देवीकालोत्तरागमDevīkālottarāgama
DevīĀgama, 1
Select a line for its word-by-word analysis.
सर्वेषामपि मुक्त्यर्थं मुक्तिमार्गस्य दर्शनम् । (१।१)
sarveṣāmapi muktyarthaṃ muktimārgasya darśanam |
प्रविशन्ति यतो मोक्षं ज्ञानिनो ध्वस्तकल्मषम् ॥ (२।३)
praviśanti yato mokṣaṃ jñānino dhvastakalmaṣam ||
अतो हि निर्भयो विद्वान् निःशङ्को विगतस्पृहः । (४।१)
ato hi nirbhayo vidvān niḥśaṅko vigataspṛhaḥ |
ज्ञानोत्साहपरो भूयात् श्रद्दधानो निराकुलः ॥ (४।२)
jñānotsāhaparo bhūyāt śraddadhāno nirākulaḥ ||
भजेत् कालोत्तरं देवि मुमुक्षुर्योगतत्परः ॥ (५।२)
bhajet kālottaraṃ devi mumukṣuryogatatparaḥ ||
स ब्रह्मा स शिवो विष्णुः स इन्द्रः स षडाननः । (६।१)
sa brahmā sa śivo viṣṇuḥ sa indraḥ sa ṣaḍānanaḥ |
चलद्वायुसमं चित्तं ध्रियते येन निश्चलम् ॥ (७।२)
caladvāyusamaṃ cittaṃ dhriyate yena niścalam ||
सा प्रज्ञा तदिह स्थैर्यं तत्पुण्यं व्यवसायिनाम् ॥ (८।२)
sā prajñā tadiha sthairyaṃ tatpuṇyaṃ vyavasāyinām ||
तस्माच्चित्तं स्थिरं कुर्यात् प्रज्ञया परया बुधः ॥ (१०।२)
tasmāccittaṃ sthiraṃ kuryāt prajñayā parayā budhaḥ ||
एकान्तिकं सुखं यत्र तथाइवात्यन्तिकं भवेत् । (११।१)
ekāntikaṃ sukhaṃ yatra tathāivātyantikaṃ bhavet |
निष्कर्मणि परे तत्त्वे को न रज्येत पण्डितः ॥ (११।२)
niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ ||
अस्मिताकलया युक्तं चैतन्यं सकलं स्मृतम् । (१३।१)
asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam |
अस्मितारहितं चेतश् चैतन्यं शक्तिरुच्यते ॥ (१३।२)
asmitārahitaṃ cetaś caitanyaṃ śaktirucyate ||
तथा प्रकाशितं विश्वं शक्तिध्यानमुदाहृतम् । (१४।१)
tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam |
सर्वालम्बविनिर्मुक्तं निष्कलं ज्ञानमुच्यते ॥ (१४।२)
sarvālambavinirmuktaṃ niṣkalaṃ jñānamucyate ||
रूपमित्यादिकं किंचिद् ध्येयं नैव कदाचन ॥ (१६।२)
rūpamityādikaṃ kiṃcid dhyeyaṃ naiva kadācana ||
कुहकं मन्त्रजालं च प्राणायामादि धारणम् । (१७।१)
kuhakaṃ mantrajālaṃ ca prāṇāyāmādi dhāraṇam |
सर्वमेतन्न कर्तव्यं मोक्षमक्षयमिच्छता ॥ (१७।२)
sarvametanna kartavyaṃ mokṣamakṣayamicchatā ||
केवलं ज्ञानमित्युक्तं वेदितव्यं न किंचन ॥ (१८।२)
kevalaṃ jñānamityuktaṃ veditavyaṃ na kiṃcana ||
बहिश्चित्तं निवार्यैव विन्दन् लोके न सीदति ॥ (१९।२)
bahiścittaṃ nivāryaiva vindan loke na sīdati ||
नात्र किंचिद्बहिर्नान्तं न मध्यं नाप्यधः क्वचित् । (२०।१)
nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit |
सर्वाकारं निराकारं स्वसंवेद्यं विराजते ॥ (२०।२)
sarvākāraṃ nirākāraṃ svasaṃvedyaṃ virājate ||
यद्यदालोक्य यो जन्तुः कुरुते कर्मसञ्चयम् । (२१।१)
yadyadālokya yo jantuḥ kurute karmasañcayam |
तद्गतिर्जायते यस्मान् निरालोकं तु चिन्तयेत् ॥ (२१।२)
tadgatirjāyate yasmān nirālokaṃ tu cintayet ||
हेतुर्नास्ति फलं नास्ति नास्ति कर्म स्वभावतः । (२२।१)
heturnāsti phalaṃ nāsti nāsti karma svabhāvataḥ |
असद्भूतमिदं सर्वं नास्ति लोको न लौकिकः ॥ (२२।२)
asadbhūtamidaṃ sarvaṃ nāsti loko na laukikaḥ ||
व्योमाकारं महाशून्यं व्यापकं यो न भावयेत् । (२४।१)
vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet |
ज्ञानोत्पत्तिनिमित्तं तु क्रियाश्चर्याः प्रकीर्तिताः । (२५।१)
jñānotpattinimittaṃ tu kriyāścaryāḥ prakīrtitāḥ |
योगं सालम्बनं त्यक्त्वा निष्प्रपञ्चं विचिन्तयेत् ॥ (२५।२)
yogaṃ sālambanaṃ tyaktvā niṣprapañcaṃ vicintayet ||
पातालात् शक्तिपर्यन्तं सर्वमेतदभीप्सितम् । (२६।१)
pātālāt śaktiparyantaṃ sarvametadabhīpsitam |
भग्नं यैः शून्यमन्त्रेण ते स्मृताः शून्यवेदिनः ॥ (२६।२)
bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ ||
सर्वशून्यपदे स्थित्वा ततो निर्वाणमेष्यति ॥ (२७।२)
sarvaśūnyapade sthitvā tato nirvāṇameṣyati ||
सर्वतत्त्वाद्यसंभिन्नं देहाद् भिन्नं तथैव च । (२८।१)
sarvatattvādyasaṃbhinnaṃ dehād bhinnaṃ tathaiva ca |
अहमस्माद्यसम्भिन्नं चैतन्यं सर्वतोमुखम् ॥ (२८।२)
ahamasmādyasambhinnaṃ caitanyaṃ sarvatomukham ||
आकाशमिव सर्वं तु सबाह्याभ्यन्तरं प्रिये । (२९।१)
ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye |
परानन्दमरूपं तु पश्यन्नानन्दभाग्भवेत् ॥ (२९।२)
parānandamarūpaṃ tu paśyannānandabhāgbhavet ||
निरिन्धनो यथा वह्निः स्वयमेव प्रशाम्यति । (३०।१)
nirindhano yathā vahniḥ svayameva praśāmyati |
ग्राह्याभावान्मनस्तद्वत् स्वयमेव प्रलीयते ॥ (३०।२)
grāhyābhāvānmanastadvat svayameva pralīyate ||
मोहिका मूर्छिका माया स्वप्नश्चेति चतुर्विधः । (३१।१)
mohikā mūrchikā māyā svapnaśceti caturvidhaḥ |
सुषुप्तिर्जागृतिश्चैव सर्वमेतत् परित्यजेत् ॥ (३१।२)
suṣuptirjāgṛtiścaiva sarvametat parityajet ||
देहात् सूक्ष्मगतात् प्राणाच्चित्ताद् बुद्धेरहङ्कृतेः । (३२।१)
dehāt sūkṣmagatāt prāṇāccittād buddherahaṅkṛteḥ |
सर्वस्माद्भिन्न एवाहं चिन्तयन् लभते चितम् ॥ (३२।२)
sarvasmādbhinna evāhaṃ cintayan labhate citam ||
बोधयित्वा प्रयत्नेन कुर्यात् स्वस्थं पुनः पुनः ॥ (३३।२)
bodhayitvā prayatnena kuryāt svasthaṃ punaḥ punaḥ ||
यदा स्थिरं भवेच्चित्तं चालयन्न कथंचन । (३४।१)
yadā sthiraṃ bhaveccittaṃ cālayanna kathaṃcana |
न किंचिच्चिन्तयेत् तत्र स्थिरमेव तु कारयेत् ॥ (३४।२)
na kiṃciccintayet tatra sthirameva tu kārayet ||
आश्रयालम्बनं चित्तं तद्वत् कुर्यान्निराश्रयम् । (३५।१)
āśrayālambanaṃ cittaṃ tadvat kuryānnirāśrayam |
चञ्चलं निश्चलं कुर्यात् निश्चलं न तु चालयेत् ॥ (३५।२)
cañcalaṃ niścalaṃ kuryāt niścalaṃ na tu cālayet ||
तत्तद्रूपं स्वकं ध्यायेद् व्याप्तं चैव तु निर्मलम् ॥ (३६।२)
tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam ||
चलद्वायुसमं चित्तं निश्चलं ध्रियते हि यत् ॥ (३७।२)
caladvāyusamaṃ cittaṃ niścalaṃ dhriyate hi yat ||
नैवोर्ध्वं धारयेच्चित्तं न मध्यं नाप्यधः क्वचित् । (३८।१)
naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit |
अन्तर्भावविनिर्मुक्तं सदा कुर्यान्निराश्रयम् ॥ (३८।२)
antarbhāvavinirmuktaṃ sadā kuryānnirāśrayam ||
निद्रायां बोधयेच्चित्तं विक्षिप्तं शमयेत् पुनः । (३९।१)
nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ |
पक्षद्वयपरित्यागे सम्प्राप्ते नैव चालयेत् ॥ (३९।२)
pakṣadvayaparityāge samprāpte naiva cālayet ||
निराश्रयं सदा चित्तं सर्वालम्बनवर्जितम् । (४०।१)
nirāśrayaṃ sadā cittaṃ sarvālambanavarjitam |
मनोऽवस्थाविनिर्मुक्तं विज्ञेयं मुक्तिलक्षणम् ॥ (४०।२)
mano'vasthāvinirmuktaṃ vijñeyaṃ muktilakṣaṇam ||
यज्ज्ञानं जायते स्पष्टं तदभ्यासपरो भवेत् ॥ (४१।२)
yajjñānaṃ jāyate spaṣṭaṃ tadabhyāsaparo bhavet ||
ये ध्यायन्ति परं शून्यं निष्कलं निरवस्थितम् । (४२।१)
ye dhyāyanti paraṃ śūnyaṃ niṣkalaṃ niravasthitam |
ते यान्ति परमं स्थानं जन्ममृत्युविवर्जितम् ॥ (४२।२)
te yānti paramaṃ sthānaṃ janmamṛtyuvivarjitam ||
देवा देव्यस्तथा चान्ये धर्माधर्मौ च तत्फलम् । (४३।१)
devā devyastathā cānye dharmādharmau ca tatphalam |
आश्रयाश्रयिविज्ञानं संसारस्य च बन्धनम् ॥ (४३।२)
āśrayāśrayivijñānaṃ saṃsārasya ca bandhanam ||
आश्रयो द्वन्द्वमित्युक्तं द्वन्द्वत्यागात् परोदयः । (४४।१)
āśrayo dvandvamityuktaṃ dvandvatyāgāt parodayaḥ |
जीवन्मुक्तस्तदा योगी देहत्यागाद् विमुच्यते ॥ (४४।२)
jīvanmuktastadā yogī dehatyāgād vimucyate ||
वैराग्येण वपुस्त्यागो न वै कार्यो मनीषिणा । (४५।१)
vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā |
सर्वोपाधिविनिर्मुक्तं चिद्रूपं यन्निरन्तरम् । (४७।१)
sarvopādhivinirmuktaṃ cidrūpaṃ yannirantaram |
तच्छिवो ऽहमिति ध्यात्वा सर्वासक्तिं विसर्जयेत् ॥ (४७।२)
tacchivo 'hamiti dhyātvā sarvāsaktiṃ visarjayet ||
देशजात्यादिसम्बद्धान् वर्णाश्रमसमन्वितान् । (४८।१)
deśajātyādisambaddhān varṇāśramasamanvitān |
भावानेतान् परित्यज्य स्वभावं भावयेद्बुधः ॥ (४८।२)
bhāvānetān parityajya svabhāvaṃ bhāvayedbudhaḥ ||
अहमेको न मे कश्चिन् नाहमन्यस्य कस्यचित् । (४९।१)
ahameko na me kaścin nāhamanyasya kasyacit |
न तं पश्यामि यस्याहं तं न पश्यामि यो मम ॥ (४९।२)
na taṃ paśyāmi yasyāhaṃ taṃ na paśyāmi yo mama ||
इति स्यान्निश्चितो मुक्तो बद्धः स्यादन्यथा पुमान् ॥ (५०।२)
iti syānniścito mukto baddhaḥ syādanyathā pumān ||
यो ऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः । (५२।१)
yo 'sau sarveṣu śāstreṣu paṭhyate hyaja īśvaraḥ |
अकायो निर्गुणो ह्यात्मा सो ऽहमस्मि न संशयः ॥ (५२।२)
akāyo nirguṇo hyātmā so 'hamasmi na saṃśayaḥ ||
विज्ञाप्तिमात्रो हि सदा विशुद्धः सर्वत्र यस्मात्सततं विमुक्तः । (५३।१)
vijñāptimātro hi sadā viśuddhaḥ sarvatra yasmātsatataṃ vimuktaḥ |
नादेयहेयो ह्यहमप्रतर्क्यस् तस्मात्सदा ब्रह्ममयो विशोकः ॥ (५३।२)
nādeyaheyo hyahamapratarkyas tasmātsadā brahmamayo viśokaḥ ||
आ मस्तकं पादतलावसानं सान्तर्बहिश्चर्मपटावनद्धम् । (५४।१)
ā mastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham |
तत्कृत्स्नमेवामृतरूपमन्यच् चिद्रूपमात्मानमनन्यसिद्धिम् ॥ (५४।२)
tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim ||
ईशो ऽहमेवास्य चराचरस्य पिता च माता च पितामहश्च । (५५।१)
īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca |
ध्यानं समास्थाय पदं चतुर्थं ध्यायन्ति मामेव विमुक्तिकामाः ॥ (५५।२)
dhyānaṃ samāsthāya padaṃ caturthaṃ dhyāyanti māmeva vimuktikāmāḥ ||
ब्रह्मादिभिर्देवमनुष्यनागैर् गन्धर्वयक्षाप्सरसां गणैश्च । (५६।१)
brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca |
यज्ञैरनेकैरहमेव पूज्यो मामेव सर्वे प्रतिपूजयन्ति ॥ (५६।२)
yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti ||
तपोभिरुग्रैर्विविधैश्च दानैर् मामेव सर्वे प्रतिपूजयन्ति । (५७।१)
tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti |
भूतानि चाहं स्थिरजङ्गमानि यावन्ति चान्यान्यहमेव तानि ॥ (५७।२)
bhūtāni cāhaṃ sthirajaṅgamāni yāvanti cānyānyahameva tāni ||
न स्थूलसूक्ष्मो न च शून्यरूपो ज्ञानैकरूपो जगदेकबन्धुः । (५८।१)
na sthūlasūkṣmo na ca śūnyarūpo jñānaikarūpo jagadekabandhuḥ |
निरन्तरो निर्मल ईश्वरो ऽहं स्वप्नाद्यवस्थाच्युतिनिष्प्रपञ्चः ॥ (५८।२)
nirantaro nirmala īśvaro 'haṃ svapnādyavasthācyutiniṣprapañcaḥ ||
अनादिविज्ञानमजं पुराणं गुहाशयं निष्कलमप्रपञ्चम् । (५९।१)
anādivijñānamajaṃ purāṇaṃ guhāśayaṃ niṣkalamaprapañcam |
निरञ्जनं निष्प्रतिमं निरीशम् अदृश्यमग्राह्यमचिन्त्यरूपम् ॥ (५९।२)
nirañjanaṃ niṣpratimaṃ nirīśam adṛśyamagrāhyamacintyarūpam ||
सनातनं ब्रह्म निरन्तरं यत् पदे पदे सो ऽहमिति प्रपश्येत् । (६०।१)
sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet |
यो भावतस्तिष्ठति निष्प्रकम्पः स ब्रह्मभूतो ऽमृततामुपैति ॥ (६०।२)
yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti ||
आचारं कथ्यमानं तु साम्प्रतं शृणु तं मया ॥ (६१।२)
ācāraṃ kathyamānaṃ tu sāmprataṃ śṛṇu taṃ mayā ||
न स्नानं न जपः पूजा होमो नैव च साधनम् । (६२।१)
na snānaṃ na japaḥ pūjā homo naiva ca sādhanam |
अग्निकार्यादिकार्यं च नैतस्यास्ति महेश्वरि ॥ (६२।२)
agnikāryādikāryaṃ ca naitasyāsti maheśvari ||
नियमो ऽपि न तस्यास्ति क्षेत्रपीठे च सेवनम् । (६३।१)
niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam |
नार्चनं पितृकार्यादि तीर्थयात्रा व्रतानि च ॥ (६३।२)
nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca ||
धर्माधर्मफलं नास्ति न तिथिर्लौकिकक्रिया । (६४।१)
dharmādharmaphalaṃ nāsti na tithirlaukikakriyā |
संत्यजेत्सर्वकर्माणि लोकाचारं च सर्वशः ॥ (६४।२)
saṃtyajetsarvakarmāṇi lokācāraṃ ca sarvaśaḥ ||
संकल्पं च विकल्पं च ये चान्ये कुलधर्मिकाः ॥ (६५।२)
saṃkalpaṃ ca vikalpaṃ ca ye cānye kuladharmikāḥ ||
प्रत्यक्षेणापि लभ्येरन् नैव गृह्णीत साधकः ॥ (६६।२)
pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ ||
सर्वे ते पशुबन्धाः स्युर् अधोमार्गप्रदायकाः । (६७।१)
sarve te paśubandhāḥ syur adhomārgapradāyakāḥ |
एतैर्नास्ति परा मुक्तिश् चिद्रूपं व्यापकं विना ॥ (६७।२)
etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā ||
येन केन विशेषेण सर्वावस्थो ऽपि योगधृक् । (६८।१)
yena kena viśeṣeṇa sarvāvastho 'pi yogadhṛk |
क्षेत्रपीठे च सन्देहाद् वर्जयेद्यदि कौतुकम् ॥ (६८।२)
kṣetrapīṭhe ca sandehād varjayedyadi kautukam ||
न नाशयेद् बुधो जीवान् परमार्थमतिर्यतः ॥ (६९।२)
na nāśayed budho jīvān paramārthamatiryataḥ ||
न मूलोत्पाटनं कुर्यात् पत्त्रच्छेदं विवर्जयेत् । (७०।१)
na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet |
भूतपीडां न कुर्वीत पुष्पाणां च निकृन्तनम् ॥ (७०।२)
bhūtapīḍāṃ na kurvīta puṣpāṇāṃ ca nikṛntanam ||
स्वयम्पतितपुष्पैस्तु कर्तव्यं शिवपूजनम् । (७१।१)
svayampatitapuṣpaistu kartavyaṃ śivapūjanam |
न कुर्यात् क्षुद्रकर्माणि काष्ठपाषाणपूजनम् ॥ (७२।२)
na kuryāt kṣudrakarmāṇi kāṣṭhapāṣāṇapūjanam ||
समो ऽमित्रे च मित्रे च समो लोष्टे च काञ्चने । (७३।१)
samo 'mitre ca mitre ca samo loṣṭe ca kāñcane |
समदृष्टिस्तु कर्तव्या यथात्मनि तथा परे । (७५।१)
samadṛṣṭistu kartavyā yathātmani tathā pare |
विवादं लोकगोष्ठीं च कलहाश्च विवर्जयेत् ॥ (७५।२)
vivādaṃ lokagoṣṭhīṃ ca kalahāśca vivarjayet ||
शास्त्रगोष्ठीं न कुर्वीत कुभाषितसुभाषितान् ॥ (७६।१)
śāstragoṣṭhīṃ na kurvīta kubhāṣitasubhāṣitān ||
ईर्ष्यां पैशुन्यदम्भे च रागं मात्सर्यमेव च । (७७।१)
īrṣyāṃ paiśunyadambhe ca rāgaṃ mātsaryameva ca |
कामक्रोधौ भयं शोकं त्यजेत्सर्वं शनैः शनैः ॥ (७७।२)
kāmakrodhau bhayaṃ śokaṃ tyajetsarvaṃ śanaiḥ śanaiḥ ||
सर्वद्वन्द्वविनिर्मुक्तः सन्ततं जनवर्जितः । (७८।१)
sarvadvandvavinirmuktaḥ santataṃ janavarjitaḥ |
ज्ञानेनैव यथा मोक्षस् तथा सिद्धिर्निरर्थिका । (७९।१)
jñānenaiva yathā mokṣas tathā siddhirnirarthikā |
तथापि भोगमिच्छन्तः सिद्धिमिच्छन्ति साधकाः ॥ (७९।२)
tathāpi bhogamicchantaḥ siddhimicchanti sādhakāḥ ||
तथापि मुच्यते देही पतिं विज्ञाय निर्मलम् ॥ (८०।२)
tathāpi mucyate dehī patiṃ vijñāya nirmalam ||
पञ्चभूतात्मको देहः शिवस्तत्रैव तिष्ठति । (८१।१)
pañcabhūtātmako dehaḥ śivastatraiva tiṣṭhati |
शिवाद्यवनिपर्यन्तो लोको ऽयं शङ्करात्मकः ॥ (८१।२)
śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ ||
ईदृशं ज्ञानिनं दृष्ट्वा पूजयन्ति च ये नराः । (८२।१)
īdṛśaṃ jñāninaṃ dṛṣṭvā pūjayanti ca ye narāḥ |
गन्धं पुष्पं फलं धूपं स्नानं वस्त्रं च भोजनम् ॥ (८२।२)
gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam ||
तथैव ते विमुच्यन्ते मुक्तिमार्गाभिकाङ्क्षिणः ॥ (८३।२)
tathaiva te vimucyante muktimārgābhikāṅkṣiṇaḥ ||
स्तुतिनिन्दाकरास्तस्य पुण्यपापे समाप्नुयुः । (८४।१)
stutinindākarāstasya puṇyapāpe samāpnuyuḥ |
यज्ज्ञानाचरणं पृष्टं तत् सर्वं कथितं मया । (८४।२)
yajjñānācaraṇaṃ pṛṣṭaṃ tat sarvaṃ kathitaṃ mayā |
Data courtesy of The Digital Corpus of Sanskrit.