Sringeri Sharada Peetham
Mundakopanisht
Front matter
मुण्डकोपनिषत्
श्रीमच्छङ्कराचार्यकृतभाष्यसमेता
वेदान्तवागशि
पंडित श्रीधरशास्त्री पाठक
संस्कृताध्यापक डेक्कन कॉलेज
इत्येतैः
स्वनिर्मितया बालबोधिन्या समलंकृता
विस्तृतोपाद्धातेन च संयोजिता
पुण्यपत्तनम्
१९२५
मूल्यम्
15/-
मुद्रक व प्रकाशक-शंकर रामचंद्र दाते, लोकसंग्रह मुद्रणालय, २७ बुधवार पेठ पुणे शहर १-३१ ४ ४ ७ ९ ११ १२ अमणिका Mangan १ प्रास्ताविकम्- १ वेदवेदान्तयोः सन्बधः २ उपनिषदः ३ उपनिषदां स्वरूपम् ४ शाङ्करमतम् ५ रामानुजमतम् ६ अद्वैतविशिष्टाद्वैतयो_लक्षण्यस्य स्थलानि ७ प्रमाणसंख्याविचारः ८ अमिहोत्रादीनां स्वरूपम् ९ मुण्डकोपनिषत्तात्पर्यम् १० अन्वयक्रमेण यत्र व्याख्यानं तानि स्थलानि ११ अध्याहारस्थलानि १२ कर्मगतीनां त्रैविध्यम् १३ जीवन्मुक्तिविदेहमुक्तिस्वरूपम् १४ जीवन्मुक्तिमीमांसा १५ अनिर्वचनीयख्यातिः १६ विवर्तवादः १७ प्रश्नमुण्डकयोः संबन्धः १८ मुण्डककाठकयोः साम्यम् १९ पाश्चात्त्यविद्वन्मतविमर्शः २० बालबोधिनी २ मुण्डकोपनिषद् सभाष्या १६ १६ १६ १७ १८ २२ २३ २३ २४ २५ ३. १-७५ अथ प्रास्ताधिकं किंचित । वेदान्तयोः संबन्धः। विदितमेवेदं विचारशीलानां यदुःखजिहासासुखपरीप्सानिमित्तं प्राण- भृतां प्रवृत्तिस्तत्र प्रायो बहव ऐहिकसुखार्थमेव यतन्ते न पारलौकि- काभ्युदयश्रेयोनिमित्तम् । केचित्तु लौकिकसुखस्यानित्यतां निरूप्य पार- लौकिकाभ्युदयार्थ प्रयस्यन्ति । परन्तु नाधिगच्छन्ति तदुपायम् । तन्निमित्तं परमेश्वरनिःश्वासभूतो वेदो यज्ञादिसाधनान्युपदिदेश । ततः स्वर्गादि- पारलौकिकसुखमपि " यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्य- चितो लोकः क्षीयते " इत्यादिवचसा क्षयोति ज्ञात्वा केचन परमश्रेयः- साधनभूतं ब्रह्म जिज्ञासवो बभूवुस्तदर्थ वेदेनैव कासुचिदीशावास्याधुप- निषत्सु मन्त्रान्तर्गतासु ब्रह्मोपदिष्टम् । परं मन्त्रभागस्याख्यायिकादि- रहितत्वेन दुर्विज्ञेयत्वान्मन्त्राणां व्याख्यातृभिर्ब्राह्मणप्रणेतृमिस्तैस्तैर्महर्षिभिः कर्मकाण्डप्रतिपादनानन्तरमुपासनाघटितास्तास्ता उपनिषदः समाम्नाताः । एवं चैतत्सिद्धं यन्मन्त्रात्मको योऽपौरुषेयो वेदभागस्तत्र विस्तरशी यज्ञादि कर्म प्राणायि यदर्थ सकलापि पूर्वमीमांसोपयुज्यते यां चासूत्र- यद्भगवाजैमिनिः । अथातो धर्मजिज्ञासा' जै. सू. १।१ । १ इत्यादिना । ततः परं संक्षेपतो वेदान्तविद्याप्रतिपादिन्य ईशाद्युपनिषदो मन्त्रभाग एंवो- ताः । अथच ब्राह्मणं-तैस्तैर्महर्षिभिः प्रणीतम् । तत्र पूर्व कर्मकाण्डं व्याख्या- ततः सुखबोधार्थमुपासनादिसाधनप्रतिपादनपुरःसरमाख्यायिका- दृष्टान्तादिघटिता ब्राह्मणोपनिषदः पठिताः। यासांच मन्त्रब्राह्मणोपनिषदा- मसन्दिग्धार्थप्रतिपत्तये भगवान् बादरायणंः " अथातो ब्रह्मजिज्ञासा" ब्र..सू.१ । १ । १ इत्यादीनि सूत्राणि प्रणिनाय । अतएवोक्तं भगवत्पूज्य- पादैः श्रीशंकराचार्यः " वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम् " ब्र. सू. शां. भा. १।१। २ इति । २ उपनिषदः। उपनिषच्छब्दस्य तत्र तत्र श्रीमच्छकराचार्यैरर्थ' प्रदर्शितः । तथाहि कठोपनिषदि प्रस्तावनाभाष्ये-१।१।१ सदेर्धातोर्विशरणगत्यवसादनार्थम्यो- तम् ।
२ पनिपूर्वस्य किप्पत्ययान्तस्य रूपमुपनिषदिति । उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्योच्यते । केन पुनरर्थ- योगनोपनिषच्छद्दन विद्योच्यत इत्युच्यते । ये मुमुक्षवा दृष्टानुश्रविकविषय- वितृष्णाः सन्त उपनिषच्छब्दवाच्या वक्ष्यमाण लक्षणां विधामुपसद्योपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषाम विद्यादेः संसारबीजस्य विशरणा- दिसनाद्विनाम्नादित्यनेनार्थयागेन विद्योपनिषदित्युच्यते । तथाच वक्ष्यति " निचाय्य तं मृत्युमुखात्प्रमुच्यते " इति । पूर्वोक्तविशेषणान्मुमुक्षून्वा परं ब्रह्म गमयतीति ब्रह्मगमयितत्तन योगाद्ब्रह्मविद्योपनिषत् । तथाच वक्ष्यति- ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरिति । लोकादिब्रह्मजज्ञो योऽमिस्तद्विषयाया विद्याया द्वितीयेन वरेण प्रार्थ्यमानायाः स्वर्गलोकफलप्राप्तिहेतुत्वेन गर्भवास- जन्मजराद्युपद्रववृन्दम्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन धात्वर्थयोगाद निविद्याप्युपनिषदित्युच्यते-तथाच वक्ष्यति- स्वर्गलोका अमृतत्वं भजन्त इत्यादि । ननु चोपनिषच्छब्देनाध्येतारो ग्रन्थ- मप्यभिलपन्ति । उपनिपदमधीमहे । अध्यापयाम इति च । एवं नैष दोषः । अविद्या दिसंसारहेतुविशः णादेः सदिधात्वर्थस्य ग्रन्थमात्रेऽसंभवाद- विद्यायां च संभवादग्रन्थम्यापि तादर्थेन तच्छन्दत्वोपपत्तेः । आयुर्वं धृत- मित्यादिवत् । तम्माद्विद्यायां मुख्यया वृत्त्योपनिषच्छब्दो वर्तते ग्रन्थे तु भक्त्यति । मुण्डकोपनिषद्-१११११ प्रस्तावनायां-य इमां ब्रह्मविद्यामुप- यन्त्यात्मभावेन श्रद्धाभक्तिपुरःसराः सन्तस्तेषां गर्भजन्मजरारोगाद्यनर्थपूगं निशातयति परं वा ब्रह्म गमयति-अविद्यादिसंसारकारणं चात्यन्तमवसा- दयति बिनाशयतीत्युपनिषत् । उपनिपूर्वस्य सदरेवमर्थस्मरणात् । इति । अत्र केनोपनिपदि ४।३२ — उपनिषदमब्रूम' उपनिषदं-परमात्मविद्या- मित्यर्थः कृतः । तैत्तिरीयोपनिषत् (२१९) भाष्य “ परं श्रेयोऽस्यां निषण्ण- मिति । तथा छान्दोग्योपनिषद्यष्टमा यायेऽष्टमखण्डे चतुर्थकण्डिकायां-उप- निषच्छब्देन ज्ञानमुच्यत-एतदुपनिषदो भविष्यन्ति देवा वासुरा वा 1८1८।४ इति । एतदुपनिषदः-एतज्ज्ञानाः । तथा बृहदारण्यकोपनिषत्प्रस्तावनायाम्- " संयं ब्रह्मविद्यापानिपच्छन्दवाच्या तत्पराणां सहेतोः संसारस्यात्यन्तावसा- दनात् । उपनिपूर्वस्य संदम्तदर्थत्वात् । तादाद्ग्रन्थोऽप्युपनिषदुच्यते " एवं चैतत्सिद्धं संसारबीजविनाशिनी या विद्या सोपनिषच्छब्देन मुख्यया ३ - वृत्त्या बोध्यते । तादृशक्विाप्रतिपादकत्वाल्लक्षणयेशावास्यादयो ग्रन्था अप्युपनिषच्छब्देन व्यवन्हियन्ते । ता उपनिषदश्चतुर्पु वेदेष्वष्टोत्तर- शतसंख्याकास्तत्र द्वात्रिंशन्मुख्याः । तत्रापि दशैवेशादयो मुख्यतरा- स्तत्रापि माण्डूक्योपनिषन्मुख्यतमा । तथैव मुक्तिकोपनिषद्युक्तत्वात् । माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये । तथाप्यसिद्धं चेज्ज्ञानं दो. परिषदं पठ । तथापि दृढता नो चेद्विज्ञानस्याञ्जनासुत । द्वात्रिंशाख्यो- पनिषदं समभ्यस्य निवर्तय । विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ।। ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः । ऐतरेयं च छान्दोग्यं बृहदारण्यक तथा । ता एता अष्टोत्तरशतमुपनिषद ऋग्वेदादौ कियत्यस्तासां शान्तिश्च कति तंत्रोच्यते । तथाच " ऐतरेयकौषीतकिनादबिन्द्वात्म- प्रबोधनिर्वाणमुद्गलाक्षमालिकात्रिपुरासौभाग्यबव्हचानामृग्वेदगतानां दश- संख्याकानामुपनिषदां वाङ्मे मनसीति शान्तिः ॥ ईशावास्यबृहदारण्य- कजाबालहंसपरमहंससुबालमन्त्रिकानिरालम्बत्रिशिखिब्राह्मणमण्डलब्राह्मणाद्व- यतारकपैङ्गलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्यशाट्यायनिमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशतिसंख्याकानामुपनिषदां पूर्णमद इति शान्तिः ।। कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भनारायणामृतबिन्द्वमृतनादकालामि- रुद्रक्षुरिकासर्वसारशुकरहस्यतेजोबिन्दुध्यानबिन्दुब्रह्मविद्यायोगतत्त्वदक्षिणामू- तिस्कन्धशारीरकयोगशिक्षकाक्षराक्षावधूतकठरुद्रहृदययोगकुण्डलिनीपञ्चब्रह्म- प्राणाग्निहोत्रवराहकःलिसन्तरणसरस्वतीरहस्यानां कृष्णयजुर्वेदगतानां द्वात्रिं- शत्संख्याकानामुपनिषदां सह नाववत्विति शान्तिः ॥ केनछान्दोग्यारुणि- मैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणिवासुदेवमहत्संन्यासावक्तकुण्डिकासा- वित्रीरुद्राक्षजाबालदर्शनजाबालीनां सामवेदगतानां षोडशसंख्याकानामुपनि- पदामाप्यायन्त्विति शान्तिः ॥ प्रश्नमुण्डकमाण्डूक्यावशिरोऽवशिखाबृह- जाबालनसिंहतापनीनारदपरिवाजकसीताशरभमहानारायणरामरहस्यरामताप- नीशाण्डिल्यपरमहंसपरिवाजकान्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवी- भावनाब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णयग्रीवदत्तात्रयगरुडाना- मथर्ववेदगतानामेकत्रिंशत्संख्याकानामुपनिषदां भद्रं कर्णेभिरिति शान्तिः ॥" मध्वाचार्यकृतव्याससूत्रभाष्य काषायणादयो बह्वय उपनिषदो निर्दिष्टास्ता मुक्तिकोपनिषदि न दृश्यन्ते । अधुन तनैर्विदेशीयैरुपनिषदां संख्या २३५ पर्वमुच्यते ( Introduction of Upanishads by Max Miller page LXVIII) ३ उपनिषदां स्वरूपम्। प्रायो मुख्यासु दशसूपनिषत्सु ब्रह्मस्वरूपं, तत्प्रतिपत्तय उपासनाः काश्चित्स्वतन्त्रतया काश्चित्कर्माङ्गत्वन, सुखबोधार्थमाख्यायिकाश्च तथा क्वचि- जगदुत्पत्तिरपि समाम्नायते । कासुचिदुपनिषत्सु पूर्वोक्तानां सर्वेषां वस्तूनां समवायः कासुचित्केवलं ब्रह्मस्वरूपवर्णनं कासुचिदन्यवस्तुसत्त्वेऽप्याख्या- यिका नास्ति कुत्रचिदुपासनाघटिताख्यायिकास्ति । एतत्सर्व छान्दोग्यबृहदा- रण्यकेशादिषूपनिषत्सु समुपलभ्यते । एतत्तु सत्यं यद्ब्रह्मस्वरूपप्रतिपादनं विनोपनिषन्नास्तीति । ४ शाङ्करमतम् ( अद्वैतमतम्) आस्मिन्मते ब्रह्मैव सत्यमन्यत्सर्व मिथ्या । जगदादि सर्व शुक्तौ रजत- मिव भासते। ब्रह्म निर्गुणमतएव शब्दैरप्रतिपाद्यम् । अतएव वाङ्मनसयोर- गोचरमिति श्रुतौ कथ्यते । सर्वज्ञत्वादयोऽपि ब्रह्मगुणा औपाधिकाः । जीवो ब्रह्मरूपोऽप्यज्ञानाद्भिन्न इव भाति । मनोबुद्धयाद्युपाधिभिः सर्वोऽपि जनोऽ- हमिति प्रत्येति । अतएव सुषुप्तौ मनोबुद्धयादिलयेनाहमाकारप्रतीत्यभावः । एवं मोक्षावस्थायामप्युपाघिलयादहमाकारप्रतीत्यभावः । एवं चाहमिति प्रतीतिरौपाधिकी। अयं प्रातीतिका जीव एक एव नतु नाना । अन्त:- करणभेदात्सुखदुःखानुभवभेदः । चैतन्यं सर्वव्यापकं स एवात्मेत्यभिधीयते । अयमात्मेश्वरजीवसाक्षीति भेदेन त्रिविधः । सर्वजगन्मूलकारणमज्ञानं तस्मि- श्चैतन्यान्तर्गते सति स आत्मेश्वर इत्यभिधीयते । स एवेश्वरस्सत्त्वरजस्त- मोभिर्विष्णुब्रह्मशङ्करोति संज्ञा लभते । आत्मा ज्ञानस्वरूपो नतु ज्ञातृस्व- रूपस्तस्य ज्ञातृत्वमहंकाराद्युपाधिभिः प्रपञ्चस्यापि ज्ञेयत्वमज्ञानादेव । त्रिविधं सत्यत्वं प्रातिभासिकं, व्यावहारिकं पारमार्थिकं च। तत्र प्रातिमासिकस्य शुक्तिरजतादेर्व्यावहारिकसत्यरजतेन बाधः । व्यावहारिकसत्यत्त्वं घटपटा- दीनां तच्च पारमार्थिकसत्येन ब्रह्मदर्शनेन बाध्यते ब्रह्मणस्तु कस्यामप्यव- स्थायां न वाधः । अत एव तत्परमार्थसत् । घटपटादीनां व्यवहारदशायां सत्यत्वं वस्तुतस्तु ते मिथ्याभूताः । स्वानिकपदार्थवत् । यथा स्वप्नगताः ५ पदार्था जाग्रदशायां न सन्त्यतो मिथ्या तथा पारमार्थिकदशायाममावादेते व्यवहारदशायां विद्यमाना अपि घटादयो मिथ्या । पारमार्थिकात्मज्ञानेन तद्वाधात् । कासुचिच्छुतिषु सृष्टिराकाशादिक्रमेण कासुचिच्छृतिषु तेज- आदिक्रमेण कुत्रचित्सर्वं ब्रह्मैव नान्यदित्युक्तम् । सर्वासां श्रुतीनामबाधित- प्रामाण्यात्तत्समन्वयोऽवश्यं कर्तव्यस्तथा चेदमेव सिध्यति यद्ब्रह्मैव सत्य- मिति पारमार्थिकदृष्टयोक्तम् । आकाशादिक्रमसृष्टिन्तु व्यावहारिकी । अने- नापि प्रमाणेन जगतो व्यावहारिकसत्यत्वम् । नतु परमार्थसत्यत्वम् । यदि जगत्परमार्थसम्यात्तद्यन्यस्किमाप नास्तीतिप्रतिपादिनी श्रुतिरनार्थका स्यात् । एवं च सत्यानृते मिथुनीकृत्य नैसर्गिकोऽयं लोकव्यवहार इति मन्तव्यमत एवाज्ञानिदृष्टया तत्सत्यत्वं भासते । ज्ञानिदृष्टया च तस्य पिता अपिता भवति' इत्युक्तरीत्या तम्य मिथ्यात्वम् । न केवलं सर्वस्य जगतो मिथ्यात्वं श्रुत्या बोध्यतेऽपि तु स्वस्यापि मिथ्यात्वं श्रुतिनिरभिमानितया ब्रूते । ननु मिथ्याभूतश्रुतेः सत्यज्ञानं कथमिति नच वाच्यम् । “ यथा कर्मसु काम्येषु स्त्रियं स्वप्नेऽनुपश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने " इत्युप- निषदुक्तरीत्या मिथ्याभूतात्स्वप्नस्थस्त्रीदर्शनात्सत्यसमृद्धिप्राप्तिरिवासत्याया अपि श्रुतेः सत्यभूतात्मदर्शनस्य संभवात् । यथा वा स्वामिकपदार्थानाम- सत्यत्वेऽपि तज्ज्ञानस्य स यत्वं तथा भिथ्याभूताया अपि श्रुतेः सत्यात्म- ज्ञानम् । एतस्य सर्वजगतो मूलस्वरूपमनाद्यविद्या सा च त्रिगुणात्मिका प्रलयकालसमाप्तिवेलायामविद्यया जीवकृतकर्मभिश्च तदैवत बहु स्यां प्रजायेय " इति रीत्या परमात्मा संकल्पयति तत आकाशादिक्रमेण सृष्टयु. द्मः । ततश्च पंचीकृतपंचमहाभूतभ्यः शरीरादीनि प्रादुर्भवन्ति । एवमुत्प- नशरीरे प्रविष्टं चैतन्यं जीव इत्यभिधीयत स नाणुः किन्तु व्यापकः सर्व- सिशरीरे सुखदुःखानुभवात् । स च जीवो मुक्तिपर्यन्तं स्थायी जन्मान्तरी. यकर्मजसुखदुःखसम्बन्धात् । ननु जन्मान्तरं नाङ्गीक्रियत इति चेजन्मसम- काल जायमानसुखदुःखानुभवस्यानुपपत्तिः । मातृस्तनपानादावप्रवृत्त्यापत्तिश्च । तदानीं कस्यापि कर्मणोऽसंभवात् । जीवो विस्मृतकण्ठस्थचामीकरपुरुष इवा- त्मविस्मृतेरज्ञानात्सुखदुःखानुभवभाक् । अज्ञानं लिङ्गशरीरं स्थूलशरीरं चेत्यु- पाधिस्तस्य सदा प्रत्यासन्नः । अयमुपाघिदशमस्लमसीति ज्ञानेन विस्मृता- त्मस्वरूपस्याज्ञानामिवात्मज्ञानेन जीवात्मपरमात्मैक्यज्ञानापरपर्यायेण नश्यति ६ सत्यज्ञानेन विना मिथ्याभूतदर्शनस्यानिवृत्तेः । एवमविद्यामाशे जीवो मुक्तो भवति । तस्य ज्ञानामिः प्रारब्धेतराणि संचितक्रियमाणानि कर्माणि नाश- यति । अस्यां दशायां प्रारब्धकर्माणि भुञ्जानः स विगतशरीराद्यभिमानो जीवन्मुक्त इत्यभिधीयते प्रारब्धकर्मावसाने देहपाते स विदेहमुक्तो भवति । इय- मेव परमा मुक्तिः । अस्यां जीवः परमात्मसायुज्यं नाम स्वरूपमधिगच्छति । नच मतान्तरवदल्पेनापि सेवकादिरूपेण भिन्नस्तिष्ठति । यद्यपि जीवः सदै- वात्मस्वरूपम्तथापि भावरूपेणाज्ञानेनात्मानं सुखदुःखमाजं मनुते तदैव बद्ध इत्यभिधीयत तादृशाज्ञानम्य निवृत्तौ स एव मुक्त उच्यते । साधनक्रमः । वेदविहितवर्णाश्रमकर्मणा चित्तशुद्धिस्ततो ब्रह्मनिष्ठगुरुं प्रति शरणगमनं तेन तत्त्वमसीति ज्ञानोपदेशस्तच्छ्रवणमनननिदिध्यासनैः संन्यासाश्रममधिव- सन्कर्माणि परित्यजंश्च स सुस्थिरज्ञानों मोक्षं लभते । कदाचिद्वामदेवादि- वत्पूर्वजन्मकृतकर्मभिः शुद्धचित्तोऽत्र जन्मनि ज्ञानेन मुक्तो भवति । मोक्षाप्तौ ज्ञानमेव साक्षात् साधनम् । कर्मोपासने तु चित्तशुद्धिचित्तैकाग्र्य- प्रापकत्वात्परंपरितसाधने । ज्ञानकर्मसमुच्चयस्तु नेष्टः । नित्यानित्यवस्तु- विवेकः, इहामुत्रार्थभागविरागः, शमदमादिसाधनसंपत्, मुमुक्षुत्वं चेति साधनचतुष्टयसंपत्त्यनन्तरं ब्रह्मजिज्ञासा । अस्मिन्मतेऽनिर्वचनीयख्यातिः। प्रत्यक्षानुमानोपमानशान्दार्थापत्त्यनुलन्ध्याख्यानि षट् प्रमाणानि । तत्रा. लौकिकार्थ आत्मनि शाब्दमवं मुख्यं प्रमाणम् । अन्यदनुमानादि तदव- टम्भन प्रमाणं भवति । अत्र मते विवर्तवादः । तत्स्वरूपं स्वप्रकाशपर- मानन्दाद्वितीयं ब्रह्म स्वमायावशान्मिध्येव जगदाकारेण कल्पते । यथा शुक्तौ रजतं रज्जौ भुजङ्गमश्च । ननु शुक्तिरजतादौ सारूप्यं विवर्तत्वे कारणं जीवजडयोः सारूप्याभावेन चिद्विवर्तत्वं प्रपंचस्य कथमिति चेन्नैतत्साधु । नहि सारूप्यनिबन्धनाः सर्वे विभ्रमा इति व्याप्तिरस्ति । असद्रूपादपि कामादेः कान्तालिङ्गनादिष्विव स्वप्नविभ्र- मस्योपलम्भात् । किंच कादाचित्के विभ्रमे सारूप्यापेक्षा नानाद्यविद्यानिव- न्धनं प्रपंचे तदुक्तमाचार्यवाचस्पतिना-विवर्तन्तु प्रपञ्चोऽयं ब्रह्मणोऽपरिणा- मिनः । अनादिवासनोदभूतो न सारूप्यमपेक्षते ॥' इति । अस्य मतस्य सङ्ग्राहकः श्लोकः ॥ " ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः" इति ॥ . ।
५ रामानुजमतम् (विशिष्टाद्वैतमतम्) विशिष्टाद्वैतशब्दार्थ:-चिदचिद्विशिष्टस्य परमात्मनोऽद्वैतमथवा सूक्ष्मश- रीरविशिष्टस्य कारणरूपस्य परमात्मनस्तथा स्थूलशरीरविशिष्टस्य कार्यरूप- स्य परमात्मनश्चेत्युभयोरद्वैतम् । पदार्थास्त्रिविधा आचिच्चिदीश्वरभेदेन । तत्र प्रकृतिकालशुद्धसत्त्वभेदेनाचित्पदार्थस्त्रिविधः । तत्रापि प्रकृतिस्त्रिधा सूक्ष्म- सूक्ष्मतरसूक्ष्मतमेतिभेदेन । साच क्रमेणाव्यक्ताक्षरतम इति संज्ञिका । ईश्वरः परमात्मा स एव ब्रह्मेत्यभिधीयते । चिदचित् (जीवजड ) पदार्थात्मकमी- श्वरस्य शरीरं तच्छरीरमपि स्थूलसूक्ष्मभेदेन द्विविधं सूक्ष्मशरियुतः पर- मात्मा स्थूलस्य जगत उपादानकारणम् । परमात्मन्यप्राकृताः शब्दस्पर्श- रूपरसगन्धाः शक्तिज्ञानानन्दादयश्च गुणाः सन्ति । सच सर्वाश्रयो व्यापकश्च तज्ज्ञानं शरीरमपि व्यापकम् । सच पंचविधः परव्यूहविभवान्तर्याम्यर्चाव- तारभेदेन । स एव सूक्ष्मचिदचित्पदार्थयुक्तो जगत उपादानं विशेषसंकल्प- युक्तश्च निमित्तकारणं भवति । तथा कालाद्यन्तर्यामितया सहकारिकारणं च भवति । अयं परमात्मा सर्वेषां चेतनाचेतनवस्तुनां प्रेरकः कर्मानुकूलफल- प्रदोऽप्युदासीनः सर्वजीवानां जडानां च नियन्ता कल्याणगुणपूर्णो हेय- गुणप्रत्यनीकः सर्वान्तर्याम्यचिन्त्यशक्तिबलैश्वर्यवीर्यतेजःसंपन्नो भक्तिलभ्य- श्वास्ति । जीवजडौ परमात्मनः शरीरभूते । एतद्विशिष्टपरमात्मातिरिक्तं जगति किंचिन्नास्ति । यद्यपि जीवजडौ विशिष्टपरमात्मनोऽनतिरिक्तौ तथापि केवलपरमात्मनस्तौ भिन्नौ नित्यौ च चिदपरायो जीवः स चाणुर्नतु व्यापकः । सच चेतन ईश्वराधीनकर्तृत्वगुणः स्वप्रकाशः सुखी नित्यः प्रति- शरीरं भिन्नश्च । सच बद्धमुक्तनित्यभेदेन त्रिविधः। ब्रह्मादिकीटान्ताः सर्वे संसारिजीवा बद्धाः । विमुक्तसंसाराः प्राकृतसूक्ष्मशरीररहिता वैकुण्ठे भगव- संनिधिनिवासिन आविर्भूताष्टगुणा ये ते मुक्तजीवाः । मूलत एव संसार- संबन्धरहिताः परमात्मेच्छानुवर्तिनोऽसंकुचितज्ञाना येऽनन्तगरुडादयस्ते सर्वे नित्यजीवाः । जीवात्मानोऽनन्ताः । जगत्प्रवाहश्चानादिः । नित्यजीवाः स्वे- च्छया लीलाविभूतिष्ववतारं धारयन्ति । एतेषु नित्यजीवेषु यथाधिकार तारतम्यं वर्तते । मुक्तजीवेषु तारतम्य नास्ति । तेषां न कोऽप्यधिकारो नवा तेषामवतारधारणम् । मुक्तौ जीवैः परमात्मसादृश्यं लभ्यते न त्वैक्यम् । जीवो ज्ञातृस्वरूप आनन्दस्वरूपश्च तथा कर्ता भोक्ता । तस्य शरीरं प्रकृ- तिजन्यं पांचभौतिक सच स्वयं परमात्मनः शरीरभूतः। जीवात्मा लिङ्गदे- होपाधिना संसरति । सच लिगदहः प्राकृतोऽनादिश्च । उपाधिभूतलिङ्गदे- हत्यागेन जीवन माशो लभ्यते । मोक्षावस्थायामपि जीवस्य ज्ञातृत्वं न ही. यते । मोक्षार्थे जीवस्य ब्रह्मविचारा विधीयते । तत्र पूर्ववृत्तं कर्म ब्रह्मज्ञा- नेऽङ्गभूतम् । न साधनचतुष्टयसंपत्त्यानन्तर्य तत्रापेक्ष्यते । यत्रेश्वरनित्यजी- वमुक्तजीवाश्च विविधभोगानुपभुञ्जते । यत्रच कर्मरूपाविद्या न संभवत्यसौ देशः शुद्धसत्त्वमित्यभिधीयते । एतत्सत्त्वं प्राकृतसत्त्वगुणतो विलक्षणम् । ज्ञानं स्वप्रकाशं चेतनं व्यापकं बुद्ध्यपरपर्यायं चास्ति । जीवेश्वरौ तदाधारभूतौ तयोर्धर्मो ज्ञानं तच्च स्वतः प्रमाणं बद्धदशायां तत्कर्माच्छन्नं संकुचितं भवति मोक्ष तु तद्विकसितं भवति । प्रकृतिपदार्थों जडो नित्यश्च । तया परमा- स्मस्वरूपमाच्छादितं भवतीति कर्मवश्या बद्धजीवा मन्यन्ते । इयं प्रकृतिः सत्त्वरजस्तम इति गुणत्रयामिका चतुर्विंशतितत्त्वात्मिका च । तानि तत्त्वानि प्रकृतिमहत्तत्त्वमहंकारो मनः पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च तन्मात्राणि पञ्च महाभूतानि चेति । एतेषु प्रथमतत्त्वं प्रकृत्याख्यं सर्वेषां जडानां मूलकारणम् । एतदतिसूक्ष्मं सृष्टयादौ परमात्मन इच्छया प्रकृत परिणम्यमानायां यथा यथा सक्ष्मता हीयते तथा तथावस्थान्तरं भवति तत्र प्रथमावस्था तम इत्यभिधीयते । द्वितीयावस्थाक्षरं, तृतीयावस्थाव्यक्तं च । इदं तृतीयमव्यक्तं नाम कार्योन्मुख्यव्यवस्था, अव्यक्तानन्तरं जायमानाः सर्वे परिण मा व्यक्ताः । तत्र प्रथमपरिणामो महत्तत्वम् । अत्र गुणत्रयसा. म्यं नास्ति । त्रिवन्यतमो गुणः प्रबलो भवति । महत्तत्त्वं ब्रह्मणः शरीरम् । अम्माज्जायतेऽन्तःकरणवृत्तिबुद्धिनानी निश्चयाख्या । महत्तत्त्वात्सत्त्वगुण. प्राबल्येन जायमानः सात्त्विकोऽहंकारी बैंकारिक इति कथ्यते । अस्मात्सा- त्त्विकाहंकारात्पंच ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्चोत्पद्यते । एतदेव मनः स्मृत्यादीनां साधनं सर्वेन्द्रियाणां प्रेरक संसारबन्धकारणीभूतं च । अचिद्वस्तूनां यथा महत्तत्त्वादिरूपेण परिणामा भवन्त्येवं जीवात्म्नो ज्ञान- धर्मसंकोचविकासादयोऽवस्था भवन्ति । तथात्मनोऽपि सृष्टयादिसंकल्पाद- योऽवस्था भवन्ति । जडव्यापाराः सदा परबुद्ध्यवलम्बनेन संभवन्ति । पर- मात्मनः सर्वे व्यापाराः स्वबुद्धयवलर रम्बनेन संभवन्ति । जीवस्य तु केचिदेव व्यवहारा ईश्वरबुद्ध्यवलम्बनेन केचित्स्वस्य परमेश्वरस्य चेत्युभयोर्बुद्धिमव- लम्ब्य प्रवर्तन्ते । केवलमेव स्वबुद्धिमवलम्ब्य जीवेन व्यवहारः कर्तुं न श. क्यते । जडपदार्थाः सदान्यस्य शरीरं भवन्ति । आत्मत्वं तु तेषां नास्ति । तथे- श्वरः सदात्मैव शरीरत्वं तस्य नाप्ति । जीवस्तु स्थूलदेहस्यात्मा । ईश्वरस्य शरीरमित्युभयं भवति । अन्तर्नियामकत्वं चात्मशब्दप्रवृत्तिनिामित्तं तेन जीवः परमात्मति द्वयमप्यात्मशब्देन व्यवह्रियते । अन्तर्यामित्वस्य परा काष्ठा परमात्मेति । ज्ञानं द्विविधं स्वरूपभूतं धर्मभूतं च । तत्र स्वरूप- भूतज्ञानं जीवाभिन्नं धर्मभूतज्ञानं तु ततः पृथक् । एवंच स्वरूपभृतज्ञान- दृष्टया ज्ञानस्वरूपो जीवः । स एवाहमिति प्रतीत्या भासमानत्वाज्ज्ञ- योऽपि । तथा तादृशज्ञानवत्वात् स एव ज्ञातृस्वरूपोऽपि । पञ्चीकृत- पञ्चमहाभूतानि महत्तत्त्वमहंकारश्चेति सप्त तत्त्वानि प्रकृतिश्चेत्यष्टभ्यः शरी रोत्पत्तिः । ततस्तच्छरीरं पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि मनश्च भूष- यति । भक्तिः प्रपत्तिश्चेति मोक्षसाधने । भक्तिर्भजनम् । अनन्यभावेन पर- मेश्वरः शरणीकरणीय इति प्रपत्तिः । साधनक्रमश्चत्थम्-क -कर्मज्ञानयोगौ भक्तिकारणम् । साधनभक्तिः प्रपत्यङ्गम् । साच प्रपत्तियंत्र देहे तद्देहपात एव मोक्षः । अत्र मते प्रत्यक्षमनुमानमागमश्चेति प्रमाणत्रयम् । अन्यप्र- माणानामत्रैवान्तर्भावः । अत्र मते सख्यातिः । जीवन्मुक्तिर्नास्ति । अत्र मतेऽद्वैतवाद्यादृतो विवर्तवादः खण्ड्यते परिणामवादश्च स्वीक्रियते । तत्ता- त्पर्यमित्थम्-जगति विद्यमानानि सर्ववस्तूनि सत्यानि तानि मूलप्रकृति. परिणामभूतानि च । श्रुतिगतानि — असत्यं ' 'नास्ति' इति पदानि न मिथ्यार्थबोधकानि किन्तु विनाशित्वबोधकानि । परिणामिपदार्थस्वरूपं तत्तदवस्थासु भिद्यतेऽतस्ते पदार्था असत्या विनाशिन इत्युच्यन्त नतु मिथ्याभूतत्वं तेषामिति मन्तव्यम् । एवं च जगत्सत्यमिति राद्धान्तः । ६ अद्वैतविशिष्टाद्वैतयो(लक्षण्यस्य स्थलानि । १ आत्मरूपमेकमेव अन्यन्नास्त्येव । १ चिदचिद्रूपशरीरविशिष्ट आत्मैक एव । तच्छरीरादन्यत्किचिन्नास्ति । २ आत्मा निर्विशेषो निर्गुणश्च । २ आत्मा सर्वज्ञत्वादिविशेषयुक्तः । अनन्तकल्याणगुणाश्रयः । तत्र हेय- गुणा न सन्ति ।
१० - - यम्। ३ मात्मा ज्ञानस्वरूपा , ज्ञानगु- ' ३ आत्मा ज्ञानस्वरूपोऽपि ज्ञानगु- णवान् । अतएव तम्य न वस्तुतो णाश्रयः । वस्तुत एव तस्य ज्ञातृ- ज्ञातृलम् । त्वम् । ४ आत्मा म्वरूपण कूरम्थनित्यः। ४ परमात्मा स्वरूपेण कूटस्थानित्यः । तेनैव रूपेणाद्वितीयश्च । चिदचिद्रूपशरीरविशिष्टरूपेण तु प- रिणामिनित्यः । विशिष्टरूपेणैवाद्वि- तीयः। ५ परमात्मन एव मायोपाधिकमी- : ५ परमात्मैवेश्वरः । तच्छरीरभूतो श्वरत्वमविद्यापाधिकं जीवत्वम् । जडं जीववर्गों जडवर्गश्च । ततो भिन्न तु प्रातिमासिकं मिथ्यैवेत्येकमेव वति । चिदचिदीश्वररूपं तत्त्वत्र- तत्त्वम् । ६ परमात्मनः सकाशादभिन्नापि ६ परमात्मनः सकाशाद्वस्तुतो भिन्न भिन्नेव त्रिगुणा परमात्मशक्तिरज्ञा- त्रिगुणात्मकं प्रवानं जगतो मूल- नादिपदवाच्या तदुपहितः परमात्मा प्रकृतिः । जगतो मूलप्रकृतिः । ७ अस्मिन्मत विवर्तवादः । अज्ञा ७ अस्मिन्मते परिणामवादः प्रधान- नेन परमात्मन्येवेदं जगद्धासत इत्ये- : मेवान्तर्यामीश्वरसांनिध्याज्जगदाका- वरूपः । अत्र रज्जुसर्पदृष्टान्तः । रेण परिणमत इतिरूपः । अत्र पयो- दधिदृष्टान्तः । ८ परमात्मविवर्तभृतं प्रातिभासिक ८ प्रधानपरिणामभूतं चेदं जगत्स. मिदं जगन्मिथ्येव । ९ अत्र मतऽनिर्वचनीययातिः । ९ अत्र मते सत्ख्यातिः । वस्तुतः अनिर्वचनीयं चेदं जगदज्ञानदोषेण सत्यमेव जगत्प्रतीयत इतिरूपा । भासत इतिरूपा । १० शुक्तिरजतस्थले स्वप्नादौ चा १. शुक्तिरजतस्थले स्वप्नादौ च निर्वचनीया एवार्था भासन्ते । सत्या एवार्थाः प्रतीयन्ते । ११ तत्त्वमस्यादिशास्त्रमपि जग ११ तत्त्वमस्यादिशास्त्रं सत्यमेवात न्दतर्गतत्वादसत्यमेव । तथापि त- एव तत्तत्त्वज्ञानसाधकम् । त्यमेव ।
-- त्वज्ञानसाधनं भवत्येव । स्वानप- दार्थवत् । १२ प्रमाणानि षट् । प्रत्यक्षानु- १२ प्रमाणानि त्रीणि । प्रत्यक्षानुः मानोपमानागमार्थापत्त्यनुपलब्ध्या- । मानागमरूपाणि । ख्यानि । १३ परमात्मनोऽभिन्ना जीवाः । १३ जीवाः परमात्मनः सकाशा- तेषां परमात्मवदेव ज्ञानस्वरूपत्वं द्भिन्नास्तच्छरीरभूता अपि ज्ञानस्व- नतु वस्तुतो ज्ञानाश्रयत्वं किन्त्वन्तः- रूपा ज्ञानगुणकाश्चेति तेषां वस्तुत करणोपाधिकं ज्ञातृत्वम् । एव ज्ञातृत्वम् । १४ जीवो व्यापकः। १४ जीवोऽणुरूपः। १५ जीवो ब्रह्मस्वरूपत्वादेक एव । १५ जीवा वस्तुत एव नानाविधाः। तदनेकत्वं त्वौपाधिकम् । जीवाद्वैत तु प्रकाराद्वैतम् । १६ साधनचतुष्टयसम्पत्त्यनन्तरं ब्र. १६ कर्मस्वरूपज्ञानानन्तरं ब्रह्माज- ह्मजिज्ञासा । ज्ञासा। १७ तत्त्वमस्यादिमहावाक्यैरात्मसा- १७ तत्त्वमस्यादिमहावाक्यजन्योपा- क्षात्कारेऽविद्यानिवृत्त्या शरीरसत्त्वे- सनादायेन परमात्मा प्रसन्नो भवति ऽपि जीवद्दशायां मुक्तिः । तथापि यावच्छरीरं सुखदुःखानु- भवावश्यकत्वान्न जीवदशायां मुक्तिः। १८ प्रारब्धकर्मणां भोगेन क्षये १८ प्रारब्धकर्मक्षये लौकिकशरीर- शरीरत्यागे स्वस्वरूपेऽवस्थितिरूपा त्यागे दिव्यदेहप्राप्त्या परमात्मना विदेहमुक्तिः। सह परमं साम्यं भवति । इयमेवा- स्मिन्मते मुक्तिः । १९ मुक्ती जीवब्रह्मणोर्मेदो नास्ति । १९मुक्तावपि जीवब्रह्मणोर्मेदोऽस्ति। २० मुक्तावस्थायां न लेशतोऽपि २० मुक्तावस्थायां दुःखलेशेना- दुःखं न सुखं भवति । भिन्नः सुखाधिक्यमनुभूयते । ७ प्रमाणसंख्याविचारः। श्रीमच्छङ्कराचार्याणां प्रत्यक्षादीनि त्रीणि प्रमाणानि संमतानि चत्वारि षड्वा । यतः काठकोपनिषदि त्रिणाचिकेत' १।१।१७ इति कारिकायां भा- १२ व्ये प्रत्यक्षानुमानागमैरिति प्रमाणत्रयस्य ग्रहणं कृतम् । मुण्डकोपनिषदि परी- क्ष्य लोकान् । १।२।१२ ३त्यत्र भाष्ये प्रत्यक्षानुमानोपमानागमैरिति निर्दि- श्यते । अन्यत्रच बहुषु भाष्यस्थलेषु प्रत्यक्षानुमानोपमानागमार्थापत्त्यनुप- लब्ध्याख्यानि षट् प्रमाणान्यङ्गीकृत्य विचारः क्रियते। तत्रेदं सर्वसंमतं यदाचार्याणां भाप्यकृतां पहपि प्रमाणानि समतानि। यतो जैमिनीयनये षट् प्रमाणानि पुर्वोक्तान्यादृतानि । उत्तरमीमांसाभाष्यमेतत् । उत्तरमीमांसायाश्च पद्धतिरियं पूर्वमीमांसास्थं यदनभिमतं तत्खण्ड्यते । यदभिमतं तन्न खण्डयते प्रमाणसंख्याखण्डनं तु कुत्राप्युत्तरमीमांसायां न दृश्यते तेन पूर्वममिांसोक्तं प्रमाणषट्कमप्यत्राभिमतं तदेव भाष्यकृतामपि संमतम् । षट्त्स्वपि प्रमाणेषु वेदरूपशान्दप्रमाणस्य श्रेष्ठत्वं वेदस्यैवाप्रतिहतं प्रामाण्यं वेरिव रूपविषये' इति शारीरभाष्ये निर्दिशद्भिराचार्यैरङ्गीकृतमित्यन्यत् । तर्हि काठकमुण्डक. भाप्यनिर्दिष्टसंख्ययोः का गतिरिति चेत् । तत्रंदमुच्यते । पूर्वोक्तरीत्यागम- प्रामाण्यमवश्यमङ्गीक्रियतामन्यप्रमाणविषये तु नास्माकमाग्रहः कणादा. दिवत् त्रयं चतुष्टयमेव वा भवतु प्रमाणानामिति द्योतयितुं तथा निर्देशः । तेनाचार्याणां प्रमाणषट्कमेव संमतं तत्राप्यागमप्रामाण्यस्य श्रेष्ठत्वमत एव सर्वत्र प्रमाणसंख्यानिर्देशेषु आगमप्रमाणस्य ग्रहणमिति सर्वमनवद्यम् । ८ आग्निहोत्रादीनां स्वरूपम् । यस्यामिहोत्रमदर्शमपौर्णमासमित्यादिमन्त्रेऽग्निहोत्रदर्शपौर्णमासचातुर्मास्या- ग्रयणानां निर्देशः । तत्स्वरूपं कथ्यते । १ अमिहोत्रम् । अमिहोत्रं जुहोतीति श्रुत्या विहितं प्रतिदिनमनुष्ठीय- मानं कर्म । तच्च सायं प्रातरिति प्रत्यहं द्विः क्रियते । तत्र प्रत्येकमाहुति- द्वयम् । २ दर्शपौर्णमासम् । अयं च यागोऽन्याधानानन्तरं प्रतिपक्षं पौर्णमा- स्याममायां च भवति । दर्शपौर्णमासाभ्यां स्वर्गकामो यजेतेत्यनेन विहितः । अत्र प्रजानानुयाजादयोऽङ्गम् । ३ चातुर्माम्यम् । अयं चातुर्मास्ययागो दर्शपौर्णमासवदेवामिहोत्रानन्तरं भवति । चातुर्मास्यं नाम सप्तसु हविःसंस्थास्वन्यतमा संस्था । ताः सप्त- हविःसंस्थाः १ अग्निहोत्रम् २ दर्शपौर्णमासौ ३ आग्रयणं ४ पिण्डपितृयज्ञः ५ चातुर्मास्यानि ६ निरूढपशुबन्धः ७ सौत्रामणीतिसंज्ञकाः। चातुर्मास्य- यागे वैश्वदेववरुणप्रधाससाकमेधशुनासीरीयप्रभृतीनि पर्वाणि चतुर्षु चतुर्ष मासेषु भवानि तैः समुदितैयागश्चातुर्मास्यसंज्ञकः । अस्य यागस्य फलं चिर- स्थायि । — अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति' इति श्रुतेः । ४ आग्रयणम्-एतदपि पूर्वाक्तसप्तहविःसंस्थान्तर्भूतमेव कर्म । अग्रे अयनं भक्षणं येन कर्मणा तदारयणं प्रथमद्वितीययो स्वदीर्घव्यत्यय आर्षः। अत्र नवानां व्रीहिश्यामाकयवानां हविषां भक्षणमुक्तम् । तस्य च शरत्काल उक्तः । अथवा यत्र नवसस्यानामग्रपाको देवान्नीयते तदारयणं नाम नित्यं कर्म तेनानिष्ट्वा सर्वमेव सस्यं नाश्नीयात् । तथाच • नास्य ब्राह्मणोनाश्वान् गृहे वसेत् । इत्यनेनाग्निहोत्रिणो व्रतमध्य एवातिथिभोजनं विहितम् । तदुक्तमतिथिवर्जितमासप्तमांस्तस्य लोकान् हिनस्तीति । ९ मुण्डकोपनिषत्तात्पर्यम् । मुण्डकोपनिषदि त्रीणि मुण्डकानि तत्र प्रतिमुण्डकं खण्डद्वयम् । एवं षट् खण्डानि । तत्र प्रथमखण्डे-आदौ ब्रह्माथर्वादिगुरुशिष्यपरंपरा प्रदर्शिता । तत्र महागृहस्थः शौनकोङ्गिरसं समिद्ग्रहणपूर्वकं सप्रश्रयं शरणगमनेन पप्रच्छ। हे गुरो उपदिश तदेकं यस्मिन् विज्ञात इदं सर्व विज्ञातं भवतीति । तमेतं प्रश्नमपाकर्तुमाङ्गिशः प्राह । वेदार्थाभिज्ञानां मतेनात्र जगति परा, अपरेति विद्याद्वयं वर्तते । तव प्रश्नस्योत्तरार्थ परा विद्यैवालम् । परं, अपरविद्यायाः परिहारो यावन्न कृतस्तावत्सरविद्याप्राप्तिन भवति । तदर्थं परिहाराय, अपरा विद्या प्रथमं प्रोच्यते । साच साङ्गवेदचतुष्टयरूपा । तस्यामपरविद्यायां कर्माण्युक्तानि । तान्यपहाय ज्ञान परब्रह्मात्मकमुररीकर्तव्यं तदर्थ परा विद्यो. च्यते ततश्च परा विद्ये यनेनोपनिषत्प्रतिपाद्यं ब्रह्मज्ञानं ग्राह्य नोपनिषच्छब्द- राशिः । यतस्तदधिगमेऽपि वैराग्यादिसाधनचतुष्टयसंपत्तिमन्तरेण ब्रह्मप्राप्ति- दुर्लभा । अत्र चक्षुरादीन्द्रियागोचरं निरवयवं शुद्धं सर्वव्यापीत्यादि रूपं भूतकारणं ब्रह्म प्रोक्तम् । तज्ज्ञानं च विवेकिनामेव सुगममित्युक्तम् । ततो भूत. कारणत्वं दृष्टान्तत्रयेण यथोर्णनाभिरित्यादिनोक्तम् । एतैस्त्रिभिदृष्टान्तर्विजातीयं सजातीयं च समस्तं जगत् निमित्तान्तरानपेक्षादद्रेश्यादिरूपादक्षरात्संभवतीति प्रतिपादितम् । अथच मुष्टिगतानि बदरीीण यथा पतन्ति तथा ब्रह्मणः सका- शाजगत न जायते किंतु तदुत्पत्तावम्ति क्रमोन्नप्राणादिरूपः । स चोक्तः । तपसा चीयत इत्यादिना । अस्यैवार्थस्योपसंहारोन्त्यमंत्रण ॥ १॥ पूर्वखण्ड परापर विद्ये उक्त तयोविषयांवभागोत्र खण्डे वर्ण्यते । तत्र षड्भिर्मन्त्रः कर्मामिहोत्राद्यात्मकमुक्त्वा तदनुष्ठानप्रकारः फलं चोक्तम् । ततः प्लवा खेत इन्यारभ्य ज्ञानरहितं कर्म श्रौतं स्मातच न श्रेयसे किंतु तदनुष्ठा- यिनाऽन्धेनैव नीयमाना अन्धा इव विभ्रमन्नि गर्तकण्टकादौ । ततः पुण्य- वशात्कंचित्कालं स्वर्ग स्थिता मानुपं जन्म ततोऽपि वा हीनतरं पश्वादिजन्म लभन्त । ये तु श्रौतम्मातकर्म परिहाय संन्यासिनो हिरण्यगर्मादीनुपासते तेचिंगदिमागंण रिण्यगर्भलोकमाप्नुवन्ति । परं तत्रापि न निरतिशया मुक्तिः । अतः मंसारगतिभूनान लोकान् कदलीगर्भवदसारान् मत्वा वैराग्य- संपन्नी मुमुक्षुब्रह्मविज्ञानार्थं ब्रह्मनिष्ठ श्रोत्रियं गुरुं गच्छत् । सोपि विद्वान् गुरुः साधनचतुष्टयमंपन्नाय तम्मे शिप्याय ब्रमविद्यामुपदिशेत् । एवं चात्र खण्डे यज्ञादयो विनाशिनो विनाशि फलं संपादयन्ति। ज्ञानं तु गुरोः सकाशा- ज्जायमानं निरतिशयं माझं यच्छतीति विषयविभागो दर्शितः ॥ २०॥ अथ तृतीयखण्डऽक्षरब्रह्म प्रतिपाद्यते । यतः 'येन विज्ञातेन सर्व- मिदं विज्ञातं भवति' इति शिष्यण पृष्टं तत्प्रतिवक्तव्यम् । तत्प्रकारश्चेत्थम् । भोः शिष्य, ब्रह्माक्षरपुरुषःख्यं ज्ञेयं तस्मादेव सर्वमिदं प्रभवति । ततश्च ज्ञातेन ब्रह्मरूपापादानकारणेन ततो जायमानमिदं कार्यरूपं जगत् सर्व विज्ञातं स्यात् । अत्रीपादानापादयभावोऽध्यासद्वारा । तदर्थे प्रथममन्त्रेऽ- मिस्फुलिङ्गदृष्टान्तमाद । सच यथा-सुदीप्तादग्नेर्यथा विस्फुलिङ्गा भवान्त तद्वत् अक्षरब्रह्मणः सर्व भावा उत्पद्यन्तं तत्रैव विलीयन्तेच । तदने भन्त्रा- टकन सर्वेषां प्राणादीनामुत्पत्तिब्रह्मणः सकाशादिति प्रतिपादितम् । चरम- मन्त्रे एतत्सर्व पुरुष एव । अर्थादेतत्सर्व पुरुषेऽभ्यस्तम् । ततश्चाधिष्ठान- भूतरज्जुज्ञानेऽध्यम्तवस्तूनां सर्पादीनां ज्ञानं यथा तथाधिष्ठानभूतब्रह्मज्ञाने सर्ववस्तुज्ञानं सुकाम ! तच्च ब्रह्म हृदयगुहायां निहितं तत्र तज्ज्ञात्वा ज्ञान- वान अम्मिन्नेव जन्मनि अविधाप्रन्थि नाशयति । अत्र मन्त्रे इहेतिपदं जीवन्मुक्तिं बोधयति ॥ ३ ॥ अथ चतुर्थखण्डे ब्रह्मज्ञानं तत्लाप्त्युपायश्च प्रोच्यते । सचैकाग्रेण चेतसा प्राध्यानरूपः । ब्रह्मध्यानस्य परा काष्ठा ध्यातृध्येयादिभेदविस्मरणपूर्वकं ब्रह्म- मयतासंपादनम् । ब्रह्मज्ञाने प्रवृत्त्या ॐ काररूपप्रतीकोपासनमप्यत्र प्रोच्यते । पूर्वोक्तप्रकारेण ब्रह्ममयतासंपादने विवेकिनां हृदय पूर्णमानन्दरू- पं ब्रह्म प्रकाशत । ततस्तेषां हृदयग्रन्थिभिद्यते । सर्वसंशयोच्छेदः कर्मक्षयश्च भवति । एतदेव संक्षेपतस्त्रिभिरन्तिमैर्मन्त्रैर्बोधितम् ॥ ४ ॥ पूर्वखण्डे सत्यमक्षरं येन प्राप्यते तज्ज्ञानं तत्प्राप्युपायश्च योगोमिहितः। अत्र तत्सहकारि सत्यादिसाधनं वक्तुमुपक्रम्यते । किंच पूर्व कृतमपि तत्त्व- निर्धारणं दुर्जेयत्वात्पुनः प्रकारान्तरेण क्रियते । स प्रकारश्चेत्थम् । अस्ति कश्चन वृक्षश्चिछद्यमानरूपत्वाच्छरीररूपः । यत्र द्वौ पक्षिणी सखिभूता- वारूढौ । तयारन्यतरो जीवाख्यः स्वादृनि कर्मफलान्यत्ति स्म शिवं च विसस्मार। अथ चान्यतरः शिवाख्यः केवलं भक्षयन्तं तं पश्यत्येव नतु स्वयं भक्षयति । यश्च फलभोजी पक्षी दीनभावेन सर्वकर्मासमर्थोहं किं मे जीवितेनेत्यादिना शोचति । अन्यस्तु द्रष्टा न शोचति कर्मफलोपभोगाभावात् । ततः पूर्वोक्तो जीवः शुभसंचितवशात् परमकारुणिकन गुरुणा दार्शतयोगमार्गः शमादि- संपन्नः समाहितात्मा सन् असंसारिणमीशं तन्महिमानं स्वाभेदरूपं पश्यति तदा दीनभावाद्विमुक्तः सन् कृतकृत्यो भवति । एतादृशाभेदज्ञानप्राप्ती साधकस्य जीवस्य सत्यं तपश्च सहकारिसाधनम् । ततः परं प्राप्यमाणं ब्रह्म दिव्यमिन्द्रियागोचर केवलज्ञानगम्यमित्यादिरूपेण वर्णितम् । उपसंहारे च ब्रह्मप्राप्तौ सर्वलोकावाप्तिरूपं फलं प्रदर्शितम् । षष्ठे खण्डे -पूर्वखण्डोक्तं ब्रह्म मुमुक्षुभिर्निष्कामैलभ्यते न कामकामि- मिः । एवं ब्रह्मदर्शनेन पर्याप्तकामा मुमुक्षवः प्रकृतशरीरे विद्यमान एव मुक्ता भवन्ति । जीवन्मुक्ता एव भवन्तीति तात्पर्यम् । अथ चात्र खण्डे ब्रह्म प्रवचनादिना न लभ्यते किन्तु तद्विषयया दृढेच्छया लभ्यते एवमधिगत आत्मा स्वीय रूपं साधकं प्रति दर्शयति । ततो जीवन्मुक्तास्ते देहपरित्यागे विदेह मुक्ता भवन्ति । समुद्रं गतानां गङ्गादिसरितां यथा नामरूपाद्वि- मुक्तिस्तथा परं पुरुषमापन्नानां मुक्तानां नामरूपाद्विमुक्तिः । तत एतद्ब्रह्म वेद यः स ब्रह्मरूपो भवतीत्युक्त्वा तत्कुलेपि न कश्चनाब्रह्मविद्भवतीत्यर्थवाद उक्तः । अयमर्थो मन्त्रेणोक्त इति मन्त्रप्रदर्शननोक्तम् । यः शिरोवतमनु- ष्ठितं तेभ्य एवेयं विद्या प्रदेयेति मन्त्रार्थः । ततः पूर्वखण्डोक्ता परम्परा १६ 1 घोतिन्याख्यायिका समापिता ॥ तत्र ' नैतदचीर्णवतोधीते' इत्यनेनैवं घोत्यते यत् येनाथार्वणिकन शिरोव्रतमनुष्ठितं तेनैव गुरुणा यैः शिरो- व्रतमनुष्ठितं तेभ्य एव शिष्येभ्यः प्रदेया । शिरोवते हि एकर्षिनामकोऽमिः पात्रान्तरिततया शिरसि धारणीयो भवति । एवं च मुण्डके शिरस्याग्निधारणे- नेयं मुण्डकोपनिषद्विद्या बोध्यते । अत एवास्या उपनिषदो मुण्ड- केति संज्ञा । तेन ' हर्टेल' महाभागेन कल्पितं जैनानां स्यादियमुपनिषत् मुण्डकम् ' इति संज्ञाघटितत्वात्तेषां च मुण्डितमुण्डत्वादिति । तदपास्तम् । १० अन्वयक्रमेण यत्र व्याख्यानं तानि स्थलानि । मगवत्पूज्यपादश्रीमच्छंकराचार्याणामियं व्याख्यानशैली यत्ते मूलक- मेण पदानां व्याख्यानं कुर्वन्ति कुत्रचिदन्वयक्रमेण व्याख्यानं मध्ये मध्ये दृश्यते तथात्र मुण्डकोपनिषदि केषुचित् मन्त्रेषु । ते मन्त्रा अधस्तात्प्रद- यन्ते । १-१।२।६ २-१।२।११ ३-१।२।१३ १-२।२।९ ५-३।२।६ ११ अध्याहारस्थलानि । अत्र मुण्डकोपनिषदि श्रीशंकराचार्याख्यानसमयेऽध्याहारास्तत्त- च्छब्दानां कृताः । तानि स्थलानि तत्तच्छब्दनिर्देशपुरःसरम् । प्रथममुण्डके द्वितीयखण्डे पञ्चमो मन्त्रः । अत्र भूत्वेत्यस्याध्याहारः। १।२।१२ अत्र ' इह ' इतिपदं तदने किं कृतेनेत्यादौ । किम् ' इत्यस्य चाध्याहारः ॥ १२ कर्मगतीनां विध्यम् । केवलमिष्टापूर्तदत्तादिकर्मभिर्नरा दक्षिणमार्गेण गच्छन्ति । अयमेव दक्षिणमार्गो धूममार्ग इति कथ्यते सच धूमो रात्रिस्तथा कृष्णः ॥ इत्यादिना भगवद्गीतासूक्तः । अनेन मार्गेण स्वर्ग गता यावत्कर्मफलोपभोग तत्र स्थित्वा भूलोकेऽवशिष्टकर्मानुसारेण जन्मलब्धये पुनरावर्तन्ते । तथाचोक्तं ' क्षीणे पुण्ये मृत्युलोकं विशन्ति ' इति । द्वितीयश्च-उत्तरमार्गः स एवार्चिार्ग इति कथ्यते । सच ' अमि- ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ॥” इत्यादिनोक्तः । अयं मार्गो निष्कामकर्मिभिरुपासकैश्च लभ्यते । अनन मार्गेण हिरण्यगर्भब्रह्मलोकं गच्छन्ति । तत्पर्यन्तं गमने मध्ये येऽग्न्यादयो लोकास्तत्र गतानामुपासकानां साहाय्यार्थं कश्चन पुरुष आगच्छति स आतिवाहिक इत्यभिधीयते स उपासकान् ब्रह्मलोकं गमयति । तत्रामानव पुरुषः स एनान् ब्रह्मलोकं गमयति" इति श्रुतेः । तत्साहाय्येनोपासका हिरण्यगर्भलोकं गत्वा तत्रैव निवसन्ति न ततो निवर्तन्ते पूर्वोक्तमार्गगामिन इव । ततो हिरण्यगर्भो यदा स्वाधिकारसमाप्तौ ब्रह्म गन्तुमुद्यतो भवति तदा तानुपासकान् ज्ञानेन संयोजय- ति । ततो ज्ञानसंपन्नास्त उपासका ब्रह्मणा सह मुक्ता भवन्ति परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ' इति श्रुतेः । एवं चास्मिन्मार्गे ज्ञानप्राप्ति- नियता पुनरावृत्तिश्च नास्तीति पूर्वस्माद्विशेषः । तृतीयश्च-~येच नेष्टादिकारिणो न चोपासकास्ते ' पुनरपि जननं पुनरपि मरणम् ' इति भूयोभूयोजननमरणरूपं संसारमनुभवन्ति तत्तानि नारककीटादियोनीर्लभन्ते । तथाच श्रुतिः-'अथैतयोः पथोर्न कतरेण चन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि । जायस्व म्रियस्वेत्येतत्तृतीयं स्थानम् ' इति । एवं प्राणिनां त्रिविधा गतिः । १३ जीवन्मुक्तिविदेहमुक्तिस्वरूपम् । अतोन्ये पूर्वसंचितवशात्साधनचतुष्टयसंपन्नाः श्रीगुरोरधिगतजीवपरमा- स्मैक्यभावाः संसारात्प्रमुच्यन्ते । तदा तेषां संचितक्रियमाणकर्मणोविनाशः । प्रारब्धं तूपभोगेन नश्यति । तावत्पर्यन्तं जीवन्मुक्तिः । प्रारब्धक्षये देह- नाशे तस्यैव विदेहमुक्तः । जीवन्मुक्तेर्वर्णनमत्रोपनिषदि — एतद्यो वेद नि- हितं गुहायां सोविद्याग्रन्थिं विकरतीह सेम्य ॥ २।१।१० इत्यत्र 'पर्याप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः ॥ ३।२।२" इत्यत्र च ' इह ' इति पदम् ॥ प्राकृतिकमरणे यथाप्राणादिसप्तदशावय- वकलिंगशरीरस्योर्ध्वगमनम् । तथा मुक्तस्य विदेहमुक्तिसमये न । 'न - तस्य प्राणा उत्तामन्ति, इहैव समवलयिन्ते ' इति श्रुतेः। प्राकृतिकमरणे पुनर्देहग्रहणार्थ लिङ्गशरीरस्योर्ध्वगमनमावश्यकम् । मुक्तौ देहग्रहणरूपप्रयो-. जनाभावादत्रैव प्राणादीनां वाय्वादिषु लयः॥ १४ जीवन्मुक्तिमीमांसा । अत्रापनिषदि जीवन्मुक्तिरस्ति द्वयोर्मन्त्रयोः 'इह ' इति पदोपलम्भात् । इति श्रीशङ्कराचार्याणामाशयः । एतदिहेति पदं भिन्नार्थकं तेन न जीवन्मुक्ति- वोधकमिति रामानुजाचार्याणामाशयस्तैः श्रीभाष्ये जीवन्मुक्तिर्नाङ्गीकर्तु शक्यत इति स्पष्टमुक्तत्वात् । अनयोर्मन्त्रयोाख्यानं रामानुजमतानुयायि- रङ्गरामानुजकृतप्रकाशिकायां यथाकृतं तथाधस्तानिर्दिश्यते । स्वयं रामानु- जाचार्यकृतमुपनिषद्व्याख्यानं न लभ्यते। यत इयं रङ्गरामानुजकृतप्रकाशिकवा- ध्ययनाध्यापनादिषु वर्तत । ततम्सेवाधस्तानिर्दिष्टा तदधः शाङ्करभाष्यं निर्दिष्टं तेन जिज्ञासूनामुभयोर्भेददर्शने सौकर्य स्यात् । अनन्तरं श्रीभा- प्यस्थं जीवन्मुक्तिखण्डनं प्रदर्शितम् - मुं.२।१।१० पुरुष एवंदं विश्व कर्म तपो ब्रह्म परामृतम् । एतद्या वेद निहितं गुहायां सो विद्याग्रन्थि विकिरतीह सोम्य ॥१०॥ रं. रा. प्रकाशिका -यस्मादसौ सर्वभूतान्तरात्मा तस्मात्सर्वमिदं पुरु- घोपादानकत्वात्पुरुष एव तम्मात्तद्विज्ञाने सर्वस्यापि ज्ञानमुत्पद्यत इति भावः । तम्य जगत्सृष्टयनुकूलः कर्मशन्दितो व्यापारः । स्रष्टव्यालोचनात्मकं तपः । एको व्यापी सदा शुद्धा निर्गुणः प्रकृतेः पर इति ब्रह्मशब्दितप्रकृतिपरभूत- मुक्तात्मनाममृतवत्परमानन्दतया भोग्यभूतं ब्रह्माप्यक्षरपुरुष एवेत्यर्थः । हे सोमाई हृदयगुहावत्येतदक्षरं ब्रह्मेह लोके यो वेद स ग्रन्थिवद् दुर्मोचाम- विद्यां विकिरति निरस्यति ‘कृ विक्षेपे ' इति धातुः ॥ १०॥ शाङ्करभाष्यम्-एवं पुरुषात्सर्वमिदं संप्रसूतम् । अतो वाचारम्भणं विकारो नामधेयमनृतं पुरुष इत्येव सत्यम् । अतः पुरुष एवेदं विश्वं सर्वम् । न विश्वं नाम पुरुषादन्यत् किंचिदस्ति । अतो यदुक्तं तदेवेदमभिहितम् कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ( मुं. १।१।३) इति । एतस्मिन्हि परस्मिन्नात्मनि सर्वकारणे पुरुषे विज्ञाते पुरुष एवेद विश्वं नान्य.
१९ दस्तीति विज्ञातं भवतीति । किं पुनरिदं विश्वमित्युच्यते । कर्मामिहोत्रादि लक्षणम् । तपो ज्ञानं तत्कृतं फलमन्यदेव । तावद्धीदं सर्वम् । तच्चैत ब्रह्मण कार्यम् । तस्मात्सर्वं ब्रह्म परामृतं परममृतमहमेवेति यो वेद निहितं स्थित गुहाया हृदि सर्वप्राणिनां स एवं विज्ञानादविद्याग्रन्थि ग्रन्धिमित्र दृढीभूता- मविद्यावासनां विकिरति विक्षिपति विनाशयति इह जीवन्नेव न मृतः सन् हे सोम्य प्रियदर्शन ॥ १०॥ मुं. ३।२।२ कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः ॥२॥ रङ्गरामानुजप्रकाशिका-यस्तु देवत्वम नुष्यत्वादीन् कामान् भोग्यतया मन्यमानः कामयते स तत्र देवत्वमनुष्यत्वादौ कामभिः कामैस्तत्तत्कामवशा- दिति यावत् । देवमनुष्यादिरूपेण जायते पयाप्त परिपूर्णे ब्रह्मणि कामना- वतो विदितात्मतत्त्वस्यास्मिन्नेव जन्मन्याशा लुप्ता न जन्मांतरप्रसक्तिरित्यर्थः । कृतात्मन इत्यत्र शब्द?रं करोतीत्यत्रेव कृधातोजीनमर्थः॥ २॥ शाङ्करभाष्यम् -मुमुक्षोः कामत्याग एव प्रधान साधनमित्येतद् दर्शयति । कामान्यो दृष्टादृष्टष्टविषमान् कामयते मन्यमानस्तद्गुणांश्चिन्तयानः प्रार्थयते, स तैः कामभिः कामैर्धर्माधर्मप्रवृत्तिहेतुभिर्विषयेच्छारूपैः सह जायत तत्र तत्र, यत्र यत्र विषयप्राप्तिनिमित्तं कामाः कर्मसु पुरुषं नियोजयन्ति,तत्र तत्र तेषु तेषु विषयेषु तैरिव कामेष्टितो जायते । यस्तु परमार्थतत्त्वविज्ञाना- त्पर्याप्तकामस्य कृतात्मनोऽविद्यालक्षणादपररूपादपनीय स्वेन परेण रूपेण कृत आत्मा विद्यया यस्य तस्य कृतात्मनस्तु इहैव तिष्ठत्येव शरीरे सर्वे धर्मा- धर्मप्रवृत्तिहेतवः प्रविलीयन्ति प्रविलीयन्ते विलयमुपयान्ति नश्यन्तीत्यर्थः । कामास्तजन्महेतुविनाशान्न जायन्त इत्यभिप्रायः ॥ २ ॥ रामानुजीयश्रीभाप्यस्थं जीवन्मुक्तिखण्डनम् । ( ब्रह्मसूत्र-१-१-४५. १५७ बॉम्बे संस्कृतसीरिजमुद्रित पुस्तकम् ) यतो वाक्यादपरोक्षज्ञानासंभवाद्वाक्यार्थज्ञानेनाविद्या न निवर्तते स्त एव जीवन्मुक्तिरपि दूरोत्सारिता | काचेयं जीवन्मुक्तिः । सशरीरस्यैव मोक्ष इति चेन्माता में वन्ध्यतिवदसंगतार्थवचनम् । यतः सशरीरत्वं बन्धोऽ- शरीरत्वमेव मोक्ष इति त्वयैव श्रुतिभिरुपपादितम् । अथ सशरीरत्वं प्रति- २० मासे वर्तमाने यस्यायं प्रतिभासा मिथ्येति प्रत्ययस्तस्य सशरीरत्वनिवृत्तिरिति न । मिथ्यति प्रत्ययन सशरीरत्वं निवृत्तं चेत्कयं सशरीरस्य मुक्तिः । अजी- वतोऽपि मुक्तिः सशरीर वमिथ्याप्रतिभासनिवृत्तिरेवेति कोयं जीवन्मुक्त इति विशेषः । अथ सशरीरत्वप्रतिमासा बाधितोऽपि यस्य द्विचन्द्रज्ञानवदनुवर्तते । स जीवन्मुक्त इति चन्न । ब्रह्मव्यतिरिक्तसकलवस्तुविषयकत्वांद्वाधक- ज्ञानस्य । कारणभूनाविद्याकर्मादिदोषः सशरीरत्वप्रतिभासेन सह तेनैव बाधित इति बाधिनानुवृत्तिर्न शक्यते वक्तुम् । द्विचन्द्रादौ तु तत्प्रतिभासहेतुभू- तदोषम्य बाधकज्ञानविषयीभूतचन्द्रैकत्वज्ञानाविषयत्वेनाबाधितत्वाद् द्विचन्द्र- प्रतिभासानुवृत्तिर्युक्ता । किंच “ तस्य तावदेव चिरं यावन्न वि. मोक्ष्ये अथ संपत्स्ये " ( छां. ६।१४।२ ) इति सद्विद्या निष्ठस्य शरीरपातमात्रमपक्षत मोक्ष इति वदन्तीयं श्रुति वन्मुक्तिं वारयति । सैषा जीवन्मुक्तिरापम्तम्बनापि निरस्ता वेदानिमं लोकममुं च परित्यज्यात्मानम- न्विच्छेत् । बुद्धे क्षमप्रापणम् । तच्छास्त्रैविप्रतिषिद्धम् । बुद्धे चेत्क्षेमप्रापण- मिहैव न दुःखमुपलभते । एतेन परं व्याख्यातम् ( आ.ध. सू. २।९।२१।- १३-१७) इति । अनेन ज्ञानमात्रान्मोक्षश्च निरस्तः । अतः सकलभे- दनिवृत्तिरूपा मुक्तिीवता न संभवति । यद्यपि पूर्वोक्तरीत्या खण्डनं कृत्वा रामानुजाचार्येरियं जीवन्मुक्तिन स्वीक्रियते तथापि तदुक्तदापनिरालपूर्वकं सर्वैरद्वैतिभिः शुद्धाद्वैतप्रतिपादकैर्व- ल्लभाचार्यैश्चैयं प्रतिपादिता। श्रीशङ्कराचार्यैरियं तत्र तत्र प्रतिपादिता स्वग्रन्थे परन्तु रामानुजाचार्यात्पूर्वकालीनास्ते न जानीयू गमानुजाचार्यप्रति- पादितदोषानिति शङ्का म्यात्कषांचिद्वादिनां तदर्थ रामानुजाचार्यकालादन- नन्तरं प्रभवतां विद्यारण्यानां वचोभिस्तत्सिद्धिः प्रदश्यते । विद्यारण्यकृत- जीवन्मुक्तों-१ अथ केयं जीवन्मुक्तिः । उच्यते । जीवतः पुरुषस्य कर्तृत्व- मोक्तृत्वमुखदुःख दिलक्षणश्चित्तधर्मः क्लेशरूपत्वाइन्धो भवति तस्य निवारणं जीवन्मुक्तिः । नन्वयं बन्धः किं साक्षिणो निवार्यते किंवा चित्तात् । नायः । तत्त्वज्ञान व निवास्तित्वात् । न द्वितीयः । असंभवात् । यदा तु जलाद् द्रवत्वं निवार्यत, वन्हें:प्णत्वं तदा चित्ताकर्तृत्वादिनिवारणसंभवः । स्वाभा- विकत्वं तु सर्वत्र समानम् । मैवम् । आत्यन्तिकनिवारणासंभवेऽप्यभिभवस्य संभवात् । यथा जलगतं द्रवत्वं मृत्तिकामेलनेनाभिभूयते, वन्हेरौष्ण्यं माण- मन्त्रौषधादिमा, तथा सर्वाश्चित्तवृत्तयो योगाभ्यासेनामिभवितुं शक्यन्ते । र जीवन्मुक्तौ किं वा प्रमाणम् । उच्यते । श्रुतिस्मृतिवाक्यानि जरवम्मुक्तिसद्भावे. प्रमाणानि । तानि च कठवल्लयादिषु पठ्यन्ते-विमुक्तश्च विमुच्यतेः' इति । जीवन्नेव दृष्टबन्धात्कामादेविशेषेण मुक्तः सन् देह पाते भाविबन्धाद् विशेषेण मुच्यते । वेदनात्प्रागपि शमदमादिसंपादनेन कामा- दिभ्यो मुच्यत एव, तथाप्युत्पन्नानां कामादीनां तत्र प्रयलंन निरोधः । अत्र तु धीवृत्त्यभावादनुत्पत्तिरेव ततो विशेषणेत्युच्यते । तथा प्रलये देहपाते सति- कंचित्कालं भाक्देिहबन्धान्मुच्यते । अत्र त्वात्यन्तिको मोक्ष इत्यभिप्रेत्य विशेषणेत्युक्तम्।बृहदारण्यके पठ्यते-यदा सर्वे प्रमुच्यन्ते कामा येस्य हृदि श्रिताः। अथामयोऽमृतो भवत्यत्र ब्रह्म समश्नुते॥इति । श्रुत्यन्तरेपि सचक्षुरचक्षुरिव सक- र्णोऽकर्ण इव समना अमना इव' इति । एवमन्यत्राप्युदाहार्यम् । स्मृतिषु जीव- न्मुक्तस्थितप्रज्ञभगवद्भक्तगुणातीतब्राह्मणातिवर्णाश्रमादिनामाभस्तत्र तत्र व्यव- हियते । वसिष्ठरामसंवादे-वसिष्ठः-नृणां ज्ञानकनिष्ठानामा त्मज्ञानविचारि- णाम् । सा जीवन्मुक्ततोदेति विदेहोन्मुक्ततेव या॥ श्रीरामः- ब्रह्मन् विदे- हमुक्तस्य जीवन्मुक्तस्य लक्षणम् । ब्रूहि येन तथैवाहं यते शास्त्रगया दृशा ॥ वसिष्ठः-यथास्थितमिदं यस्य व्यवहारवतोऽपि च । अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ इदं प्रतीयमान गिरिनदीसमुद्रादिकं जगत्प्रतिपत्तुर्देहे- न्द्रियव्यवहारेण सह महाप्रलये परमेश्वरेणोपसंहृतं. सत्स्वरूपोपमर्दैनास्तं गतं भवति । अत्र तु न तथा, किंतु विद्यत एव देहेन्द्रियादिव्यवहारः । गिरि- नद्यादिकं चेश्वरेणानुपसंहृतत्त्वाद्यथापूर्वमवतिष्ठमानं सत्सर्वैरन्यैः प्राणिभिर्वि- स्पष्टमवलोक्यते । जीवन्मुक्तस्यः तत्प्रत्यायकवृत्त्यभावात्सुषुप्ताविव सर्वमस्त गतं भवति । स्वयं प्रकाशमानः चिद्योम केवलमवशिष्यते। बद्धस्य सुषुप्तौ तात्कालिकवृत्त्यमावसाम्येऽपि भाविधीवृत्तिबीजसद्भावान्न जीवन्मुक्तत्वम् । नोदेति नास्तमायाति सुखदुःखैर्मुखप्रभा । यथाप्राप्ते स्थितिर्यस्य स जीव- न्मुक्त उच्यते ॥ यो जागर्ति सुषुप्तस्थो यस्य जाग्रन्न विद्यते । तस्य निर्वा- सनो बोधः स. जीवन्मुक्त उच्यते ॥ रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तोमवदत्यच्छः स जोवन्मुक्त उच्यते ॥ यस्य नाहंकृतो भावा बुद्धिर्यस्य नः लिप्यते । कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ।। यस्मान्नोद्विजते लोको लोकानोद्विजते च यः । हर्षामर्षभयान्मुक्तः स जीवन्मुक्त उच्यते ॥ -- २२ सान्तसंसारकलनः कलावानपि निष्कलः । यः सचित्तोपि निश्चित्तः स जीवन्मुक्त उच्यते ॥ यः समस्तार्थजातेषु व्यवहार्यपि शीतलः । पराष्वि- व पूर्णात्मा स जीवन्मुक्त उच्यते ॥ एवं विद्यारण्यैर्जीवन्मुक्तेः स्वरूपं प्रमाण च प्रदर्शितम् । अनन स्वरूपप्रदर्शनेन रामानुजखण्डनस्य यथायोग्यं निरा- सः । प्रमाणान्यपि बृहदारण्यकादिश्रुतिमारभ्य योगवासिष्ठपर्यंत दार्शतानि । वराहापनिषदि कण्ठरवण जीवन्मुक्तिरुक्ता तथाहि-यस्मिन्काले स्वमात्मानं योगी जानाति केवलम् । तस्मारकालात्समारभ्य जीवन्मुक्तो भवेदसौ ॥ (वा. २।४२ ) इति । तथा 'नोदेति नास्तमायाति सुखे दुःखे मनःप्रभा। यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥ ( वग. ३।२२ ) इत्यादि- वितरस्तत्रैव । आत्मोपनिषदि च-शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः । जीवन्नव सदा मुक्तः कृतार्थों ब्रह्मावेत्तमः ॥ (आत्मो. २०) इति । जीवन्मु- तस्य भ्रान्तनिवृत्ततया चित्तम्यात्मेकाकारतयाच प्रारब्धभोगे सत्यपि समस्त- दुःखनिवृत्तिम्तथा च श्रुतिः-आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कम्य कामाय शरीरमनुसंज्वरेत् ॥ (शाट्या. २२) इति । तथा जीवन्मुक्तयवस्थायां ज्ञानयोगाभ्यासनाविद्याकृतावरणस्य सर्वथा निवृत्त्या परिपूर्णब्रह्मानन्दानुनवमुग्खाविर्भावो भवति । तथाच श्रुतिः-समाधिनिघूत- मलम्य चेतसा निवेशितम्यात्मनि यत्सुखं भवेत् । न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणन गृह्यत ॥ इति । ततः प्रारब्धक्षये जीवन्मुक्तेन विदेहमुक्तिलभ्यत । तच्चोक्तं मुक्तिकोपनिषदि-प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते । ततः कालवशादेव प्रारम्धे तु क्षयं गते ॥ वैदेहीं मामकीं मुक्तिं यान्ति नान्यत्र संशयः ॥ जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते । विगत्यदहमुक्तत्वं पवनाऽस्पन्दतामिव ॥ (मुक्ति. ७६) इति । आत्मो- पनिषद्यपि-घटे नष्ट यथा व्याम व्योमे । भवति स्वयम् । तथैवोपाधिविलये ब्रह्मैव ब्रह्मविम्वयम् ॥ ( आत्मो. १।२२ ) इति ।। १५ अनिर्वचनीयख्यातिः । अद्वैतमते सर्वत्रा निर्वचनीयख्यातित्व । कार्यस्य सद्रूपेणासद्रूपेण च निवक्तुमशक्यत्वात् । यथा रज्जो भासमानः सर्पः सच न सन् । यदि स सद्रूरः म्यातहि नायं सपः किंतु रज्जुरियमिति ज्ञानेन तद्वाधो न स्यात् । नाप्पसन् । अयं सर्प इति प्रतीत्यनुपपत्तेः । अतोऽनिर्वचनीय उच्यते। यदा २३ । रज्जुरिदत्वेन ज्ञायते न रज्जुत्वेन तदा तादृशमविद्याकार्यभूतं रज्ज्वज्ञान- मिदंतया जायमानज्ञानसहकृतं तिर्यक्त्वादिसमुद्रोधितसर्पसंस्कारसहकृतं सर्पा- कारेण परिणमते तद्वदेवेदं सर्वं जगत्। न सत् । यदि सत् स्यात्तर्हि ज्ञानिदृष्टया तद्वाधो न स्यात् । 'नेह नानास्ति किंचन' (बृ. ४।४।१९) इत्यादिश्रुति विरोधश्च । नाप्यसत् । यद्यसत् तर्हि न प्रतीयेत । प्रतीयते तु । अतो निर्व- चनीयमेव । तथा चानिर्वचनीयस्य जगतो या ख्यातिः प्रतीतिः सानिर्व. चनीयख्यातिरेव । १६ विवर्तवादः। वस्तुनः पूर्वावस्थाया अपरित्यागेन अवस्थान्तरभानं विवर्तः । यथा रज्जौ सर्पभानं शुक्तौ रजतमानं च । रज्जुः स्वावस्थामपरिहायैव सर्परूपेण भासते, शुक्तिर्वा स्वावस्थायाः परित्यागमकृत्वा रजतरूपेण च भासते । तद्वत् ब्रह्म स्वरूपापरित्यागेन जगद्रूपेण भासते । एवं चात्राद्वैतमते विवर्तवादः । परिणामवादस्तु न संभवति । यतः परिणामो नाम वस्तुनः पूर्वावस्थात्याग- पुरःसरमवस्थान्तरप्राप्तिः । यथा मृदो घटः । ब्रह्मणोऽविकार्यत्वात्तत्रावस्था- न्तरस्यासंभवः । १७ प्रश्नमुण्डकयोः संबन्धः। एते प्रश्नमुण्डकाख्ये उभे अप्युपनिषदावथर्ववेदसंबन्धिन्यौ। तेनैतयोः संबन्धोऽवश्यंभावी । सचायं संबंधः कीदृश इत्यपेक्षायामेवं वक्तुं शक्यते । यत् मुण्डकस्य व्याख्यानरूपा प्रश्नोपनिषदिति । एतत्स्पष्टीकर्तुं मुण्डकमन्त्रः प्रदर्श्यते तदर्थोपबृंहकश्च प्रश्नमन्त्रोपि तदने निबध्यते । तथाहि मुण्डकोपनि- षदि-३।२।८ यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ प्रश्नोपनिषदि-६-५ स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्र प्राप्यास्तं गच्छन्ति भिद्यते तासां नामरूपे समुद्र इत्येवं प्रोच्यते ॥ एव- मेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥
इत्यत्र प्रश्नोपनिषन्मत्रे पूर्वोक्तस्यैव मुण्डकमन्त्रस्य व्याख्यानं दृष्टान्त- दार्टान्तिकप्रदर्शनपुरःसरं सविस्तरं कृतम् । एवमेव सर्वत्र क्वचिच्छन्दतः काच- ताप्तर्यतब्ध छायालम्बनपुरःसरमत्र प्रश्नोपनिषदि मुण्डकस्य व्याख्यानमित्ति मुघीभिः प्रतीयत । अथच प्रश्नोपनिषत् मुण्डकोपनिषदोंपबंहिका तदनन्तरं जायमाना चेति श्रीमच्छाङ्करभाष्यनिर्देशादवगम्यते मुण्डकव्याख्यानरूपत्वात्प्रश्नोपनिष- तदनन्तरं जायमानेति युक्तिसिद्धमपि । सच भाष्यनिर्देश इत्थम्-(म.६०) सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । इत्यादितृतीयमुण्डकप्रथमखण्डपञ्चममन्त्रव्याख्याने (प, ६० ) भाष्यक- द्भिरेवमुक्तम्-वक्ष्यति च-न येषु जिह्ममनृतं न माया च ।' प्र. १-१-१ -१६ इदमत्रालोच्यम् । मुण्डकोपनिषदि तु पूर्वोक्तं वाक्यं नास्ति किंतु प्रश्नोपनिषदि । तेन भाष्यकृतामयमाशयो यदत्र मुण्डके योर्थस्तस्यैवोपबृंहणं प्रश्नोपनिषदा क्रियत इति । तथा तत्रैव वक्ष्यतीति भविष्यदर्थबोधकनिर्दे- शान्मुण्डकान्तरं जायमाना प्रश्नोपनिषदिति । १८ मुण्डककाठक्योः साम्यम् । उभे अपि मुण्डककाठकोपनिषदौ ज्ञानप्रतिपादकत्त्वात्तात्पर्यतः पर. स्परं संवदतः । बहुषु स्थलेषु शब्दसाम्यमपि । क्वचित्तु निखिलमन्त्रसाम्यमपि । तथाहि- अविद्यायामन्तरे वर्तमानाः। मुं. १।२।९ का. १ । २ । ५ नायामात्मा प्रवचनेन लभ्यः। मुं. ३ । २ । ३ का. १ । २।२२ न तत्र सूर्यों भाति । मुं. २ । २ । १० का. २।२।१५ काठकापेक्षया मुण्डके विशेषः-मुण्डके यथा यज्ञादीनां विशदतया खण्डनं तथा काठके नास्ति । तत्रेदं कारणं संभवति । यतः काठके नचिकेता उपदेश्य: सच ब्रह्मचारी। पत्नीसाहचर्यसाध्यानि यज्ञादीनि । तेन स नचिके- तास्तत्रानधिकृतत्वान्नैव कुर्याद् यज्ञादीनि ततस्तदपाकरणं नातीवापेक्षितम् । मुण्डके तु महागृहस्थः शौनक उपदेश्यः। सचाधिकारित्वादाहरेद्यज्ञादीस्तत- स्तन्निरासश्चिरन्तनफलप्रदत्वाभावादिप्रतिपादकैः "प्लवा ह्येते अदृढा यज्ञरूपाः।" इत्यादिमन्त्रः कृतः। किंच मुण्डकोपनिषदि सत्यादिनीतितत्त्वानि विशेषतो बोषितानि । काठके च मानसशास्त्ररीत्या विचारः । - १९ पाश्चात्यषिद्वन्मतविमर्शः। शार्मण्यपण्डित्तः 'हर्टेल ' महाभागो महता परिकरबन्धेन पाश्चा- त्यान् म्याक्समुलरडायसन्प्रभृतीन् भारतीयांश्च शङ्कराचार्यादीन् विनिन्दन तत्तान् विषयान् सविस्तरं वर्णयति स्वीयमुद्रितमुण्डकप्रस्तावनायाम् । इयं च प्रस्तावना शार्मण्यभाषया तेन व्यलखि । ततस्तत्पांडित्यजिज्ञासुभिः सा मूलत एव पठनीया । अस्माभिः सारसंजिवृक्षूणां विद्यार्थिनां कृते तत्रत्याः प्रधानांशाः प्रदर्य यथामति विमृश्यन्ते । तत्र (प्रस्तावनायां )त्रयं विमर्शास्पदं मन्यामहे । तथाहि १ मुण्डकोपनिषदि पुरुषवर्णनं ब्रह्मवर्णनं वा २ मुण्डकोपनिषत्पाठः। ३ जैनमतसाम्यसंभवः। १ मुण्डकोपनिषदि पुरुषवर्णनं ब्रह्मवर्णनं चा ? १ अस्यामादित एवोपलभ्यमानैः कैश्चिन्मन्त्रैरेवं प्रतीयते यत् अस्या मुण्डकोपनिषदोऽथर्ववेदस्य च संबन्धः । किंच यद्यस्माभिराथर्ववेदीयस्कम्भ. सुक्तस्थाः २९ । ३० । ३' । ३२। ३४ मन्त्रा द्वितीयमुण्डकोप- निषदः प्रथमखण्डवालोच्यते तर्हि तत्र मुण्डके शब्दशस्तात्पर्यतश्चातीव साम्यं दृश्येत । तथा चैव प्रत्येतुं शक्येत मुण्डकोपनिषत्स्कम्भसूक्तमूलिकेति । स्कम्भस्य श्रेष्ठत्वमालोच्यैव मुण्डके पुरुषस्य श्रेष्ठत्वं वर्णितम् । किंचोपनिषद- न्तरवदत्र न ब्रह्मणः श्रेष्ठत्वमुपवर्णितं किंतु पुरुषस्य तत् । एतदेवास्या उप- निषदो वैलक्षण्यम् । किं चैतद्वैशिष्टयमाश्रित्य मुण्डकस्थः पूर्वापरविरोधोऽ- प्यपाकर्तुं शक्यते । तथाहि-निर्गुणब्रह्मण उपनिषत्प्रतिपाद्यस्य यत्र वर्णन तत्केनचित्प्रक्षिप्तम् । अथ चापाकृतैतादृशभागोपनिषदेव यथार्थोपनिषत् । विरुद्धः कोऽसावंश इति स्पष्टतया प्रत्याययितुं द्वितीयमुण्डकस्य द्वितीय- खण्डोऽखिलस्तथा प्रथममुण्डकप्रथमखण्डनवममन्त्रश्चालम् । इति प्रथमप्रघट्टकविषय हल पण्डितमतम् । तदिदानी समालोच्यते- पण्डितेनानेनाथर्ववेदस्य मुण्डकस्य च यः संबन्धः प्रदर्श्यते सतु न नवीनः कस्यचित् । यतोऽथर्ववेदगता · भद्रं कर्णेभिः ' इति शान्तिरेव मुण्डकोप- निषदारम्भे समुपलभ्यते । मुक्तिकोपनिषदि च मुण्डकोपनिमदोऽथर्ववदीय. त्वेनैव गणना कृता । केवल स्कम्भसूक्तेन सहास्याः संबन्धो द्योत्यते तदेव नवीनं किंतु तन्न विद्वन्मनोरमम् । हर्टेलनिर्दिष्टा मन्त्रा अधो निर्दिश्यन्ते । द्वितीयमुण्डकप्रथमखण्डस्तु मूले लभ्येत जिज्ञासुभिः- २६ अथर्ववेददशमकाण्डं अ. ४ सू. ४- स्कम्मे लोकाः स्कम्भे तपः स्कम्भेध्यतमाहितम् । स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्व समाहितम् ॥ २९ ॥ इन्द्रे लोका इन्द्रे तप इन्द्रध्वृतमाहितम् । इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्व प्रतिष्ठितम् ॥ ३० ॥ नाम नाम्ना बोहवीति पुरा सूर्यात्पुरोषसः । यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान्नान्यत् परमस्ति भूतम् ॥ ३१॥ यभ्य भूमिः प्रथमान्तरिक्षमुतोदरम् । दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥ ३२ ॥ यस्य वातः प्राणापानौ चक्षुरङ्गिरसोभवन् । दिशो यश्चक्र प्रज्ञानी तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥ ३४ ॥ पं. हर्टेलवन्नामभिदृश्यते साम्यं तद्विषये सुधीभिर्विभावनीयम्। केवलं प्रातीतिकं साम्यं यत्र कुत्रापि ज्ञातुं शक्यत । तेन न कार्यसिद्धिः । यत्र सूक्ते यत्प्रशंसा स देवः श्रेष्ठ इति सर्वत्रैवानुभूयते वरुणेन्द्रादिसूक्तेषु । अत्र च स्कम्भप्रशंसेति तच्छ्रेष्ठत्वं वर्ण्यते तद्युक्तमेव । परमत्र निर्गुण- ब्रह्मापेक्षयापि स्कम्भस्य श्रेष्ठता वर्णितेति यत् 'हर्टेल' मतं तत्प्रामादिकम् । तस्यास्य भ्रमस्य कारणमस्मन्मतेनैवं प्रतीयते । अत्र स्कम्भसूक्ते प्रथमत एव भाप्यकृतावतरणिकायामेवं निर्देशः कृतः । तथाहि-'कस्मिन्नङ्गे' इति म्कम्भसूक्तम् । रम्भ इति सनातनतमो देवो ब्रह्मणोप्याद्यभूतः । अतो ज्येष्ठ ब्रह्मति तस्य लज्ञा ।' अत्र ब्रह्मणोप्यादिभूत इत्युक्त्या हर्टेलमहाभागेनात्रत्यं ब्रह्म वेदांतप्रतिपाद्यं निर्गुणं गृहीतं स्यात् । परमत्र न ‘ब्रह्म' इति नपुंसकलिङ्गपदं । किन्तु ' ब्रह्मा' इति पुल्लिङ्गघटितम् । ब्रह्मण इति षष्ठी तुभयन साना । ततश्चात्र पुंल्लिङ्गावशिष्टब्रह्मपदेन प्रजापति ह्यः । यश्च स्कम्भसूक्त उक्तः । अथर्ववेदे दशमकाण्डे सप्तमे सूक्ते । यस्मिन् स्तब्ध्वा प्रजापतिलोकान् सर्वा अधारयत् । स्कम्भ तं ब्रूहि कतमः स्विदेव सः ॥ ७ ॥ अभ्यामृचौ प्रजापतिः म्कम्भाश्रयमालम्ब्य लोकान्निमिमीत इत्युक्तम् । तन प्रजापतेराश्रयभूतः स्कम्भः प्रजापत्यपेक्षया श्रेष्ठो नतु निर्गुणबह्मा- , पेक्षया । प्रक्षेपविषयिणी हर्टेलोक्तिरग्रिमप्रघट्टके सविस्तरं निरस्यंत । वेदान्त- प्रतिपाद्यमक्षरं ब्रह्म पुरुषापेक्षया निकृष्टमिति यदुक्तं तद्विचारयामः । तदु- पोद्दलकश्च मन्त्रः प्रथममुण्डकप्रथमखण्डे नवमस्तेन निर्दिश्यते । सचेत्थम् -यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥ अस्य मन्त्रस्य प्रकरणादिसंवलितार्थ इत्थम्-ब्रह्मणो निर्गुणादाभिन्नो यः सामान्यविशेषवित्पुरुषस्तम्माद् ब्रह्म हिरण्यगर्भापरपर्यायं नाम रूपमन्न च जायते । एवंचात्र मन्त्रे ब्रह्मपदेन हिरण्यगर्भार्थो ग्राह्यः । अयमेवार्थो मीमांसापरिपूतत्वाच्छङ्कराचार्यैरादृतः । यत इदं ब्रह्म नामरूपान्नादिविकृत- वस्तुसाहचर्यघटितं यस्य च जायत इत्यनेन बोधिता जन्माख्या विकृतिरस्ति । ततो निकृष्टं हिरण्यगर्भाख्यमेवैतद्ब्रह्म नतु निर्गुणं तेन तन्मूलको निर्गुण- ब्रह्मणो निकृष्टत्वबोधकः सिद्धान्तो गगनकुसुमायते । हिरण्यगर्भस्य च प्रथ- मत उत्पत्तिः प्रथिततमेन 'हिरण्यगर्भः समवर्तताने भूतस्य जातः पतिरेक आसीत्' इत्यादिमन्त्रेण प्रतिपाद्यमाना सर्वविदितैव । एवं हर्टेल' महामा- गद्योतितहेतूनामाभासत्वं प्रदर्य स्वमतेन उपनिषदन्तरवदस्यामप्युपनिषदि निर्गुणब्रह्मण एव प्रतिपादनं नतु तस्य कयापि विधया निकृष्टत्वं ब्रह्मपुरुषश- ब्द समानार्थकाविति च वर्ण्यते । वैदिकप्रकरणार्थनिर्णये मीमांसाशास्त्रे उप- क्रमोपसंहारादीनि षड्विलिङ्गान्युररीक्रियन्ते । तथाच ... उपक्रमोपसंहारावभ्यासोपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये ॥ अत्रोपनिषदि षडिधलिङ्गैर्ब्रह्म मुख्यतया प्रतिपाद्यत इति ज्ञापयितुं शक्यते । तत्रोपक्रमोपसंहारौ प्रदर्यते । तनैवान्यलिङ्गप्रतीतिः सुकरा। तथाहि- -मुं. १।१।३ अत्र शौनकेनाङ्गिरसं विधिवदुपसद्य पृष्टं-कस्मिन्नु भगवो विज्ञा- ते सर्वमिदं विज्ञातं भवति । तदुत्तरार्थ परापरेति विद्याविभागं कृत्वा-अथ परा यया तदक्षरमधिगम्यते' इत्युक्त्वा- यत्तदद्रेश्यमग्राह्यमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभु सर्वगतं सुसक्ष्म तदव्यनं भूतयोनि परिपश्यन्ति धीराः ॥ इति वेदान्तप्रतिपाद्यस्य निर्गुणब्रह्मणो नपुंसकलिङ्गघटितस्य निर्दे- शः कृतः । अयमुपक्रमः । अन्तेच मुं. ३-२-१० तदेतदृचाभ्युक्तम् : क्रि- यावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुव्हत एकषि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रत विधिवद्यैस्तु चीर्णम् ॥ इत्युपसंहारः। एवं बोपक्रमो- मोपसंहारमोस्करूपमेव निर्गुणं ब्रह्म प्रतिपादितम् । आस्मन्नुपसंहारमन्ने ब्रह्मविद्यां वदेत' इति ब्रह्मविद्यापदस्योक्तः । तथा चात्र निर्गुण- ब्रह्मज्ञानमेव द्योत्यते । नान्यज्ञानम् । तथैवः मध्येऽपि मुं. ३-२-१ सः वे? तत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभम् । उपासते पुरुषः ये- हानामास्तेः शुक्रमतदतिवर्तन्ति धीराः ॥ अत्र ब्रह्मक एवं वर्णनम् । किंच ब्रह्मपुरुषौ पर्यायभूतावित्यप्यनेन वाक्येन द्योत्यते । पूर्वार्धोक्तब्रह्मण एवोत्तरा- र्धगतपुरुषपदेन, प्रत्यभिज्ञानम् । एवमेव मुं, ११२।१० पुरुष एवेदं विश्वं कर्म तपो. ब्रह्म परामृतम् । एतद्या वेद निहि गुहायां सोविद्याग्रन्थि विकिरतीह सोम्य ॥ अत्रापि पूर्ववद्ब्रह्मपुरुषयोरभेदो निर्गुणब्रह्मणश्च वर्णनमिति प्रती यते । अनया परिपाट्यान्यपि प्रभूता निर्देशाः स्वयंः सुधीभिशकलायतुं शक्यन्ते । अस्माभिरुपरि प्रदर्शिता मन्त्राः प्रक्षिप्तताग्रहपहिलेमामि हर्टेल- महाभागेनाप्रक्षिप्ततयैव येऽङ्गीकृतास्तादृशा एव गृहीताः । २ मुण्डकोपनिषत्पाठः। अस्यामुपनिषदि हर्टेलमहाभागमतेन ये प्रक्षिप्ता मन्त्रास्तानिर्देशः । पदपक्षेपनिर्देशोऽपि तेन बहुशः सूचितः । स चात्र न गृहीतो विस्तराभिया। केवलं मन्त्रप्रकरणनिर्देश एव कृतः । १ प्रथममुण्ड के प्रथमवण्डे ११२ मन्त्रौ । २ प्रथममुण्डक द्वितीयखण्डे १।२।१३ मन्त्राः । ३ द्वितीयमुण्डके द्वितीयखण्डः सर्वः प्रक्षिप्तः । ४ तृतीयमुण्ड के प्रथमखण्डे चतुर्थमन्त्रप्रभृति संपूर्णः खण्डः । ५ तृतीयमुण्डके द्वितीयस्खण्डे तृतीयनवमौ मन्त्रौ । अन्यच्च ‘गुहाचरम् ' इत्यत्र 'गुहाजरम्' इत्यादयः पाठाः सूचिताः। अत्रेदमस्मन्मतं ध्येयम् । शुद्धप्राचीनपुस्तकधूपलभ्यमाना युक्तियुक्तास्तेते- पाठा अवश्यं समादरर्णायाः। किन्तु ' हेर्टेल ' महाभागस्य विद्वद्भिरमनुभूतपूर्वान्या. दृश्यव परिपाटी । यतः स कुत्रापि पुस्तकेऽनुपलभ्यमानानपि पाठानादरणीय- त्वेन निबन्धयति । प्रदर्शयति च कारणद्रयम् । १ अनोपनिषदि ब्रह्म पुरु- षापेक्षया निकृष्टं प्रतिपाद्यत इति ब्रह्मवर्णनपराः सर्वेऽशाः प्रक्षिप्ताः इतिः। २ छन्दाविमतिर्यत्र तत्सर्व विपरिवर्त्य प्रक्षिप्ततां वा नेयमिति । तत्र १ ब्रह्म-.
२९ निकृष्टत्वविषयको भ्रमस्त्वस्माभिः प्रथमप्रघट्टके यथायथं प्रदर्य खण्डित एव । तेन प्रथमकारणेन प्रक्षिप्तताप्रदर्शनं युक्तिविधुरम् । २ मुण्डकोपनिषद् ब्राह्म- णमागस्था । तत्र च गद्यांशाः प्रभूता भवन्ति । कतिजनैव पद्यमयांशाः । कतिचन पद्यमया इव भासमानाः सर्वैश्छन्दोलक्षणैरलक्षिताश्चोपलभ्यन्ते । सर्वत्र ब्राह्मणोपनिषत्सु त्रिविधेयं पद्धतिरनुभूयते । तेन छन्दोवदाभासमाना- नां मन्त्राणां विपरिवर्त्य निर्माण निर्मातुरसांप्रादायिकतां प्रदर्शयति । किंच छन्दःसंवादार्थ हल महाभागैर्नवीनपदकल्पनं क्रियते तत्तु नितान्तं युक्ति- विधुरम् । जैनादिमतसाम्पम् । उपनिषदोऽस्याः प्रतिपाद्यं जैनमतेन सह संवदति कुत्रचिबौद्धमते- नेति प्रदर्शयितुं मुख्यतया षट् साम्यस्थलानि 'हर्टेल' महाभागेन प्रदर्शितानि तानि यथाक्रम विचारयामः । १ 'मुण्डक' इति नाम्ना, ३।२।१० इति मन्त्रे शिरोव्रतनिर्देशाच म्याक्समुलरपण्डितप्रभृतिभिरेवं तर्कितं यत्र संप्रदाये मुण्डितमुण्डत्वं तेन जैना- दिसंप्रदायेनास्य संवाद इति । तर्कश्चायं हर्टेलमहाभागस्यापि संमतः। २ मुण्डके 'मुक्तेः पूर्वं ब्रह्मलोकाख्ये स्थाने किंचित्कालं जीवेन स्थेयम्' इति निर्दिश्यते । एवमेव जैनैरपि समन्यते । ३ 'प्लवा ह्येते अदृढा यज्ञरूपाः' इत्यादिनात्रोपनिषदि यज्ञा निन्द्य- न्ते तच्च यज्ञद्वेषिणा जैनमतेन सह संवदति । ४ द्वितीयमुण्डके प्रथमखण्डे ५-१० मन्त्रेषु विश्वं पुरुषस्यावयव- भूतं द्योत्यते तदपि जैनमतेन सह संवदति । ५ जैनबौदैश्च सप्त लोका उरगक्रियन्ते त एव किंचिद्भेदेनात्रोपनिषदि वर्णिताः। ६ कर्म, च्यु, राग, वीतराग, सम्यग्ज्ञान, प्रन्थि, इत्यादयः जैन- मतगृह्यमाणाः शहा अत्रापि दृश्यन्ते तेन तन्मतसाम्यम् । १ अथर्ववेदाध्यायिभिः शिरोवतमाचरणीयं तच्च शिरोव्रतं शिरस्य- मिधारणात्मकम् । अयं चामिरेकर्षिसंज्ञकः । अस्या निर्देशः स्कम्भसूक्तेऽ- त्रोपनिषदि चास्ति । मुण्डकपदेन शिरो बोध्यते । एवंच 'एकर्षिनामकामेः शिरसि धारणं यत्र व्रते तादृशं व्रतं संपाद्य मुण्डकोपनिषदथर्ववेदीयेन ग्राह्याध्याप्या चेति यत्र बोप्यते सा मुण्डकवतप्रतिपादकत्वान्मुण्डकोपनि- पद्विति यथार्थनाम्ना प्रतिपाद्यते । तथाच मुं. ३।२।१. क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुव्हत एकर्षि श्रद्धयन्तः । तेषामवैतां ब्रह्मविद्यां वदेत शिरो- वतं विधिवद्यैस्तु चीर्णम् ॥ अयमथर्ववेदाध्ययनाध्यापनसंप्रदायो विदेशी- पानामपरिचितस्तेनैव तथा म्यानमुलरप्रभृतीनां पण्डितातामनुमानमित्यु- त्पश्यामः। २ विषये ब्रह्मलोको हिरण्यगर्मलोकः सचानोपनिषदि क्रममुक्तिभाजां कृते वर्णितो न जीवन्मुक्तिभाजां विदेहमुक्तिभाजां वा कृते । ये चोत्तरमार्गेण गच्छन्ति ते हिरण्यगर्भेण स्वाधिकारसमाप्त्री ज्ञानेनानुगृत्यन्ते । ततस्ते मुक्ता भवन्ति । उक्तं चैतत्-परस्यान्ते कृतात्मानः प्रविशन्ति परं पदमित्या- दिना | सच हिरण्यगर्भलाको निर्गुणब्रह्मणो न्यून एवेति सुविद्वितं श्रुतिवि- दाम् । न तत्र जैनमतसंसर्गप्रत्याशा । ३ विषये-प्लवा येते अदृढा यज्ञरूपा इत्यनेन या यज्ञनिन्दा सा न जैनमतसंवादिनी यतो मुण्डकोपनिषत् ज्ञानमार्गप्रतिपादिनी । सर्वासां ज्ञान- मार्गप्रतिपादिनीनामुपनिषदामियं परिपाटी यत्तत्र कर्ममार्गो निन्ते तद्वद- त्रापि । तेन कारणमनज्जैनमतसंवादस्यति कथनं न युज्यते । ४-५-६-विषयेषु-वैदिकमतस्थांस्तांस्तान् शोभनाभ्युपगमान् दृष्ट्या जैनैरपि तत्संवादार्थ तथा विश्वपुरुषावयत्वकल्पनादि कृतमित्यपि संभवति । विनिगमनाविरहात् । यत्र वैदिकग्रन्थान्तरवत् निर्गुणब्रह्मादिवर्णन तत्र जैन. मताद्वैदिकानभिमतं किंचिद्गृहीतं स्यादिति शङ्कापि नोपजायते विवेचका- नाम् । किंच — जैनैरपि मुण्डकोपनिषदो वीतरागादयः शब्दा गृहीताः स्यु' इत्यपि संभाव्यते इति ब्रुवन् हर्टेलमहाभागोऽप्यस्मदुक्तमभिमन्यते । २० बालबोधिनी। केनादिवालबोधिनीवेयमपि छात्राणामुपकाराय भवेदिति बुध्यात्र प्रवृत्तिः। तथाच प्रस्तावनापि तत्तद्विषयाणां विवचिका विस्तृततया प्रणीता। तत्र केपांचिन्महाभागानामतीव साहाय्यमभूत्तदर्थं तेषामनुग्रहभरान् शिरसि कुर्मः । पूर्वोक्तमहाभागेषु सुगृहीतनामधेयानां ' डॉ. बेलवलकर एम, ए, पी. एच्. डी' इत्येतेषां नाम प्रथमं निर्देशमर्हति । यत एभिरनर्यकालव्यय सोवानूदिवमस्मकृते शार्मण्यभाषामयं इZल पण्डितमतम् । यद्गता विचारा- हाशा अस्माभिः पूर्व विमृष्टास्तथा प्रो. दांडेकरमहाभागा अपि प्रशंसाभा- जनम् । मत्र यथामति विचारिताः केचनाशास्तैश्छात्रा यद्यल्पेनाप्यंशेन कृत- कार्या भवेयुस्तहिं कृतकृत्यतां नेष्यामो वयमात्मानम् । प्रार्थयामश्च विद्व- रान यत्तैः प्रमादादिज्ञापनेनानुमाद्यामिति विज्ञापयति सप्रश्रयम्- पुण्यपत्तनम विद्वशंपदः पाठकोपाव्हः आश्विन कृ. १३ गुरौ १८४७ श्रीधरशर्मा। १८४.१ मुण्डकोपनिषर । ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ ॐ शान्तिः शान्तिः शान्तिः॥ ॐ ब्रह्मा देवानामित्याद्याथर्वणोपनिषत् । अस्याश्च विद्यासंप्रदाय- श्रीः ॐ भूधरभूजानिर्विजयते । प्रणम्य शंकराचार्यान् वेदान्तार्थप्रकाशकान् । मुण्डके बालबोधार्थ क्रियते बालबोधिनी।। शान्त्यर्थः-हे देवाः, वयं कर्णेभिः कर्णैः, भद्रं कल्याणमनुकूलं शृणुयाम । हे यज- लाः, यजन्तं त्रायन्ते रक्षन्तीति यजत्रा यजमानपालकाः, अक्षभिनेत्रः भद्रं कल्याण पश्येम। किंच वयं स्थिरैटेलैरंगैः करचरणाद्यवयवैः। तथा तनूभिः शरीरैर्भार्यापुत्रादिकर्वा युताः तुष्टुवांसो भवतः स्तुवन्तः सन्तो देवहितं देवैः स्थापितं देवानां हितं देवोपासनयोग्यं वा यदायुर्जीवनं तयशेमहि व्यश्नुवीमहि प्राप्नुयाम ।। ॐ शान्तिः शान्तिः शान्तिरिति निर्वचनमाध्यात्मिकाधिभौतिकाधिदैविकानां विद्याप्राप्त्युपसर्गाणां प्रशमार्थम् । अथ च प्रश्न- मुण्डमाण्डूक्याथर्वशिरोथर्वशिखादय एकत्रिंशदुपनिषदोऽथर्वणवेदगताः परम् आद्यनयेतरासां तद्गताधिकारणाभावेन शारीरकेनुपयोगित्वात् तित्र एव तत्रोपयोगित्वाद्भगवान् भाष्य- कारो व्याचख्यौ। तत्र च प्रकृतोपनिषद्-अदृश्यत्वादिगुणको धर्मोक्तेः (ब्र.सू.१-२-२१)इति सूत्रघृताधिकरणोपयोगित्वाद्याचिख्यासितेति तदारम्भप्रतीकमुच्चारयति भाष्यकारः । ब्रह्मा देवानामित्याद्याथर्वणोपनिषदिति । अस्मिन् वाक्ये व्याचिख्यासितोति शेषः पूरयितव्यः । व्याख्यातुमिष्टेत्यर्थः । अग्रे-अथर्वणे यो प्रवदेत ब्रह्माथवी तां पुरोवाचाांगिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽगिरसे परावराम् ॥ २॥ शौनको ह वै महाशालोऽगिरसं विधिवदुपसन्नः पप्रच्छ ।। इति प्रथममुण्डके प्रथमखंड द्वितीयतृतीयौ मन्त्रौ ताभ्यां पुरुषनिर्मितयं विद्येति प्रतीयते तथाच तत्प्रतिपादिकाया अस्या मुण्डकोपनि- षदः पौरुषेयत्वे पुरुषनिष्ठभ्रमप्रमादादिदोषघटितत्वादप्रामाण्यप्रसंगेन व्याचिख्यासितत्वम- संगतमित्याशंकां निराकर्तुमाह-अस्याश्चेति । विद्यायाः पाठनमेव ब्रह्मादिभिः क्रियत नतु ते तां विद्यां स्वयं निर्मान्ति तेन पुरुषकर्तृकत्वाभावेन पूर्वोक्तभ्रमादिदोषासंभवस्तथा च प्रामाण्याविघातायाचिख्यासितत्वे न क्षतिः । विद्यासंप्रदायकर्तृपारम्पर्यलक्षणसंब- न्धमिति । विद्याया मुण्डकोक्तविद्यायाः संप्रदायः प्रवचनं तत्कर्तृणां ब्रह्माथवा गिरोभारद्वा- - मुण्डकोपनिषत् कर्तृपारम्पर्यलक्षणसंबन्धमादावेवाह स्वयमेव स्तुत्यर्थम् । एवंहि महद्भिः परमपुरुषार्थसाधनत्वेन गुरुणायासेन लब्धा विद्येति श्रोतृ- बुद्धिप्ररोचनाय विद्यां महीकरोति । स्तुत्या प्ररोचितायां हि विद्यायां सादराः प्रवर्तेरनिति । प्रयोजनेन तु विद्यायाः साध्यसाधनलक्षणसंबन्धमुत्तरत्र वक्ष्यति- भिधते हृदयग्रन्थिः " (मुं. २-३-८) इत्यादिना । अत्र जादिरूपं पारम्पर्य तद्रूपः संबन्धः । ननु परम्परा चान्येन प्रतिपादनीया न स्वयामिति संका निराकरोति-स्तुत्यर्थमिति । तथाच स्तुतौ तात्पर्यात्स्वयं प्रतिपादनेन कापि क्षतिः । एवं महापुरुषसंप्रदायागतेयं ब्रह्मविद्या महाफला तत्र प्रवृत्तिः कर्तव्येति विद्यास्तुतिः । तदेवोक्त-महद्भिरित्यादिना । परमपुरुषार्थसाधनत्वेनेति । धर्मार्थकामा- स्त्रयः साधारणपुरुषार्थाः। मोक्ष एव परमपुरुषार्थः । स्तुतेः प्रयोजनमाह-श्रो- तृबुद्धिप्रचनायेति । महाकरोति गुरूकरोतीत्यर्थः । प्ररोचनं प्रवृत्तिजनकमिति द्योतय- ति-स्तुत्येत्यादिना । सर्वत्र ग्रन्थेषु तक्तद्ग्रन्याध्ययनप्रवृत्तिजनकमनुबन्धचतुष्टयं भवति । तथाचात्राप्युपनिषदि तदपेक्ष्यते । इयं च मुण्डकोपनिषद्ब्रह्मविद्याप्रतिपादिका । तेन ब्रह्मविद्या- या यत्प्रयोजनाद्यनुबन्धचतुष्टयं तदुपनिषदोऽपि भविष्यतीत्यभिप्रेत्य ब्रह्मविद्यायाः प्रयोजन- सबन्धमाह । प्रयोजनेनेति। विषयः, संबन्धः, प्रयोजनम्, अधिकारी-इति चतुष्टयमने- त्यम् । विषयो ब्रह्म । प्रयोजनं मुक्तिः। प्रयोजनेन विद्यायाः साध्यसाधनलक्षणः संबन्धः। साधनचतुत्र्यसंपन्नोऽधिकारी | साधनचतुष्टयं चेत्यम्-१ इहामुत्रार्थफलभोगविरागः २ नि- त्यानित्यवस्तुविवेकः ३ शमदमादिसाधनसम्पत् ४ मुमुक्षुत्वं चेति । १ नित्य वस्तु ब्रह्म, अनित्यं तदितरउजगदादि वस्तु । तद्विवेकः पृथक्तया ज्ञानम् । २ इहार्थः जायासुतादिः। अमुत्रार्थः स्वर्गसुखादिः तदुपभोगे विराग औदासीन्यम् । ३ शमदमादीत्यत्रादिपदेन उपरतितितिक्षासमाधानश्रद्धानां चतुर्णा ग्रहणम् । एवं च षट् । क्रमेणार्थ:-१ लौकिकव्या- पारान्मनस उपरमः शमः । २ बाह्यकरणानामुपरमो दमः ।। ३ ज्ञानाथै विहितनित्यादिकर्म- संन्यास उपरतिः । ४ शीतोष्णादिद्वन्द्वसहनं तितिक्षा ५ निद्रालस्यप्रमादत्यागेन मनःस्थितिः समाधानम् । सर्वत्रास्तिकता श्रद्धा । ४ मुमुक्षुत्वं-मोक्षच्छावत्वम् साध्यसाधनेत्यादि। विद्या ब्रह्मज्ञानं साधनं साध्यं च हृदयग्रन्धिभेदसंशयच्छेदकर्मक्षयाः। एतद्रूपः संबन्धों विद्याप्रयोज- नयोः। अत्रचेत्यादि । अपरशब्दवाच्यायामिति सप्तम्यन्तपाठापेक्षयायं षष्ठयन्त पाठ साधी- यान् स्वयमेवोक्तवत्यस्य ब्रह्मविद्यामाहेत्यनेन संबन्धः । अहरहः सन्ध्यामुपासीत' इति विधिः । 'ब्राम्हणो न हन्तव्यः' इति प्रतिषेधः। एतावेव केवलं विधिप्रतिषेधावपरशब्दाभिधेयायामृग्वे- दादिविद्यायामुक्तौ तेन च कात्मिकेयमृग्वेदादिविद्या सा चाविद्यायाः संसार कारणभूताया निवर्तिका न भवति विरोधाभावात् । यद्विरोधि तदंपरस्य विरोधिनो निक्र्तकं यथा तेजस्त- मसो निक्तकमिति लौकिको नियमः। संसारकारणभूताविद्या तु न कर्मणा विनाशमहंति भाष्यबा विज्ञा or चापरयन्दताज्यामा ऋग्वेदादिलक्षणाया विधिप्रतिषेधमात्रामा नियात्रा संसारकारणाविद्यादिदोषनिवर्तकलं नास्तीति स्वयमेवोक्त्वा परापरेति विद्या- मेद्रकरणापूर्वकम् “अविद्यायामन्तरे वर्तमानमः(मुं.१-२-८) इत्यादिना । तथा परप्राप्तिसाधनं सर्वसाधनसाध्यविषयवैराग्यपूर्वकं गुरुप्रसादलभ्यां ब्रझविधामाह- "परीक्ष्य लोकान्" (मुं.१-२-१२) इत्यादिना । प्रयोजनं चासवीति "ब्रह्म वेद ब्रह्मैव भवति"( मुं.३-२-९)इति परामृताःपरिमुल्यन्ति सर्वे (मुं. ३-२-६) इति च। ज्ञानमात्रे यद्यपि सर्वाश्रमिणामधिकारस्तथापि संन्यासनिष्ठेच ब्रह्मविद्या मोक्षसाधनं न कर्मसहितेति “भैक्ष्यचर्या चरन्तः"(मुं.१-२-११) "संन्यासयोगात्"(मुं.३-२-६)इति च अवन्दर्शयति । विद्याकर्मविरोधाच्च । न हि ब्रह्मात्मैकत्वदर्शनेन सह कर्म स्वमेऽपि संपादयितुं शक्यम्। विद्यायाः कालविशे- यतः कर्माविद्यायाः सकाशादुत्पद्यते तेच विरोधो नास्ति प्रत्युतोपजीव्योपजीवकभावः, यदि कर्माविद्याया विनाशकं स्यात्तीपजीव्यक्रोिधः स्यात्स चासंगतः । अत्र मुण्डकोपनिषदि पापरेति विद्याभेदः प्रथममुक्तः । ततोऽविद्यायामन्तरे वर्तमाना इत्यनेन ऋग्वदादिविद्या संसारकारणभूताविद्यानिवर्तिका नास्त्यतः कर्मनिन्दापूर्वकं सर्वेषु यज्ञादिसाधनेषु स्वर्गादिसाध्येषु च वैराग्यमालम्बनीयत्वेनोक्तं ततो गुरुप्रसादेनैव केवलेन प्राप्यां परब्रह्मप्राप्तिसाधनभूतां . ब्रह्मविद्यां कथितवानित्यभिप्रायः । प्रयोजनं चति । अपरविद्यायां यथा सुखदुःखप्राप्तिपरिहारयोः प्रवृत्तिनिवृत्ती प्रयोजन तथात्र परविद्यायां प्रवृत्तिनिवृत्त्यात्मकं प्रयोजनं न किन्तु ज्ञानमात्रं मोक्षफलदं यथा सर्पनिवृत्ती रज्जुज्ञानं यथा वा विस्मृतकण्ठमणिलाभे तत्स्मरणं तथा ब्रह्मज्ञानमेव ब्रह्मप्राप्तौ साधनमिति भावः । असकृत्-वारंवारम् । परामृताः-जीवन्त एव । ज्ञानमात्र इति । ब्रह्मचारि- गृहस्थवानप्रस्थसंन्यासिन इति चत्वार आश्रमिणः । तत्र ब्रह्मचारिगृहस्थवानप्रस्थानां कर्म नियतम् । संन्यासिषु भेदद्वयम् । केचनाज्ञाः केचन प्रज्ञाः । येऽज्ञास्तैत्रिसंध्यस्नानादि- विधयोऽवश्यमनुष्ठेयाः । प्रज्ञैः संन्यासिभिलॊकसंग्रहार्थं शौचाचमनादयो विधयोऽनुष्ठेयाः । वस्तुतस्तु तेषामाश्रमधर्मो ज्ञानोपबृंहकशमदमादिसाधननिष्ठत्वमेव । तेनैभिरेव प्रज्ञ संन्यासिभिर्बह्मविद्या कर्मसाहित्याभावात् लभ्यते नान्यैरज्ञसंन्यासिभिर्ब्रह्मचार्यादिभि- स्त्रिभिश्च । भैक्ष्यचर्या-सन्यासः । दर्शयतीति । मुण्डकश्रुतिरिति कर्तृपदम् ! विद्याकर्म- विरोधाच्चति । तमस्तेजसोरिव स्थितिगत्योरिव च विरोधः। ज्ञानसमये अकर्तृब्रह्माहम- स्मीति बोधः । कर्मसमये करोमीति प्रतीतिस्तेन ज्ञानकर्मणोः साहित्यं न संभवतीत्याह- नहीति । ब्रह्मात्मैकत्वदर्शनेनेति ।ब्रह्मणो जीवात्मना सहेकत्वमिति दर्शनं ज्ञानं तेन । यदा ब्रह्मनिष्ठे। ज्ञानायुत्थितो भवति तदा कर्म कुर्यादिति कालभेदाज्ज्ञानं कर्म चोभय संभवेदित्यत आइ-विद्याया इति । उदिते जुोतीति कर्मणि यथा कालनियमस्त्रया ज्ञाने मुण्डकोपनिषत् घामावादनियतनिमित्तत्वाच्च कालसकोचानुपपत्तेः । यत्तु गृहस्थेषु ब्रह्मविद्या- संपदायकर्तृत्वादि लिङ्गं न तस्थितं न्यायं बाधितुमुत्सहते । नहि विधिशते- नापि तमःप्रकाशयोरेकत्वसद्भावः शक्यते कर्तुम्, किमुत लिङ्गैः केवलैरिति । एवमुक्तसंबन्धप्रयोजनाया उपनिषदोऽल्पग्रन्य विवरणमारभ्यते । य इमां ब्रह्मविद्यामुफ्यन्त्यात्ममावेन श्रद्धाभक्तिपुरःसराः सन्तः, तेषां गर्भजन्मजरारोगाद्य- नर्वपूर्ण निशातयति, परं वा ब्रह्म गमयति, अविद्यादिसंसारकारणं वात्यन्तमव.. सादयति विनाशयतीत्युपनिषत् । उपनिपूर्वस्य सदरेवमर्थस्मरणात् । ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्यापतिष्ठा- मथर्वाय ज्येष्ठपुत्राय प्राह ॥१॥ कालो न नियतः । तथा निमित्तान्तरं च न नियतं तेन पूर्वोक्तकालसंकोचो नोपपद्यते । तदेवोक्त-कालसंकोचानुपपत्तेरिति । अंगिरःप्रभृतिभिहस्थैब्रह्मविद्योपदिष्टा तेन ते ब्रह्मज्ञानिन भासन्निति तु सुस्पष्टं ततश्च प्रत्यवायभिया तैगृहस्थाश्रमकर्मानुष्ठितमेव स्यात् । ततश्च ज्ञानकर्मणोः समुच्चयः सिद्ध इति शंका निवर्तयति-यत्त्विति । गृहस्थेषु-अगिरः- प्रभृतिषु । लिङ्गमिति । लिंगमपि कुत्रचित्तात्पर्यनिर्णायकं भवर्तीति भावः । स्थितं न्यायमिति विद्याकर्मविरोधरूपं श्रौत न्यायमित्यर्थः । तथाच श्रुतिलिंगवाक्यप्रकरणस्थान- समाख्यानांसमवायेपारदौर्बल्यमर्थविप्रकर्षात् (जै. सू. ३-३-१४) इति जैमिनीयसूत्रानुसारं यत्र श्रुतिनास्ति तत्र लिंगस्य निर्णायकत्वमत्र तु' भैक्षचर्या चरन्तः ' 'संन्यासयोगात्' इति श्रुतिसत्त्वेन तस्या एव प्राबल्यं न लिंगस्य श्रुत्यपेक्षया सस्य दौर्बल्यादिति भावः । किंचांगिरः- प्रभृतीनां गार्हस्थ्यमाभासमात्रम् । 'यस्य मे चास्ति सर्वत्र यस्य मे नास्ति किंचन | मिथिलायां प्रदीप्तायां न मे किंचन दह्यते ॥ इति तादृशगृहस्थवचनदर्शनात् । एवंच गार्हस्थ्याभासे न कर्मसत्ता किंतु कर्माभासता । ततश्च कर्माभासेन ज्ञानस्य समुच्चयेऽपि न क्षतिः । कर्मा- भासस्य विध्यभावात् । अथ च विधिरभ्यकिंचित्कर इत्याह-नहीति । केवलैरिति विधिरहितैदृष्टान्तलिंगैरित्यर्थः । अल्पग्रन्थमिति । अल्पो ग्रन्थः शब्दसमुदायो यस्मिन् । य इमामिति । उपनिषदित्यत्र 'षद्ल विशरणगत्यवसादनेषु' इति धातुः । विशरणं तनूकरणं, गतिर्गमन, अवसादनं नाशनम्, इत्यर्थत्रयं क्रमेण बोधयति आत्मभावेन-प्रेमस्थानत्वेन । उपयन्ति-प्राप्नुवन्ति । अनर्थपूगः-अनर्थसमुदायः। निशात. यति-तनूकरोति । गमयतीति । तानिति शेषः । संसारकारणमविद्यादि । अत्रादिपदेना. विद्याजन्यधर्माधर्मों गृह्यते । सदेरिति इश्तिपौ धातुनिर्देशे' इत्यनेनेका निर्देशः । अर्थ- स्मरणादिति । पाणिनिना धातुपाठे ‘षद्ल विशरणगत्यवसादनेषु' इति पूर्वोक्तार्यत्रयं -- भाष्यबालबोधिनीसरिता ५ ब्रह्मा परिवृढो महान्धर्मज्ञानवैराग्यैश्वर्यैः सर्वानन्यानतिशेत इति । देवानां द्योतनवतामिन्द्रादीनां प्रथमो गुणैः प्रधानः सन्प्रथमोऽग्रे वा संबभूवा- भिव्यक्तः सम्यक्स्वातन्त्र्येणेत्यभिप्रायः। न तथा यथा धर्माधर्मवशात्संसारि- णोऽन्ये जायन्ते । " योऽसावतीन्द्रियोऽग्राह्यः " (म. स्मृ.१-७) इत्या- दिस्मृतेः । विश्वस्य सर्वस्य जगतः कर्तोत्पादयिता । भुवनस्योत्पन्नस्य गोप्ता पालयितेति विशेषणं ब्रह्मणो विद्यास्तुतये । स एवं प्रख्यातमहत्त्वो ब्रह्मा ब्रह्मविद्यां ब्रह्मणः परमात्मनो विद्यां ब्रह्मविद्याम् “यनाक्षरं पुरुष वेद सत्यम् ( मुं. १-२-१३ ) इति विशेषणात् । परमात्मविषया हि सा । ब्रह्मणा वाग्रजेनोक्तति ब्रह्मविद्या । तां ब्रह्मविद्यां सर्वविद्याप्रतिष्ठां सर्वविद्याभिव्यक्तिहेतुत्वात्सर्वविद्याश्रयामित्यर्थः । सर्वविद्यावेद्यं वा वस्त्वनयैव विज्ञायत इति । "येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातम् , (छां.६-१-१) इति श्रुतेः सर्वविद्याप्रतिष्ठामिति च स्तौति विद्याम् अथर्वाय ज्येष्ठपुत्राय ज्येष्ठश्चासौ पुत्रश्चानेकेषु ब्रह्मणः सृष्टिप्रकारेप्वन्यतमस्य पठितमित्यर्थः । एवं चोपनिषत्पदेन ब्रह्मविद्या बोध्यते तत्प्रतिपादकत्वादग्रन्थोऽपि लक्षणयो- पनिषदित्यभिधीयते। महानिति । ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च सह सिद चतुष्टयम् ।। इति स्मृत्या धर्मज्ञानादिभिरन्यानतिक्रामतीति महत्त्वं ब्रह्मणः ।अतिशेते-अति- कामति । द्योतनवता-प्रकाशमयानाम् स्वातन्त्र्येति । योसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽ- व्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुद्बभौ ॥ इति स्मृत्या शुक्रशोणितसंयो- गमन्तरेणाविर्भूतः ।न तथेति । अन्येषां संसारिणां जन्म धर्माधर्मवशाज्जायतेऽस्य ब्रह्मण- स्त्वभिव्यक्तिधर्माधर्मनिरपेक्षतया लोकानुग्रहार्थं भवतीत्यर्थः । विद्यास्तुतिमेवाह-स एव- मिति । येन-विज्ञानेन । यया विद्ययेत्यर्थः । सर्वविद्याभिव्यक्तिहेतुत्वादिति । तत्व- मस्यादिवाक्यजन्यं यज्ज्ञानं तवृत्त्यभिव्यक्तं ब्रह्मैव ब्रह्मविद्या । ब्रह्म च सर्वाभि- व्यञ्जकं ततश्च सर्वविद्यानामभिव्यञ्जकतयाश्रीयत इति सर्वविद्याश्रया । सर्ववि- द्यावेचं वेति । ब्रह्मविद्यायामुत्पन्नायां ज्ञातव्यमेव नावशिष्यते तेनेयं सर्वविद्या- प्रतिष्ठा । सर्वविद्यानां प्रतिष्ठा समाप्तिर्यत्रेत्यर्थः। अन्यज्ञानज्ञेयं सर्वमनयैव विज्ञायत इति सर्वविद्यावेद्यत्वम् । स्तौति विद्यामिति । अर्थवादोऽयं ब्रह्मविद्यायाः । स्वयमुद्भूतो ज्ञानेश्वर्यवान् ब्रह्मा प्रियाय ज्येष्ठपुत्रायेमां ब्रह्मविद्यामाहातः सर्वैः सा संग्राह्येति प्रवृत्तिजनकोऽयं ब्रह्मविद्याया अर्थवाद इत्यर्थः। अथर्वायति । अथर्वशब्दोऽ- 'कारान्तो नकारान्तश्च । अत्र मन्त्रेऽथायेति अकारान्तः प्रयुक्तः । अग्रे द्वितीयमन्त्रेऽथर्वण असनेपनिषत् सृधिमकात्व असुले पूर्ववयव पृष्ट इति ज्येष्ठस्तस्मै ज्येष्ठपुवाच आहोत्तवान्॥१ चापर्वो कां वदेत ब्रह्मा- थर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवहाय माह भारद्वाजोऽङ्गिरसे परावराम् ॥२॥ यामेवामावर्वणे प्रवदेत प्रावदद्लविद्यां ब्रह्मा,तामेवं ब्रह्मण प्राप्तामा पुरा पूर्वमुवाचोक्तवाङ्गिरेऽङ्गिन ने जम्हविधाम् । स चाङ्गिर्भारद्वाजाय भरद्वाज- गोत्राय सत्यवहाय सत्यवहनास्ने प्राह प्रोक्तवान् । भारद्वाजोऽङ्गिरसे स्व, शिष्याय पुवाय वा घरावरां परस्मात्परस्मादवरेणाकरेग्य प्राप्त फाक्स पराक्रसर्वविद्याविषयच्याप्ती, तां परावरामङ्गिरसे प्राहेत्यनुषङ्गः ॥ २ ॥ शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ, कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३ ॥ शौनकः शुनकस्यापत्यं महाशालो महागृहस्थोऽङ्गिरसं भारद्वाज- शिप्यमाचार्य विधिवद्यथाशास्त्रमित्येतत् । उपसन्न उपगतः सन्पप्रच्छ पृष्टवान् । शौनकाङ्गिरसोः संबन्धादर्वाग्विाधिवद्विशेषणाभावादुपसदनविधेः इति नकारान्तः प्रयुक्तः सृष्टिप्रकारेविति ।मनुस्मृत्यादिषु सृष्टयो विविधाः कथितास्त- त्तयुगभेदेन । तत्र कस्मिंश्चित्सृष्टिप्रकारेऽथर्वादिसृष्टिः । तामवलम्व्य ज्येष्ठपुत्रायेत्युक्तम् ॥१॥ यामिति । प्रवदेतेति । व्यत्ययो बहुलमिति पाणिनिसूत्रेण छन्दसि कालाद्यनियमात् प्रावददित्यर्थमाह।भारद्वाजायति भारद्वाजगोत्राय सत्यवहनाम्ने परावरामिति अर्थद्वयं क्रमेणाह-परस्मादिति । पूर्वस्मात्पूर्वस्माद्गुरोरवरेणावरेण शिष्येणाधिगतेति प्रथमपक्षेऽर्थः। अत्र पक्षे सामीभावादापः समासः । द्वितीयपक्षे परा निर्गुणब्रह्मप्रतिपादिका । अवरा धर्माधर्मसाधनतत्फलगौणब्रह्मप्रतिपादिका । इति द्विविधविद्याव्यापकत्वादियं ब्रह्मविद्या लक्षणया परावरा । अत्र द्वितीयपक्षे परा चासाववरेति कर्मधारयः । अनुषंगः- संबन्धः॥३॥ शौनक इति । महाशालो महत्यो होमशालापाकशालादयो यस्य । यथाशास्त्र- मिति । तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्सामित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमिति शास्त्रानुसारमि- त्यर्थः। गम्यत इति । अथर्वाणमारभ्य शौनकपर्यन्तं विधिवादिति नोक्तं ततः परं शौनकां- गिरसोः प्रसंग उक्तम् । तेन ततः पूर्वेषामथर्वादीनां समित्पाणित्वादिविधिन नियतः ।
भाववालासहिता
पूर्वेषामनियम इति गम्यते । मर्यादाकरणा मध्यावीसिन्यायाथै वा
विशेषणम् । अस्मदादिष्वप्युपसदनविधरिष्टत्वात् । किमित्याह-कस्मिन्नु
भगवो विज्ञाते, नु इति वित, भगवो हे भमवन्सर्वं यदिदं विज्ञेयं
विज्ञातं विशेषेण ज्ञातमवगतं भवतीति 'एकस्मिाते सर्वविद्भवति । इति
शिष्टप्रवादं श्रुतवाशौनकस्ताद्विशेष विज्ञातुकामः सन्कस्मिन्निति वित-
कैयन्पप्रच्छ । अथवा, लोकसामान्यदृष्टया
ज्ञात्वैव
सुवर्णादिशकलभेदाः सुवर्णत्वाधेकत्वाविज्ञानेन विज्ञायमाना लौकिकैः। तथा
किं न्वस्ति सर्वस्य जगदिस्यक कारणम् । यत्रैकस्मिन्विज्ञाते सर्व विज्ञान
भवतीति । नन्वविदिते हि कस्मिन्निति प्रश्नोऽनुपपन्नः । किमस्ति तदिति
तदा प्रश्नो युक्तः । सिद्धे यस्तित्वे कस्मिन्निति स्यात् । यथा कस्मिन्निधे.
यमिति । न । अक्षरवाहुल्यादायासमीरुत्वात्प्रश्नः संभवत्येव किं न्वेकास्मि-
न्विज्ञाते सर्ववित्स्यादिति ॥ ३ ॥
पप्रच्छ । सन्ति लोके
यद्यनुष्ठितस्तर्हि भूषणाय नो चेन दूषणाय । शौनकप्रभृत्यस्मदादिषु तु सोऽत्यन्तमावश्यक
इत्यभिप्रायः । उपसदनविधिः-गुस्समीपगमनविधिः । मर्यादाकरणामिति । शौनक-
प्रभृतिसर्वशिष्यैः समिद्ग्रहणादिविधिरनुष्ठेय एवेति शौनकप्रभृतिषु मर्यादार्थमित्यर्थः । ननु
वेद उक्तो विधिरंथर्वप्रभृतिभिरपि कुतो मानुष्ठेय इति शंकामपाकर्तुं पक्षान्तरमाह-मध्य-
दीपिकान्यायार्थमिति । देहलीदीपिकान्यायेनेत्यर्थः । यथा देहल्यां स्थापितो दीपस्त-
दुभयपावस्थलं प्रकाशयति तद्वदित्यर्थः । मध्यमणिन्यायोऽप्येतत्सम एव । तथाच विधिवदिति
पदं देहलीदीपकन्यायेनादिषु पूर्वेषु शौनकादिषु परेषुच संबध्यते केवलशौनके विधिवत्पदस्य
संबन्धेऽस्मदादिषूपसदनं न स्यात्तदनिष्टम् । तदाह-अस्मदादिवपीति । शिष्टप्रवाद-
मिति । शिटास्तु मनुव्यासप्रभृतय इति शारीरभाष्ये भगवत्पूज्यपादाः । लोकसामान्य-
दृष्टयति । सुवर्णालंकारादिलौकिकदृष्टान्तः । उपादानकारणात्कार्यमाभिन्नं लेनोफाशने झाते
कार्यं ज्ञातं भवतीति सामान्यव्याप्त्या पप्रच्छेत्यर्थः । लोकदृष्टिं विवृणोति-सन्ति लोक
इति । सुवर्णत्वज्ञानेन सुवर्णशकलभेदानां कटककुण्डलरुंचकादीनां ज्ञानं भवति लौकि
कानाम् । जगद्धेदस्यति । भेदः पदार्थः। जगद्रूपस्य पदार्थस्येत्यर्थः । ज्ञातपूर्वं यत्तद्विषयं के
एव प्रश्नः संभवति नाज्ञाताविषयक इत्याह-नन्विति। कस्मिानिधेयमिति। सर्वेषु पात्राद्य-
विकरणेषु ज्ञातेषु कस्मिन्पात्रविशेष निधेयं घृतादिकमिति.प्रश्नः संभवतीत्यर्थः । अक्षरबा-
हुल्यादिति । किमस्ति तत् यस्मिन्नेकस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रश्नेऽक्षर-
बाहुल्यं स्यात्तंचायासकारि तन्मास्त्विति भवत्रस्तत्वात्कस्मिन्वित्यादिः प्रश्नों लावादि-
त्यर्थः ॥ ३॥
कोपानपत् . तस्मै स होवाच । द्वे विधेदित इति ह स्म पद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥४॥ तस्मै शौनकाय सोऽगिरा हकिलोवाचोक्तवान् । किमित्युच्यते ।द्वे विधे वेदितव्ये ज्ञातव्ये इति । एवं ह स्म किल यद्ब्रह्मविदो वेदार्थाभिज्ञाः पर- मार्थदर्शिनो वदन्ति । के त इत्याह । परा च परमात्मविद्या । अपरा च धर्माधर्मसाधनतत्फलविषया । ननु कस्मिन्विदित सर्वविद्भवतीति शौन- केन पृष्टं, तस्मिन्वक्तव्येऽपृष्टमाहाङ्गिराः-द्वे विद्ये इत्यादि । नैष दोषः । क्रमापेक्षत्वात्पतिवचनस्य । अपरा हि विद्या, अविद्या । सा निराकर्तव्या तद्विषये हि अविदिते न किंचित्तत्त्वतो विदितं स्यादिति 'निराकृत्य हि पूर्वपक्ष पश्चासिद्धान्तो वक्तव्यो भवति' इति न्यायात् ॥ ४ ॥ तत्रापरा, ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा पया तदक्षरमधिगम्यते ॥५॥ तत्र का अपरेत्युच्यते । ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इत्येते चत्वारो वेदाः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमित्यङ्गानि तस्मा इति । द्वे विद्ये वेदितव्ये इति यत्तद्ब्रह्मविदो वदन्तीत्यन्वयः । अपृष्टशमिति । नापृष्ट कस्यचिद्व्यान्न चान्यायेन पृच्छतः।' इति स्मृतावपृष्टोत्तरणस्य निषेधात्। नैष दोष इति । शौनकप्रश्नः किं तदस्ति यस्मिन्नेकस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवतीति। तस्योत्तरं ब्रह्मणि ज्ञाते सर्वमिदं विज्ञातं भवति नान्यस्मिन् । अयमर्थोऽपरविद्यानिराकरणं विना न बुद्धिगतो भवेत्तदर्थं द्वे विद्ये इति विद्याविभागकथनं तत्रापरविद्यानिराकरण यतोऽपरविद्याविथैव पूर्वपक्षरूपा । तनिराकरणमावश्यकमित्याह-निराकृत्यति॥४॥ तत्रेति । अपरा-स्वर्गादिफलसर्वज्ञानसाधनविषया । अपरा विद्येति । पुराण- न्यायमीमांसा धर्मशास्त्रांगमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति स्मृतेश्चतुर्दश विद्याः । ता अपरविद्येत्यभिधीयन्ते । शिक्षा-पाणिन्यादिकृता । कल्पः- श्रौतस्मार्तसूत्रे तत्तच्छाखाधिकृततया कात्यायनापस्तम्बाश्वलायनादिमुनिप्रणीतीव्याकरणम्- पाणिनिकृतम् । निरुक्तं-~यास्ककृतम् । छन्दः-पिंगलकृतम् । ज्योतिषम्-लगधमुनि- कृतम् । इतिहासादोनि पञ्चाचान व्याख्यातानि तेन प्रक्षिप्तानीति गम्यते । इति मारा- यणविरचितायां मुण्डकोपनिषद्दीपिकायां कथनाद्दीपिकाकारैरितिहासादिपञ्चकात्मकः पाठो .
भाष्यबालबाशिमंदिन षडेषाऽपरा विद्या । अथेदानीमियं परा विद्योच्यते यया तक्ष्यमाणविशेषणम- क्षरमधिगम्यते प्राप्यते । अधिपूर्वस्य गमेः प्रायशः प्राप्त्यर्थत्वात् । न च परप्राप्तेरवगमार्थस्य च भेदोऽस्ति । अविद्याया अपाय एव हि परप्राप्ति - न्तरम् । ननु ऋग्वेदादिबाह्या तर्हि सा कथं परा विद्या स्यान्मोक्षसाधनं या वेदबाह्याः स्मृतयः” (म. स्मृ. १२-१५) इति हि स्मरन्ति । कुदृष्टित्वान्निष्फलत्वादनाया स्यात् । उपनिषदां च ऋग्वेदादिबाह्यत्वं स्यात् । ऋग्वेदादित्वे तु पृथक्करणमनर्थकम् । अथ परेति । न । वेद्यविषयविज्ञानस्य विवक्षितत्वात् । उपनिषद्वद्याक्षरविषयं हि विज्ञानमिह परा विद्येति प्राधा- न्येन विवक्षितं नोपनिषच्छब्दराशिः । वेदशब्देन तु सर्वत्र शब्दराशिर्वि- वक्षितः । शब्दराश्यधिगमेऽपि यत्नान्तरमन्तरेण गुर्वभिगमनादिलक्षणं वैराग्यं च नाक्षराधिगमः संभवतीति पृथक्करणं ब्रह्मविद्याया अथ परा विद्येति ॥ ५ ॥ यथा विधिविषये कर्नाद्यनेककारकोपसंहारद्वारेण वाक्यार्थज्ञान- कालादन्यत्रानुष्ठेयोऽर्थोऽस्त्यमिहोत्रादिलक्षणः न तथेह परविद्या विषये लब्ध इति प्रतीयते । वक्ष्यमाणविशेषणमिति । अदृश्यमग्राह्यमगोत्रमवमित्याद्युत्तर- मन्त्रोक्तविशेषणविशेषितमित्यर्थः। प्रायश इति । 'अधिगच्छति श्लोकमित्यत्र ज्ञानार्थ- कस्य प्रयोगात् प्रायश इत्युक्तम् । प्राप्तिानं च तात्पर्यतोऽभिन्नमेवेत्याहन चेति । अपायः-विश्लेषः । परप्राप्तिामाविद्यानाशः नार्थान्तरमिति । उभावकार्थभूतो पर्याया- वित्यर्थः । एवं च परविद्याया ऋग्वेदादिबाह्यत्वेन परत्वं मोक्षसाधनत्वं च न स्यादिति शंकते- नन्विति । या वेदबाह्या इति । या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः। सर्वास्ता निष्कलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः। इति संपूर्णश्लोको मनुस्मृतौ ( १२-९५) अनादेया-अग्राह्या । ऋग्वेदादिबाह्यत्वमिति — ब्रह्मविद्याया वेदबाह्यत्वे तदर्थानामुप- निषदामपि ऋग्वेदादिब्रह्यत्वं प्रसज्येतेत्यर्थः । नेति । उत्तरमाह । परा विद्या नाम ब्रह्म- साक्षात्कारः । नतु तत्कारणभूत उपनिषच्छब्दराशिः। ततश्चानुभवजन्यज्ञानाद्ब्रह्म प्राप्यत इत्युत्तरग्रन्थतात्पर्यम् । वेद्यविषयविज्ञानस्येति । वेद्यं ब्रह्म तद्विषयं विज्ञानमपरोक्षज्ञानम् । विवक्षितत्वादिति । वतुमिष्टत्वादित्यर्थः। प्राधान्यनति । अपरोक्षज्ञानं प्रधानम् । ब्रह्मभावसाधकत्वात् | उपनिषच्छब्दराशिस्तदगंभूतः परम्परया ब्रह्मभावसाधकः । शाब्द- झाने सत्यपि यावत्साधको न गुरुतमीपं गच्छेद्वैराग्यं नाप्नुयात्तावत्पर्यन्तं नाक्षरब्रह्मज्ञानमित्य- भिप्रायः॥५॥ कर्मज्ञानाद् ब्रह्मज्ञानं विलक्षणं ततस्तयोः पृथकरणमित्याह- यथेति । विधिविषय इति । दर्शपौर्णमासाभ्यां स्वर्गकामो यजेतेत्यादौ । कायनकेत्यादि । कर्तृकर्म- १. मुण्डकोपनि त वाक्यार्थज्ञानसमकाल एव तु पर्यवसितो भवति । केवलशब्दप्रकाशितार्थ- ज्ञानमात्रनिष्ठाव्यतिरिक्ताभावात् । तस्मादिह परां विद्यां सविशेषणेनाक्षरेण विशिनष्टि-यत्तदद्रेश्यमित्यादिना । यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण- मचक्षुःश्रोत्रं तदपाणिपादम् । नित्य विभुं सर्वगतं सुसूक्ष्म तदव्ययं यद्भूतयोनि परिपश्यन्ति धीराः ॥६॥ वक्ष्यमाणं बुद्धों संहृत्य सिद्धवत्परामृशति-यत्तदिति । अद्रेश्यमदृश्य सर्वेषां बुद्धीन्द्रिाणामगन्यमित्येतत्। दृशेवहिप्प्रवृत्तस्य पञ्चेन्द्रियद्वारकत्वात्। अग्राह्यं कर्मेन्द्रियाविषयमित्येतत् । अगोत्रं गोत्रमन्वयो मूलमित्यनान्त- रम् । अमात्रमनन्द्रयमित्यर्थः । न हि तस्य मूलमस्ति येनान्वितं स्यात् । वर्ण्यन्त इति वर्णा द्रव्यधर्माः स्थूलत्वादयः शुक्लत्वादयो वा । अविद्य- करणसंप्रदानादयो ऽनेके कारकाः साधकास्तषामुपसंहारो ग्रहणं तद्द्वारेत्यर्थः । अय- मर्थः । दपोणमासाभ्यां स्वर्गकाम इत्यादिविधिवाक्यार्थज्ञानानन्तरं यजमानः कर्ता होमा- ख्यं कर्म, वृतादिहविः करणं, अग्नीषोमाद्या देवताः संप्रदान वेद्याद्युपकरणं तत्संग्रहपूर्वकं किं- चिदमिहोत्रादिकमनुष्यं भवति । अत्र तु ब्रह्मविज्ञानविषये न किचिदन्यत्संपादनीयं केवलं तत्त्वमसीनि वाक्य पिरोक्षज्ञानसमय व समाप्तं कार्यम् । यतोऽत्र केवलं शब्दार्थज्ञाननिष्ठेव संपादन या । ननु ततोऽन्यत्किचिन् । इति । अन्यत्रेति । वाक्यार्थज्ञानादनन्तरमित्यर्थः। पर्यवसितः- समा'तः । विशिनष्टति पृथक् ज्ञापयतीत्यर्थः । यया धीराः ( यत्तद्देश्यमित्यादि) पश्यन्ति सा परेत्यन्वयः पूर्वोत्तरमन्त्रयोः बुद्धौ संहृत्यति । वक्ष्यमाणं बुद्धिस्थं कृत्वत्यर्थः । सिद्धवत्परामृश्यते-सिद्धमिव संपाद्य तन्छब्देन वयते । यत्नदिति। अद्रेश्यमिति । अदृश्यमित्यर्थेऽदेश्यमिति वैदिक रूपम् । बुद्धीन्द्रियाणामिति । पवानां ज्ञानन्द्रियाणाम् । दृशरिति । दाशज्ञानम् । यदा ज्ञान मन विनिगल्य घटादिवहिविषयेषु प्रवृत्तं भवति तदा चक्षुरादीनि पञ्चेन्द्रियाणि तद्द्वाराणि भवन्ति । कर्मेन्द्रियाविषयामिति । पाणिप दादीनां पञ्चानां कर्मेन्द्रियाणामविषयभूतम् । चक्षु:श्रीवघ्राण वरिजव्हाख्यानि पञ्च ज्ञानेन्द्रियाणि । वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि । अनन्तिरमिति । अन्योऽर्थोऽर्थान्तरं, न अर्थान्तरं, अनर्थान्तरम् इति विग्रह | गोत्रमन्वयो मूलमिति शब्दार्थेषु भेदो नास्ति पर्यायभूता ऐवेमे शब्दा इत्यर्थः। नाम रूपविपये इति । नाम शब्दः सर्वैः प्राणिभिः शब्दः श्रोत्रेण ज्ञायते रूपं च चक्षुषा ज्ञा.
भाष्यबालबोधिनीसहिता यः माना वर्णा यस्य तदवर्णमक्षरम् । अचक्षुःश्रोत्रं चक्षुश्च श्रोत्रं च नामरू- पविषये करणे. सर्वजन्तूनां ते अविद्यमाने यस्य तदचक्षुःश्रोत्रम् । सर्वज्ञः सर्ववित् " इत्यादिचेतनावत्त्वविशेषणत्वात्प्राप्तं संसारिणामिव चक्षुः- श्रोत्रादिभिः करणैरर्थसाधकत्वं, तदिहाचक्षुःश्रोत्रमिति वार्यते । “ पश्यत्य- चक्षुः स शृणोत्यकर्णः" इत्यादिदर्शनात् । किंच तदपाणिपादं कर्मेन्द्रियर- हितमित्येतत् । यत एवमग्राह्यमग्राहकं चातो नित्यमविनाशि । विभुं विविध ब्रह्मादिस्थावरान्तप्राणिभेदैर्भवतीति विभुम् । सर्वगतं व्यापकमाकाशवत्सुसूक्ष्म शब्दादिस्थूलत्वकारणरहितत्वात् । शब्दादयो ह्याकाशवाय्वादीनामुत्तरोत्तरं स्थूलकारणानि तदभावात्सुसूक्ष्मम् । किं च तदव्ययमुक्तधर्मत्वादेव न व्यतीत्यव्ययम् । न ह्यनङ्गस्य स्वाङ्गापचयलक्षणो व्ययः सम्भवति शरीरस्येव। नापि कोशापचयलक्षणो व्ययः सम्भवति राज्ञ इव । नापि गुणद्वारको व्ययः सम्भवत्यगुणत्वात्सर्वात्मकत्वाच्च । यदेवलक्षणं भूतयोनि भूतानां कारणं पृथिवीव स्थावरजङ्गमानां परिपश्यन्ति सर्वत आलभूतं सर्वस्याक्षरं पश्यन्ति धीरा धीमन्तो विवेकिनः। ईदृशमक्षरं यया विद्ययाधिगम्यते सा परा विद्येति समुदायार्थः ॥ ६ ॥ भूतयोनिरक्षरमित्युक्तं तत्कथं भूतयोनित्वमित्युच्यते प्रसिद्धदृष्टान्तैः । यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति। यते तदुभयं यस्य नास्तीत्यर्थः । ननु सर्वत्र प्राप्तिपूर्वक एव निषेधो भवति । अत्र तु चक्षु:- श्रोत्रस्य प्राप्तिः कुतो येन 'अचक्षुःश्रोत्रे' इति निषिध्यत इति चेन्न । यः सर्वज्ञः सर्वविदित्य- न्तिममन्त्रे ज्ञानविशिष्टत्वमुक्कं तेन चक्षुरादिज्ञानसाधने स्यादिति तन्निराकरणार्थमचक्षुःश्रो- त्रमित्युक्तेः सार्थक्यात् । अर्थसाधकत्वं-दर्शनश्रवणादिकार्यसाधकत्वम् । आकाश- वदिति । नैयायिकनय आकाशं व्यापकं तदभिप्रायेणाकःशदृष्टान्तः। तद्भावादिति । शब्दाद्यभावादित्यर्थः । अनंगस्य-स्थूलसूक्ष्मादिशरीरराहतस्य । अपचयः-क्षयः । कोशाप- चयः-द्रव्यानिधेः क्षयः । राज्ञो द्रव्यनिधिःक्षीयते तेन तस्य क्षयो भवति न तथा ब्रह्मणः गुणद्वारक इति। गुणक्षयद्वारापि नास्य क्षयः। भूतानां प्राणिनाम् । पृथिवीवेति। पार्थिवानां सर्वेषां विकाराणां पृथिव्युपादानकारणम् । स्थावरजंगमानामिति । तिष्ठन्तीति स्थावरा वृक्षपाषाणादयः । गच्छन्तीति जंगमा मनुष्यपश्वादयः । समुदायार्थ इति । संपूर्णमन्त्रार्थ इत्यर्थः॥६॥ प्रसिद्धदृष्टान्तरिति । अर्णनाभ्यादिभिस्त्रिभियान्तैः ।
१२
मुण्डकोपनिषत्
यया सत्तः सुरुषात्केत्रलोमानि
वतीह विश्वम् ॥७॥
यथा लोके प्रसिद्ध ऊर्णनाभि ताकीटः किंचित्कारणान्तरमन-
पेक्ष्य स्वयमेव सृजते स्वशरीराव्यतिरिक्तानेव तन्तून्बहिः प्रसारयति पुनस्ता-
नेव गृहृते च गृहाति . स्वात्मभावमेवापादयति । यथा च पृथिव्यामोषधयो
वाह्यादिस्थावराणीत्यर्थः । स्वात्माव्यतिरिक्ता एव सम्भवन्ति प्रभवन्ति ।
यथा च सतो विद्यमानाजीवतः पुरुषाकेशलोमानि केशाश्च लोमानि च
सम्भवन्ति विलक्षणानि । यथैते दृष्टान्तास्तथा विलक्षणं सलक्षणं च निमि-
तान्तरानपेक्षाद्यथोक्तलक्षणादक्षरात्सम्भवति समुत्पद्यत इह संसारमण्डले विश्वं
समस्तं जगत् । अनेकदृष्टान्तोपादानं तु सुखार्थप्रबोधनार्थम् ॥ ७॥
यथा लोक इति । अत्र दृष्टान्तत्रयम् । १ ऊर्णनाभिः कारणं, तन्तवः कार्यम्। २
पृथिवी कारणं, ओषधयः कार्यम् । ३ सन् पुरुषः कारण,केशलामानि कार्यम् । तत्र प्रथम-
दृष्टान्तेन ब्रह्मणोऽसहायत्वान्न कारणत्वमिति शंका निवर्त्यते । तथाहि ब्रह्म न कारणं सहाय-
शून्यत्वात् । कुलालादयो हि चक्रादिसहायसत्व एव कार्यस्य जनका न तदभावे इति शंका
निराक्रियते प्रथमेनोर्णनाभिदृष्टान्तेन । ऊर्णनाभिः सहायशून्योऽपि तन्तुसर्जनतन्तुविलयनादि-
कार्य संपादयति तद्वब्रह्म । द्वितीयदृष्टान्तेन ब्रह्मन जगत उपादानं सर्वावयवैस्तदभिन्नत्वादिति
शंका निराकरोति। तथाहि ब्रह्म न जगत उपादानं जगतस्तेन सह सर्वावयैवरभदाद्यथा देवदत्तो न
स्वरूपोत्पादकस्तद्वत् । इमां शंका निराकरोति द्वितीयन पृथिवीदृष्टान्तन । यथा पृथिवी सर्वशः
स्वाभिनानां भूतानामुत्पादिका तद्वद्ब्रह्म स्त्राभेनजगत उत्पादकम् । तृतीयेन पुरुषदृष्टान्तेन
जगन्न ब्रह्मरूपोपादानकारणजन्य तद्विलक्षणत्वादिति शंका निराकरोति तथाहि आनित्यं जगत्
नित्यब्रह्मरूपादुपादानकारणान्न जायते विलक्षणत्वात् यद्यद्विलक्षणं तत्तदुपादानकं न भवति ।
पीततन्तवः पीतपटं प्रति उपादानकारणं भवितुमर्हन्ति सलक्षणत्वात् ब्रह्मजगतोस्तु नित्या-
नित्ययावैलक्षण्यं तेन न तयोरुपादानकारणकार्यत्व इति शङ्का निराकरोति तृतीयेन
पुरुषदृष्टान्तेन | यथा चेतनोऽपि पुरुषः केशलोमादीनामचेतनानामुपादानं तद्वत् ब्रह्म
विलक्षणमपि जगत उपादानम् । स्वात्मभावमेवापादयतीति । आत्मनि विलीनान्
करोतीत्यर्थः। विलक्षणमिति । विभिन्नलक्षणं विजातीयमित्यर्थः । सलक्षणामति ।
समानलक्षणं सजातीयमित्यर्थःनिमित्तानारानपेक्षादिति । अन्यनिमित्तमनपेक्ष्य ब्रह्मजग-
दुरपादयतीत्यर्थः। यथोक्तलक्षणादिति । अदृश्यमग्राह्यमिति पूर्वमन्त्रोक्तलक्षणयुतादित्यर्थः।
ननु लूतातन्तुरूपणकैनैव दृष्टान्तेन पूर्वोक्तशंकानयमपाकर्तुं शक्यं किमर्थं दृष्टान्तत्रयग्रहणमि-
त्यत आह-सुखार्थप्रबोधनार्थमिति । पूर्वोक्तरीत्या भिन्नदृष्टान्तेन भिन्नशंकानिराकरणे
बालानां सुखन बोधो भवतीत्यतो दृष्टान्तत्रयोपपादनमिति भावः॥७॥
मविपातनीधिनीसहिता १३ बद्रमण उत्पद्यमान विश्वं तदनेन क्रमेणोत्पयो न युमपद्धदरमुष्टि. प्रक्षेपवदिति क्रमनियमविवक्षार्थोऽयं मन्त्र आरम्यते । तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्माणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥८॥ तपसा ज्ञानेनोत्पत्तिविधिज्ञतया भूतयोन्यक्षरं ब्रह्म चीयत उपचीयत उत्पिपादयिषदिदं जगदगुरमिव बजिमुच्छ्नतां गच्छति पुत्रमिव पिता हर्ण । एवं सर्वज्ञतया सृष्टिस्थितिसंहारशक्तिविज्ञानवत्तयोपचितात्ततो ब्रह्मणोऽन्नमद्यते भुज्यत इत्यन्नमव्याकृतं साधारणं कारणं संसारिणां व्याचिकीर्षितावस्थारू- पेणाभिजायत उत्पद्यते । तताश्चाव्याकृतायाचिकर्षितावस्थादन्नात्प्राणो हिर- ण्यगर्भो ब्रह्मणो ज्ञानक्रियाशक्त्यधिष्ठितो जगत्साधारणोऽविद्याकामकर्मभूत- समुदायबीजाकुरो जगदात्माभिजायत इत्यनुषङ्ग ः। तस्माच्च प्राणान्मनो मनआख्यं संकल्पविकल्पसंशयानर्णयाद्यात्मकममिजायते । ततोऽपि संकल्पा- बदरमुष्टिप्रक्षेपवदिति । यथा कश्चित्पुरुषो मुष्टिगतानि बदरफलानि भूमावेकका- लं प्रक्षिपति न तथा ब्रह्मणानप्राणादिवस्तूनि सहसैव प्रक्षिप्तानि किन्तु तत्रास्ति नियतः क्रमः स चानेन मन्त्रेण द्योत्यते । विवक्षा-वक्तुमिच्छा । उत्पिपादयिषदिति । उत्पादयितुमिच्छत्-उत्पिपादयिषत् । यथांकुरमुत्पादयत् बीजं ततः प्राक्काले किंचित्स्यूलं भवति तद्वत् जगदुत्पत्तिप्राक्काले ब्रह्म वर्धते ज्ञानेन । उच्छूनतां-वृद्धिम् । स्थूलत्वे द्वितीयो दृष्टान्तः । पुत्रमिवति । चीयत इत्यस्य — बहु स्यां प्रजायेय' इतीक्षणवद्भवतीति दीपिकाकृतोऽर्थः । अव्याकृतमिति । महाभूतसर्गादि- संस्कारस्थानभूतं सत्त्वरजस्तमोगुणत्रयसाम्यमयं मायातत्त्वमिहाव्याकृतशब्देन बोध्यम् । व्या- चिकार्षितेत्यादि । व्याकर्तुमिष्टा या पञ्चमहाभूताद्यवस्था तद्रूपेण जायत इत्यर्थः । व्या- चिकीर्षितावस्थादिति । अन्नादित्यस्य विशेषणम् | व्याचिकीर्षितावस्थात इति पाठः पूर्व- भाष्येण सह विसंगतः। पूर्वस्मिन्कल्प हिरण्यगर्भवप्राप्तिानिमित्तं प्रकृष्ट ज्ञानं कर्म च येनानुष्ठितं तदनुग्रहाय मायोपाधिकं ब्रह्म हिरण्यगर्भावस्थाकारेण विवर्तते । स च जीवस्तदवस्थाभिमानी हिरण्यगर्भ उच्यते इत्यभिप्रेत्याह-ब्रह्मण इति । अस्य षष्ठयन्तपदस्य ज्ञानक्रियाशक्यधि- छित इति समासगतन ज्ञानक्रियाशक्तिशब्देन सह संबन्धः । ततश्चायं समासः 'सविशेषणानां बृत्तिन वृत्तस्य विशेषणयोगो न' इति निषेधादसामर्थेऽपि देवदत्तस्य गुरुकुलामतिवद्गम- कत्वात्साधुः। ब्रह्मसंबन्धिज्ञानक्रियाशक्तिभिरधिष्ठितः प्राण इत्यर्थः। ज्ञानशक्तिभिः क्रि- याशक्तिभिश्चाधिष्ठितं विशिष्टं जगद् व्यष्टिरूपं तस्य साधारणः समष्टिरूपः सूत्रसंज्ञक इति बोधयति-जगत्साधारण इति मन आख्यामिति । इदं समष्टिरूपं बिवाचितम् ।
मुण्डकोपनिषत् घात्मकान्मनसः सत्यं सत्याख्यमाकाशादिभूतपञ्चकमाभिजायते । तस्मात्स- त्याख्याद्भूतपञ्चकादण्डक्रमेण सत्र लोका भूरादयः । तेषु मनुष्यादिप्राणि- वर्णाश्रमक्रमेण कर्माणि । कर्मसु च निमिचभूतेष्वमृतं कर्मजं फलम् । या. वकर्माणि कल्पकोटिशतैरपि न विनश्यन्ति तावत्फलं न विनश्यतीत्यमृतम्॥८॥ उक्तमेवार्थमुपसंजिहीर्घमन्त्रो वक्ष्यमाणार्थमाह- यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतब्रह्म नाम रूपमन्नं च जायते॥९॥ इत्यथर्ववेदीयमुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः॥१॥ य उक्तलक्षणोऽक्षराख्यः सर्वज्ञः सामान्येन सर्व जानातीति सर्वज्ञः। विशेषेण सर्व वेत्तीति सर्ववित् । यस्य ज्ञानमयं ज्ञानविकारमेव सार्वज्यलक्षणं तपोऽनाया- सलक्षणं तस्माद्यथोक्तात्सर्वज्ञादेतदुक्तं कार्यलक्षणं ब्रह्म हिरण्यगर्भाख्यं जायते। किंच नामासौ देवदत्तो यज्ञदत्त इत्यादिलक्षणम् । रूपमिदं शुक्लं नीलमित्यादि। अन्नं च व्रीहियवादिलक्षणं जायते पूर्वमन्त्रोक्तक्रमणेत्यविरोधो द्रष्टव्यः ॥९॥ इनि मुण्डकोपनिषद्भाध्ये प्रथममुण्डके प्रथमः खण्डः॥१॥ १ ॥ व्यष्टिरूपं मनस्तु लोकसृष्टयनन्तरं जायते । संकल्पविकल्पत्यादि । इमाः संकल्पाद्या- श्चित्तचतुट्यस्य वृत्तयः । मनः, बुद्धिः, अहंकारः, चित्तमिति चित्तचतुष्टयम् । सत्यमिति। सत्यपदेन, आकाशादिभूतपञ्चकं गृह्यते तदाह-आकाशादिभूतपञ्चकामिति । कर्म- फलस्याभूतपदाभिषेयत्वे हेतुमाह-यावदित्यादि । अक्षय्यं ह बै चातुमस्यियाजिनः सुक- तम् | अपाम सोमममृता अभूम' इति श्रुतेः । अत्रापि कल्पकोटिशतस्थायित्वमेवाक्षय्य- मित्यादिपदस्यार्थः ॥ ८॥ उपसंजिहीर्षुरित । उपसंहारं कर्तुमिच्छुरित्यर्थः । वक्ष्यमाणार्थमिति । अग्रे द्विर्तायखण्डेऽविद्याविवरणमारम्भणीयं तदर्थ पूर्वोक्तपरविद्योपसंहारोऽस्मिन्मन्त्रे । सामान्येनेति । समष्टिरूपेण मायोपाधिनेत्यर्थः । विशेषेणेति । व्यष्टिरूपेणा- विद्याख्येनोपाधिनानन्तजीवभावमापन्नः सर्वं स्वोपाधिभूतं तत्संसृष्टं च वेत्ति । एवं चाधिदैवेs- ध्यात्म च तत्त्वैक्यं बोधितम् । ननु यथा प्रजापतयः सृष्टौ तप एव साधनमङ्गीकुर्वते तद्व- दनेनापि ब्रह्मणा सृष्टौ तपः साधनत्वेन स्वीकार्यम् । ततश्च तस्य संसारित्वं प्रसज्ज्यतेत्या- शंक्याह-यस्य ज्ञानमयमिति । ज्ञानमयमित्यत्र विकाराय मयट् ब्रह्मणस्तपस्तु न प्रजापती नामिव क्लेशरूपं किन्तु ज्ञानात्मकम् । ज्ञानं च सत्त्वप्रधानमायाया विकारः । सत्त्वात्संजा- यत ज्ञानमित्युक्तेः । अस्य ज्ञानस्य विकारः सृज्यमानसर्वपदार्थज्ञातृत्वलक्षणस्तदेव तपः । न परिश्रमात्मकं तदाह-सार्वझ्यलक्षणमित्यादि ॥९॥ इति श्रीमुण्डकोपनिषदि शांकरभाष्ये बालबोधिन्यां प्रथममुण्डके प्रथमः खण्डः ।।१।।१।।
भाष्यबारबोधिनीसहिता १५ साङ्गा वेदा अपरा विद्योक्ता-ऋग्वेदो यजुर्वेद इत्यादिना । यत्तद- देश्यमित्यादिना नामरूपमन्नं च जायत इत्यन्तेन अन्येनोक्तलक्षणमक्षरं यया विद्ययाधिगम्यत इति परा विद्या सविशेषणोक्ता । अतः परमनयोर्वि- धयोर्विषयौ विवेक्तव्यौ संसारमोक्षावित्युत्तरो ग्रन्थ आरभ्यते । तत्रापरवि- द्याविषयः कांदिसाधनाक्रियाफलभेदरूपः संसारोऽनादिरनन्तो दुःखस्वरूप- त्वाद्धातव्यः प्रत्येकं शरीरिभिः सामस्त्येन नदीस्रोतोवदव्यवच्छेदरूपसंबन्धस्त- दुपशमलक्षणो मोक्षः मोक्षः परविद्याविषयोऽनाद्यनन्तोऽजरोऽमरोऽमृतोऽभयः शुद्धः प्रसन्नः स्वात्मप्रतिष्ठालक्षणः परमानन्दोऽद्वय इति । पूर्वं तावदपर- विद्याया विषयप्रदर्शनार्थमारम्भः । तद्दर्शने हि तन्निदोपपत्तिः । तथाच - पूर्वोत्तरखण्डयोः संगति दर्शयितुं वृत्तमनूद्योत्तरग्रन्थप्रयोजनमभिधत्ते-सांगा वेदा इत्यादिना | विवक्तव्यौ-पृथक् प्रदर्शनायो । संसारमोक्षाविति । अपरविद्याविषयः संसारः। परविद्याविषयो मोक्षः। कादिसाधनक्रियाफलभेदरूप इति । कर्ता यजमानः । आदिपदेन हविरा- दिसाधनं, क्रिया यज्ञः, फलं स्वर्गः, इति समूहात्मक एव संसारः । अनादिरित । उपा- दानरूपेणायं संसारोऽनादिः । अनन्त इति । ज्ञानादेव तु कैवल्यमिति वचनाज्ञानात्याक् संसारस्यान्ताभावाचस्यानन्तत्वम् । दुःखरूपत्त्वात्-दुःखमयत्वात् । हातव्यः- त्यक्तव्यः । यद्यपि सुषुप्तौ स्वयमेव संसारो न प्रलीयते तेन तत्त्याग एव परंतु स सुषुप्तिगतः संसारत्यागोऽबुद्धिपूर्वकः । तत्र न त्यागफलं किंतु बुद्धिपूर्वकत्यागे तदाह-सामस्त्येनेति । सामस्त्येव--संपूर्णतया । स्वोपाध्यविद्याकार्यस्यात्यन्ति- कनाशस्तत्कारणीभूताविद्यानाशजन्यः । एतदेव विद्याफलम् । सुषुप्तौ तु अविद्याकार्यस्य नात्यन्तं विनाशः। अविद्यारूपकारणस्य विद्यमानत्वात् । सुखमहमस्वाप्सं न किंचिदवे- दिषमिति सुषुप्त्यनन्तरमनुभवात्तत्राविद्यायाः सत्त्वम् । अस्माभिर्यो हेयः संसारस्तत्स्वरूप- माह-नवस्त्रोतोवदिति। गंगादिमहानदीप्रवाहो यथाविच्छिन्नधारस्तद्वदस्य संसारस्य रूपा विच्छेदः । एतत्पर्यन्तं संसारस्वरूपमुक्तम् । अतःपरं मोक्षस्वरूपमाह-तदुपशमलक्षण इति । तच्छन्दः पूर्वपरामर्शकः । तस्य पूर्वेक्तस्य संसारस्य उपशम एव लक्षणं यस्येत्ये- तादृशो मोक्षः अनाद्यनन्त इति। वास्तव एवानादिरनन्तो नोपाधिद्वारेण अमरः-क्षयरहितः। अमृतः नाशरहितः । अपरविद्यायाः परविद्यायाश्च विषयो प्रदर्श्य पूर्वमपराविद्याया विषयप्रद- शनं श्रुतेरभिप्रायमाह-पूर्वमिति । तनिवेदोपपत्तिरित। निर्वेदः- वैराग्यम् । एवं चापरविद्याविषयेऽग्निहोत्रादिषु वैराग्योत्पत्त्यर्थं प्रथमं तदुक्तिः । अन्यदपि कारणमपर- विद्याविषयप्रदर्शन इत्याह-तथा चेति ।
पुफकोपनिषत् वक्ष्यति---" परीक्ष्य लोकान्कर्मचितान् " इत्यादिना । न प्रदर्शित परी- झोपपद्यत इति तत्पदर्शयन्नाह- तदेतत्सत्यं मन्त्रषु कर्माणि कवयो यान्यपश्य- स्तामि त्रेतायां बहुधा संततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥१॥ तदेतत्सत्यमवितथम् । किं तन्मन्त्रेष्पावेदाद्याख्येषु कर्माण्यमिहोत्रा- दीनि मन्त्रैरेव प्रकाशितानि कवयो मेधाविनो वसिष्ठादयो यान्यपश्यन्दृष्टवन्तः। यत्तदेतत्सत्यमेकान्तपुरुषार्थसाधनत्वात्तानि च वेदविहितान्युषिदृष्टानिः कर्माणि त्रेतायां त्रयीसंयोगलक्षणायां हौत्राध्वर्यवौद्गात्रप्रकारायामधिकरण- भूतायां बहुधा बहुप्रकारं संततानि प्रवृत्तानि कर्मिभिः क्रियमाणानि त्रेतायां वा युगे प्रायशः प्रवृत्तानि । अतो यूयं तान्याचरथ निर्वतयथ नियतं नित्यं सत्यकामा यथाभूतकर्मफलकामाः सन्तः । एष वो युष्माकं पन्था मार्गः सुकृतस्य स्वयं निर्तितस्य कर्मणो लोके फलनिमित्तं लोक्यते दृश्यते भुज्यत इति कर्मफलं लोक उच्यते । तदर्थं तत्प्राप्तय एष मार्ग इत्यर्थः । यान्यतान्यग्निहोत्रादीनि त्रय्यां विहितानि कर्माणि तान्येष पन्था अवश्य- फलप्राप्तिसाधनमित्यर्थः ॥१॥ तत्रामिहोत्रमेव तावत्प्रथमं प्रदर्शनार्थमुच्यते, सर्वकर्मणां प्राथम्यात् तत्कथम् । यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत् ॥ २॥ तदेतत्सत्यमिति । असति प्रतिबन्धे वैदिककमीवश्यमेव फलं जनयात ततः सत्यं तदित्यर्थः । एकान्तपुरुषार्थसाधनत्वादिति । एकान्तं निश्चयेन स्वर्गादिपुरुषार्थ- साधनत्वं कर्मणाम् । त्रेतायामिति । ऋग्यजुःसामसमूहे त्रेताये युगे वेत्यर्थद्वयम् । त्रयो -ऋग्यजुःसामवेदेति त्रयम् । तत्संयोगः यज्ञकर्मसु हौत्रादिद्वारा । तत्र ऋचैव हौत्र, यजुधैवाध्वर्यवं, साम्नैबौद्गात्रम्, इति विधानात् होत्रमृग्वेदविहितम्। आध्वर्यवं यजुर्वेदविहितम्। औद्गात्रं सामवेदविहितम् । सत्यकामा:-स्वर्गकामाः। लोक इति । लोकपदेन कर्मफलं. गृह्यते तल्लोकशब्दव्युत्पत्त्या दर्शयति-लोक्यत इतिः। तदर्थमितिः | लोक इति निमित्तार्थे सप्तमी। तेन लोकनिमित्तं कर्मफलनिमत्तमित्यर्थः ॥१॥ तत्रेति । पूर्वोक्तकर्मसु । प्राथम्यादिति । अमिहोत्रं-मान्याधानम् । पातपुत्र भाष्यबालबोधिनीसहिता १७ - यदैवेन्धनैरभ्याहितैः सम्यगिद्धे समिद्धे हव्यवाहने लेलायते चलत्यर्चि- स्तदा तस्मिन्काले लेलायमाने चलत्यर्चिष्याज्यभागावाज्यभागयोरन्तरेण मध्य आवापस्थान आहुतीः प्रतिपादयत्प्रक्षिपेद्देवतामुद्दिश्य । अनेकाहःप्रयोगापे- क्षयाहुतीरिति बहुवचनम् । एष सम्यगाहुतिप्रक्षेपादिलक्षणः कर्ममार्गो लोक- प्राप्त ये पन्थास्तस्य च सम्यक्करणं दुष्करम् । विपत्तयस्त्वनेका भवन्ति ॥२॥ कथम्- यस्याग्निहोत्रमदर्शमपौर्णमास- मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवमविधिना हुत- मासप्तमांस्तस्य लोकान्हिनस्ति ॥ ३॥ यस्याग्निहोत्रिणोऽग्निहोत्रमदर्श दर्शाख्येन कर्मणा वर्जितम् । आमिहोत्रिभिरवश्यकर्तव्यत्वादर्शस्य । अग्निहोत्रिसंबन्ध्यग्निहोत्रविशषणमिव भवति । तदक्रियमाणमित्येतत् । तथापौर्णमासमित्यादिप्वप्यमिहोत्रविशे- केशोऽनीनादधीत' इति श्रुत्याग्न्याधानं विहितं तदनन्तरमेव सर्वेषु यज्ञकर्मस्वधिकारो भवत्यतोऽग्निहोत्रस्य प्राथम्यम् । अभ्याहितैरिति । अग्नौ स्थापितरित्यर्थः। आज्यभागाविति । अन्तरान्तरेण युक्त २ । ३ । ४ इति पाणिनिसूत्रेण द्वितीया । आवापस्थान इति । दक्षिणाग्निगार्हपत्या- हवनीयेति त्रयोऽनयः । तत्र दर्शपूर्णमासेष्टौ आहबनीयाग्नदक्षिणोत्तरपार्श्वयोः 'अग्नये स्वाहा, सोमाय स्वाहा' इति मन्त्राभ्यामाज्यभागौ हूयेते । तयोरेव दक्षिणोचरपार्श्वयोर्मध्येऽन्येऽपि यागा अनुष्ठीयन्ते। तन्मध्यम-आवापस्थानमिति कथ्यते । तत्राहुतिप्रक्षेपः कर्तव्यः। प्रतिदिन यदग्निहोत्रं ह्रयते तत्र प्रातः सायं चाहुतिद्वयम् । तत्र प्रातः सूर्याय स्वाहा प्रजापतये स्वाहा । इति मन्त्राभ्यामाहुतिद्वयम् । सायम्-अग्नये स्वाहा, प्रजापतये स्वाहा' इति मन्त्राभ्यामाहुतिद्व- यम् । एवं चामिहोत्र आहुतिद्वयम्। त्रित्वे बहुत्वं संपन्नमिति न्यायान्त्रिप्रभृतिषु बहुवचनस्य प्राप्ति- स्तथा च कथमन मन्त्रे 'आहुतीः' इति बहुवचनप्रयोग इति शङ्कां निराकर्तुमाह-अनेकाहः- प्रयोगापेक्षयति । अनेकेष्वहःसु यदनुष्ठाने तदपेक्षयाबहुवचनप्रयोगः । एकस्मिनहनि सायं- प्रातस्तन आहुतयश्चतस्रो भवन्ति तदपेक्षयापि बहुवचनप्रयोगः संगच्छते । विपत्तय इति । दर्शपौर्णमासचातुर्मास्येष्ट्यादीनां यथाकालमनुष्ठानाभावो दुरनुष्ठानं वा विपत्तय इत्यर्थः।।२।। अग्निहोत्रिभिरवश्यकर्तव्यत्वादिति । यद्यपि दर्श, अग्निहोत्रस्याङ्गं च तेन दर्शाभावी न विपत्तिस्तथापि न तत् अग्निहोत्रिभिरवश्यं कर्तव्यं तेन तद्दशैं लक्षणयाग्निहोत्रस्यैव विपत्तिभूतं गण्यते। अग्निहोत्रिसंबन्धीति । अमिहोत्रिणो यदवश्यकर्तव्यं दर्श तत्तत्संबन्धिनोऽमिहो- मु.३
द्धिस्यन्त इव,
मुण्डकोपनिषत्
पणत्वं द्रष्टव्यम् । अमिहोत्राङ्गत्वस्याविशिष्टत्वात् । अपौर्णमासं पौर्णमास-
कर्मवर्जितम् । अचातुर्मास्यं चातुर्मास्यकर्मवर्जितम् । अनाग्रयणमाग्रयणं
शरदादिषु कर्तव्यं तच्च न क्रियते यस्य तत्तथा । अतिथिवर्जितं चातिथिपूजनं
चाहन्यहन्यक्रियगाणं यस्य । स्वयं सम्यगग्निहोत्रकालेऽहुतम् । अदर्शादिव-
दवैश्वदेवं वैश्वेदेवकर्मवर्जितम् । हूयमानमप्याविधिना हुतं न यथा तमित्ये-
तत् । एवं दुःसंपादितमसंपादितमग्निहोत्राद्युपलक्षितं कर्म किं करोतीत्युच्यते-
आसप्तमान्सप्तमसहितांस्तस्य कर्तुलॊकान्हिनस्ति हिनस्तीवायासमात्रफलत्वात् ।
सम्यविक्रयमाणेषु हि कर्मसु कर्मपरिणामानुरूप्येण भूरादयः सत्यान्ताः सप्त
लोकाः फलं प्राप्तव्यम् । ते लोका एवंभूतेनामिहोत्रादिकर्मणा त्वप्राप्यत्वा.
आयासमात्रं स्वव्यभिचारीत्यतो हिनस्तीत्युच्यते । पिण्डदाना-
द्यानुहेण वा संबध्यमानाः पितृपितामहप्रपितामहाः पुत्रपौत्रप्रपौत्राः
स्वात्मोपकाराः सप्त लोका उक्तप्रकारेणाग्निहोत्रादिना न भवन्तीति
हिंस्यन्त इत्युच्यत ॥ ३ ॥
काली कराली च मनोजवा च
सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिंगिनी विश्वरुची च देवी
लेलायमाना इति सप्त जिह्वाः॥ ४ ॥
त्रस्य विशेषणमिव जायते । इत्येतदिति । इदं तात्पर्यमित्यर्थः । पौर्णमासकर्म-पौर्णमासेष्टिः
चातुर्मास्य-चातुमास्ययागः। आग्रयणं-नवान्नेन कर्तव्यं कर्म । अदर्शादिवदिति । यथा दर्श-
ममिहोत्रस्यानंगमपि अग्निहोत्रिभिरबझ्यं कर्तव्यं तन लक्षणयाग्निहोत्राडगं भवति तथैव वैश्वदेव-
कर्म अमिह त्रस्यानंगमपि अग्निहात्रिभिरवश्यं कर्तव्यं तेनाग्निहोत्रांगं भवति । दुःसंपादि-
तमिति । अशास्त्रीयरीत्या संपादितमित्यर्थः । आग्निहोत्रादिसर्वेषामनुक्तकर्मणामुपलक्षण-
मित्याह-आग्नहोत्राद्युपलक्षितमिति । हिबस्तीव-नाशयतीव । आयासमात्रफलत्वा-
दिति । दुःसंपादितासंपादितकर्मफलं परिश्रमातिरिक्तं न किंचिदित्यर्थः । कर्मपरिणामानु-
रूप्येण-कर्मपरिणामानुरूपम् । सत्यान्ता इति। १ भूः २ भुवः ३ स्वः ४ जनः ५ महः
६तपः ७ सत्यमिति सप्त लोकाः। हिंस्यन्त इवेति। अप्राप्तिरेव हिंसा । अव्यभिचारीति।
दुःसंपादितऽपि कमाण श्रमो भवत्येव । एवंच फलाभावेऽपि श्रमस्तु भवति । अव्यभि-
चारी-नित्यः । पिण्डदानाद्यनुग्रहणेति । आदिपदेन ग्रासदानद्वारा पोषणं ग्राह्यम् । तथाच
पिण्डदानेन त्रयाणां पितृपितामहप्रपितामहानामुपकारः। ग्रासादिपोषणन त्रयाणां पुत्रपौत्रप्र-
पौत्राणामुपकारः । एवं चैते षट् स्वयं यजमानश्चति सप्त लोका अग्निहोत्रादिनोपक्रियन्ते ।
अन्यथा तदुच्छेदो भवति । उच्यत इति । फलाभावो हिंसैव । तेन हिनस्तीत्युच्यते ॥३॥
प्र. भाष्यबोलबोधिनीसहिता काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना दहनस्य जिह्वाः । काल्याचा विश्व- रुच्यन्ता लेलायमाना अमेहविराहुतिग्रसनार्था एताः किल सप्त जिह्वाः ॥४॥ एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहतयो ह्याददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५॥ एतेष्वग्निजिव्हाभेदेषु योऽमिहोत्री चरते कर्माचरत्यमिहोत्रादिकं भ्राजमानेषु दीप्यमानेषु । यथाकालं च यस्य कर्मणो यः कालस्तं काल- मनतिक्रम्य यथाकालं यजमानमाददायन्नाददाना आहुतयो यजमानेन निवर्तितास्तं नयन्ति प्रापयन्त्येता आहुतयो या इमा अनेन निर्वर्तिताः सूर्यस्य रश्मयो भूत्वा रश्मिद्वारैरित्यर्थः । यत्र यस्मिन्स्वर्गे देवानां पति- रिन्द्र एकः सर्वानुपर्यधिवसतीत्यधिवासः ॥५॥ कथम्- एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥ सूर्यम्य रश्मिभिर्यजमानं वहन्तीत्युच्यत एह्यहीत्याबयन्त्य- स्तं यजमानम् आहुतयः सुवर्चसो दीप्तिमत्यः । किंच प्रियामिष्टां वाचं स्तुत्यादिलक्षणामाभिवदन्त्य उच्चारयन्त्योऽर्चयन्त्यः पूजयन्त्यश्चैष वो युष्माकं विशेषविध्यर्थमग्नः सप्त जिह्वा अनुवदति-कालीत्यादि । दहनस्येति । अग्नेरित्यर्थः । आहुतिग्रसनं-आहुतिभक्षणम् ॥ ४॥ एतेविति।चरत इति। आत्मनः सत्त्वशुद्धयर्थ कर्म करोतीत्यर्थः। निर्वर्तिताः संपादिताः। आहुतय इति । आहुतया रश्मिरूपेण यजमान वहन्तीति संबंधः । भूत्वति भूत्वा पदं भाध्येऽध्यान्हियते । रश्मिद्वारैरिति । इत्थंभूते तृतीया । रश्मिरूपेण रबि-। रश्मिरूपेण । रविरश्मिरूपाः सत्यो वहन्तीत्यर्थः । आधिवासः-सर्वाधिकारी । ॥ ५॥ एह्येहीतीति । हे यजमान । आगच्छागच्छेत्याहुतयो व्हयान्त । स्तुत्या- दिलक्षणामिति । धन्यस्त्वमित्यादिरूपां यजमानस्य स्तुतिं कृत्वा तमभिनन्द्यैष तव सुक-
२.
मुण्डकोपनिषत्
पुण्यः सुकृतः । ब्रह्मलोकः फलरूपः । एवं प्रियां वाचमभिवदन्त्यो वहन्ती-
त्यर्थः । ब्रह्मलोकः स्वर्गः प्रकरणात् ॥६॥
एतच्च ज्ञानरहितं कर्मैतावत्फलमविद्याकामकर्मकार्यमतोऽसारं दुःख-
मूलमिति निन्द्यते ।
प्लवा लेते अहढा यज्ञरूपा
अष्टादशोक्तमवरं येषु कर्म।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा
जरामृत्युं ते पुनरेवापि यन्ति ॥७॥
प्लवा विनाशिन इत्यर्थः । हि यस्मादेतेऽदृढा अस्थिरा यज्ञरूपा
यज्ञस्य रूपाणि यज्ञरूपा यज्ञनिर्वतका अष्टादशाष्टादशसंख्याकाः षोडश-
विजः पत्नी यजमानश्चत्यष्टादश । एतदाश्रयं कर्मोक्तं कथितं शास्त्रेण
येप्वष्टादशस्ववरं केवलं ज्ञानवर्जितं कर्म । अतस्तेषामवरकर्माश्रयाणामष्टा-
दशानामदृढतया प्लवस्वाप्लवते सह फलेन तत्साध्यं कर्म । कुण्डविनाशा-
दिव क्षीरदध्यादीनां तत्स्थानां नाशः । यत एवमेतत्कर्म श्रेयः श्रेयःसाधन-
मिति यऽभिनन्दन्त्यभिहृष्यन्त्यविवेकिनो मूढा अतस्ते जरां च मृत्युं च जरा-
मृत्यु किंचित्कालं स्वर्गे स्थित्वा पुनरेवापि यन्ति भूयोऽपि गच्छन्ति ॥७॥
मजनितः स्वर्ग इति कथ्यते । व इति | आदरार्थे बहुवचनम् । सुकृत इति । सुकृतं पुण्यं
सपस्तन्मय इत्यर्थः । अत्र ब्रम्हलोकपदन स्वर्ग एव लोको ग्राह्यो न मोक्षरूपः । यतोऽत्र
यज्ञकर्मणः फलं प्रदश्यते । तस्यैवात्र प्रकरणं प्रचलति । मोक्षस्तु यज्ञकर्मणः फलं भवितुं
नाहति तदाह-प्रकरणादिति ॥॥
एतच्चति । अग्निहोत्रादिकं सर्व यज्ञकर्म ज्ञानरहितमाविद्याजन्यं तेन दुःखमूलत्वा-
दसारत्वाच त्याज्यम्।।एतावत्फलं-स्वर्गात्मकफलम् । निन्द्यत इति । एवं निन्दया श्रोतृणां
तादृदयकममु वैराग्यं स्यादित्यर्थः । प्लवाः-अल्पद्रोण्यः । यज्ञरूपा इति । यदाश्रयतया
यज्ञो निरूप्यत । तदाह-यज्ञनिर्वर्तका इति । पत्न्यादिभिर्यज्ञः संपाद्यत इत्यर्थः
एतदायय-एतत्साध्यम् । अवरामिति । निकृष्ट ज्ञानरहितमेवेत्यर्थः । प्लवंत-विनश्यति
फलेन स्वर्गेण | तलाध्य-अष्टादशसाध्यं यज्ञकर्म । कुण्डविनाशादिवेति । क्षीरदध्यादि.
पात्रं कुण्डमित्यभिधीयते । यथा कुण्डबाशे तद्गतं शारदध्यादि भूमिगतं भूत्वा विनश्यति
तद्वत्पूर्वोक्ताष्टादशानां प्लवसमानां नाशे यज्ञीयं कर्म नश्यति तद्वाराच स्वर्गफलस्यापि नाशः।
मूढा
इति । विनाशि कर्म श्रेयःसाधनमिति मतिरेव मूढता । जरामृत्युमिति । जस-
सहितो मृत्युर्जरामृत्युरिति मध्यमपदलापी समासः । कंचित्कालमिति क्षीणे पुण्ये
मृत्यु
लोकं विशन्तीति भगवदुक्तेः ॥७॥
माष्यबालबोधिनीसहिता
२१
किंच-
अविद्यायामन्तरे वर्तमानाः
स्वयं धीराः पण्डितं मन्यमानाः।
जङ्घन्यमानाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः॥ ८॥
अविद्यायामन्तरे मध्ये वर्तमाना अविवेकप्रायाः स्वयं वयमेव धीरा
धीमन्तः पण्डिता विदितवेदितव्याश्चेति मन्यमाना आत्मानं संभावयन्तस्ते
च जघन्यमाना जरारोगाद्यनेकानर्थवाहिन्यमाना भृशं पीडयमानाः परि-
यन्ति विभ्रमन्ति मूढाः । दर्शनवर्जितत्वादन्धेनैवाचक्षुष्केणैव नीयमानाः
प्रदर्यमानमार्गा यथा लोकेऽन्धा अक्षिरहिता गर्तकण्टकादौ पतन्ति तद्वत्॥८॥
किंच
अविद्यायां बहुधा वर्तमाना
वयं कृतार्था इत्पभिमन्यति बालाः।
यत्कर्मिणो न प्रवेदयन्ति रागात्ते-
नातुराः क्षीणलोकाश्च्यवन्ते ॥ ९॥
अविद्यायां बहुधा बहुप्रकारं वर्तमाना वयमेव कृतार्थाः कृतप्रयोजना
इत्येवमभिमन्यन्त्यभिमानं कुर्वन्ति बाला अज्ञानिनः । यद्यस्मादेवं कर्मिणो न
प्रवेदयन्ति तत्त्वं न जानन्ति रागात्कर्मफलरागाभिभवनिमित्तं तेन कारणेना-
तुरा दुःखार्ताः सन्तः क्षीणलोकाः क्षीणकर्मफलाः स्वर्गलोकाच्च्यवन्ते ॥९॥
आविद्यायामन्तर इति। अविद्यारूपे आवरणे विद्यमानाः । स्वयमिति । गुरूपदेशाम-
पेक्षया स्वाभिप्रायेणैवेत्यर्थः । अविवेकप्राया इति। बहुशो विवेकाभाववन्तः। विदितवदि.
तव्या इति । बेदितव्यं कर्मज्ञानादि सर्व ज्ञेयं विदितं यैः। अनेकानर्थवारित ।
अनेके च तेऽनः संकटानि तेषां वाताः समूहाः। विभ्रमे हेतुमाह-दर्शनवार्जितत्वादिति।
दर्शनं-ज्ञानम् । गर्तकण्टकादाविति । गर्ते-भूविवरे । कण्टकादौ संकट इत्यर्थः ।
अन्यथापि तृतीयान्तमन्धेबेति पदं योजयितुं शक्यम् । तथाहि-अज्ञा अन्धेनैवाचेतनेन
प्रकृतेन कर्मणा परियन्ति विभ्रमन्ति । यथा अन्धा नीयमाना विभ्रमन्तीति ॥6॥
किंचेति । कृतप्रयोजना इति । कृतं सम्पादितं, ऐहिकमामुध्मिकं च प्रयो-
जनं यैरित्यर्थः। कर्मफलरागेत्यादि । कर्मफलं स्वर्गः । तद्रागः-तत्प्रेमासक्तिः स एवा-
भिभवः पराजयस्तनिमित्तम् । स्वर्गादिफलासक्तिरेव पराजय इत्यर्थः। च्यवन्त इति ।
क्षीणे पुण्ये स्वर्गात्सतन्तीति भावः॥९॥
२२ मुण्डकोपनिषत् इष्टापूर्त मन्पमाना वरिष्ठं नान्पच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वे- मं लोकं हीनतरं वा विशन्ति ॥१०॥ इष्टापूर्तम् । इष्टं यागादि श्रौतं कर्म । पूर्त स्माते वापीकूपतडागादि कर्म । मन्यमाना एतदेवातिशयेन पुरुषार्थसाधनं वरिष्ठं प्रधानमिति चिन्त- यन्तोऽन्यदात्मज्ञानाख्यं श्रेयःसाधनं न वेदयन्ते न जानन्ति प्रमूढाः पुत्र- पशुबान्धवादिषु प्रमत्ततया मूढास्ते च नाकस्य स्वर्गस्य पृष्ठ उपरिस्थाने सुकृते भोगायतनेऽनुभूत्वानुभूय कर्मफलं पुनरिमं लोकं मानुषमस्माद्धी- नतरं वा तिर्यनरकादिलक्षणं यथाकर्मशेषं विशन्ति ॥ १०॥ तपाश्रद्धे ये झुपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचौं चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥११॥ ये पुनस्तद्विपरीतज्ञानयुक्ता वानप्रस्थाः संन्यासिनश्च तप:श्रद्धे हि तपः स्वाश्रमविहितं कर्म । श्रद्धा हिरण्यगर्भादिविषया विद्या । ते तप:श्रद्धे इष्टापूर्तमिति । आयुर्वै घृतमिति श्रुतौ यथायुःशब्द आयुःसाधनं घृतामत्यर्थे पर्यवसनस्तद्वत् अत्र श्रेयः पदं लक्षणया श्रेयःसाधनमित्यर्थे पर्यवसन्नम् । श्रेयःसाधनं, आत्म- ज्ञानमेव । नाकस्योत । न कम् अकम् अविद्यमानम् अकं यस्मिन् इति विग्रहः। कं सुखं तदभावोऽकं दुःखं तद्यत्र न विद्यतेऽसौ स्वर्गलोको नाकपदवाच्यः। केवलसुखमय- त्वात् । लोकपदेन मानुषं जन्म गृह्यते तदाह-मानुषमिति । मानुषाद्धीनतरं जन्म तिर्य- मरकादि । तिर्यञ्चः-पशुपक्षिणः । नरकपदेन नरकस्थकीटादीनां ग्रहणम् । यथाकर्म- शेषमिति । यस्य यस्य मरणसमये यद्यत्कर्मावशिष्यते तदनुसारं जन्मप्राप्तिः । त्रिविधा हि स्थितिः । ये निष्कामकर्मानुतिष्ठन्ति ते उत्तरमार्गेण क्रममुक्ति गच्छन्ति । य इष्टापूर्ता. दिकारिणस्ने यथाकर्मफलं स्वर्ग लोकमुपभुज्यावशेषेण मनुष्यादिजन्म लभन्ते । ततोऽन्ये 'अर्थतयोन कतरेण चन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वे- स्येतत्तृतीय स्थाननिति श्रुत्या य उत्तरेण दक्षिणेन च मार्गेण न गच्छन्ति ते तिर्यगादि- योनि पुनः पुनर्गच्छन्ति ।। १० तपाश्रद्धे इति । पूर्वग्रन्थेन केवलकर्मिणां फलमुक्तम् । अत्र सगुणब्रह्मज्ञान- सहिताश्रमकर्मिणां वानप्रस्थसंन्यासिसाधुगृहस्थानामपि फलं संसारान्तर्गतमेवेति दर्शयति- ये पुनस्तद्विपरीतक्षानयुक्ता इति । अत्र अन्वयक्रमेण व्याख्यानम् । भाष्यकृतां भग- ॥
भाष्यबालबोधिनीसहिता २३ उपवसन्ति सेवन्तेऽरण्ये वर्तमानाः सन्तः । शान्ता उपरतकरणमामाः । विद्वांसो गृहस्थाश्च ज्ञानप्रधाना इत्यर्थः । मैक्ष्यचर्या चरन्तः परिग्रहामावा- दुपवसन्त्यरण्य इति संबन्धः । सूर्यद्वारेण सूर्योपलक्षितनोत्तरेण पथा ते विरजा विरजसः क्षीणपुण्यपापकर्माणः सन्त इत्यर्थः । प्रयान्ति प्रकर्षण यान्ति यत्र यस्मिन्सत्यलोकादावमृतः स पुरुषः प्रथमजो हिरण्यगर्भो ह्यव्य- यात्माव्ययस्वभावो यावत्संसारस्थायी । एतदन्तास्तु संसारगतयोऽपरविद्या- गम्याः । ननु-एतं मोक्षमिच्छन्ति केचित् । न । " इहैव सर्वे प्रविलीयन्ति कामाः" (मुं.३।२।२) "ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवा- विशन्ति" (मुं.३।२।५) इत्यादिश्रुतिभ्योऽप्रकरणाच्च । अपरविद्याप्रकरणे हि प्रवृत्तेन ह्यकस्मान्मोक्षप्रसङ्गोऽस्ति । विरजस्त्वं त्वापेक्षिकम् । समस्तमपर विद्या- कार्य साध्यसाधनलक्षणं क्रियाकारकफलभेदभिन्नं द्वैतम् एतावदेव यद्धिरण्यग- वत्पूज्यपादानामियं परिपाटी यत्ते मूलक्रमेण व्याख्यान्ति नान्वयक्रमेण | परन्तु क्वचि- स्थलेऽन्वयक्रमेण व्याख्यानं दृश्यते । तयैतत् स्थलम् । अत्र 'ये' इत्यस्य प्रथमं व्याख्या- नम् । अरण्ये-स्त्रीजनासंकीर्णे देशे। उपरतकरणमामा इति । करणपामः-इन्द्रियसमुदायः स उपरतो विषयविमुखो येषाम् । विषयवैराग्यप्राप्ता इत्यर्थः । ज्ञानप्रधानाः-उपासना- प्रधानाः । विरजा इति । अत्र रजःशब्दस्याकारान्तत्वं छान्दसम् । यावत्संसारस्था- यीति । उत्तरमार्गगा उपासका अनेन संसारस्थितिपर्यन्तस्थायिना हिरण्यगर्भेण सह स्थित्वा प्रलयसमये मुच्यन्ते । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदमित्युक्तेः। परस्य- हिरण्यगर्भस्य । कृतात्मानः-आत्मज्ञानवन्तः । एतदन्ता इति । हिरण्यगर्भ- समीपगमनपर्यन्तमेवोपासकानां गतिः । अस्या अपि गतेविनाशस्तेनेयं गतिः संसारा- न्तर्गतैव । केचिदिदं हिरण्यगर्भसमीपगमनमेव मोक्ष इति वदन्ति तन्मतमसंगतमित्याह पूर्वोत्तरपक्षाभ्याम्-नन्विति । इहैव सर्व इत्यादिश्रुतिषु मुक्तानाम् अत्रैव सर्वकामप्रविलयः सर्वात्मभावश्च प्रदर्श्यते न विशिष्टहिरण्यगर्भदेशगमनम् । हिरण्यगर्भलोकप्राप्तिस्तु देश- परिच्छिन्नं फलम् । ततो मोक्ष इयं गतिश्च भिन्ना तेन तयोरेक्यमनुपपन्नम् । किंच प्रक- रणभेदोऽपि । अपरविद्याप्रकरणे मोक्षप्रसंग एव नास्ति । तदाह-अपरविद्याप्रकरण इति । विरजस्त्वं मुक्तलिड्गमिति चेन । विरजस्त्वमत्र यद्वर्ण्यते तस्य सापेक्षत्वात् । अयं भावः । विरजस्त्वं क्षीणपुण्यपापकर्मत्वं यदत्र वर्ण्यते तदज्ञानिगृहस्थापेक्षया । अयमुपासकोऽ- ज्ञानिगृहस्थापेक्षया क्षीणपुण्यपापः । नतु सर्वशः पुण्यपापयोः क्षीणत्वम् । मुख्य क्षीण- पुण्यपापत्वं तु ' ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुस्तेऽर्जुन' इति भगवदुक्त्या परमात्म- ज्ञानिनि मुक्त एव संभवति तदाह-विरजस्त्वं विति। एतावत्-एतत्परिमाणकम् । हिरण्यगर्भप्राप्त्यवसानामिति । हिरण्यगर्भप्राप्तिपर्यन्तं द्वैतम् । ब्रह्मोति। ब्रह्मा-चतुर्मुखः। - ..
२४ मुण्डकोपनिषत् भूताश्च लोका ये भप्राप्त्यवसानम् । तथा च मनुनोक्तं स्थावराद्यां संसारगतिमनुक्रामता- ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः” (म.स्मृ.१२-५०) इति११ अथेदानीमस्मात्साध्यसाधनरूपात्सर्वस्मात्संसाराद्विरक्तस्य परस्यां. वि- द्यायामधिकारप्रदर्शनार्थमिदमुच्यते-- परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायानास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छे- समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥ परीक्ष्य यदेतदृग्वेदाद्यपरविद्या विषयं स्वाभाविकाविद्याकामकर्मदोष- वत्पुरुषानुष्ठेयमविद्यादिदोषवन्तमेव पुरुषं प्रति विहितत्वात्तद्नुष्ठानकार्य- दक्षिणोत्तरमार्गलक्षणाः फलभूताः, ये च विहिताकरण. प्रतिषेधातिक्रमदोषसाध्या नरकतिर्यप्रेतलक्षणास्तानेतान्परीक्ष्य प्रत्यक्षानु- मानोपमानागमैः सर्वतो याथात्म्येनावार्य लोकान्संसारगतिभूतानव्यक्ता- विश्वसृजः-मरीचिप्रभृतयः प्रजापतयः। धर्म:-यमः । महान्-सूत्रात्मा । अव्यक्तं त्रिगुणा- त्मिका प्रकृतिः । सात्विकीमिति । सत्त्वपरिणामज्ञानसहितकर्मफलभूतामित्यर्थः।। ११॥ अथेदानीमिति । दक्षिणमार्गे साध्यं स्वर्गः साधनं यज्ञः । उत्तरमार्गे साध्यं हिरण्य- गर्भप्राप्तिः । साधन-सगुणब्रह्मोपासना । द्विविधमपि साध्यं साधनं च संसाररूपमेव ततो विरक्तस्यैव परविद्यायामधिकारः। परीक्ष्येति । ऋग्वेदाद्यपरविद्याविषयं कर्माविद्याजन्यकामकर्मदोषघटितेन पुरुषेणा- नुष्ठेयं यतस्तादृशदोषवन्तं पुरुषमधिकृत्यैव तद्विहितम् । तदनुष्ठानेन यत्फलं दक्षिणोचर- मार्गभूतं तत् परीक्षणीयम् । लौकिककलं पुत्रादिप्राप्तिरूपमपि परीक्षणीयम् । तथा 'बिहित- स्याननुष्ठानानिन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति' इति स्मृते- विहितस्य संध्यावन्दनादेरकरणे 'न कलज भक्षयेत् ' इति प्रतिषेधस्यातिक्रमेच पातित्यं तन्मूलकं नरकतियप्रेतजन्म तदपि कार्यकारणरूपं परीक्षणीयम् । ये दक्षिणोत्तरमार्गाभ्यां न गच्छन्ति तेषां तिर्यगादिजन्मति दशममन्त्रव्याख्यायां प्रतिपादितम् | स्वाभाविकी. त्यादि । स्वाभाविकी या अविद्या तज्जन्यौ कामकर्मदोषौ तद्युक्तेन पुरुषेगानुष्ठेयम् । तद- नुष्ठानेत्यादि । तस्य अपरविद्यागतविधेनुष्ठानम् । तत्कार्यभूतास्तत्फलभूताः । नरके- स्यादि । नरकपदेन नारकजन्तूनां ग्रहणम् । तिर्यञ्चः पशुपक्ष्यादयः । तिर:-वश्कतया भञ्चन्ति-गच्छन्तीति व्युत्पत्त्या । प्रेताः-पिशाचयक्षादयः। प्रत्यक्षानुमानोपमानान- भाष्यबालबोधिनीसहिता २५ दिस्थावरान्तान्व्याकृताव्याकृतलक्षणान्धीजाङ्कुरवदितरेतरोत्पत्तिनिमित्ताननेका- नर्थशतसहस्रसंकुलान्कदलीगर्भवदसारान्मायामरीच्युदकगन्धर्वनगराकारस्वप्न- जलबुद्रुदफनसमान्प्रतिक्षणप्रध्वंसान्पृष्ठतः कृत्वा, अविद्याकामदोपप्रवर्तितक- मैरिति । परीक्षामाधनानि चत्वारि । लौकिकफलस्य पुत्रादेशिः प्रत्यक्षप्रमाणेनैव ज्ञायते । आमुष्मिकस्य स्वर्गस्य नाशस्तु-अनुमानोपमानशाब्दप्रमाणगम्यः । तथाहि स्वर्गः, अनित्यः, जन्यत्वात्, यथा घटः । इत्यनुमानम् । तद्यधह कर्मचिनो लोकः क्षीयत एवमेवामुत्र पुण्य- चितो लोकः क्षायते । इति श्रुतावुपमानपूर्वक्रमामुष्मिकस्य स्वर्गस्य बाशा बाधितस्तेनो- पमानमागमश्चेति प्रमाणद्वयमुपयुक्तम् । अवधायति । एवं प्रमाणचतुथ्येन सर्वशो याथात्म्येन-यथास्वरूपमवधार्य निश्चित्येत्यर्थः । लोकानिति । अस्यैव विशेषणानि अग्र। मनुस्मृतौ प्रथमाध्याय-यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषों लोके ब्रह्मति कीयते ॥ १११ ॥ इति एकादशश्लोकमारभ्य-एवमेतैन्दिं सर्व मन्नियोगान्महा- त्मभिः । यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम् ॥ १॥४१॥ इत्येकचत्वारिंशच्छ्लो- कपर्यन्तमव्यक्तादिस्थावरपर्यन्नं सृष्टिरुक्ता । संसारगतिभूतानिति । एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः । घोरेऽस्मिन्भूतसंसारे नित्यं सततयायिनि ॥ ५० ॥ इति मनुस्मृती प्रथमाध्यायोक्तेः । व्याकृताव्याकृतलक्षणानिति । अव्याकृतं-अव्यक्तं, व्याकृतं-अव्यक्तात्पादितपुरुषप्रभृति सर्वं स्थावरजङ्गमात्मकम् | बीजांकुरवादिति । इद- मस्य न्यायस्य स्वरूपम् । बीजमंकुरमुत्पादयति अंकुरश्च फलोत्पत्तिद्वारा पुन:जमुत्सादयति तत्युनरंकुरमिति । एवमितरेतरोत्पत्तिनिमित्ता लोकाः । तथाहि शरीरे सति कामकादया भवन्ति । कामकर्मादिभिः शरीरं जायते ततः पुनः कामकर्मादयः । अनेकानर्थेत्यादि । अनन्तानर्थव्याप्तानित्यर्थः । कदलीगर्भवदिति । यथा ऋदली केवलं त्वक्संघरूपा । सर्वासां त्वचामपाकरणे काण्डादिकं न किमपि कदलीगर्भेऽवशिष्यते तद्वत् लोकानां परीक्ष्य विवे- चने न किंचित्सारभूतं समुपलभ्यते । मायामरीचीत्यादि । माया-इन्द्रजालम् । मरी- च्युदकं-मृगजलम् । तद्धि वालुकामयप्रदेशे सूर्यरश्मिसंसर्गाप्रतीयतेऽतो मरीच्युदकमिति कथ्यते । मृगास्तत्र जलबुद्धया गच्छन्ति । तेन मृगजलमित्यभिधीयते । गन्धर्वनगरम् -सायंकाल आकाशे विचित्रवर्णा नगराकारण प्रतीयन्तेऽतो गन्धर्वाणामाकाशस्थानामिदं नगरामिति भ्रमः । स्वप्नपदेन तद्गता भासमानाः पदार्था गृह्यन्ते । जलवुदबुदाः-वातेन जले जायमाना आकारा जलरूपा अपि भिन्नाः प्रतीयन्त । तथैव जलफेनः । इमे माया- मरीच्यादयो यथा न सत्यस्वरूपाः किन्तु भासमानस्वरूपास्तथैवेमे लोका भासमान- स्वरूपाः। प्रतिक्षणप्रध्वंसानिति । स्वरूपज्ञानक्षणे मायादिपदार्थानां प्रध्वंसो भव- तीति प्रतिक्षणप्रध्वंसत्वम्। प्रतिक्षणमित्यस्य प्रतिज्ञानक्षणमित्यर्थः। पृष्ठतः कृत्वेति । उपेक्ष्ये- त्यर्थः । उपेक्षायां बीजमाह-आविद्येत्यादि । यत इमे लोका अविद्याजन्यकामदोषप्रेरित- ..
२६ मुण्डकोपनिषत् मचितान्धर्माधर्मनिवर्तितानित्येतत् । ब्राह्मणो ब्राह्मणस्यैव विशेषतोऽधिकारः सर्वत्यागेन ब्रह्मविद्यायामिति ब्राह्मणग्रहणम् । परीक्ष्य लोकान्किं कुर्यादित्यु- च्यते-निर्वेदं निःपूर्वो विदिरत्र वैराग्यार्थे वैराग्यमायाकुर्यादित्येतत् । स वैराग्यप्रकारः प्रदर्श्यते । इह संसारे नास्ति कश्चिदप्यकृतः पदार्थः । सर्व एव हि लोकाः कर्मचिताः कर्मकृतत्वाच्चानित्याः । न नित्यं किंचिदस्ती- त्यभिप्रायः । सर्वे तु कर्मानित्यस्यैव साधनम् । यस्माच्चतुर्विधमेव हि सर्व कर्म कार्यम् १उत्पाद्यरआप्यं३संस्कार्य ४ विकार्य वा । नातःपरं कर्मणो विषयोऽ- स्ति । अहं च नित्येनामृतेनाभयेन कूटस्थनाचलेन ध्रुवेणार्थेनार्थी न तद्वि- परीतेन । अतः किं कृतेन कर्मणायासबहुलंनानर्थसाधनेनेत्येवं निर्विष्णोऽ- भयं शिवमकृतं नित्यं पदं यत्तद्विज्ञानार्थ विशेषेणाधिगमार्थ स निर्विण्णो ब्राह्मणो गुरुमेवाचार्य शमदमादिसंपन्नमभिगच्छेत् । शास्त्रज्ञोऽपि स्वात- व्येण ब्रह्मज्ञानान्वेषणं न कुर्यादित्येतद्गुरुमेवेत्यवधारणफलम् । समित्पाणिः समिद्भारगृहीतहस्तः श्रोत्रियमध्ययनश्रुतार्थसंपन्नं ब्रह्मनिष्ठं हित्वा सर्व- कर्मसंपादितास्तथा तादृशपुण्यापुण्यसंपादिता अत उपेक्ष्याः । तन्मूलभूताविद्याया विःसा- रत्वात् । नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैवता समता नित्यता च । शीलं स्थितिर्दण्ड- निधारमार्जवं ततस्ततश्चोपरमः क्रियाभ्य इति स्मृतेः सर्वत्यागपूर्वकं ब्रह्मविद्या ब्राह्मण- स्यैव संभवति नान्यस्यत्याह-ब्राह्मणस्यैवेति । परीक्षणानन्तरं निर्वेदमायादिति विधिः । इहेति ! इहेति पदाध्याहारः । अकृतः-नित्यः । कर्मचितः-कर्मसंपादितः । कार्यम्- अनित्यम् । सर्वमनित्यं कर्म चतुःप्रकारकमेव । अयमर्थः । १ उत्पत्तिः २ आप्तिः संस्कृतिः ४ विकृतिः । इति चतुर्विधक्रियात्मक्रमेव कर्म न पञ्चमः प्रकारः संभवति । १ नाडुला नोदनं पचति | इति उत्पाद्यं कर्म । देवदत्तो ग्रामं गच्छतीति आध्यं प्राप्य कम। ३ ब्रीहीनवहन्ति | इति वाहिकण्डनात्मकं संस्कार्य कर्म। ४ तप्ते पयसि दध्या- नयति । इति विकार्य कर्म । कूटस्थेनेति । कूटं गिरिशृंगं तदिव तिष्ठतीति । गिरिशंगवदचलेन स्पन्दरहितेन । ध्रुवेण प्रयत्नर हितेन । अर्थीति । मया कूटस्थादिविशेषण- विशिष्ट वस्त्वपेक्ष्यते । किमिति। सिमिति पदं मन्त्रे नास्ति अधिकमध्यान्हियते | आया- सबहुलेन कर्मणा किं फलं न किमीत्यर्थः । निविष्णः-वैराग्यमाप्तः । अवधारणफल- मिति । अवधारणं निश्चयद्योतक एवकारः तस्य फलं प्रयोजनम् । शास्त्रज्ञेनापि शिष्येण स्वयमुत्प्रेक्ष्य ब्रह्मज्ञानं न संपाद्यम् । किन्तु गुरूपदेशद्वारैव तत्प्राप्तव्यमित्यर्थः । समिद्भारे- त्यादि । अनेन विनयपूर्वकं गुरुसमीपे गन्तव्यमिति द्योत्यते । समित्पाणित्वं पुनरुपन- यनार्थम् । श्रोत्रियामिति । श्रोत्रियदछन्दोऽधीते (पा. सू. ५/२१८४) इति छन्दुस:
भाष्यबालबोधिनीसहिता २७ कर्माणि केवलेऽद्वये ब्रह्मणि निष्ठा यस्य सोऽयं ब्रह्मनिष्ठः । जपनिष्ठस्तपोनिष्ठ इति यद्वत् । न हि कर्मिणो ब्रह्मनिष्ठता संभवति कर्मात्मज्ञानयोविरोधात् । स तं गुरुं विधिवदुपसन्नः प्रसाद्य पृच्छेदक्षरं पुरुषं सत्यम् ॥ १२ ॥ तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो व्रम्हविद्याम् ॥ १३॥ इत्यथर्ववेदीयमुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥ इत्यथर्ववेदीयमुण्डकोपनिषदि प्रथममुण्डकं समाप्तम् ॥ १ ॥ तस्मै स विद्वान्गुब्रह्मविदुपसन्नायोपगताय । सम्यग्यथाशास्त्रमित्ये- तत् । प्रशान्तचित्तायोपरतदर्पादिदोषाय । शमान्विताय बाह्येन्द्रियोपरमेण च युक्ताय सर्वतो विरक्तायत्येतत् । येन विज्ञानेन यया विद्यया परयाक्षर- मद्रेश्यादिविशेषणं तदेवाक्षरं पुरुषशब्दवाच्यं पूर्णत्वात्पुरि शय- नाञ्च | सत्यं तदेव परमार्थस्वाभाव्यादव्ययम् । अक्षरं चाक्षरणादक्षत- श्रोत्रभावो घंश्चप्रत्ययः। श्रुतार्थः-अधीतवेदस्यार्थः । तदुक्तं गुरुम् । यद्वादिति । यथा जपनिष्ठः, तपोनिष्ठ इति जप एव निष्ठा नितरां स्थितिर्यस्य नान्यस्मिन् कर्मणि । तथा तपस्येव निष्ठा नान्यत्रेति जपतपोरूपकर्मणोः सातत्यं बोध्यते तद्वत् ब्रह्मण्येव तद्धथान एव नितरां स्थितिबाध्यत इत्यर्थः। विरोधादिति । कर्मात्मज्ञानयोः स्थितिगतिवत् तमः- प्रकाशवच्च विरोधः पूर्वमुक्तः । गुरुमिति । अवेत्थमवधेयम् । त्रिविधी हि गुरुरुत्तममध्यम- कनिष्ठभेदेन | १ श्रोत्रियत्वे सति ब्रह्मनिष्ठ उत्तमः । २ केवलं श्रोत्रियो मध्यमः। ३ केवलं ब्रह्मनिष्ठः कनिष्ठः। आद्यः शिष्यं शास्त्रीयरीत्या संशयनिमुक्तं कृत्वोद्धरति । स्वानुभव- द्वारा चोपकरोति तेन तस्योत्तमत्वम् । द्वितीयः शिष्यं पूर्ववत संशयनिर्मुक्तं करोति । स्वानु- भवद्वारोपकारस्तु कर्तुं न शक्यः । तदा यदि शिष्यः पूर्णतया विमलचेतास्तहि स्वयमेव सि- घ्येत् । तेनास्य मध्यमत्वम् । तृतीयस्तु स्वयं ब्रह्मनिष्ठोऽपि श्रोत्रियत्वाभावात् शिष्यं शास्त्री- यरीत्या निर्मुक्तसंशयं कर्तुं न पारयति तेन शिष्योद्धारकर्मण्यनहत्वादस्य कनिष्ठं गुरुत्वम् । अत्र प्रथमो गुरुरुक्तस्तेन विशेषणद्वयं श्रोत्रियं ब्रह्मनिष्ठमिति । पृच्छेदिति । प्रश्ने कृते हि गुरोः सकाशाज्ज्ञानं लभ्यते । तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेश्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ भ. गी. ४३४ इति भगवदुक्तेः ॥ १२ ॥ यथाशास्त्रामिति । समित्पाणिरित्यादिशास्त्रानुसारमित्यर्थः । बाह्यन्द्रियोपर- मेणेति । चित्तमन्तरिन्द्रियम् । चक्षुरादीनि वहिरिन्द्रियाणि । सत्यमिति अत्रापि अन्वय- २८ मुण्डकोपनिषत त्वादक्षयत्वाच्च वेद विजानाति तां ब्रह्मविद्यां तत्त्वतो यथावत्प्रोवाच प्रब्रूयादित्यर्थः । आचार्यस्याप्ययमेव नियमो यन्यायप्राप्तसच्छिष्यनिस्तार- णमविद्यामहोदधेः ॥ १३ ॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्ये प्रथममुण्डके द्वितीयः खण्डः ॥२॥ इति मुण्डकोपनिषद्भाप्ये प्रथममुण्डकं समाप्तम् ॥ १ ॥ अपरविद्यायाः सर्व कार्यमुक्तम् । स च संसारो यत्सारो यस्मान्मूला- दक्षरात्संभवति यस्मिंश्च प्रलीयते तदक्षरं पुरुषाख्यं सत्यम् । यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवति तत्परस्या ब्रह्मविद्याया विषयः स वक्तव्य इत्युत्तरो ग्रन्थ आरभ्यते। तदेत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिंगाः सहस्रशः प्रभवन्ते सरूपाः। तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ति ॥ १ ॥ यदपरविद्याविषयं कर्मफललक्षणं सत्यं तदापेक्षिकम् । इदं तु पर- विद्याविषयं परमार्थसल्लक्षणत्वात् । तदेतत्सत्यं यथाभूतं विद्या विषयम् । अवि- क्रमेण व्याख्यानम् । वेदशब्दात्पूर्व सत्यमिति शब्दा व्याख्यातः । परमार्थस्वाभाव्यात्- सत्यस्वरूपत्वात् । अक्षरमिति | न क्षीयते न क्षरतीति वा अक्षरम् । अक्षरणादिति । अवयवान्यथाभावलक्षणपरिणामरहितत्वात् । अक्षतत्वात्-व्रणरहितत्वात् । अक्षयत्वात्- अशरीरत्वेन विकारशून्यत्वादित्यर्थः । अत्र व्याप्ताविति धातोः सानप्रत्ययेऽश्नुत इति व्युत्पत्त्या अक्षरं व्यापकमित्यप्यर्थः । स चात्र भाप्ये न गृह्यते । अन्यत्र बहुश उदाहृतः ! ब्रह्मविद्या प्रत्यादिनि गुरोरपि विधिः । नदाह-आचारयापीति । न्यायन समिद- ग्रहणादिना प्राप्नोऽत एव साच्छध्यस्तस्य समुद्रवद्गभीगया अविद्य याः सकाशाद निस्ता. रणं गुरोरवश्य कर्तव्यमित्यर्थः ।। १३ ॥ इति श्रीमुण्डकोपनिषद्भाष्ये बालबोधिन्य प्रथममुण्डके द्वितीयः खण्डः॥२ इति मुण्डकोपनिषदभाष्ये बालबोधिमप्रथममुण्डकं समाप्तम् ।। पूर्वोत्तरसंगतिं प्रदशयितुमुक्तमनुवदति-अपराविद्याया इति । सः-अपर विद्याकाय- रूपः। यन्सार इति । यन् मारो दृढो मध्यभागो यस्' नन् । आरभ्यत इति । पूर्व- मपरविद्याकार्य मंसाररूपं सविस्तग्मुक्त्वाधुना तन्मूलभूतं. अक्षरसत्यात्मक पुरुषं परविषय- भूतं प्रतिपादयति यद्विज्ञान सर्वविज्ञानं भवतीत्यर्थः । ननु प्रथममुष्ट कद्वितीयखण्ड प्रथममन्त्रे 'तदेतत्सत्यम् ' इति कमण्यपि मत्यत्वं प्रतिपादितं तद्वदिदं सत्यं स्यात्तन्निराकरोति-यद.
भाष्यबालबोधिनीसहिता द्याविषयत्वाचानृतमितरत् । अत्यन्तपरोक्षत्वात्कथं नाम प्रत्यक्षवत्सत्यमक्षरं प्रतिपद्येरन्निति दृष्टान्तमाह-यथा सुदीप्तात्सुष्ठु दीप्तादिद्धात्पावकादमेर्वि- स्फुलिङ्गा अग्न्यवयवाः सहस्रशोऽनेकशः प्रभवन्त निर्गच्छन्ति सरूपा अग्निसलक्षणा एव, तथोक्तलक्षणादक्षराद्विविधा नानादहोपाधिभेदमनुविधी- यमानत्वाद्विविधा हे सोम्य भावा जीवा आकाशादिवघटादिपरिच्छिन्नाः सुषिरभेदा घटाधुपाघिप्रभेदमनुभवन्ति । एवं नानानामरूपकृतदेहोपाधि- प्रभवमनुप्रजायन्ते तत्र चैव तस्मिन्नेवाक्षरेऽपियन्ति देहोपाधिविलयमनुविली- यन्ते घटादिविलयमन्विव सुषिरभेदाः । यथाकाशस्य सुषिरभेदोत्पत्तिप्रलय- परविद्याविषयमिति । कर्मफलं यत्सत्यत्वलक्षणं तयटपटाद्यपेक्षया । तथाहि यथा घट- पटादयः प्रत्यक्ष विनाशिनो न तथेदं कर्मफलं यत इदं तदुपभोगपर्यन्तं तिष्ठति । इदं पर- विद्याविषयं सत्यं तुन तथा लाक्षणिकम् | यतोऽत्र परमार्थसतो वास्तवसल्यस्य लक्षणं घटते तैनात्यन्ताबाध्यमित्यर्थः । अपरविद्याविषयमित्यत्र वियते विशेष्यत विद्यानेति व्युत्पत्त्या विषयशब्दस्य वस्तुपरत्वानपुंसकलिंगत्वम् । इतरदिति अपरविद्याविषयमित्यर्थः । अत्यन्तपरोक्षत्वादिति । केवलशास्त्रगम्यत्वादित्यर्थः । प्रतिपद्यरनिति । अत्र मुमुक्षव इति कर्तृपदम् । साक्षात्काराधीन कैवल्यं ततः कथं नाम मुमुक्षवः सत्यमक्षरं प्रत्यक्षवत्प्रति- पोरन्नित्यभिप्रेत्य श्रुतिर्जीवब्रह्मणोरेकत्वे दृष्टान्तमाह-यथा सुदीप्तादिति । यथा सुदाप्तः पावकःतदवयवास्तत्स जातीयाश्च विस्फुलिंगा अभिन्नास्तद्ब्रह्माक्षररूपं नत उपाधिद्वारा भास . माना जीबाश्चाभिन्नाः । तेन जीवप्रत्यक्ष ब्रह्मणोऽपि तदैवयात्प्रत्यक्षत्वम् । यथा घटावयवे प्रत्यक्षे घटस्य प्रत्यक्षत्वम् । अग्नेबहिर्देशस्थितत्वेन विस्फुलिंगषु अग्न्यात्मकेवीप अग्न्यव- यवत्वव्यवहारः। स्वतस्तु अग्न्यात्मत्वम् उष्णप्रकाशगुणवत्त्वोपलम्भात्। उपाधिद्वारोपलभ्यमान. वात्सोपाधिकब्रह्मणो जीवत्वेन व्यवहारः। स्वतस्तु ब्रह्मात्म वं चियत्वाविशेषात् । एवं च प्रत्यक्षमुपलभ्येत जीवब्रह्मणोरेकत्वं मुमुक्षुभिरित्यर्थः । अग्निसलक्षणा:- अग्निजातीयाः। अनुविधीयमानत्वादीत । तत्तदुपाधिमनुमृत्य भासमानत्वादित्यर्थः । हे सोम्य कोमल. चित्त । इदं शौनकं प्रत्यंगिरसोक्तं संवोधनम् । उपाधिद्वारा प्रतिभासे दृष्टान्तमाह-आका- शादिवदिति । घटादिपरिच्छिन्नाः-घटगादिगताः । सुषि विलं तद्भेदास्तत्प्रकाराः। उपाधिप्रभेदं तत्तदुपाधिभेदम् । यथाकाशं घटमठादिगतच्छिद्रद्वारा घटाकाशः, मटा काश इति संज्ञां लभते तद्ब्रह्माक्षररूपं सत् विविधदेहोपाधिद्वारा देवदत्तादितत्तत्संज्ञा लभत इति । दाग- न्तिके घटयति-एवमिति । नाम-देवदत्तादि । रूपं-शुक्रनीलादि। तरकृतो देहोपाधीनां प्रभवो जन्म तदनु प्रजायन्ते उत्पद्यन्ते । अपियन्ति लीयन्ते । देहोपाधिविलयमनु-प्रारब्धव- शाद् देहोपाभिनाशे सति । सुषिरभेदा इति । यथा विविधानि घटगादिविलानि घट- नाशे नश्यन्ति तद्वत् । सुषिरभेदोत्पत्तिप्रलयानमित्तत्वमिति । घटगतविले आका- * मुण्डकोपनिषत् निमित्तत्वं घटाधुपाधिकृतमेव तद्वदक्षरस्यापि नामरूपकृतदेहोपाधिनिमित्तमेव जीवोत्पत्तिप्रलयनिमित्तत्वम् ॥ १ ॥ नामरूपबीजभूनादव्याकृताख्यात्स्वविकारापेक्षया परादक्षरात्परं यत्स- ोपाधिभेदवर्जितमक्षरस्यैव स्वरूपमाकाशस्येव सर्वमूर्तिवर्जितं नेति नेतीत्या- दिविशेषणं विवक्षन्नाह । दिव्या ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः॥ अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः॥२॥ दिव्यो द्योतनवान्स्वयंज्योतिष्ट्वात् । दिवि वा स्वात्मनि भवोऽलौ- किको वा । हि यस्मादमूर्तः सर्वमूर्तिवर्जितः पुरुष पूर्णः पुरिशयो वा। सबाह्याभ्यन्तरः सह बाह्याभ्यन्तरण वर्तत इति । अजो न जायते कुतश्चि- स्वतोऽन्यस्य जन्मनिमित्तस्य चाभावात् । यथा जलवुद्बुदादेवाय्वादिः । स्यात्पत्तिर्वनाशश्च घटकृत एव न वास्तवमुत्पत्तिर्विनाशो बाकाशस्येति । तद्वदिति । इदं तात्पर्यम् । यथा घटोत्पत्तौ जातायां तद्गतं सुषिरमुत्पद्यते ततस्तत्राकाशसत्तायामाकाशोत्स- त्तिरित्यभिधीयते । यथा वा घटविनाशे जाते तद्गतसुषिरनाशेनाकाशाभावे आकाशनाश इत्यभिधीयते तथैव नामरूपद्वारा देहोपाधौ जाते तत्र ब्रह्मणः प्रादुर्भाव तदुपाधिमनु ब्रह्मा- क्षन्मपि जायत इत्यभिधीयते तथैव च नामरूपनाशद्वारा देहोपाधौ विनष्टे ब्रह्मापि विनष्ट- भित्यभिधीयते । अयमेव जीवानामुत्पत्तिप्रलयक्रमः । स चोपाधिजन्यत्वात्प्रातिभासकः । न सत्वरूपः । तथा च जीवब्रह्मगारक्यात्प्रत्यक्षवत्सत्यमक्षरं प्रतिपोरन्मुमुक्षव इति ॥१॥ पूर्वमन्त्र जीवब्रह्मगारकत्वसिध्द्य जीवोत्पत्तिप्रलयनिमित्तत्वमोपाधिकमुक्तम् । तत्त्व- तस्तु निमित्तनैमित्तिकमावोऽपि नास्तीत्याह-नामरूपीजभूतादिति। नामरूपबीज- भूतमव्यानं मायातत्त्वं तदंब निमित्तं भावोत्पत्तौ न ब्रह्म निमित्तामिति द्योतयितुं ब्रह्मणः परात्परत्वमाह-अव्य.कृताख्यादिति । अव्याकृतं अव्यक्तं मायातत्त्वं स्वविकारापेक्षया परम् उत्कृष्टम् । यतः कार्यापेक्षया कारणं परमुत्कृष्टमिति सर्वसंमतम् । अव्यक्तात्पुरुषस्य परत्वं काठके 'महतः पन्मव्यक्तरव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥' आकाशस्यवेति । व्यापकमित्यर्थः । सर्वमूर्तिवर्जितं-सर्वाकारवर्जितम् । नेतिनेतीति । स एप आदेशो नेति नेतीत्यस्थूलमनणु' इत्यादिश्रुत्या सर्वविशेषणरहितं ब्रह्म नतु तत्र निमित्तनैमित्तिकभाव इत्यर्थः । विवक्षन्-वक्तमिच्छन् । पुरिशयः-देहस्थः । पुर झवेदन देहाऽभिधीयते । सबाह्याभ्यन्तर इति । देहापेक्षया यद्बाह्यमान्तरं च प्रसिद्ध तेन सह तत्तादात्म्येन तदधिष्ठानतया वा वर्तत इति सवाह्याभ्यन्तरः । अत एव सर्वात्म- त्वात्तद्यतिरिक्तनिमित्ताभावादज इत्यर्थः। स्वतोऽन्यस्यति । स्वस्मादात्मनो भिन्नं जन्म माष्यबालबोधिनीसहिता : यथा नभःसुषिरभेदानां घटादिः । सर्वभावविकाराणां जनिमूलत्वात्तत्प्रतिषेधेन सर्वे प्रतिषिद्धा भवन्ति । सबाह्याभ्यन्तरो ह्यजोऽतोऽजरोऽमृतोऽक्षरो ध्रुवोऽ- भय इत्यर्थः । यद्यपि देहाद्युपाधिभेददृष्टीनामविद्यावशादेहभेदेषु सप्राणः समनाः सेन्द्रियः संविषय इव प्रत्यवभासते तलमलादिमदिवाकाशं तथापि तु स्वतः परमार्थस्वरूपदृष्टानामप्राणोऽविद्यमानः क्रियाशक्तिनेदवांश्चलना- त्मको वायुयस्मिन्नसावप्राणः । तथामना अनेकज्ञानशक्तिभेदवत्संकल्पाद्या- त्मक मनोप्यविद्यमानं यस्मिन्सोऽयममनाः। अप्राणो ह्यमनाश्चेति प्राणादि- वायुभेदाः कर्मेन्द्रियाणि तद्विषयाश्च तथाच बुद्धिमनसी बुद्धीन्द्रियाणि तद्वि- षयाश्च प्रतिषिद्धा वेदितव्याः । यथा श्रुत्यन्तर-ध्यायतीव लेलायतीवेति । यस्माच्चैव प्रतिषिद्धोपाधिद्वयस्तस्माच्छुभ्रः शुद्धः। अतोऽक्षरान्नामरूपबीजो- कारणमस्य नेत्यर्थः । ब्रह्मणोऽन्वयिदृष्टान्तो न संभवति । अतो व्यतिरेकिदृष्टान्तमाह- यथा जलबुद्दादेरिति । यथा वायुः जलवुवुदाद्भिन्नः जलवुदुदं प्रति कारणं तथा स्वतो भिन्नमस्य किमपि कारणं नास्तीत्यर्थः । अनेन जलबुद्बुददृष्टान्तेन ब्रह्मोत्पत्तौ वास्तवं कारणं निषिद्धम् । अधुनौपाधिकमपि तन्नास्तीत्युच्यते । यथा नभःसुपिरभेदाना- मिति । यथोपाधिरूपो घटादिराकाशविलभेदानां कारणं तथौपाधिकमपि कारणं ब्रह्मणो नास्तीत्यर्थः । जनिमूलस्वादिति । जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्य- तीति षट् भावविकारा यास्केन निरुक्त प्रतिपादितास्तेषां सर्वेषामुत्पत्तिः प्रथमो विकारः । अत्र 'अजः' इत्यनेन तस्यैव निषेधे कृते तन्मूलका अन्ये निपिद्धा वेदितव्या इत्यर्थः । ननु जीवब्रह्माभेद जीवानां प्राणादिमत्त्वाब्रह्मणोऽपि प्राणादिम त्वं स्यादित्यत आह-यद्यपीति। प्राणादिमत्त्वमविद्यावशात्प्रतीयमानं प्रातिभासिकमेव न वास्तवमित्याह-प्रत्यवभासत इति । तलमलादिमदिति । आकाशस्थानां मेघानां कृष्णत्वं दृष्ट्वा मूढा आकाशस्य तलं मलिनमिति वदन्ति मोहात् । तद्वदुपाधिभेदप्रहिलाः पुरुषा आत्मानं सप्राणादिकं मन्वते । परमार्थस्वरूपदृष्टीनामिति । परमार्थस्वरूपं सत्यस्वरूपं तत्र दृष्टिर्येषाम् । अनेकज्ञानशक्तिसेदवदिति । स्मृतिसंशयाचनेकज्ञानेषु शक्तिभेदः शक्तिविशेषोऽस्या- स्तात्यनेकज्ञानशक्तिभेदवत् । कर्मेन्द्रियाणि-बाक्पाणिपादपायूपस्थाख्यानि । तद्विषयाः-भाषण- ग्रहणगमनादयः । बुद्धिमनसी इति । एतचित्ताहंकारयोरप्युपलक्षणम् । तेन चित्तचतुष्टयं निषिद्धं वेदितव्यम् । बुद्धीन्द्रियाणि-ज्ञानेन्द्रियाणि । तद्विषयाः-दर्शनश्रवणस्पर्शनादयः । प्रतिषिद्धोपाधिद्वय इति । प्राणमनोरूपोपाधी प्रतिषिद्धौ यस्य । नामरूपबीजोपा- धिलक्षितस्वरूपादिति । अक्षरस्य परत्वं बोधयितुमिदम् । नामरूपयोजिं ब्रह्म तदु. पाधितया लक्षित गमितं स्वरूपमस्येति । तस्मादुपाधिरूपात्तद्विशिष्टरूपाच्च परतोऽक्षरात्पर ३२ मुण्डकोपनिषत् पाधिलक्षितस्वरूपात्सर्वकार्यकारणबीजत्वेनोपलक्ष्यमाणत्वात्परं तदुपाधिलक्षण- मव्याकृताख्यमक्षरं सर्वविकारेभ्यस्तस्मात्परतोऽक्षरात्परो निरुपाधिकः पुरुष इत्यर्थः । यस्मिंस्तदाकाशाख्यमक्षरं सव्यवहारविषयमोतं प्रोतं च । कथं पुनरप्राणादिमत्त्वं तस्येत्युच्यते । यदि हि प्राणादयः प्रागुत्पत्तेः पुरुष इव स्वेनात्मना सन्ति तदा पुरुषम्य प्राणादिना विद्यमानेन प्राणादिमत्त्वं भवेन्न तु ते प्राणादयः प्रागुत्पत्तेः सन्ति । अतोऽप्राणादिमान्परः पुरुषः । यथा, अनुत्पन्न पुत्रेऽपुत्रो देवदत्तः ॥ २ ॥ कथं ते न सन्ति प्राणादय इत्युच्यते । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुयोतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥ यम्मादतम्नादेव पुरुषान्नामरूपबीजोपाधिलक्षिताजायत उत्पद्यतेऽ- इति संवन्धः । सर्वकार्यकारणवीजत्वेनेति । सर्वाणि कार्याणि घटादीनि कारणानि मृत्तिकादीनि तषामपि बोजत्वं मूलकारणत्वं तदुपलक्षितत्वात् । परामिति । तत्कारणत्वेन गम्यमानत्वान्मायातत्वं परम् । अव्याकृताख्यं-भायातत्त्वाख्यम् । अक्षरामिति । स्वरूपो- च्छदाभावादित्यर्थः । तदुक्तं भगवद्गीतायाम्-क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मत्युदाहृतः ॥ इति | लव्यवहारविषयामिति । व्यवहार- विषया देहप्राणादयस्तैः सहितम् | ओतं प्रोतमिति ) वस्त्रं तन्तुष्विवेत्यर्थः । उच्यत इति । अस्य प्रश्नस्योत्तरं दीयत इत्यर्थः । पुरुष इवति । यथा पुरुषः स्वरूपेणास्ति तथा प्राणादयो यदि स्वो:पत्तः प्राक् स्वरूपेण स्युस्तर्हि प्राणादिमत्वं भवेदित्यर्थः । अप्राणो ह्यमना इत्यत्र ना बोधिनी योऽभावः स प्रागभावः । न ध्वंसः । यथा, अनुत्पन्ने पुत्र इति । पुत्रोत्पत्तेः प्राक् अपुलो देवदत्त इति या प्रथा सा पुत्रप्रागभावं बोधयति पुत्रे जाते विनटे च अपुत्री देवदत्त इति या प्रथा सा पुत्रध्वंसं बोधयति । अप्राणो ह्यमना इत्यत्र प्राणमनमा पुरुपेऽनुत्पत्ति बेनि प्रागवायी ज्ञेयः । उत्पत्तिध्वंसौ त्वत्र न संभवतः प्रातिभासिकत्वात्तधाम् ॥ २॥ यस्य शुद्धस्य निरुपाधिकस्य निर्विकल्पस्य ब्रह्मणो ज्ञानेन जीवानां कैवल्यं भवति तदेव निर्विकल्पकं निरुपाधिकं ब्रह्म मायाप्रतिविम्बितरूपेण कारणं भवतीत्याह-यस्मादेत- स्मादवेति । नामरूपर्वाज माया नद्रूपोपाधिलक्षितादित्यर्थः । प्राणोत्पत्तेरूर्वं ब्रह्मणः सप्राणत्वं स्यादिति शंका निराकर्तुमाह-अविद्याविषय इति । अविद्या विषयत्वं च-अनृ- तात्मकत्वात् । अनृतात्मकरले छान्दोग्यश्रुतिं प्रमाणयति-वाचारम्भणमिति । श्रुत्यर्थः- वाचारम्भणं वागालम्बनमित्येतत् । कोऽसौ विकारो नामधेयं नामैव नामधेयं स्वार्थे धेय- माष्यबालबोधिनीसहिता विषयो विकारभूतो नामधेयोऽनृतात्मकः प्राणः “वाचारम्भणं विकारो नामधे- यम्"(छां.६।१।४) अनृतम् इति(छां ६।१६।१)श्रुत्यन्तरात् । न हि तेनाविद्या- विषयेणानृतेन प्राणेन सप्राणत्वं परस्य स्यादपुत्रस्य स्वप्नदृष्टेनेव पुत्रेण सपुत्र- त्वम् । एवं मनः सर्वाणि चेन्द्रियाणि विषयाश्चैतस्मादेव जायन्ते । तस्मा- सिद्धमस्य निरुपचरितमप्राणादिमत्त्वमित्यर्थः । यथा च प्रागुत्पत्तेः परमार्थ- तोऽसन्तस्तथा प्रलीनाश्चेति द्रष्टव्याः । यथा करणानि मनश्चेन्द्रियाणि च तथा शरीरविषयकारणानि भूतानि खमाकाशं वायुर्बाह्य आवहादिभेदः। ज्योतिरमिः। आप उदकम् । पृथिवी धरित्री विश्वस्य सर्वस्य धारिणी । एतानि च शब्द- स्पर्शरूपरसगन्धोतरोत्तरगुणानि पूर्वपूर्वगुगसहितान्येतस्मादेव जायन्ते ॥ ३ ॥ प्रत्यवः । वागालम्बनमात्रं नामैव केवलं न विकारो नाम बस्त्वस्ति । परमार्थतो मृत्तिके- त्येव । मृत्तिकैव तु सत्यं वस्त्वस्ति । स्वप्नदृष्टेनेवेति । यथा कश्चित्स्वप्ने पुत्रं दृष्ट्वा ततः प्रबोध आत्मानं सपुत्रं मनुते तद्वत् । एतस्माज्जायते प्राण इत्यस्मिन्मन्त्रे या प्राणादीना- मुत्पत्तिस्तत्र न क्रमः । किन्तु लयानुसारमुत्पत्तेः क्रमो विपरिवर्त्यः। पाठक्रमादार्यक्रमो बलीयानिति न्यायात् । तथाच भूतोत्पत्त्यनन्तरं प्राणोत्पत्तिरभ्युपगन्तव्या । ' गताः क्लाः पञ्चदश प्रतिष्ठाः' इति भूतेषु लयश्रवणात् । विषया इति । चक्षुरादीन्द्रियाणां विषया रूपरसादयः । निरुपचरितमिति । उपचारो लक्षणा तदहितं वस्तुभूतमित्यर्थः। आव- हादिभेद इति । आवहप्रवहादयो वायोः सप्त भेदा इत्यर्थः। आवहः प्रवहश्चैव विव- हश्च समीरणः । परावहः संवहश्च उदहश्च महाबलः । तथा परिवहः श्रीमानिति हरिवंशे २३६ अध्याय उक्तेः । अभिमुखमागच्छन् वायुरावह इत्यभिधीयते तथा पुरतो गच्छन् प्रवह एवमेवार्थोन्यत्रोह्यः । भूवायुरावह इह प्रवहस्त मिति सिद्धान्तशिरोमण्युक्तः । एतानीति । आकाशं शब्दगुणेनैकेन विशिष्टम् । वायुः स्वीयस्पर्शगुणेनाकाशगतशब्दगुणे- न च विशिष्टो द्विगुणः । तेजः स्वीयेन रूपगुणेन, आकाशवाय्वोः शब्दस्पर्शगुणाभ्यां च विशिष्टं त्रिगुणम् । एवमापश्चतुर्गुणविशिष्टाः । पृथिवी च पञ्चगुणविशिष्टा । अपां विशेष- गुणो रसः । पृथिव्याश्च विशेषगुणो गन्धः । नन्विदं भूतगुणवर्णनं ग्रन्थान्तरविरुध्यते । यतस्तत्र पञ्चीकृतानि सर्वभूतानि गृहीतानि तेन पञ्चानापि भूतानां पञ्च गुणा नत्वेकद्वि- न्यादिगुणत्वं तथा चात्र ग्रन्थविरोध इति चेन्न । भूतसर्गे तात्पर्य नास्तीति द्योतयितुं पृथ- तया प्रक्रियाप्रतिपादनात् । यतोऽत्र भूतोत्पत्तिज्ञाने स्वर्गमोक्षादिरूपं फलं नास्ति तेन न विरोधः । पञ्चीकरणप्रकारश्च । आकाशादिषु पञ्चस्वेकैकं द्विधा समं विभज्य तेषु दशसु भागेषु मध्ये प्राथमिकापञ्च भागान् प्रत्येकं चतुर्धा समं विभ। तेषां चतुर्णा भागानां स्वस्वद्वितीयार्धमागं परित्यज्य भागान्तरेषु संयोजनम् । 'तदुक्तं-द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः। स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्च ते' ।। ३ ।।
३ मुण्डकोपनिषत् संक्षेपतः परविद्याविषयमक्षरं निर्विशेषं पुरुषं सत्यं “दिव्यो ह्यमूर्तः" (मु.२।१।२) इत्यादिना मन्त्रेणोक्त्वा पुनस्तदेव सविशेषं विस्तरेण वक्तव्यमिति प्रववृते । संक्षेपविस्तरोक्तो हि पदार्थः सुखाधिगम्यो भवति सूत्रभाष्योक्तिव- दिति । यो हि प्रथमजात्प्राणाद्धिरण्यगर्भाज्जायतेऽण्डस्यान्तर्विराट् स तत्त्वा- न्तरितत्वेन लक्ष्यमाणोऽप्येतस्मादेव पुरुषाज्जायत एतन्मयश्चेत्येतदर्थमाह । तं च विशिनष्टि । अग्निर्मूर्धा चक्षुषी चन्द्रसूयौँ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तात्मा ॥ ४ ॥ अग्निघुलोकः " असौ वाव लोको गौतमाग्निः". (छां.५।४।१) इति श्रुतेः । मूर्धा यस्योत्तमाङ्गं शिरः। चक्षुषी चन्द्रश्च सूर्यश्चेति चन्द्रसूर्यो । यस्येति सर्वत्रानुषङ्गः कर्तव्यः । अस्येत्यस्य पदस्य वक्ष्यमाणस्य यस्येति विपरि- णामं कृत्वा दिशः श्रोत्रे यस्य । वाग्विवृता उद्घाटिताः प्रसिद्धा वेदा यस्य । वायुः प्राणो यस्य । हृदयमन्तःकरणं विश्वं समस्तं जगदस्य यस्येत्येतत् । सर्व ह्यन्तःकरणविकारमेव जगन्मनस्येव सुषुप्ते प्रलयदर्शनात् । जागरितेऽपि तत एवामिविस्फुलिङ्गवद्विप्रतिष्ठानात् । यस्य च पद्भ्यां जाता पृथिवी । एष विद्या. पूर्वोत्तरमन्त्रयोः संगति दर्शयितुमाह-संक्षेपत इति । प्रववृत इति । श्रुतिरि- त्यर्थः । सुखाधिगम्य इति । पूर्व शास्त्रसिद्धान्तः संक्षेपेण बोधनीयस्ततः स एव विस्त- रेण बोधनीयस्तथा प्रतिपादिते सुखेन शिष्यबुद्धिगम्यो भवति स इत्यर्थः । सूत्रभाष्यो- क्तिवदिति । मूत्रलक्षणं-स्वल्पाक्षरमसंदिग्धं सारवाद्विश्वतोमुखम् । अस्तोभमनवा च सूत्रं सूत्रविदो विदुः । इति । भाष्यलक्षणं च-सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः। स्वपदानि च वय॑न्ने भाध्य भाध्यविदो विदुः । इति । एवं च यथा सूत्रे स्वल्पप्रन्यो भाष्ये विस्तरग्रन्थस्लादित्यर्थः । तत्त्वान्तरितत्वनति । तत्त्वेन हिरण्यगर्भाख्येन अन्तरित- त्वेन व्यवहितत्वेन । यद्यपि ब्रह्मणो विराजश्च मध्ये हिरण्यगर्भाव्यं तत्त्वं व्यवधायक तथापि विराज उत्पत्तिरेतस्मादेव ब्रह्माख्यात्पुरुषाज्जायत इति ज्ञेयमित्यर्थः । एतन्मयः-एतद्रूपः । असाविति । द्युलोक इत्यर्थः । अनुषंगः-संबन्धः। यस्य चक्षुषी चन्द्रसूर्याविति संबन्धः कर्तव्य इत्यर्थः । विपरिणाममिति । अस्येत्यस्य स्थाने यस्यति पठनीयं तेन यस्येत्यस्य प्रवाहः सुसंगतो भवतीत्यर्थः। विप्रतिष्ठानादिति । उत्थानादित्यर्थः । भूतानां- भाष्यबालबोधिनीसहिता ३५ देवो विष्णुरनन्तः प्रथमशरीरी त्रैलोक्यदेहोपाधिः सर्वेषां भूतानामन्तरात्मा । स हि सर्वभूतेषु द्रष्टा श्रोता मन्ता विज्ञाता सर्वकारणात्मा ॥ ४॥ पञ्चामिद्वारेण च याः संसरन्ति प्रजास्ता अपि तस्मादेव पुरुषात्प्रजा- यन्त इत्युच्यते। तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम् । पुमान्रेतः सिञ्चति योषितायां बवीः प्रजाः पुरुषात्संप्रसूताः॥५॥ तस्मात्परस्मात्पुरुषात्प्रजावस्थानविशेषरूपोऽग्निः स विशिष्यते। समिधो यस्य सूर्यः समिध इव समिधः । सूर्येण हि द्युलोकः समिध्यते । ततो हि द्युलो- काननिष्पन्नात्सोमात्पर्जन्यो द्वितीयोऽमिः संभवति । तस्माच्च पर्जन्यादोषधयः पृथिव्यां संभवन्ति । ओषधिभ्यः पुरुषानौ हुताभ्य उपादानभूताभ्यः पुमा- नग्नी रेतः सिञ्चति योषितायां योषिति योषाग्नौ स्त्रियामिति । एवं क्रमेण बबीव्यः प्रजा ब्रामणाद्याः पुरुषात्परस्मात्संप्रसूताः समुत्पन्नाः ॥ ५॥ किंच कर्मसाधनानि फलानि च तस्मादेवेत्याह । कथम्- तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥ पञ्चानां महाभूतानाम् । अन्तरात्मेति । स्थूलपञ्चभूतशरीरो हि विराडित्यर्थः ॥ ४॥ पञ्चाग्निद्वारणेति । असौ वाव लोको गौतमाग्निः-इत्यारभ्य श्रुतौ युपर्जन्य- पृथिवीपुरुषयोषित्सु पञ्चस्वग्निदृष्टिः कर्तव्या । पञ्चैते द्युलोकादयोऽग्निरूपेणोपास्या इति विहितं तेनैते द्युलोकादयः पञ्चामयः । तद्द्वारा प्रजानां संसरणम् । तथाहि-प्रारब्धानुसारं मनुष्यलोके जायमानो जीवः प्रथमं द्युलोकेऽवतरति ततः पर्जन्यद्वारा स पृथिव्यां बीजरूपे- णावतरति ततोऽन्नरूपेण पुरुषशरीरे गच्छति ततो गर्भरूपेण स्त्रिया उदरे स्थितिः । एवं रीत्या संसरन्त्योऽपि प्रजाः परम्परया पुरुषादेव प्रजायन्त इत्युच्यते । प्रजावस्थानविशेषरूप इति । संसरन्तीनां प्रजानां स्थितियत्रैतादृशो द्युलोका- निरित्यर्थः॥ ५॥ कर्मसाधनानीति । कर्मणां यज्ञादीनां साधनानि वेदाः। फलानि च स्वर्गादानि ।
। ३६ मुण्डकोपनिषत् तस्मात्पुरुषादृचो नियताक्षरपादावसाना गायत्र्यादिच्छन्दोविशिष्टा मन्त्राः । साम पाश्चमतिकं साप्तभक्तिकं च स्तोभादिगीतिविशिष्टम् । यजूं- ष्यनियताक्षरपादावसानानि वाक्यरूपाणि । एवं त्रिविधा मन्त्राः । दीक्षा मौज्यादिलक्षणा कर्तनियमविशेषाः । यज्ञाश्च सर्वेऽग्निहोत्रादयः । क्रतवः सयूपाः । दक्षिणाश्चैकगवाद्या अपरिमितसर्वस्वान्ताः । संवत्सरश्च कालः कर्माङ्गभूतः । यजमानश्च कर्ता । लोकास्तस्य कर्मफलभूताः । ते विशे- ष्यन्ते सोमो यत्र येषु लोकेषु पवते पुनाति लोकान्यत्र येषु सूर्यस्तपति । ते च दक्षिणायनोत्तरायणमार्गद्वयगम्या विद्वदविद्वत्कर्तृफलभूताः ॥ ६ ॥ नियताक्षरपादावसाना इति । पञ्च षट् अष्टौ वा अक्षराणि नियतानि येषु एतादृशाः पादा अथवा यतयो विश्रामस्थानानि येषु । यतिरपि नियताक्षरः । गायत्र्या- दति । गायत्री, त्रिष्टुप्, जगती, अनुष्टस्, पंक्किा, बृहती, ककुबित्यादीनि छन्दांसि पिंग- लेन छन्दःशास्त्रे लक्षितानि । तद्विशियास्तच्छन्दोबद्धा मन्त्राः । सामेति । गीत्यात्मकं सामेति सामलक्षणम् । सामवेदे गीतिस्वरूपेण प्रायो ऋमन्त्रा एव दृश्यन्ते । पाञ्चभक्ति- कमिति | भक्तिरवयवः । हिंकारप्रस्त.वोद्गीथप्रतिहारनिधनाख्याः पञ्च मक्तयोऽवयवा यस्य । साप्तभाक्तिकमिति । हिंकारप्रस्तावाद्युद्गीथप्रतिहारोपद्रवनिधनाख्याः सप्त भक्त- योऽवयवा यस्य तत् । स्तोमादीति । हिं हिं हिं हावु हावु इत्याद्यात्मकोऽर्थशन्यो वर्ण- समुदायः। वाक्यरूपाणीति । गाथारूपाणीत्यर्थः । गद्यरूपाणीति यावत् । त्रिविधा इति । ऋग्यजुःसामरूपेण । मौज्यादीति । कटिप्रदशे मुञ्जतृणनिर्मितरज्जुबन्धनं मौजी । आदिपदेन मृगशृंगणांगकण्डूयनम, पयोभक्षणमित्यादयो यजमानस्य नियमा ज्ञेयाः। आग्निहोत्रादय इति । प्रत्यहं यदग्निहोत्रहोमात्मकं कर्म तदादि पशुरहिता यज्ञा दर्शपौर्णमासादयः । सयूपा इति । यूपः-यज्ञियपशुवन्धनार्य काष्ठं तत् यज्ञमण्डपे खन्यते। एवं यूपसहिता यज्ञाः तव इत्यभिधीयन्ते । पशुहिंसा शास्त्रविहिता तादृशा यज्ञा इत्यर्थः । विश्वजित्सवमेधयोः सर्वस्व दक्षिणा तदाह-अपरिमितसर्वस्वान्ताइति । दक्षिणायनो- त्तरायणमार्गद्वयगम्या इति । इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छ्रेयो बेदयन, प्रमूढाः। नाकस्य पृष्ठ ते सुकृतेऽनुभूत्वमं लोकं हीनतरं वा विशन्ति । मुं. १२।१०|| इत्युक्तो दक्षिणमार्गस्तफलं च । तप:श्रद्धे ये एपवसन्त्यर ये शान्ता विद्वांसो भैक्ष्यचर्या चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ।। मुं. १/२।११।। इत्युक्त उत्तरमार्गस्तत्फलं चेति । विद्वदविद्वत्कर्तृफलभूता इति । विद्वान्-उपासकः । अवि- द्वान्-कर्मठः । उपासकेन कोंत्तरायणमार्गद्वारा हिरण्यगर्भलोको लभ्यते । अविदुषा कर्म- ठेन स्वर्गादयो लोका लभ्यन्त इत्यर्थः ॥ ६ ॥ - भाष्यबालबोधिनीसहिता तस्माच देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयांसि । प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्य विधिश्च ॥७॥ तस्माच्च पुरुषात्कर्माङ्गभूता देवा बहुधा वस्वादिगणभेदेन संप्रसूताः सम्यक्प्रसूताः । साध्या देवविशेषाः । मनुप्याः कर्माधिकृताः । पशवो ग्राम्यारण्याः। वयांसि पक्षिणः । जीवनं च मनुष्यादीनां प्राणापानौ । व्रीहि. यवौ हविरौँ । तपश्च कर्माङ्ग पुरुषसंस्कारलक्षणं स्वतन्त्रं च फलसाधनम् । श्रद्धा यत्पूर्वकः सर्वपुरुषार्थसाधनप्रयोगश्चित्तप्रसाद आस्तिक्यबुद्धिः तथा सत्यमनृतवर्जनं यथाभूतार्थवचनं चापीडाकरम् । ब्रह्मचर्य मैथुनासमागरः । विधिश्चेतिकर्तव्यता ॥७॥ किंच- सप्त प्राणाः प्रभवन्ति तस्मा- त्सप्तार्चिषः समिधः सप्त होमाः । सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८॥ सप्त शीर्षण्याःप्राणास्तस्मादेव पुरुषात्प्रभवन्ति तेषां सप्तार्चिषो दीप्तयः स्व- विषयावद्योतनानि तथा सप्त समिधः सप्त विषयाः। विषयर्हि समिध्यन्ते प्राणाः। सप्त होमास्तद्विषयविज्ञानानि “यदस्य विज्ञानं तज्जुहोति"(म.ना.२५/१)इति कर्मागभूता इति । यज्ञकर्मसु येभ्य आहुतयो दीयन्ते तेन ते वस्वादयो देवाः संप्रदानभूतत्वादंगभूताः कर्मणीत्यर्थः । तपश्चेति । तपो द्विविधम् । पुरुषसंस्कारकमेकम् । स्वतन्त्रं फलपाधकं चैकम् । तत्र प्रथमं पुरुषसंस्कारकं ‘पयोव्रतो ब्राह्मणः, यवागवतो राजन्यः, आमिक्षाव्रतो वैश्य इत्यादिना विहितं ब्राह्मणादेः पयोभक्षणादिकं कृच्छ्रचान्द्रायणा. दिकं च ज्ञेयम् । आस्तिक्यबुद्धिरिति । अस्ति दिष्टं परलोक इति मतिर्यस्य स आस्तिकस्तस्य भाव आस्तिक्यम् । अपाडाकरामिति । सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्स- त्यमाप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः स्नातनः॥ इति मनुस्मृतेः । असमाचारः-वर्ज- नम् | दर्शनस्पर्शनाद्यष्टविधमैथुनाभाव इत्यर्थः ॥ ७ ॥ शीर्षण्या इति । मुखनासिकाश्चक्षुत्रोत्रगतानि सप्त बिलानीत्यर्थः । स्वविषया- वद्योतनानीति । चक्षुरादीन्द्रियाणां दर्शनादीनि विषयास्तत्तदुपलब्धिरित्यर्थः । निवृत्त्य- मुण्डकोपनिषत अत्यन्तरात् । किंच सप्तमे लोका इन्द्रियस्थानानि येषु चरन्ति संचरन्ति प्राणा इति विशेषणात् । प्राणा येषु चरन्तीति प्राणानां विशेषणमिदं प्राणापानादि- निवृत्त्यर्थम् । गुहायां शरीरे हृदये वा स्वापकाले शेरत इति गुहाशयाः । निहिताः स्थापिता धात्रा सप्त सप्त प्रतिप्राणिभेदम् | यानि चात्मयाजिनां विदुषां कर्माणि कर्मफलानि चाविदुषां च कर्माणि तत्साधनानि कर्म- फलानि च सर्व चैतत्परस्मादेव पुरुषात्सर्वज्ञात्प्रसूतमिति प्रकरणार्थः ॥ ८॥ अतः समुद्रा गिरयश्च सर्वेऽ- स्मात्स्पन्दन्ते सिन्धवः सर्वरूपाः । अतश्च सर्वा ओषधयो रसश्च यनेष भूतस्तिष्ठते ह्यन्तरात्मा ॥९॥ अतः पुरुषात्समुद्राः सर्वे क्षाराद्याः । गिरयश्च हिमवदादयोऽस्मादेव पुरुषात्सर्वे । स्यन्दन्ते सवन्ति गङ्गाद्याः सिन्धवो नद्यः सर्वरूपा बहुरूपाः। अस्मादेव पुरुषात्सर्वा ओषधयो व्रीहियवाद्याः । रसश्च मधुरादिः षड्विधो येन रसेन भूतैः पञ्चभिः स्थूलैः परिवेष्टितस्तिष्ठते तिष्ठति ह्यन्तरात्मा लिङ्गं सूक्ष्मं शरीरम् । तद्धयन्तराले शरीरस्थात्मनश्चात्मवद्वर्तत इत्यन्तरात्मा ॥९॥ पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १० ॥ इत्यथर्ववेदीयमुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ॥ १॥ एवं पुरुषात्सर्वमिदं संप्रसूतम् । अतो वाचारम्भणं विकारो नाम- घे. मनृतं पुरुष इत्येव सत्यम् । अतः पुरुष एवेदं विश्वं सर्वम् । न विश्वं नाम पुरुषादन्यत्किंचिदस्ति । अतो यदुक्तं तदेवेदमाभिहितं " कस्मिन्नु थमिति । तेन प्राणपदेन प्राणापानादिवृत्तीनां ग्रहणं न कर्तव्यम् । आत्मयाजिना- मिति । सकलमिदमहं च परमात्मैवेति भावनापूर्वकं परमेश्वरबुद्धया यजनमेव येषां स्वभाव इत्यर्थः ॥ ८॥ अन्तराले-मध्ये ॥९॥ किंचिदरतीति । परमेश्वर एव सर्वं नान्यत्किचित्तेन द्वैतस्यासंभवः । जीवन्ने वेति । जीवन्मुक्तिबोधकमिहेति पदमस्मिन्मन्त्रे । तेन ये जीवन्मुक्ति नांगीकुर्वन्ति बौधा- ३९ भाष्यबालबोधिनीसहिता भगवो विज्ञाते सर्वमिदं विज्ञातं भवति " (मुं.१।१।३) इति । एत- स्मिन्हि परस्मिन्नामानि सर्वकारणे पुरुषे विज्ञाते, पुरुष एवेदं विश्वं नान्य- दस्तीति विज्ञातं भवतीति । किं पुनरिदं विश्वमित्युच्यते । कर्मामिहोत्रादि- लक्षणम् । तपो ज्ञानं तत्कृतं फलमन्यदेव । तावद्धीदं सर्वम् । तच्चैतद्ब्रह्मणः कार्य तस्मात्सर्वं ब्रह्म परामृतं परममृतमहमेवेति यो वेद निहितं स्थित गुहायां हृदि सर्वप्राणिनां स एवं विज्ञानादविद्याग्रन्थिं प्रन्थिमिव दृढीभूता- मविद्यावासनां विकिरति विक्षिपति विनाशयतीह जीवन्नेव न मृतः सन् है सोम्य प्रियदर्शन ॥ १०॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्ये द्वितीयमुण्डके प्रथमः खण्डः ॥१॥ अरूपं सदक्षरं केन प्रकारेण विज्ञेयमित्युच्यते । आविः संनिहितं गुहाचरं नाम महत्पदमत्रतत्समर्पितम् । एजत्पाणनिमिषच्च यदेतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्य- द्वरिष्ठं प्रजानाम् ॥ १॥ आविः प्रकाशं संनिहितं, वागाधुपाधिभिः "ज्वलति भ्राजति " इति श्रुत्यन्तराच्छब्दादीनुपलभमानवदवभासते । दर्शनश्रवणमननविज्ञानाधु- पाधिधमैराविर्भूतं सल्लक्ष्यते हृदि सर्वप्राणिनाम् । यदेतदाविर्भूतं ब्रह्म संनि- हितं सम्यस्थितं हृदि, तद्गुहाचरं नाम गुहायां चरतीति दर्शनश्रवणादि- यनादयस्तन्निरासः। यत्पृष्टं कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति तन्नि- रूपितम् । सर्वमिदं परमात्मनो जायते । अतः परमात्ममात्रमिदं सर्वम् । तस्मिन्विज्ञाते विज्ञातं भवतीत्युपसंहृतम् । परमात्मनोऽतिरिक्तं भासमानमविद्यामयं ततः क्षायिफलकमिति तेन सर्वदा स्थित्यभावात् न द्वैतसंभवः ॥ १०॥ इति श्रीमुण्डकोपनिषद्भाष्ये बालबोधिन्यां द्वितीयमुण्डके प्रथमः खण्डः ॥२१॥ ब्रह्मणो दुर्विज्ञयत्वाद्यस्य सकृदुपदेशमात्रेण ज्ञानं न भवति तस्य तत्राप्त्युपायं दर्शयि- तुमाह-अरूपमित्यादि । अक्षरब्रह्मप्राप्तावुपायो वाक्यार्थस्यैव पुनः पुनर्भावनं युक्त्य- नुसंधानं चैत्याह-उच्यत इति । प्रकाशवाचकमव्ययम् आविरित । ब्रह्म विश्वोपलब्ध्या- मना सदा प्रकाशमानमेवेति भावयेदित्यर्थः । तथा चोक्तम्-यदस्ति यद्भाति तदात्मरूपं नान्यत्ततो भाति न चान्यदस्ति । स्वभावसंविप्रतिभाति केवलं ग्राह्यं प्रहीतति मृषैव कल्पना ।। इति । संनिहितामति । सर्वप्राणिनां हृदये स्थितं वागायुपाधिभिः शब्दा- दीन्युपलभमानवब्रह्मैव जीवभावमापनमवभासते । तेन निरुपाधिकतया प्रत्यक्षमिति सर्वदा स्मरेदित्यर्थः । गुहाचरामिति । बुद्धिस्थमित्यर्थः । पद्यत इति । पद्यते प्राप्यत इत्यर्थः।
मुण्डकोपनिषत्
प्रकारैर्गुहाचरमिति प्रख्यातम् । महत्सर्वमहत्त्वात्पदं पद्यते सर्वेणेति, सर्व-
पदार्थास्पदत्वात् । कथं तन्महत्पदमित्युच्यते । यतोऽत्रास्मिन्ब्रह्मण्येतत्सर्व
समर्पितं प्रवेशितं रथनाभाविवाराः। एजच्चलत्पक्ष्यादि । प्राणप्राणितीति
प्राणापानादिमन्मनुष्यपश्वादि । निमिषच्च यन्निमेषादिक्रियावद्यच्चानिमिषत् ।
चशब्दात्समम्तमेतदत्रैव ब्रह्मणि समर्पितम् । एतद्यदास्पदं सर्व जानथ हे
शिष्या अवगच्छत तदात्मभूतं भवताम् । सदसत्स्वरूपं सदसतोर्मूर्तामूर्तयोः
स्थूलमूक्ष्मयोस्तव्यतिरेकेणाभावात् । वरेण्यं वरणीयं तदेव हि सर्वस्य नित्य-
त्वात्प्रार्थनीयम् । परं व्यतिरिक्तं विज्ञानात्मजानामिति व्यवहितेन संबन्धो
यल्लौकिकविज्ञानागोचरमित्यर्थः । यद्वरिष्ठं वरतमं सर्वपदार्थेषु वरेषु तद्ध्येकं
ब्रह्मातिशयेन वरं सर्वदोषरहितत्वात् ॥ १ ॥
यत्सास्पदं सर्वाधिकरणत्वात्सर्वस्थानं तदेव सर्वैः प्राध्यत इत्याह-सर्वपदार्थास्पदत्वा-
दिति । यद्यत् कार्य तत्तत्सास्पदं यथा घटः । इदं सर्वं मायादिकं कार्यम् । अतः सास्फ.
दम् । यथा घटस्यास्पदमधिकरणं भूमिस्तथा मायादिकस्य सर्वस्य कार्यजातस्यास्पदं किंचि-
दपेक्ष्यते तद्ब्रह्मणोऽतिरिक्तं न भवत्यतस्तद्ब्रह्म महत्पदम् । द्वितीयमप्यनुमानमस्यार्थस्य प्रति-
पादकम् । तथाहि यद्यत् परिच्छिन्नं तत्तत्सास्पदं यथा घटः । इदं सर्वं मायादिकं परिच्छि-
नमव्यापकम् । अतः सास्पदम् । यथा परिच्छिन्नस्याव्यापकस्य घटस्यास्पदं घटापेक्षया
व्यापकं भम्पादिकं तथा मायादिकार्यस्याव्यापकस्यास्पदं तदपेक्षया व्यापकं ब्रह्मैव संभवति
सर्वव्यापकत्वादतो ब्रह्मैव सर्वपदार्थास्पदं तत्प्रातिपादयति-कथमित्यादिना । रथनाभा-
विति । रथचक्रस्य मध्यभागो नाभिरित्यभिधीयते तत्र रथगतानां तिर्यकाष्ठानामराणां
यथा प्रवेशस्तद्वदित्यर्थः । एजदिति । एन कम्पने' इति धातो रूपम् । मनुष्यपश्वा-
दीति । यद्यपि कम्पनप्राणापानादिमत्त्वनिषणादिकं मनुष्यपक्षिपश्वादिषु सर्वप्राणिषु
समानं तथापि कम्पनादिवैशिष्टयात्पार्थक्येनोक्तिः। विशेषतः कम्पनं पक्ष्यादिषु संभवति
न मनुष्येषु । विशेषतः प्रामापानादिन्यवहारा मनुष्यपश्वादिषु संभवन्ति न पक्ष्यादि-
ष्वित्यर्थः । अनिमिषत्-जई स्थावरादिकम् । भवतामिति । भवतां स्वरूपभूतमेव तत् ।
तद्वयतिरेकेण-तद्विना । व्यवहितेनेति । विज्ञानाद्यद्वरिष्ठ प्रजानामिति मूले मध्यस्थ
यद्वरिष्ठमिति पदद्वयं परित्यज्य विज्ञानादित्यस्य प्रजानामित्यनेन संबन्धः । ततश्च प्रजानां
विज्ञानात्परं व्यतिरिक्तमित्यर्थः। लौकिकविज्ञानागोबरामति । लौकिकं यद्दर्शन-
श्रवणादिविज्ञानं तस्यागोचरं तेनागम्यं ' यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति
श्रुतेः । षु-श्रेष्ठेषु ॥ १॥
भाष्यबालबोधिनीसहिता ११ किंच- पदार्चमधदणुभ्योऽणु च यस्मिल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २॥ यदर्चिमद्दीप्तिमत् । तद्दीप्त्या ह्यादित्यादि दीप्यत इति दीप्तिमद्ब्रह्म । किंच यदणुभ्यः श्यामाकादिभ्योऽप्यणु च सूक्ष्मम् । चशब्दात्स्थूलेभ्योऽ- प्यतिशयेन स्थूलं पृथिव्यादिभ्यः । यस्मिल्लोका भूरादयो निहिताः स्थिताः। ये च लोफिनो लोकनिवासिनो मनुष्यादयश्चैतन्याश्रया हि सर्वे प्रसिद्धाः । तदेतत्सर्वाश्रयमक्षरं ब्रह्म स प्राणस्तदु वाङ्मनो वाक्च मनश्च सर्वाणि च करणा- नि तद्वन्तश्चैतन्यं चैतन्याश्रयो हि प्राणेन्द्रियादिसर्वसंघात: "प्राणस्य प्राणम्" (बृ.४।४।१८) इति श्रुत्यन्तरत् । यत्प्राणादीनामन्तश्चैतन्यमक्षरं तदेतत्सत्यम- वितथमतोऽमृतमविनाशि तद्वद्धव्यं मनसा ताडयितव्यम् । तस्मिन्मनस: समाधानं कर्तव्यमित्यर्थः । यस्मादेवं हे सोम्य विद्धयक्षरे चेतः समाधत्स्व॥२॥ आर्चिमदिति । अर्चिःशब्दस्येकारान्तत्वमार्षम् । तद्दीप्त्येति । ब्रह्मदीप्त्या आदित्यादयः प्रकाशन्ते । ' यस्य भासा सर्वमिदं विभाति' इति श्रुतेः। दीप्तिमतः सूर्या- देरिन्द्रियग्राह्यत्वं लोके दृष्ट ब्रह्मापि दीप्तिमत्ततस्तदिन्द्रियग्राह्यं स्यादित्यत आह-यदणुभ्य इति । स्थूलबुद्धिभिरगम्यमित्यर्थः । श्यामकादिभ्य इति । श्यामाकसंज्ञक लघुबीज धान्यं ' सावे' इति महाराष्ट्रभाषाप्रसिद्धम् । स्थूलेभ्य इति । 'अणोरणीयान् महतो महीयान् ' इति श्रुतेः । यतः पृथिव्यादिभ्यो महदतस्तत्र भूरादयो लोका निहितास्तदाह- यस्मिन्निति । प्राणादिवृत्तयः, चेतनाधिष्ठानमवलम्ब्य प्रवर्तमानाः, जङवृत्तित्वाद्रथप्रवृत्ति- वत् । यथा रथप्रवृत्तिश्चेतनहयानवलम्ब्य तदधिष्ठानतया जायते तद्वत् प्राणादिप्रवृत्तिश्चेतनं ब्रह्म, अधिष्ठानत्वेनाश्रित्य जायते तदतिरिक्तं प्राणादि प्रवृत्त्याधिष्ठानं तु न संभवत्यतः एक- चैतन्यमानमस्मीति विचारयेदित्याह-तदेतत्सर्वाश्रयमिति । तद्वन्तश्चैतन्यमिति । तत् उ अन्तश्चैतन्यमिति पदच्छेदः । तत्प्राणादिकं सर्वमन्तश्चैतन्यं, अन्तर्गतं चैतन्यं यस्य तदेवं भूतं ज्ञेयमित्यर्थस्तदाह-चैतन्याश्रय इति । संघातः-समुदायः । ताडयितव्य- मिति । भावयितव्यमित्यर्थः । समाधत्स्वोति । प्राणाद्यधिष्ठानत्वात्राणादिलक्ष्य आत्मा द्रव्य इत्यर्थः ॥ २॥ " मुण्डकोपनिमत् कथं वेद्धव्यमित्युच्यते। धनुर्गृहीत्वोपनिषदं महास्त्रं धरं झुपासानिशितं संदधीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३॥ धनुरिप्वासनं गृहीत्वादायौपनिषदमुपनिषत्सु भवं प्रसिद्धं महास्त्रं महच्च तदनं च महास्त्रं धनुस्त स्मिञ्झरम् । किंविशिष्टमित्याह । उपासा- निशितं संतताभिध्यानेन तनूकृतं संस्कृतमित्येतत् । संदधीत संधानं कुर्यात् । संधाय चायम्याकृप्य सन्द्रियमन्तःकरणं स्वविषयाद्विनिवर्त्य लक्ष्य एवाव- र्जितं कृत्वेत्यर्थः। न हि हस्तेनेव धनुष आयमनमिह संभवति । तद्भावा- तेन तस्मिन्ब्रह्मण्यक्षरे लक्ष्ये भावना मावस्तद्गतेन चेतसा, लक्ष्यं तदेव यथो- क्तलक्षणमक्षरं सोम्य विद्धि ॥ ३ ॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ४॥ यदुक्तं धनुरादि तदुच्यते । प्रणव ओंकारो धनुः । यथेष्वासनं लक्ष्ये शरम्य प्रवेशकारणं तथात्मशरल्याक्षरे लक्ष्य प्रवेशकारणमोंकारः । प्रणवेन ह्यभ्यस्यम नेन संस्क्रियमाणम्तदालम्बनोऽप्रतिबन्धेनाक्षरेऽवतिष्ठते यथा यश्च मुमुक्षुर्विचारेऽसमर्थस्तन प्रणवाभ्यासः कायस्ततस्तस्य ब्रह्मात्मैकत्वे चित्तसमा- धानं स्यात्तत्फलं च क्रममुक्तिरिति दयितुमुपक्रमत-कथं वेद्धव्यामिति । संस्कृत- मिति । शरस्य शाणोपरि घर्षणेन यथा संस्कारस्तथोपासनारूपशाणस्योपरि आत्मशरस्य तनूकरणरूपः संस्कारः कर्तव्य इत्यर्थः । स्वविषयादिति । चक्षुरादीनीन्द्रियाणि रूपरसा- दिभ्यो विनिवत्यं ब्रह्मलक्ष्य एव संस्था पनीयानि | आवर्जन-संपादनम् । आयमन-आक- घंगम् । इह-ब्रह्मवस्तुनि दाष्टान्तिके । यथोक्तलक्षणमिति । आविः संनिहितं गुहा- चरमित्यादिना मन्त्रद्वयनोक्तम् । अक्षरामिति । न क्षीयते न क्षरतीति वा अक्षरं ब्रह्मेत्यर्थः ॥ ३॥ कुश्वासनमिति। इधवा बाणा आस्यन्ते स्थाप्यन्ते लक्ष्येऽनेनेति इष्वासनं धनु- रित्यर्थः । तदालम्बन इति । स प्रणव आलम्बनम् आश्रयभूतो यस्य | अप्रतिबन्धेन-
*
भाष्यबालबाँधिनीसहिता
धनुषास्त इषुर्लक्ष्ये । अतः प्रणवो धनुरिव धनुः । शरों यात्मोपाधिलक्षणः
पर एव जले सूर्यादिवदिह प्रविष्टो देहे सर्वबौद्धप्रत्ययसाक्षितया । स शर
इव स्वात्मन्येवार्पितोऽक्षरे ब्रह्मणि । अतों ब्रह्म तल्लक्ष्यमुच्यते लक्ष्य इव मन:-
समाधित्सुभिरात्मभावेन लक्ष्यमाणत्वात् । तत्रैवं सत्यप्रमत्तेन बाझविषयोपल-
धितृष्णाप्रमादवर्जितेन सर्वतो विरक्तेन जितेन्द्रियेगकाग्रचित्तेन वेद्धव्यं ब्रह्म
लक्ष्यम् । ततस्तद्वेधनादूर्ध्वं शरवत्तन्मयो भवेत् । यथा शरस्य लक्ष्यकात्मत्वं
फलं भवति । तथा देहाद्यात्मताप्रत्ययतिरस्करणेनाक्षरैकात्मत्वं फलमापादये
दित्यर्थः ॥ ४॥
*
निर्विघ्नतया । आस्तः-स्थापितः । यथा धनुः शरस्य लक्ष्ये प्रवेशकारणं तथात्मशरस्याक्षरे
लक्ष्ये प्रवेशकारणमभ्यस्यमान ॐकारः । आत्मोपाधिलक्षण इति। बुद्धौ प्रतिविम्बितं
चैतन्यं जीवसंज्ञकम् । विम्बरूपं चैतन्यं परमात्मसंज्ञकम् । जीवात्मा शरस्थानीयः । परमात्मा
लक्ष्यस्थानीयः । आकाशस्थस्य सूर्यस्य जले प्रतिविम्बं दृश्यते तस्य जलप्रतिविम्बितसूर्यस्य
आकाशस्थसूर्यस्य च यथा भेद उपाधिद्वारा वस्तुत्वेन चाभेदः । तथा बुद्धिप्रतिविम्बित-
चैतन्यात्मकस्य जीवस्य निरुपाधिकचैतन्यात्मकस्य ब्रह्मणश्च भेद उपाधिद्वारा वस्तुत्वेन
चाभेदः। एवंच वास्तवरूपेण जीवों ब्रह्मैव । तदाह-पर एवेति । तदुक्तम भियुक्तैः ।
श्लोकार्थेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः॥१॥
सर्वबौद्धप्रत्ययसाक्षितयेति । सर्वे बौद्धा बुद्धिसंबन्धिनः प्रत्ययाः श्रवणदर्शनसुख-
दुःखादिज्ञानानि तेपी साक्षी जीवस्तत्तया तत्स्वरूपेण । अयं भावः । चैतन्यं बुद्धौ प्रति-
विम्बितं सत् तस्या दर्शनादिवृत्तीः प्रकाशयति तत्प्रकाशानुभवस्य गृहीता जीवः सोऽपि
चैतन्यस्वरूप एव च ततोऽतिरिक्तः। प्रणवो ब्रह्मेत्यभिध्यायत उपसंहृतकरणग्रामस्य प्रणवो-
परक्तं यच्चैतन्यप्रतिबिम्ब स्फुरति स आत्मेत्यनुसंधानं प्रभवे शरसंधानम् । तस्य चित्प्रति-
विम्बस्य विम्बक्यानुसंधानं लक्ष्यवेधः । स्वात्मनीति । स्वस्य जीवस्य आत्मनि स्वरूप-
भूते ब्रह्मणीत्यर्थः । अप्रमत्तत्वं वर्णयति-बाह्यविषयेत्यादि । वाह्यानां घटपटादिविषयाणां,
उपलब्धिः प्राप्तिः, तथा तद्विषयिणी तृष्णात्यन्तमिच्छा तथा तद्विषयका प्रमादश्च तद्वर्जितेन
द्रहितेन घटपटादिबाह्यविषयप्राप्तिं तदिच्छां तद्विषयकप्रमादं च वर्जयित्वेत्यर्थः। शरव-
दिति । यथा श: स्वरूपायशेषेण लक्ष्यमग्नो भवति तद्वज्जीवो न स्वरूपावशेषण ब्रह्ममग्नः
किन्तु तद्रूपो भवेदिति दृष्टान्तापेक्षयापि दार्टान्त आधिक्यम् । तन्मयः-तद्रूपः । देहाद्या-
मतेति। देह एवात्मेति प्रत्ययो ज्ञानं तत्तिरस्कारद्वारा । देहात्मवुद्धिं तिरस्कृत्य जीव-
परमात्मैक्य विं संपादयेत् ॥ ४ ॥
१४
मुन्डकोपनिक
यस्मिन्यौः पृथिवी चान्तरिक्ष-
मोतं मनः सह प्राणैश्च सर्वैः।
तमेवैकं जानथ आत्मान-
मन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥५॥
अक्षरस्यैव दुर्लक्ष्यत्वात्पुनः पुनर्वचनं सुलक्षणार्थम् । यस्मिन्नक्षरे
पुरुषे द्यौः पृथिवी चान्तरिक्षं चोतं समर्पितं मनश्च सह प्राणैः करणैरन्यैः
सर्वैस्तमेव सर्वाश्रयमेकमाद्वितीयं जानथ जानीत हे शिष्याः । आत्मानं
प्रत्यक्स्वरूपं युष्माकं सर्वप्राणिनां च ज्ञात्वा चान्या वाचोऽपरविद्यारूपा
विमुञ्चथ विमुञ्चत परित्यजत । तत्प्रकाश्यं च सर्व कर्म ससाधनम् ।
यतोऽमृतस्यैष सेतुरेतदात्मज्ञानममृतस्यामृतत्वस्य मोक्षस्य प्राप्तये सेतुरिव सेतुः
संसारमहोदधेरुतरणहेतुत्वात् । तथा च श्रुत्यन्तरम्-" तमेव विदित्वाति
मृत्युमेति नान्यः पन्था विद्यतेऽयनाय " (श्वे.६।१५) इति ॥५॥
किंच.
अरा इव रथनाभौ संहता यत्र नाडयः
स एषोऽन्तश्वरते बहुधा जायमानः ।
ओमित्येवं ध्यायथ आत्मानं
स्वस्ति वः पराय तमसः परस्तात् ॥ ६॥
.
अग्रिमप्रन्यस्य पौनरुक्त्यं परिहरति-अक्षरस्यैवेत्यादि । दुर्लक्ष्यत्वात्-दुयित्वात् ।
सुलक्षणार्थ-सुज्ञानार्थम् । करणैः-इन्द्रियैः । जानीतेति । जानीथेत्यपपाठः । प्रत्यक्स्व-
रूपमिति । प्रतिशरीरमञ्चतीत प्रत्यक् । सर्वव्यापिस्वरूपमित्यर्थः । अपरविद्यारूपा
इति । यज्ञादिप्रतिपादिका ऋग्वेदादयोऽपरविद्यारूपाः । तत्प्रकाश्यं-ऋग्वेदादिप्रतिपाद्यम् ।
कर्म-यज्ञादि । ससाधनामिति । साधनेच ऋत्विग्वविदिसंपत्त्या सहितम् । सेतुरि-
वति । 'षिञ् बन्धने' इत्यस्य रूपं सेतुरिति । वृक्षपाषाणादिनिर्मितो मार्गों यथा परतीर-
प्रापको जलप्रतिबन्धकश्च भवति तथायं परमात्मरूपः सेतुः संसारमहासागरस्य परताप्रापकः
संसारोदधिनिवारकश्च भवति । सेतुः-महाराष्ट्रभाषायां 'बन्धारा' पदवाच्यः । नतु पूल
शब्दवाच्यः । श्रुत्यन्तरमिति । श्वेताश्वतरोपनिषदि तृतीयाध्यायेऽष्टमोऽयं मन्त्रः । तस्य
पूर्वार्ध इत्यम्-वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात् ॥ तमेव पुरुषं ज्ञात्वा
मृत्युमत्यति अतिक्रामति परब्रह्म गच्छति । अयनाय गमनाय मोक्षायान्यः पन्था मार्गो
न विद्यते॥७॥
भाष्यबालबोधिनीसहिता
१५
अरा इव । यथा रथनाभौ समर्पिता अरा एवं संहताः संप्रविष्टा
यत्र यस्मिन्हृदये सर्वतो देहव्यापिन्यो नाध्यस्तस्मिन्हृदये बुद्धिप्रत्यय-
साक्षिभूतः स एष प्रकृत आत्मान्तर्मध्ये चरते चरति वर्तते । पश्यन्शृण्व-
मन्वानो विजानन्बहुधानेकधा कोषहर्षादिप्रत्ययैर्जायमान इव जायमानोऽ-
न्त:करणोपाध्यनुविधायित्वात् । वदन्ति लौकिका हृष्टो जातः क्रुद्धो जात
इति । तमात्मानमोमित्येवमोंकारालम्बनाः सन्तो यथोक्तकल्पनया ध्यायथ
चिन्तयत । उक्तं वक्तव्यं च शिष्येभ्य आचार्येण जानता। शिप्याश्च ब्रह्म-
विद्याविविदिषुत्वानिवृत्तकर्माणो मोक्षपथे प्रवृत्ताः । तेषां निर्विघ्नतया ब्रह्म-
प्राप्तिमाशास्त्याचार्यः । स्वस्ति निर्विघ्नमस्तु वो युष्माकं पराय परकूलाय ।
परस्तात्कस्मादविद्यातमसः। अविद्यारहितब्रह्मात्मस्वरूपगमनायेत्यर्थः ॥६॥
योऽसौ तमसः परस्तासंसारमहोदधि तीर्वा गन्तव्यः परविद्यावि-
षय इति स कस्मिन्वर्तत इत्याह ।
यः सर्वज्ञः सर्ववि-
द्यस्यैष महिमा भुवि ।
संहता इति । एकीभूयेत्यर्थः । देहव्यापिन्य इति । शतं चैका हृदयस्य नाड्य-
स्तासां मूर्धानमभिनिःसृतैकेति श्रुतेरेकाधिकशतं नाड्यो हृदये वर्तन्ते तत्रैका शीर्ष गच्छ-
ति । अन्याश्च शतसंख्याका देहं व्याप्नुवन्ति | प्रकृत आत्मेति । जीवात्मेत्यर्थः ।
क्रोधहर्षादिप्रत्ययैरिति । इष्टहानौ तदलाभे वा क्रोधवृत्तिरुदति । इष्टप्राप्ती हर्षवृत्तिहदेति ।
प्रत्ययाः-अनुभवाः । अन्तःकरणोपाध्यनुविधायित्वादिति । वास्तवरूपेण जीवस्य
हर्षक्रोधादिकं नास्ति चैतन्यरूपत्वात्तस्य किन्तु अन्तःकरणोपाधिद्वारा तत् हर्षक्रोधादिक
भासते । यथा आदर्शगतमलिम्ना प्रतिबिम्बे मालिन्यम् । निवृत्तकर्माण इति । ब्रह्म
जिज्ञासमानो विविदिषुः । तेनापि संन्यासो विधेयः। स विविदिषासंन्यास इति कथ्यते ।
ब्रह्मज्ञानानन्तरं यः संन्यासः स विद्वत्संन्यासः। यथा याज्ञवल्क्यस्य । विद्वत्संन्यासे संन्या-
साश्रमकापि नास्ति । विविदिषासंन्यासे यद्यपि संन्यासाश्रमकर्म त्रिषवणस्नानादिकं कर्तव्यं
भवति तथापि तत् गृहस्थाश्रमकर्मापेक्षया न्यूनम् । अतो ब्रह्म विविदिष्णापि संन्यासः
कर्तव्यः । परस्तादिति । ये च तत्त्वमसीति वाक्यार्थज्ञानद्वारा ब्रह्म जिज्ञासमानाः साध-
कास्तेषां कर्मठजनसहवासात् कर्मश्रद्धा स्वर्गादिविषयश्रद्धा च भवति सैव वाक्यार्थज्ञानानु-
भवे प्रतिबन्धको विघ्नः संभवति स मा भूदतो गुरूणामाशीः। वाक्यार्थज्ञानानुभव
संपन्ने तु मोक्षफलप्राप्तौ विघ्नशकैव नास्तीत्यर्थः । गमनायेति। आत्मस्वरूपसंपत्ति-
रेवात्मस्वरूपगमनम् ॥ ६॥
४६. मुण्डकोपनिषतः दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥७॥ यः सर्वज्ञः सर्वविद्याख्यातः। तं पुनर्विशिनष्टि । यस्यैष प्रसिद्धो महिमा विभूतिः। कोऽसौ महिमा । यस्येमे द्यावापृथिव्यौ शासने विधृते तिष्ठतः । सूर्याचन्द्रमसौ यस्य शासनेऽलातचक्रवदजसं भ्रमतः । यस्य शासने सरितः सागराश्च स्वगोचरं नातिक्रामन्ति । तथा स्थावां जङ्गमं च यस्य शासने नियतम् । तथा चर्तवोऽयने अन्दाश्च यस्य शासनं नातिकामन्ति । तथा कर्तारः कर्माणि फलं च यच्छासनात्स्वं स्वं कालं नातिवर्तन्ते स एष महिमा । भुवि लोके यस्य स एष सर्वज्ञ एवंमहिमा देवः। दिव्ये द्योतन- वति सर्वबौद्धप्रत्ययकृतद्योतने ब्रह्मपुरे । ब्रह्मणो ह्यत्र चैतन्यस्वरूपेण नित्या- भिव्यक्तत्वात् । ब्रह्मणः पुरं हृदयपुण्डरीकं तस्मिन्यव्योम तस्मिन्व्योम्न्या- काशे हृत्पुण्डरीकमध्यस्थे प्रतिष्ठित इवोपलभ्यते । न ह्याकाशवत्सर्वगतस्य गतिरागतिः प्रतिष्ठा वान्यथा संभवति ॥७॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं संनिधाय । तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपमतं यद्विभाति ॥ ८ ॥ सर्वेश्वरत्वमनोमयत्वादिगुणविशिष्टब्रह्मणो हृदयपुण्डरीके ध्यानं च क्रममुक्तिफलं सगुण. ब्रह्मोपासकस्य विधीयत इति दर्शयितमाह-योऽसौ तमस इति। व्याख्यात इति । सामान्यविशेषज्ञानवानिति पूर्वं व्याख्यातमित्यर्थः । सर्वविदित्यस्य सर्व विन्दति लभते इति वार्थः । शासने-आज्ञायाम् । आशयेत्यर्थः । विधृते तिष्ठत इति । अन्तरालेऽवलम्बेते । न पतत इत्यर्थः । अलातचक्रवदिति । उभयतोऽग्निमुखं काष्ठं मध्ये गृहीत्वा भ्राम- यन्ति तदा तदग्निचक्रमिव प्रतीयते । तद्वत् सूर्यचन्द्रौ उभयतोमुखकाष्ठाग्निस्थानीयो निर- न्तरं भ्रमतः । अलातचक्रं महाराष्ट्रभाषायां वोथाटी' इति कथ्यते । अजस्रं-निरन्तरम्। स्वगोचरं स्वप्रवृत्तिस्थानम् | सरिदादयः स्वप्रवाहस्थानानि नातिकामन्तीत्यर्थः। सर्व- बौद्धत्यादि । सर्दर्शनश्रवणादिज्ञानः कृतं द्योतनं प्रकाशो यस्मिन् । अत्र हृदयपुण्डरीके । प्रतिष्ठित इत्युक्तौ पूर्व प्रतिष्ठितो नासीदियुक्तं स्यात् एवं चेयं पश्चास्थितिः सर्वव्यापके ब्रह्माणि न संगच्छेतात आह-प्रतिष्टित इदोपलभ्यत इति । आकाशवदिति। 'आकाशवत्सर्वगतश्च नित्यः' इति श्रुतेः। आगतिः-आगमनम् । प्रतिष्ठा-स्थितिः । अन्यथा-प्रकारान्तरेण | उपलव्ध्यतिरिक्तं तस्य प्रतिष्ठादिकं नास्तीत्यर्थः ।। ७.॥. .. .. .
माण्यवासबोधितीसहिता : स ह्यात्मा तत्रस्थो मनोवृत्तिभिरेव विमान्यत इति मनोमयो मन- उपाधित्वात् । प्राणशरीरनेता प्राणश्च तच्छरीरं च प्राणशरीरं तस्यायं नेता अस्मात्स्थूलाच्छरीराच्छरीरान्तरं सूक्ष्म प्रति । प्रतिष्ठितोऽवस्थितोऽन्ने भुज्य- मानानविपरिणामे प्रतिदिनमुपचीयमानेऽपचीयमाने च पिण्डरूपेऽन्ने हृदयं बुद्धिं पुण्डरीकच्छिद्रे संनिधाय समवस्थाप्य । हृदयावस्थानमेव यात्मनः स्थितिन यात्मनः स्थितिरन्ने । तदात्मतत्त्वं विज्ञानेन विशिष्ठेन शास्त्राचार्यो- पदेशजनितेन ज्ञानेन शमदमध्यानसर्वत्यागवैराग्योद्भूतेन परिपश्यन्ति सर्वतः पूर्ण पश्यन्त्युपलभन्ते धीरा विवेकिनः । आनन्दरूपं सर्वानर्थदुःखायास- प्रहीणं सुखरूपममृतं यद्विभाति विशेषेण स्वात्मन्येव भाति सर्वदा ॥ ८ ॥ अस्य परमात्मज्ञानस्य फलमिदमभिधीयते । भिद्यते हृदथग्रन्थि- श्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ९ ॥ हृदयग्रन्थिरविद्यावासनामयो बुद्धयाश्रयः कामः स्थ हृदि श्रिताः” ( क. ६।१४ ) इति श्रुत्यन्तरात् । हृदयाश्रयोऽसौ पिण्डरूपेऽन्न इति । कलावन्नमयाः प्राणा इत्युक्तेरन्नेन विना देहत्यागात् । एवं चान्ने देहस्थ स्थितिः । देहे हृदयस्य स्थितिः । हृदये चात्मनः प्रतिबिम्बद्वारा स्थितिरि- त्याह-न ह्यात्मनः इति । शास्त्राचार्योपदेशजनितेनेति । शास्त्रं-उपनिषदादिरूपम् । आचार्योपदेशः-तत्त्वमस्यादिवाक्यात्मकः । ज्ञान-वाक्यार्थज्ञावम् । शमदमेत्यादि । साध. नचतुष्टयसंपत्तिः प्रथममुण्डकप्रथमखण्डप्रथममन्त्रबालबोधिन्यामुक्का तत्र शमादीनामा आलोच्याः। आयास:-श्रमः । प्रहीणं-रहितम् ॥ ८॥ अस्य परमात्मज्ञानस्येति । जीवपरमात्मैक्यबोधकवाक्यानुभवो जीवन्मुक्ति- फलकः । तथोपासनं क्रममुक्तिफलकम् । तस्य द्विविधस्यापि परमात्मज्ञानस्य फलमभिधी- यत इत्यर्थः । हृदयग्रन्थिरिति । अत्रान्वयक्रमेण व्याख्यानम् । भिद्यत इति पदस्याने व्याख्यानात् । तेन क्वचित्पुस्तके पूर्व भिद्यत इति यत्पठितं तत प्रामादिकम् | आवद्या- वासनामय इति । अविद्यारूपस्तज्जनितवासनारूपश्च । बुद्धयाश्रय इति । अत्र बुद्धि- पदेन हृदयमभिधीयते । तत्र प्रमाणं 'कामा येऽस्य ' इति श्रुतिस्तदाह-श्रुत्यन्तरादिति । हृदयाशय इति । असौ कामो हृदयाश्रयः। नैयायिकनये कामादयः चतुर्दशात्मविशे- षगुणा उच्यन्ते तेन तेषामात्माश्रयत्वं. स्यादिति शंकामपाकर्तुमाह-नात्माश्रय इति । कामा येऽ.
१८ मुण्डकोपनिषत् नात्माश्रयः । मिद्यते भेदं विनाशमायाति । छिद्यन्ते सर्वज्ञेयविषयाः संशया कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिहींर्धारित्येतत् सर्व मन एव' इति श्रुतौ (बृ. १-४-३ मै. ६-३०) मनस इमा वृत्तयः कथिता न त्वात्मनः । विनाश- मायातीति । अविद्यावासनामयः कामो भिद्यत इत्यवायं विचारः। किं ज्ञानेन बुद्धौ विद्यमानायां तदाश्रितः कामो भिद्यते । उत बुद्धिविनाशेन कामो भिद्यते । प्रथमपक्षो संगच्छते उपादानकारणे बुद्धौ विद्यमाने कार्यस्यात्यन्तं नाशादर्शनात् । मृदि विद्यमानायां पुनर्घटकरणसंभवः । बुद्धिनाशेन कामो भिद्यत इति द्वितीयोऽपि. पक्षो न संगच्छते ज्ञानस्याज्ञानेन सह विरोधात् । तथाहि ज्ञानेनाज्ञानं नश्येन तु बुद्धिः। किंच बुद्धिर्यदि अनादिस्तहि 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति श्रुतिविरोधः । यदि बुद्धिः सादिस्तहि सर्वसादिवस्तूनां पृथिव्यादीनां यथा महाप्रलयकाले नाशस्तदा बुद्धरपि नाशः स्यात्तहिं ज्ञानस्य वैयर्थ्य तेन विनापि प्रलयेऽनायासतो बुद्धिनाशसिद्धः। किंच सादित्ते बुद्धेरुपादानं किं ब्रह्म वा माया वा । ब्रह्मण उच्छेदासंभवाद्बुद्धेरुच्छेदाभावात् । न द्वितीयः। द्रष्टुगतनानेन मायाया उच्छेदासंभवात् । लौकिकमायाविगतमायाया द्रष्टगतज्ञानेनोच्छेदादर्श- नात् । किंच बुद्धरुच्छेदो न बुद्धिफलं स्वनाशः स्वस्य फलमित्यस्य लोकेऽदृष्टत्वात् । तथाच बुद्धिनाशो नात्मनः फलम् | केवलात्मस्थितौ बुद्धेः स्थित्यभावात् । किंचात्मनोऽविद्या- द्यनाश्रयत्वकथनं श्रुतिविरुद्धम् । यतोऽत्रोपक्रमे ' अविद्यायामन्तरे वर्तमानाः' इति । उप- संहारे 'अनीशया शोचति मुह्यमानः' इति च श्रूयते । बुद्धिगतमेवाविद्यादि आत्मनि अध्य- स्यत इति चेद्रुषे तर्हि अध्यस्यत इत्यस्य कोऽर्थः । निक्षिप्यते भ्रान्त्या दृश्यते वा । नाद्यः । अन्यधर्मस्यान्यन निक्षेपासंभवात् । भ्रान्त्या चेत्केन दृश्यते । न तावदात्मना । सिद्धान्ते तस्याविद्याश्रयत्वानंगीकारात् । नापि बुद्धया भ्रान्त्या दृश्यते । बुद्धरात्माविषयत्वा- संभवेन स्वगतस्याविद्यादेदर्शनासंभवात् । नहि सुशिक्षितोऽपि नटः स्वस्कन्धमारोढुं समर्थः। इति न्यायात् । किंच बुद्धान्तिर्बुद्धिगतेन तत्त्वानुभवेन निवर्तत इति प्रसिद्धेर्बुद्धेरनुभवाश्रयत्व. प्रसंगात् । तस्मादस्य भाष्यस्य किं सुविचारसहं तात्पर्यमिति चेदुच्यते । अत्र सिद्धान्त- मते विवर्तवादः। स च शुक्तिरजतादिदृष्टान्ते स्फुटः । तेन च चित्तंत्रानादिरनिर्वाच्या- विद्या चैतन्यमवच्छिद्य स्वावच्छिन्नचैतन्यस्य वुद्धयादितादात्म्यरूपेण विवर्तते । तस्या- चित्तन्त्राविद्याया ब्रह्मात्मतानुभवानिवृत्तिः । तन्निवृत्तौ तज्जन्यदृदयग्रन्थिर्भिद्यत इति श्रुत्यांच्यते । भाष्ये बुद्धयाश्रय इत्यत्र बुद्धिपदेनाहकारो गृह्यते । अहंकाराश्रयः काम इत्यर्थः। अविद्याया वर्णनं च व्यावहारिकसत्यत्वाभिप्रायेण | कामो नात्माश्रय इति कथनं निर्विकार आत्मेत्यभिप्रायेणेति । ननु जीवन्मुक्तेन व्युत्थानदशायां जगद्वयवहारोनुभूयते तदसंगतं स्यात् । ज्ञाने सति जगतो नाशावश्यंभावादिति चेन्न । बाधितानुवृत्त्या प्रारब्धकोप- भोगाथै जगद्व्यवहारस्यावश्यकत्वात् । तथाहि-यथा दग्धापि रज्जुः पूर्वरूपेण भासते परं न तया बन्धनादिव्यवहारः कर्तु पार्यते तद्वत् जीवन्मुक्केन पूर्ववद्भिक्षाटनादिकर्म क्रियते प्रार- भाष्यबार विनीलहिता लौकिकानामामरणात् गङ्गास्रोतोवत्प्रवृत्ता विच्छेदमायान्ति । अस्य विच्छिन्न- संशयस्य निवृत्ताविद्यस्य यानि विज्ञानोत्पत्तेः प्राक्तनानि जन्मान्तरे चाप्रवृत्त- फलानि ज्ञानोत्पत्तिसहभावीनि च क्षीयन्ते कर्माणि । न वेतजन्मारम्भ- काणि प्रवृत्तफलत्वात् । तस्मिन्सर्वज्ञेऽसंसारिणि परावरे परं च कारणात्मना, अवरं च कार्यात्मना तस्मिन्परावरे साक्षादहमस्मीति दृष्टे, संसारकारणो- च्छेदान्मुच्यत इत्यर्थः ॥९॥ उक्तस्यैवार्थस्य संक्षेपाभिधायका उत्तरे मन्त्रास्त्रयोऽपि । हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । ब्धानुसार याबब्जीवम् । परं तस्य प्रतिबन्धकत्वं नास्ति । अविद्याया नाशात् । गंगा- स्रोतोवदिति । अनावृष्टयामपि गंगायाः प्रवाहो न विच्छिद्यते । अतो गंगाग्रहणम् । अस्योत । ज्ञानिन इत्यर्थः । विज्ञानं-अनुभवजन्य ज्ञानं न केवलं शास्त्रीयम् । प्राक्तना- नीति । त्रिविधं हि कर्म । १ संचितम् २ क्रियमाणम् ३ प्रारब्धामति । तत्र १ संचितं पूर्वेष्वनेकजन्मसु कृतं फलोपभोगाय नाद्याप्यारब्धम् । २ क्रियमाणं प्राख्योपभोगसमये यदन्यलियते कर्म तत् । ३ प्रारब्धं-पूर्वसंचितान्तर्गतमेव प्रकृतजन्मोपभोगार्थ विभज्य स्थापितम् । जन्मान्तर इति । अन्यस्मिन् जन्मनि अप्रवृत्तफलानि येषां फलोपभोगो नासादितः । संचितानीत्यर्थः । ज्ञानोत्पत्तिसहभावीनीति | ज्ञानोत्पत्तिर्यत्र जन्मनि तत्र ज्ञानोत्पत्तेस्त्तरं जायमानानीत्यर्थः । क्रियमाणसंज्ञकानीति भावः। इदमुपलक्षणम् । प्रारब्धोपभोगसमये ज्ञानाभावदशायामुत्पद्यमानानामपि कर्मणां क्रियमाणसंज्ञकत्वात् । एत- ज्जन्मारम्भकाणीति । प्रारब्धानीत्यर्थः । प्रवृत्तफलत्वादिति । ननु कर्ममात्रस्या- प्यज्ञानकार्यत्वे सिद्ध कारणबाशात्प्रारब्धस्यापि संचितादिवानिवृत्तिः स्यादेवेति चेन्न । प्रवृत्त- कलत्वात्तस्य निवृत्त्यनुपपत्तेः । यथा भुक्तेः पूर्वभाविनः पश्चाद्भाविनोऽप्यनस्य त्याग उप- पद्यते न तथा भुक्तानस्य प्रवृत्तफलत्वात् । तथैवारब्धकर्मणोऽपि । एवंच भुक्तानस्य प्रवृत्त- फलस्य यथोपभोगेनैव क्षयस्तथा प्रारब्धकर्मणामुपभोगेनैव क्षयः । अत्रायः- मुक्तेषुः प्रवृत्तं चक्रमित्यपि दृष्टान्तद्वयम् । मृगयायां पशुवधार्थ मुक्त इघुर्लक्ष्यवेधं कृत्वापि यावद्वेगक्षयमग्रे गच्छत्येव । प्रवृत्तं कुलालचक्रं धटनिर्माणकार्य संपाद्यापि यावद्वेगं भ्रमत्येव । परावरे-कार्य- कारणात्मके । दृष्ट-अनुभते । संसारेत्यादि । संसारस्य कारणमविद्या तदुच्छेदात् तन्ना- शादित्यर्थः ॥९॥ पुनरुक्किं परिहर्तुमाह-उक्तस्यैवेति । संक्षेपाभिधायका इति । संक्षेपविर
.
'मुण्डकोपनिषत्
तच्छुळं ज्योतिषां ज्योति-
स्तधदात्मविदो विदुः॥१०॥
हिरण्मये ज्योतिर्मये बुद्धिविज्ञानप्रकाशे परे कोशे कोश इवासेः।
आत्मस्वरूपोपलब्धिस्थानत्वात्परं तत्सर्वाभ्यन्तरत्वात्तस्मिन्विरजमविद्याद्यशेष.
दोषरजोमलवर्जितं ब्रह्म सर्वमहत्त्वात्सर्वात्मत्वाञ्च निष्कलं निर्गताः कला
यस्मात्तन्निष्कलं निरवयवमित्यर्थः । यस्माद्विरजं निष्कलं चातस्तच्छुभं 'शुद्ध
ज्योतिषां सर्वप्रकाशात्मनामग्न्यादीनामपि तज्ज्योतिरवभासकम् । अग्न्या-
दीनामपि ज्योतिष्ट्वमन्तर्गतब्रह्मात्मचैतन्यज्योतिर्निमित्तमित्यर्थः । तद्धि परं
ज्योतिर्यदन्यानवभास्यमात्मज्योतिस्तद्यदात्मविद आत्मानं स्वं शम्दादिविषय-
बुद्धिप्रत्ययसाक्षिणं ये विवेकिनो विदुर्विजानन्ति त आत्मविदस्तद्विदुरात्म-
प्रत्ययानुसारिणः । यस्मात्परं ज्योतिस्तस्मात्त एव तद्विदुर्नेतरे बायार्थप्रत्यया-
नुसारिणः ॥ १॥
कथं तत् " ज्योतिषां ज्योतिः" इत्युच्यते ।
न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः।
तमेव भान्तमनुभाति सर्च
तस्य भासा सर्वमिदं विभाति ॥११॥
राभ्यामुक्तोऽर्थः मुखेन बुद्धयारूढो भवतीति भावः । बुद्धिविज्ञानप्रकाश इति । बुद्धेः
शास्त्रीयज्ञानस्य विज्ञानस्य अनुभवजन्यज्ञानस्य च प्रकाशो यस्मिन् । परे-उत्कृष्टे । कोश
इवेति । यथा खड्ग कोशे महाराष्ट्रभाषया म्यान' इति संज्ञके निधीयते तद्वदित्यर्थः।
तत् स्थानमात्मोपलब्धिस्थानत्वादुत्कृष्टमथवा सर्वतोऽभ्यन्तरत्वात्सुगुप्तत्वेनोत्कृष्टम् । विरज
मिति । रजःशब्दस्याकारान्तत्वमार्षम् । अथवा ये सान्तास्तेऽदन्ता इति न्यायेन तस्य
साधुत्वं बोधनीयम् । अविद्याद्यशेषेति । अत्रादिपदेन कामकर्मादयो दोषा ग्राह्याः ।
अन्यानवभास्यमिति । अन्यैरग्न्यादिभिरवभासयितुं प्रकाशयितुमशक्यमित्यर्थः । अग्न्या-
दयो हि ब्रह्मरूपेणान्तर्योतिषावभास्यन्ते ब्रह्म तु सर्वान्तर्गतत्वान्न केनाप्यवभासयितुं शक्यम् ।
शब्दादीत्यादि । शब्दस्पर्शरूपरसगन्धानां बुद्धिप्रत्ययानां साक्षी जीवरूपेणात्मैव । विवे-
किन इति । विचिर पृथग्भावे' इति धातुः । अयं शब्दादिविषयः, इदं ब्रह्म निर्विषय-
मिति पार्थक्येन ये विचारयन्ति । बाह्यार्थप्रत्ययानुसारिणः-बाह्यार्थप्रत्ययमनुविधी-
यमानाः ॥१०॥
भाष्युबालबोधिनीसहिता न तत्र तस्मिन्स्वात्मभूते ब्रह्माणि सर्वावभासकोऽपि. सूर्यो भाति, तुझ न प्रकाशयतीत्यर्थः । स हि तस्यैव भासा सर्वमन्यदनात्मजात प्रकाश- यति। न तु तस्य स्वतः प्रकाशनसामर्थ्यम् । तथा न चन्द्रतारक नेमा विधती भान्ति कुतोऽयमनिरस्मद्गोचरः । किं बहुना । यदिदुः जंगद्धाति तत्तमेव परमेश्वर स्वतो भारूपत्वादान्तं दीप्यमानमनुभात्यनुदीप्यते । यथा जलाल्मुकादि वामिसंयोगादमिं दहन्तमनुदहति न स्वतस्तद्वत्तस्यैव भासा दीप्त्या सर्वमिदं सूर्यादि जगद्विभाति । यत एवं तदेव ब्रह्म भाति च विभाति च कार्यगतेन विविधेन भासा अतस्तस्य ब्रह्मणो भारूपत्वं स्वतोऽ- वगम्यते । न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्नोति । घटादी- नामन्यावभासकरवादर्शनाद्भारूपाणां चादित्यादीनां तद्दर्शनात् ॥ ११ ॥ यत्तज्ज्योतिषां ज्योतिर्ब्रह्म तदेव सत्यम् । सर्व तद्विकारः । वाचा- रस्मणं विकारो नामधेयमात्रमनुतमितरदित्येतमर्थ विस्तरेण हेतुतः प्रति- पादित विग्रमनस्थानीयेन मन्त्रेण पुनरुपसंहरति । ब्रह्मैवेदममृतं पुरस्ता- ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ १२॥ इत्यथर्ववेदीयमुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥ २ ॥ इत्यथर्ववेदीयमुण्डकोपनिषदि द्वितीयमुण्डकं समाप्तम् ॥ २ ॥ सर्वावभासक इति । घटपटादीनां लौकिकानां सर्ववस्तूनामवभासकः सूर्यः । स ब्रह्मावभासको. न भवति यतस्तस्य स्वरूपमेव ब्रह्म । यदि स स्वरूपभूतं ब्रह्म प्रकाशये- तर्हि प्रकाशनस्य ब्रह्म कर्म स्यात् । प्रकाशनस्य कर्तृ ब्रह्म । एवं चैकत्रैव कर्तृत्वं कर्मत्वं च. समापतेत् । ततू स्वस्य स्वस्कन्धारोहणमिवासंगलं स्यात् । अनात्मजातमिति । आत्मभिन्नं घटपटादिसमुदायमित्यर्थः । अस्मद्गोचर इति । सूर्यचन्द्रतारकादीनां दूरस्थ- स्वात्तत्स्वरूपं शास्त्रगम्यम् । अग्निस्तु अस्मत्सविधे वर्तते तेन तत्स्वरूपं प्रकाशनादिकं चास्मा- भिरुपलभ्यत इत्यर्थः । कार्यगतेनति । सूर्यचन्द्रादि यब्रह्मकार्य तत्स्थेन तेजसेत्यर्थः। स्वतोऽविद्यमानमिति । स्वयमसिद्धः परान्कथं साधयेत् । इति । स्वयं. तरितुमक्षमः परान्कथं तारयेदिति वा न्यायः । घटादीनामिति । घटादयः प्रकाशरहितत्वादन्यामा- वभासयन्ति । आदित्यादयः प्रकाशरूपत्वादन्यान्भासयन्तीत्यर्थः ॥ ११ ॥ ब्रह्मवैकं परमार्थसत्यामति निगमनस्थानीयेन मन्त्रेणोपसंहरति-यत्तदिति । निगम मुण्डकोपनिषत् अझैवोक्तलक्षणम् इदं यत्पुरस्तादग्रेऽब्रझैवाविद्यादृष्टीनां प्रत्यब- भासमान तथा पश्चाद्ब्रह्म तथा दक्षिणतश्च तथोत्तरेण तथैवाधस्तादूर्व च सर्वतोऽन्यदिव कार्याकारेण प्रसृतं प्रगतं नामरूपवदभासमानम् । किं बहुना, ब्रह्मैवेदं विश्वं समस्तमिदं जगद्वरिष्ठं वरतमम् । अब्रह्मप्रत्ययः सर्वोs- विद्यामात्रो रज्ज्वामिव सर्पप्रत्ययः । ब्रह्मैवैकं परमार्थसत्यमिति वेदानु- शासनम् ॥ १२॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्ये द्वितीयमुण्डके द्वितीयः खण्डः ॥२॥ इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्ये द्वितीय मुण्डकं समाप्तम् ॥ २॥ नस्थानीयनेति । अनुमानप्रतिपादने पञ्च वाक्यानि भवन्ति प्रतिज्ञाहेतूदाहरणोपनय- निगमनाख्यानि तत्र पञ्चमं वाक्यं निगमनं नाम । तेनानुमानसिद्धार्थस्योपसंहारः क्रियते। तद्वदत्रापि प्रकरणेन सिद्धं यौव सत्यम् । अन्यत्सर्वं तद्विकार इति तस्योपसंहारः क्रियते। भनुमानवाक्यानि चेत्थम् । १ पर्वतो वन्हिमानिति प्रतिज्ञा । २ धूमादिति हेतुः । ३ यथा महानसः। इति उदाहरणम् । ४ अयमपि तथा । इत्युपनयः । ५ तस्मात्तथा । इति निगमनम्। पुनरुपसंहरतीति । पूर्वखण्डान्तिममन्त्र उपसंहारः कृतः पुनरत्र क्रियत इत्यर्थः । अविद्यारष्टीनामिति । यथा पित्तरोगोपहतदृष्टयः शंखं पीतं मन्वते तद्वत् अविद्योपहतदृष्टयः ब्रह्म जगद्रूपेण पश्यन्ति भ्रमादित्यर्थः । कार्याकारणेति । घट्पटादि- स्वरूपेण । भामरूपवदिति । घटपटादिषु जगद्वस्तुषु पञ्चकं भासते तत्र त्रयं सत्यं द्वयम- सत्यम् । तेनेदं जगत्सत्यानृतमयम् । तथा च शारीरकमीमांसायामध्यासभाष्ये-सल्यानृते मिथुनीकृत्य नैसर्गिकोऽयं लोकव्यवहारः । इति । पूर्वोक्तं पञ्चकं चेत्यम् । अस्ति, भाति, प्रियं, रूपं, नाम चेति तत्र प्रथमं त्रिकं ब्रह्मरूपं तेन सत्यम् । ततो द्वयं जगद्रूपं तेनासत्यम् । तथा चोक्तम्-अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आयत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥ १॥ अब्रह्मप्रत्ययः-जगत्प्रत्ययः । अविद्यामात्रः-केवलाविद्यारूपः। वेदानुशासनं- वेदाज्ञा । अपरिहरणीयेत्यर्थः । ननु यदीदं जगदसत्यं तर्हि सर्वमिदं जगह्मैवेति सामाना- धिकरण्यं कथं क्रियते यथा नीलो घट इति सामानाधिकरण्यं सत्ययोनलित्वघटत्वयोः संभवति तद्वदत्रापि जगतः सत्यत्वस्यावश्यकत्वमिति चेन्न । वाधायामपि सामानाधिकरण्य- स्य सर्वैरंगीकृतत्वात् । तथाहि-योऽयं स्थाणुः पुरुषोसौ' इति वाक्य पूर्वरात्रौ दूरस्थत्वात् पुरुषबुद्ध या भीतं बालं प्रातः समीपं गत्वा पुरुषबुद्धिं निराकर्तुं स्थाणुपुरुषयोः सामनाधि- करण्यं क्रियते तत्पित्रा तद् बाधायां सामानाधिकरण्यं तत्र द्वयोरन्यतरस्य पुरुषस्य सत्य- साभावेऽपि यथा सामानाधिकरण्यं तद्वजगद्ब्रह्मणोरन्यतरस्य जगतो मिथ्यालेऽपि सामाना- धिकरण्यं संभवत्येव । अयं स्थाणुः पुरुषोऽसाविति वाक्ये इदंशब्दः समीपस्थत्ववाची । अदस् शब्दो दूरस्थत्ववाची। तथा चोकम्-इदमस्तु संनिकृष्टे समीपतरवाचि चैतदो रूपम्।
भाष्यबालबोधिनीसंहिता ५३ परा विद्योक्ता यया तदक्षरं पुरुषाख्यं सत्यमधिगम्यते । यदपिगमे हृदयग्रन्थ्यादिसंसारकारणस्यात्यन्तिकविनाशः स्यात् । तद्दर्शनोपायश्च योगो धनुराधुपादानकल्पनयोक्तः । अथेदानीं तत्सहकारीणि सत्यादिसाधनानि वक्तव्यानीति तदर्थम् उत्तरग्रन्थारम्भः । प्राधान्येन तत्त्वनिर्धारणं च प्रकारा- न्तरेण क्रियते अत्यन्तदुरवगाहत्वात्कृतमपि । तत्र सूत्रभूतो मन्त्रः परमार्थ- वस्त्ववधारणार्थमुपन्यस्यते । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्य- नश्ननन्यो अभिचाकशीति ॥१॥ द्वा द्वौ सुपर्णा सुपौँ शोभनपतनौ सुपौँ पक्षिसामान्याद्वा सुपर्णी अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात् ॥ १॥ अन्वयव्यतिरेकाभ्यां जगद् ब्रह्मणि वर्तत इति सिद्धम् ॥१२॥ इति श्रीमुण्डकोपनिषद्भाष्ये बालबोधिन्यां द्वितीयमुण्डके द्वितीयः खण्डः॥ यदाधिगम इति । पुरुषाख्याक्षरप्राप्तापित्यर्थः । आत्यन्तिकविनाशः-अत्यन्ता- भावः । तदर्शनेत्यादि । तस्य पुरुषस्य दर्शनं ज्ञानम् । धनुरायुपादानेत्यादि । उपा- दानं प्रहणम् । उक्त इति । धनुर्गृहीत्वोपनिषदं महासं शरं झुपासानिशितं संदधीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ।। इति द्वितीयमुण्डके द्वितीय- खण्डे तृतीयमन्त्रेणोक्तः। तत्सहकारीणीति । कार्य कारणत्रयं भवति १ उपादान- कारणम्. २ निमित्तकारणम् ३ सहकारिकारणम् । इति । यथा घटे मृत् उपादानकारणम् । दण्डः निमित्तकारणम् । वस्त्रखण्डः सहकारिकारणम् । तथात्र सत्यादीनि सहकारिकारणानि। प्राधान्येनोति । कृतमपि प्राधान्येन तत्त्वनिर्धारणमत्यन्तदुरवगाहत्वात प्रकारान्तरेण क्रियत इत्यन्वयः । प्राधान्येन-तात्पर्यविषयतया । तत्त्वनिश्चय एव तात्पर्यभूतोत्र प्रति- पाद्यः । तस्य दुरवगाहत्वात् दुयित्वात् पुनः प्रकारान्तरेण कथनमित्यर्थः। सूत्रभूत इति । प्रथमो मन्त्रः सूत्रभूतः । तदग्रिमा मन्त्रा भाष्यभूताः। संक्षपविस्तराभ्यामुक्तोऽर्थः शीघ्र बुद्धयारूढो भवतीत्यर्थः। सूत्रमयकथनं संक्षेपात्मकम् । भाष्यमयकथनं विस्तारात्मकम् । सूत्रभाष्यलक्षणं तु पूर्वमुक्तम् । अवधारणं-निश्चयः । 'द्वौ सुपर्णो सयुजौ सखायो' इति चतुर्पु रूपेषु-औ इत्यस्य स्थान आकार छान्दसः। शोभनपतनाविति । जीवस्याज्ञत्वेन नियम्यत्वयोग्यत्वात् ईश्वरस्य सर्वज्ञत्वेन नियामकत्वशक्तियोगात् शोभनम् उचितं नियम्य- नियामकभावगमनं ययोस्तो शोभनपतनौ । पक्षिसामान्यावेति । वृक्षाश्रयणादिरूपपाह-
मण्यम
साजा सयुजी सदैव सर्वदा युक्ती सखाया सखायौ : समानाख्यानो समा-
नाभिव्यचिकारणवेवंभूतौ सन्तौ. समानम विशेषमुपलक्ष्यधिष्ठानत्या, एवं
वृक्षं वृश्नमिवोच्छेदनसामान्याच्छरीरं. वृक्षं. परिषस्वजाते.. परिष्वक्वन्तौ ।
सुषर्याविषैकं वृक्षं फलोपभोगार्थम् ।। अयं हि वृक्ष ऊर्ध्वमूलोऽवाक्शाखोऽ-
श्वत्योऽव्यक्तमूलभभवः क्षेत्रसंज्ञकः सर्वधाणिकर्मफलाश्रयस्तं परिष्वको सुपर्णा-
विवाविद्याकामकर्मवासनाश्रयलिङ्गोपाध्यात्मेश्वरौः। तयोः. परिष्वक्तयोरन्य
एकः क्षेत्रज्ञो लिङ्गोपाधिवृक्षमाश्रितः पिप्पलं
कर्मनिष्पन्नं सुखदुःखलक्षणं
फलं स्वाद्वनेकविचित्रवेदनास्वादरूपं स्वाद्वत्ति भक्षयत्युपभुक्तेऽविवेकतः। अन-
भन्नन्य इतर ईश्वरो नित्यशुद्धबुद्धमुक्तस्वभावः सर्वज्ञः सत्त्वोपाघिरीश्वरो
नानाति । प्रेरयिता ह्यसावुभयो ज्यभोक्त्रोनित्यसाक्षित्वसत्तामात्रेण । स
स्वनश्नन्नन्योऽभिचाकशीति पश्यत्येव केवलम् । दर्शनमात्रं हि तस्य प्रेर-
यितृत्वं राजवत् ॥ १॥
धर्मसाजाश्यादित्यर्थः । उच्छेदनसामान्यादिति । 'ओवश्च छेदने' इति धातो रूपम् ।
मुच्यते छिद्यत इति वृक्षः शरीरम् । ऊर्ध्वमूल इति । ऊर्ध्वम् उत्कृष्टं ब्रह्म मूलमधिष्ठान
यस्येति । अवाक्शाख इति । अवाञ्चः-ब्रह्मापेक्षया निकृष्टाः प्राणादयः शाखा यस्य ।
अश्वत्थ इति । श्वः न तिष्ठतीत्यश्वत्यः । अव्यक्तमूलप्रभव इति । अव्यक्तम् अस्या-
कृतम् मूलमुपादानं समवायिकारणं तस्मात् प्रभवति । यावदज्ञानं तावत्कालपर्यन्तं स्थायो-
त्यर्थः । भविद्याकामेत्यादि । अविद्याकामकर्मवासनानामाश्रयः स एव लिंगम् उपा-
घियस्य ताश आस्मा जीवारख्यः । परमात्मैव अविद्याश्रयलिंगोपाधिना जीवसंज्ञां भनव
इत्यर्थः । हिंगोपाधीत्यादि । लिंगदेहोपाधिमाश्रित इत्यर्थः । विचित्राः विविधाः ।
वेदनाः-दु:खानि | आस्वादः-माधुर्यम् । अविवेकतः-अज्ञानात् ।। सत्त्वोपाधिरिति ।
सत्त्वं मायाख्यमुपाधिरस्येति । मायोपाधिरीश्वरः। अविद्योपार्जीिवः । सत्तामात्रेणेति।
केवलास्तिस्त्रनेत्यर्थः । यथा दीपो गृहपति चौरं वा तत्तदभिमतकर्मणि प्रेरयति केवलस्थित्यैव
तथेश्वरः । राजवदिति । यथा राजा केवलदर्शनमात्रेण भृत्यान् प्रयोजयति । अयं भावः ।
किंचित्स्नानादिकर्म चिकीर्षु राजा भृत्यानालोकयत्येव केवलम् । भृत्यास्तु तन्मनोगतं
ज्ञात्वैव तत्कार्यं कुर्वन्ति । केवलं दर्शनमात्रेण प्रवर्तकत्व एवायं दृष्टान्तः । राजा यथा
भृत्यकृतकार्यस्य फलभोक्का भवति तथा तु परो जीवकृतस्य फलभोक्ता न भवतीति
बिज्ञेयम् ॥ १॥
भाष्यबालबाधिनीसहिता atta तत्र सति. समाने वृक्ष'पुरुषी निमग्नोऽ- नींशया शोचति मुह्यमानः। 'जुष्टं यदा पश्यत्यन्यमीश-- मस्य महिमानमिति वीतशोकः॥२॥ समाने वृक्षे यथोक्ते शरीरे पुरुषो भोक्ता जीवोऽविद्याकामकर्मफल- रागादिगुरुंभाराकान्तोऽलाबुरिव सामुद्रे जले निममो निश्चयेन देहात्मभाव- मापन्नोऽयमेवाहममुष्य पुत्रोऽस्य नप्ता कृशः स्थूलो गुणवान्निर्गुणः सुखी दुःखीत्येवं प्रत्ययो नास्त्यन्योऽस्मादिति जायते म्रियते संयुज्यते वियुज्यते च संबन्धिबान्धवैः । अतोऽनीशया न कस्यचित्समर्थोऽहं, पुत्रो मम विनष्टोऽ- मृता मे भार्या, किं में जीवितेनेत्येवं दीनभावोऽनीशा तया शोचति संत- प्यते मुह्यमानोऽनेकैरनर्थप्रकारैरविवेकतयान्तश्चिन्तामापद्यमानः स एवं प्रेत- तिर्यङनुष्यादियोनिष्वाजवं जवीभावमापन्नः कदाचिदनेकजन्मसु शुद्धधर्म- अलाबुरिवेति । अभाबु:-तुओफलम् । महाराष्ट्रभाषायां ‘भोपन' इति 'प्रसिद्धम् । अलावुफलं जलतरणसमर्थमपि पाषाणादिगुरुभाराकान्तं सत् जले निमज्जति केनचित्तद्भारेऽपनीते पुनर्जले तरति तद्वज्जीवः स्वयं ब्रह्मरूपत्वेन मुत्तोऽपि अपियाकाम- कर्मादिगुरुभाराकान्तः सन् संसारसमुद्रे निमज्जति पश्चात्संचितसुकर्मवंशात् कारुणिकन गुरुणा भाराद्यपनीय दर्शितयोगमार्गः क्रमेण वीतशोको भवति । इदमत्र ध्येयम् । १ भावरणम् २ विक्षेप इति शक्तिद्वयमविद्यायाः। तत्रेश्वरभाषाप्रतिपत्तिरूपा, भनीशा-आप- रणम् । शोचतीति विक्षपः । तदुभयहेतुरनिर्वाच्यमज्ञानं मोहः । तेन विशिष्टोऽकरोमी- स्यादिभिरनेकप्रकारैरविवेकितामापद्यते जीवः । ततः स देहमेवात्मत्वेन प्रतिपद्यते तदाह- देहात्मभावमापन्न इति । नप्ता-पौत्रः । एवंप्रत्ययः-एवंज्ञानः । संयुज्यंते वियुज्यते चेति । तथाचोक-यथा काष्ठं च काष्ठं समेयातां महोदधौ । संमेत्य व न्यपेयातां तद्व- द्भूतसमागमः ॥ इति । अनीशयेति । ईश्वरभावाप्रतिपत्त्या सामर्थ्याभावेनेत्यर्थः । अन्तश्चिन्तामिति । तस्यान्तःकरणे पुत्रविनाशादिजा चिन्ता जायत इत्यर्थः। प्रेता:- पिशाचाः। तिर्यश्चः-पशुपक्षिणः । आजवमिति । अनवरतम् । अषीभाव-निकृष्ट- भावम् । लक्षणया लघुभावमित्यर्थः। मापन इति । कर्मरूपेण वायुना प्रेरितो लघु- भावाघ्यमापनः स एष जीवः भोलशोको भवतीति संबन्धः । भवं भावः । पत्कर्म- पायुप्रेरितः स एंव शोबन जीषो वक्ष्यमाणप्रकारेण वीतशोको भवतीत्यर्थः । अनेकजन्म- ५६ संचितनिमित्ततः कनचित्परमकारुणिकेन दर्शितयोगमार्गोऽहिंसासत्यब्रह्म- चर्यसर्वत्यागशमदमादिसंपन्नः समाहितात्मा सन्जुष्टं सेवितमनेकैर्योगमार्गः फर्मिभिश्च यदा यस्मिन्काले पश्यति ध्यायमानोऽन्यं वृक्षोपाधिलक्षणाद्वि- लक्षणमीशमसंसारिणमशनायापिपासाशोकमोहजरामृत्यवतीतमीशं सर्वस्य जगतोऽयमहमस्म्यात्मा सर्वस्य समः सर्वभूतस्थो नतरोऽविद्याजनितोपाधि- परिच्छिन्नो मायात्मेति विभूति महिमानं च जगद्रूपमस्यैव मम परमेश्वर- स्येति यदैवं द्रष्टा, तदा वीतशोको भवति सर्वस्माच्छोकसागराद्विप्रमुच्यते कृतकृत्यो भवतीत्यर्थः ॥ २॥ अन्योऽपि मन्त्र इममेवार्थमाह सविस्तरम् । यदा पश्पः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्पपापे विधूप निरञ्जनः परमं साम्यमुपैति ॥ ३ ॥ यदा यस्मिन्काले पश्यः पश्यतीति विद्वान्साधक इत्यर्थः । पश्यते पश्यति पूर्ववद्रुक्मवर्ण स्वयंज्योतिःस्वभाव रुक्मस्येव वा ज्योतिरस्याविनाशि । कर्तारं सर्वस्य जगत ईशं पुरुषं ब्रह्मयोनि ब्रह्म च तद्योनिश्चासौ ब्रह्मयोनिस्तं ब्रह्मयोनि ब्रह्मणो वापरस्य योनि स यदा चैवं पश्यति तदा स विद्वान्पश्यः पुण्यपापे बन्धनभूते कर्मणी समूले विधूय निरस्य दग्ध्वा निरञ्जनो निलेपो स्विति । बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते' इति भगवदुक्तेः । परमकारुणि- केनति । परमदयालुना गुरुणेत्यर्थः । सर्वत्यागः-संन्यासः । समाहितात्मा-शान्तचित्तः । वृक्षोपाधिलक्षणादिति । शरीरोपाधिलक्षणो जीवस्तद्भिनमित्यर्थः । अशनाया-भोक्त- मिच्छा । पिपासा-पानेच्छा । अतीतं-अतिक्रान्तम् । अशनायादिरहितमित्यर्थः । आव- द्याजनितेत्यादि । अविद्याया जनित उत्पादितः शरीरादिरूप उपाधिः तेन परिच्छिन्नः पृथकृतः। मायात्मा-मायास्वरूपः । गीतशोका-विगतशोकः । कृतकृत्य इति । परमे- श्वरज्ञानरूपं कृत्यं कृतं संपादितं येनेत्यर्थः ॥ २॥ इममेवेति । तत्त्वस्य दुईयत्वात्पुनरुक्तिरतो न दोषाय । अविनाशि-नित्यम् । अपरस्योते । लक्षणया सगुणब्रह्मणः कारणभूतामित्यर्थः। पश्य इति । 'दृशिर प्रेक्षणे इत्यस्य रूपम् । बन्धनभूते इति । पापकर्मवत् पुण्यकर्मापि बन्धकमेव जन्मकारण- क भाष्यकालीमासहिता विगत परम प्रष्ट निरतिशय सोम्य' समतामधलक्षणाम् , द्वैतविषया- साँचाम्यवातोऽद्वयलक्षणमेतत्परम साम्यमुपैति प्रतिपद्यते ॥३॥ पीणी वेष यः सर्वभूतैर्विभाति विजानन्विद्वान्भवते नातिवादी। आत्मक्रीड आत्मरतिः क्रियावा- नेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥ योऽयं प्राणस्य प्राणः पर ईश्वरो ह्येष प्रकृतः सर्वैभूतैर्ब्रह्मादिस्तम्ब- पर्यन्तैः । इत्थंभूतलक्षणे तृतीया । सर्वभूतस्थः सर्वात्मा सन्नित्यर्थः । विभाति विविधं दीप्यते । एवं सर्वभूतस्थं यः साक्षादात्मभावेनायमहम- स्मीति विजानन्विद्वान्वाक्यार्थज्ञानमात्रेण न भवते न भवतीत्येतत् किम्। अति- वाद्यतीत्य सर्वानन्यान्वदितुं शीलमस्येत्यतिवादी । यस्त्वेवंसाक्षादात्मानं प्राणस्य प्राणं विद्वान् सोतिवादी न भवतीत्यर्थः। सर्वं यदात्मैव नान्यदस्तीति दृष्टं तदा किं ह्यसावतीत्य वदेत् । यस्य त्वपरमन्यदृष्टमस्ति स तदतीत्य वदति । अयं तु विद्वानात्मनोऽन्यन्न पश्यति नान्यच्छृणोति नान्यद्विजानाति । अतो नातिवदति । किंचात्मक्रीड आत्मन्येव क्रीडा क्रीडनं यस्य नान्यत्र पुत्रदारा- स्वात्। निरतिशयमिति । निर्गतः अतिशयो यस्मात्तत् । साम्यं सादृश्यं सर्वावयवाव- च्छेदेन न भवति । तद्भिनत्वे सति तद्गतभूयोधर्मवत्त्वं सादृश्यम् ' इति सादृश्यलक्षणात् । चन्द्रस्य सादृश्यं मुखे प्रसन्नताधर्मेण व वर्तुलत्वादिरूपैः सर्वधर्मैः । तद्वदवापि स्यात्तेन च मुखचन्द्रयोरिव द्वैतापत्तिरिति शंका निराकर्तुं निरतिशयमित्युक्तिः । सर्वाशनात्र साम्यं न मुखचन्द्र दिवद्भूयोऽवयवैः । तच्च सर्वावयवसाम्यं एकस्मिन्नेव वस्तुनि संभवति तेनेदं सिद्ध यदत्र जीवपरमात्मनोरद्वैतं प्रतिपाद्यमिति तदाह-अद्वयलक्षणमिति । अर्वाञ्चि- निकृष्टानि ॥ ३ ॥ सर्वभूतैरिति । सर्वभूतैरुपलक्षित इत्यर्थः । इत्थंभूतलक्षण इति । 'इत्थंभूत- लक्षणे च' पा. सू. (२।३।२१) इत्यनेन सर्वभूतैरिति तृतीया । यथा कस्यचित्पुरुषस्य शिरास जटाभारं दृष्ट्वा तापसोऽयमिति प्रतीयते तत्र जटाभिस्तापस इति तृतीया प्रयुज्यते । तत- श्व · जटाभिस्तापसः' इत्यस्य जटाज्ञाध्यतापसत्वविशिष्ट इत्यर्थस्तथैव · यः सर्वभूतैः' इति श्रुर्तिवाक्यस्य सर्वभूतज्ञाप्योत्पादकत्वविशिष्ट इत्यर्थः । ब्रह्मादिस्तम्बपर्यन्तानां कार्यरूपाणां ब्रह्मणोतिरिक्त कारणं न संगच्छते तेन तत्कारणभूतो विवर्तरूपेण सर्वात्मेश्वरो विभाती- त्यर्थः । नातिवदतीति । ब्रह्मणोऽतिरिक्त घटपटादिपं शब्दजातं तात्पर्येण न वदती- -- मुण्डकोपनिषत् दिषु स आत्मक्रीडः । तथात्मरतिरात्मन्येव रती रमणं प्रीतिर्यस्य स आत्म- रतिः । क्रीडा बाह्यसाधनसापेक्षा । रतिस्तु साधननिरपेक्षा बाह्यविषयप्रीति- मात्रमिति विशेषः । तथा क्रियावाज्ञानध्यानवैराग्यादिक्रिया यस्य सोऽयं क्रियावान् । समासपाट आत्मरतिरेव क्रियास्य विद्यत इति बहुव्रीहिमतुबर्थ- .. त्यर्थः । क्रीडारत्योर्विषयविभागमाह-बाह्यसाधनेत्यादि । बाह्यं साधनं कन्दुकादि । बाह्यविषयप्रतिमात्रमिति । केबलं विषयास्वादः । समासपाठ इति । अत्र पाठ- द्वयम् । १ आत्मरतिः क्रियावान् । २ आत्मरतिक्रियावान् । इति च । तत्र प्रथमः रति- क्रिययोरसमासादसमस्तः पाठः। द्वितीयः रतिक्रिययोः समासात्समस्तः पाठः । तत्र प्रथम- पक्षे आत्मनि रतिर्यस्येति बहुव्रीहिः । प्रशस्ता क्रियास्यति मतुप्प्रत्ययश्च । द्वितीये समास- पक्षे एवं विग्रहः स्यात् आत्मनि रतिः आत्मरतिारति सप्तमी तत्पुरुषः । सैव क्रिया- विद्यतेऽस्येति मतुप् । प्रथमेऽसमासपक्षे आत्मरतिरिति बहुव्रीहिः क्रियावानिति मतुप् च । ननु यदि द्वितीयपक्षे वहुव्रीहिमतुप् च नाश्रीयते तर्हि कथमेतद्भाष्यम् | बहुव्रीहिमतु- बर्थयोरन्यतरोऽतिरिच्यत इति । अस्य झटिति भासमानोऽर्थः-बहुव्रीहिमतुबर्थ- योर्मध्य एकोऽतिरिच्यतेऽधिको भवति व्यर्थ इति । परं नायमों युक्तिसहः । यतो बहुव्री- हिमतुबर्थयोरेकत्र समायोगाभावः । तर्हि कोर्थो युक्तिसह इति चेत् शृणु । असमासपाठे बहुव्रीहिः कर्तव्यः ‘आत्मरतिः' इति पदे । ततः क्रियावान् इत्यत्र मतुप् । एवं च बहु- बाहिविशिष्टो मतुप् प्रथमेऽसमासपक्षे । द्वितीये समासपक्षे 'आत्मरतिः' इति पदे सप्तमी- तत्पुरुषः कर्तव्यः । ततः क्रियावानिति मतुप् । ततश्च द्वितीयपक्षे केवलो मतुप् । अयं च द्वितीयः बहुव्रीहिरहितः केवला मतुप् श्रेष्ठः । अर्थसामञ्जस्यात् । तथाहि-आत्मरतिरेव कवलं क्रिया यस्य विद्यते ब्रह्मविदः। एवं चात्मरतिव्यतिरिक्ता बाह्या क्रिया तस्य निरस्यते तेनायं बहुव्रीहिरहितो मतुप्पक्षः साधीयान्। प्रथमेऽसमासपक्षे बहुवीहिणा ब्रह्मविद आत्म- रतिद्योत्यते तथा च क्रियावानित्यनेन बाह्य क्रियापि प्रतिपाद्यते ततश्च बाह्यक्रियाविशिष्टत्वेन द्वैतप्रतीतरद्वैतहानेः परमं साम्यमुपैतीति प्रकृतश्रुतिविरोधः स्यादतो द्वितीयः समासपक्षः साधीयानिति भाष्यकाराशयः। नन्वेवमाशये भाध्याक्षर।णि कथं योजनीयानीति चेत्तदपि शृणु । बहुव्रीहिमतुवर्थयोः-प्रथमबहुव्रीहिसमासघटिमतुप्पक्षः बहुव्रीहिरहितमतुप्पक्षः इति द्वयोः पक्षयोर्मध्येऽन्यतरो द्वितीयः मतुप्पक्षः अर्थसामञ्जस्यात् अतिरिच्यते अधिको भवति साधीयान् भवतीत्यर्थः । यद्यप्येवमर्थकरण लक्षणाश्रयणीया भवति तथापि तात्पर्यानुपपत्त्या लक्षणाश्रयणस्य प्रामाणिकत्वाद्गत्यन्तराभावाच्च तदाश्रयणम्। अयमेकः प्रकारापूर्वोक्तग्रन्थ- तात्पर्यप्रदर्शनस्य । अयं च प्रकारः आनन्दज्ञानसंमतः । अपरोपि प्रकारः केषांचिन्मते । तथाहि-बहुव्रीहिमतुवर्थयोरन्यतरोऽतिरिच्यते' इत्यत्र संभाव्यमानयोरिति शेषः कर्तव्यः । तथा च समासपाठे यदि द्वयं क्रियेत बहुव्रीहिर्मतुपूच तर्हि तत्रोभयोर्मध्ये चैकोऽधिको भवेत् ।
भाष्यबालबोधिनीसहिता मोरन्यतरोऽतिरिच्यते । केचित्त्वमिहोत्रादिकर्मब्रह्मविद्ययोः समुच्चयार्थमिच्छ- न्ति । तच्चैष ब्रह्मविदां वरिष्ठ इत्यनेन मुख्यार्थवचनेन विरुध्यते । न हि बाह्यक्रीड आत्मरतिश्च भवितुं शक्तः । कश्चित्वचिद्वायक्रियाविनिवृत्तो झात्म- क्रीडो भवति बाह्यक्रियात्मक्रीडयोविरोधात् । न हि तमःप्रकाशयोयुगपदेकत्र स्थितिः संभवति । तस्मादसत्प्रलपितमेवैतदनेन ज्ञानकर्मसमुच्चयप्रतिपादनम् । "अन्या वाचो विमुञ्चथ" (मुं.२।२।५) सन्यासयोगात्” (मुं.३।२।६)इत्या- दिश्रुतिभ्यश्च । तस्मादयमेवेह क्रियावान्यो ज्ञानध्यानादिक्रियावानसंभिन्नार्थ- मर्यादः संन्यासी य एवंलक्षणो नातिवाद्यात्मक्रीड आत्मरतिः क्रियावान्ब्रह्म- निष्ठः स ब्रह्मविदां सर्वेषां वरिष्ठः प्रधानः॥ ४ ॥ अधुना सत्यादीनि भिक्षोः सम्यग्ज्ञानसहकारीणि साधनानि विधी- यन्ते निवृत्तिप्रधानानि । सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः॥ ५॥ अत्र तु केवलं मतुप् कृतस्तेन न बहुव्रीहेवैयर्थ्यमित्यर्थः। अत्र पक्षे यद्यपि लक्षणाश्रयणं नास्ति तथापि संभाव्यमानयोरित्यस्य शेषः कर्तव्य इति शब्दाध्याहाररूपो दोषः । एवं चोभयोरपि पक्षयोः शब्ददोषघटितत्वादर्थसामञ्जस्यात्पूर्वः प्रकार आश्रयणीय इति भाति । अन्यच्च समासपाठे कर्मधारयान्मतुप् कर्तव्यः स च कर्मधारयान्मतुब्नेछः इति पातञ्जल- महाभाप्यानभिमतः । एवं च वैयाकरणानभिमतत्वेनात्र पाठे भाष्यकारैः श्रीशंकराचार- रुचिः प्रदर्शिता-समासपाठे तु-इति तुशब्देन । यतोऽत्र आत्मरतिरेव क्रिया आत्मरतिक्रिया इति कर्मधारयसमासं कृत्वा ततो मतुप् कर्तव्यो भवति । स च पूर्वोक्तरीत्या न संगच्छत इति । केचित्विति । वृत्तिकृतो बौधायनादयो ज्ञानकर्मसमुच्चयवादिनः । तन्मते-आत्म- रतीत्यादौ असमस्ते समस्ते च पाठे आत्मरतिपदेन ज्ञानं प्रतिपाद्यते क्रियावत्पदेन अभि- होत्रादि कर्म प्रतिपाद्यत इति । मुख्यार्थवचनेनेति । ब्रह्मविदां बरिष्ठ इति मुख्यार्थक (ब्रह्मविद्वरिष्ठ इति पदं) न लाक्षणिकं सगुणोपासकादिपरमित्यर्थः । शक्त इति । एककालं बाह्यात्मक्रीडयोत्संभवात् । तदाह-कश्चिदित्यादि । असत्प्रलपितमिति । श्रुतिविरुद्ध ज्ञानकर्मसमुच्चयरूपम् । तस्मादिति । क्रियाशब्देन बाह्यक्रियाग्रहणासंभवात् ध्यानादय आन्तराः क्रिया ग्राह्याः । असंभिन्नार्थमर्याद इति । बाह्यक्रियावलम्बन ब्रह्मज्ञानरूपार्थ- मर्यादा न विहतानेनेति बोध्यम् ।। ४॥
६. सत्येनानृतव्यागेन सपाक्सनत्यागेन सभ्यः प्रान्सः। किंच, वासा हन्द्रियमनएकाग्रतया “ मनसचेंद्रियाणां च चौकग्यं परमं तपः” इति स्मरणात् । तद्ध्यनुकूलमात्मदर्शनाभिमुखीभावात्परमं साधनं तमो सेतरच्चा- न्द्रायणादि । एष आत्मा लभ्य इत्यनुषङ्गः सर्वत्र । सम्यग्ज्ञानेन यथाभूतात्म- दर्शनेन ब्रह्मचर्येण मैथुनासमाचारेण नित्यं सर्वदा नित्यं सत्येन नित्यं तपसा नित्यं सम्यग्ज्ञानेनेति सर्वत्र नित्यशब्दोऽन्तर्दीपिकान्यायेनानुषक्तव्यः । वक्ष्यति च- "न येषु जिममनृतं न माया च"(प्र.१११६) इति वासावाल्मा य एतैः साधनैर्लभ्य इत्युच्यते अन्तःशरीरेऽन्तमध्ये शरीरस्य पुण्डरीकाकाशे ज्योतिर्मयो हि रुक्मवर्णः शुभ्रः शुद्धो यमात्मानं पश्यन्त्युपलभन्ते यतयो भिक्षोरिति । संन्यासिन इत्यर्थः । सम्यग्ज्ञानसहकारीणीति । अत्र सम्यग्ज्ञान- शब्देन वाक्यार्थज्ञानं ग्राह्य यस्माज्ज्ञाचात् क्रमशः ब्रह्मानुभवात्मकं फलमन्ते संपद्येत । यतो वाक्यार्थज्ञानस्यैव सत्यादीनां सहकारिसाधनानामपेक्षा । ब्रह्मानुभवे संपन्ने तु नापेक्षा सत्या- दीनामतः पूर्वोक्तं वाक्यार्थज्ञानं प्राह्यम् । एवं चानुभवात्मकस्य परिपक्वज्ञानस्य लाभाय सत्यादीनि साधनान्यपेक्ष्यन्ते । ततो वाक्यार्थज्ञानस्य सत्यादीनां च समुच्चय इष्यत एव ! परिपक्वज्ञाने सहकायपेक्षायां प्रमाण नास्ति । यतः परिपक्वज्ञानानन्तरं कर्मणामसंश्लेषः श्रुता- वाम्नातः । देवादीनां कर्मरहितानामपि मुक्तिः श्रूयते च । निवृत्तिप्रधानानीति । सत्यतपोब्रह्मचर्यषु निवृत्तिरेव प्राधान्येन प्रोच्यते । चान्द्रायणादीति । आदिपदेन सांत- पनकृच्छपराक्याग्रहणम् । तल्लक्षणानि यथा- चान्द्रायणं वसिष्ठस्मृतौ-एकैकं वर्द्धयेत्पिण्ड शुक्त कृष्णे च हासयेत् । इन्दुक्षये न भुजीत ह्येष चान्द्रायणो विधिः ॥ इति । सांतपन- कृच्छ्रम्-गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् | जग्ध्वा परेन् पवसेत् इच्छू सान्तपनं चरन् ।। इति । पराकं च मनुस्मृतौ-यदात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । पराको नाम कृच्छ्रायं सर्वपापापनोदनः ।। बृहस्पतिस्मृतौ-जपहोमरतः कुर्याद् द्वादशाहमभोजनम् । पाक एष विख्यातः सर्वपापप्रणाशनः ।। अनुषंगः-संबन्धः। मैथुनासमाचारणेति । मैथु- नाकरणनेत्यर्थः । अन्तर्दीपकान्यायेनेत । यथा गृहमध्ये स्थापित एक एव दापो गृहस्थान् सर्वान् घटापटादिपदार्थान् प्रकाशयति तथा श्लोकमध्ये पठितो नित्यम्' इति. शब्दस्तच्छ्लोकस्थान्सत्यादिशब्दान् विशेषयति । अनुषक्तव्यः-संबन्धनीयः। वक्ष्यतीति । न येषु जिह्ममनृतं न माया, इति वाक्यमत्रैवोपनिषदि न विद्यते किंतु प्रश्नोपनिषदि । तेन श्रीशंकराचार्याणां मतेऽस्या मुण्डकोपनिषदः प्रश्नोपनिषदश्च संबन्धो वर्तते तत एव वक्ष्य- तीत्युक्तिः । एतद्विषयको विस्तर उपोद्धाते द्रष्टव्यः। यतय इति । 'यती प्रयले ' इत्यस्य , भाष्यामितीसहिता अबलायीका संख्याशितः वीणदोषाः क्षीणकोषाविचितमालाः स आसा नियं सत्यादिसाधनैः संन्यासिमिर्लभ्यत इत्यर्थः । न कादाचितः सत्यादिमित्र- भ्यते ॥ ५॥ सत्यादिसाधनस्तुत्यर्थोऽयमर्थवादः- सत्यमेव जगति नानृतं सत्येन पन्या विततो देवयानः। सेनाक्रमन्त्पृषयो झाप्तकामा यत्र तत्सत्यस्य परमं निधानम् ॥ ६ ॥ सत्यमेव सत्यवानेव जयति नानृतं नानृतवादीत्यर्थः । न हि सत्यानृतयोः केवलयोः पुरुषानाश्रितयोर्जयः पराजयो वा संभवति । प्रसिद्धं लोके सत्य- वादिनानृतवाद्यभिभूयते न विपर्ययोऽतः सिद्धं सत्यस्य बलवत्साधनत्वम् । किंच शास्त्रतोऽप्यवगम्यते सत्यस्य साधनातिशयत्वम् । कथम् । सत्येन यथाभूतवादव्यवस्थया पन्था देवयानाख्यो विततो विस्तीर्णः सातत्येन प्रवृत्तः। येन पथा ह्याक्रमन्त्याक्रमन्त ऋषयो दर्शनवन्तः क्रुहकमायाशाठ्याहंकार- दम्भानृतवर्जिता ह्याप्तकामा विगततृष्णाः सर्वतो यत्र यस्मिंस्तत्परमार्थतत्त्वं सत्यस्योत्तमसाधनस्य संबन्धि साध्यं परमं प्रकृष्ट निधानं पुरुषार्थरूपेण रूपं तत उक्तं-यतनशीला इति । कादाचित्कैरिति । जन्मपर्यन्तमसत्यभाषी कदा. चिप्रसंगविशेषे सत्यं ब्रूयाच्चेत्तन्न फलायेत्यर्थः ॥ ५॥ अर्थवाद इति । सत्यभाषणे प्रवर्तकं स्तुतिवाक्यमित्यर्थः । केवलसत्यानृतयोर. चेतनयोर्जयपराजयो न संभवत इत्यत आह-सत्यवानित्यादि । सत्यपदं सत्यवादिनो लक्षकम् | तथानृतपदमनृतवादिनो लक्षकम् । मुख्यार्थबाधे लक्षणायाः संभवात मुख्यार्थ- बाधं विशदयति-नहीति । पुरुषानाश्रितयोरिति । सत्यमनृतं च गुणौ। गुणानां च गुण्याश्रयणैव कार्यसंपादकत्वं न तु स्वतः । ततश्च पुरुषमाश्रित्य सत्यानृतयोर्जयपराजयौ । न विपर्यय इति । अनृतवादिना सत्यवादी पराजीयत इति न शिष्टजनेषु संभावनेत्यर्थः । देवयानाख्य इति । देवा यान्त्यनेनेति देवयानः । देवपदेन शिष्टानां ग्रहणम् । देव- यानः-शिष्टजनादृतः। दर्शनवन्तः-ज्ञानिनः । कुहक-परवञ्चनम् । माया-अन्तरन्यथा- गृहीत्वा बहिरन्यथा प्रकाशनम् । मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यद् दुरात्मनामित्युक्तेः शिव्यं- विभवानुसारेणाप्रदानम् । अहंकारः-मिथ्याभिमानः । दम्भः-धर्मध्वजित्वम् | अनृतं- दृष्टविरुद्धं भाषणम् । विगततृष्णाः-लोभरहिताः। साध्यामिति । सत्यमुत्तमसाधनं साध्य
--
मुकापनि
निधीयत इति निघानं वर्तते । तत्र च येन पथाक्रमन्ति स सत्येन वितत
इति पूर्वेण संवन्धः॥६॥
किं तत्किंधर्मकं च तदित्युच्यते---
बृहच तद्दिव्यमचिन्त्यरूपं
सूक्ष्माच तत्सूक्ष्मतरं विभाति ।
दुरात्सुरे तदिहान्तिके च
पश्यत्स्विदेव निहितं गुहायाम् ॥ ७॥
बृहन्महच्च तत्प्रकृतं ब्रह्म सत्यादिसाधनेन सर्वतो व्याप्तत्वात् । दिव्यं.
स्वयंप्रभमनिन्द्रियगोचरमत एव न चिन्तयितुं शक्यतेऽस्य रूपमित्यचिन्त्य-
रूपम् । सूक्ष्मादाकाशादेरपि तत्सूक्ष्मतरं, निरतिशयं हि सौक्ष्म्यमस्य सर्व-
कारणत्वाद्विभाति विविधमादित्यचन्द्राद्याकारेण भाति दीप्यते । किंच दूरा-
द्विप्रकृष्टदेशात्सुदूरे विप्रकृष्टतरे देशे वर्ततेऽविदुषामत्यन्तागम्यत्वात्तद्ब्रह्म ।
इह देहेऽन्तिके समीपे च विदुषामात्मत्वात् । सर्वोतरत्वाच्चाकाशस्याप्यन्तर-
श्रुतेः । इह पश्यत्सु चेतनावत्स्वित्येतत् । निहितं स्थितं दर्शनादिक्रियावत्त्वेन
योगिभिलक्ष्यमाणम् । क गुहायां बुद्धिलक्षणायाम् । तत्र हि निगूढं लक्ष्यते
विद्वद्भिः। तथाप्यविद्यया संवृतं सन्न लक्षते तत्रस्थमेवाविद्वद्भिः ॥७॥
च पुरुषार्थ इत्यर्थः । वितत इति । अस्मिन्मन्त्रे भाष्योक्तरीत्या उत्तरार्धगतानां पदानां
पूर्वार्धगतेन वितत इत्यनेन संबन्धः कर्तव्यः ॥६॥
पूर्वमन्त्रेण यदुक्तं सत्यस्य निधानं तद्विशेष्यते-बृहदित्यादिना । सत्यादिसाध-
नेनेति । सत्यतपोब्रह्मचयादिभिः सर्वत्र व्याप्तत्वात्तत्पूर्वमन्त्रोक्तं ब्रह्म महदित्यर्थः । आनि-
न्द्रियगोवरमिति । यतो वाचा निवर्तन्ते अप्राप्य मनसा सहेति श्रुत्या वागादीन्द्रियैः
रदृश्यं तेन तद्रूपं चिन्तयितुं न शक्यमित्यर्थः । सर्वकारणत्वादिति । कारण कार्यापेक्षया
न्यूनमिति नियमः। इदं तु सर्वेषां कारणं ततः सर्वापेक्षया न्यूनत्वेनात्यन्तं सौक्ष्म्यमस्य ब्रह्मणः।
अणोरणीयान्महतो महीयानिति श्रुतेः! आदित्यचन्द्रादीत्यादि । चन्द्रादीत्यत्रादिपदे-
नामिविद्युतां ग्रहणम् | अविदुषामिति । अज्ञःनिभिरत्यन्तमज्ञेयं ब्रह्म । तस्य ज्ञानकलभ्य-
त्वात् । 'ब्रह्मविदाप्नोति परम्' इति श्रुतेः । देह इति । बुद्धिगुहायामित्यर्थः । आत्मत्वा-
दिति । ज्ञानी त्वात्मैव मे मतमिति भगवदुक्त्या ब्रह्मण आत्मा ज्ञानी तेनैव न्यायेन
ब्रह्मापि ज्ञानिन आत्मभूतम् । संवृतं-आच्छन्नम् । न लक्ष्यत इति । यथा कण्ठस्थचामी-
करमाणिर्बालादिभिः कण्ठगतोऽपि विस्मरणान्न ज्ञायते तद्वदित्यर्थः ॥ ७॥
माण्यवासयोक्निीसहिता पुनरप्यसाधारणं तदुपलब्धिसाधनमुच्यते । न चक्षुषा गृह्यते नापि वाचा नान्यदैवैस्तपसा कर्मणा वा। ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥८॥ यस्मान्न चक्षुषा गृह्यते केनचिदप्यरूपत्वान्नापि गृह्यते वाचानभिधे- यत्वान्न चान्यैर्देवैरितरेन्द्रियैः । तपसः सर्वप्राप्तिसाधनत्वेऽपि न तपसा गृह्यते । तथा वैदिकेनामिहोत्रादिकर्मणा प्रसिद्धमहत्त्वेनापि न गृह्यते । किं पुनस्तस्य ग्रहणे साधनमित्याह-ज्ञानप्रसादेनात्मावबोधनसमर्थमपि स्वभावेन सर्व- प्राणिनां ज्ञानं बाह्यविषयरागादिदोषकलुषितमप्रसन्नमशुद्धं सन्नावबोधयति नित्यं संनिहितमप्यात्मतत्त्वं मलावनद्ध इवादर्शः विलुलितामव सलिलम् । तद्यदेन्द्रियविषयसंसर्गजनितरागादिमलकालुप्यापनयनादादर्शसलिलादिवत्प्र- सादित स्वच्छं शान्तमवतिष्ठते, तदा ज्ञानस्य प्रसादः स्यात् । तेन ज्ञान- असाधारणमिति । मुख्यमित्यर्थः । ब्रह्मप्राप्तौ ज्ञानमेव मुख्यं साधनं तदनेन मन्त्रेण बोध्यते । अरूपत्वादिति । रूपग्रहण एव चक्षुषः सामर्थ्य ब्रह्म तु रूपरहितं ततो न चक्षुषा ग्राह्यम् । अनभिधेयत्वात्-अवाच्यत्वात् । देवशब्द इन्द्रियवाचकस्तदाह-इतरे- न्द्रियैरिति । सर्वप्राप्तिसाधनत्व इति । यद दुष्करं दुराराध्यं यद् दुरापं यच्च दुस्तरम् । तत्सर्व तपसा लभ्यं तपो हि दुरतिक्रमम्॥ इत्युक्तेः । प्रसिद्धमहत्त्वेनति । श्रुतौ कर्मणो महत्त्वं बहुशः प्रसिद्धमित्यर्थः । स्वभावेनेति । अनन्तजन्मगतकर्मवशादित्यर्थः । ज्ञान- प्रसादेनति । ज्ञायतेऽर्थोऽनेनेति व्युत्पत्त्या ज्ञानपदेन बुद्धिरभिधीयते । तथा च ज्ञानप्रसा- देवेत्यस्यार्थः, बुद्धः प्रसन्नतयेति संपन्नः । ज्ञानं-बुद्धिः । बाह्यविषयेत्यादि । बाह्याः स्रक्चन्दनादयो विषयास्तत्र रागः-प्रेम | आदिपदेन द्वेषः। एवं च रागद्वेषादिदोषैः कलु- क्तिमशुद्धतामापादितम् । अतएवाप्रसन्नं सन्न बोधयति संनिहितमध्यात्मतत्त्वम् । अत्र दृष्टान्तद्वयम् । मलावनद्ध आदर्शः । विलुलितं जलं च । अयमर्थः-यथा मलाभिभूत आदर्शो हस्ताभ्यां चञ्चलतामापादितं जलं च समीपस्थमपि मुखं न प्रत्याययति तद्वद्वाह्यविषयराग- द्वेषाक्रान्तबुद्धिः समीपस्थं स्वगतमपि ब्रह्मतत्त्वं नावबोधयति । पश्चात् विषयेन्द्रियसंपर्कजन्य- रागादिदोषापनयने स्वच्छा स्ती सैव बुद्धिः शुद्धादर्श इव स्थिरजलमिव चात्मतत्त्वं प्रका- शयति । एवंचायं क्रमः-प्रथमं सत्यादिसाधनवता विषयानाकृष्टचेतसा पुरुषेण पूर्व ध्यान संपादनीयम् । ततो ध्यानेन बुद्धिप्रसादः प्रापणीयः। बुद्धिप्रसादेनात्मा द्रष्टव्यः। एवं चास्मि- मन्त्रे द्वितीयाऽयमन्वयः। ध्यायमानो ज्ञानप्रसादेन विशुद्धसत्त्वः । ततस्तु तं निष्कलं
६
लोका
पनिष
-
प्रसादेन विशुद्धसत्त्वो विशुद्धान्तःकरणी योग्यो ब्रह्म द्रष्टुं यस्मात्, ततस्त-
स्मात्तु तमात्मानं पश्यते पश्यत्युपलमते निष्कलं सर्वावयवभेदंवर्जितं ध्यायमानः
सत्यादिसाधनवानुपसंहृतकरण एकांग्रेण मनसा ध्यायमानश्चिन्तयन् ॥८॥
यमात्मानमेवं पश्याति-
एषोऽणुरात्मा चेतसा वेदितव्यो
यस्मिन्माणः पञ्चधा संविवश ।
पाणैश्चित्तं सर्वमोत प्रजीनों
यस्मिन्विशुद्धे विभवत्ये आत्मा ॥६॥
एषोऽणुः सूक्ष्म आत्मा चेतसां विशुद्धज्ञानेन केवलेनं वेदितव्यः ।
कासौ। यस्मिञ्शरीरे प्राणो वायुः पञ्चधा प्राणापानादिभेदेन संविवेश
सम्यक्प्रविष्टस्तम्मिन्नेव शरीरे हृदये चेतसा ज्ञेय इत्यर्थः । कीदृशेन चेतसा
वेदितव्य इत्याह-प्राणैः सहेन्द्रियश्चित्तं सर्वमन्तःकरणं प्रजानांमोतं व्याप्त
येन' क्षीरमिव खेहेन, काष्ठमिवाग्मिना । सर्वं हि प्रजानामन्तःकरण चेतना-
वत्प्रसिद्धं लोके । यस्मिंश्च चित्ते क्लेशादिमलवियुंक्त शुद्धे विभक्त्येष उक्त
आत्मा विशेषेण म्वेनात्मना विभवत्यात्मानं प्रकाशयतीत्यर्थः ॥ ९॥
.
पश्यते । इति । तेनेदं सिद्धम् । ध्यानं न तत्त्वसाक्षात्कारे कारणं किंतु बुद्धिप्रसादे ।तत्त्व-
साक्षात्कारे तु संशयादिरहितं प्रमाणज्ञानमेव कारणम् । ज्ञानस्य प्रसाद:-बुद्धेः प्रसन्नता ।
यस्मादिति । यस्माद् विशुद्धान्तःकरणो ब्रह्म द्रष्टुं योग्यस्तस्मात् तमात्मानं पश्यत
इत्यादिसंबन्धः । निष्कलमिति । क्रियाविशेषणमेतद् ध्यायमान इत्यनेन संबंध्यते ।
अवयवभेदरहितं यथा स्यात्तथा ध्यायमान इत्यर्थः । उपसंहतकरण इति।
विषयेभ्य उपसंहृताचि समावर्जितानि करणानि इन्द्रियाणि यस्य । विषयविनिवृत्तेन्द्रिय
इत्यर्थः । एकाग्रेणेति । निश्चलेनेत्यर्थः । यथा दीपा निवातस्थो नेङ्गते सोपमा स्मृति
भगवदुष्कः॥८॥
चेतसेति । चेतःपदं वृत्तिवृत्तिमतारभेदाज्ज्ञानवृत्युपलक्षकं तदाह-विशुद्धज्ञाने-
नेति । प्राणापानादीति | प्राणापानव्यानोदानसमानेति पञ्च वायवः । प्रजानामन्तःकरणं
येनात्मना व्याप्तम् । अत्र दृष्टान्तद्वयम् । स्नेहन क्षीरम् | अग्निना काष्ठम् । स्नेहो यथा प्रति-
क्षीरपरमाणु बर्तते शमी काष्ठेऽग्निश्च सर्वावयवेषु वर्तते तद्वत् । यद्यपि सर्वव्याध्यात्मों तथापि
यावञ्चित्तमलो नाफ्याति तावत्पर्यन्तन प्रकाशत' इत्याह-शुद्ध इति ॥ ९ ॥
६५
भाष्यबालबोधिनीसहिता
य एवमुक्तलक्षणं सर्वात्मानमात्मत्वेन प्रतिपन्नस्तस्य सर्वात्मत्वादे
सर्वावाप्तिलक्षणं फलमाह ।
यं यं लोकं मनसा संविभाति
विशुद्धसत्त्वः कामयते गांश्च कामान् ।
तं तं लोकं जयते तांश्च कामां-
स्तस्मादात्मज्ञं हर्चयेद्भातेकामः॥ १० ॥
इत्यथर्ववेदीयमुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥१॥
यं यं लोकं पित्रादिलक्षणं मनसा संविभाति संकल्पयति मह्यमन्य-
स्मै वा भवेदिति विशुद्धसत्त्वः क्षीणक्लेश आत्मविन्निर्मलान्तःकरणः कामयते
यांश्च कामान्प्रार्थयते भोगांस्तं तं लोकं जयते प्राप्नोति तांश्च कामान्संकल्पिता-
भोगान् । तस्माद्विदुषः सत्यसंकल्पवादात्मज्ञमात्मज्ञानेन विशुद्धान्तःकरणं
धर्चयेत्पूजयेत्पादप्रक्षालनशुश्रूषानमस्कारादिभिर्भूतिकामो विभूतिमिच्छुः ।
ततः पूजार्ह एवासौ ॥ १०॥
इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्ये तृतीयमुण्डके प्रथमः खण्डः ॥ १ ॥
स वैदेतत्परमं ब्रह्म धाम
यत्र विश्वं निहितं भाति शुभ्रम् ।
उपासते पुरुषं ये ह्यकामा-
स्ते शुक्रमेतदतिवर्तन्ति धीराः॥१॥
यमिति मन्त्रेण ब्रह्मविद सगुणोपासनाफलमपि लभ्यत इत्याह निर्गुणविद्यास्तुतये
प्ररोचनार्थम् । अथवा निर्गुणविद्याफले सर्वात्मत्वप्राप्तौ लब्धायां सगुणविद्याफलं तत्रान्त-
गतमेव । यावान उदपाने सर्वतः संप्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ।
इति भगवदुक्तरीत्या । पित्रादिलक्षणमिति । ' कर्मणा पितृलोकः' इति श्रुत्या कर्म-
फलं पितृलोकादिलक्षणम् । प्राप्नोतीति । सत्यसंकल्पत्वादित्यर्थः । पूजयेदिति । ततो
लोकसंग्रहार्थं पूजया संतुटः स पूजकेच्छानुरोधेन तदर्थं तं तं लोकं संकल्पयेत् । पूजाह
इति । पूजकेन स्वेष्टसिद्धय एव तत्पूजा कर्तव्या नतु पूजया ब्रह्मविदि वैशिष्टयं संभवेदिति
भावः ॥ १० ॥
इति श्रीमुण्डकोपनिषद्भाष्ये बालबोधिन्यां तृतीयमुण्डके
प्रथमः खण्डः॥३॥१॥
मुण्डकोपनिषत् यस्मात्स वेद जानाति एतद्यथोक्तलक्षणं ब्रह्म परममुकृत्ष्टं धाम सर्व- कामानामाश्रयमाम्पदं यत्र यस्मिन्ब्रह्मणि धाम्नि विश्वं समस्तं जगन्निहित- मर्पित, यच्च स्वेन ज्योतिषा भाति शुभं शुद्धम् । तमप्येवंविधमात्मज्ञं पुरुषं ये ह्यकामा विभूतितृष्णावर्जिता मुमुक्षवः सन्त उपासते परमिव देव, ते शुक्रं नबीजं यदेतत्प्रसिद्धं शरीरोपादानकारणमातवतन्त्यतिगच्छन्ति धीरा धीमन्तो न पुनर्योनि प्रसर्पन्ति न पुनः क गतिं करोति ” इति श्रुतेः । अतस्तं पूजयेदित्यभिप्रायः ॥ १ ॥ मुमुक्षोः कामत्याग एव प्रधानं साधनमित्येतद्दर्शयति । कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मन- स्त्विहेव सर्व प्रविलीयन्ति कामाः ॥ २ ॥ कामान्यो दृष्टादृष्टेष्टविषयान्कामयते मन्यमानस्तद्गुणांश्चिन्तयानः प्रार्थ- यते, स तैः कामभिः कामेधर्माधर्मप्रवृत्तिहेतुभिार्वेषयेच्छारूपैः सह जायते तत्र तत्र, यत्र यत्र विषयाप्राप्तिनिमित्तं कामाः कर्मसु पुरुषं नियोजयन्ति, तत्र तत्र तेषु तेषु विषयेषु तैरिव कामर्वेष्टितो जायते । यस्तु परमार्थतत्त्व- विज्ञानात्पर्याप्त काम आत्मकामत्वेन परि समन्तत आप्ताः कामा यस्य, तस्य पर्याप्त कामस्य कृतात्मनोऽविद्यालक्षणादपररूपादपनीय स्वेन परेण रूपेण ब्रह्मविद एव प्रकरणम् । यथोक्तलक्षणमिति । 'बृहच्च तद् दिव्यमचिन्त्यरूपम् (मुं. ३।११७ ) इत्यादिनोक्तम् । विभूतितृष्णावर्जिता इति । ऐश्वर्यलालमारहिताः संन्यासिन इत्यर्थः । नृबीज-रेतः । शरीरोपादनकारणमिति । अन्नद्रेतः। रेतसः पुरुषः । इति श्रुतेः । प्रसर्पन्तीति । पुनर्जन्म न लभन्त इत्यर्थः । तिमिति । कस्मि- त्रपि जन्मनि स्नेहं न कुर्वन्तीत्यर्थः ॥ १ ॥ दृधादृष्टयाविषयानिति । दृया ऐहिकाः स्रक्चन्दनवनितादयः अदृष्टाः स्वर्गामृता- दयः । तद्रूपा य इष्टविषयाः । कामभिरित । आर्षमिद रूपम् | परमार्थतत्त्वज्ञाना- दिति । परमार्थतत्त्वज्ञाने विषयवैराग्यं भवति । तच्च विषयेषु दोषदर्शनात्संभवति । पर्याप्तकाम इति । यश्चात्मकामः स आत्मबुभुत्सयैव वशीकृतचित्तो भवति तेन तस्य कामा विषयेभ्यो निवृत्ता एव भवन्ति । यदि विषयेषु तस्याल्पोऽपि कामः स्यात् तर्हि आत्मकामत्वं न संभवेत् अर्थाद् विषयनिवृत्तिस्तस्य स्यात् । ततः स्वकारणविनाशात्पुन:
६५ भाष्यबालमोमिनीसहिता कृत आत्मा विदया यस्य तस्य कृतात्मनास्त्विहैव तिष्ठत्येव शरीरे सर्वे धर्मा- धर्मप्रवृत्तिहेतवः प्रविलीयन्ति प्रविलीयन्ते विलयमुपयान्ति नश्यन्तीत्यर्थः । कामास्तजन्महेतुविनाशान्न जायन्त इत्यभिप्रायः ॥ २ ॥ यद्येवं सर्वलामात्परम आत्मलामस्तल्लाभाय प्रवचनादय उपाया बाहुल्येन कर्तव्या इति प्राप्त इदमुच्यते । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३॥ योऽयमात्मा व्याख्यातो यम्य लाभः परः पुरुषार्थो नासौ वेद- शास्त्राध्ययनबाहुल्येन प्रवचनेन लभ्यः । तथा न मेधया ग्रन्थार्थधारण, शक्त्या । न बहुना श्रुतेन नापि भूयसा श्रवणेनेत्यर्थः । केन तर्हि लभ्य कामा न जायन्ते । तिष्ठत्येवेति । वर्तमान एव शरीर इत्यर्थः । अत्र ' इहैव ' इति पदेन जीवन्मुक्तिर्वाध्यते । धर्माधर्मप्रवृत्तिहेतव इति । कामा एव धर्माधर्मप्रवृत्तौ कारणम् तनाशाद् धर्माधर्मप्रवृत्त्यभावः । कारणरूपं यदज्ञानं तस्य ज्ञानेन नाशात् कामानामप्युत्प-1 तिर्न भवति । अयमर्थः । अज्ञाननाशे कामानुत्पत्तिः। कामाभावे धर्माधर्मप्रवृत्तिराहित्यम् । धर्माधर्माभावे पुनर्जन्माभाव इति ॥२॥ वेदशास्त्रेत्यादि । ऋग्वेदादिवेदानां पूर्वमीमांसादिशास्त्राणामध्ययनं विपुलतया यत्र वर्तत एतादृशेन प्रबचनेन । ग्रन्थार्थधारणशक्तयेति । ग्रन्थार्धस्य चिरकालं धारण- मविस्मरणं तादृशशक्त्येत्यर्थः । 'धीधारणावती मेधा' इत्यमरः । न बहुना श्रुतेनेति । अत्र उपनिषद्विचारं विरहय्येत्यर्थों बोध्यः । उपनिषद्विचारस्तु आत्मप्राप्तावावश्यकः । तेन वरणेनेति । अत्र 'यत्तदोनित्यसंवन्धः' इत्यभियुक्तोक्क्या यत्पदेन यस्य ग्रहणं तस्यैव तत्पदेन परामर्शः करणीयस्तथा च-एघ आत्मा यमेवोपास के वृणुते तेनोपास केनात्मा लभ्यः इत्यर्थो युक्तिसहः । तं परित्यज्य तेनेत्यस्य वरणेनत्यर्थो भाध्ये कथं गृह्यत इति चेन्न प्रक- रणानुरोधेनास्यार्थस्य ततोऽपि युक्तिसहत्वात् । तथाहि-अत्र मन्त्र आत्मा प्रवचनादिना साधनेन न लभ्यते तर्हि केन माधनेन लभ्यते इति शंका निराकर्तुं तेनेति पदं प्रयुक्तम् । एवंच साधनप्रकरणात्तेनेति साधनद्योतिका तृतीया। पूर्वक्तप्रकारेण तेनेत्यस्योपासकेनेत्यर्थे कृत प्रकरणविरोधः स्यात् । अतो यत्तदोः संवन्धं परिहायापि प्रकः णानुरोधनार्थोऽगी- क्रियते । अहं परमात्मामात्यभेदानुसंधानं वरणम् । तेन वरणेनेष आ.मा लभ्यते । वह मुखन तु शतशोपि श्रवणादौ क्रियमाणे न लभ्यते । अतोऽहं परमात्ममयो दासंध नं मुण्डकोपनिषत् इत्युच्यते । यमेव परमात्मानमेवैष विद्वान्वणुते प्राप्तुमिच्छति, तेन वरणेनैष पर आत्मा लभ्यो नान्येन साधनान्तरण । नित्यलब्धस्वभावत्त्वात् । कीदृ- शोऽसौ विदुष आत्मलाभ इति उच्यते-तस्यैष आत्माऽविद्यासंछन्नां स्वां परां तनूं स्वात्मतत्त्वं स्वरूपं विवृणुते प्रकाशयति, प्रकाश इव घटादि- विद्यायां सत्यामाविर्भवतीत्यर्थः । तस्मादन्यत्यागेनाप्रार्थनैवात्मलाभसाधन- मित्यर्थः ॥ ३॥ आत्मप्रार्थनासहायभूतान्येतानि च साधनानि बलाप्रमादतपांसि लिङ्गयुक्तानि संन्याससहितानि । नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाऽप्यलिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वां- स्तस्यैष आत्मा विशते ब्रह्म धाम ॥ ४ ॥ यस्मात, नायमात्मा बलहीनेन बलपहीणेनात्मनिष्ठाजनितवीर्य- हीनन लभ्यः । नापि लौकिकपुत्रपश्वादिविषयसङ्गनिमित्तप्रमादात् । तथा .. पुरस्कृत्यैव श्रवणादि संपादनीयमिति भावः। यत्तदोः संबन्धं कृत्वा वक्ष्यमाणं व्याख्यानम् । तथाहि यामिति यत्पदेन परमात्मा ग्राह्यः । अथवा यमेव परमात्मानं वृणुते तेन परमात्मना मुमुक्षुभूतेन लभ्यः । तत्र साधनं श्रवणं-अभेदानुसंधानरूपं प्रार्थनम् । परमात्मैवाहं मुमुक्षु- रूपेण व्यवस्थित इत्यभेदानुसंधाननैव स आत्मा लभ्यो न कर्मणत्यर्थः । अत्र द्वितीयपक्ष यत्तदोः संबन्धी घटने तथापि श्रवणनेत्यस्याध्याहारः कर्तव्यः। एवं चाध्याहारकरणरूपों दोषः । तेन पूर्वेक्तमेव व्याख्यानं वरम् । नित्यलब्धेत्यादि। आत्मप्राप्तिविषयकं वरणं, आत्मप्राप्तीच्छेवोत्पद्यतां तत एवात्मप्राप्तिर्नान्यत्तत्र साधनं यतः स नित्यमेव प्राप्तः । अविद्यासंच्छन्नामिति । अविद्ययैवाच्छन्ना परमात्मतनूः । परां-उत्कृष्टाम् । प्रकाश इवेति । यथा तमसा संच्छन्नो घटः प्रकाश सति स्वरूपेण प्रायते तथा ज्ञानेनाज्ञाननाश आत्मा स्वरूपेणाविर्भवति । अविद्यानाशकज्ञानप्राप्तीच वरणमेव केवलं साधन वान्य- दित्यर्थः ।। ३ ॥ आत्मप्रार्थनायां सहायभूतानि साधनानि वलं, अप्रमादः, तपः इति त्रीणि संन्यास- सहितानि | बलपहीणेनेति । अत्र बलपदनात्मनिष्टाजनितं वीर्य ग्राह्यम् । तादृशवीर्य प्राप्तौ मिथ्याज्ञानेनाभिभवो न भवति । यथा व्यायामादिना शारीरबलप्राप्तौ शीतज्वरादि- रोगाभिभवो न भवति । लौर्किकत्यादि । लौकिका ये पुत्रपश्वादिविषयास्तत्र संग आस- .
माष्य ब्बिोधिनीसाहता ६९ तपसो वाप्यलिङ्गाल्लिङ्गरहितात् । तपोऽत्र ज्ञानम् । लिङ्गं सन्यासः । संन्यासरहिताशातान्न लभ्यत इत्यर्थः। एतैरुपायैर्बलाप्रमादसंन्यासज्ञानैर्य- तते तत्परः सन्प्रयतते यस्तु विद्वान्विवेक्यात्मवित्, तस्य विदुष एष आत्मा विशते संप्रविशति ब्रह्म धाम ॥४॥ कथं ब्रह्म संविशत इत्युच्यते । संप्राप्यनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाःप्रशान्ताः । ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सन्मेवाविशन्ति ॥ ५॥ संप्राप्य समवगम्यैनमात्मानमृषयो दर्शनवन्तस्तेनैव ज्ञानेन तृप्ता न बाह्येन तृप्तिसाधनेन शरीरोपचयकारणेन । कृतात्मानः परमात्मस्वरूपेणैव नि- ष्पन्नात्मानः सन्तः। वीतरागा विगतरागादिदोषाः । प्रशान्ता उपरतेन्द्रियाः। त एवंभूताः सर्वगं सर्वव्यापिनमाकाशवत्सर्वतः सर्वत्र प्राप्य, नोपाधिपरिच्छि- न्नेनैकदेशेन । किं तर्हि, तद्ब्रह्मैवाद्वयमात्मत्वेन प्रतिपद्य धीरा अत्यन्तविवेकिनो युक्तात्मानो नित्यसमाहितस्वभावाः सर्वमेव समस्तं शरीरपातकालेऽप्याविश- क्तिस्तन्निमित्तः प्रमादोऽनवधानतेत्यर्थः। अलिंगादिति । ननु-इन्द्रजनकगार्गीप्रभृतीनां संन्यासरहितानामात्मप्राप्तिश्रवणादालंगादिति कथमिति चेन संन्यासपदेन सर्वत्यागात्मक- स्यान्तरस्य संन्यासस्य स्वत्वाभिमानाभावरूपस्य विवक्षितत्वात्तेषामपीन्द्रजनकगाप्रिभृतीनां स्वत्वाभिमानाभाव आसीदेव । यस्य मे चास्ति सर्वत्र यस्य मे नास्ति किंचन । मिथि- लायां प्रदीप्तायां न मे दहति किंचन ॥ इति जनकोक्तेः। बाह्यलिंगात्मकः संन्यासस्तु न विवक्षितः । न लिंग धर्मकारणमिति स्मृतेः ॥ तपोऽत्रेति । अत्र तपःपदेन ज्ञानं गृह्यते । एवं च विद्वत्संन्यासं कृत्वा परमात्मज्ञानं संपादयति यस्तेन ब्रह्म लभ्यमित्यर्थः। घामेति। स आत्मा तद्ब्रह्मेति श्रुत्यात्मब्रह्मणोरभेदात्परूपभूतं ब्रह्म गच्छतीत्यर्थः ॥ ४॥ दर्शनवन्त इति । ज्ञानवन्त इत्यर्थः। शरीरोपचयकारणेनेति । अन्नादिना बाह्यपदार्थेन शरीरस्योपचयो वृद्धिर्भवत्यतोनादि तत्कारणम् । निष्पन्नात्मान इति आत्म- स्वरूपावस्थिता इत्यर्थः । एकदेशेनोत । देहोपाधिसत्त्वेपि देहाधिष्ठानद्वारा ब्रह्मप्रप्ति. रस्त्येव पसा एकावयवात्मिका न सर्वावयवात्मिका | शरीरपातकालेऽपातिविदेह- मुक्ति रयम् । भिन्नघटाकाशवदिति । भिन्ने घटे यथा ततत्यमाकाशं महाकाशरूपं भवति तद्वत् दहे नष्ट चैतन्यं महाचैतन्यरूपेणावतिष्ठते । नत्वन्यन गमनम् । न तस्य प्राणा न्ति मिलावटाकावदविणकोपाधिपरिच्छेदं बहति ।.. एवं ब्रह्मविदो ब्राह्म धाम प्रविशन्ति ॥५॥ दिन। वेदान्तविज्ञानसुनिश्चिवार्थाः संन्यासयोगाद्यतमः शुद्धसचाः। ते ब्रह्मलोकेषु फरान्तकाले सामवाः परिष्ट्रपन्ति सर्वे ॥ ६ ॥ वेदान्तजनितं विज्ञानं वेदान्तविज्ञानं तस्यार्थः फर आत्मा विज्ञेयः, सोऽर्थः सुनिश्चितो येषां ते वेदान्तविज्ञानसुनिश्चितार्थाः ते च संन्यासयोगात्सर्वकर्मप- रित्यागलक्षणयोगात्केवलब्रझनिश्चस्वरूपाद्योगाद्यतयो यतनशीलाः शुद्धसत्त्वाः सुद्धं सत्त्वं येषां संन्यासयोगात्ते शुद्धसत्त्वाः । ते ब्रह्मलोकेषु । संसारिणां ये मरणकालास्तेऽपरान्तकालास्तानपेक्ष्य मुमुक्षूणां संसारावसाने देहपरित्याग- कालः परान्तकालस्तस्मिन्परान्तकाले साधकानां बहुत्वाद्ब्रह्मैव लोको ब्रह्म- लोकः एकोऽप्यनेकवदृश्यते प्राप्यते च । अतो बहुवचनं ब्रह्मलोकप्विति, ब्रमणीत्यर्थः । परामृताः परममृतममरणधर्मकं ब्रह्मात्मभूतं येषां ते परामृता जीवन्त एव ब्रह्मभूताः, परामृताः सन्तः परिमुच्यन्ति परि समन्तात्प्रदीपनि उत्क्रामन्ति । इहैव समवनीयन्ते | इति श्रुतेः । अविद्याकृतेत्यादि । अविद्यया कृतः संपादितो देहरूप उपाधिस्तविभागं त्यजन्ति ब्रह्मविद इत्यर्थः ॥ ५॥ वदान्तेत्यादि । विद्यते ज्ञायतेऽनेनेति वेदो ज्ञाचं तस्यान्तो निश्चयो यत्रेति वेदा. न्तपदेनोपनिषदां ग्रहणम् । वेदान्तविज्ञानस्य योऽर्थः परमात्मा विज्ञेय इतिरूपः स सुनिश्चितो येषां ते । ब्रह्मनिष्ठास्वरूपादिति । अत्र — योगश्चित्तवृत्तिनिरोधः' इति सूत्रितो योगो न ग्राह्यः । किंतु ब्रह्मनिष्ठारूपो ग्राह्यः । सत्त्वं बुद्धिः । परान्तकाल इतिः। अत्रान्वय- क्रमेण व्याख्यानम् | पश्चाब्रह्मलोकेष्वित्यस्य व्याख्यानात् । परः-निरतिशयः। यस्मात्प- रोन्तकालो नास्तीत्यर्थः । संसारिणां पुनः पुनर्जायमानानां मरणं न निरतिशयोऽन्तकालः। यतो द्वितीयजन्मनि पुनमरणस्य संभवः । अस्य तु ब्रह्मविदोऽयं परान्तकालः । विदेहः मुको पुनर्जन्माभावात् मरणस्वासंभवात् । तदाह-संसारिवामित्यादि । ननु एकस्मिन् ब्रह्माणि ब्रह्मलोकेष्विति बहुवचनं कथामित्याह-एकोऽयनेकवादिति । एकमपि ब्रह्म साधकबाहुल्यादनेकद् भासते तेन साधकबाहुल्यदृष्टया बहुवचनम् । वस्ततस्तु ब्रह्मैकमेव । जीवन्त एवेति । अनेन जीवन्मुक्तिर्बोधिता । प्रदीपनिर्वाणवदिति । प्रदीपस्य वर्ति- भाष्यकालमानि हिता वणिवभिन्नघटाकाशवंच निवृत्तिमुपशान्ति परिमुच्यन्ति परि नितान्मुच्यन्ते सर्वे, नं देशान्तरं गन्तव्यमपेक्षन्ते । शकुनीनामिवाकाशे जले वारेचरस्य च । पदं यथा न दृश्येत तथा ज्ञानवतां गति." ॥ अनध्वमा अध्वसु पारायैष्णवः" इति श्रुतिस्मृतिभ्याम् । देशपरिच्छिन्ना हि गतिः संसारविषयैव, परिच्छिन्नसाधनसाध्यत्वात् । ब्रह्म तु समस्तत्वान देशपरिच्छेदन गन्तव्यम्। यदि हि देशपरिच्छिन्नं ब्रह्म स्वान्मूर्तद्रव्यवदाद्यन्तवद- न्याश्रित सावयवमनित्यं कृतकं च स्यात् । न वेबविधं ब्रह्म भवितुमर्हति । अतस्तत्राप्तिश्च नैव देशपरिच्छिन्ना भवितुं युक्ता । अपि चाविद्यादिसंसारबन्मा- पनयनमेव मोक्षमिच्छन्ति ब्रह्मविदो न तु कार्यभूतम् ॥ ६ ॥ किंच- गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रति देवतासु। कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥ ७ ॥ मोक्षकाले या देहारम्भिकाः कलाः प्राणाधास्ताः स्वाः प्रतिष्ठा गनाः स्वं स्वं कारणं गता भवन्तीत्यर्थः । प्रतिष्ठा इति द्वितीयाबहुवचनम् । कृतोपाधिरूपस्य घर्तिध्वंसे यथा तेजःसामान्यतापत्तिस्तद्वदित्यर्थः । शकुनीनामिवेति । यथाकाशे शकुनीनां पक्षिणां जले वारिचरस्य मत्स्थादः पदं पादन्यासप्रतिविम्बं न दृश्यते तथा ज्ञानवतां विदेहमुक्तौ किमपि चिन्हं न दृश्यत इत्यर्थः । अनध्वगा इति । संसारा- ध्वनां पारयिष्णवः पारयितुं समापयितुमिच्छन्तीति समाप्तिकामा अनध्वमा भवन्तीत्यर्थः। तर्कतोपोहैव मोक्षो वक्तव्य इत्याह-देशपारच्छन्नोति । यद् देशविशि तदल्बसाधन- साध्यं भवति घटवत् । ब्रह्म तु सर्वरूपत्वाद्देशपरिच्छेदरहितं तेन न देशवैशिष्टयेन प्राप्यम् । यदि ब्रह्म देशपरिच्छिन्नं स्यात्तर्हि घटादिमूर्तद्रव्यवत अन्याश्रितम् , आधन्तसाहितम्, साव- यवम्, अनित्यम्, कृतिजन्यं च स्यात् । एवं चैतदोषरहितत्वाद् ब्रह्मणस्तत्प्राप्तिरपि देश. वैशिष्टयेन भवितुं नाहति । किंच बन्धात्मिकाया आविद्याया अपनयो दूरीकरणमेव मोक्षस्य स्वरूपं न तु घटादिवत् कार्यरूपो मोक्षः ॥६॥ प्रतिष्ठा इति । प्रतितिष्ठन्ति कार्याणि भाभिरिति प्रतिष्ठाः कार्यस्थितिबीचनि कारणानीत्यर्थः। कारणं गता इति । लीयन्त इत्यर्थः । भूतांशाना भौतिकानां च
मुण्डकोपनिषत्
पञ्चदश पञ्चदशसंख्याका या अन्त्यप्रश्नपरिपठिताः प्रसिद्धाः, देवाश्च देहा-
श्रयाश्चक्षुरादिकरणस्थाः सर्वे प्रतिदेवतास्वादित्यादिषु गता भवन्तीत्यर्थः ।
यानि च मुमुक्षुणा कृतानि कर्माण्यप्रवृत्तफलानि, प्रवृत्तफलानामुपभोगेनैव
क्षीणत्वात् । विज्ञानमयश्चात्माविद्याकृतबुद्धयाधुपाधिमात्मत्वेन गत्वा जला-
दिषु सूर्यादिप्रतिबिम्बवदिह प्रविष्टो देहभेदेषु कर्मणां तत्फलार्थत्वात्संह
तेनैव विज्ञानमयेनात्मना । अतो विज्ञानमयो विज्ञानप्रायः । त एते कर्माणि
विज्ञानमयश्चात्मोपाध्यपनये सति परेऽव्ययेऽनन्तेऽक्षये ब्रह्मण्याकाश-
कल्पेऽजेऽजरेऽमृतऽभयेऽपूर्वेऽनपरेऽनन्तरेऽबाह्येऽद्वये शिवे शान्ते सर्व एकी
भवन्त्यविशेषतां गच्छन्त्येकत्वमापद्यन्ते जलाद्याघारापनय इव सूर्यादिप्रति-
बिम्बाः सूर्ये, घटाद्यपनय इवाकाशे घटाद्याकाशाः ॥ ७ ॥
महाभूतेषु लयो दर्शितः । अन्त्यप्रश्नेत्यादि । प्रश्नोपनिषदि षट् प्रश्नाः। तत्रान्तिमे षष्ठे
प्रश्ने पठिताः। दहाप्रयाणां चक्षुरादीन्द्रियाणां कारणभूता देषा आदित्यादयस्तत्रंद्रियाणां
लयस्तदाह-प्रतिदेवतास्विति । कर्मफलदानार्थ देवाः सूर्यादयः प्राणादीनधितिष्ठन्ति ।
प्राणादयश्च मायामयमहाभूतांशावष्टब्धेभ्योः जीवाविद्यारूपभूतसूक्ष्मेभ्यः तत्तज्जीवादृष्टवशात्
तत्तत्प्राणादिरूपेणोत्पद्यन्ते । एवं चैतत्सिद्धम् । प्रथमं कर्म ततस्तत्फलदानार्थ देवानामागम
ततोऽदृष्टवशात्तत्तज्जीवानां प्राणाद्युत्पत्तिः। तथाच विपरीतक्रमेण लये कर्मणो भोगेनाव-
साने ते देवाः स्वस्थानं गच्छन्ति । ततस्तदधिष्ठितानां प्राणादीनामपि स्वस्वकारणे व्यः।
एतत्सर्व जीवाविद्याकार्य ब्रह्मरूपम् । अर्थात् ब्रह्मैव पूर्वोक्तनाविद्याकार्येण प्रतिभासते तदाह-
यानि चेत्यादिना । अप्रवृत्तफलानोति । संचितक्रियमाणात्मकानि । न तु प्रारब्ध-
रूपाणि तेषां भोगादेव क्षयः । तदाह-प्रवृत्तफलानामिति । प्रवृत्तफलानि-प्रारब्ध-
कर्माणि | विज्ञानमयः-जीवः । आत्मत्वेनेति । अविद्याकृतो बुध्द्यादिरूप उपाधिर्ममैव
स्वरूपमिति मत्वेत्यर्थः । जलादिष्विति । जल आकाशस्थसूर्यस्य प्रतिबिम्बं यथा प्रवि.
शतात्युच्यते तद्वदित्यर्थः । देहभेदेषु-देवदत्तादिदेहेषु । तत्फलार्थत्वादिति । कर्मणां
फलमेव देहोत्पत्तिरिति भावः । विज्ञानप्राय इति । विज्ञानमय इत्यत्र प्राचुर्यबोधको
मयट् । त एत इति । कलाः प्राणा देवाश्च । विज्ञानमयः-जीवः । उपाध्यपनय-देहरूपो-
पाघिदूरीकरणे । आकाशकल्पे-आकाशसदृशे । अपूर्व-कारणरहिते । अनपरे-कार्यरहिते
पूर्व-कारणम् । अपरं-कार्यम् । जलाद्याधारापनय इति । जलाद्याधारो घटादिस्तद-
पनये सूर्यप्रतिविम्वं यथा सूर्ये लीयते गथा वा घटाकाशो घटरूपोपाधौ दूरीकृते महाकाशे
लीयते तद्वत्स्वयं चैतन्यरूपो जीवोऽविद्याजन्यबुद्धिप्रतिबिम्बितोऽविद्यानाशाबुद्धथुपाधावप-
नीते शिव चैतन्यमये लीयते ॥ ७॥
भाष्यबालबोधिनीसाहता किंच। यथा नद्यः स्यन्दमानाः समुद्रे- स्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८ ॥ यथा नद्या गङ्गाद्याः स्यन्दमाना गच्छन्यः समुद्रे समुद्रं प्राप्यास्त- मदर्शनमविशेषात्मनावं गच्छन्ति प्राप्नुवन्ति नाम च रूपं च नामरूपे विहाय हित्वा, तथा अविद्याकृतनामरूपाद्विमुक्तः सन्विद्वान्परादक्षरात्पूर्वो- तात्परं दिव्यं पुरुषं यथोक्तलक्षणमुपेत्युपगच्छति ॥ ८ ॥ ननु श्रेयस्यनेके विघ्नाः प्रसिद्धा अतः क्लंशानामन्यतमेनान्यन वा देवादिना च विनितो ब्रह्मविदप्यन्यां गतिं मृतो गच्छति न ब्रह्मैव । न । विद्ययैव सर्वप्रतिबन्धस्यापनीतत्वात् । अविद्याप्रतिबन्धमात्रो हि मोक्षो नान्य- प्रतिबन्धः। नित्यत्वादात्मभूतत्वाच्च । तस्मात्- स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्पाब्रह्मवित्कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्धिभ्यो विमुक्तोऽमृतो भवति ॥ ९॥ स यः कश्चिद्ध वै लोके तत्परमं ब्रह्म वेद साक्षादहमेवास्मीति जानाति । स नान्यां गतिं गच्छति । दवैरपि तस्य ब्रह्मप्राप्ति प्रति विघ्नो यथा नद्य इति । प्रश्नोपनिषदि ' स यथेमा नद्यः स्यन्दमानाः' प्र. ६-५ इति मंत्रोऽनेन समानार्थकः । अविशेषात्मभावमिति । समुद्र कियदूरं गता गंगा मधुर- जलापि समुद्रवत्क्षारमयजला भवतीत्यर्थः । नामरूपे इति । समुद्रं यतानां नदीनां गंगे- त्यादि नाम माधुर्यरूपं च नश्यति । अविद्याकृतेति । नाम रूपं चाविद्ययैव संपादितं न वास्तवमतो विनश्यति । अस्ति भाति प्रियामिति त्रिकं तु ब्रह्मरूपत्वेन वास्तवत्वान्न नश्यति। नासतो विद्यते भावो नाभावो विद्यते सतः । इति भगवदुक्तेः ॥ ८॥ श्रेयांसि बहुविध्नानीति न्यायाद्विद्याप्राप्त्यनन्तरमपि मोक्षे विघ्नाः संभवेयुरिति शंकामपाकर्तुं पूर्वपक्षोत्तरपक्षावाह-नन्वित्यादिना । आविद्याप्रतिबन्धमात्र इति केवलमविद्यैव प्रतिवन्धो मोक्षे । न तदितरः। अन्य प्रतिबन्ध इति । बहुव्रीहिः । अन्यः मुं.१० N मुष्टकोणत् न शक्यते कर्तुम् । आत्मा ह्येषां स भवति । तस्माद्ब्रह्म विद्वान्ब्रह्मैव भवति । किंच नास्य विदुषोऽब्रह्मवित्कुले भवति । किंच तरति शोकमनेकेष्टवैकल्य- निमित्तं मानसं संतापं जोवन्नेवातिक्रान्तो भवति । तरति पाप्मानं धर्माधर्मा. ख्यं गुहाग्रन्थिभ्यो हृदयाविद्यामान्थभ्यो विमुक्तः सन्नमृतो. भवतीत्युक्तमेव भिद्यते हृदयग्रन्थिरित्यादि ॥ ९॥ अथेदानीं ब्रह्मविद्यासंप्रदानविध्युपप्रदर्शनेनोपसंहारः क्रियते । तदेतहचाभ्युक्तम्- क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुड्वत एकर्षि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चर्णिम् ॥ १०॥ तदेतद्विद्यासंप्रदानविधानमृचा मन्त्रेणाभ्युक्तमाभिप्रकाशितम् । क्रिया- वन्तो यथोक्तकर्मानुष्ठानयुक्ताः । श्रोत्रिया ब्रह्मनिष्ठा अपरस्मिन्ब्रह्मण्य- भियुक्ताः परं ब्रह्म वुभुत्सवः स्वयमेकर्षिमेकार्पनामानमग्निं जुह्वते जुह्वति श्रद्धयन्तः श्रद्दधानाः सन्तो ये, तेषामेव संस्कृतात्मनां पात्रभूतानामेना पिशाचादिः प्रतिबन्धो यस्येति । तादृशो मोक्षो न भवतीत्यर्थः। आत्मा ह्येषामिति । अयं देवानामात्मभूतो भवति तेन स्वात्मनि विघ्नकरणासंभवाद् देवास्तत्र विघ्नं कर्तुं न पारयन्ति । जीवन्नेवेति पदं भाष्ये प्रयुज्य भाप्यकृत् श्रुतितात्पर्यभूता जीवन्मुक्तिरिति बोधयति । गुहापदेन बुद्धिगुहा ग्राह्या तदाह-हृदयाविद्याग्रन्थिभ्य इति ॥ ९॥ मुण्डकोपनिषद् द्वारा यदा ब्रह्मविद्या प्रतिपाद्यते तदाथणिकैरनेनैव विधिना प्रति- पाद्या ग्राह्या चेति प्रकृतपरामर्शकादेतच्छब्दाद् द्योत्यते । यैः शिरोव्रतमनुष्ठितं तेभ्य एवमां ब्रह्मविद्यां कथयेदित्याह-एतां ब्रह्मविद्यामिति । अपरस्मिन् ब्रह्मणि-सगुणोपासना- याम् । बुभुत्सवः-जिज्ञासमानाः । एकर्षिमिति । एकर्षिरित्यग्नेनाम । संस्कृतात्मनां- शुद्धचेतसाम् । पात्रभूतानामिति । अपात्रशिध्याय विद्यादानस्य श्रुतिस्मृतिप्रतिषिद्ध- त्वात् । आथर्वणेऽपि । विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि । असूय- कायानृजवेऽयताय नमः या वीर्यवती तथा स्याम् । यमेव विद्याः शुचिमप्रमत्तं मेधा- विनं ब्रह्मचर्योपपन्नम् । यस्तेन द्रुह्येत्कतमच्च नाह तस्मै मा ब्रूया निधिपाय ब्रह्मन् ॥ इति । एतदेव श्रुतिवाक्यं मनुना वाक्यान्तरप्रबन्धेन कथितम् । तथाच मनुस्मृतौ द्विर्तायेऽध्याये। विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना | आपद्यपि हि धारायां न त्वनामिरिणे वपेत्||११३॥ विद्या ब्राह्मणमत्याह शवधिष्टेऽस्मि रक्ष माम् । असूयकाय मां मादास्तथा स्यां वीर्य- माष्यबालबोधिनीसरिता ब्रह्मविद्यां वदेत ब्रूयाच्छिरोवतं शिरस्यमिधारणलक्षणम् । यथाथर्वणानां वेद- व्रतं प्रसिद्धम् । यैस्तु यैश्च तच्चीर्ण विधिवद्यथाविधानं तेषामेव वदेत॥१०॥ तदेतत्सत्यमृपिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः परमाभ्यः ॥११॥ इत्यथर्ववेदीपतृतीयमुण्डके द्वितीयः खण्डः॥ २॥ ॐ भद्रं कर्णोभीरति शान्तिः । इत्यथर्ववेदीया मुण्डकोपनिषत्समाप्ता ।। तदेतदक्षरं पुरुषं सत्यमृषिरङ्गिरा नाम पुरा पूर्व शौनकाय विधिव- दुपसन्नाय पृष्टवत उवाच । तद्वदन्योऽपि तथैव श्रेयोर्थिने मुमुक्षवे मोक्षार्थ विधिवदुपसन्नाय ब्रूयादित्यर्थः । नैतद्ग्रन्थरूपमचीर्णव्रतोऽचरितवतोऽप्यधीते न पठति । चर्णिव्रतस्य हि विद्या फलाय संस्कृता भवतीति । समाप्ता ब्रह्म- विद्या । सा येभ्यो ब्रह्मादिभ्यः पारम्पर्यक्रमेण संप्राप्ता तेभ्यो नमः परम- ऋषिभ्यः । परमं ब्रह्म साक्षादृष्टवन्तो ये ब्रह्मादयोऽवगतवन्तश्च ते परमर्ष- यस्तेभ्यो भूयोऽपि नमः । द्विवचनमत्यादरार्थ मुण्डकसमाप्त्यर्थं च ॥११॥ इति तृतीयमुण्डकोपनिषद्भाप्ये द्वितीयः खण्डः ॥ २ ॥ इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचा- यस्य श्रीमच्छंकरभगवतः कृतावाथर्वणमुण्डको- पनिषद्भाष्यं समाप्तम् ॥ वत्तमा।।११४|| यमेव तु शुचिं विद्या नियतं ब्रह्मचारिणम् । तस्मै मां ब्रूहि विप्राय निधि- पायाप्रमादिने ||११५॥१०॥ चीर्णव्रतस्यति । येन शिरोव्रतमाचरितं तस्मा उक्ता ब्रह्मविद्या मोक्षरूपफल- साधिका भवति । ब्रह्मविद्या-उपनिषत्प्रतिपाद्यं ब्रह्मज्ञानम् । ब्रह्मादिभ्य इति। ब्रह्मा ज्येष्ठपुत्रायाथर्वणे प्राह । अथर्वांगिनन्नि महर्षये । आंगिर्भरद्वाजगोत्राय सत्यवहाय । सत्यव- होऽङ्गिरसे । अंगिराः शौनकायेति । पारम्पर्यक्रमेण-गुरुपरम्परया। मुण्डकसमाप्त्य- थमिति । शिरसि वन्हिधारणव्रतं येन कृतं तेन लभ्यमानत्वादस्य मुण्ड केति नाम यथार्थ- मिति प्रायते ॥ ११॥ इति मुण्डकोपनिषद्भाष्ये बालश्रोधिन्यां तृतीयमुण्डके द्वितीयः खण्डः||३२ इति श्रीमुण्डकोपनिषद्भाष्ये विद्वद्वशंवदपाठकोपाहश्रीधर- शर्मकृता बालबोधिनी समाप्ता।