अगस्तीयरत्नपरीक्षाAgastīyaratnaparīkṣā
AgRPar, 1
Select a line for its word-by-word analysis.
लिख्यन्ते चात्र संभिद्य यथामौल्यं यथागुणम् ॥ (१।२)
likhyante cātra saṃbhidya yathāmaulyaṃ yathāguṇam ||
महारत्नवज्रं च मौक्तिकं चैव माणिक्यं नीलम् एव च । (२।१)
mahāratnavajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlam eva ca |
उपरत्नौपरत्नानि चत्वारि कथयामि शृणुत तत् । (३।१)
uparatnauparatnāni catvāri kathayāmi śṛṇuta tat |
गोमेदं पुष्यरागं च वैडूर्यं च प्रवालकम् ॥ (३।२)
gomedaṃ puṣyarāgaṃ ca vaiḍūryaṃ ca pravālakam ||
वज्रं च मौक्तिकं श्वेतं माणिक्यं लोहितं विदुः । (४।१)
vajraṃ ca mauktikaṃ śvetaṃ māṇikyaṃ lohitaṃ viduḥ |
नीलं नीलं समाख्यातं मरकतं हरितं हितम् ॥ (४।२)
nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ hitam ||
श्वेतं पीतं च गोमेदं पुष्यरागं च पिञ्जरम् । (५।१)
śvetaṃ pītaṃ ca gomedaṃ puṣyarāgaṃ ca piñjaram |
प्रवालं लोहितं प्रोक्तं वैडूर्यं हरितपाण्डुरम् ॥ (५।२)
pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ haritapāṇḍuram ||
पौण्ड्राकरे च सौराष्ट्रे वज्रस्योत्पत्तिभूमयः ॥ (६।२)
pauṇḍrākare ca saurāṣṭre vajrasyotpattibhūmayaḥ ||
रत्नानाम् उत्तमं वज्रं यो बिभर्ति नरोत्तमः । (७।१)
ratnānām uttamaṃ vajraṃ yo bibharti narottamaḥ |
उत्तमं सर्वसत्त्वानां यथा शक्रस् तथैव सः ॥ (७।२)
uttamaṃ sarvasattvānāṃ yathā śakras tathaiva saḥ ||
अभेद्यं च तथादाह्यम् अशोष्याक्लेद्यम् एव च । (८।१)
abhedyaṃ ca tathādāhyam aśoṣyākledyam eva ca |
यथैवात्मा तथा वज्रं तस्मान् मौल्यं समर्पयेत् ॥ (८।२)
yathaivātmā tathā vajraṃ tasmān maulyaṃ samarpayet ||
मलं बिन्दुर् यवो रेखा वेषग्यम् काकपादवत् । (१०।१)
malaṃ bindur yavo rekhā veṣagyam kākapādavat |
दोषाः पञ्च परित्यज्या नानादुःखफलप्रदाः ॥ (१०।२)
doṣāḥ pañca parityajyā nānāduḥkhaphalapradāḥ ||
तुङ्गं वज्रं प्रशंसन्ति षट्कोणं लघु भास्करम् । (११।१)
tuṅgaṃ vajraṃ praśaṃsanti ṣaṭkoṇaṃ laghu bhāskaram |
सुतीक्ष्णधारम् अष्टाश्रं सर्वतो रश्मिचिक्कणम् ॥ (११।२)
sutīkṣṇadhāram aṣṭāśraṃ sarvato raśmicikkaṇam ||
दूरात् तस्य प्रणश्यन्ति वज्रं यस्य गृहे भवेत् ॥ (१२।२)
dūrāt tasya praṇaśyanti vajraṃ yasya gṛhe bhavet ||
निर्दोषे यवमात्रे तु सर्वतः कान्तिसंघृते । (१३।१)
nirdoṣe yavamātre tu sarvataḥ kāntisaṃghṛte |
पञ्चाशद् भवति मौल्यं रत्नशास्त्रे ह्य् उदाहृतम् ॥ (१३।२)
pañcāśad bhavati maulyaṃ ratnaśāstre hy udāhṛtam ||
पिण्डतो द्विगुणस्थौल्यं तौल्यं चैव यदा भवेत् । (१४।१)
piṇḍato dviguṇasthaulyaṃ taulyaṃ caiva yadā bhavet |
चतुर्गुणं भवेन् मूल्यं त्रिगुणे त्व् अष्टमं यथा ॥ (१४।२)
caturguṇaṃ bhaven mūlyaṃ triguṇe tv aṣṭamaṃ yathā ||
श्वेतो रक्तस् तथा पीतः कृष्णश् च कुलिशो भवेत् । (१५।१)
śveto raktas tathā pītaḥ kṛṣṇaś ca kuliśo bhavet |
ब्राह्मणादिक्रमेणैव जातिभेदस् तु कल्पितः ॥ (१५।२)
brāhmaṇādikrameṇaiva jātibhedas tu kalpitaḥ ||
उत्तमं ब्राह्मणे मौल्यं मध्यमं क्षत्रिये तथा । (१६।१)
uttamaṃ brāhmaṇe maulyaṃ madhyamaṃ kṣatriye tathā |
सामान्यम् वैश्यवर्णे च अधमं शूद्रजन्मनि ॥ (१६।२)
sāmānyam vaiśyavarṇe ca adhamaṃ śūdrajanmani ||
यन् मौल्यं ब्राह्मणे प्रोक्तम् पादोनं क्षत्रिये स्मृतम् । (१७।१)
yan maulyaṃ brāhmaṇe proktam pādonaṃ kṣatriye smṛtam |
वज्रम् च त्रिविधं प्रोक्तं नरो नरी नपुंसकम् । (१८।१)
vajram ca trividhaṃ proktaṃ naro narī napuṃsakam |
अष्टाश्रं चाष्टफलकं षट्कोणं चैव भास्करम् ॥ (१८।२)
aṣṭāśraṃ cāṣṭaphalakaṃ ṣaṭkoṇaṃ caiva bhāskaram ||
अर्बुदेन्द्रधनुर् वारितरं पुंवज्रम् उच्यते । (१९।१)
arbudendradhanur vāritaraṃ puṃvajram ucyate |
तद् एव चेत् पीताकारं स्त्रीवज्रं वर्तुलाय च ॥ (१९।२)
tad eva cet pītākāraṃ strīvajraṃ vartulāya ca ||
वर्तुलं कुण्ठकोणाश्रं किंचिद् उरु नपुंसकम् । (२०।१)
vartulaṃ kuṇṭhakoṇāśraṃ kiṃcid uru napuṃsakam |
स्त्रीपुंनपुंसकं वज्रं योज्यं पुंस्त्रीनपुंसकैः ॥ (२०।२)
strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ puṃstrīnapuṃsakaiḥ ||
त्यज्यं स्यान् नैव फलदं पुंवज्रेण विना क्वचित् । (२१।१)
tyajyaṃ syān naiva phaladaṃ puṃvajreṇa vinā kvacit |
ब्रह्मक्षत्रियविट्शूद्रस्वस्ववर्णफलप्रदम् ॥ (२१।२)
brahmakṣatriyaviṭśūdrasvasvavarṇaphalapradam ||
कृत्रिमत्वं यथा वज्रे कथ्यते सूरिभिः क्वचित् । (२२।१)
kṛtrimatvaṃ yathā vajre kathyate sūribhiḥ kvacit |
क्षाराम्लैर् लेपयेद् वज्रं घर्मे च परिशोधयेत् । (२२।२)
kṣārāmlair lepayed vajraṃ gharme ca pariśodhayet |
कृत्रिमं याति वैवर्ण्यम् सहजं चातिदीप्यते ॥ (२२।३)
kṛtrimaṃ yāti vaivarṇyam sahajaṃ cātidīpyate ||
सर्वत्र वर्धते मौल्यं गुणदोषस्वभावतः ॥ (२३।२)
sarvatra vardhate maulyaṃ guṇadoṣasvabhāvataḥ ||
माहेन्द्रो यं मणिर् धार्यो धनधान्यसमृद्धिदः । (२४।१)
māhendro yaṃ maṇir dhāryo dhanadhānyasamṛddhidaḥ |
पुत्रदः पवनः पूज्यः शत्रुघ्नः समराभयः ॥ (२४।२)
putradaḥ pavanaḥ pūjyaḥ śatrughnaḥ samarābhayaḥ ||
गुर्विणीभिर् न धर्तव्यो युवतीभिर् अयम् मणिः । (२५।१)
gurviṇībhir na dhartavyo yuvatībhir ayam maṇiḥ |
जठरे वज्रसंसर्गाद् गर्भाश्रवो भविष्यति ॥ (२५।२)
jaṭhare vajrasaṃsargād garbhāśravo bhaviṣyati ||
शुक्त्युद्भवाश् च विज्ञेयाश् चाष्टौ मौक्तिकजातयः ॥ (२६।२)
śuktyudbhavāś ca vijñeyāś cāṣṭau mauktikajātayaḥ ||
शङ्खशुक्त्युद्भवं श्वेतम् मुक्तारत्नम् अनुक्रमम् । (२९।१)
śaṅkhaśuktyudbhavaṃ śvetam muktāratnam anukramam |
रागस् त्रासश् च बिन्दुश् च रेखा च जलगर्भता । (२९।२)
rāgas trāsaś ca binduś ca rekhā ca jalagarbhatā |
सर्वरत्नेष्व् अमी पञ्च दोषाः साधारणा मताः । (२९।३)
sarvaratneṣv amī pañca doṣāḥ sādhāraṇā matāḥ |
क्षेत्रतोयभवा दोषा रत्नेषु न लगन्ति ते ॥ (२९।४)
kṣetratoyabhavā doṣā ratneṣu na laganti te ||
हरि श्वेतं लघु स्निग्धं रश्मिवन् निर्मलं महत् । (३०।१)
hari śvetaṃ laghu snigdhaṃ raśmivan nirmalaṃ mahat |
ख्यातम् तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम् ॥ (३०।२)
khyātam toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham ||
सुक्ष्माङ्गम् निर्मलश्यामम् ताम्राभं लवणोपमम् । (३१।१)
sukṣmāṅgam nirmalaśyāmam tāmrābhaṃ lavaṇopamam |
अर्धं च विकटम् ग्रन्थिकं मौक्तिकं त्यजेत् ॥ (३१।२)
ardhaṃ ca vikaṭam granthikaṃ mauktikaṃ tyajet ||
यावन् मूल्यम् सितस्यात्र मुक्तारत्नस्य कीर्तितम् । (३२।१)
yāvan mūlyam sitasyātra muktāratnasya kīrtitam |
चतुर्थांशविहीनं च कर्तव्यम् रत्नके मणौ ॥ (३२।२)
caturthāṃśavihīnaṃ ca kartavyam ratnake maṇau ||
तद् रत्नं लिक्तद प्रोक्तं भुक्तिमुक्तिफलप्रदम् ॥ (३३।२)
tad ratnaṃ liktada proktaṃ bhuktimuktiphalapradam ||
सच्छिद्रं कर्कशं क्षौद्रं रक्ताभं च सबिन्दुकम् । (३४।१)
sacchidraṃ karkaśaṃ kṣaudraṃ raktābhaṃ ca sabindukam |
मलिनं निष्प्रभं चित्रं भग्नम् तु मौक्तिकं त्यजेत् ॥ (३४।२)
malinaṃ niṣprabhaṃ citraṃ bhagnam tu mauktikaṃ tyajet ||
स्वच्छाभं च सुवृत्तं च गुरु स्निग्धं च निर्मलम् । (३५।१)
svacchābhaṃ ca suvṛttaṃ ca guru snigdhaṃ ca nirmalam |
तुङ्गम् इन्दुसमाभासं मुक्तारत्नम् अमौल्यकम् ॥ (३५।२)
tuṅgam indusamābhāsaṃ muktāratnam amaulyakam ||
श्वेतवर्णो भवेद् विप्रः क्षत्रियश् चार्कसंनिभः । (३६।१)
śvetavarṇo bhaved vipraḥ kṣatriyaś cārkasaṃnibhaḥ |
पीतच्छायो भवेद् वैश्यः शूद्ररुचिर् भवेत् [॥। औ३ ज़ेइछेन्झ्] ॥ (३६।२)
pītacchāyo bhaved vaiśyaḥ śūdrarucir bhavet ||
राज्यसम्पत्सुतान् सौख्यं गजवाजिपुरःसरम् । (३७।१)
rājyasampatsutān saukhyaṃ gajavājipuraḥsaram |
प्राप्नोत्य् एव सजातिः स्याद् गृहे निर्दोषशङ्खजम् ॥ (३७।२)
prāpnoty eva sajātiḥ syād gṛhe nirdoṣaśaṅkhajam ||
सुवृत्तं सुप्रभं श्वेतं गुञ्जामात्रम् अनर्धि च । (३८।१)
suvṛttaṃ suprabhaṃ śvetaṃ guñjāmātram anardhi ca |
पञ्चविंशतिमौल्यं च रत्नशास्त्रे ह्य् उदाहृतम् ॥ (३८।२)
pañcaviṃśatimaulyaṃ ca ratnaśāstre hy udāhṛtam ||
यथा च वर्धते मुक्ता तथा मौल्यं च वर्धते । (३९।१)
yathā ca vardhate muktā tathā maulyaṃ ca vardhate |
क्षीयते च यथा मुक्ता तथा मौल्यं हि हीयते ॥ (३९।२)
kṣīyate ca yathā muktā tathā maulyaṃ hi hīyate ||
गुञ्जानां चतुःषष्ट्या भारेण च मितं च तत् । (४०।१)
guñjānāṃ catuḥṣaṣṭyā bhāreṇa ca mitaṃ ca tat |
उत्तमं मौक्तिकं तम्रु कोटिमूल्यस्य भाजनम् ॥ (४०।२)
uttamaṃ mauktikaṃ tamru koṭimūlyasya bhājanam ||
मौक्तिके यदि संदेहः कृत्रिमे सहजे ऽपि वा । (४१।१)
mauktike yadi saṃdehaḥ kṛtrime sahaje 'pi vā |
परीक्षा तत्र कर्तव्या रत्नशास्त्रविशारदैः ॥ (४१।२)
parīkṣā tatra kartavyā ratnaśāstraviśāradaiḥ ||
स्वेदयेद् अग्निना वापि श्वेतवस्त्रेण वेष्टयेत् । (४२।१)
svedayed agninā vāpi śvetavastreṇa veṣṭayet |
हस्ते मौक्तिकम् आदाय शालितुष्येन मर्दयेत् । (४२।२)
haste mauktikam ādāya śālituṣyena mardayet |
कृत्रिमं भङ्गम् आयाति सहजं चातिदीप्यते ॥ (४२।३)
kṛtrimaṃ bhaṅgam āyāti sahajaṃ cātidīpyate ||
Data courtesy of The Digital Corpus of Sanskrit.