नादबिन्दूपनिषत्Nādabindūpaniṣat
Chapter 1
Select a line for its word-by-word analysis.
ॐ अकारो दक्षिणः पक्ष उकारस् तूत्तरः स्मृतः । (१।१)
oṃ akāro dakṣiṇaḥ pakṣa ukāras tūttaraḥ smṛtaḥ |
मकारस् तस्य पुच्छं वा अर्धमात्रा शिरस् तथा ॥ (१।२)
makāras tasya pucchaṃ vā ardhamātrā śiras tathā ||
पादौ रजस् तमस् तस्य शरीरं सत्त्वम् उच्यते । (२।१)
pādau rajas tamas tasya śarīraṃ sattvam ucyate |
धर्मश् च दक्षिणं चक्षुर् अधर्मश् चोत्तरं स्मृतम् ॥ (२।२)
dharmaś ca dakṣiṇaṃ cakṣur adharmaś cottaraṃ smṛtam ||
भूर् लोकः पादयोस् तस्य भुवर्लोकस् तु जानुनोः । (३।१)
bhūr lokaḥ pādayos tasya bhuvarlokas tu jānunoḥ |
स्वर् लोकः कटिदेशे तु नाभिदेशे महर् जगत् ॥ (३।२)
svar lokaḥ kaṭideśe tu nābhideśe mahar jagat ||
भ्रुवोर् ललाटमध्ये तु सत्यलोको व्यवस्थितः ॥ (४।२)
bhruvor lalāṭamadhye tu satyaloko vyavasthitaḥ ||
परमा चार्धमात्रा च वारुणीं तां विदुर् बुधाः ॥ (७।२)
paramā cārdhamātrā ca vāruṇīṃ tāṃ vidur budhāḥ ||
पञ्चमीनाम् अधेया च षष्ठी चैन्द्री विधीयते । (१०।१)
pañcamīnām adheyā ca ṣaṣṭhī caindrī vidhīyate |
एकादशी भवेन् मौनी ब्राह्मीति द्वादशी मता ॥ (११।२)
ekādaśī bhaven maunī brāhmīti dvādaśī matā ||
प्रथमायां तु मात्रायां यदि प्राणैर् वियुज्यते । (१२।१)
prathamāyāṃ tu mātrāyāṃ yadi prāṇair viyujyate |
स राजा भारते वर्षे सार्वभौमः प्रजायते ॥ (१२।२)
sa rājā bhārate varṣe sārvabhaumaḥ prajāyate ||
द्वितीयायां समुत्क्रान्तो भवेद् यक्षो महात्मवान् । (१३।१)
dvitīyāyāṃ samutkrānto bhaved yakṣo mahātmavān |
विद्याधरस् तृतीयायां गन्धर्वस् तु चतुर्थिकाम् ॥ (१३।२)
vidyādharas tṛtīyāyāṃ gandharvas tu caturthikām ||
पञ्चम्याम् अथ मात्रायां यदि प्राणैर् वियुज्यते । (१४।१)
pañcamyām atha mātrāyāṃ yadi prāṇair viyujyate |
षष्ठ्याम् इन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् । (१५।१)
ṣaṣṭhyām indrasya sāyujyaṃ saptamyāṃ vaiṣṇavaṃ padam |
अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा ॥ (१५।२)
aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā ||
नवम्यां च महर्लोकं दशम्यां च ध्रुवं व्रजेत् । (१६।१)
navamyāṃ ca maharlokaṃ daśamyāṃ ca dhruvaṃ vrajet |
एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् ॥ (१६।२)
ekādaśyāṃ tapolokaṃ dvādaśyāṃ brahma śāśvatam ||
सदोदितं परं ब्रह्म ज्योतिषाम् उदयो यतः ॥ (१७।२)
sadoditaṃ paraṃ brahma jyotiṣām udayo yataḥ ||
अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् । (१८।१)
atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet |
तद्भक्तस् तत्समासक्तः शनैर् मुञ्चेत् कलेवरम् । (१९।१)
tadbhaktas tatsamāsaktaḥ śanair muñcet kalevaram |
Data courtesy of The Digital Corpus of Sanskrit.