Chapter 1
Select a line for its word-by-word analysis.
प्रतीत्यजानां भावानां नैःस्वाभाव्यं जगाद यः । (१।१)
pratītyajānāṃ bhāvānāṃ naiḥsvābhāvyaṃ jagāda yaḥ |
तं नमाम्य् असमज्ञानम् अचिन्त्यम् अनिदर्शनम् ॥ (१।२)
taṃ namāmy asamajñānam acintyam anidarśanam ||
यथा त्वया महायाने धर्मनैरात्म्यम् आत्मना । (२।१)
yathā tvayā mahāyāne dharmanairātmyam ātmanā |
विदितं देशितं तद्वद् धीमद्भ्यः करुणावशात् ॥ (२।२)
viditaṃ deśitaṃ tadvad dhīmadbhyaḥ karuṇāvaśāt ||
प्रत्ययेभ्यः समुत्पन्नम् अनुत्पन्नं त्वयोदितम् । (३।१)
pratyayebhyaḥ samutpannam anutpannaṃ tvayoditam |
स्वभावेन न तज् जातम् इति शून्यं प्रकाशितम् ॥ (३।२)
svabhāvena na taj jātam iti śūnyaṃ prakāśitam ||
यद्वच्छब्दं प्रतीत्येह प्रतिशब्दसमुद्भवः । (४।१)
yadvacchabdaṃ pratītyeha pratiśabdasamudbhavaḥ |
यद्य् अजाताः सह स्वप्नैर् न स्यात् तद्दर्शनादिकम् ॥ (५।२)
yady ajātāḥ saha svapnair na syāt taddarśanādikam ||
तद्वत् प्रत्ययजं विश्वं त्वयोक्तं नाथ सांवृतम् ॥ (६।२)
tadvat pratyayajaṃ viśvaṃ tvayoktaṃ nātha sāṃvṛtam ||
अस्त्य् एतत् कृतकं सर्वं यत् किंचिद् बाललापनम् । (७।१)
asty etat kṛtakaṃ sarvaṃ yat kiṃcid bālalāpanam |
कृतकं वस्तु नो जातं तदा किं वार्तमानिकम् । (८।१)
kṛtakaṃ vastu no jātaṃ tadā kiṃ vārtamānikam |
कस्य नाशाद् अतीतं स्याद् उत्पित्सुः किम् अपेक्षते ॥ (८।२)
kasya nāśād atītaṃ syād utpitsuḥ kim apekṣate ||
स्वस्मान् न जायते भावः परस्मान् नोभयाद् अपि । (९।१)
svasmān na jāyate bhāvaḥ parasmān nobhayād api |
न सन् नासन् न सदसन् कुतः कस्योदयस् तदा ॥ (९।२)
na san nāsan na sadasan kutaḥ kasyodayas tadā ||
अजाते न स्वभावो ऽस्ति कुतः स्वस्मात् समुद्भवः । (१०।१)
ajāte na svabhāvo 'sti kutaḥ svasmāt samudbhavaḥ |
स्वभावाभावसिद्ध्यैव परस्माद् अप्य् असंभवः ॥ (१०।२)
svabhāvābhāvasiddhyaiva parasmād apy asaṃbhavaḥ ||
स्वत्वे सति परत्वं स्यात् परत्वे स्वत्वम् इष्यते । (११।१)
svatve sati paratvaṃ syāt paratve svatvam iṣyate |
आपेक्षिकी तयोः सिद्धिः पारावारम् इवोदिता ॥ (११।२)
āpekṣikī tayoḥ siddhiḥ pārāvāram ivoditā ||
यदा नापेक्षते किंचित् कुतः किंचित् तदा भवेत् । (१२।१)
yadā nāpekṣate kiṃcit kutaḥ kiṃcit tadā bhavet |
यदा नापेक्षते दीर्घं कुतो ह्रस्वादिकं तदा ॥ (१२।२)
yadā nāpekṣate dīrghaṃ kuto hrasvādikaṃ tadā ||
अस्तित्वे सति नास्तित्वं दीर्घे ह्रस्वं तथा सति । (१३।१)
astitve sati nāstitvaṃ dīrghe hrasvaṃ tathā sati |
नास्तित्वे सति चास्तित्वं यत् तस्माद् उभयं न सत् ॥ (१३।२)
nāstitve sati cāstitvaṃ yat tasmād ubhayaṃ na sat ||
संक्लेशो व्यवदानं च सम्यङ्मिथ्या स्वतः कुतः ॥ (१४।२)
saṃkleśo vyavadānaṃ ca samyaṅmithyā svataḥ kutaḥ ||
स्वत एव हि यो नास्ति भावः सर्वो ऽस्ति कस् तदा । (१५।१)
svata eva hi yo nāsti bhāvaḥ sarvo 'sti kas tadā |
पर इत्य् उच्यते यो ऽयं न विना स्वस्वभावतः ॥ (१५।२)
para ity ucyate yo 'yaṃ na vinā svasvabhāvataḥ ||
न स्वभावो ऽस्ति भावानां परभावो ऽस्ति नो यदा । (१६।१)
na svabhāvo 'sti bhāvānāṃ parabhāvo 'sti no yadā |
भावग्रहग्रहावेशः परतन्त्रो ऽस्ति कस् तदा ॥ (१६।२)
bhāvagrahagrahāveśaḥ paratantro 'sti kas tadā ||
आदाव् एव समं जाताः स्वभावेन च निर्वृताः । (१७।१)
ādāv eva samaṃ jātāḥ svabhāvena ca nirvṛtāḥ |
अनुत्पन्नाश् च तत्त्वेन तस्माद् धर्मास् त्वयोदिताः ॥ (१७।२)
anutpannāś ca tattvena tasmād dharmās tvayoditāḥ ||
निःस्वभावास् त्वया धीमन् रूपाद्याः संप्रकाशिताः । (१८।१)
niḥsvabhāvās tvayā dhīman rūpādyāḥ saṃprakāśitāḥ |
इन्द्रियैर् उपलब्धं यत् तत् तत्त्वेन भवेद् यदि । (१९।१)
indriyair upalabdhaṃ yat tat tattvena bhaved yadi |
जातास् तत्त्वविदो बालास् तत्त्वज्ञानेन किं तदा ॥ (१९।२)
jātās tattvavido bālās tattvajñānena kiṃ tadā ||
विपरीतपरिज्ञानम् इन्द्रियानां त्वम् ऊचिवान् ॥ (२०।२)
viparītaparijñānam indriyānāṃ tvam ūcivān ||
लोकस् तेन यथाभूतम् इति मत्वा त्वयोदितम् ॥ (२१।२)
lokas tena yathābhūtam iti matvā tvayoditam ||
अस्तीति शाश्वती दृष्टिर् नास्तीत्य् उच्छेददर्शनम् । (२२।१)
astīti śāśvatī dṛṣṭir nāstīty ucchedadarśanam |
तेनान्तद्वयनिर्मुक्तो धर्मो ऽयं देशितस् त्वया ॥ (२२।२)
tenāntadvayanirmukto dharmo 'yaṃ deśitas tvayā ||
चतुष्कोटिविनिर्मुक्तास् तेन धर्मास् त्वयोदिताः । (२३।१)
catuṣkoṭivinirmuktās tena dharmās tvayoditāḥ |
विज्ञानस्याप्य् अविज्ञेया वाचां किमुत गोचराः ॥ (२३।२)
vijñānasyāpy avijñeyā vācāṃ kimuta gocarāḥ ||
स्वप्नेन्द्रजालिकोद्भूतं द्विचन्द्रोद्वीक्षणं यथा । (२४।१)
svapnendrajālikodbhūtaṃ dvicandrodvīkṣaṇaṃ yathā |
भूतं तद्वस्तु नो भूतं तथा दृष्टं जगत् त्वया ॥ (२४।२)
bhūtaṃ tadvastu no bhūtaṃ tathā dṛṣṭaṃ jagat tvayā ||
उत्पन्नश् च स्थितो नष्टः स्वप्ने यद्वत् सुतस् तथा । (२५।१)
utpannaś ca sthito naṣṭaḥ svapne yadvat sutas tathā |
न चोत्पन्नः स्थितो नष्ट उक्तो लोको ऽर्थतस् त्वया ॥ (२५।२)
na cotpannaḥ sthito naṣṭa ukto loko 'rthatas tvayā ||
कारणात् संभवो दृष्टो यथा स्वप्ने तथेतरः । (२६।१)
kāraṇāt saṃbhavo dṛṣṭo yathā svapne tathetaraḥ |
संभवः सर्वभावानां विभवो ऽपि मतस् तथा ॥ (२६।२)
saṃbhavaḥ sarvabhāvānāṃ vibhavo 'pi matas tathā ||
रागादिजं यथा दुःखं संक्लेशसंसृती तथा । (२७।१)
rāgādijaṃ yathā duḥkhaṃ saṃkleśasaṃsṛtī tathā |
संभारपूरणान् मुक्तिः स्वप्नवद् भाषिता त्वया ॥ (२७।२)
saṃbhārapūraṇān muktiḥ svapnavad bhāṣitā tvayā ||
जातं तथैव नो जातम् आगतं गतम् इत्य् अपि । (२८।१)
jātaṃ tathaiva no jātam āgataṃ gatam ity api |
बद्धो मुक्तस् तथा ज्ञानी द्वयम् इच्छेन् न तत्त्ववित् ॥ (२८।२)
baddho muktas tathā jñānī dvayam icchen na tattvavit ||
उत्पत्तिर् यस्य नैवास्ति तस्य का निर्वृतिर् भवेत् । (२९।१)
utpattir yasya naivāsti tasya kā nirvṛtir bhavet |
मायागजप्रकाशत्वाद् आदिशान्तत्वम् अर्थतः ॥ (२९।२)
māyāgajaprakāśatvād ādiśāntatvam arthataḥ ||
उत्पन्नो ऽपि न चोत्पन्नो यद्वन् मायागजो मतः । (३०।१)
utpanno 'pi na cotpanno yadvan māyāgajo mataḥ |
उत्पन्नं च तथा विश्वम् अनुत्पन्नं च तत्त्वतः ॥ (३०।२)
utpannaṃ ca tathā viśvam anutpannaṃ ca tattvataḥ ||
अमेयैर् अप्रमेयानां प्रत्येकं निर्वृतिः कृता । (३१।१)
ameyair aprameyānāṃ pratyekaṃ nirvṛtiḥ kṛtā |
लोकनाथैर् हि सत्त्वानां न कश्चिन् मोचितश् च तैः ॥ (३१।२)
lokanāthair hi sattvānāṃ na kaścin mocitaś ca taiḥ ||
ते च सत्त्वाश् च नो जाता ये निर्वान्ति न ते स्फुटम् । (३२।१)
te ca sattvāś ca no jātā ye nirvānti na te sphuṭam |
न कश्चिन् मोचितः कैश्चिद् इति प्रोक्तं महामुने ॥ (३२।२)
na kaścin mocitaḥ kaiścid iti proktaṃ mahāmune ||
मायाकारकृतं यद्वद् वस्तु शून्यं तथेतरत् । (३३।१)
māyākārakṛtaṃ yadvad vastu śūnyaṃ tathetarat |
वस्तुशून्यं जगत् सर्वं त्वयोक्तं कारकस् तथा ॥ (३३।२)
vastuśūnyaṃ jagat sarvaṃ tvayoktaṃ kārakas tathā ||
कारको ऽपि कृतो ऽन्येन कृतत्वं नातिवर्तते । (३४।१)
kārako 'pi kṛto 'nyena kṛtatvaṃ nātivartate |
नाममात्रं जगत् सर्वम् इत्य् उच्चैर् भाषितं त्वया । (३५।१)
nāmamātraṃ jagat sarvam ity uccair bhāṣitaṃ tvayā |
अभिधानात् पृथग्भूतम् अभिधेयं न विद्यते ॥ (३५।२)
abhidhānāt pṛthagbhūtam abhidheyaṃ na vidyate ||
कल्पनामात्रम् इत्य् अस्मात् सर्वधर्माः प्रकाशिताः । (३६।१)
kalpanāmātram ity asmāt sarvadharmāḥ prakāśitāḥ |
कल्पनाप्य् असती प्रोक्ता यया शून्यं विकल्प्यते ॥ (३६।२)
kalpanāpy asatī proktā yayā śūnyaṃ vikalpyate ||
न च ज्ञानं न च ज्ञेयं न चास्ति न च नास्ति यत् ॥ (३७।२)
na ca jñānaṃ na ca jñeyaṃ na cāsti na ca nāsti yat ||
यन् न चैकं न चानेकं नोभयं न च नोभयम् । (३८।१)
yan na caikaṃ na cānekaṃ nobhayaṃ na ca nobhayam |
अनालयम् अथाव्यक्तम् अचिन्त्यम् अनिदर्शनम् ॥ (३८।२)
anālayam athāvyaktam acintyam anidarśanam ||
यन् नोदेति न च व्येति नोच्छेदि न च शाश्वतम् । (३९।१)
yan nodeti na ca vyeti nocchedi na ca śāśvatam |
यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता । (४०।१)
yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |
तथाविधश् च सद्धर्मस् तत्समश् च तथागतः ॥ (४०।२)
tathāvidhaś ca saddharmas tatsamaś ca tathāgataḥ ||
तत् तत्त्वं परमार्थो ऽपि तथता द्रव्यम् इष्यते । (४१।१)
tat tattvaṃ paramārtho 'pi tathatā dravyam iṣyate |
भूतं तद् अविसंवादि तद्बोधाद् बुद्ध उच्यते ॥ (४१।२)
bhūtaṃ tad avisaṃvādi tadbodhād buddha ucyate ||
बुद्धानां सत्त्वधातोश् च तेनाभिन्नत्वम् अर्थतः । (४२।१)
buddhānāṃ sattvadhātoś ca tenābhinnatvam arthataḥ |
भावेभ्यः शून्यता नान्या न च भावो ऽस्ति तां विना । (४३।१)
bhāvebhyaḥ śūnyatā nānyā na ca bhāvo 'sti tāṃ vinā |
तस्मात् प्रतीत्यजा भावास् त्वया शून्याः प्रकाशिताः ॥ (४३।२)
tasmāt pratītyajā bhāvās tvayā śūnyāḥ prakāśitāḥ ||
हेतुप्रत्ययसम्भूता परतन्त्रा च संवृतिः । (४४।१)
hetupratyayasambhūtā paratantrā ca saṃvṛtiḥ |
परतन्त्र इति प्रोक्तः परमार्थस् त्व् अकृत्रिमः ॥ (४४।२)
paratantra iti proktaḥ paramārthas tv akṛtrimaḥ ||
स्वभावः प्रकृतिस् तत्त्वं द्रव्यं वस्तु सद् इत्य् अपि । (४५।१)
svabhāvaḥ prakṛtis tattvaṃ dravyaṃ vastu sad ity api |
नास्ति वै कपितो भावो परतन्त्रस् तु विद्यते ॥ (४५।२)
nāsti vai kapito bhāvo paratantras tu vidyate ||
नास्तीति कृतकोच्छेदाद् उच्छेदश् च प्रकाशितः ॥ (४६।२)
nāstīti kṛtakocchedād ucchedaś ca prakāśitaḥ ||
तत्त्वज्ञानेन नोच्छेदो न च शाश्वतता मता । (४७।१)
tattvajñānena nocchedo na ca śāśvatatā matā |
वस्तुशून्यं जगत् सर्वं मरीचिप्रतिमं मतम् ॥ (४७।२)
vastuśūnyaṃ jagat sarvaṃ marīcipratimaṃ matam ||
मृगतृष्णाजलं यद्वन् नोच्छेदि न च शाश्वतम् । (४८।१)
mṛgatṛṣṇājalaṃ yadvan nocchedi na ca śāśvatam |
तद्वत् सर्वं जगत् प्रोक्तं नोच्छेदि न च शाश्वतम् ॥ (४८।२)
tadvat sarvaṃ jagat proktaṃ nocchedi na ca śāśvatam ||
द्रव्यम् उत्पद्यते यस्य तस्योच्छेदादिकं भवेत् । (४९।१)
dravyam utpadyate yasya tasyocchedādikaṃ bhavet |
अन्तवान् नान्तवांश् चापि लोकस् तस्य प्रसज्यते ॥ (४९।२)
antavān nāntavāṃś cāpi lokas tasya prasajyate ||
ज्ञाने सति यथा ज्ञेयं ज्ञेये ज्ञानं तथा सति । (५०।१)
jñāne sati yathā jñeyaṃ jñeye jñānaṃ tathā sati |
यत्रोभयम् अनुत्पन्नम् इति बुद्धं तदास्ति किम् ॥ (५०।२)
yatrobhayam anutpannam iti buddhaṃ tadāsti kim ||
इति मायादिदृष्टान्तैः स्फुटम् उक्त्वा भिषग्वरः । (५१।१)
iti māyādidṛṣṭāntaiḥ sphuṭam uktvā bhiṣagvaraḥ |
देशयामास सद्धर्मं सर्वदृष्टिचिकित्सकम् ॥ (५१।२)
deśayāmāsa saddharmaṃ sarvadṛṣṭicikitsakam ||
एतत् तत् परमं तत्त्वं निःस्वभावार्थदेशना । (५२।१)
etat tat paramaṃ tattvaṃ niḥsvabhāvārthadeśanā |
धर्मयाज्ञिक तेनैव धर्मयज्ञो निरुत्तरः । (५३।१)
dharmayājñika tenaiva dharmayajño niruttaraḥ |
अभीक्ष्णम् इष्टस् त्रैलोक्ये निष्कपाटो निरर्गलः ॥ (५३।२)
abhīkṣṇam iṣṭas trailokye niṣkapāṭo nirargalaḥ ||
नैरात्म्यसिंहनादो ऽयम् अद्भुतो नदितस् त्वया ॥ (५४।२)
nairātmyasiṃhanādo 'yam adbhuto naditas tvayā ||
नैःस्वाभाव्यमहानादो धर्मशङ्खः प्रपूरितः ॥ (५५।२)
naiḥsvābhāvyamahānādo dharmaśaṅkhaḥ prapūritaḥ ||
धर्मयौतुकम् आख्यातं बुद्धानां शासनामृतम् । (५६।१)
dharmayautukam ākhyātaṃ buddhānāṃ śāsanāmṛtam |
नीतार्थम् इति निर्दिष्टं धर्माणां शून्यतैव हि ॥ (५६।२)
nītārtham iti nirdiṣṭaṃ dharmāṇāṃ śūnyataiva hi ||
नेयार्था च त्वया नाथ भाषिता संवृतिश् च सा ॥ (५७।२)
neyārthā ca tvayā nātha bhāṣitā saṃvṛtiś ca sā ||
प्रज्ञापारमिताम्भोधेर् यो ऽत्यन्तम् पारम् आगतः । (५८।१)
prajñāpāramitāmbhodher yo 'tyantam pāram āgataḥ |
स पुण्यगुणरत्नाढ्यस् त्वद्गुणार्णवपारगः ॥ (५८।२)
sa puṇyaguṇaratnāḍhyas tvadguṇārṇavapāragaḥ ||
इति स्तुत्वा जगन्नाथम् अचिन्त्यम् अनिदर्शनम् । (५९।१)
iti stutvā jagannātham acintyam anidarśanam |
यद् अवाप्तं मया पुण्यं तेनास्तु त्वत्समं जगत् ॥ (५९।२)
yad avāptaṃ mayā puṇyaṃ tenāstu tvatsamaṃ jagat ||
Data courtesy of The Digital Corpus of Sanskrit.