Sūkta 129
- Devatā देवता
- Bhāvavṛttam
- Ṛṣi ऋषि
- Prajāpati Parameṣṭhin
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1-3); triṣṭup (4-6); pādanicṛttriṣṭup (7)
2nd set of styles triṣṭubh
-
Ṛk 1
नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् ।
किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नंभः॒ किमा॑सी॒द्गह॑नं गभी॒रं ॥नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत् |
किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम् ||nā́sadāsīnnó sádāsīttadā́nīm nā́sīdrájo nó vyómā paró yát ǀ
kímā́varīvaḥ kúha kásya śármannámbhaḥ kímāsīdgáhanam gabhīrám ǁnāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat |
kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram ||न । अस॑त् । आ॒सी॒त् । नो इति॑ । सत् । आ॒सी॒त् । त॒दानी॑म् । न । आ॒सी॒त् । रजः॑ । नो इति॑ । विऽओ॑म । प॒रः । यत् ।
किम् । आ । अ॒व॒री॒व॒रिति॑ । कुह॑ । कस्य॑ । शर्म॑न् । अम्भः॑ । किम् । आ॒सी॒त् । गह॑नम् । ग॒भी॒रम् ॥न । असत् । आसीत् । नो इति । सत् । आसीत् । तदानीम् । न । आसीत् । रजः । नो इति । विऽओम । परः । यत् ।
किम् । आ । अवरीवरिति । कुह । कस्य । शर्मन् । अम्भः । किम् । आसीत् । गहनम् । गभीरम् ॥ná ǀ ásat ǀ āsīt ǀ nó íti ǀ sát ǀ āsīt ǀ tadā́nīm ǀ ná ǀ āsīt ǀ rájaḥ ǀ nó íti ǀ ví-oma ǀ paráḥ ǀ yát ǀ
kím ǀ ā́ ǀ avarīvaríti ǀ kúha ǀ kásya ǀ śárman ǀ ámbhaḥ ǀ kím ǀ āsīt ǀ gáhanam ǀ gabhīrám ǁna ǀ asat ǀ āsīt ǀ no iti ǀ sat ǀ āsīt ǀ tadānīm ǀ na ǀ āsīt ǀ rajaḥ ǀ no iti ǀ vi-oma ǀ paraḥ ǀ yat ǀ
kim ǀ ā ǀ avarīvariti ǀ kuha ǀ kasya ǀ śarman ǀ ambhaḥ ǀ kim ǀ āsīt ǀ gahanam ǀ gabhīram ǁ10.129.1 Aṣṭaka 8.7.17.1Anuvāka 10.11.1
-
Ṛk 2
न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः ।
आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किं च॒नास॑ ॥न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः |
आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं चनास ||ná mṛtyúrāsīdamṛ́tam ná tárhi ná rā́tryā áhna āsītpraketáḥ ǀ
ā́nīdavātám svadháyā tádékam tásmāddhānyánná paráḥ kím canā́sa ǁna mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ |
ānīd avātaṃ svadhayā tad ekaṃ tasmād dhānyan na paraḥ kiṃ canāsa ||न । मृ॒त्युः । आ॒सी॒त् । अ॒मृत॑म् । न । तर्हि॑ । न । रात्र्याः॑ । अह्नः॑ । आ॒सी॒त् । प्र॒ऽके॒तः ।
आनी॑त् । अ॒वा॒तम् । स्व॒धया॑ । तत् । एक॑म् । तस्मा॑त् । ह॒ । अ॒न्यत् । न । प॒रः । किम् । च॒न । आ॒स॒ ॥न । मृत्युः । आसीत् । अमृतम् । न । तर्हि । न । रात्र्याः । अह्नः । आसीत् । प्रऽकेतः ।
आनीत् । अवातम् । स्वधया । तत् । एकम् । तस्मात् । ह । अन्यत् । न । परः । किम् । चन । आस ॥ná ǀ mṛtyúḥ ǀ āsīt ǀ amṛ́tam ǀ ná ǀ tárhi ǀ ná ǀ rā́tryāḥ ǀ áhnaḥ ǀ āsīt ǀ pra-ketáḥ ǀ
ā́nīt ǀ avātám ǀ svadháyā ǀ tát ǀ ékam ǀ tásmāt ǀ ha ǀ anyát ǀ ná ǀ paráḥ ǀ kím ǀ caná ǀ āsa ǁna ǀ mṛtyuḥ ǀ āsīt ǀ amṛtam ǀ na ǀ tarhi ǀ na ǀ rātryāḥ ǀ ahnaḥ ǀ āsīt ǀ pra-ketaḥ ǀ
ānīt ǀ avātam ǀ svadhayā ǀ tat ǀ ekam ǀ tasmāt ǀ ha ǀ anyat ǀ na ǀ paraḥ ǀ kim ǀ cana ǀ āsa ǁ10.129.2 Aṣṭaka 8.7.17.2Anuvāka 10.11.2
-
Ṛk 3
तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे॑ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दं ।
तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा॑य॒तैकं॑ ॥तम आसीत् तमसा गूऌहम् अग्रे ऽप्रकेतं सलिलं सर्वम् आ इदम् |
तुच्छ्येनाभ्व् अपिहितं यद् आसीत् तपसस् तन् महिनाजायतैकम् ||táma āsīttámasā gūḷhámágre’praketám salilám sárvamā idám ǀ
tucchyénābhvápihitam yádā́sīttápasastánmahinā́jāyatáikam ǁtama āsīt tamasā gūḷham agre 'praketaṃ salilaṃ sarvam ā idam |
tucchyenābhv apihitaṃ yad āsīt tapasas tan mahinājāyataikam ||तमः॑ । आ॒सी॒त् । तम॑सा । गू॒ळ्हम् । अग्रे॑ । अ॒प्र॒ऽके॒तम् । स॒लि॒लम् । सर्व॑म् । आः॒ । इ॒दम् ।
तु॒च्छ्येन॑ । आ॒भु । अपि॑ऽहितम् । यत् । आसी॑त् । तप॑सः । तत् । म॒हि॒ना । अ॒जा॒य॒त॒ । एक॑म् ॥तमः । आसीत् । तमसा । गूळ्हम् । अग्रे । अप्रऽकेतम् । सलिलम् । सर्वम् । आः । इदम् ।
तुच्छ्येन । आभु । अपिऽहितम् । यत् । आसीत् । तपसः । तत् । महिना । अजायत । एकम् ॥támaḥ ǀ āsīt ǀ támasā ǀ gūḷhám ǀ ágre ǀ apra-ketám ǀ salilám ǀ sárvam ǀ āḥ ǀ idám ǀ
tucchyéna ǀ ābhú ǀ ápi-hitam ǀ yát ǀ ā́sīt ǀ tápasaḥ ǀ tát ǀ mahinā́ ǀ ajāyata ǀ ékam ǁtamaḥ ǀ āsīt ǀ tamasā ǀ gūḷham ǀ agre ǀ apra-ketam ǀ salilam ǀ sarvam ǀ āḥ ǀ idam ǀ
tucchyena ǀ ābhu ǀ api-hitam ǀ yat ǀ āsīt ǀ tapasaḥ ǀ tat ǀ mahinā ǀ ajāyata ǀ ekam ǁ10.129.3 Aṣṭaka 8.7.17.3Anuvāka 10.11.3
-
Ṛk 4
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी॑त् ।
स॒तो बंधु॒मस॑ति॒ निर॑विंदन्हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥कामस् तद् अग्रे सम् अवर्तताधि मनसो रेतः प्रथमं यद् आसीत् |
सतो बन्धुम् असति निर् अविन्दन् हृदि प्रतीष्या कवयो मनीषा ||kā́mastádágre sámavartatā́dhi mánaso rétaḥ prathamám yádā́sīt ǀ
sató bándhumásati níravindanhṛdí pratī́ṣyā kaváyo manīṣā́ ǁkāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt |
sato bandhum asati nir avindan hṛdi pratīṣyā kavayo manīṣā ||कामः॑ । तत् । अग्रे॑ । सम् । अ॒व॒र्त॒त॒ । अधि॑ । मन॑सः । रेतः॑ । प्र॒थ॒मम् । यत् । आसी॑त् ।
स॒तः । बन्धु॑म् । अस॑ति । निः । अ॒वि॒न्द॒न् । हृ॒दि । प्र॒ति॒ऽइष्य॑ । क॒वयः॑ । म॒नी॒षा ॥कामः । तत् । अग्रे । सम् । अवर्तत । अधि । मनसः । रेतः । प्रथमम् । यत् । आसीत् ।
सतः । बन्धुम् । असति । निः । अविन्दन् । हृदि । प्रतिऽइष्य । कवयः । मनीषा ॥kā́maḥ ǀ tát ǀ ágre ǀ sám ǀ avartata ǀ ádhi ǀ mánasaḥ ǀ rétaḥ ǀ prathamám ǀ yát ǀ ā́sīt ǀ
satáḥ ǀ bándhum ǀ ásati ǀ níḥ ǀ avindan ǀ hṛdí ǀ prati-íṣya ǀ kaváyaḥ ǀ manīṣā́ ǁkāmaḥ ǀ tat ǀ agre ǀ sam ǀ avartata ǀ adhi ǀ manasaḥ ǀ retaḥ ǀ prathamam ǀ yat ǀ āsīt ǀ
sataḥ ǀ bandhum ǀ asati ǀ niḥ ǀ avindan ǀ hṛdi ǀ prati-iṣya ǀ kavayaḥ ǀ manīṣā ǁ10.129.4 Aṣṭaka 8.7.17.4Anuvāka 10.11.4
-
Ṛk 5
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् ।
रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्त्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ॥तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी३द् उपरि स्विद् आसी३त् |
रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयतिः परस्तात् ||tiraścī́no vítato raśmíreṣāmadháḥ svidāsī́dupári svidāsī́t ǀ
retodhā́ āsanmahimā́na āsantsvadhā́ avástātpráyatiḥ parástāt ǁtiraścīno vitato raśmir eṣām adhaḥ svid āsī3d upari svid āsī3t |
retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt ||ति॒र॒श्चीनः॑ । विऽत॑तः । र॒श्मिः । ए॒षा॒म् । अ॒धः । स्वि॒त् । आ॒सी॒३त् । उ॒परि॑ । स्वि॒त् । आ॒सी॒३त् ।
रे॒तः॒ऽधाः । आ॒स॒न् । म॒हि॒मानः॑ । आ॒स॒न् । स्व॒धा । अ॒वस्ता॑त् । प्रऽय॑तिः । प॒रस्ता॑त् ॥तिरश्चीनः । विऽततः । रश्मिः । एषाम् । अधः । स्वित् । आसीत् । उपरि । स्वित् । आसीत् ।
रेतःऽधाः । आसन् । महिमानः । आसन् । स्वधा । अवस्तात् । प्रऽयतिः । परस्तात् ॥tiraścī́naḥ ǀ ví-tataḥ ǀ raśmíḥ ǀ eṣām ǀ adháḥ ǀ svit ǀ āsī́t ǀ upári ǀ svit ǀ āsī́t ǀ
retaḥ-dhā́ḥ ǀ āsan ǀ mahimā́naḥ ǀ āsan ǀ svadhā́ ǀ avástāt ǀ prá-yatiḥ ǀ parástāt ǁtiraścīnaḥ ǀ vi-tataḥ ǀ raśmiḥ ǀ eṣām ǀ adhaḥ ǀ svit ǀ āsīt ǀ upari ǀ svit ǀ āsīt ǀ
retaḥ-dhāḥ ǀ āsan ǀ mahimānaḥ ǀ āsan ǀ svadhā ǀ avastāt ǀ pra-yatiḥ ǀ parastāt ǁ10.129.5 Aṣṭaka 8.7.17.5Anuvāka 10.11.5
-
Ṛk 6
को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑च॒त्कुत॒ आजा॑ता॒ कुत॑ इ॒यं विसृ॑ष्टिः ।
अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः |
अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ||kó addhā́ veda ká ihá prá vocatkúta ā́jātā kúta iyám vísṛṣṭiḥ ǀ
arvā́gdevā́ asyá visárjanenā́thā kó veda yáta ābabhū́va ǁko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃ visṛṣṭiḥ |
arvāg devā asya visarjanenāthā ko veda yata ābabhūva ||कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । कुतः॑ । आऽजा॑ता । कुतः॑ । इ॒यम् । विऽसृ॑ष्टिः ।
अ॒र्वाक् । दे॒वाः । अ॒स्य । वि॒ऽसर्ज॑नेन । अथ॑ । कः । वे॒द॒ । यतः॑ । आ॒ऽब॒भूव॑ ॥कः । अद्धा । वेद । कः । इह । प्र । वोचत् । कुतः । आऽजाता । कुतः । इयम् । विऽसृष्टिः ।
अर्वाक् । देवाः । अस्य । विऽसर्जनेन । अथ । कः । वेद । यतः । आऽबभूव ॥káḥ ǀ addhā́ ǀ veda ǀ káḥ ǀ ihá ǀ prá ǀ vocat ǀ kútaḥ ǀ ā́-jātā ǀ kútaḥ ǀ iyám ǀ ví-sṛṣṭiḥ ǀ
arvā́k ǀ devā́ḥ ǀ asyá ǀ vi-sárjanena ǀ átha ǀ káḥ ǀ veda ǀ yátaḥ ǀ ā-babhū́va ǁkaḥ ǀ addhā ǀ veda ǀ kaḥ ǀ iha ǀ pra ǀ vocat ǀ kutaḥ ǀ ā-jātā ǀ kutaḥ ǀ iyam ǀ vi-sṛṣṭiḥ ǀ
arvāk ǀ devāḥ ǀ asya ǀ vi-sarjanena ǀ atha ǀ kaḥ ǀ veda ǀ yataḥ ǀ ā-babhūva ǁ10.129.6 Aṣṭaka 8.7.17.6Anuvāka 10.11.6
-
Ṛk 7
इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न ।
यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑म॒न्त्सो अं॒ग वे॑द॒ यदि॑ वा॒ न वेद॑ ॥इयं विसृष्टिर् यत आबभूव यदि वा दधे यदि वा न |
यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद ||iyám vísṛṣṭiryáta ābabhū́va yádi vā dadhé yádi vā ná ǀ
yó asyā́dhyakṣaḥ paramé vyómantsó aṅgá veda yádi vā ná véda ǁiyaṃ visṛṣṭir yata ābabhūva yadi vā dadhe yadi vā na |
yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda ||इ॒यम् । विऽसृ॑ष्टिः । यतः॑ । आ॒ऽब॒भूव॑ । यदि॑ । वा॒ । द॒धे । यदि॑ । वा॒ । न ।
यः । अ॒स्य॒ । अधि॑ऽअक्षः । प॒र॒मे । विऽओ॑मन् । सः । अ॒ङ्ग । वे॒द॒ । यदि॑ । वा॒ । न । वेद॑ ॥इयम् । विऽसृष्टिः । यतः । आऽबभूव । यदि । वा । दधे । यदि । वा । न ।
यः । अस्य । अधिऽअक्षः । परमे । विऽओमन् । सः । अङ्ग । वेद । यदि । वा । न । वेद ॥iyám ǀ ví-sṛṣṭiḥ ǀ yátaḥ ǀ ā-babhū́va ǀ yádi ǀ vā ǀ dadhé ǀ yádi ǀ vā ǀ ná ǀ
yáḥ ǀ asya ǀ ádhi-akṣaḥ ǀ paramé ǀ ví-oman ǀ sáḥ ǀ aṅgá ǀ veda ǀ yádi ǀ vā ǀ ná ǀ véda ǁiyam ǀ vi-sṛṣṭiḥ ǀ yataḥ ǀ ā-babhūva ǀ yadi ǀ vā ǀ dadhe ǀ yadi ǀ vā ǀ na ǀ
yaḥ ǀ asya ǀ adhi-akṣaḥ ǀ parame ǀ vi-oman ǀ saḥ ǀ aṅga ǀ veda ǀ yadi ǀ vā ǀ na ǀ veda ǁ10.129.7 Aṣṭaka 8.7.17.7Anuvāka 10.11.7
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.