अमृतबिन्दूपनिषत्Amṛtabindūpaniṣat
Chapter 1
Select a line for its word-by-word analysis.
ॐ शास्त्राण्य् अधीत्य मेधावी अभ्यस्य च पुनः पुनः । (१।१)
oṃ śāstrāṇy adhītya medhāvī abhyasya ca punaḥ punaḥ |
परमं ब्रह्म विद्याया उल्कावान् नान्यथोत्सजेत् ॥ (१।२)
paramaṃ brahma vidyāyā ulkāvān nānyathotsajet ||
ॐकारं रथम् आरुह्य विष्णुं कृत्वा तु सारथिम् । (२।१)
oṃkāraṃ ratham āruhya viṣṇuṃ kṛtvā tu sārathim |
तावद् रथेन गन्तव्यं यावद् रथपथि स्थितः । (३।१)
tāvad rathena gantavyaṃ yāvad rathapathi sthitaḥ |
छित्त्वा रथपन्थानं रथम् उत्सृज्य गच्छति ॥ (३।२)
chittvā rathapanthānaṃ ratham utsṛjya gacchati ||
मात्रा लिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जिता । (४।१)
mātrā liṅgapadaṃ tyaktvā śabdavyañjanavarjitā |
चिन्तयेद् आत्मनो रश्मीन् प्रत्याहारः स उच्यते ॥ (५।२)
cintayed ātmano raśmīn pratyāhāraḥ sa ucyate ||
प्रत्याहारस् तथा ध्यानं प्राणायामो ऽथ धारणा । (६।१)
pratyāhāras tathā dhyānaṃ prāṇāyāmo 'tha dhāraṇā |
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ (७।२)
tathendriyakṛtā doṣā dahyante prāṇanigrahāt ||
प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषम् । (८।१)
prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam |
Data courtesy of The Digital Corpus of Sanskrit.