GaṇaKār, 1
Select a line for its word-by-word analysis.
पञ्चकास् त्व् अष्ट विज्ञेया गणश् चैकस् त्रिकात्मकः । (१।१)
pañcakās tv aṣṭa vijñeyā gaṇaś caikas trikātmakaḥ |
वेत्ता नवगणस्यास्य संस्कर्ता गुरुर् उच्यते ॥ (१।२)
vettā navagaṇasyāsya saṃskartā gurur ucyate ||
गुरुभक्तिः प्रसादश् च मतेर् द्वंद्वजयस् तथा । (३।१)
gurubhaktiḥ prasādaś ca mater dvaṃdvajayas tathā |
धर्मश् चैवाप्रमादश् च बलं पञ्चविधं स्मृतम् ॥ (३।२)
dharmaś caivāpramādaś ca balaṃ pañcavidhaṃ smṛtam ||
व्यक्ताव्यक्तं जयच्छेदो निष्ठा चैवेह पञ्चमी । (५।१)
vyaktāvyaktaṃ jayacchedo niṣṭhā caiveha pañcamī |
द्रव्यं कालः क्रिया मूर्तिर् गुरुश् चैवेह पञ्चमः ॥ (५।२)
dravyaṃ kālaḥ kriyā mūrtir guruś caiveha pañcamaḥ ||
ज्ञानं तपो ऽथ नित्यत्वं स्थितिः सिद्धिश् च पञ्चमी । (६।१)
jñānaṃ tapo 'tha nityatvaṃ sthitiḥ siddhiś ca pañcamī |
प्रसादश्चैव लाभानामुपायाः पञ्च निश्चिताः ॥ (७।२)
prasādaścaiva lābhānāmupāyāḥ pañca niścitāḥ ||
मिथ्याज्ञानमधर्मश्च सक्तिहेतुश् च्युतिस्तथा । (८।१)
mithyājñānamadharmaśca saktihetuś cyutistathā |
पशुत्वं मूलं पञ्चैते तन्त्रे हेयाधिकारतः ॥ (८।२)
paśutvaṃ mūlaṃ pañcaite tantre heyādhikārataḥ ||
Data courtesy of The Digital Corpus of Sanskrit.