् । कुतः । तदर्शनात् । यथाकारी यथाचारी तथा भवति, साधुकारी साधुर्भवति पापकारी पापो भवति, पुण्यः पुण्येन कर्मणा भवति, पापः पापेनेतिश्रुतिदर्श नात् । एतच्छुत्या पूर्वपुण्यस्य कर्मणोऽग्रिमपुण्यकर्मजनकत्वमुक्त- मिति तद्भोगार्थमेवानिमकर्मकरणमित्यर्थः । एवं मर्यादामक्तस्य म- र्यादयैव मोक्षप्रतिबन्धो मर्यादयैव ज्ञानेन तन्नाश इति निरूपितम् ॥१६॥ पूर्वम्, आसीनः सम्भवादिति सूत्रषट्केन पुष्टिभक्तानां भग- घदाविर्भावात्मकं फलमुक्तम्।अधुना तेषामेव ज्ञानिवलक्षण्यन भगव- कृपया भोगं विनव प्रारब्धाप्रारब्धकर्मनायपूर्वकं सद्य एव भगव- द्भोगात्मकं फलमुच्यते सुत्रत्रयेण । अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥ एकेशं पुष्टिभक्तानामुभयोः प्रारब्धाप्रारब्धयोर्भोगं विनक नाशो भवति । कुतः । अतः ध्रुनेरित्यर्थः । यतः कर्मणो ज्ञाननाश्यत्व- निरूपिकाया शानिनः प्रवचनादिनिरूपणेन ज्ञानानाश्यप्रारब्याख्यक- आक्षेपक श्रुनेभॊगेन वितरे क्षपयित्वाऽथ सम्पद्यत इत्यादिरूपाया अन्यापि श्रुतिः पठ्यते । तस्य पुत्रा दायमुपयन्ति मुहदः साधुकृत्यां.

४ अध्याये १ पादः। १५९ द्विषन्तः पापकृत्यामिति ॥ १७ ॥ ननु ब्रह्मज्ञानानाश्यस्य प्रारब्धस्य भोगैकनाश्यस्य पुष्टिमार्गीये भक्त कथं कृपया नाश इत्यसम्भावनां निराकतु कैमुतिकन्यायेनाह । यदेव विद्ययेति हि ॥ १८ ॥ भगवज्ञानशक्तरंशभूता जीवनिष्ठा विद्या । एवञ्च यदेव वि- धया करोति श्रद्धयोपनिषदा वा तदेव वीर्यवत्तरं भवतीति श्रुत्या भगवच्छक्त्वंशात्मकविद्यासम्बन्धाज्जीवकृतकर्मणो वीर्यवत्तरत्वं यत्र तत्र साक्षाद्भगवत्कृपया प्रारब्धनाशे किमु वक्तव्यमित्यर्थः ॥ १८ ॥ एवं पुष्टिमार्गे प्रतिबन्धाभावमुपपाद्य फलप्राप्तिं निरूपयति । भोगेन वितरे क्षपयित्वाऽथ सम्पद्यते ॥ १९ ॥ इतरे स्थूललिङ्गशरीरे क्षपयित्वा त्यक्त्वा । अथ भगवल्लीला. नुभवयोग्यालौकिकदेहसम्पत्यनन्तरं भोगेन सम्पद्यते । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितंतिभुतेरिस्यर्थः ॥ १९ ॥ इति श्रीब्रह्मसूत्रवृत्तौ मरीचिकाख्यायां चतुर्थाध्यायस्य प्रथमः पादः॥४॥१॥ -

१६०
ब्रह्मसूत्रवृत्तौ ।
चतुर्थाध्यायस्य द्वितीयः पादः।
पूर्वपादान्ते, इतरे क्षपयित्वेत्यनेन पुष्टिभक्तः स्थूललिङ्गशरीरे
क्षपयित्वा भगवदानन्दं प्राप्नोतीत्युक्तम् । तत्र सर्वेन्द्रियाणां युगपदेव
भगवति लयः, प्रणाड्या वेति संशय प्रणाड्यैवेति वक्तुं प्रणाडीमाह।
वाङ् मनसि दर्शनाच्छब्दाच्च ॥ १॥
भक्तम्यत्कटभावेन भगवदिच्छया भगवदाविर्भावेन तदर्शने
जाते, हग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकश्चुम्बन्निवास्येन भुजैरिवा-
श्लिषन्नितिरीत्या सन्द्रियैः स्वरूपानुभवेच्छायां प्रथमं तेन सहाला-
च्छिा भवति । तता मानसिकभावन भगवदाविर्भावो जात इति म-
नसि प्रभुनैकट्यमस्तीति तेन सम्बन्धे तत्प्राप्तिर्भविष्यतीतिं पूर्व वाग्
मनसि सम्पद्यते लीयत इत्यर्थः । कुतः । तदर्शनात् । पूर्वोक्तरीत्या
तदर्शनानन्तरमेवम्भावजननादू दर्शनस्य हेतुत्वम् । अत एव छान्दोग्ये
वाङ् मनसिं सम्पद्यत इति श्रुतिः। दर्शनाभावे वेण्वादिशब्दश्रवणेना-
पि सर्वेन्द्रियैः स्वरूपानुभवेच्छा जन्यत इति शब्दाच्चत्युक्तम् ॥ १॥
अत एव सर्वाण्यनु ॥२॥
अत एव दर्शनाच्छब्दाच्च हेतोः सर्वाणीन्द्रियाणि, अनु वा-
ग्लयानन्तरं मनसि सङ्गतानि भगवदानन्देन सम्पद्यन्त इत्यर्थः ॥२॥
तन्मनः प्राण उत्तरातू ॥ ३ ॥
सर्वेन्द्रिययुक्तं मनः प्राणे सम्पद्यते । कुतः । उत्तरात् । श्रु-
तिवाक्यादित्यर्थः । स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं
पतित्वाऽन्यत्रायतनमलब्ध्वा.बन्धनमेवापश्रयत एवमेव खलु सौम्य
तन्मनो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयत इ.
त्युक्त्वाऽग्रे हेतुमाह, प्राणबन्धनं हि सौम्य मन इति । अतस्त-
थेत्यर्थः ॥३॥

४ अध्याये २ पादः। १६१ सोऽध्यक्षे तदुपगमादिभ्यः॥४॥ स सर्वेन्द्रिययुक्तमनःसहितः प्राणोऽध्यक्ष प्रकटे भगवति स- म्पद्यत इत्यर्थः । कुतः । तदुपगमादिभ्यः । तस्य भगवत उपगमोऽ- भ्युपगमः पुष्टिमार्गेऽङ्गीकारः । आदिपदाद् भगवद्वशीकरणसमर्थः स्नेहो भगवत्प्रातिप्रतिबन्धकपदार्थत्यागस्तत्प्रसादानुकूलं भजनं च संगृह्यते ॥४॥ एवं पुष्टिभक्त सर्वेन्द्रियलयप्रकारो निरूपितः । शानिनः, तद. शिगमेत्यादिसूत्रत्रयेण जीवन्मुक्तिदशा निरूपिता । अधुना तस्येन्द्रि- शाणां लयोऽपेक्षित इति तल्लये प्रकारान्तरमाहैकेन सूत्रेण । भूतेषु तच्छुतेः ॥ ५॥ मर्यादाभक्तानामिन्द्रियाणि भूतेषु लीयन्ते । कुतः । तच्छ्- तेः । यत्रास्य पुरुषस्व मृतस्याग्नि वागप्येति वातं प्राणश्चक्षुरा- दित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवी शरीरमाकाशमात्मौषधीलोमानि बनस्पतीन् केशा अप्सु लोहितं च रेतश्च निधीयत इति श्रुतेः॥५॥ ननु मर्यादामार्गीयौ भक्तो शानी च भवतः। पूर्वोक्तनिर्णयस्तु- हानिविषय एव । मर्यादाभक्कं तु कदाचिद् भगवान पुष्टावमीकरो- तीखाशयाह । नैकस्मिन् दर्शयतो हि ॥ ६ ॥ एकस्मिन् शानिनि नियमेन मर्यादायामङ्गीकार इति नियमो न, किन्तु मर्यादाभक्ते शानिनि चोभयोरेव मर्यादायामङ्गीकार इति नियम इत्यर्थः। न तु कदाचिन्मर्यादाभक्तं पुष्टावपि प्रवेशयतीत्यर्थः। कुतः । दर्शयतो हि । यतो याज्ञवल्क्यातभागी तथैव दर्शयतः । त. थाहि । यत्रायं पुरुषो नियत उदस्मात् प्राणा उत्क्रामन्याहो ने- त्यातभागप्रश्न याज्ञवल्क्योऽत्रैव समवलीयन्त इत्युक्त्वाग्रे, यत्रा- स्य पुरुषस्य मृतस्याग्नि वागप्येतीवारभ्य रेतश्च निधीयत इत्य- म्तमुक्तवान् । ततः कायं पुरुषो भवतीति प्रश्ने, उभाश्यां विचारि- तमुत्तरमुच्यते, तो ह यदूचतुः कर्म हैव तदूचतुरित्यादिना । अन्न प्राणानामत्रैव लयोक्त्या मुक्तविषयेयं श्रुतिरिति युक्तम् । अमुक्तस्य १६२ ब्रह्मसूत्रत्तौ । प्राणलयासम्भवात् । तथाच मुक्तस्य कर्मणि स्थितेरसम्भवात् कः मशब्देन मर्यादैव ग्राह्या । तथाच मुक्तिविषयौ शानिमर्यादाभक्तो कर्मणि मर्यादायामेव तिष्ठतो, न तु कदाचित् पुष्टावपीति तयो- रभिप्रायो ज्ञायते । तथाच शानिमर्यादाभक्तयोरुभयोमर्यादायामङ्गी- कारनियमो, न त्वेकस्मिन्निति भावः ॥ ६ ॥ नन्वेवं मर्यादापुष्टयोर्नियतविषयत्वे किं नियामकमित्याकाङ्क्षा. यां तयोः स्वरूपमेव ताशमित्याह । समाना चामृत्युपक्रमादमृतत्वं चानुपोष्य ॥४॥ मर्यादामार्गे हि साधनक्रमेणैव मुक्तिः, पुष्टिमार्गे तु श्रवणाद्य- तरिक्तज्ञानकर्मादिसाधनं विनैव मुक्तिप्राप्तिरिति नियतम् । तदा- ह । आमृत्युपक्रमात समाना । सृतिर्जीवानां भगवतः पृथग्भूय संसरणम् । तस्या उपक्रममारम्भ मर्यादी कृत्य मोक्षपर्यन्तं साधनेनै- व मुक्तिरेवरूपा मर्यादा समाना मध्ये नान्यथा भवतीत्यर्थः । एवं पुष्टिमार्गे अमृतत्वं चानुपोष्य । अत्रोपोषणपदं साधनमात्रोपलक्ष- कम् । तथाच साधनमात्रमकृत्वा केवलकृपया अमृतत्वमपि तन्मार्गे नियतमित्यर्थः ॥ ७ ॥ नन्वेवमपि मर्यादामार्गायशुद्धजीवस्य मोक्षसम्भवाद् याश- वल्क्यातभागाभ्यां कर्म हैव तत्प्रशशंसतुरित्यनेन तन्मुक्तेः कर्मत्वेन कथनं कुत इत्याशङ्याह । तदाऽपीतेः संसारव्यपदेशात् ॥ ८॥ तदा पुष्टिफलदशायाम् अपीतेर्मर्यादामार्गीयमोक्षस्य संसा. रव्यपदेशात् तन्मुक्तो भगवत्स्वरूपानन्दानुभवाभावात् संसारतुल्य- तैवेति ताभ्यां तथा निरूपितमित्यर्थः ॥ ८॥ ननु पुष्टिमार्गीयं तत्त्वमेतादृशं यत्र मुक्त्यात्मकफलस्यापि संसारत्वेन गणना, तर्हि तस्यैवाभ्यर्हितत्वात् स्तुयुक्ततया मुक्ति- स्तावकवाक्यानां प्रतारकत्वापत्तिरित्याशझ्याह । सक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥ पुष्टिमार्गीयं तत्त्वं सूक्ष्म दुईयमित्यर्थः । तस्यानुभवैकवद्य- ४ अध्याये. २ पादः। १६३ क्षस्य स्वादनुभवस्य च दुर्लभाधिकारिविषयत्वादन्यावेद्यमेव तत् । मो. च शुद्धाधिकारिमात्रविषयत्वात् स्तुतेरबाधितविषयत्वात् तदावेदकप्रमागस्य न प्रतारकत्वमितिभावः । नम्वेवमतिनिगूढपुष्टि- तत्त्वमद्भाव किं मानमित्याशङ्याह । प्रमाणतश्च तथापलब्धेः । यतो घाचो निवर्तन्ते अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान बिभेति कुतश्चनेति श्रुतौ पूर्वार्द्धन मनोवागगम्यत्वेन दुर्शेयत्वमुक्वोत्तरार्द्धन विद्वानिति तत्सत्ता बोध्यते । अतस्तद् दुईयत्वेनैव श्रुतिबोधितमिति तत्सद्भावे न विवदितव्यम् । चकारात तादृशभक्तानुभवोऽपि मा- ममिति सूच्यते ॥९॥ नन्वताशपुष्टितस्वसत्त्वे यथा ब्रह्मविदः स्वमार्गीय तत्त्वमुप- दिशन्ति, सथैतेऽपि कुतो नोपदिशन्तीत्याशय तत्र निदानमाह । नोपमर्दैनातः ॥ १० ॥ ऐश्वर्यभावे ह्युपदेशनम् । तेषां तु विरहदशा भगवत्सङ्गमदशा घेति दशावयम् । तत्र विरहे तद्भावेनान्यभावानामैश्वर्यभावादी. नामुपनोपदेशो न सम्भवनि । सङ्गमे तु अतः पुरःप्रकटानन्दात्मक- प्रभुस्वरूपाखेतोस्तदानन्दानुभवनिमग्नचित्तत्वेनान्येभ्यः सख्यादि. भ्योऽप्युपदेशो न सम्भवतीत्यर्थः ॥ १० ॥ ननु रसो वै सः, रस ह्येवायं लब्ध्वाऽनन्दीभवतीतिश्रुते रसात्मकभगवत्स्वरूपानुभवेनानन्दितानां तेषामानन्दतिरोधानात्मक- विरहदुःखं न सम्भवतीत्याशझ्याह । अस्यैव चोपपत्तेरूष्मा ॥ ११ ॥ अस्यैव आनन्दात्मकभगवत एव धर्म ऊष्मा विरहताप ह. स्यर्थः । नन्वानन्दात्मकस्य दुःखरूपो धर्मः कथमित्याशड्याह । उ- पपत्तरिति । ङ्गारस्थायिभावात्मकप्रभुस्वरूपस्यान्तरनुभावकत्वा- त सोऽपि सुखस्वरूप एवोपपद्यते, न तु दुःखात्मकः निर्वेदग्ला- न्यादिरूपव्यभिचारिभावात् तथा भानमानमित्यर्थः ॥ ११ ॥ ननु, न पश्यो मृत्यु पश्यति नरो तद्दुःखमिस्यादिश्रुतेनिर्वेद- ग्लान्यात्मकदुःखस्याप्यसम्भव इत्याशय (तेस्तात्पर्यमाह । ।

अनसूत्रकृचौ। प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥ अन श्रुतौ शारीरमेव दुःखं प्रतिषिद्धयते, न तु ऋङ्गारव्यभि- चारिभावात्मकं, रोगसहपाठादितिभावः ॥ १२ ॥ स्पष्टौ टेकेषाम् ॥ १३ ॥ एकेषां शाखिनां प्रभुस्वरूपप्राप्त्यनन्तरं दुःस्त्रनिवृक्तिरूपो- ऽर्थः स्पष्टः पठ्यते, रसो के सः रसं ह्येवायं लब्ध्वानन्दीभव- तीत्यादिना ॥ १३॥ स्मयते च ॥ १४ ॥ भगवद्भावस्य मरणहेतुत्वं, तेनैव जीवनं, तद्भावस्याखिल- दुर्लभत्वं च श्रीभागवते स्मर्यते । ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः । ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहमित्यारन्य धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथञ्चनेतिं भगवद्वचनेन । एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनिरूदभा. वाः । वाञ्छन्ति यं भवभियो मुनयो वयं च किं ब्रह्मजन्मभिरनन्तक- थारसस्येति श्रीमदुद्धववचनेन ॥ १४ ॥ नन्वेवं भगवदाविर्भावस्तददर्शनेन विरहीत्कण्ठ्यं, ततः प्रभु- प्राकट्येन पूर्णानन्ददानमित्यादिकं वैकुण्ठंऽपि दुर्लभं कुत्र इष्टमि- स्याकाङ्क्षायामाह। तानि परे तथा ह्याह ॥ १५ ॥ तान्युक्तानि वस्तूनि घरे वैकुण्ठादप्युत्कृष्टे श्रीगोकुले श्रीगो पईने चसन्तीति शेषः । तथाहि, ता वां वास्तून्युप्मसि मम यत्र गावो भूरिङ्गा अयास इत्यादिका श्रुतिराह ॥ १५ ॥ ननु परमकृपया कमपि भकं नित्यलीलायां प्रवेशयति चेत् सदा कञ्चित्कालं. तत्र स्थापयित्वा ततस्तं वियोजयति, उत तत्रैक थापयति नित्यमित्याशङ्कमयां सिद्धान्तमाह । अविभागो वचनात् ॥ १६ ॥ सत्र मासस्याविभाग एव ततः । कृतः। वचनाद । तद्विष्णो ४ अध्याये २ पादः। १६५ परमं पदं सदा पश्यन्ति सूरय इतिश्रुतेरित्यर्थः । एवं पुष्टिभक्तफ- लानुभवप्रकारो निरूपितः॥ १६॥ भूतेषु तच्छृतरित्यनेन शानिन इन्द्रियाणां भूतेषु लयो नि- अपितः । अधुना निरिरिद्रयस्य तस्योत्क्रमणप्रकार पञ्चसुत्रैराह । तदाकोऽग्रचलनं तत्प्रकाशितहारो विद्या- सामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्च हार्दा- ऽनुगृहीतः शताधिकया ॥ १७ ॥ स एतास्तेजोमात्राः समश्याददानो हृदयमेवान्यवक्रामतीति. श्रुतेस्तस्यात्मन ओकः स्थानं हृदयं तदग्रं प्रथमं ज्वलति । पूर्वमप्र. काशमानमपि तदा प्रकाशते । तेन प्रकाशितं द्वारं गमनमार्गो यम्य ताहश उत्क्रामति । तस्य हैतस्य हृदयस्याग्रं प्रद्योतत इत्यादिश्रुत्या. इप्ययमेवार्थ उक्तः। इदं सर्व जीवसाधारणं निष्क्रमणम् । विदु- षस्तु मार्गे विशेषमाह । शताधिकया । एकशततम्या, शतं चैका हृदयस्य नाब्यस्तासा मूधानमभिनि:स्तका, त्योर्ध्वमायन्नमृतत्व- मेति विश्वगत्या उत्क्रमणे भवन्तीतिश्रुत्युक्तया निष्कामति । यतः स हार्दानुगृहीतो हृदयस्थितेन भगवताऽनुगृहीतः । तदनुग्रहे हेतुः। विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच्चेति । ब्रह्मविद्यासाम- या॑त् । तस्या विद्यायाः शेषभूता अङ्गभूना या गतिः प्रव्रजनरूपा तत्र या भगवतोऽनुस्मृतिः स्मरणं तत्संबन्धाद् यो भगवदनुग्रहस्तेन तथा निष्कामतीत्यर्थः ॥ १७ ॥ नन्वोकोऽग्रज्वलनादेः सर्वसाधारण्येऽपि यथा हार्दानुग्रहा- विवुष एव सुषुम्णयोत्क्रमणमुक्तं, तथाऽथैतैरेव रश्मिभिरूद्धमाकाम- तीतिश्रुत्युक्तं रश्मिद्वारमाक्रमणं सर्वसाधारणं, विदुष एव वेति संशये सिद्धान्तमाह। रश्म्यनुसारी ॥ १८ ॥ विद्वानेव रश्मिद्वारा गच्छतीत्यर्थः ॥ १८ ॥ ननु विदुष उत्क्रमणे यथा हादानुग्रहकृतो विशेषस्तथा दिना- पनात्मककालविशेषकृतोऽपि भविष्यतीति शङ्करं निराकुर्वनहोरात्र- कृतविशेषमाशा निराकरोति ।

ब्रह्मसूत्रवृत्ती।
निशि नेति चेन्न सम्बन्धस्य यावदेहभावि-
त्वादर्शयति च ॥ १९॥
निशि विदुष उत्क्रमणं नेति चेन्न । कुतः । सम्बन्धस्य या
वद्देहभावित्वात् । अनुग्रहहेतुभूनो यो गत्यनुस्मृतिसम्बन्धस्तस्य
यावद्देहभावित्वात् तजन्यानुग्रहस्य सत्त्वात् तबलेन कालस्याप्र-
योजकत्वमित्यर्थः । यतः श्रुतिरेव दर्शयति । एतमेध प्रवाजिनो
लोकमभीप्सन्तः प्रवजन्तीति ॥ १९ ॥
अतोऽयनकृतोऽपि विशेषो नास्तीत्याह ।
अतश्चायनेऽपि दक्षिणे ॥ २० ॥
उत्क्रमणनियमो विदुषो नास्तीत्यर्थः ॥ २० ॥
ननु श्रीभगवद्गीतास्वनावृत्तिमार्गमुपक्रम्याग्निोतिरहः शुक्लः
षण्मासा उत्तरायणम्, तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाइ-
त्युक्त्या विदुषोऽपि कालविशेषापेक्षास्तीत्याशङ्ख्याह ।
योगिनः प्रति स्मयते स्मार्ते चैते ॥ २१ ॥
अय कालनियमो योगिनं प्रति स्मयते, न ब्रह्मविदं प्रति। यत
एते योगसामन्ये स्माते । श्रौतस्य तु ज्ञानमार्गस्यासहायशुरत्वान्नान्य-
सापेक्षत्वमिति भावः ॥ २१ ॥
इति श्रीब्रह्मसूत्रवृत्ती मरीचिकाख्यायां चतुर्थाध्यायस्य
द्वितीयः पादः॥४॥२॥

४ अध्याये ३ पादः।
१६७
चतुर्थाध्यायस्य तृतीयः पादः ।
पूर्वपादे ब्रह्मविद उत्क्रमणप्रकारमुक्त्वा मोक्षमार्गमस्मिन्
पादे विचारयति । तत्र श्रुतावर्चिरादिमागेंण गमनमुक्तम् । तज्ज्ञान-
मार्गीयमर्यादाभक्तयोरुभयोरुत शानिन एवेति संशये निर्णयमाह ।
अचिरादिना तत्प्रथितेः ॥ १॥
अचिरादिमार्गेण प्रायशो ज्ञानमार्गीय एव गच्छति कश्चिन्न तु
मर्यादाभक्तोऽपि । तस्य प्रायः सद्यो मुक्तरेव सम्भवादिति भावः ।
कुतः । तत्प्रथितेः । तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते
तेऽर्चिषमभिसम्भवन्तीत्यादिना ज्ञानमार्गीयस्यैव तत्रोत्कर्षकथनात् ॥१॥
नन्वर्चिरादिमार्गनिरूपकच्छान्दोग्यश्रुतौ वायुलोको न पठ्य-
ते। कौशीतकिश्रुतौ त्वग्निलोकानन्तरं स पठ्यत इत्युभयश्रुतावेक
एवार्चिरादिमार्गः प्रतिपाद्यत इति वायुलोकोपसंहारावश्यकत्वे छा-
न्दाग्ये कुत्र तस्योपसंहार इत्याकाङ्क्षायामाह ।
वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥
छान्दोग्ये मासेभ्यः संवत्सरं संवत्सरादादित्यमित्यत्र संव-
त्सरादुत्तरं वायुलोको निवेशयितव्यः । कुतः । अविशेषविशेषाभ्या-
मू । अर्चिरारभ्य संवत्सरान्तानां भूसम्बन्धित्वेनाविशेषात् तन्मध्ये
वायुनं निवेशनीयः। भूलोकादुपर्यन्तरिक्षलोकस्तदुत्तरं द्युलोकः ।
एवञ्च, वायुरन्तरिक्षस्याधिपतिरितिश्रुतेः, सूर्यो दिवोऽधिपतिरिति.
श्रुतेरेतयोः पौर्वापर्ये विशेषो हेतुरस्तीति सूर्यलोकात्पूर्व वायुलोको
निवेशनीय इत्यर्थः॥२॥
तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥
चन्द्रमसो विद्युतमित्यत्रोक्तविद्युल्लोकात् परतो वरुणलो-
को निवेशनीयः । कुतः। सम्बन्धात् । तडितो जलसम्बन्धित्वाद् व-
रुणस्याप्पतित्वात् सम्बन्धः ॥३॥

१६८ ब्रह्मसूत्रसौ। वरुणाच्चाधीन्द्रप्रजापती ॥४॥ वरुणलोकात् परमिन्द्रलोकः प्रजापतिलोकश्च निवेशनीयः। अन सम्बन्धादित्यनुवर्तते । एवं चेन्द्रस्य सर्वदिक्पालेषु मुख्यत्वात् प्रजापतेः सर्वदेवाधिपतित्वात् सम्बन्धोऽस्तीति भावः॥४॥ ननु श्रुतौ विद्युल्लोकानन्तरं तत्पुरुषोऽमानवः स एतान् ब्रह्म गमयतीत्युक्त्या, यावद्वचनं वाचनिकमितिन्यायन येषां विद्युदनन्त- रमेव ब्रह्मप्राप्तिस्तेषामातिवाहिकसम्बन्धो, येषां तु तदनन्तरं वरुणे- न्द्रप्रजापतिलोकप्राप्तिस्तेषां तत्सम्बन्धो न भविष्यतीत्याशङ्कयाह । आतिवाहिकास्तल्लिङ्गात् ॥ ५ ॥ एकस्मिन्नेव मार्गेऽन्यत्रोक्तानामुपसंहारान्मार्गभेदे प्रमाणा- भावात् प्रजापतिलोकोत्तरमातिवाहिका उपसंहर्तव्याः । कुतः । तल्लिङ्गात् । तत्पुरुषोऽमानव इत्यत्र पुरुषस्य ब्रह्मसम्बन्धित्वं लिङ्ग- मुच्यते । एवञ्च यथान्यलोकप्राप्तिर्विद्याबलान तथा ब्रह्मप्राप्तिः, कि- न्तु तदीयपुरुषसम्बन्धनैवेति झाप्यते ॥५॥ ननु देवयानमार्ग प्राप्तानां तेषामिह न पुनरावृत्तिरस्तीत्यादि- श्रुतिभ्योऽवश्यं ब्रह्मवित्त्वेन सद्यो मुक्ति परित्यज्य तत्तल्लोककामना कुतः। अथ च, यत् कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत, सर्वतद्भ- क्तियोगेन मद्भक्तो लभतेऽअसा, स्वर्गापवर्ग मद्धाम कश्चिद् यदि धाञ्छतीति भगवद्वाक्याद् भक्तस्याप्येतद्विषयिणी वाञ्छा फलं च सम्भवति । तद्भक्तिरसं हित्वा कुत इत्याकाकायामाह । उभयव्यामोहात्तत्सिद्धः ॥ ६॥ देवयानमार्गस्यापि भगवतैव सृष्टत्वाद्धीनाधिकारिणां तदयो. ग्यत्वादुत्तमाधिकारिणां चेत् तत्कामना न स्यात् तदा मार्गसृष्टिर्व्यर्थी स्यात् । एवञ्च खकृतमार्गसाफल्याय भगवानेव काश्चन ज्ञानिनो म- यादाभक्ताँश्च व्यामोहयतीति तत्कामनातस्तेषां तत्फलभोग इत्यर्थः ॥६॥ ननु विद्युल्लोकाद् वरुणादिलोकप्राप्तिर्यस्य भवति तस्य वैद्युतः पुरुष एव ब्रह्मप्रापक, उत स स्वत एव ब्रह्म प्राप्नोतीतिसंशये निर्ण- यमाह।

४ अध्याये ३ पादः। वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ७ ॥ नहिं ब्रह्मप्राप्तिः स्वतो भवति, किन्तु ब्रह्मसम्बन्धिपुरुषसाम ध्यन । एवञ्च यतो ब्रह्मप्राप्तिस्ततस्तत्सम्बन्धिपुरुषेणैव । कुतः। त- च्तेः। तान् वैधुतात् पुरुषो मानस एत्य ब्रह्मलोकानामयतीति. भुतेः । अत्र वैद्युतंलोकमागच्छतीति धैछुत उक्तो, नतु तल्लोकवासि- त्वेन । एत्येतिकथनात् । अत एव भगवन्मनोऽभिलषित: भक्तं प्राप- यतीति मानस उक्तः ॥ ७॥ अत्र स एतान् ब्रह्म गमयतीत्यत ब्रह्मपदेन कार्यब्रह्मलोक, उत परब्रह्मैवतिसंशये परब्रह्मणो व्यापकत्वाद् गन्तव्यत्वानुपपत्तेब्रह्मलो- कपरमिति बादरिमतमुपन्यस्यति । कार्य बादरिरस्य गत्युपपत्तेः ॥ ८॥ स एतान् ब्रह्म गमयतीत्यत्र कार्य ब्रह्मोच्यते । कुतः । अस्य गन्तुस्तत्रैव गमनमुपपद्यते, न तु परब्रह्मणि व्यापकत्वादितिभावः॥८॥ विशेषितत्वाच ॥ ९॥ ब्रह्मलोकान् गमयतीतिभुतो बहुत्वेन लोका विशेषिताः । तेषु ब्रह्मलोकेषु पराः परावतो वसन्तीतिश्रुती वासकर्तृत्वेन गन्तारो विशेषिता इति कार्य ब्रह्मैव ग्राह्य, न परं ब्रह्म तस्यैकत्वात् ॥९॥ तर्हि तत्र ब्रह्मपदप्रयोगे को हेतुरित्याशङ्याह । सामीप्यात्तु तद्व्यपदेशः ॥ १० ॥ तल्लोकप्राप्ती लोकान्तरप्राप्तिं विनैव परब्रह्मप्राप्तिरिति ब्रह्म- सामीप्याद् ब्रह्मत्वेन व्यपदेशः कृतः ॥१०॥ नन्वाब्रह्मभुवन्नाल्लोकाः पुनरावर्तिन इति वाक्यात ततः पुन- रावृत्तिः श्रूयते । श्रुतौ तु, तेषामिह न पुनरावृत्तिरस्तीत्युच्यते । अतः परब्रबैवान प्रायमित्याशझ्याह । कार्यात्यये तध्यक्षेण सहातः परमभिधानात् ॥११॥ करपावसाने कार्यमलोकत्वात्यये नागे तद्भवण चतुर्मुस- ૨૨ १७० ब्रह्मसूत्रत्तौ। ब्रह्मणा सह अतो ब्रह्मणः परमीश्वरं प्राप्नोतीत्यतोऽपुनरावृत्तिश्रुतेन विरोधः । कुतः । अभिधानात् । वेदान्तविज्ञानसुनिश्चितार्थाः संन्या- सयोगाद् यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले पराम- तात् परिमुच्यन्ति सर्वे' इति श्रुतौ तथाभिधानादित्यर्थः ॥ ११ ॥ स्मृतेश्च ॥ १२ ॥ ब्रह्मणा सह ते सर्वे सम्प्राप्त प्रतिवत्सरे। परस्यान्ते कृतात्मा- मः प्रविशन्ति परं पदमितिस्मृतेः पूर्वोक्त एवार्थः ॥ १२॥ एवं प्राप्ते सिद्धान्तमाह । परं जैमिनिमुख्यत्वात् ॥ १३ ॥ स एतान् ब्रह्म गमयतीति ब्रह्मपदेन परं ब्रह्मैवेति जैमिनिरा- चार्यों मन्यते । कुतः । मुख्यत्वात् । ब्रह्मपदस्य मुख्या वृत्तिः पर- ब्रह्मण्येव, गौणी त्वन्यत्र । तथा च मुख्यसम्भवे गौणार्थस्यायुक्त- स्वात् ॥ १३॥ दर्शनाच्च ॥ १४ ॥ स एतं देवयानं पन्थानमापद्यस्यादिश्रुती, स प्रजापतिलोक स ब्रह्मलोकमिति प्रजापतिलोकात पार्थक्यन ब्रह्मलोककथनदर्श- नादित्यर्थः ॥ १४॥ न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १५ ॥ ब्रह्मविदाप्नोति परमित्युक्त्वा तद्विरणवाक्ये, सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिनेत्यनेन भगवता सह सर्वकामोपभो- गलक्षणा प्रतिपत्तिरुच्यते। सा कार्यब्रह्मलोके न सम्भवतीत्यर्थः। अतोऽत्र परमेव ब्रह्म ग्राह्यमिति भावः ॥ १५॥ क्रममुक्त्यधिकारिणः प्रारब्धभोगानन्तरममानवपुरुषप्रापिताः परं ब्रह्म प्राप्नुवन्तीत्युक्तम् । अत्रार्चिरादिलोकप्राप्तान सर्वानेवामा- नवः पुरुषो ब्रह्म गमयत्युत कांश्चिदेवेति विशय, ब्रह्मप्रापणार्थमेव नस्य नियुक्तत्वादर्चिरादेब्रह्मलोकमार्गत्वात् तत्र गतान् सर्वानेव ब्रह्म प्रापयतीति प्राप्त, उच्यते।

४ अध्याये ३ पादः।
१७१
अप्रतीकालम्बनान्नयतीति बादरायण उभयथा
दोषात तक्रतुश्च ॥ १६ ॥
उपास्यरूपाणि वस्तुनोऽब्रह्मरूपाणि, तेषु ब्रह्मत्वेनोपासनं
घेदबोधिनत्वात् सफलमिति ज्ञात्वा य उपासते ते प्रतीकालम्बनाः ।
एवमपि वेदबंधितत्वेनोपासनायाः कृत्वात् तेषामचिरादिलोकप्रा-
तावपि तानमानवः पुरुषो ब्रह्म न नयनि, किन्तु तद्भिशान् । ये वस्तु.
तः सर्व ब्रह्मांत ज्ञात्वा तत्त्वेनोपासते तानंव नयतीत बादरायण
आचार्यों मनुने । कुतः । उभयथा दोषात् । वस्तुनो ब्रह्मरूपेब्रह्मत्व
निश्चय उपासनार्थ, तत्र ब्रह्मत्वज्ञानं चेत्युभयथा दोषात् तेषां न
ब्रह्मप्राप्तावधिकार इति, न तान् प्रापयतीत्यर्थः । योऽन्यथा सन्तमा.
सानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणे-
ति तादशभावनाया निषिद्धफलकथनात् । एवं ज्ञानमार्गीये भेदद्वयं
निरूप्य भक्तिमार्गीयव्यवस्थामाह । तत्क्रतुश्च । स भगवद्भजनलक्ष-
गाः कार्यस्य स तत्क्रतुः । स तु भक्तिबलातू स्वयमेव पर ब्रह्म
गच्छनीत्यर्थः ॥ १६ ॥
पूर्वम्, अविभागो वचनादित्यनेन पुष्टिभक्तस्य लीलापरिक-
रादविभागो भवतीति फलमुक्तम् । तस्यैव शानिफलाद्विशेषं वक्तु-
मधिकरणारम्भः । तत्र सर्वाण्युपास्यरूपाणि शुद्धब्रह्मरूपाण्येवेति
तदुपासकानां परप्राप्तिरेवेत्युक्तम् । तत्र ज्ञानमार्गीयाणामुपासकाना
भक्तिमार्गीयाणां चाविशेषेणैव परप्राप्तिर्भवत्युत कश्चन विशेषोऽस्ती-
ति संशये, उभयोरपि ब्रह्मोपासकत्वाविशेषेयौव भवतीति प्राप्ते,
उच्यते।
विशेषं च दर्शयति ॥ १७ ॥
श्रुतिरिति शेषः । सा च 'ब्रह्मविदाप्नोति परमिति, नायमात्मा
प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमवैष वृणुते तेन
लक्ष्य' इति च । एक्च यस्य. वरणविशिष्टब्रह्मशानं तस्य परब्रह्मप्राप्ति-
यस्य तु केवलब्रह्मज्ञानं तस्याऽक्षरप्राप्तिरिति विशेषो बोध्यः ॥ १७ ॥
इति श्रीब्रह्मसूत्रवृत्ती मरीचिकाख्यायां चतुर्था--
भ्यायस्य तृतीयपादः ॥४॥३॥

ब्रह्मसूत्रहत्तौ। चतुर्थाध्यायस्य चतुर्थः पादः। पूर्वपादान्ते वरणयुक्तब्रह्मविदः पुष्टिमार्गीयस्य परप्राप्तिरुता। तत्र स सायुज्यं प्राप्य भगवदानन्दमनुभवत्युत देहेन्द्रियादिसवातं प्राप्य भेदेनानुभवतीति संशये, न स पुनरावर्तत इति, तेषामिह न पुनरावृत्तिरस्तीति च भुतेस्ततो जन्माभावात सायुज्यं प्राप्येवा- नुभवतीति प्राप्ते, उच्यते । सम्पद्याविर्भावः स्वेन शब्दात ॥ १॥ सम्पद्य ब्रह्म प्राप्य स्थितस्य जीवस्य भगवदत्यन्तानुग्रहवणा- त तस्य स्वरूपानन्ददित्सायामाविर्भावो, न तु जन्म । सोऽपि स्वन भगवत्सामयेन, न तु कर्मादिना । तथाचोक्तश्रुत्योः प्राकृतजन्मा: भावनिषेधकत्वं, न तु स्वरूपात्मकालौकिकदेहन्द्रियादिना प्राकट्य- निषेधकत्वम् । कुतः । शब्दात् । सोऽश्नुते सर्वान् कामान सह ब्रह्म- णा विपश्चितेतिश्रुतेरित्यर्थः । भगवता सहानेकविधकामाशनं देहे- न्द्रियादिकं विना न सम्भवतीति भगवत्तालौकिकदेहेन्द्रियादिक प्राप्य तत्स्वरूपानुभवं करोतीत्यर्थः ॥१॥ ननु कामभोगानाममुक्तकर्तृकत्वात् तत्प्रतिपादिका अतिरमु. कविषयेत्याशझ्याह। मुक्तप्रतिज्ञानात् ॥ २॥ ब्रह्मविदाप्नोति परमित्यनेन मुक्तं प्रतिक्षाय तद्विवरणं सो- ऽश्नुते सर्वान् कामानित्यनेन क्रियते । अतो मुक्तप्रतियानादेतोः पुष्टिमार्गीयमोक्षरूपत्वं कामाशनस्य, न तु लौकिकत्वमित्यर्थः ॥ २॥ ननु कामभोगस्य गुणाधीनत्वात् परब्रह्मणो गुणातीतत्वात, सह ब्रह्मणेत्यन ब्रह्मपदं कार्यब्रह्मपरमिति न तत्प्राप्तमोक्षरूपत्वमिन त्याशध्याह। आत्मा प्रकरणात् ॥ ३॥ सह ब्रह्मणेस्वत्र ब्रह्मपदेन आत्मा व्यापको मायागुणसस्त ४ अध्याये ४ पादः। धरहित एवोच्यते । कुतः । प्रकरणात । ब्रह्मविदाप्नोति परमिक- स्य गुणातीतप्रतिपादकत्वात् तत्प्रकरण एव सोऽश्नुत इत्यस्य पाठा- त् परं ब्रह्मैवान प्रतिपाद्यं, न का ब्रह्मेत्यर्थः ॥ ३ ॥ ननु ब्रह्मविदाप्नोति परमिति भिन्नं वाक्यं, सोऽश्नुत इयम ऋग् भिन्ना । अतो नेक प्रकरणमिति ब्रह्मपदेन प्राकृतगुणसहित- मेवानोच्यत इत्याशय परिहरति । अविभागेन दृष्टत्वात् ॥ ४ ॥ पूर्ववाक्येन सहाविभागेनैवेयम् ऋक् पठिता । कुतः । इष्ट- स्वात् । तदेषायुक्तत्पनेन, ब्रह्मविदितिवाक्योक्तार्थप्रतिपादकत्वेनेय. मृगुक्तोत इष्टत्वादित्यर्थः । अतः पूर्वोत्तरवाक्ययोरेकार्थप्रतिपादक- त्वात् परब्रह्मैवात्र प्रतिपाद्यत इति ॥४॥ मुक्तो जीवो भगवदनुग्रहाद् बहिराविर्भूय गुणातीतेन पुरुषो- समेन सह सर्वकामोपभोगं करोतीति पूर्वमुक्तम् । तत्र बहिरावि- भूय प्राकतेन शरीरेण भुङ्क्ते, किंवाप्राकृतेनेति संशये भोगायतनस्य प्राकृतस्यैव रष्टत्वात् प्राकृतेनैव भुङ्क्त इति प्राप्ते, उच्यते । ब्राह्मण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥ ब्राह्मण ब्रह्मसम्बन्धिना सचिदानन्दात्मोन परीरेण, ब्रह्मणा सर्वान् कामानश्नुत इति जैमिनिराचार्यों मन्यते । कुतः। उपन्यासा- दिभ्यः । ब्रह्मविदाप्नोति परमित्युपन्यस्य सोऽश्रुत इतिकथनात् । किञ्च, परप्राप्तः पुष्टिमार्गीयमोक्षरूपत्वेन लौफिकशरीरेण तद्भोगा- सम्भवाद् अक्षरब्रह्मणः पुरुषोत्तमाधिष्ठानत्वात् तदात्मकशरीरेण भगवदानन्दं भुङ्क्त इति युक्तम् । कर्मवादिनो जैमिनेरप्यत्र सम्म. तिस्त नान्येषां किमुतति सूचनायें जैमिनिग्रहणम् ॥ ५॥ औडुलोमिस्तु मुक्तो जीवश्चिन्मात्ररूपेणाऽलफकरचरणादि- भावं भगवद्विग्रहे प्राप्य भगवदानन्दमनुभवति, न तु पृथगलौकिक विग्रहेणेस्याह। चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥ चिति, स यथा सैन्धवधन इतिश्रुत्युक्तचिपे ब्रह्मणि तन्मा-

१७४
ग्रझमूत्रचौ।
।
त्रेण चिन्मात्रेण रूपेण कामान् भुङ्क्ते, न त्वलौकिकदेहेन्द्रियादिना।
कुतः
तदात्मकत्वात् । जीवस्य नदात्मकत्वादित्यौडुलोमिरा-
चार्यों मन्यते । इत्थश्चौडुलोमिमत अलौकिकदेहादिकं विनैव चिन्मा-
नरूपेणालकादिवद् भगवत्प्राप्तिरेव मोक्ष इति सिद्धम् ॥ ६ ॥
परमाचाया बादरायणस्त्वौडुलाम्युक्तं चिन्मात्रेणेव जीवस्य
भगवत्प्राप्तिमोक्ष इत्यत्र चिन्मानेणैवेति नियमांशं स्त्रण्डयित्वाऽलो-
किकदहन्द्रियादिभिर्भक्तानां भगवता सह कामाशनं मोमो, शानमि-
श्रभक्तानां तु चिन्मात्रेणैव रूपेण भगवद्विग्रहेऽलकादिरूपप्राप्तिरेव
मोक्ष इति शानिभक्तशुद्धभक्तव्यवस्थया सिद्धान्तमाह ।
एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥ ७ ॥
परमाचार्यो बादरायणोऽलौकिकविग्रहेगापि भोगेऽविरोधं म.
नुते । कुतः । एवमप्युपन्यासात् । ब्रह्मविदाप्नोति परमित्यस्यैवमपि
विग्रहवत्त्वेनाप्युपन्यासात् । तथाहि । ब्रह्मविदाप्नोतीत्युक्त्या परप्राप्ती
ब्रह्मविदः स्वातन्त्र्यं बोध्यते । तदेव, ब्रह्मणा सहेत्य॒चोपन्यस्तम् ।
एवञ्च कामभागेषु ब्रह्मणः साहित्यं भक्तस्य मुख्यत्वमित्युक्तं भवति ।
तञ्चालौकिकविग्रहणैव समञ्जसं भवति, मान्यथति युक्तमलौकिक-
देहेन्द्रियादिवत्त्वम् । अत्रैवमप्युपन्यासादित्यपिशब्दोक्त्या चिन्माण
रूपेण भगवद्विग्रहेऽलकादिभावप्राप्तिरित्यौडुलोमिमतं ज्ञानामश्रम-
तविषयमिति सूचितम् । आपशब्देन तन्मतस्याप्यङ्गीकारसूचनात् ।
किञ्च, भक्तविविधभावद्रष्ट्रा विविधभोगचतुरेण चत्यर्थकविपश्चिते-
त्युक्त्याऽलौकिकदेहेन्द्रियादिवत्त्वं प्राप्यते । ननु विग्रहस्य जन्यत्वेन
लौकिकत्वाद् ब्रह्मणा सह भोगो न सम्भवतीत्याशझ्याह । पूर्वभा-
धादिति । भक्तस्य भगवत्प्राप्तेः पूर्वमेव भगवद्भोगानुकूलविग्रहाणां
भावान्न कृत्रिमत्वमित्यर्थः । एवञ्च भगवत्स्वरूपानन्दानुभवयोग्यश-
रीराणि नित्यानि सन्ति । यध्वनुगृह्य स्वरूपानन्ददानेच्छा ताजीवाँ-
स्तन योजयतीतिभावः ॥७॥
ननु भक्तिमार्गीयम्वपि कतिपयेषु स्वरूपानन्ददानं, न सर्वे-
वित्यत्र किं नियामकमित्याराड्य तदाह ।
सङ्कल्पादेव च तच्छ्रुतेः ॥ ८ ॥

४ अध्याये ४ पादः। १७५ भजनानन्ददानार्थ सङ्कल्पादेव हेतोस्तद्विषय एव तदान दमनुभवति । कुत एतज्ज्ञातं, तदाह । तच्छतेः । नाय. मात्मत्यारभ्य, यमेवैष वृणुते तेन लभ्य इति श्रुतः । अत्र भग. वत्प्राप्ति प्रति वरणातिरिक्तस्यासाघनत्वोक्त्या वरणमात्रलभ्यत्वो- क्त्या च वरणात्मकसङ्कल्पप्राप्यत्वं वदति श्रुतिः । सूत्रे एवकारेण सङ्कल्पातिरिक्त साधनाप्राप्यत्वं ज्ञाप्यते । चकारात् कृपाजनितफल- प्राप्त्यनुकूलपरमार्तिः संगृह्यते ॥ ८ ॥ उक्तमर्थ सूत्रान्तरेण द्रढयति । अत एव चानन्याधिपतिः ॥ ९ ॥ येषां साधनं फलं च प्रभुखरूपातिरिक्तं नास्ति, तेऽनन्याः । तेषामधिपतिर्यतः । येषां साधनात्मना फलात्मना च हृदि भगवानेव स्फुरति, नान्यस्तेषामाधिपत्यमपि स्वयमेव करोति । अन्यत्न तु विभूतिरूपैराधिपत्यं करोति, न स्वयम् ॥ ९ ॥ पूर्वमप्रतीकालम्बनान्नयतीतिसूत्रेणाप्रतीकालम्बनानां ज्ञानि- नामक्षरप्राप्तिरुक्ता । तत्राक्षरस्य साकारनिराकारभेदेन द्वैरुप्याज्ज्ञा. निनां साकाराक्षरप्राप्तिनिराकाराक्षरप्राप्तिति संशय निराकाराक्षर- प्राप्तिरिति बादरिमतेनाह । अभावं बादरिराह ह्येवम् ॥ १० ॥ बादरिराचार्यो मुक्त्यवस्थायां देहाद्यभावं मनुते । कुतः । आह ह्येवम् । यतो ब्रह्मविदो मुक्तिनिरूपिका श्रुतिर्यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीत्युपक्रम्य, यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येदितिरूपा तस्य द्वितीयज्ञाननिषेधमाह । एवञ्च तस्य कामभो. गवाती तु दूरे, कामभोगाक्षेप्यदेहस्तु सुतरामेव न सम्भवतीति बा- दरिमतम् ॥ १० ॥ भावं जैमिनिर्विकल्पामननात् ॥ ११॥ जैमिनिराचार्यों मुक्तस्य पुंसो देहादर्भावं सत्तां मनुते । ननु पूर्वोक्त बाधकवाक्यानां का गतिरित्याशझ्याह । विकल्पामननात् । ब्रह्मविदाप्नोति परमितिश्रुत्या ब्रह्मज्ञानस्य परप्राप्तिहतुत्वमुक्तम् । ना.

१७६
ब्रह्मसूत्रवृत्तौ ।
यमात्मेति भुत्या वरणफलभ्यत्वमुक्तम् । सोऽश्नुते सर्वान् फामा-
नितिश्रुत्या परप्राप्तिर्विवृता । इहैव समवलीयन्ते, ब्रह्मैव सन् ब्रह्मा-
प्येतीत्यपि श्रुत्यन्तरम । एवञ्च मिथोऽविरोधाय पुष्टिमार्गेऽङ्गीकृतो
भगवता सहालौकिकदेहेन्द्रियादिकं प्राप्य कामानश्नुते । शानमा-
र्गीयस्तु, ब्रह्मैव सन् ब्रह्माप्येतीत्युक्त्याऽक्षरे लयं प्राप्नोतीति व्यवस्थि-
तविकल्पाश्रयणान्मुक्तस्याप्यलौकिकदेहेन्द्रियादिसत्त्वे बाधकं ना.
स्तीत्यर्थः । तत्केन कं पश्येदित्यपि ब्रह्मज्ञानदशानिरूपणमिति -
यम् ॥ ११॥
जैमिनिमते साकाराक्षरात्मकविग्रहप्राप्तिभक्तानां, निराकाराक्षरे
लयस्तु शानिनां मोक्ष इत्युक्ते साकारनिराकारभेदेनाक्षरे भेदण्ङ्का
स्यात् । तन्निवारणायाचार्य एकमेवाक्षरं जीवानामधिकारभेदेन
द्वादशाहवद् द्विरूपेणास्तीत्वाह ।
द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥
भगवता सह, सोश्नुत इतिश्रुत्युक्तकामभोगसाधनस्याक्षर-
स्थ भक्तान प्रति भगवद्रसभोगाथै शरीररूपेणाविर्भावेन भोगाय-
तनत्वाच्छरीरत्वम् । भक्तदेहेन्द्रियादीनामक्षरात्मकत्वात् । शानिनां
तु भौतिकवाभावमात्रेण निराकारत्वेन स्वस्मिलयसम्पादकत्वाद-
शरीरत्वमपीति बादरायण भाचार्यों मन्यते । अतः श्रुतेरित्यर्थः ।
सा तु तस्य ह वा एतस्यैवं पश्यत इत्यारभ्य, भारमन एवेदर सर्व-
मित्वन्ता । तेन प्राकृतशरीरराहित्यं सिद्ध्यति । नन्वकस्यैव विरुख-
मशरीरत्वं शरीरत्वं च कथमित्याशड्य वैदिकदृष्टान्तेन समाधते ।
द्वादशाहवत् । यः कामयेत प्रजायेयेति, स द्वादयरात्रेण यजेतेति
विधानाद् यागत्वम्, द्वादशाहमृद्धिकाया उपेयुः, य एवं विद्वारसः
सत्रमुपयन्तीति च विधानात् सनत्वं यथा द्वादशाहस्य तथा प्रकृते-
ऽपि श्रयम् । प्रमाणसिद्धत्वादिति भावः ॥ १२॥
बनु श्रीकृष्णाचवतारस्वरूपमानन्दमयमेवेति तत्र प्रमाणेषु
प्रतिपादितम् । परन्तु तत्राऽप्यवतारसमकालैः पुरुषैः प्राकृतेविषा-
वखाविशेषा हश्यन्ते । तत् कुत इत्याशय परिहरति ।
तत्त्वभावे सन्ध्यवदुपपत्तेः ॥ १३॥

४ अध्याये ४ पादः। तदर्शनस्य वास्तवत्वनिरासफस्तु शब्दः । तत् प्राकृततुल्याऽ. वस्थादर्शनम् अभावे प्राकृतत्वस्याभावे एव भवनि, न तु प्राकृत्योऽ- वस्थास्तत्र सन्ति । नन्वविद्यमानविषयस्य कथं दर्शनं स्यादत आह । सन्ध्यवदिति । सन्ध्यं तृतीयस्थानमितिश्रुतेः सन्ध्ये स्वप्न यथाऽविद्यमानानव मायिकान् पदार्थान् पश्यति निद्रामोहित एवं ये- वासुरेषु भगवतः स्वरूपाज्ञापनेच्छा तेषु मायया स्वरूपेऽविद्यमाना- नेव धर्मान् भासयतीति नानुपपन्नं किञ्चित् । ते तु, प्रवृत्तिं च निवृ- त्तिं च जना न विदुरासुरा"इत्यारभ्च, मामंप्राप्येव कौन्तेय ! ततो याम्त्यधमां गतिमित्यन्तेन गीतायामुक्ताः ॥ १३ ॥ भावे जाग्रहत् ॥ १४ ॥ अप्राकृतलीलापदार्थस्य यत् तत्त्वेन दर्शनं तद् भावे विषयस- द्भावे भवति । तदर्शनं सविषयकमेव, न तु मायिकविषयकम् । तत्र दृष्टान्तः । जाग्रत् । जाग्रद्दशासामयिकशानं सत्यविषयकमेव भवति, निद्रामोहितस्य तु विपरीतं, तद्वदित्यर्थः ॥ १४ ॥ ननु सोऽश्नुते सर्वान् कामान् सह ब्रह्मणेत्यत्र भक्तस्य भगव. ता सह कामभोग उपपादितः । परन्तु भगवतः पूर्णज्ञानक्रियाश- तिमत्तेन भक्तस्य ततो न्यूनत्वे न सम्भवति । तत्रापि प्राधान्यं सु. तरांमव न सम्भवतीत्याशङ्याह । प्रदीपवदावेशस्तथाहि दर्शयति ॥ १५ ॥ न हि तदा भक्तस्य स्वसामयेन प्राधान्येन भगवता सह भोगः, किन्तु भगवदावेशेन । प्रदीपवत् । यथा प्रदीपः स्नेहयुक्तवर्त्य- ग्तर सम्बद्धः सँस्तामपि स्व समानां करोति, तथा भगवानपि फल- दानार्थ भक्के सम्बद्धस्तमपि स्वसमानसामर्थ्य करोतीत्यर्थः । अत्र प्रमाणमाह । तथाहि दर्शयति । श्रुमिरितिशेषः । सा तु भर्ता सन् नियमाणो बिभर्ति, पको देवो बहुधा निविष्ट इति च ॥ १५ ॥ ननु न तदनोति कञ्चन न तैनौति कश्चनेति श्रयते । ब्रह्मणा सह कामभोगोऽपि, सोऽश्नुत इति श्रूयते । एवञ्च श्रुतिविप्रनि- पंधनिराकरणाव मिर्गुणं ब्रह्म, न तदश्नोतीतिश्रुतेविषयः । सोऽश्नुत ૨૩ ब्रह्मसूत्रत्तौ। इतिश्रुतेस्तु प्राकृतगुणसहितं ब्रह्म विषय इति व्यवस्थायां सवसाम- अस्यमिति प्राप्ते, उच्यते । स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥१६॥ स्वाप्ययः स्वमपीतो भवतीतिश्रुत्युक्ता सुषुप्तिः । सम्पत्तिब्रह्म- सम्पत्तिरुक्तरीत्या पुष्टिमार्गीयो मोक्षः । तयोरन्यतरापेक्षमुभयश्रुत्या- विष्कृतम् उक्तमित्यर्थः । एवञ्च प्रस्खापदशायां ब्रह्मस्वरूपस्य सम्य- गनुभवाभावात् तद्विषयिणी न तदनातीनि निषधिका श्रुतिः । सम्प- स्यात्मकपुष्टिमार्गीयमोक्षे तुस्वरूपस्थाऽनेकधाऽनुभवात् तन्निपिका, सोऽश्नुन इत्यादिश्रुतिरिति न प्राकृतगुणयुक्तत्वनिर्गुणत्वभेदेन व्यव. स्थाकल्पनमुचितमित्यर्थः । परास्य शक्तिर्विविधैव श्रूयत इत्यादिश्रु. स्याऽचिन्त्यानन्तशक्तिमति स्वतः सर्वभवनसमर्थे ब्रह्मणि गुणानां प्र- योजनाभावात् ॥ १६ ॥ ननु ब्रह्मणा सह कामभोगे लौकिकव्यापारसाहित्यमस्ति न घेति संशये भोगस्य लौकिकव्यापारसाहित्यदर्शनादस्तीति प्राप्ते, उच्यते । जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च ॥ १७॥ भगवता सह भोगो जगद्व्यापारवर्जे भवति । जगत्सम्बन्धी लौकिको यो व्यापारस्तद्रहित इत्यर्थः । कुतः । प्रकरणाद् असन्निहि- तत्वाश्च । ब्रह्मविदाप्नोतीत्यस्य मुक्ति प्रकरणस्थत्वात् तत्र लौकिक- व्यापारो न सम्भवति । लीलायाः प्रकृतिकालाद्यतीतत्वाच लौकिक जगत् ततो दूरतरमिति न तत्र लौकिकव्यापारसम्भावना सन्निधा- नाभावात् ॥ १७॥ ननु मुक्तिप्रकरण एवं छाम्दोग्ये, सर्व५ ह पश्यतीति सर्व विषयज्ञानकथनातू पूर्वोक्तं लौकिकव्यापारराहित्यं नोपपद्यत इति सूत्रानाशय समाधत्ते । प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः॥१८॥ देशकालभेदेनानेकविधायां लीलायामधिकृतो यो भक्तस्तस्य यानि तत्तलीलानुभवार्थ नानारूपाणि तान्याधिकारिकाणि । तेषां ४ अध्याये ४ पादः। १७१ भतः, मण्डलं समूहः । तत्र स्थितं वस्तुमानमाधिकारिकमण्डलस्थम् ।त. स्व सर्वह पश्यतीत्यनेन दर्शनोतिनं तु लौकिकवस्तुनः । अत एवाग्रं, सर्वमानाति सर्वशः, स एकधा भवतीत्यादि च पठ्यते । सर्व ह पश्यतीतिश्रुत्याऽप्यलौकिकलीलाविषयकसर्वज्ञानक. धनान्मुक्तिदशायां न लौकिकव्यापारसम्भावनापीति भावः ॥ १८ ॥ ननु तत्तदंशकालविशिष्टलीलाया नित्यत्वात्, श्वस्त्वद्नेहमा.. पास्य इति भगवतांत भक्तानां तदाकाश्या स्थितिरनुपपन्ना । तत्तदे- शकालभगवदागमनस्य नित्यत्वेन तदापि सत्वाद् भगवतोऽप्येवं कथनासम्भवाश्चत्याशङ्ख्याह । विकारावति च तथा हि स्थितिमाह ॥ १९ ॥ अस्मिअच्छास्त्रे । भगवल्लीलायाः प्रकृतित्वेन कथनातू तद्विर- सोऽथों विकारशब्दवाच्यो भवति । यथाऽऽम्रादिफलेषु विकारेण रसमाशो भवतीति लोके दृष्टं, तद्वदत्रापि भगवतः श्वस्त्वद्नेहमाया- इति भक्तविशेष प्रति कथनसमयेऽपि तदूगृहागमनली. निस्यत्वेन तस्मिन् काले सत्त्वेऽपि तदा तस्या अनुभवे भगवदागमनप्रतीक्षाहेतुविप्रयोगरसस्य नाशो भवतीति तस्मिन् का- ले खगेहे भगवत्स्थित्यनुभवो विकारो भवति । एवञ्च भक्तानां पूर्वो- करीत्या भगवदुक्त्यनन्तरं यत्तदागमनप्रतीक्षात्मकं ज्ञानं तद् विका. रावर्ति भवति । मद्गहे पूर्व भगवानागतोऽभूदू, अधुना पुनरप्या: पास्यतीति भूतभविष्यत्स्वगेहस्थित्यनुभवविषयकमपि ज्ञानं न भवति। विरहोत्कराठ्यानापत्तेः । किन्तु कदा आयास्यतीति केवलं प्रतीक्षैष तदा भवति । इदं सङ्कपत उक्तम् । यद्यद्रसनाशकं भवति ताहश ज्ञानं तस्य न भवति, पोषकमेव भवतीति लौकिकभिन्नं लीलानुभवा- स्मकमेव तज्ज्ञानम् । एवञ्च तल्लीलाविशिष्टप्रभोः सर्वदा तद्हे सत्त्वेऽ. ऽपि तदा तस्य ज्ञानं न भवतीत्यर्थः । भक्तानामपि सर्वज्ञत्वेऽपि यारशं रसाभासजमकं तादृशमाच्छाद्य रसपोषकं ज्ञानं प्रकटयति । अत्र प्रमाणं प्रदर्शयति । तथा हि स्थितिमाह। सर्वमाप्नोति सर्वश इति भुतिरेकस्यैव भक्तस्य सर्वशः सर्वैः प्रकारैः सर्व लीलारसमाप्नोतीति कथयन्ती पूर्वोत्तरीस्यैव तस्य लीलायां स्थितिमाह । अतो लीला लाया १८० ब्रह्ममूत्रवृत्तौ। स्वरूपमेवेदमलौकिकं ताहशर्मिति वैदिकैस्तथैव मन्तव्यमिति भावः । अलौकिकेऽर्थे प्रमाणमेवानुसतव्यं, न लौकिकी युक्तिः ॥ १९ ॥ दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥ प्रत्यक्षानुमाने श्रुतिस्मृती भगवत्सम्बन्धिनि लीलापदार्थे यु- वगम्यत्वं दर्शयतः । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी शान बलक्रिया च । नैषा तर्केण मतिरापनेया । अलौकिकास्तु ये भावा न तांस्तकेंण योजयेदिति च । अतो लीलायां लौकिकयुक्ति- विरोधो न दूषणं, प्रत्युत भूषणमेव । तदुक्तं, न हि घिरोध उभयं भगवत्यपरिगणितगुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीनविकल्प- वितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाशयदुरवग्रह- वादिनां विवादानवसर इत्यादि ॥ २० ॥ एतादृशलीलाविशिष्टप्रभुस्वरूपमेव परमफलत्वेन घेदान्सच- तितात्पर्यविषय इति सूचर्यात । भोगमात्रसाम्यलिङ्गाच्च ॥ २१॥ सोऽश्नुते सर्वान् कामान् सह ब्रह्मणतिश्रुती भागे भगवतो भक्तसाम्यमुच्यते । एतच्च पुरुषोत्तम एव सम्भवति । यतो भक्त सख्यं दत्त्वा तत्कृतात्मनिवेदनमङ्गीकुर्वन् कृपया तं प्राधान्येम स्वरू- पानन्दमनुभावयति । अन्यथा भक्तस्य स्वरूपानन्दानुभवो न भवेत् । एतादृशपरमकृपालुः पुरुषोत्तम एव परमं फलमिति सिद्धम् । मात्रपदेन न तत्समश्चाभ्यधिकश्च दृश्यत इतिश्रुनो भगवतःसर्वात्मना म भक्तसाम्यमिति ज्ञापितम् ॥ २१॥ एवं भगवत्स्वरूपानुभवस्य पुष्टिमार्गीयपरमफलत्वं निरूप्याक्ष- रप्राप्त निनः फलत्वं निरूप्य तदनुभवानन्तरं कर्ममार्गवत् पुनरा: वृत्तिः स्यादित्याशङ्योभयोरप्यपुनरावृत्ति सुत्रावृत्त्या निरूपयन्तु पसंहरति । अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥ अत्र सूत्रावृत्त्या ज्ञानिनां भक्तानां चानावृत्तिरुच्यते । ब्रह्म- ४ अध्याये ४ पादः। १८१ लोकमभिसम्पद्यते, न स पुनरावर्तत इत्यादिशब्दस्तु ज्ञानिना. मनावृत्तिमाह । भक्तिमार्गे तु यमवर वृणुते तेन लभ्य इतिश्रुतवरणस्य नित्यत्वनानात्तिरपि नित्या बोध्या । किञ्च, कालेन हि पुनरावृत्तिः। न यत्र कालोऽनिमिषां परः प्रभुरितिवाक्याद् भगवल्लीलायां कालप्र- भावादपि न पुनरावृत्तिरिति ॥ २२ ॥ सम्राश्रीजयर्मिहाज्ञां प्राप्य व्रजनाथभट्टेन । अणुभायभास्करस्य मरीचिकेयं कृता जयतात् ॥१॥ इति श्रीब्रह्मसूत्राणामणुभाग्यानुसारिवृत्तौ मरीचिकाख्यायां चतुर्थाध्यायस्य चतुर्थः पादः ॥ ४॥४॥ समाप्तोऽयं चतुर्थोऽध्यायः ॥ सम्पूर्णश्चायं प्रन्यः

Bramhasutravritti.

Author
Vrajanath Bhatta
Title
Bramhasutravritti.
File name
Bramhasutravritti.
Text
OCR done
Citation
1905
Published
12-01-2006
Publisher
Haridas Gupte., Kashi
Language
Sanskrit
Pages
183
Library
Jayakar Library , Pune
Classification
Philosophy
DLI number
496124
Barcode
1999990083003.00
Scanning centre
Pune University
Digital publisher
Jayakar Library , Pune
Rights
Author
VMLT id
zsYNjkf36mi
Download PDF

Bramhasutravritti.