रसाध्यायRasādhyāya

RAdhy, 1

1 of 1 · 971 verses

Select a line for its word-by-word analysis.

1.1१.१

सिद्धिः श्रीनामतो येषां भवेत्सर्वेप्सितं श्रियाम् । (१।१)

siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām |

1.2१.२

नत्वा तानर्हतः कुर्वे कङ्कालाध्यायवार्त्तिकम् ॥ (१।२)

natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam ||

2.1२.१

गुरुभ्यः किंचिदाकर्ण्य तज्ज्ञैः संसृज्य किंचन । (२।१)

gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana |

2.2२.२

किंचिदप्यनुभूयासौ ग्रन्थो विव्रीयते मया ॥ (२।२)

kiṃcidapyanubhūyāsau grantho vivrīyate mayā ||

3.1३.१

इम्पोर्तन्चे ओड़् पेर्सोनल् ओब्सेर्वतिओन्प्रोक्तोऽपि गुरुणा साक्षाद्धातुवादो न सिध्यति । (३।१)

importance of personal observationprokto'pi guruṇā sākṣāddhātuvādo na sidhyati |

3.2३.२

यावन् न दृश्यते द्विस्त्रिर्गुरुपार्श्वे क्रियाविधिः ॥ (३।२)

yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ ||

4.1४.१

यस्मात्तस्मादपि श्रुत्वा यत्र कुत्रापि वीक्ष्य च । (४।१)

yasmāttasmādapi śrutvā yatra kutrāpi vīkṣya ca |

4.2४.२

द्रव्यव्ययं प्रकुर्वन्तो मुधा ताम्यन्ति बालिशाः ॥ (४।२)

dravyavyayaṃ prakurvanto mudhā tāmyanti bāliśāḥ ||

5.1५.१

प्रसन्नीभूय चेत्सर्वं दर्शयेत्कर्म सद्गुरुः । (५।१)

prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ |

5.2५.२

लीलयापि तदा सर्वे योगाः सिध्यन्त्यसंशयम् ॥ (५।२)

līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam ||

6.1६.१

ततोऽत्र व्यक्तम् उक्तेऽपि ग्रन्थार्थे मुख्यनिश्चयात् । (६।१)

tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt |

6.2६.२

गुरूनुपेक्ष्य नो कार्यो धातुवादे परिश्रमः ॥ (६।२)

gurūnupekṣya no kāryo dhātuvāde pariśramaḥ ||

7.1७.१

वक्ति यो न स जानाति यो जानाति न वक्ति सः । (७।१)

vakti yo na sa jānāti yo jānāti na vakti saḥ |

7.2७.२

ततो यत्रापि तत्रापि प्रसार्यं न मुखं बुधैः ॥ (७।२)

tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ ||

8.1८.१

रसगुट्यञ्जनाभिज्ञः श्रीकङ्कालययोग्यभूत् । (८।१)

rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt |

8.2८.२

तेन स्वशिष्यशिक्षार्थं रसतत्त्वं निवेदितम् ॥ (८।२)

tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam ||

9.1९.१

श्रीकङ्कालयशिष्योऽपि स्वान्योपकृतये कृती । (९।१)

śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī |

9.2९.२

एकविंशत्यधीकारं रसाध्यायं निबद्धवान् ॥ (९।२)

ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān ||

10.1१०.१

श्रीभैरवं प्रणम्यादौ सर्वज्ञं त्रिजगत्प्रभुम् । (१०।१)

śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum |

10.2१०.२

श्रीभारतीं च विघ्नेशं वन्दे प्रत्यूहशान्तये ॥ (१०।२)

śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye ||

11.1११.१

ब्रह्मचर्यं तपः कार्यं हविष्यान्नस्य भोजनम् । (११।१)

brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam |

11.2११.२

क्रियाभ्रष्टे न सिध्यन्ति तपोनष्टे फलन्ति न ॥ (११।२)

kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na ||

12.1१२.१

अथाध्यायं समायातं श्रीकङ्कालययोगिनः । (१२।१)

athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ |

12.2१२.२

वदामि व्यञ्जितो यत्र युक्तिभिः शृङ्खलारसः ॥ (१२।२)

vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ ||

13.1१३.१

सूतदोषांस् ततः शुद्धिं संस्कारात् प्राक् वदाम्यहम् । (१३।१)

sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham |

13.2१३.२

रसानां फलमुत्पत्तिं देहलोहरसायनम् ॥ (१३।२)

rasānāṃ phalamutpattiṃ dehaloharasāyanam ||

14.1१४.१

रसकञ्चुकाःमृन्मयः कञ्चुकश्चैको द्विकः पाषाणकञ्चुकः । (१४।१)

rasakañcukāḥmṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ |

14.2१४.२

तृतीयो जलजातश्च द्वौ द्वौ च नागवङ्गजौ ॥ (१४।२)

tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau ||

15.1१५.१

कपालिकालिका वङ्गे नागे श्यामकपालिके । (१५।१)

kapālikālikā vaṅge nāge śyāmakapālike |

15.2१५.२

यादृशा च तरा दुग्धे तद्रूपे द्वे कपालिके ॥ (१५।२)

yādṛśā ca tarā dugdhe tadrūpe dve kapālike ||

16.1१६.१

पञ्चवर्णा भवेत् श्यामा कालिका कृष्णवर्णिका । (१६।१)

pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā |

16.2१६.२

सदा सूतस्य जायन्ते सहजाः सप्त कञ्चुकाः ॥ (१६।२)

sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ ||

17.1१७.१

रसदोषाःमलदोषो भवेदेको द्वितीयो वह्निसम्भवः । (१७।१)

rasadoṣāḥmaladoṣo bhavedeko dvitīyo vahnisambhavaḥ |

17.2१७.२

विषदोषस्तृतीयस्तु चतुर्थो दर्पसंज्ञकः ॥ (१७।२)

viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ ||

18.1१८.१

उन्मत्तः पञ्चमो दोषो दोषाः पञ्च सदा रसे । (१८।१)

unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase |

18.2१८.२

पथोगेने Wइर्कुन्गेन् देर् कञ्चुकस्मृण्मयात् कञ्चुकात् कुष्ठं जायते च शरीरिणाम् ॥ (१८।२)

pathogene Wirkungen der kañcukasmṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām ||

19.1१९.१

पाषाणाज्जायते जाड्यं वातस्तोमश् च वारिजात् । (१९।१)

pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt |

19.2१९.२

कुर्यातां चिल्हरी देहे वङ्गनागकपालिके ॥ (१९।२)

kuryātāṃ cilharī dehe vaṅganāgakapālike ||

20.1२०.१

गजचर्माणि दद्रूणि कुरुते कालिका सदा । (२०।१)

gajacarmāṇi dadrūṇi kurute kālikā sadā |

20.2२०.२

पाण्डुरोगं तथा मोहं दुभितानि च कामलाम् ॥ (२०।२)

pāṇḍurogaṃ tathā mohaṃ dubhitāni ca kāmalām ||

21.1२१.१

जायते श्वेतकुष्ठं च श्यामाकञ्चुकसम्भवम् । (२१।१)

jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam |

21.2२१.२

हन्ति तेजः शरीरस्य मलः पारदसम्भवः ॥ (२१।२)

hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ ||

22.1२२.१

सत्त्वघातं करोत्यग्निर्विषं घूर्मं करोति च । (२२।१)

sattvaghātaṃ karotyagnirviṣaṃ ghūrmaṃ karoti ca |

22.2२२.२

दर्पादङ्गं स्फुटत्येवोन्मत्ताद् उन्मत्तता भवेत् ॥ (२२।२)

darpādaṅgaṃ sphuṭatyevonmattād unmattatā bhavet ||

23.1२३.१

युक्तं द्वादशभिर् दोषैर् यस्तु दद्यात्तु पारदम् । (२३।१)

yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam |

23.2२३.२

ब्रह्महत्यादिका हत्या भवेयुस् तस्य सर्वदा ॥ (२३।२)

brahmahatyādikā hatyā bhaveyus tasya sarvadā ||

24.1२४.१

मुक्तं द्वादशभिर्दोषैर्दद्याद्यः पारदेश्वरम् । (२४।१)

muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram |

24.2२४.२

महीयान् इह लोके स्यात्परत्र स्वर्गभाग् भवेत् ॥ (२४।२)

mahīyān iha loke syātparatra svargabhāg bhavet ||

25.1२५.१

दोषैर्द्वादशभिर्मुक्तो देहं नीरोगयेद् रसः । (२५।१)

doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ |

25.2२५.२

संस्कारैर् द्वीपसंख्यैश् च संस्कृतो देहलोहकृत् ॥ (२५।२)

saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt ||

26.1२६.१

१८ सूतसंस्काराःसूतेऽष्टादशसंस्कारास्तत्राद्यः पाटसारणः । (२६।१)

18 sūtasaṃskārāḥsūte'ṣṭādaśasaṃskārāstatrādyaḥ pāṭasāraṇaḥ |

26.2२६.२

द्वितीयो मर्दनो नाम तृतीयः शोधनो मतः ॥ (२६।२)

dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ ||

27.1२७.१

मूर्छनोत्थापनस् तुर्यः पञ्चमो रसपातनः । (२७।१)

mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ |

27.2२७.२

रसस्योत्थापनं षष्ठः सप्तमः स्वेदनो भवेत् ॥ (२७।२)

rasasyotthāpanaṃ ṣaṣṭhaḥ saptamaḥ svedano bhavet ||

28.1२८.१

नियामको ऽष्टमः प्रोक्तो नवमस्तु निरोधकः । (२८।१)

niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ |

28.2२८.२

दशमो मुखकारी स्यात् रुद्रसंख्यो हि जारणः ॥ (२८।२)

daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ ||

29.1२९.१

सूर्याङ्को बन्धकृत् प्रोक्तो यक्षसंस्थस् तु सारणः । (२९।१)

sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ |

29.2२९.२

मारणो मनुसंख्यः स्यात् तिथ्यङ्कः प्रतिसारणः ॥ (२९।२)

māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ ||

30.1३०.१

क्रामणः षोडशाङ्कः स्याद् वेधः सप्तदशीककः । (३०।१)

krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ |

30.2३०.२

अष्टादशश्च संस्कारस्तज्ज्ञैर् उद्घाटनो मतः ॥ (३०।२)

aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ ||

31.1३१.१

पाटसारणवाससा गालिते सूते संस्कारः पाटसारणः । (३१।१)

pāṭasāraṇavāsasā gālite sūte saṃskāraḥ pāṭasāraṇaḥ |

31.2३१.२

वङ्गनागादिकाः सर्वा वस्त्रे तिष्ठन्ति विक्रियाः ॥ (३१।२)

vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ ||

32.1३२.१

मर्दनकार्ष्ण्यं त्याजयितुं सूताद् विधेयो लोष्टजीककः । (३२।१)

mardanakārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ |

32.2३२.२

तत्पलैकं च सूतस्य चतुःषष्टिपलानि च ॥ (३२।२)

tatpalaikaṃ ca sūtasya catuḥṣaṣṭipalāni ca ||

33.1३३.१

खल्वे प्रक्षिप्य संमेल्य मर्दयेद् याममात्रतः । (३३।१)

khalve prakṣipya saṃmelya mardayed yāmamātrataḥ |

33.2३३.२

मर्दितो निर्मलीभूतः कृष्णत्वं त्यजति ध्रुवम् ॥ (३३।२)

mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam ||

34.1३४.१

शोधनवज्रीक्षीरेण सम्पिष्टात् सप्ताहं याति भूमिजः । (३४।१)

śodhanavajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ |

34.2३४.२

सप्ताहं चार्कदुग्धेन पिष्टाद् यात्यश्मकञ्चुकः ॥ (३४।२)

saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ ||

35.1३५.१

एन्त्ड़ेर्नेन् वोन् जलकञ्चुकपर्पटान् ब्रह्मवृक्षस्य जलक्लिन्नांश् च वर्तयेत् । (३५।१)

Entfernen von jalakañcukaparpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet |

35.2३५.२

तद्रसेन च सप्ताहं पिष्टाद् यात्यम्बुकञ्चुकः ॥ (३५।२)

tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ ||

36.1३६.१

एन्त्ड़ेर्नेन् वोन् कपालिचित्रकक्वाथसम्पिष्टात् कापाली याति वङ्गजा । (३६।१)

Entfernen von kapālicitrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā |

36.2३६.२

वज्रकन्दरसेनैव पिष्टाद् वङ्गजकालिका ॥ (३६।२)

vajrakandarasenaiva piṣṭād vaṅgajakālikā ||

37.1३७.१

कटुतुम्बीपयःपिष्टात् श्यामा नश्यति नागजा । (३७।१)

kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā |

37.2३७.२

बीयाजलेन सम्पिष्टात् कपाली नागसम्भवा ॥ (३७।२)

bīyājalena sampiṣṭāt kapālī nāgasambhavā ||

38.1३८.१

सप्तसप्तदिनैः पिष्टात्सूतान् नश्यन्ति कञ्चुकाः । (३८।१)

saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ |

38.2३८.२

त्रिफलाक्वाथसम्पिष्टाद् व्रजत्येवं क्षयं मलः ॥ (३८।२)

triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ ||

39.1३९.१

चित्रकक्वाथसम्पिष्टाद् अग्निदोषः प्रणश्यति । (३९।१)

citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati |

39.2३९.२

अश्वगन्धारसेनैवं विषदोषः प्रशाम्यति ॥ (३९।२)

aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati ||

40.1४०.१

नाह्यारसेन सम्पिष्टाद् दर्पदोषो विनश्यति । (४०।१)

nāhyārasena sampiṣṭād darpadoṣo vinaśyati |

40.2४०.२

पिष्टात् कुध्यरसेनैवम् उन्मत्तो ऽपि विलीयते ॥ (४०।२)

piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate ||

41.1४१.१

सप्तसप्तदिनैः पिष्टाद् दोषा नश्यन्ति पञ्च वै । (४१।१)

saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai |

41.2४१.२

इत्थं द्वादशभिर् दोषैर्मुक्तः शुद्धो भवेद् रसः ॥ (४१।२)

itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ ||

42.1४२.१

औषधस्यौषधस्यान्ते क्षालयेत् काञ्जिकेन च । (४२।१)

auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca |

42.2४२.२

कर्तव्या सूतसंशुद्धिर् एकादशभिरौषधैः ॥ (४२।२)

kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ ||

43.1४३.१

मूर्छनक्वाथेन त्रिकटोः क्षुण्णं प्राकृतं शोधितं रसम् । (४३।१)

mūrchanakvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam |

43.2४३.२

रसेनासन्नदूधिल्यास् तथार्द्राया रसेन च ॥ (४३।२)

rasenāsannadūdhilyās tathārdrāyā rasena ca ||

44.1४४.१

काकमाचीरसेनैवं देवदालीरसेन च । (४४।१)

kākamācīrasenaivaṃ devadālīrasena ca |

44.2४४.२

शुष्कं शुष्कं पुनः क्षुण्णं संमर्द्यामर्द्य शोषयेत् ॥ (४४।२)

śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet ||

45.1४५.१

औषधस्यौषधस्यान्ते क्षालयेत् काञ्जिकेन च । (४५।१)

auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca |

45.2४५.२

प्रत्यौषधं दिनानीह सप्त सप्तैव मर्दयेत् ॥ (४५।२)

pratyauṣadhaṃ dinānīha sapta saptaiva mardayet ||

46.1४६.१

उत्थापनमूर्छितोत्थापनं सूते कार्यं पञ्चभिर् औषधैः । (४६।१)

utthāpanamūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ |

46.2४६.२

तेजस्वी जायते ऽवश्यं मूर्छितोत्थितपारदः ॥ (४६।२)

tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ ||

47.1४७.१

मूर्छन, उत्थापनकज्जलाभो यदा सूतो विहाय घनचापलम् । (४७।१)

mūrchana, utthāpanakajjalābho yadā sūto vihāya ghanacāpalam |

47.2४७.२

संमूर्छितस् तदा ज्ञेयो नानावर्णो ऽपि तत् क्वचित् ॥ (४७।२)

saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit ||

48.1४८.१

उत्थापयेन् निरुध्याथ पात्रसम्पुटमध्यगम् । (४८।१)

utthāpayen nirudhyātha pātrasampuṭamadhyagam |

48.2४८.२

पुनस् तन् मूर्छयेत् सूतं कञ्चुकीर् नाशयेत् ततः ॥ (४८।२)

punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ ||

49.1४९.१

एवम् एतत्क्रमेणैतत् सप्तवारांस् तु मूर्छयेत् । (४९।१)

evam etatkrameṇaitat saptavārāṃs tu mūrchayet |

49.2४९.२

इत्थं संमूर्छितः सूतो दोषशून्यः प्रजायते ॥ (४९।२)

itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate ||

50.1५०.१

उत्थापनआरनालमृते सूतम् उत्थाप्यं रसधीमता । (५०।१)

utthāpanaāranālamṛte sūtam utthāpyaṃ rasadhīmatā |

50.2५०.२

मूर्छितोत्थितसूतस्य चतुःषष्टिपलानि च ॥ (५०।२)

mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca ||

51.1५१.१

पलानि ताम्रचूर्णस्य खल्वे प्रक्षिप्य षोडश । (५१।१)

palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa |

51.2५१.२

निम्बुकं च रसं क्षिप्त्वा लूनं द्वात्रिंशदंशकम् ॥ (५१।२)

nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam ||

52.1५२.१

तावत् संमर्दयेद् यावत् पीठी स्यान् मृक्षणोपमा । (५२।१)

tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā |

52.2५२.२

पातनसंस्कारमुक्त्वा कटाहबुन्धे तां प्रदद्याद् वस्त्रसम्पुटम् । (५२।२)

pātanasaṃskāramuktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam |

52.3५२.३

वस्त्रान्तानि मृदा लिम्पेज् जारितानीव बुन्धके ॥ (५२।३)

vastrāntāni mṛdā limpej jāritānīva bundhake ||

53.1५३.१

सजलस्थालिकावक्त्रे कटाहं प्रध्वरं क्षिपेत् । (५३।१)

sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet |

53.2५३.२

कण्ठं कटाहबन्धं च लिम्पेद् वस्त्रं मृदा तथा ॥ (५३।२)

kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā ||

54.1५४.१

छाणकानि कटाहात्ते यामार्धं ज्वालयेद्यथा । (५४।१)

chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā |

54.2५४.२

जलमध्ये रसो याति ताम्रं तिष्ठति बुन्धके ॥ (५४।२)

jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake ||

55.1५५.१

सप्तवारमिदं कार्यं शुद्धं स्याद् रसपातनम् । (५५।१)

saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam |

55.2५५.२

सूक्ष्मदोषा विलीयते मूर्छितोत्थितपातने ॥ (५५।२)

sūkṣmadoṣā vilīyate mūrchitotthitapātane ||

56.1५६.१

उत्थापनसंस्कारखल्वेन सहितं सूतं मर्दयेच् च दिनत्रयम् । (५६।१)

utthāpanasaṃskārakhalvena sahitaṃ sūtaṃ mardayec ca dinatrayam |

56.2५६.२

पूर्ववत्पातयेत्तं तु अधोर्ध्वं तिर्यगं च तत् ॥ (५६।२)

pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat ||

57.1५७.१

एवं पातनयन्त्रेण सप्तवारं तु पातयेत् । (५७।१)

evaṃ pātanayantreṇa saptavāraṃ tu pātayet |

57.2५७.२

सूतमभ्रं द्वयं मर्द्यं काञ्जिकेन समन्ततः ॥ (५७।२)

sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ ||

58.1५८.१

स्थालिकातलमध्येऽपि स्थाप्यं तत् कृतगोलकम् । (५८।१)

sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam |

58.2५८.२

त्रिफलाराजिकावह्निविषशिग्रुसमांशकैः ॥ (५८।२)

triphalārājikāvahniviṣaśigrusamāṃśakaiḥ ||

59.1५९.१

ऊर्ध्वस्थालीं समालिप्य कर्तव्यं सम्पुटं वरम् । (५९।१)

ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam |

59.2५९.२

संधौ च मृत्स्नयावेष्ट्य डमरुं यन्त्रमुत्तमम् ॥ (५९।२)

saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam ||

60.1६०.१

कार्या चास्योर्ध्वभागे ऽपि कुण्डली विहिता परा । (६०।१)

kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā |

60.2६०.२

तदधो ज्वालयेदग्निं मन्दं मन्दं त्रियामकम् ॥ (६०।२)

tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam ||

61.1६१.१

अधः स्थालीं परित्यज्य चोर्ध्वस्थाल्यां परिव्रजेत् । (६१।१)

adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet |

61.2६१.२

उत्थापनसंस्कार: अन्यमतकासीसं सैन्धवं सूतं तत्तुल्यं च दिनावधि । (६१।२)

utthāpanasaṃskāra: anyamatakāsīsaṃ saindhavaṃ sūtaṃ tattulyaṃ ca dināvadhi |

61.3६१.३

कासीसस्य ह्य् अभावेन दातव्या फुल्लतूरिका ॥ (६१।३)

kāsīsasya hy abhāvena dātavyā phullatūrikā ||

62.1६२.१

स्तोकं स्तोकं क्षिपेत्खल्वे त्रयमेकत्र मर्दयेत् । (६२।१)

stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet |

62.2६२.२

प्रत्येकं शतनिष्कं स्यादूनं नैवाधिकं क्वचित् ॥ (६२।२)

pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ kvacit ||

63.1६३.१

स्थालीसम्पुटयन्त्रेण दिनं चण्डाग्निना पचेत् । (६३।१)

sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet |

63.2६३.२

ऊर्ध्वलग्नं तु तं शुद्धं पारदं चाहरेत् शुभम् ॥ (६३।२)

ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham ||

64.1६४.१

उत्थपनसंस्कार: ३। मतम्पत्त्राणि ताम्रस्य लघूनि पिष्टीं कृत्वा रसेन त्रिगुणेन भाण्डे । (६४।१)

utthapanasaṃskāra: 3. matampattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe |

65.1६५.१

ताम्रात् सूतं रसात्ताम्रं पातनाय पृथक्कृतम् । (६५।१)

tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam |

65.2६५.२

द्वयं तथैव सम्पिष्य पीठी कार्या च पूर्ववत् ॥ (६५।२)

dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat ||

66.1६६.१

तां ताम्रसूतयोः पीठीं स्थालिकायां क्षिपेत्पुनः । (६६।१)

tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ |

66.2६६.२

स्थालीं चाधोमुखीं त्व् अन्यां लिम्पेद् वस्त्रमृदा मुखे ॥ (६६।२)

sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe ||

67.1६७.१

यन्त्रो डमरुकाख्योऽसौ तथा विद्याधराभिधः । (६७।१)

yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ |

67.2६७.२

उपरि स्थालिकाबुन्धे दातव्यं गोमयं ततः ॥ (६७।२)

upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ ||

68.1६८.१

अधः स्थाल्यास्त्वधो बुन्धे यामं मृद्वग्निना पचेत् । (६८।१)

adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet |

68.2६८.२

सूतो यात्युपरिस्थाल्यास्ताम्रं तत्रैव तिष्ठति ॥ (६८।२)

sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati ||

69.1६९.१

सप्तवेलम् इदं कार्यं सूतोत्थापनमुच्यते । (६९।१)

saptavelam idaṃ kāryaṃ sūtotthāpanamucyate |

69.2६९.२

व्यापको जायते स्वच्छः पातितोत्थापितो रसः ॥ (६९।२)

vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ ||

70.1७०.१

स्वेदनशिग्रुवृक्षस्य पत्त्राणि वारिणा वर्तयेद्यथा । (७०।१)

svedanaśigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā |

70.2७०.२

जायतेऽतिमृदुः पिण्डः कुर्यात्पिण्डस्य कुल्हडीम् ॥ (७०।२)

jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm ||

71.1७१.१

ताम्रं त्यक्त्वोत्थितं सूतं लुणं द्वात्रिंशदंशकम् । (७१।१)

tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam |

71.2७१.२

कृतप्राक्कुल्हडीमध्ये प्रक्षिपेत्तं समग्रकम् ॥ (७१।२)

kṛtaprākkulhaḍīmadhye prakṣipettaṃ samagrakam ||

72.1७२.१

आरनालं क्षिपेत्स्थाल्यां रसं निम्बुकसम्भवम् । (७२।१)

āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam |

72.2७२.२

कण्ठे काष्ठं च बध्नीयाद्वस्त्रे प्राक्कृतकुल्हडीम् ॥ (७२।२)

kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm ||

73.1७३.१

काष्ठे वस्त्रं च बध्नीयान् न स्पृशेत्काञ्जिकं यथा । (७३।१)

kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā |

73.2७३.२

पिहितायां तथा स्थाल्यां मृद्वग्निर् ज्वालयेदधः ॥ (७३।२)

pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ ||

74.1७४.१

प्रत्यहं त्व् अष्टयामं च कार्यं सप्तदिनानि वै । (७४।१)

pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai |

74.2७४.२

प्रत्यहं शिग्रुपत्त्रैश् च कार्या कुल्हडिका नवा ॥ (७४।२)

pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā ||

75.1७५.१

नष्टं नष्टं चारनालं प्रक्षिपेन् नूतनं मुहुः । (७५।१)

naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ |

75.2७५.२

दोलायन्त्रेण कर्तव्या रसस्य स्वेदने विधिः ॥ (७५।२)

dolāyantreṇa kartavyā rasasya svedane vidhiḥ ||

76.1७६.१

स्वेदनैर् वह्निर् उत्पन्नो रसो जातो बुभुक्षितः । (७६।१)

svedanair vahnir utpanno raso jāto bubhukṣitaḥ |

76.2७६.२

सम्प्रत्य् ऊर्ध्वरसो ऽत्यर्थं सहते ऽग्निं विपाचने ॥ (७६।२)

sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane ||

77.1७७.१

स्वेदनराजिकालवणवह्निमूलकै रूषणाइकयुतैः कलांशकैः । (७७।१)

svedanarājikālavaṇavahnimūlakai rūṣaṇāikayutaiḥ kalāṃśakaiḥ |

77.2७७.२

पारदस्य मृदुवह्नितस्त्विदं स्वेदनं तुषजलेन तन्यते ॥ (७७।२)

pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate ||

78.1७८.१

स्वेदनयन्त्रकाञ्जिकौषधपत्त्रान्तः पोटलीमध्यलम्बनः । (७८।१)

svedanayantrakāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ |

78.2७८.२

चुल्हाग्नौ स्वेद्यते स्वेद्यं यत्रेदं दोलयन्त्रकम् ॥ (७८।२)

culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam ||

79.1७९.१

वस्त्रं चतुष्पुटं कृत्वा खगेनापि पुटीकृतम् । (७९।१)

vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam |

79.2७९.२

स्वेद्यं सूतं च मन्दाग्नौ यथा नोपक्षयं व्रजेत् ॥ (७९।२)

svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet ||

80.1८०.१

व्योषार्द्रशिग्रुकन्दश्च मयूरमूलकासुरी । (८०।१)

vyoṣārdraśigrukandaśca mayūramūlakāsurī |

80.2८०.२

काञ्जिकेन च संस्वेद्यं सूतं बुद्धिमता दिनम् ॥ (८०।२)

kāñjikena ca saṃsvedyaṃ sūtaṃ buddhimatā dinam ||

81.1८१.१

गोमहिष्याश् च मेषाणां खरमूत्रैश्च पञ्चभिः । (८१।१)

gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ |

81.2८१.२

पञ्चभिर्लवणैः क्षारैः स्वेदनीयं रसेश्वरम् ॥ (८१।२)

pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram ||

82.1८२.१

चाङ्गेरी काञ्जिकं निम्बुजम्बीरबीजपूरकैः । (८२।१)

cāṅgerī kāñjikaṃ nimbujambīrabījapūrakaiḥ |

82.2८२.२

रसैः संस्वेदनीयं च पारदं मुखवाञ्छया ॥ (८२।२)

rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā ||

83.1८३.१

नियमनौत्तरस्यां भवेत्स्थूलो रक्तसैन्धवखोटकः । (८३।१)

niyamanauttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ |

83.2८३.२

तद्गर्भे रन्ध्रकं कृत्वा सूतं च स्वेदितं क्षिपेत् ॥ (८३।२)

tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet ||

84.1८४.१

ततश्च चणकक्षारं दत्त्वा चोपरि नैम्बुकम् । (८४।१)

tataśca caṇakakṣāraṃ dattvā copari naimbukam |

84.2८४.२

रसं प्रक्षिप्य दातव्यस्तादृक् सैन्धवखोटकः ॥ (८४।२)

rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ ||

85.1८५.१

गर्तां कृत्वाथ भूगर्भे क्षिप्त्वा सैन्धवसम्पुटम् । (८५।१)

gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam |

85.2८५.२

धूलिम् अष्टाङ्गुलिं दत्त्वा कारीषं दिनसप्तकम् ॥ (८५।२)

dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam ||

86.1८६.१

वह्निं संज्वाल्य तद्ग्राह्यं क्षालयेत्काञ्जिकेन च । (८६।१)

vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca |

86.2८६.२

अयं नियामको नाम संस्कारो ह्य् अष्टमः स्मृतः ॥ (८६।२)

ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ ||

87.1८७.१

चणकक्षारनाशे च चूर्णं स्यान् नवसारजम् । (८७।१)

caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam |

87.2८७.२

साजीक्षारस्य तन्नाशे क्षारो झीजरटस्य च ॥ (८७।२)

sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca ||

88.1८८.१

हिङ्गुपूषा च तन्नाशे तथैरण्डफलानि च । (८८।१)

hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca |

88.2८८.२

पूषा दत्त्वा च प्रत्येकं प्रक्षिपेन् नैम्बुकं रसम् ॥ (८८।२)

pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam ||

89.1८९.१

अतीवाग्निसहो जातः पारदोऽसौ नियामकः । (८९।१)

atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ |

89.2८९.२

अन्नार्थं रसना लोला निःशङ्कं संस्कृतः सदा ॥ (८९।२)

annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā ||

90.1९०.१

रोधनकाचकुम्पे मृदा लिम्पेन् मध्ये नियामकं रसम् । (९०।१)

rodhanakācakumpe mṛdā limpen madhye niyāmakaṃ rasam |

90.2९०.२

क्षिप्त्वास्ये चीवरं बद्ध्वा छन्नं कोडीयकेन च ॥ (९०।२)

kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca ||

91.1९१.१

भूगर्ते कुम्पिकां क्षिप्त्वा दत्त्वा चोपरि वालुकाम् । (९१।१)

bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām |

91.2९१.२

कारीषाग्निं प्रतिदिनं ज्वालयेद् दिनसप्तकम् ॥ (९१।२)

kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam ||

92.1९२.१

कुम्पिकाया रसो ग्राह्यो विधिप्रोक्तो निरोधकः । (९२।१)

kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ |

92.2९२.२

रसनां लेलिहानश्च पीडितो ऽतिबुभुक्षया ॥ (९२।२)

rasanāṃ lelihānaśca pīḍito 'tibubhukṣayā ||

93.1९३.१

मुखकरीस्नुही च गिरिकर्णी च क्षीरिणी वज्रकञ्चुकी । (९३।१)

mukhakarīsnuhī ca girikarṇī ca kṣīriṇī vajrakañcukī |

93.2९३.२

सर्पाक्षी मेघनादा च मत्स्याक्षी मृगभोजनी ॥ (९३।२)

sarpākṣī meghanādā ca matsyākṣī mṛgabhojanī ||

94.1९४.१

शिरःपुङ्खा च चाङ्गेरी वज्रवस्त्री पुनर्नवा । (९४।१)

śiraḥpuṅkhā ca cāṅgerī vajravastrī punarnavā |

94.2९४.२

मधुकंसारिवे तिक्ता त्रायन्ती चन्दनामृता ॥ (९४।२)

madhukaṃsārive tiktā trāyantī candanāmṛtā ||

95.1९५.१

अरण्यतुलसी कृष्णा शाखिनी रविभूलिका । (९५।१)

araṇyatulasī kṛṣṇā śākhinī ravibhūlikā |

95.2९५.२

एतानि यमिका प्रोक्ता रसकर्मणि शम्भुना ॥ (९५।२)

etāni yamikā proktā rasakarmaṇi śambhunā ||

96.1९६.१

आसां नियामिकानां तु यथालाभं प्रकल्पयेत् । (९६।१)

āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet |

96.2९६.२

पक्षछिन्नो भवेन् नूनम् ओषध्या पुण्यपाकतः ॥ (९६।२)

pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ ||

97.1९७.१

मुखकरी (२): मतान्तरम्नियामिकां ततो वच्मि सूतस्य मारकर्मणि । (९७।१)

mukhakarī (2): matāntaramniyāmikāṃ tato vacmi sūtasya mārakarmaṇi |

97.2९७.२

सर्पाक्षी क्षीरिणी वन्ध्या मत्स्याक्षी शङ्खपुष्पिका ॥ (९७।२)

sarpākṣī kṣīriṇī vandhyā matsyākṣī śaṅkhapuṣpikā ||

98.1९८.१

काकजङ्घा शिखिशिखा ब्रह्मदण्ड्य् आखुपर्णिका । (९८।१)

kākajaṅghā śikhiśikhā brahmadaṇḍy ākhuparṇikā |

98.2९८.२

वर्षाभूः कञ्चुकी मूर्वा माचीकोत्पलचिञ्चिकम् ॥ (९८।२)

varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam ||

99.1९९.१

शतावरी च द्विलता वज्रकन्दादिकर्णिका । (९९।१)

śatāvarī ca dvilatā vajrakandādikarṇikā |

99.2९९.२

मण्डूकपर्णी पाठाली चित्रको ग्रीष्मसुन्दरः ॥ (९९।२)

maṇḍūkaparṇī pāṭhālī citrako grīṣmasundaraḥ ||

100.1१००.१

काकमाची महाराष्ट्री हरिद्रा तिलपर्णिका । (१००।१)

kākamācī mahārāṣṭrī haridrā tilaparṇikā |

100.2१००.२

श्वेतार्कौ शिग्रुधत्तूरमृगदूर्वा हरीतकी ॥ (१००।२)

śvetārkau śigrudhattūramṛgadūrvā harītakī ||

101.1१०१.१

गुडूची मुसली पुङ्खा भृङ्गराड् रक्तचित्रकम् । (१०१।१)

guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam |

101.2१०१.२

नारङ्गं सूरणं मुण्डी मलं कापोतकोकिलम् ॥ (१०१।२)

nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam ||

102.1१०२.१

सैन्धवं श्वेतवर्षाभूखापरं हिङ्गुमाक्षिकम् । (१०२।१)

saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam |

102.2१०२.२

विष्णुक्रान्ता सोमवल्ली ब्रह्मघ्नी यक्षलोचना ॥ (१०२।२)

viṣṇukrāntā somavallī brahmaghnī yakṣalocanā ||

103.1१०३.१

व्याघ्रपादी हंसपादी वृश्चिकाली कुतुम्बकम् । (१०३।१)

vyāghrapādī haṃsapādī vṛścikālī kutumbakam |

103.2१०३.२

स्वयीभुक्कुसमं कुम्भी हस्तिशुण्डीन्द्रवारुणी ॥ (१०३।२)

svayībhukkusamaṃ kumbhī hastiśuṇḍīndravāruṇī ||

104.1१०४.१

बीजीन्यरूष्करस्यापि सर्व एते नियामिकाः । (१०४।१)

bījīnyarūṣkarasyāpi sarva ete niyāmikāḥ |

104.2१०४.२

एताः समस्ता व्यस्ता वा देया सप्तदशाधिकाः ॥ (१०४।२)

etāḥ samastā vyastā vā deyā saptadaśādhikāḥ ||

105.1१०५.१

मारणे मूर्छने बन्धे रसस्यैता नियोजयेत् । (१०५।१)

māraṇe mūrchane bandhe rasasyaitā niyojayet |

105.2१०५.२

मारण + जारणअप्रसूतगवां मूत्रैः पिष्टा मूर्वां नियामकाः ॥ (१०५।२)

māraṇa + jāraṇaaprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ ||

106.1१०६.१

तद्द्रावैर् मर्दयेत् सूतं यथा पूर्वोदितं क्रमात् । (१०६।१)

taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt |

106.2१०६.२

इत्येवं जारणायुक्तं मारणं परिकीर्तितम् ॥ (१०६।२)

ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam ||

107.1१०७.१

मुखकरणबीजपूरस्य सद्वृन्तं प्रोत्सार्य कुरु रन्ध्रकम् । (१०७।१)

mukhakaraṇabījapūrasya sadvṛntaṃ protsārya kuru randhrakam |

107.2१०७.२

निरोधकं सलवणं क्षिप्त्वैकं तेन छादयेत् ॥ (१०७।२)

nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet ||

108.1१०८.१

काञ्जिकेन भृता स्थाली निम्बुकानां रसाचिता । (१०८।१)

kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā |

108.2१०८.२

दोलायन्त्रेण तन्मध्ये ब्रुडन्तं बीजपूरकम् ॥ (१०८।२)

dolāyantreṇa tanmadhye bruḍantaṃ bījapūrakam ||

109.1१०९.१

बद्ध्वा पिधाय सप्ताहं हठाग्निं ज्वालयेद् अधः । (१०९।१)

baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ |

109.2१०९.२

प्रत्यहं मातुलिङ्गैश् च नव्यैर् भव्यभवन् मुखम् ॥ (१०९।२)

pratyahaṃ mātuliṅgaiś ca navyair bhavyabhavan mukham ||

110.1११०.१

ग्रसते चाभ्रकादीनि सूतेनास्यं प्रसारितम् । (११०।१)

grasate cābhrakādīni sūtenāsyaṃ prasāritam |

110.2११०.२

व्यात्तवक्त्रो ग्रसत्येव क्षिप्तं सर्वं च जीर्यति ॥ (११०।२)

vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati ||

111.1१११.१

नियमनकर्कोटीफणिनेत्राभ्यां चिञ्चिकाम्बुजमार्कवैः । (१११।१)

niyamanakarkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ |

111.2१११.२

नियम्यो ऽसौ ततः सम्यक् चपलत्वं निवर्तयेत् ॥ (१११।२)

niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet ||

112.1११२.१

रोधनमर्दनमूर्छनपातैः कदर्थितो भवति मन्दवीर्यस्तु । (११२।१)

rodhanamardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu |

112.2११२.२

सृष्ट्यम्बुजैर् निरोधात् तलद्वयप्रायो न खण्डः स्यात् ॥ (११२।२)

sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt ||

113.1११३.१

दीपनैत्थंकदर्थिततनुर्गलितात्मवीर्यः सृष्ट्यां चितश् छगणकैः पुटितो बली स्यात् । (११३।१)

dīpanaitthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt |

113.3११३.३

स्विन्नस्त्र्यहे तुषजलेऽथभवेत्सुदीप्तः ॥ (११३।३)

svinnastryahe tuṣajale'thabhavetsudīptaḥ ||

114.1११४.१

त्रिफला चित्रमूलं च सौराष्ट्री नवसादरम् । (११४।१)

triphalā citramūlaṃ ca saurāṣṭrī navasādaram |

114.2११४.२

शिग्रुरसेन संभाव्य मर्दयेच् च दिनत्रयम् ॥ (११४।२)

śigrurasena saṃbhāvya mardayec ca dinatrayam ||

115.1११५.१

तेनैव मध्यगं कृत्वा नियम्योऽसौ पुनः पुनः । (११५।१)

tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ |

115.2११५.२

त्रयोदशे ऽह्णि सम्प्राप्ते जायते दीपनं शुभम् ॥ (११५।२)

trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham ||

116.1११६.१

दीपनभूखगटङ्कणमनःशिललवणासुरिशिग्रुकाञ्चिकैस् त्रिदिनम् । (११६।१)

dīpanabhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam |

116.2११६.२

स्वेदेन दीनदीप्तोऽसौ ग्रासार्थी जायते सूतः ॥ (११६।२)

svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ ||

117.1११७.१

गगनग्रास-क़ुएच्क्सिल्बेर्व्यात्तास्यं काचकुम्प्यन्तः सल्लूणं नैम्बुकं रसम् । (११७।१)

gaganagrāsa-Quecksilbervyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam |

117.2११७.२

पलं धान्याभ्रकं क्षिप्त्वा लिम्पेद् वस्त्रमृदा मुखम् ॥ (११७।२)

palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham ||

118.1११८.१

मुखे कोडीयकं दद्यात् कुण्डीका वालुकाभृता । (११८।१)

mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā |

118.2११८.२

कुम्पिकां वालुकामध्ये क्षिप्त्वा चोपरि वालुकाम् ॥ (११८।२)

kumpikāṃ vālukāmadhye kṣiptvā copari vālukām ||

119.1११९.१

प्रदायाधोऽष्टयामं च हठाग्निं ज्वालयेत् सुधीः । (११९।१)

pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ |

119.2११९.२

पलं धान्याभ्रकं चैकं जारणीयम् अहर्निशम् ॥ (११९।२)

palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam ||

120.1१२०.१

सूतादष्टगुणं जार्यं धान्याभ्रं रसवेदिना । (१२०।१)

sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā |

120.2१२०.२

नाम्नासौ गगनग्रासः पारदः परिकीर्तितः ॥ (१२०।२)

nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ ||

121.1१२१.१

एकपत्त्रीकृतं सर्वमभ्रकं तदनन्तरम् । (१२१।१)

ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram |

121.2१२१.२

तप्तखर्परविन्यस्तं प्रदहेत्तीव्रवह्निना ॥ (१२१।२)

taptakharparavinyastaṃ pradahettīvravahninā ||

122.1१२२.१

अगस्तिपुष्पतोये च कुमुदानां रसेन च । (१२२।१)

agastipuṣpatoye ca kumudānāṃ rasena ca |

122.2१२२.२

वर्षाभूतण्डुलीयेन मरिचैः सुमुखेन च ॥ (१२२।२)

varṣābhūtaṇḍulīyena maricaiḥ sumukhena ca ||

123.1१२३.१

माहिषेणैव दुग्धेन सारयित्वाभ्रकं ततः । (१२३।१)

māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ |

123.2१२३.२

यवचिञ्चिकातोयेन प्लावयित्वा पुटे पचेत् ॥ (१२३।२)

yavaciñcikātoyena plāvayitvā puṭe pacet ||

124.1१२४.१

मरिचासुरीसिद्धार्थविषचूर्णैश्च सूतकम् । (१२४।१)

maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam |

124.2१२४.२

स्वेदयेत् काञ्जिके बद्धं दोलायां दिवसत्रयम् ॥ (१२४।२)

svedayet kāñjike baddhaṃ dolāyāṃ divasatrayam ||

125.1१२५.१

एवं स्विन्नो रसः पश्चात् काञ्जिके यवचिञ्चिकाम् । (१२५।१)

evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām |

125.2१२५.२

समूलपत्त्रां संकुट्य संधयित्वा विचक्षणः ॥ (१२५।२)

samūlapattrāṃ saṃkuṭya saṃdhayitvā vicakṣaṇaḥ ||

126.1१२६.१

काञ्जिके जायते देव्यरसबन्धे तु नित्यशः । (१२६।१)

kāñjike jāyate devyarasabandhe tu nityaśaḥ |

126.2१२६.२

हेमक्रिया हेममुखे तारे तारमुखं कृतम् ॥ (१२६।२)

hemakriyā hemamukhe tāre tāramukhaṃ kṛtam ||

127.1१२७.१

यवचिञ्चिकातोयेन स्वेदयन् स्वेदयेद् बुधः । (१२७।१)

yavaciñcikātoyena svedayan svedayed budhaḥ |

127.2१२७.२

लोहाग्रे भ्रमथो शालसुदग्धं वर्षयेत् तथा ॥ (१२७।२)

lohāgre bhramatho śālasudagdhaṃ varṣayet tathā ||

128.1१२८.१

जीर्णस्य लक्षणं ज्ञेयं जलौकादण्डधारिणः । (१२८।१)

jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ |

128.2१२८.२

द्वितीये काकविष्ठाभं तृतीये तैलको भवेत् ॥ (१२८।२)

dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet ||

129.1१२९.१

कपिलो ऽथ निरुद्गारो विप्रुषो नैव मुञ्चति । (१२९।१)

kapilo 'tha nirudgāro vipruṣo naiva muñcati |

129.2१२९.२

अग्नौ हि घ्रातनिक्वस्थो व्योमजीर्णस्य लक्षणम् ॥ (१२९।२)

agnau hi ghrātanikvastho vyomajīrṇasya lakṣaṇam ||

130.1१३०.१

अथ वैकृतकस्पर्शाद् दिव्यौषधिमुखं प्रति । (१३०।१)

atha vaikṛtakasparśād divyauṣadhimukhaṃ prati |

130.2१३०.२

अथ ह चरति क्षिप्रं क्षणादेव निबध्यते ॥ (१३०।२)

atha ha carati kṣipraṃ kṣaṇādeva nibadhyate ||

131.1१३१.१

ततो लोहकपालस्थं स्वेदयेन्मृदुवह्निना । (१३१।१)

tato lohakapālasthaṃ svedayenmṛduvahninā |

131.2१३१.२

सुखोष्णेनारनालेन प्रक्षालितरसं बुधः ॥ (१३१।२)

sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ ||

132.1१३२.१

एवम् अभ्रकजीर्णस्य रसस्याष्टमभागतः । (१३२।१)

evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ |

132.2१३२.२

विडं दद्याच् च विधिवज् जारयेत् तं विचक्षणः ॥ (१३२।२)

viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ ||

133.1१३३.१

एवं षड्गुणजीर्णं तु सूतकं जारयेत् बुधः । (१३३।१)

evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ |

133.2१३३.२

धान्याभ्रभूमौ लगति यत्क्षिप्रं तद्धान्याभ्रकम् उच्यते । (१३३।२)

dhānyābhrabhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate |

133.3१३३.३

गगनग्रासजारणअभ्रके द्विगुणे जीर्णे धूमव्याजेन गच्छति ॥ (१३३।३)

gaganagrāsajāraṇaabhrake dviguṇe jīrṇe dhūmavyājena gacchati ||

134.1१३४.१

जीर्णे चतुर्गुणे तस्मिन् गतिशक्तिर्विहन्यते । (१३४।१)

jīrṇe caturguṇe tasmin gatiśaktirvihanyate |

134.2१३४.२

उत्प्लुत्योत्प्लुत्य बाह्ये च मूषायाः पतति ध्रुवम् ॥ (१३४।२)

utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam ||

135.1१३५.१

जीर्णे च षड्गुणे सूतं कम्पते ऽसौ मुहुर्मुहुः । (१३५।१)

jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ |

135.2१३५.२

बाह्ये चोड्डीय नो याति स्थितः स्थाने स्थिरायते ॥ (१३५।२)

bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate ||

136.1१३६.१

तस्मिन्नष्टगुणे जीर्णे ध्मातं शाम्यति पारदः । (१३६।१)

tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ |

136.2१३६.२

हठेन वह्निनाध्मातः स्थिरीभूतसुवर्णवत् ॥ (१३६।२)

haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat ||

137.1१३७.१

रूप्यगद्याणकयाचोह्यनेनाभ्यञ्ज्य गालिते । (१३७।१)

rūpyagadyāṇakayācohyanenābhyañjya gālite |

137.2१३७.२

दशवर्णं भवेद्धेम कथितं रसवेदिभिः ॥ (१३७।२)

daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ ||

138.1१३८.१

अभ्रकस्य च पत्त्राणि श्लक्ष्णचूर्णीकृतानि च । (१३८।१)

abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca |

138.2१३८.२

कर्पासीरसतोयेन मर्दितानि दिनत्रयम् ॥ (१३८।२)

karpāsīrasatoyena marditāni dinatrayam ||

139.1१३९.१

मातुलिङ्गकनकस्यापि वार्कतोयेन मर्दयेत् । (१३९।१)

mātuliṅgakanakasyāpi vārkatoyena mardayet |

139.2१३९.२

क्षिप्त्वा टङ्कणक्षारं च नवसारं तथैव च ॥ (१३९।२)

kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca ||

140.1१४०.१

खल्वमध्ये ततः क्षिप्त्वा मर्दयेत् प्रतिवासरम् । (१४०।१)

khalvamadhye tataḥ kṣiptvā mardayet prativāsaram |

140.2१४०.२

रसैः पूर्वोदितैर् भूयो यावत् तद् गिलते स्फुटम् ॥ (१४०।२)

rasaiḥ pūrvoditair bhūyo yāvat tad gilate sphuṭam ||

141.1१४१.१

ग्रन्थान्तरेयवाख्याकदलीशिग्रुचिञ्चाफलपुनर्नवा । (१४१।१)

granthāntareyavākhyākadalīśigruciñcāphalapunarnavā |

141.2१४१.२

शतमूलै रसैरभ्रं भावितं मुनिसंख्यया ॥ (१४१।२)

śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā ||

142.1१४२.१

तद्ग्रासं रसराजोऽसौ सुखं भुङ्क्ते वरे मुखे । (१४२।१)

tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe |

142.2१४२.२

संजाते देहसिद्ध्यर्थं धातुसिद्ध्यर्थमेव हि ॥ (१४२।२)

saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi ||

143.1१४३.१

स्वल्पमप्यभ्रकं सूतो यदि गृह्णाति चेत्सुखम् । (१४३।१)

svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham |

143.2१४३.२

बध्यते स्वगृहान्तस्थो यथा चौरो ऽतिचञ्चलः ॥ (१४३।२)

badhyate svagṛhāntastho yathā cauro 'ticañcalaḥ ||

144.1१४४.१

कुमारी कदली वज्री जारी हेमपादी नटी । (१४४।१)

kumārī kadalī vajrī jārī hemapādī naṭī |

144.2१४४.२

बृहती चाग्निदमनी लाङ्गली समभागतः ॥ (१४४।२)

bṛhatī cāgnidamanī lāṅgalī samabhāgataḥ ||

145.1१४५.१

पत्त्राभ्रम् अभ्रचूर्णं वा वन्यं मलनीगुणभावितम् । (१४५।१)

pattrābhram abhracūrṇaṃ vā vanyaṃ malanīguṇabhāvitam |

145.2१४५.२

तप्तेन लोहचूर्णेन पिष्टिः स्यान्मर्दने रसे ॥ (१४५।२)

taptena lohacūrṇena piṣṭiḥ syānmardane rase ||

146.1१४६.१

अभ्रपीठीलोहखल्वे चतुष्पादे सूतग्रस्ताभ्रकं क्षिपेत् । (१४६।१)

abhrapīṭhīlohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet |

146.2१४६.२

चतुःषष्ट्यंशभागेन चूर्णं कान्तायसं रसात् ॥ (१४६।२)

catuḥṣaṣṭyaṃśabhāgena cūrṇaṃ kāntāyasaṃ rasāt ||

147.1१४७.१

काञ्जिकेनैव संद्दाष्टं बव्वेरं यच् च थूथकम् । (१४७।१)

kāñjikenaiva saṃddāṣṭaṃ bavveraṃ yac ca thūthakam |

147.2१४७.२

तत्तथा वै विडं प्रोक्तं चन्दनं रसवेदिभिः ॥ (१४७।२)

tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ ||

148.1१४८.१

थूथाविडेन सम्पिष्णन् मृद्वग्निं ज्वालयेदधः । (१४८।१)

thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ |

148.2१४८.२

सूतादष्टगुणं लोहं जारणीयं सदा बुधैः ॥ (१४८।२)

sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ ||

149.1१४९.१

अप्राप्तौ कान्तलोहस्य चूर्णं तीक्ष्णस्य संक्षिपेत् । (१४९।१)

aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet |

149.2१४९.२

चतुःषष्टितमं चांशं जीर्णे जीर्णे क्षिपेन् मुहुः ॥ (१४९।२)

catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ ||

150.1१५०.१

सूतोऽसौ जीर्णलोहः सन्गोधूमाभः कषायतः । (१५०।१)

sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ |

150.2१५०.२

पाशितो रागसहनो जातो रागश्च जीर्यति ॥ (१५०।२)

pāśito rāgasahano jāto rāgaśca jīryati ||

151.1१५१.१

अयःप्रकाशराजि ? सूतजारणलोहखल्वे चतुष्पादे जीर्णलोहं रसं क्षिपेत् । (१५१।१)

ayaḥprakāśarāji ? sūtajāraṇalohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet |

151.2१५१.२

अयःप्रकाशे राजेश्च चतुःषष्ट्यंशचूर्णकम् ॥ (१५१।२)

ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam ||

152.1१५२.१

थूथाविडेन सम्पिष्य मृद्वग्निर् ज्वालयेद् अधः । (१५२।१)

thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ |

152.2१५२.२

सूतादष्टगुणा जार्या राजिश्चायःप्रकाशिका ॥ (१५२।२)

sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā ||

153.1१५३.१

अयःप्रकाशराजौ च जीर्णायां पीतता भवेत् । (१५३।१)

ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet |

153.2१५३.२

रक्ततापादनार्थं च हिमराजिं च जारयेत् ॥ (१५३।२)

raktatāpādanārthaṃ ca himarājiṃ ca jārayet ||

154.1१५४.१

लोहखल्वचतुष्पादे संजीर्णायःप्रकाशिकम् । (१५४।१)

lohakhalvacatuṣpāde saṃjīrṇāyaḥprakāśikam |

154.2१५४.२

पारदं हेमराजेश्च चतुःषष्ट्यंशचूर्णकम् ॥ (१५४।२)

pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam ||

155.1१५५.१

थूथाविडेन सम्पिष्य मृद्वग्निं ज्वालयेदधः । (१५५।१)

thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ |

155.2१५५.२

सूतादष्टगुणा जार्या हेमराजिश्च कोविदैः ॥ (१५५।२)

sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ ||

156.1१५६.१

जीर्णायां हेमराजौ च रक्तता जायते ध्रुवम् । (१५६।१)

jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam |

156.2१५६.२

भूधरयन्त्र (देड़्।)लोष्टगर्तः सुधालिप्तश्चूर्णेन सगुडेन वा । (१५६।२)

bhūdharayantra (def.)loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā |

156.3१५६.३

गाढं लिप्तस्वसंशुष्को यन्त्रो ऽयं भूधरो मतः ॥ (१५६।३)

gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ ||

157.1१५७.१

मेतल्स् => गोल्द्जीर्णहेमाख्यराजिश्च सूतं यन्त्रे च भूधरे । (१५७।१)

metals => goldjīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare |

157.2१५७.२

क्षिप्त्वा वै षोडशांशेन शुद्धगन्धकचूर्णकम् ॥ (१५७।२)

kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam ||

158.1१५८.१

मुखे कोडीयकं दद्याद् अधोवक्त्रं पिधानके । (१५८।१)

mukhe koḍīyakaṃ dadyād adhovaktraṃ pidhānake |

158.2१५८.२

वस्त्रमृत्तिकया लिम्पेत् हठाग्निं ज्वालयेत्तथा ॥ (१५८।२)

vastramṛttikayā limpet haṭhāgniṃ jvālayettathā ||

159.1१५९.१

षोडशांशं मुहुर्दद्यात् मुहुः कोडीयकं तथा । (१५९।१)

ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā |

159.2१५९.२

पारदात् षड्गुणो यावज् जीर्यते शुद्धगन्धकः ॥ (१५९।२)

pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ ||

160.1१६०.१

भवेद् दार्ढ्यं च रागेन जीर्णे सूतेन गन्धके । (१६०।१)

bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake |

160.2१६०.२

रूप्यं ताम्रं तथा लोहं वङ्गं नागं च पित्तलम् ॥ (१६०।२)

rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam ||

161.1१६१.१

कांस्यं च सप्तलोहानि रसेनाभ्यञ्ज्य गालयेत् । (१६१।१)

kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet |

161.2१६१.२

तिथिवर्णं भवत्य् एवं सुवर्णं नैव संशयः ॥ (१६१।२)

tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ ||

162.1१६२.१

खापरसत्त्वजारणखटिका १ लवणम् २ तूरी २ गैरिकधातुः ४ जीककम् ५ । (१६२।१)

khāparasattvajāraṇakhaṭikā 1 lavaṇam 2 tūrī 2 gairikadhātuḥ 4 jīkakam 5 |

162.2१६२.२

संशोधने सुवर्णस्य त्व् इमाः स्युः पञ्च मृत्तिकाः ॥ (१६२।२)

saṃśodhane suvarṇasya tv imāḥ syuḥ pañca mṛttikāḥ ||

163.1१६३.१

प्रक्षिप्य भूधरे यन्त्रे पारदं जीर्णगन्धकम् । (१६३।१)

prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam |

163.2१६३.२

क्षिप्त्वा मनःशिलासत्त्वं सूताद् द्वात्रिंशदंशकम् ॥ (१६३।२)

kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam ||

164.1१६४.१

मुखे कोडीयकं दद्याद् अधोवक्त्रे पिधानकम् । (१६४।१)

mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam |

164.2१६४.२

वस्त्रमृत्तिकया लिम्पेत् हठाग्निं ज्वालयेत्ततः ॥ (१६४।२)

vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ ||

165.1१६५.१

जीर्णे जीर्णे मुहुर्दद्याद् अक्तांशं सूतशोधकः । (१६५।१)

jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ |

165.2१६५.२

सूततुल्यं त्व् इदं जार्यं न तु हीनं न चाधिकम् ॥ (१६५।२)

sūtatulyaṃ tv idaṃ jāryaṃ na tu hīnaṃ na cādhikam ||

166.1१६६.१

जीर्णे मनःशिलासत्त्वे पञ्च वक्ष्यामि मृत्तिकाः । (१६६।१)

jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ |

166.2१६६.२

दाघीछेद२कषा३वर्त्त४शोधने हेम शुध्यति ॥ (१६६।२)

dāghīcheda2kaṣā3vartta4śodhane hema śudhyati ||

167.1१६७.१

खापरसत्त्वजारण; मेर्चुर्य्:: मुखकरणसूतं जीर्णशिलासत्त्वं लोहखल्वे चतुष्पदे । (१६७।१)

khāparasattvajāraṇa; mercury:: mukhakaraṇasūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade |

167.2१६७.२

क्षिप्त्वा खापरसत्त्वस्य चतुःषष्ट्यंशचूर्णकम् ॥ (१६७।२)

kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam ||

168.1१६८.१

थूथाविडेन सम्पिष्य मृद्वग्निं ज्वालयेद् अधः । (१६८।१)

thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ |

168.2१६८.२

जीर्णे जीर्णे मुहुः क्षिप्त्वा जार्यम् अष्टगुणं रसात् ॥ (१६८।२)

jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt ||

169.1१६९.१

जीर्णे पुष्पाक्षसत्त्वे च सस्नेहो जायते रसः । (१६९।१)

jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ |

169.2१६९.२

जीर्यते ऽन्नपथं वक्त्रं सम्प्रत्यूर्ध्वं च पारदः ॥ (१६९।२)

jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ ||

170.1१७०.१

मेर्चुर्य्:: जारण:: वज्र => सर्वव्यापिन्त्रिधान्नपथवक्राणां मध्याद् एकं च हीरकम् । (१७०।१)

mercury:: jāraṇa:: vajra => sarvavyāpintridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam |

170.2१७०.२

येन सूतेन संजीर्णं सत्त्वं पुष्पाक्षसम्भवम् ॥ (१७०।२)

yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam ||

171.1१७१.१

प्रक्षिप्य लोहसत्त्वे तौ चतुष्पाद उभाव् अपि । (१७१।१)

prakṣipya lohasattve tau catuṣpāda ubhāv api |

171.2१७१.२

थूथाविडेन संपिष्यन् मृद्वग्निं ज्वालयेदधः ॥ (१७१।२)

thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ ||

172.1१७२.१

ज्वाल्यो ऽग्निस्तावता यावज्जीर्यते स च हीरकः । (१७२।१)

jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ |

172.2१७२.२

हीरके ऽन्नपथे जीर्णे सर्वव्यापी भवेद्रसः ॥ (१७२।२)

hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ ||

173.1१७३.१

एवंभूतस्तु सूतो ऽयं रौद्रसंहारकारकः । (१७३।१)

evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ |

173.2१७३.२

यत्किंचिद्दीयते तस्य रसोपरसवातकः ॥ (१७३।२)

yatkiṃciddīyate tasya rasoparasavātakaḥ ||

174.1१७४.१

तत्सर्वं ग्रसते वेगात् यथा देवो महेश्वरः । (१७४।१)

tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ |

174.2१७४.२

क्षणेन जायते जीर्णं तन्मुखे पतितं तु यत् ॥ (१७४।२)

kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat ||

175.1१७५.१

स्फाटिकान्तानि रत्नानि जीर्यन्ते चातिवेगतः । (१७५।१)

sphāṭikāntāni ratnāni jīryante cātivegataḥ |

175.2१७५.२

ततः कोटिगुणे जीर्णे शङ्खवेधी भवेद्रसः ॥ (१७५।२)

tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ ||

176.1१७६.१

तत्क्षणाद् अमरत्वं च खेचरत्वं ददाति च । (१७६।१)

tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca |

176.2१७६.२

मेर्चुर्य्:: जारणअजीर्णं तुम्बाबीजं तु सूतकं यस्तु वातयेत् । (१७६।२)

mercury:: jāraṇaajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu vātayet |

176.3१७६.३

ब्रह्महा स दुराचारो मम द्रोही महेश्वरि ॥ (१७६।३)

brahmahā sa durācāro mama drohī maheśvari ||

177.1१७७.१

तस्मात् सर्वप्रयत्नेन जारितं मारयेद्रसम् । (१७७।१)

tasmāt sarvaprayatnena jāritaṃ mārayedrasam |

177.2१७७.२

संस्थाप्य गोमयं भूमौ पश्चात् मूषां तदोपरि ॥ (१७७।२)

saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari ||

178.1१७८.१

तन्मध्ये कटुतुम्ब्योत्थं तैलं दत्त्वा रसं क्षिपेत् । (१७८।१)

tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet |

178.2१७८.२

काकमाचीरसो देयस्तैलतुल्यस्ततः पुनः ॥ (१७८।२)

kākamācīraso deyastailatulyastataḥ punaḥ ||

179.1१७९.१

गन्धकं व्रीहिमात्रं च क्षिप्त्वा तं च निरोधयेत् । (१७९।१)

gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet |

179.2१७९.२

तत्पृष्ठे श्रावकं दत्त्वा पूर्णतावद्भिषक् परम् ॥ (१७९।२)

tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param ||

180.1१८०.१

स्वाङ्गशीतं च तं ज्ञात्वा जीर्णं तैलं च गन्धकम् । (१८०।१)

svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam |

180.2१८०.२

काकमाचीद्रवं चाग्निं दत्त्वा दत्त्वा तु जारयेत् ॥ (१८०।२)

kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet ||

181.1१८१.१

मूषायां गोमयं सार्द्रं दत्त्वा चाधोऽथ पावकम् । (१८१।१)

mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam |

181.2१८१.२

षड्गुणं गन्धकं जार्यं सूतस्यैवं मुषं भवेत् ॥ (१८१।२)

ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ muṣaṃ bhavet ||

182.1१८२.१

तत्सूतं मर्दयेत् खल्वे जम्बीरोत्थद्रवैर्दिनम् । (१८२।१)

tatsūtaṃ mardayet khalve jambīrotthadravairdinam |

182.2१८२.२

चतुःषष्ट्यंशकं पूर्वं द्वात्रिंशांशं ततः पुनः ॥ (१८२।२)

catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ ||

183.1१८३.१

षोडशांशं शुद्धहेमपत्त्रं सूतेषु जारयेत् । (१८३।१)

ṣoḍaśāṃśaṃ śuddhahemapattraṃ sūteṣu jārayet |

183.2१८३.२

साग्रे साग्रे तु तन्मर्द्यं जम्बीराणां द्रवैर् दृढम् ॥ (१८३।२)

sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham ||

184.1१८४.१

मूलिका लवणं गन्धमभावे पित्ततैलयोः । (१८४।१)

mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ |

184.2१८४.२

पिष्यो जम्बीरनीरेण हेमपत्त्रं प्रलेपयेत् । (१८४।२)

piṣyo jambīranīreṇa hemapattraṃ pralepayet |

184.3१८४.३

इत्येवं जारणा कार्या ततः सूतं विमारयेत् ॥ (१८४।३)

ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet ||

185.1१८५.१

विड:: वडवानलअथवा निर्मुषं चेमं विडयोगेन जारयेत् । (१८५।१)

viḍa:: vaḍavānalaathavā nirmuṣaṃ cemaṃ viḍayogena jārayet |

185.2१८५.२

विडम् अत्र प्रवक्ष्यामि साधयेद्भिषगुत्तमः ॥ (१८५।२)

viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ ||

186.1१८६.१

शङ्खचूर्णं रविक्षीरैरातपे भावयेद्दिनम् । (१८६।१)

śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam |

186.2१८६.२

तद्वज्जम्बीरजैर् द्रवैर् दिनैकं धूमसारकम् ॥ (१८६।२)

tadvajjambīrajair dravair dinaikaṃ dhūmasārakam ||

187.1१८७.१

सौवर्चलमजामूत्रैः क्वाथं यामचतुष्टयम् । (१८७।१)

sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam |

187.2१८७.२

कण्टकारीरसं क्वाथं दिनैकं नरमूत्रके ॥ (१८७।२)

kaṇṭakārīrasaṃ kvāthaṃ dinaikaṃ naramūtrake ||

188.1१८८.१

साजीक्षारं च कासीसं तिन्तिणीकं शिलाजतु । (१८८।१)

sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu |

188.2१८८.२

जम्बीरोत्थद्रवैर् भाव्यं पृथक् यामचतुष्टयम् ॥ (१८८।२)

jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam ||

189.1१८९.१

जेपालबीजं त्वग्घीनं मूलकानां द्रवैर् दिनम् । (१८९।१)

jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam |

189.2१८९.२

सैन्धवं टङ्कणं गुञ्जा शिग्रुमूलद्रवैर् दिनम् ॥ (१८९।२)

saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam ||

190.1१९०.१

एतत्सर्वं समांशं तु मर्द्यं जम्बीरजैर्द्रवैः । (१९०।१)

etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ |

190.2१९०.२

तद्गोलं रक्षयेद्यत्नात् विडो ऽयं वडबानलः ॥ (१९०।२)

tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ ||

191.1१९१.१

अनेन मर्दयेत्सूतं ग्रसते तप्तखल्वके । (१९१।१)

anena mardayetsūtaṃ grasate taptakhalvake |

191.2१९१.२

स्वर्णाभ्रसर्वलोहानि सत्त्वानि ग्रसते क्षणात् ॥ (१९१।२)

svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt ||

192.1१९२.१

जारण: गर्भ।ग्रास, पिण्ड, परिणामआद्यो गर्भपरः पिण्डः परिणामस्तृतीयकः । (१९२।१)

jāraṇa: garbha|grāsa, piṇḍa, pariṇāmaādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ |

192.2१९२.२

सूतान्तः सर्वजार्याणां जारणस्त्रिविधो विधिः ॥ (१९२।२)

sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ ||

193.1१९३.१

जार्ये तु जारिते सूते वस्त्रेण गालिते सति । (१९३।१)

jārye tu jārite sūte vastreṇa gālite sati |

193.2१९३.२

वस्त्रे तिष्ठति चेत् सर्वमाद्यो वै गर्भसंज्ञकः ॥ (१९३।२)

vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ ||

194.1१९४.१

पुनर्जारितजार्ये तु वस्त्रान् निःशेषनिर्गते । (१९४।१)

punarjāritajārye tu vastrān niḥśeṣanirgate |

194.2१९४.२

ख्यातोऽल्पादधिके सूते सोपरिपिण्डसंज्ञकः ॥ (१९४।२)

khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ ||

195.1१९५.१

जालं कारयता सूते वस्त्रान्निःसरते पुनः । (१९५।१)

jālaṃ kārayatā sūte vastrānniḥsarate punaḥ |

195.2१९५.२

संस्थिते च निजे लौल्ये जीर्णजार्यस् तृतीयकः ॥ (१९५।२)

saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ ||

196.1१९६.१

सिद्धरस (?)कुम्भस्याधः कृते छिद्रे द्विग्रन्थिं दोरकं क्षिपेत् । (१९६।१)

siddharasa (?)kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet |

196.2१९६.२

एकं मध्ये परं बाह्ये कुम्भे कार्यो गलद्घटी ॥ (१९६।२)

ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī ||

197.1१९७.१

महोडाकस्य मूलानां श्रीखण्डेन घटे ततः । (१९७।१)

mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ |

197.2१९७.२

क्षिप्त्वायःस्थालिकामध्ये पारदं जीर्णाहीरकम् ॥ (१९७।२)

kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam ||

198.1१९८.१

सच्छिद्रां ढङ्कणीं दत्त्वा कुम्भं श्रीखण्डसंभृतम् । (१९८।१)

sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam |

198.2१९८.२

प्रध्वरायां च ढङ्कण्यां क्षिप्त्वाग्निं ज्वालयेद्धठात् ॥ (१९८।२)

pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt ||

199.1१९९.१

स्थालिकाधश्चतुर्यामं ढङ्कणीछिद्रमध्यतः । (१९९।१)

sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ |

199.2१९९.२

श्रीपिण्डो दोरकाच्च्युत्वा मुहुः पतति पारदे ॥ (१९९।२)

śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade ||

200.1२००.१

तद्दग्धसूतसम्मिश्रं श्वेतभस्म प्रजायते । (२००।१)

taddagdhasūtasammiśraṃ śvetabhasma prajāyate |

200.2२००.२

तत् क्षिपेद् अन्धमूषायां साकं मध्वाज्यटङ्कणैः ॥ (२००।२)

tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ ||

201.1२०१.१

ध्मातं सत्कुरुते बन्धं पारदस्य न संशयः । (२०१।१)

dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ |

201.2२०१.२

न क्षीयते मुहुर् ध्माते ऽतीवनिश्चलतां गतः ॥ (२०१।२)

na kṣīyate muhur dhmāte 'tīvaniścalatāṃ gataḥ ||

202.1२०२.१

जार्यमाणश्च यः सूतः स्वयमेव निबध्यते । (२०२।१)

jāryamāṇaśca yaḥ sūtaḥ svayameva nibadhyate |

202.2२०२.२

स हि सिद्धरसानां हि देहलोहो निबध्यति ॥ (२०२।२)

sa hi siddharasānāṃ hi dehaloho nibadhyati ||

203.1२०३.१

मृगस्याकृष्णनेत्रे च प्ररोहत्यन्धचक्षुषि । (२०३।१)

mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi |

203.2२०३.२

रसाभ्यक्ते तयोः पीडा नश्यत्यन्धश्च पश्यति ॥ (२०३।२)

rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati ||

204.1२०४.१

देवदानवगन्धर्वसिद्धगुह्यकखेचरैः । (२०४।१)

devadānavagandharvasiddhaguhyakakhecaraiḥ |

204.2२०४.२

रसो वक्त्रे स्थितो यस्य तद्गतिः खे न हन्यते ॥ (२०४।२)

raso vaktre sthito yasya tadgatiḥ khe na hanyate ||

205.1२०५.१

म्रियते न विषेणापि दह्यते नैव वह्निना । (२०५।१)

mriyate na viṣeṇāpi dahyate naiva vahninā |

205.2२०५.२

आकाशे सिद्धविद्यस्य मृतो जीवति तत्क्षणात् ॥ (२०५।२)

ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt ||

206.1२०६.१

मणिमन्त्रौषधेभ्यो ऽपि प्रभावातिशयो महान् । (२०६।१)

maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān |

206.2२०६.२

मृतसंजीवनो नाम रसबन्धः प्रकीर्तितः ॥ (२०६।२)

mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ ||

207.1२०७.१

मेर्चुर्य्:: सारणबद्धसूतचतुःषष्टिपलान्य् आवर्तयेत् सुधीः । (२०७।१)

mercury:: sāraṇabaddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ |

207.2२०७.२

हेमराजिचतुःषष्टिपलान्य् आवर्तयेत् पृथक् ॥ (२०७।२)

hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak ||

208.1२०८.१

ढालयेद्धेमराजिं तां बद्धसूतद्रवोपरि । (२०८।१)

ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari |

208.2२०८.२

रक्तषोटो भवत्येवं संस्कारः सारणो मतः ॥ (२०८।२)

raktaṣoṭo bhavatyevaṃ saṃskāraḥ sāraṇo mataḥ ||

209.1२०९.१

मेर्चुर्य्:: पातन? सारण?तारमध्यगतं कृत्वा पूर्ववत्पातयेद्रसम् । (२०९।१)

mercury:: pātana? sāraṇa?tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam |

209.2२०९.२

हेमपिष्टानुसंपिष्टं कुमारीरसमर्दितम् ॥ (२०९।२)

hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam ||

210.1२१०.१

उपरिस्थस्य भाण्डस्य बुध्नसंलेपितं ध्रुवम् । (२१०।१)

uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam |

210.2२१०.२

एवं तु गन्धकं ताम्ररजते हाटके तथा । (२१०।२)

evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā |

210.3२१०.३

पुनः पुनस्तथा पात्यं चेत्थं संसारयेत्ततः ॥ (२१०।३)

punaḥ punastathā pātyaṃ cetthaṃ saṃsārayettataḥ ||

211.1२११.१

१४। मारणसंस्काररक्तषोटस्य यावन्तो गद्याणाः सारणे कृते । (२११।१)

14. māraṇasaṃskāraraktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte |

211.2२११.२

द्विघ्नाः शुद्धशिलायास्ते भृशं चूर्णीकृता मुहुः ॥ (२११।२)

dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ ||

212.1२१२.१

विस्तीर्णकाचकूप्यां तद् देयं चूर्णमुपर्यधः । (२१२।१)

vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ |

212.2२१२.२

रक्तषोटं च तद्गर्भे क्षिप्त्वास्य चाभ्रचाचिकम् ॥ (२१२।२)

raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya cābhracācikam ||

213.1२१३.१

कूपिकायां वेष्टनानि सप्त देयानि च मृदः । (२१३।१)

kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ |

213.2२१३.२

नरप्रमाणिकं गर्तं खनित्वा छाणकैर् भृतम् ॥ (२१३।२)

narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam ||

214.1२१४.१

तद्गर्भे कूपिकां क्षिप्त्वा हठाग्निं ज्वालयेत् ततः । (२१४।१)

tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ |

214.2२१४.२

स्वाङ्गशीतं च तद् ग्राह्यम् एतन्मारणम् उच्यते ॥ (२१४।२)

svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate ||

215.1२१५.१

१५। प्रतिसारणसंस्कारसंस्कारैर् मनुसंख्यैश्च सूतः संस्कृत्य मारितः । (२१५।१)

15. pratisāraṇasaṃskārasaṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ |

215.2२१५.२

खल्वे क्षिप्त्वा स सम्पिष्टः प्रोच्यते प्रतिसारणम् ॥ (२१५।२)

khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam ||

216.1२१६.१

मारितं मृतनागेन हेम तस्यापि चूर्णकम् । (२१६।१)

māritaṃ mṛtanāgena hema tasyāpi cūrṇakam |

216.2२१६.२

यत्प्रतिसारणे क्षिप्यम् एतत् क्रामणम् उच्यते ॥ (२१६।२)

yatpratisāraṇe kṣipyam etat krāmaṇam ucyate ||

217.1२१७.१

वेधनागवल्ल्याश्च पत्रेण तदतंत्तामितरम् । (२१७।१)

vedhanāgavallyāśca patreṇa tadataṃttāmitaram |

217.2२१७.२

रतिमात्रं क्षिपेत् कुर्यान्नागपत्रस्य वेढनीम् ॥ (२१७।२)

ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm ||

218.1२१८.१

गालयित्वाथ तच्चूर्णं सर्वलोहेषु निक्षिपेत् । (२१८।१)

gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet |

218.2२१८.२

गाल्यमानेषु तायेत सहस्रस्य प्रवेधकम् ॥ (२१८।२)

gālyamāneṣu tāyeta sahasrasya pravedhakam ||

219.1२१९.१

उद्घाटनगालिते नागगद्याणे सूतगद्याणकं क्षिपेत् । (२१९।१)

udghāṭanagālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet |

219.2२१९.२

तच्चूर्णमध्ये क्षेप्तव्यो गद्याणो गंधकस्य च ॥ (२१९।२)

taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca ||

220.1२२०.१

सर्जिकायाश्च गद्याणे मिलिते स्याच्चतुष्टयम् । (२२०।१)

sarjikāyāśca gadyāṇe milite syāccatuṣṭayam |

220.2२२०.२

चूर्णं सम्पिष्य कर्तव्यं जलेनालोडयेत्ततः ॥ (२२०।२)

cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ ||

221.1२२१.१

शरावसम्पुटे क्षिप्त्वा नीरन्ध्रवस्त्रमृत्स्नया । (२२१।१)

śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā |

221.2२२१.२

हस्तप्रमाणिकं गर्तं खनित्वा छाणकैर्भृतम् ॥ (२२१।२)

hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam ||

222.1२२२.१

शरावसम्पुटं गर्ते क्षिप्त्वाग्निर्ज्वालयेत्ततः । (२२२।१)

śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ |

222.2२२२.२

स्वाङ्गशीतं गृहीत्वा तत् कर्तव्यं सूक्ष्मचूर्णकम् ॥ (२२२।२)

svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam ||

223.1२२३.१

गालिते विद्धसूतेऽथ क्षिप्त्वा सर्षपमात्रकम् । (२२३।१)

gālite viddhasūte'tha kṣiptvā sarṣapamātrakam |

223.2२२३.२

एवं कृते च सूतस्योद्घाटनं जायते ध्रुवम् ॥ (२२३।२)

evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam ||

224.1२२४.१

गोल्द्:: राजिजीवशुल्वस्य भागैकं द्वौ भागौ शुद्धहेमजौ । (२२४।१)

gold:: rājijīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau |

224.2२२४.२

भागत्रयं समावर्तपत्त्रं कुर्यात् सुजदुकम् ॥ (२२४।२)

bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam ||

225.1२२५.१

निम्बुकानां रसैः क्षुत्त्वा यन्नागं शिलया मृतम् । (२२५।१)

nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam |

225.2२२५.२

तेन लेपः प्रदातव्यो जडपत्त्रस्य पक्षयोः ॥ (२२५।२)

tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ ||

226.1२२६.१

चित्रकूटस्य षड्भागं भागैकं लवणस्य च । (२२६।१)

citrakūṭasya ṣaḍbhāgaṃ bhāgaikaṃ lavaṇasya ca |

226.2२२६.२

समभागेन संचूर्ण्य भर्तव्या स्थालिका ततः ॥ (२२६।२)

samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ ||

227.1२२७.१

लिप्तं पत्त्रं च तन्मध्ये ब्रुडन्तं चोर्ध्वगं क्षिपेत् । (२२७।१)

liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet |

227.2२२७.२

शरावेऽधोमुखे दत्ते कण्ठं नीरन्ध्रयेन्मृदा ॥ (२२७।२)

śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā ||

228.1२२८.१

ततो ह्य् अधोमुखीं दद्याच्छरावोपरि ढङ्कणीम् । (२२८।१)

tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm |

228.2२२८.२

स्थालिकाधश्चतुर्यामं हठाग्निं ज्वालयेदधः ॥ (२२८।२)

sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ ||

229.1२२९.१

विधिना हि च तेनैवं पत्त्रं फाडीत्रयं भवेत् । (२२९।१)

vidhinā hi ca tenaivaṃ pattraṃ phāḍītrayaṃ bhavet |

229.2२२९.२

गृहीत्वा मध्यमां फाडीं पक्षफाडीद्वयं त्यजेत् ॥ (२२९।२)

gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet ||

230.1२३०.१

मध्यफाड्याश्च चूर्णेन हेमराजिर् भवेद् ध्रुवम् । (२३०।१)

madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam |

230.2२३०.२

चतुःषष्ट्यंशदानेन जार्यश्चाष्टगुणो रसात् ॥ (२३०।२)

catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt ||

231.1२३१.१

लेअद्:: राजिनागराजिस्तु सामान्या माक्षिकी मध्यमा स्मृता । (२३१।१)

lead:: rājināgarājistu sāmānyā mākṣikī madhyamā smṛtā |

231.2२३१.२

उत्तमा घोषराजिश्च यः प्रकाशात्तदुत्तमा ॥ (२३१।२)

uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā ||

232.1२३२.१

पलैकं तीक्ष्णलोहस्य कांस्यस्यापि पलद्वयम् । (२३२।१)

palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam |

232.2२३२.२

पलानि नव ताम्रस्य पित्तलस्य पलत्रयम् ॥ (२३२।२)

palāni nava tāmrasya pittalasya palatrayam ||

233.1२३३.१

शिलया मृतनागस्य तिथिसंख्यापलानि च । (२३३।१)

śilayā mṛtanāgasya tithisaṃkhyāpalāni ca |

233.2२३३.२

त्रिंशत्पलानि मूषायाः प्रक्षिप्यावर्तयेत् सुधीः ॥ (२३३।२)

triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ ||

234.1२३४.१

ततः सुवर्णमाक्षीकं सार्धसप्तपलानि च । (२३४।१)

tataḥ suvarṇamākṣīkaṃ sārdhasaptapalāni ca |

234.2२३४.२

स्तोके स्तोकेन क्षिप्त्वाथ शनैश्चावर्तयेत् सुधीः ॥ (२३४।२)

stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ ||

235.1२३५.१

यावतस्ताम्रभागस्य तत्समानं यदा भवेत् । (२३५।१)

yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet |

235.2२३५.२

स्तोकः प्रकाशराजिः स्यात् प्रथमा परिकीर्तिता ॥ (२३५।२)

stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā ||

236.1२३६.१

ब्रोन्ज़े:: राजितीक्ष्णलोहस्य चूर्णेन समानं कांस्यचूर्णकम् । (२३६।१)

bronze:: rājitīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam |

236.2२३६.२

प्रक्षिप्यावर्त्य मूषायां क्रियते चैकपिण्डकम् ॥ (२३६।२)

prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam ||

237.1२३७.१

पिण्डादर्धगुणं नागं क्षिप्त्वा जार्यं पुनः पुनः । (२३७।१)

piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ |

237.2२३७.२

घोषराजिर् भवेज्जीर्णे नागे कांस्याच्च षड्गुणे ॥ (२३७।२)

ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe ||

238.1२३८.१

माक्षिक:: राजिशुद्धताम्रस्य चत्वारि पलान्यावर्तयेत् पृथक् । (२३८।१)

mākṣika:: rājiśuddhatāmrasya catvāri palānyāvartayet pṛthak |

238.2२३८.२

थूथापलानि चत्वारि माक्षिकं च चतुःपलम् ॥ (२३८।२)

thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam ||

239.1२३९.१

पलाष्टानां कृतं चूर्णं स्तोके स्तोकेन प्रक्षिपेत् । (२३९।१)

palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet |

239.2२३९.२

ताम्रशेषं भवेद्यावद्राजिर्माक्षीकजा मता ॥ (२३९।२)

tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā ||

240.1२४०.१

यावच्छुल्वस्य भागैकं शनैरावर्तयेत्पृथक् । (२४०।१)

yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak |

240.2२४०.२

शिलया मृतनागाष्टौ थूथाभागचतुष्टयम् ॥ (२४०।२)

śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam ||

241.1२४१.१

पिष्ट्वा चूर्णीकृते शुल्बे स्तोकस्तोकेन प्रक्षिपेत् । (२४१।१)

piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet |

241.2२४१.२

नागराजिर् भवेच्चेयम् [॥। औ१२ ज़ेइछेन्झ्] ॥ (२४१।२)

nāgarājir bhavecceyam ||

242.1२४२.१

राज्यभ्युच्छ्रितलोहानां चूर्णं कार्यं सदा बुधैः । (२४२।१)

rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ |

242.2२४२.२

तज्जैश्च राजिरेकैका जार्या चाष्टगुणा रसात् ॥ (२४२।२)

tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt ||

243.1२४३.१

रसक:: सत्त्व:: पातनअथ खापरसत्त्वपातनविधिः । (२४३।१)

rasaka:: sattva:: pātanaatha khāparasattvapātanavidhiḥ |

243.2२४३.२

मणैकं रसकस्याथ नृमूत्रेण दिनत्रयम् । (२४३।२)

maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam |

243.3२४३.३

क्वाथयित्वातपे शुष्कं यामं दुग्धेन पाचयेत् ॥ (२४३।३)

kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet ||

244.1२४४.१

शुष्कं चूर्णीकृतं तस्मिन् क्षेप्योऽष्टांशः खलस्य च । (२४४।१)

śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca |

244.2२४४.२

टङ्कणक्षारतुर्यांशो ऽष्टांशः पूर्वगुडस्य च ॥ (२४४।२)

ṭaṅkaṇakṣāraturyāṃśo 'ṣṭāṃśaḥ pūrvaguḍasya ca ||

245.1२४५.१

साधिते ये मृदो मूषे कचूलाकारवर्तुले । (२४५।१)

sādhite ye mṛdo mūṣe kacūlākāravartule |

245.2२४५.२

एकस्याश्चान्तरे क्षिप्त्वा मूषां चूर्णस्य वर्तताम् ॥ (२४५।२)

ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām ||

246.1२४६.१

अपरस्यां पुनर्नालं मूर्धं चतुर्दशाङ्गुलम् । (२४६।१)

aparasyāṃ punarnālaṃ mūrdhaṃ caturdaśāṅgulam |

246.2२४६.२

मृन्मयं छिद्रं बुध्ने विन्यसेत्तामधोमुखीम् ॥ (२४६।२)

mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm ||

247.1२४७.१

निरघ्नतत् समस्तं च परितो वस्त्रमृत्स्नया । (२४७।१)

niraghnatat samastaṃ ca parito vastramṛtsnayā |

247.2२४७.२

यन्त्रस् तुम्बीनलीनां वै कर्तव्यः सत्त्वपातने ॥ (२४७।२)

yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane ||

248.1२४८.१

कोठीमध्ये क्षिपेद्यन्त्रं बब्बूलखदिरावलीम् । (२४८।१)

koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm |

248.2२४८.२

प्रभृतीनां मृताङ्गारैः पूर्णं पूर्णं धमेन्मुहुः ॥ (२४८।२)

prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ ||

249.1२४९.१

सदृशैश्च विधृत्यास्तुम्बीनलीमध्यतो मुखीम् । (२४९।१)

sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm |

249.2२४९.२

मूषामध्याद् धृतं यावत्सर्वं वेषापरीयकम् ॥ (२४९।२)

mūṣāmadhyād dhṛtaṃ yāvatsarvaṃ veṣāparīyakam ||

250.1२५०.१

मनःशिलासत्त्वपातनअथ मनःशिलासत्त्वपातनविधिः । (२५०।१)

manaḥśilāsattvapātanaatha manaḥśilāsattvapātanavidhiḥ |

250.2२५०.२

श्रेष्ठा कणयरी खल्वे पेष्या मनःशिला बुधैः । (२५०।२)

śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ |

250.3२५०.३

पिदध्याद् अभ्रकेणास्यं तां क्षिप्त्वा काचकुम्पके ॥ (२५०।३)

pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake ||

251.1२५१.१

दद्यात् सलवणं दग्धाश्मचूर्णं मस्तकोपरि । (२५१।१)

dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari |

251.2२५१.२

वस्त्रमृत्तिकया लिम्पेत् समग्रमपि कुम्पकम् ॥ (२५१।२)

vastramṛttikayā limpet samagramapi kumpakam ||

252.1२५२.१

भङ्क्त्वा पक्वघटं कण्ठे मुक्त्वा मृल्लिप्तकुम्पकम् । (२५२।१)

bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam |

252.2२५२.२

हठाग्निर् ज्वालनीयो ऽधो यामं द्वादशकं मणे ॥ (२५२।२)

haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe ||

253.1२५३.१

कुम्पोदरं भवेद्रिक्तं सत्त्वं गलति कण्ठके । (२५३।१)

kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake |

253.2२५३.२

कुम्पं भङ्क्त्वा शिलासत्त्वं ग्राह्यं यत्नेन धीमता ॥ (२५३।२)

kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā ||

254.1२५४.१

गोल्द्:: द्रुतिभावेनापि मृतो भेको यत्र कुत्रापि लभ्यते । (२५४।१)

gold:: drutibhāvenāpi mṛto bheko yatra kutrāpi labhyate |

254.2२५४.२

स्फटिकष्टङ्कणक्षारस् तस्य खोटास् तु सूक्ष्मकाः ॥ (२५४।२)

sphaṭikaṣṭaṅkaṇakṣāras tasya khoṭās tu sūkṣmakāḥ ||

255.1२५५.१

भेकोदरं विदार्याथ ते क्षेप्याः सूक्ष्मखोटकाः । (२५५।१)

bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ |

255.2२५५.२

घृततैलादिना दिग्धं स्थाल्यां भेकं क्षिपेच्च तत् ॥ (२५५।२)

ghṛtatailādinā digdhaṃ sthālyāṃ bhekaṃ kṣipecca tat ||

256.1२५६.१

प्रध्वरां ढङ्कणीं दत्त्वा स्थाली भूमौ निखन्यते । (२५६।१)

pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate |

256.2२५६.२

भुवः स्थालीं समाकृष्य ह्य् अतीतैः षष्टिवासरैः ॥ (२५६।२)

bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ ||

257.1२५७.१

स्थाल्या मध्याद् विशुध्यैवं ग्राह्यं तच्च समग्रकम् । (२५७।१)

sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam |

257.2२५७.२

खरले प्रक्षिप्य तत्सर्वं पेष्टव्यं चातिसूक्ष्मकम् ॥ (२५७।२)

kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam ||

258.1२५८.१

गालयित्वाथ गद्याणं हिमजं तिथिवर्णकम् । (२५८।१)

gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam |

258.2२५८.२

तन्मध्ये भेकचूर्णस्य वल्लः क्षेप्यो विचक्षणैः ॥ (२५८।२)

tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ ||

259.1२५९.१

न बन्धो जायते हेम्नो जातं तद्द्रवरूपितम् । (२५९।१)

na bandho jāyate hemno jātaṃ taddravarūpitam |

259.2२५९.२

इयं हेमद्रुतिर् जाता तज्ज्ञैर्निष्पादिता किल ॥ (२५९।२)

iyaṃ hemadrutir jātā tajjñairniṣpāditā kila ||

260.1२६०.१

मेतल्स्:: द्रुतिहेमान्तर्निहिते वल्ले यथा स्यात्काञ्चनी द्रुतिः । (२६०।१)

metals:: drutihemāntarnihite valle yathā syātkāñcanī drutiḥ |

260.2२६०.२

कान्तलोहे तथा रूप्ये वङ्गे नागे तथैव च ॥ (२६०।२)

kāntalohe tathā rūpye vaṅge nāge tathaiva ca ||

261.1२६१.१

ताम्रे षट्स्वपि लोहेषु चूर्णं षोडशवेधकम् । (२६१।१)

tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam |

261.2२६१.२

षण्णां मध्याच्च लोहाणां कस्याप्येकस्य गालिते ॥ (२६१।२)

ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite ||

262.1२६२.१

गद्याणे वस्त्रमात्रं च प्रक्षिपेद् भेकचूर्णकम् । (२६२।१)

gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam |

262.2२६२.२

तल्लोहं द्रवरूपं स्यात्तन्नाम्नैव द्रुतिर्भवेत् ॥ (२६२।२)

tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet ||

263.1२६३.१

षड्लोहद्रुतिस्तज्ज्ञैः कृता भवेत् सकर्मणा । (२६३।१)

ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā |

263.2२६३.२

अनया यानि कर्माणि वक्ष्यन्ते तानि धातुषु ॥ (२६३।२)

anayā yāni karmāṇi vakṣyante tāni dhātuṣu ||

264.1२६४.१

गोल्द्:: द्रुतिपीताङ्गादेव दालीं च पञ्चाङ्गां कुरु खण्डशः । (२६४।१)

gold:: drutipītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ |

264.2२६४.२

कर्परे ज्वालयित्वा च कर्तव्यं भस्म सूक्ष्मकम् ॥ (२६४।२)

karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam ||

265.1२६५.१

शेषान्ते एव पञ्चाङ्गां निशाह्वायां च वर्तयेत् । (२६५।१)

śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet |

265.2२६५.२

तद्रसेनैव दातव्या भावनास्यैव भस्मनः ॥ (२६५।२)

tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ ||

266.1२६६.१

गालिते चैकगद्याणे तिथिवर्णे च हेमजे । (२६६।१)

gālite caikagadyāṇe tithivarṇe ca hemaje |

266.2२६६.२

प्रक्षिप्ते भस्मनो वल्लं वल्लं च प्रक्षिपेत् पुनः ॥ (२६६।२)

prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ ||

267.1२६७.१

एवं गद्याणमध्ये च जार्यो गद्याणकः सदा । (२६७।१)

evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā |

267.2२६७.२

इत्थं हेमद्रुतिर्जाता सर्वलोहेष्वयं विधिः ॥ (२६७।२)

itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ ||

268.1२६८.१

षड्लोहद्रुतिकरण (३)ज्वालयेत्कर्परे श्वेतं देवदाल्यङ्गपञ्चकम् । (२६८।१)

ṣaḍlohadrutikaraṇa (3)jvālayetkarpare śvetaṃ devadālyaṅgapañcakam |

268.2२६८.२

गोमूत्रैर्भावना देया भस्मनस्त्वेकविंशतिः ॥ (२६८।२)

gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ ||

269.1२६९.१

ततः षट्स्वपि लोहेषु कार्यः प्रागुदितो विधिः । (२६९।१)

tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ |

269.2२६९.२

जायते षट्सु लोहेषु द्रुतिरेवं न संशयः ॥ (२६९।२)

jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ ||

270.1२७०.१

मारण ओड़् दिड़्ड़्। मेतल्स्नागं मनःशिला हन्ति हरितालं च वङ्गकम् । (२७०।१)

māraṇa of diff. metalsnāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam |

270.2२७०.२

हिङ्गुलेन तथा लोहं ताम्रं च शुद्धगन्धकम् ॥ (२७०।२)

hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam ||

271.1२७१.१

रूप्यं च तिलमाक्षीकं स्वर्णं नागेन हन्यते । (२७१।१)

rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate |

271.2२७१.२

यथा ताम्रविधिः प्रोक्तः स विधिः पञ्चमारणे ॥ (२७१।२)

yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe ||

272.1२७२.१

चोप्पेर्:: मारणपत्त्रं ताम्रस्य चूर्णं वा कृत्वा मुञ्चेत्पृथक् सुधीः । (२७२।१)

copper:: māraṇapattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ |

272.2२७२.२

शुद्धगन्धकचूर्णं च ताम्राच्च द्विगुणीकृतम् ॥ (२७२।२)

śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam ||

273.1२७३.१

क्षुण्णं रसेन कुमार्या दुग्धेन तदसंभवे । (२७३।१)

kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave |

273.2२७३.२

तस्य पूपाद्वयस्यान्तः प्रक्षिपेत् ताम्रपत्त्रकम् ॥ (२७३।२)

tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam ||

274.1२७४.१

शरावसम्पुटस्यान्तस्तत् क्षिप्त्वा लिप्य मृत्स्नया । (२७४।१)

śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā |

274.2२७४.२

संधिं वस्त्रमृदा लिप्त्वा कटाहे तत्क्षिपेत् पुटम् ॥ (२७४।२)

saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam ||

275.1२७५.१

छाणकानि कटाहीतत् क्षिप्त्वाग्निं ज्वालयेत्ततः । (२७५।१)

chāṇakāni kaṭāhītat kṣiptvāgniṃ jvālayettataḥ |

275.2२७५.२

ज्वलिते शीतलीभूते ताम्रं ग्राह्यं मृतं बुधैः ॥ (२७५।२)

jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ ||

276.1२७६.१

अथ त्रिधान्नपथ्यहीरककरणं पञ्चधामारणम् । (२७६।१)

atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam |

276.2२७६.२

अन्नपथ्यहीरकजारणम् (१)बीजपूरस्य यद्वृन्तं कुर्यादुत्तार्य रन्ध्रकम् । (२७६।२)

annapathyahīrakajāraṇam (1)bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam |

276.3२७६.३

तन्मध्ये हीरकं जात्यं क्षिप्त्वा वृन्तेन छादयेत् ॥ (२७६।३)

tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet ||

277.1२७७.१

बीजपूरं समग्रं तु वेष्टयेद्वस्त्रमृत्स्नया । (२७७।१)

bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā |

277.2२७७.२

दैर्घ्ये चाधस्तथा व्यासे गर्तं हस्तप्रमाणकम् ॥ (२७७।२)

dairghye cādhastathā vyāse gartaṃ hastapramāṇakam ||

278.1२७८.१

छाणकैः स्थापितैः पूर्णे तद्गर्ते बीजपूरकम् । (२७८।१)

chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam |

278.2२७८.२

पिदध्यात्कर्परेणास्यं मध्ये वह्निं क्षिपेत्ततः ॥ (२७८।२)

pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ ||

279.1२७९.१

ज्वलित्वा शीतलीभूते नवनवैर् बीजपूरकैः । (२७९।१)

jvalitvā śītalībhūte navanavair bījapūrakaiḥ |

279.2२७९.२

पुनः पुनः प्रकर्तव्यो नववेलमयं विधिः ॥ (२७९।२)

punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ ||

280.1२८०.१

निसाहायां च संवर्त्य सुसूक्ष्मा वढवाइका । (२८०।१)

nisāhāyāṃ ca saṃvartya susūkṣmā vaḍhavāikā |

280.2२८०.२

तत्पिण्डान्तः क्षिपेद्वर्जं पिण्डः शरावसम्पुटे ॥ (२८०।२)

tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe ||

281.1२८१.१

भर्तव्या प्राक्कृता गर्ता छाणकैः स्थापितैः पुनः । (२८१।१)

bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ |

281.2२८१.२

तत्पृष्ठं वस्त्रमृल्लिप्तं गर्तां गर्भे पचेत् सुधीः ॥ (२८१।२)

tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ ||

282.1२८२.१

नून्नाभिर् वडवाइभिर् नवधा संपचेन्मुहुः । (२८२।१)

nūnnābhir vaḍavāibhir navadhā saṃpacenmuhuḥ |

282.2२८२.२

ततो राजबदर्याश्च शाखा किसलयात्मिका ॥ (२८२।२)

tato rājabadaryāśca śākhā kisalayātmikā ||

283.1२८३.१

तां गृहीत्वाथ तद्गर्भे रन्ध्रं कुर्याद्विचक्षणः । (२८३।१)

tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ |

283.2२८३.२

नेसहिङ्गुम् अधश्चोर्ध्वं दत्त्वा तं हीरकं क्षिपेत् ॥ (२८३।२)

nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet ||

284.1२८४.१

वस्त्रमृदाथ नीरन्ध्रशाखाकिसलयं ततः । (२८४।१)

vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ |

284.2२८४.२

प्राक्प्रमुक्तगर्तायां नवधा पूर्वरीतिजा ॥ (२८४।२)

prākpramuktagartāyāṃ navadhā pūrvarītijā ||

285.1२८५.१

नेसहिङ्गुमये खोटे रन्ध्रं कृत्वाथ हीरकम् । (२८५।१)

nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam |

285.2२८५.२

क्षिप्त्वास्यं हिङ्गुनाच्छाद्य मुषरिमाषपीठिका ॥ (२८५।२)

kṣiptvāsyaṃ hiṅgunācchādya muṣarimāṣapīṭhikā ||

286.1२८६.१

क्षिप्त्वा तत्तैलसम्पूर्णे पात्रेऽग्निं ज्वालयेदधः । (२८६।१)

kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ |

286.2२८६.२

युक्त्यैवं नवधा कार्यं हिङ्गुखोटे नवे नवे ॥ (२८६।२)

yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave ||

287.1२८७.१

विधिना त्रिपथो जात्यो हीरको जायते स्फुटम् । (२८७।१)

vidhinā tripatho jātyo hīrako jāyate sphuṭam |

287.2२८७.२

थूथाविडेन सम्पिष्य रसे जारयते सुधीः ॥ (२८७।२)

thūthāviḍena sampiṣya rase jārayate sudhīḥ ||

288.1२८८.१

अन्नपथ्यहीरकजारणम् (२)कर्णेभ्यो महिषीनां च मला ग्राह्याः समग्रकाः । (२८८।१)

annapathyahīrakajāraṇam (2)karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ |

288.2२८८.२

तैश्च सम्पत्तिदो हीरान् जात्यान् संवेष्टयेत् सुधीः ॥ (२८८।२)

taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ ||

289.1२८९.१

सूरणक्षुद्रकन्देषु तत् क्षिप्त्वा वस्त्रमृत्स्नया । (२८९।१)

sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā |

289.2२८९.२

वेष्टयित्वा पुटं देयं भूमौ कुर्कुटसंनिभम् ॥ (२८९।२)

veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham ||

290.1२९०.१

वारं वारं श्रुतिमलैः सूरणक्षुद्रकन्दकैः । (२९०।१)

vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ |

290.2२९०.२

वस्त्रमृद्भिर्नवीनाभिर्दातव्यानि पुटानि च ॥ (२९०।२)

vastramṛdbhirnavīnābhirdātavyāni puṭāni ca ||

291.1२९१.१

एकविंशतिवारैश्च भूमौ कुर्कुटकैः पुटैः । (२९१।१)

ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ |

291.2२९१.२

विधीयन्ते सुखेनैव हीराश् चान्नपथा बुधैः ॥ (२९१।२)

vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ ||

292.1२९२.१

वज्र:: प्रेपरतिओन् ड़ोर् एअतिन्ग्या भूम्या मर्दकी तस्या मृदुपत्त्राणि वर्तयेत् । (२९२।१)

vajra:: preparation for eatingyā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet |

292.2२९२.२

तत्पिण्ड्यान्तर् विनिक्षिप्य हीरकान् कुरु गोलकम् ॥ (२९२।२)

tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam ||

293.1२९३.१

तं शरावपुटे क्षिप्त्वा संधिकर्पटमृत्स्नया । (२९३।१)

taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā |

293.2२९३.२

वेष्टयित्वा पुटो देयो भूमौ कुर्कुटसंनिभः ॥ (२९३।२)

veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ ||

294.1२९४.१

नूतनैर् नूतनैर्मुहुः सर्वैश्चतुःषष्टिपुटानि च । (२९४।१)

nūtanair nūtanairmuhuḥ sarvaiścatuḥṣaṣṭipuṭāni ca |

294.2२९४.२

कुर्कुटान्येव देयानि हीराश्चान्नपथीकृताः ॥ (२९४।२)

kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ ||

295.1२९५.१

हीरकभस्मीकरण (१)अग्निना दह्यते नैव भज्यते न हतो घनैः । (२९५।१)

hīrakabhasmīkaraṇa (1)agninā dahyate naiva bhajyate na hato ghanaiḥ |

295.2२९५.२

जले ब्रुडति नैवायं दुःशक्यो हि परीक्षितुम् ॥ (२९५।२)

jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum ||

296.1२९६.१

वज्र:: मारणलीलकं हस्तयोः क्षिप्त्वा हीरकानां च विंशतिः । (२९६।१)

vajra:: māraṇalīlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ |

296.2२९६.२

हस्ताभ्यां मर्दनीयास्ते न स्युर् निस्तेजसश्च ये ॥ (२९६।२)

hastābhyāṃ mardanīyāste na syur nistejasaśca ye ||

297.1२९७.१

वज्र:: परीक्षा:: त्रुएयेष्वेका न भवेद्रेखा ते जात्या हीरकाः स्मृताः । (२९७।१)

vajra:: parīkṣā:: trueyeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ |

297.2२९७.२

कर्परं पक्वम् आनीय गर्ताः कार्यास्त्वनेकशः ॥ (२९७।२)

karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ ||

298.1२९८.१

जात्यहीरान् क्षिपेत्तेषु ततस्तु मृतजीविभिः । (२९८।१)

jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ |

298.2२९८.२

ध्मात्वा ध्मात्वा शिखिवर्णं कार्यं तज्ज्ञैश्च कर्परम् ॥ (२९८।२)

dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam ||

299.1२९९.१

नृमूत्रं थौहरं दुग्धं तुल्यमेकत्र मिश्रितम् । (२९९।१)

nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam |

299.2२९९.२

ताभ्यां विध्मापयेद् ध्मातं कर्परं च मुहुर्मुहुः ॥ (२९९।२)

tābhyāṃ vidhmāpayed dhmātaṃ karparaṃ ca muhurmuhuḥ ||

300.1३००.१

कर्परेषु नवीनेषु गर्तान्कृत्वाथ हीरकान् । (३००।१)

karpareṣu navīneṣu gartānkṛtvātha hīrakān |

300.2३००.२

तानेव ध्मापयेत् क्षिप्त्वा ध्मातान् मिश्रेण छण्टयेत् ॥ (३००।२)

tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet ||

301.1३०१.१

युक्त्यानया सप्तवारं ध्मात्वा विध्मापयेन्मुहुः । (३०१।१)

yuktyānayā saptavāraṃ dhmātvā vidhmāpayenmuhuḥ |

301.2३०१.२

तादृशाः प्रथमे ध्माने जाम्बुलाः स्युर् द्वितीयके ॥ (३०१।२)

tādṛśāḥ prathame dhmāne jāmbulāḥ syur dvitīyake ||

302.1३०२.१

निस्तेजसस्तृतीये तुर्ये त्र्यस्राश्च वर्तुलाः । (३०२।१)

nistejasastṛtīye turye tryasrāśca vartulāḥ |

302.2३०२.२

पञ्चमे छाणिका छिन्नाश्छिद्यन्ते हीरका ध्रुवम् ॥ (३०२।२)

pañcame chāṇikā chinnāśchidyante hīrakā dhruvam ||

303.1३०३.१

हस्ताभ्यां मर्दिताः षष्ठे भज्यन्ते सप्तमे पुनः । (३०३।१)

hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ |

303.2३०३.२

भस्मीभूतास्ततस्तेषां प्रक्षेप्यं भस्म कुम्पके ॥ (३०३।२)

bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake ||

304.1३०४.१

वज्र:: मारणगन्धकामलसाराख्यो हरितालो मनःशिला । (३०४।१)

vajra:: māraṇagandhakāmalasārākhyo haritālo manaḥśilā |

304.2३०४.२

तुर्यः सुवर्णमाक्षीकः कर्तव्याः समतुल्यकाः ॥ (३०४।२)

turyaḥ suvarṇamākṣīkaḥ kartavyāḥ samatulyakāḥ ||

305.1३०५.१

चत्वारो वारिणा पिष्ट्वा कार्यास्ते राबसदृशाः । (३०५।१)

catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ |

305.2३०५.२

पुष्पाल्या घनपुष्पाणि निसाहायां प्रवर्तयेत् ॥ (३०५।२)

puṣpālyā ghanapuṣpāṇi nisāhāyāṃ pravartayet ||

306.1३०६.१

पिण्डं पिष्टस्य कृत्वाथ तन्मध्ये जात्यहीरकान् । (३०६।१)

piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān |

306.2३०६.२

क्षिप्त्वाथ गोलकं कृत्वा वज्रमूषान्तरे क्षिपेत् ॥ (३०६।२)

kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet ||

307.1३०७.१

ध्मातां तामग्निवर्णाभां राबामध्ये क्षिपेन्मुहुः । (३०७।१)

dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ |

307.2३०७.२

एवमित्थंविधिः कार्यो वारानेकचतुर्दश ॥ (३०७।२)

evamitthaṃvidhiḥ kāryo vārānekacaturdaśa ||

308.1३०८.१

अनायासेन वज्राणि भस्मानि स्युर् न संशयः । (३०८।१)

anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ |

308.2३०८.२

चूर्णं विधाय तेषां च प्रक्षिपेत्कुम्पके सुधीः ॥ (३०८।२)

cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ ||

309.1३०९.१

वज्र:: मारणकेतकीनां स्तनानेव निसाहायां जलं विना । (३०९।१)

vajra:: māraṇaketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā |

309.2३०९.२

वर्तयित्वा रसो ग्राह्यो वस्त्रपूतो हि निर्मलः ॥ (३०९।२)

vartayitvā raso grāhyo vastrapūto hi nirmalaḥ ||

310.1३१०.१

रसेनानेन सूक्ष्मा च वर्तनीया मनःशिला । (३१०।१)

rasenānena sūkṣmā ca vartanīyā manaḥśilā |

310.2३१०.२

तया संवेष्ट्य वज्राणि वज्रमूषान्तरे क्षिपेत् ॥ (३१०।२)

tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet ||

311.1३११.१

विध्माप्यार्कदुग्धेन ध्मातां ताम् अग्निनिभां कृताम् । (३११।१)

vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām |

311.2३११.२

एवमिच्छन्मुहुः कार्यः सप्तवेलम् अयं विधिः ॥ (३११।२)

evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ ||

312.1३१२.१

सद्वज्राणि म्रियन्ते च सुखसाध्यानि निश्चितम् । (३१२।१)

sadvajrāṇi mriyante ca sukhasādhyāni niścitam |

312.2३१२.२

तच्च चूर्णं कुम्पे क्षेप्यं मृतहीरकसम्भवम् ॥ (३१२।२)

tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam ||

313.1३१३.१

वज्र:: मारणमन्दारार्कास्तु ये श्वेतास्तेषां मूलानि दाहयेत् । (३१३।१)

vajra:: māraṇamandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet |

313.2३१३.२

ज्वाल्यमानेषु तेषु तैश्च कर्तव्या मृतजीविनः ॥ (३१३।२)

jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ ||

314.1३१४.१

तेष्वगालेपने तेषु कार्या यत्नेन गर्तकाः । (३१४।१)

teṣvagālepane teṣu kāryā yatnena gartakāḥ |

314.2३१४.२

तेषु वज्राणि विन्यस्याग्निष्टे सौवर्णके क्षिपेत् ॥ (३१४।२)

teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet ||

315.1३१५.१

आम्बिल्याउलिबबुलैः संपत्यामृतजीविभिः । (३१५।१)

āmbilyāulibabulaiḥ saṃpatyāmṛtajīvibhiḥ |

315.2३१५.२

सुवज्रानग्निना ध्मात्वा क्वाथे कौलत्थके क्षिपेत् ॥ (३१५।२)

suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet ||

316.1३१६.१

सुखेनाथ तया युक्त्या मार्यं ते हीरका बुधैः । (३१६।१)

sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ |

316.2३१६.२

भस्मीभूतं तु वस्त्राणि चूर्णं क्षेप्यं च कुम्पके ॥ (३१६।२)

bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake ||

317.1३१७.१

वज्र:: मारणअग्निसंयुक्तमूलानि मुखाउल्याः समानयेत् । (३१७।१)

vajra:: māraṇaagnisaṃyuktamūlāni mukhāulyāḥ samānayet |

317.2३१७.२

श्रीखण्डं घर्षयेत् तेषां ससर्धेन प्रलेपयेत् ॥ (३१७।२)

śrīkhaṇḍaṃ gharṣayet teṣāṃ sasardhena pralepayet ||

318.1३१८.१

वज्रमूषां तरंगगर्भे प्रक्षिप्यो जात्यहीरकः । (३१८।१)

vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ |

318.2३१८.२

क्षिप्त्वा श्रीखण्डशेषार्धं मूषामग्निष्टके क्षिपेत् ॥ (३१८।२)

kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet ||

319.1३१९.१

ध्मात्वाद्याग्निनिभां कृत्वा वज्रिदुग्धेन ढालयेत् । (३१९।१)

dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet |

319.2३१९.२

सुखेनाथानया युक्त्या म्रियन्ते जात्यहीरकाः ॥ (३१९।२)

sukhenāthānayā yuktyā mriyante jātyahīrakāḥ ||

320.1३२०.१

तस्मिंस्तेषां कृते चूर्णं प्रक्षिपेत्कुम्पके सुधीः । (३२०।१)

tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ |

320.2३२०.२

यो वज्रभस्मना कर्म प्रभावो ऽग्रे भविष्यति ॥ (३२०।२)

yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati ||

321.1३२१.१

सुल्ड़ुर्:: शोधनस्थालिकायां क्षिपेद् दुग्धं बद्ध्वा शैथिल्यदाथरम् । (३२१।१)

sulfur:: śodhanasthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam |

321.2३२१.२

दाथरे गन्धकं क्षिप्त्वा लिपेत्कण्ठं मृदा दृढम् ॥ (३२१।२)

dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham ||

322.1३२२.१

अग्निष्टं चोपरि क्षिप्त्वा ज्वालयेद् घटिकाद्वयम् । (३२२।१)

agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam |

322.2३२२.२

यावद् व्येति पयो मध्ये स शुद्धो गन्धको भवेत् ॥ (३२२।२)

yāvad vyeti payo madhye sa śuddho gandhako bhavet ||

323.1३२३.१

सुल्ड़ुर्:: शोधनकर्षे कुण्डलिकाया वा घृतेनाभ्यज्य गन्धकम् । (३२३।१)

sulfur:: śodhanakarṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam |

323.2३२३.२

क्षिप्त्वाधो ज्वालयेत्तावद्यावत्तैलोपमो भवेत् ॥ (३२३।२)

kṣiptvādho jvālayettāvadyāvattailopamo bhavet ||

324.1३२४.१

तैलाभो ढाल्यते दुग्धं जायते शुद्धगन्धकः । (३२४।१)

tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ |

324.2३२४.२

प्रकारद्वयसंशुद्धोऽधिकृतो रसकर्मणि ॥ (३२४।२)

prakāradvayasaṃśuddho'dhikṛto rasakarmaṇi ||

325.1३२५.१

पिष्टी ड़्रोम् सुल्ड़ुर् अन्द् मेर्चुर्य्निम्बुकानां रसैः क्षाल्यं यत् किंचित्ताम्रपात्रकम् । (३२५।१)

piṣṭī from sulfur and mercurynimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam |

325.2३२५.२

कृत्वा चात्युज्ज्वलं तत्र शुद्धं रसरन्तीं क्षिपेत् ॥ (३२५।२)

kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet ||

326.1३२६.१

संशुद्धां गन्धकरन्तीं क्षिप्त्वाङ्गुल्या प्रमर्दयेत् । (३२६।१)

saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet |

326.2३२६.२

विधिनैवं मुहुः कार्या पीठा गन्धकसूतयोः ॥ (३२६।२)

vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ ||

327.1३२७.१

गन्धकपीठी (२)गन्धकामलसारस्य तथा शुद्धरसस्य च । (३२७।१)

gandhakapīṭhī (2)gandhakāmalasārasya tathā śuddharasasya ca |

327.2३२७.२

प्रत्येकं विंशगद्याणान् खल्वे एकत्र मर्दयेत् ॥ (३२७।२)

pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet ||

328.1३२८.१

तान् कृत्वा कज्जलीं सूक्ष्मां वाससा गालयेत्ततः । (३२८।१)

tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ |

328.2३२८.२

हेमवल्ल्याश्च कन्दानां श्रीखण्डेन रसेन वा ॥ (३२८।२)

hemavallyāśca kandānāṃ śrīkhaṇḍena rasena vā ||

329.1३२९.१

पिष्ट्वा स्यात् कज्जलीपिष्टं पीठी प्रक्षाल्य सारजा । (३२९।१)

piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā |

329.2३२९.२

प्रकारद्वयं संदृष्ट्वा पीठी गन्धकसम्भवा ॥ (३२९।२)

prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā ||

330.1३३०.१

मृदुवर्तितपत्त्राणि पातालस्य गुरुत्मना । (३३०।१)

mṛduvartitapattrāṇi pātālasya gurutmanā |

330.2३३०.२

पिड्यां पिष्टस्य क्षिप्त्वैनां पीठीं कृत्वा च गोलकम् ॥ (३३०।२)

piḍyāṃ piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam ||

331.1३३१.१

तं शरावपुटे क्षिपेत् संधिकर्पटमृत्स्नया । (३३१।१)

taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā |

331.2३३१.२

नीरन्ध्रज्वलदङ्गारैः पुटं देयं च कौक्कुटम् ॥ (३३१।२)

nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam ||

332.1३३२.१

स्वाङ्गशीतीकृतं चूर्णं प्रक्षिपेत्कुम्पके सुधीः । (३३२।१)

svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ |

332.2३३२.२

रूप्यस्य च चतुःषष्टिर्गाल्या गद्याणकास्तथा ॥ (३३२।२)

rūpyasya ca catuḥṣaṣṭirgālyā gadyāṇakāstathā ||

333.1३३३.१

तन्मध्ये चैकगद्याणे पीठीचूर्णे निवेशिते । (३३३।१)

tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite |

333.2३३३.२

तिथिवर्णं भवेद्धेम निश्चितं नैष संशयः ॥ (३३३।२)

tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ ||

334.1३३४.१

इति गन्धकजा पीठी चतुःषष्ट्यंशवेधिका । (३३४।१)

iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā |

334.2३३४.२

हेमकर्तॄणि कर्माणि जायन्ते संगतानि वै ॥ (३३४।२)

hemakartṝṇi karmāṇi jāyante saṃgatāni vai ||

335.1३३५.१

गन्धतैलौत्कृष्टसर्जिका तुर्यमपानां सूक्ष्मचूर्णकम् । (३३५।१)

gandhatailautkṛṣṭasarjikā turyamapānāṃ sūkṣmacūrṇakam |

335.2३३५.२

क्षिप्त्वा स्थाल्यां हि संध्यायां कुम्भमानं जलं क्षिपेत् ॥ (३३५।२)

kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet ||

336.1३३६.१

त्यक्तव्यं काबसम्मनीतार्यसज्जिकापयः । (३३६।१)

tyaktavyaṃ kābasammanītāryasajjikāpayaḥ |

336.2३३६.२

उत्कृष्टाश्मना वेदास्तेषां चूर्णं तु सूक्ष्मकम् ॥ (३३६।२)

utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam ||

337.1३३७.१

गन्धकामलसारस्य मणैकं सूक्ष्मचूर्णकम् । (३३७।१)

gandhakāmalasārasya maṇaikaṃ sūkṣmacūrṇakam |

337.2३३७.२

क्षिप्त्वैवात्र ह्युभे चूर्णे पिष्ट्वा चैकात्मतां नयेत् ॥ (३३७।२)

kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet ||

338.1३३८.१

क्षिपेत्पञ्चमणान् स्थाल्यां यस्यां मतिघटद्वयम् । (३३८।१)

kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam |

338.2३३८.२

स्वर्जिका जलमन्यस्यां मुक्त्वा चुल्ल्योपरि क्षिपेत् ॥ (३३८।२)

svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet ||

339.1३३९.१

एरण्डतैलवत्तैलम् उपर्यायाति गन्धकम् । (३३९।१)

eraṇḍatailavattailam uparyāyāti gandhakam |

339.2३३९.२

तत्स्थाल्या मुहुरादाय क्षिपेच्छीतं च कूम्पके ॥ (३३९।२)

tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake ||

340.1३४०.१

सिल्वेर् => गोल्द्शुद्धसूतस्य गद्याणान् भूधरे दश विन्यसेत् । (३४०।१)

silver => goldśuddhasūtasya gadyāṇān bhūdhare daśa vinyaset |

340.2३४०.२

गन्धतैलस्य गद्याणं दद्यात्कोडीयकं मुखे ॥ (३४०।२)

gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe ||

341.1३४१.१

सन्धौ वस्त्रं मृदा लिप्त्वा चतुर्भिः छाणकैः पुटम् । (३४१।१)

sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam |

341.2३४१.२

दातव्यं चानया रीत्या वारं वारम् पुटं शतम् ॥ (३४१।२)

dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam ||

342.1३४२.१

प्रक्षिपेत्तैलगद्याणं गन्धकं च पुटे पुटे । (३४२।१)

prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe |

342.2३४२.२

मुखे कोडीयकं दद्यान्नवां वस्त्रमृदं मुहुः ॥ (३४२।२)

mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ ||

343.1३४३.१

तैलं सूतेन संजीर्णं दशघ्नं गन्धकं शनैः । (३४३।१)

tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ |

343.2३४३.२

हेमराजेस्ततो वल्ल्या दश क्षेप्याः पुटे पुटे ॥ (३४३।२)

hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe ||

344.1३४४.१

पूर्वरीत्या पुटं देयं तुर्यतुर्यैश्च छाणकैः । (३४४।१)

pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ |

344.2३४४.२

हेमराजेश्च सूतेन कर्षो जीर्णश्चतुःपुटः ॥ (३४४।२)

hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ ||

345.1३४५.१

शुद्धरूप्यस्य पत्राणि अमुना द्रवरूपिणा । (३४५।१)

śuddharūpyasya patrāṇi amunā dravarūpiṇā |

345.2३४५.२

लिप्त्वा श्रावपुटे क्षिप्त्वा तत्संधिं वस्त्रमृत्स्नया ॥ (३४५।२)

liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā ||

346.1३४६.१

लिप्त्वा भूमौ प्रदातव्यं छाणकैः कौक्कुटं पुटम् । (३४६।१)

liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam |

346.2३४६.२

तिथिवर्णं भवेद्धेम कर्तव्या नैव संशयः ॥ (३४६।२)

tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ ||

347.1३४७.१

चन्द्रार्क:: प्रोदुच्तिओन्भागा द्वादश रूप्यस्य तथा ताम्रस्य षोडश । (३४७।१)

candrārka:: productionbhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa |

347.2३४७.२

गालयेन्मिश्रितान् वज्रमूषायामष्टविंशतिम् ॥ (३४७।२)

gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim ||

348.1३४८.१

खोटश्चन्द्रार्कनामाभूत्तस्य पत्राणि कारयेत् । (३४८।१)

khoṭaścandrārkanāmābhūttasya patrāṇi kārayet |

348.2३४८.२

एकाङ्गुलानि संलिप्य जीर्णहेमाख्यराजिना ॥ (३४८।२)

ekāṅgulāni saṃlipya jīrṇahemākhyarājinā ||

349.1३४९.१

तानि श्रावपुटे क्षिप्त्वा तत्सन्धिं वस्त्रमृत्स्नया । (३४९।१)

tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā |

349.2३४९.२

लिप्त्वा भूमौ प्रदातव्यं छाणकैः कौक्कुटं पुटम् ॥ (३४९।२)

liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam ||

350.1३५०.१

प्रकारेण द्वितीयेन हेमस्यात्तिथिवर्णकम् । (३५०।१)

prakāreṇa dvitīyena hemasyāttithivarṇakam |

350.2३५०.२

अथ पित्तलपत्राणि लिप्त्वा युक्त्यानया तथा ॥ (३५०।२)

atha pittalapatrāṇi liptvā yuktyānayā tathā ||

351.1३५१.१

कौक्कुटेन पुटेनैव हेम स्यात्तिथिवर्णकम् । (३५१।१)

kaukkuṭena puṭenaiva hema syāttithivarṇakam |

351.2३५१.२

एवं गन्धकतैलेन त्रिधा हेम प्रजायते ॥ (३५१।२)

evaṃ gandhakatailena tridhā hema prajāyate ||

352.1३५२.१

गोल्द्:: प्रोदुच्तिओन्नालं च गोस्तनाकारं मध्ये वर्तुलकैर्धृतम् । (३५२।१)

gold:: productionnālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam |

352.2३५२.२

वर्तुलां वज्रमूषां च पूर्वं कुर्याद्विचक्षणः ॥ (३५२।२)

vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ ||

353.1३५३.१

दशघ्नं गन्धकं तैलं हेमराजेश्च कर्षकः । (३५३।१)

daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ |

353.2३५३.२

येन जीर्णश्च तत्सर्वं मूषायां प्रक्षिपेद्रसम् ॥ (३५३।२)

yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam ||

354.1३५४.१

क्षिपेच्च कङ्गुणीतैलं यथा ब्रुडति पारदः । (३५४।१)

kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ |

354.2३५४.२

मूषामग्निष्टके ध्मायादङ्गारैः परिपूरिते ॥ (३५४।२)

mūṣāmagniṣṭake dhmāyādaṅgāraiḥ paripūrite ||

355.1३५५.१

यावत्तोल्यो हि सूतः स्यात्तत्तोल्यां हेमराजिकाम् । (३५५।१)

yāvattolyo hi sūtaḥ syāttattolyāṃ hemarājikām |

355.2३५५.२

गालयित्वान्यमूषायां वज्रमूषान्तरे क्षिपेत् ॥ (३५५।२)

gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet ||

356.1३५६.१

खोटा भूधविधानेन सहस्रस्य प्रवेधकः । (३५६।१)

khoṭā bhūdhavidhānena sahasrasya pravedhakaḥ |

356.2३५६.२

तारताम्रादिनागानां गद्याणानां सहस्रकम् ॥ (३५६।२)

tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam ||

357.1३५७.१

प्रत्येकं पृथग्गाल्यानां तन्मध्ये षोटसम्भवः । (३५७।१)

pratyekaṃ pṛthaggālyānāṃ tanmadhye ṣoṭasambhavaḥ |

357.2३५७.२

गद्याणैकपृथक् क्षेप्यो हेम स्यादुत्तमं पृथक् ॥ (३५७।२)

gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak ||

358.1३५८.१

सुल्ड़ुर्:: हृत्पीठीउत्कृष्टसर्जिकाक्षारमणानां सूक्ष्मचूर्णकम् । (३५८।१)

sulfur:: hṛtpīṭhīutkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam |

358.2३५८.२

संध्यायां तु मणं स्थाल्यां कुम्भमानं जलं क्षिपेत् ॥ (३५८।२)

saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet ||

359.1३५९.१

प्रातस्त्यक्त्वा रसं त्यक्त्वा भूयोऽपि प्रक्षिपेन्मणम् । (३५९।१)

prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam |

359.2३५९.२

एवं षड्वासरे कुर्यात् षण्मणं सर्जिकाजलम् ॥ (३५९।२)

evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam ||

360.1३६०.१

नीता ये च जलं शेषम् अत्यच्छं कुरुते सुधीः । (३६०।१)

nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ |

360.2३६०.२

गन्धकामलसारोऽपि वारिणा तेन पेषयेत् ॥ (३६०।२)

gandhakāmalasāro'pi vāriṇā tena peṣayet ||

361.1३६१.१

तं च वारिनिभं कुर्यात्प्रक्षिपेत्कुंपके सुधीः । (३६१।१)

taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ |

361.2३६१.२

कुम्भवस्त्रमृदावेष्ट्य दत्त्वास्ये चाम्रचातिकाम् ॥ (३६१।२)

kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām ||

362.1३६२.१

अहोरात्रं ज्वलत्यग्निं छन्ना यत्र च चूह्यके । (३६२।१)

ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake |

362.2३६२.२

निक्षिप्य कुंपकं गर्भे रक्षा देया षडङ्गुलाम् ॥ (३६२।२)

nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām ||

363.1३६३.१

निक्षिप्तश्च रहास्मोयन्न् एकविंशतिवासरान् । (३६३।१)

nikṣiptaśca rahāsmoyann ekaviṃśativāsarān |

363.2३६३.२

विलग्नः सर्जिकाक्षारः कुम्प्यन्तः परितो भ्रमन् ॥ (३६३।२)

vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman ||

364.1३६४.१

नालिकेरजलाभोऽभूत्पीततोयो हि गन्धकः । (३६४।१)

nālikerajalābho'bhūtpītatoyo hi gandhakaḥ |

364.2३६४.२

हृतिपीठीति विख्यातं वारिगन्धकजं त्विदम् ॥ (३६४।२)

hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam ||

365.1३६५.१

मेर्चुर्य्:: षोट (खोट?)शुद्धसूतस्य चतुरो वल्लान् पिष्ट्वा घटीद्वयम् । (३६५।१)

mercury:: ṣoṭa (khoṭa?)śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam |

365.2३६५.२

पीतेन वारिणा तेन भस्मीभवति पारदः ॥ (३६५।२)

pītena vāriṇā tena bhasmībhavati pāradaḥ ||

366.1३६६.१

शुद्धरूप्यस्य पत्राणि सूते चानेन लेपयेत् । (३६६।१)

śuddharūpyasya patrāṇi sūte cānena lepayet |

366.2३६६.२

ध्मायाच्च वज्रमूषायां धमण्या च वत्कृयाम् ॥ (३६६।२)

dhmāyācca vajramūṣāyāṃ dhamaṇyā ca vatkṛyām ||

367.1३६७.१

रूप्यं कृष्णमयं जातं तस्याष्टौ गदीयाणकाः । (३६७।१)

rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ |

367.2३६७.२

उत्कृष्टहेमगद्याणैः सूर्यसंख्यैः समन्विताः ॥ (३६७।२)

utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ ||

368.1३६८.१

गालिता विंशतिः स्वर्णं भवेयुस्तिथिवर्णकम् । (३६८।१)

gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam |

368.2३६८.२

कर्परे शुद्धसूतं च क्षिप्त्वाधो ज्वालयेन्मृदु ॥ (३६८।२)

karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu ||

369.1३६९.१

अहोरात्रं मृदुवह्निमेकविंशतिवासरान् । (३६९।१)

ahorātraṃ mṛduvahnimekaviṃśativāsarān |

369.2३६९.२

प्राकृतं गन्धकं वारि बिन्दुमात्रं क्षिपेन्मुहुः ॥ (३६९।२)

prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ ||

370.1३७०.१

शुद्धसूतस् त्वहोरात्रम् एकविंशतिवासरः । (३७०।१)

śuddhasūtas tvahorātram ekaviṃśativāsaraḥ |

370.2३७०.२

एवं निष्पद्यते बन्धः सूतः षोटश्च जायते ॥ (३७०।२)

evaṃ niṣpadyate bandhaḥ sūtaḥ ṣoṭaśca jāyate ||

371.1३७१.१

सुल्ड़ुर्:: द्रुति ड़ोर् वेधमृदु वर्तय पत्राणि पातालस्य गुरुत्मना । (३७१।१)

sulfur:: druti for vedhamṛdu vartaya patrāṇi pātālasya gurutmanā |

371.2३७१.२

पिण्ड्यां पिष्टस्य ते षोटं क्षिप्त्वा कार्यो हि गोलकम् ॥ (३७१।२)

piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam ||

372.1३७२.१

तं सरावपुटे क्षिप्त्वा सन्धिकर्पटमृत्स्नया । (३७२।१)

taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā |

372.2३७२.२

वेष्टयित्वा पुटं देयं भूमौ कुक्कुटसंज्ञकम् ॥ (३७२।२)

veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam ||

373.1३७३.१

निर्धूमैर्ज्वलदङ्गारैः षोटो ऽभूत् पीतवर्णकः । (३७३।१)

nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ |

373.2३७३.२

गालनीया चतुःषष्टिगद्याणाः शुद्धरूप्यजाः ॥ (३७३।२)

gālanīyā catuḥṣaṣṭigadyāṇāḥ śuddharūpyajāḥ ||

374.1३७४.१

तन्मध्ये षोटगद्याणे क्षिप्तं स्यात्स्वर्णमुत्तमम् । (३७४।१)

tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam |

374.2३७४.२

गान्धिकीह द्रुतिः पीठी चतुःषष्टिप्रवेधिका ॥ (३७४।२)

gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā ||

375.1३७५.१

हरिताल:: शोधनगोदन्ती हरितालायास् तावत् पत्राणि दापय । (३७५।१)

haritāla:: śodhanagodantī haritālāyās tāvat patrāṇi dāpaya |

375.2३७५.२

यावन्न स्युर्द्विधा तानि दोलायन्त्रे क्षिपेत्ततः ॥ (३७५।२)

yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ ||

376.1३७६.१

अश्मचूर्णस्य या चाछिभृता स्थाली तया दृढा । (३७६।१)

aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā |

376.2३७६.२

दोलायन्त्रे तथा कार्या वस्त्रं बुन्धे लगेन्न हि ॥ (३७६।२)

dolāyantre tathā kāryā vastraṃ bundhe lagenna hi ||

377.1३७७.१

तज्ज्ञेन स्वेदनीयानि यामयुग्मं हठाग्निना । (३७७।१)

tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā |

377.2३७७.२

स्वेदनस्वेदनस्यान्ते जलेन क्षालयेत्तथा ॥ (३७७।२)

svedanasvedanasyānte jalena kṣālayettathā ||

378.1३७८.१

निःसरन्ति यथा तेभ्यो नीलपीतादिकृष्णिकाः । (३७८।१)

niḥsaranti yathā tebhyo nīlapītādikṛṣṇikāḥ |

378.2३७८.२

सदैवातपशुष्काणि दोलायंत्रे परिक्षिपेत् ॥ (३७८।२)

sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet ||

379.1३७९.१

यंत्रे यंत्रे पुनस्तानि स्वेद्यानि प्रहरद्वयम् । (३७९।१)

yaṃtre yaṃtre punastāni svedyāni praharadvayam |

379.2३७९.२

लुणयुक्त्या तु नालेन द्विवेलं स्वेदयेत्ततः ॥ (३७९।२)

luṇayuktyā tu nālena dvivelaṃ svedayettataḥ ||

380.1३८०.१

ततो दुग्धे गवादीनां स्वेदयेत्तत्क्रमेण च । (३८०।१)

tato dugdhe gavādīnāṃ svedayettatkrameṇa ca |

380.2३८०.२

कुष्माण्डं खण्डशः कृत्वा स्वेदयेत्तद्रसेन च ॥ (३८०।२)

kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca ||

381.1३८१.१

वर्तनीयानि साहायां वडवाप्याज्वलान्वितः । (३८१।१)

vartanīyāni sāhāyāṃ vaḍavāpyājvalānvitaḥ |

381.2३८१.२

सुसूक्ष्माश्चन्दनाकाराः स्वेदयेत्तद्रसेन च ॥ (३८१।२)

susūkṣmāścandanākārāḥ svedayettadrasena ca ||

382.1३८२.१

शोधनैः पञ्चभिः शुद्धाः गोदंती निर्विषीभवेत् । (३८२।१)

śodhanaiḥ pañcabhiḥ śuddhāḥ godaṃtī nirviṣībhavet |

382.2३८२.२

हृदुत्क्लेदमशुद्ध्या सा घूर्मारं च करोति च ॥ (३८२।२)

hṛdutkledamaśuddhyā sā ghūrmāraṃ ca karoti ca ||

383.1३८३.१

तापं च नाडिसंकोचम् अन्तस्तापं करोति च । (३८३।१)

tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca |

383.2३८३.२

अतः प्रागेव संशुद्धा हरितालामृतोपमा ॥ (३८३।२)

ataḥ prāgeva saṃśuddhā haritālāmṛtopamā ||

384.1३८४.१

चोप्पेर् => सिल्वेर्शुद्धसूतस्य चत्वारि शुद्धतालस्य विंशतिम् । (३८४।१)

copper => silverśuddhasūtasya catvāri śuddhatālasya viṃśatim |

384.2३८४.२

क्षिप्त्वा छागीवसायाश्च पलिकार्धे मुहुर्मुहुः ॥ (३८४।२)

kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ ||

385.1३८५.१

चतुर्विंशतिगद्याणान् खल्वे पिष्ट्वैकवासरम् । (३८५।१)

caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram |

385.2३८५.२

तत्सर्वं कुंपके क्षिप्त्वा मुखे कर्परचातिकाम् ॥ (३८५।२)

tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām ||

386.1३८६.१

दत्त्वा वस्त्रमृदा लिम्पेत्कुंपकं वस्त्रमृत्स्नया । (३८६।१)

dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā |

386.2३८६.२

आ कंठं सप्तधावेष्ट्यं चुल्ल्यन्तः प्रक्षिपेच्च तम् ॥ (३८६।२)

ā kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam ||

387.1३८७.१

संकीर्णोच्चतरा चुल्ही तथा कार्या नवीनका । (३८७।१)

saṃkīrṇoccatarā culhī tathā kāryā navīnakā |

387.2३८७.२

दोलायंत्रवदाभाति कुम्पार्धं चुल्हके यथा ॥ (३८७।२)

dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā ||

388.1३८८.१

कुंपकादर्धश्च यामैकं वह्निर् योज्यो मृदुस्ततः । (३८८।१)

kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ |

388.2३८८.२

ज्वालनीयो हठो वह्निर्यावद्यामचतुष्टयम् ॥ (३८८।२)

jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam ||

389.1३८९.१

सत्त्वं प्रोड्डीय सूतश्च कुम्पकण्ठे लगिष्यति । (३८९।१)

sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati |

389.2३८९.२

ततस्तं कुंपकं भङ्क्त्वा कंठाद् ग्राह्यं समग्रकम् ॥ (३८९।२)

tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam ||

390.1३९०.१

क्षिप्त्वा स्थालीवसायाश्च पलिकार्धं प्रतिक्षणम् । (३९०।१)

kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam |

390.2३९०.२

सप्ताहं प्रत्यहं पिष्ट्वा नवीने कुंपके क्षिपेत् ॥ (३९०।२)

saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet ||

391.1३९१.१

सप्तधा सप्तभिः कुंपैः कार्यः प्राग्विहितो विधिः । (३९१।१)

saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ |

391.2३९१.२

ततः सप्तमवेलायां कृष्णत्वं याति कण्ठके ॥ (३९१।२)

tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake ||

392.1३९२.१

कुंपबन्धे रहन्त्येव ये वारिसदृशाः कणाः । (३९२।१)

kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ |

392.2३९२.२

सत्वभूताश्च ते सर्वे ग्राह्याः कार्यविवर्जिताः ॥ (३९२।२)

satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ ||

393.1३९३.१

तोलयित्वा ततस्तस्माद्द्विगुणं शुद्धपारदम् । (३९३।१)

tolayitvā tatastasmāddviguṇaṃ śuddhapāradam |

393.2३९३.२

यामं खल्वे द्वयं पिष्ट्वा निम्बुकेन रसेन च ॥ (३९३।२)

yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca ||

394.1३९४.१

वारं वारं च प्रक्षेप्यो मर्दने नैम्बुको रसः । (३९४।१)

vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ |

394.2३९४.२

ततः सा पीठिका जाता सूततालकसंभवा ॥ (३९४।२)

tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā ||

395.1३९५.१

स्थालिकायां च तां पीठीं कांजिकं लवणान्वितम् । (३९५।१)

sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam |

395.2३९५.२

निंबुकानि च खण्डानि प्रक्षिप्य स्वेदयेद्दिनम् ॥ (३९५।२)

niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam ||

396.1३९६.१

नष्टं नष्टं मुहुः क्षेप्यं कांजिकं लवणान्वितम् । (३९६।१)

naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam |

396.2३९६.२

स्वेदोत्तीर्णा च सा पीठी संशोष्या चातपे दृढा ॥ (३९६।२)

svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā ||

397.1३९७.१

पीठीं तां टंकणक्षारं समतुल्यं च पेषयेत् । (३९७।१)

pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet |

397.2३९७.२

मीणपूपाद्वयं कृत्वा चैकस्यां पीठिकां क्षिपेत् ॥ (३९७।२)

mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet ||

398.1३९८.१

द्वितीयां चोपरि दत्त्वा कार्या वेढिनिका बुधैः । (३९८।१)

dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ |

398.2३९८.२

यावत् तौल्या हि सा पीठी तत् तौल्यं शुद्धरूप्यकम् ॥ (३९८।२)

yāvat taulyā hi sā pīṭhī tat taulyaṃ śuddharūpyakam ||

399.1३९९.१

गालयेद्वज्रमूषायां वेढनीं चोपरि क्षिपेत् । (३९९।१)

gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet |

399.2३९९.२

दह्यते टंकणक्षारो मीणे ध्राते दृढे सति ॥ (३९९।२)

dahyate ṭaṃkaṇakṣāro mīṇe dhrāte dṛḍhe sati ||

400.1४००.१

तालरूप्यं भवेत्षोटः श्वेतशंखस्य सन्निभः । (४००।१)

tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ |

400.2४००.२

ताम्रस्यैव चतुःषष्टिः गालयेद्गदीयाणकान् ॥ (४००।२)

tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān ||

401.1४०१.१

तन्मध्ये षोटगद्याणे क्षिप्ते रूप्यं भवेद् ध्रुवम् । (४०१।१)

tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam |

401.2४०१.२

षोटोऽभूत्तालरूप्योऽयं चतुःषष्टिप्रवेधकः ॥ (४०१।२)

ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ ||

402.1४०२.१

यः करोति रतिमात्रं प्रत्यहं प्रातरुत्थितः । (४०२।१)

yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ |

402.2४०२.२

षड्भिर्मासैः प्रणश्यन्ति अष्ट कुष्ठा दशापि हि ॥ (४०२।२)

ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi ||

403.1४०३.१

उद्गच्छन्ति नवा दन्ताः केशाः कृष्णा भवन्ति च । (४०३।१)

udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca |

403.2४०३.२

पलितं मूलतो याति वलिनाशो भवेद् ध्रुवम् ॥ (४०३।२)

palitaṃ mūlato yāti valināśo bhaved dhruvam ||

404.1४०४.१

धान्याभ्र:: प्रोदुच्तिओन्कोद्रवा व्याघ्रमदनास्तेषां पोषय सेतिकाम् । (४०४।१)

dhānyābhra:: productionkodravā vyāghramadanāsteṣāṃ poṣaya setikām |

404.2४०४.२

पिष्टमध्यात् सुसूक्ष्मं च ग्राहयेन्माणकद्वयम् ॥ (४०४।२)

piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam ||

405.1४०५.१

कांजिकं स्थालिकायां च क्षिप्त्वाकण्ठं क्षिपेज्जलम् । (४०५।१)

kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam |

405.2४०५.२

अतीवाम्लं भवेत्तच्च ह्यतीतैः सप्तवासरैः ॥ (४०५।२)

atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ ||

406.1४०६.१

विधिनानेन कर्तव्यं चात्यम्लं द्वितीयं जलम् । (४०६।१)

vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam |

406.2४०६.२

मणं श्वेताभ्रकं चूर्णं संयुक्तं तेन वारिणा ॥ (४०६।२)

maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā ||

407.1४०७.१

प्रक्षिप्योलूखले कुट्टयन् यामधान्याभ्रकं भवेत् । (४०७।१)

prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet |

407.2४०७.२

अभ्र:: द्रुतिजले धान्याभ्रकं तस्मिन्नेकविंशतिवारकान् ॥ (४०७।२)

abhra:: drutijale dhānyābhrakaṃ tasminnekaviṃśativārakān ||

408.1४०८.१

बुडच्च राहयित्वाथ संशोष्यं चातपे पुनः । (४०८।१)

buḍacca rāhayitvātha saṃśoṣyaṃ cātape punaḥ |

408.2४०८.२

राला स्यात् टंकणक्षारो लवणं कणगुग्गुलः ॥ (४०८।२)

rālā syāt ṭaṃkaṇakṣāro lavaṇaṃ kaṇaguggulaḥ ||

409.1४०९.१

प्रत्येकं मणदीपांशं चतुर्णां मिलितो मणः । (४०९।१)

pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ |

409.2४०९.२

तिलानां पलगद्याणा विंशतिश्च गुडस्य च ॥ (४०९।२)

tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca ||

410.1४१०.१

वल्लानां पल्लिकापीठी द्वौ कर्षौ मधुदुग्धयोः । (४१०।१)

vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ |

410.2४१०.२

युक्तं धान्याभ्रकेनैव क्षोदनीयं मुहुर्मुहुः ॥ (४१०।२)

yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ ||

411.1४११.१

दश गद्याणका मात्राः पूपाः कार्या अनेकशः । (४११।१)

daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ |

411.2४११.२

क्षिप्त्वैकां राक्षसे यंत्रे तमङ्गारैश्च पूरयेत् ॥ (४११।२)

kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet ||

412.1४१२.१

एकस्यां गालितायां च द्वितीयां प्रक्षिपेत्सुधीः । (४१२।१)

ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ |

412.2४१२.२

यामैर्गाल्याः क्रमात् सर्वाः स्वांगशीताः समुद्धरेत् ॥ (४१२।२)

yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet ||

413.1४१३.१

तासां मध्यात् समाकृष्यात् द्रुतिरभ्रकसंभवा । (४१३।१)

tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā |

413.2४१३.२

धान्याभ्रक:: द्रुतिसुखेनाप्यनया युक्त्या द्रुतिर्धान्याभ्रकाद्भवेत् ॥ (४१३।२)

dhānyābhraka:: drutisukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet ||

414.1४१४.१

श्वेतधान्याभ्रकं चूर्णं गद्याणद्वयसंमितम् । (४१४।१)

śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam |

414.2४१४.२

क्षिप्त्वा दुग्धपालीमध्ये पातव्यः सेहुलो मुहुः ॥ (४१४।२)

kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ ||

415.1४१५.१

कोष्टिकायासवे क्षेप्यो याति सो ऽन्यत्रतो यथा । (४१५।१)

koṣṭikāyāsave kṣepyo yāti so 'nyatrato yathā |

415.2४१५.२

पीत्वा पीत्वा हि तद्दुग्धं पुरीषं तत्र मुञ्चति ॥ (४१५।२)

pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati ||

416.1४१६.१

सर्वं ग्राह्यं पुरीषं तदतीतैर्बहुभिर्दिनैः । (४१६।१)

sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ |

416.2४१६.२

तत्तोलयित्वा चतुर्थांशं टंकणक्षारजं क्षिपेत् ॥ (४१६।२)

tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet ||

417.1४१७.१

तत्पिष्ट्वाज्यमधुभ्यां च कृतं लेपस्य सन्निभम् । (४१७।१)

tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham |

417.2४१७.२

तेन तुम्बीनलीयन्त्रमध्यं लेप्यं दृढं खलु ॥ (४१७।२)

tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu ||

418.1४१८.१

इंगालैः पूरयित्वा तां धमण्या वक्रवक्त्रया । (४१८।१)

iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā |

418.2४१८.२

ध्मातव्या याममेकं च सा त्ववाङ्मुखकुम्पिका ॥ (४१८।२)

dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā ||

419.1४१९.१

लेपस्फेठं द्रुतिर्जाता श्वेतधान्याभ्रकोद्भवा । (४१९।१)

lepaspheṭhaṃ drutirjātā śvetadhānyābhrakodbhavā |

419.2४१९.२

द्वितीयपरिणा तज्ज्ञैः कर्तव्या चाभ्रकी द्रुतिः ॥ (४१९।२)

dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ ||

420.1४२०.१

धान्याभ्र:: द्रुतिभ्रमद्भिर्दृश्यते क्वापि भावेन शशको मृतः । (४२०।१)

dhānyābhra:: drutibhramadbhirdṛśyate kvāpi bhāvena śaśako mṛtaḥ |

420.2४२०.२

तस्य मस्तकमध्याच्च गृहीतव्यो हि मेचकः ॥ (४२०।२)

tasya mastakamadhyācca gṛhītavyo hi mecakaḥ ||

421.1४२१.१

धान्याभ्रकस्य गद्याणान् चत्वारिंशत् प्रपेषयेत् । (४२१।१)

dhānyābhrakasya gadyāṇān catvāriṃśat prapeṣayet |

421.2४२१.२

तन्मध्यान्मेचकोन्मानं चूर्णं प्रक्षिप्य मेचके ॥ (४२१।२)

tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake ||

422.1४२२.१

द्वयं संमर्द्य संमर्द्य पिण्डं कृत्वा दृढं ततः । (४२२।१)

dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ |

422.2४२२.२

घृततैलादिना दिग्धा स्थालिकायां क्षिपेच्च तम् ॥ (४२२।२)

ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam ||

423.1४२३.१

प्रध्वरा ढङ्कणी देया नीरन्ध्रा वस्त्रमृत्स्नया । (४२३।१)

pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā |

423.2४२३.२

कणीनां कोष्ठके क्षेप्यो रहाप्याहस् त्रिसप्तकम् ॥ (४२३।२)

kaṇīnāṃ koṣṭhake kṣepyo rahāpyāhas trisaptakam ||

424.1४२४.१

तन्मध्ये कृमयो जाता नित्यं भक्ष्यन्ति चाभ्रकम् । (४२४।१)

tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam |

424.2४२४.२

तापे च मेचकाभावे म्रियन्ते च बुभुक्षया ॥ (४२४।२)

tāpe ca mecakābhāve mriyante ca bubhukṣayā ||

425.1४२५.१

विपन्नासु च सर्वासु शेषं धान्याभ्रकी द्रुतिः । (४२५।१)

vipannāsu ca sarvāsu śeṣaṃ dhānyābhrakī drutiḥ |

425.2४२५.२

तृतीयपरिणा तज्ज्ञैः ख्याता धान्याभ्रका द्रुतिः ॥ (४२५।२)

tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ ||

426.1४२६.१

विख्याता युक्तयस्तिस्रश्चतुर्थी नोपपद्यते । (४२६।१)

vikhyātā yuktayastisraścaturthī nopapadyate |

426.2४२६.२

तिसृणां यानि कर्माणि वक्ष्यन्ते तानि सांप्रतम् ॥ (४२६।२)

tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam ||

427.1४२७.१

मेर्चुर्य्:: मुखकरणशुद्धसूतस्य गद्याणान् वज्रमूषान्तरे दश । (४२७।१)

mercury:: mukhakaraṇaśuddhasūtasya gadyāṇān vajramūṣāntare daśa |

427.2४२७.२

क्षिप्त्वा तां वालुकायंत्रे मृद्वग्निं ज्वालयेद्दिनम् ॥ (४२७।२)

kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam ||

428.1४२८.१

क्षिपेद्बिन्दुमहोरात्रं मुहुर्भूनागसत्वजम् । (४२८।१)

kṣipedbindumahorātraṃ muhurbhūnāgasatvajam |

428.2४२८.२

वक्त्रं सूतस्य जायेत दत्तं सर्वं च जीर्यति ॥ (४२८।२)

vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati ||

429.1४२९.१

वज्र:: षोटनिसाहायां प्रपेष्टव्या चिल्हा चातीव सूक्ष्मका । (४२९।१)

vajra:: ṣoṭanisāhāyāṃ prapeṣṭavyā cilhā cātīva sūkṣmakā |

429.2४२९.२

निश्चोत्यैव रसो ग्राह्यो वस्त्रशुद्धो ऽतिनिर्गुलः ॥ (४२९।२)

niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ ||

430.1४३०.१

यस्मिन् वारिपलं माति तन्मात्रे कांतपात्रके । (४३०।१)

yasmin vāripalaṃ māti tanmātre kāṃtapātrake |

430.2४३०.२

जातवक्त्रस्य सूतस्य क्षेप्या गद्याणका दश ॥ (४३०।२)

jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa ||

431.1४३१.१

द्रुतित्रयान्तरेकस्या गद्याणांश्च क्षिपेद्दश । (४३१।१)

drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa |

431.2४३१.२

ततश्चिल्हा जलापूर्णम् आकण्ठं कांतपात्रकम् ॥ (४३१।२)

tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam ||

432.1४३२.१

तच्च कान्तायसं पात्रं यन्त्रे वालुकके क्षिपेत् । (४३२।१)

tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet |

432.2४३२.२

अहोरात्रं मृदुं वह्निं तदधो ज्वालयेन्मुहुः ॥ (४३२।२)

ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ ||

433.1४३३.१

द्वयोरैक्येण निष्पन्नो वज्रषोटोऽयमद्भुतः । (४३३।१)

dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ |

433.2४३३.२

तिन् => सिल्वेर्क्षिप्त्वा तं वज्रमूषायां ध्मायादिङ्गालकैः सुधीः ॥ (४३३।२)

tin => silverkṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ ||

434.1४३४.१

शुद्धरूप्यस्य गद्याणान्मध्ये प्रक्षिप्य विंशतिम् । (४३४।१)

śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim |

434.2४३४.२

गालयेत् सुदृढं पश्चात्समुत्तारयति शृतान् ॥ (४३४।२)

gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān ||

435.1४३५.१

अक्षयो नाम तेजोवान्निश्चलश् चातिनिर्मलः । (४३५।१)

akṣayo nāma tejovānniścalaś cātinirmalaḥ |

435.2४३५.२

गुरुर्जातोऽथ भग्नश्च भज्यते स हि खोटकः ॥ (४३५।२)

gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ ||

436.1४३६.१

गालयेद्वज्रमूषायां वङ्गगद्याणकं शतम् । (४३६।१)

gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam |

436.2४३६.२

तन्मध्ये षोटगद्याणे क्षिप्ते रूप्यं भवेद् ध्रुवम् ॥ (४३६।२)

tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam ||

437.1४३७.१

त्रिधाभ्रकद्रुतेः कर्म वङ्गे स्याच्छतवेधकम् । (४३७।१)

tridhābhrakadruteḥ karma vaṅge syācchatavedhakam |

437.2४३७.२

षोटमध्याद् रतिमात्रं यः करोति सदा नरः ॥ (४३७।२)

ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ ||

438.1४३८.१

षड्भिर्मासैः स जायेत सुतेजा निर्मलोऽक्षयः । (४३८।१)

ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ |

438.2४३८.२

खोटोऽयं भुवि विख्यातो लोहदेहकरो ध्रुवम् ॥ (४३८।२)

khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam ||

439.1४३९.१

मेर्चुर्य्:: राक्षसवक्त्रवतुत्कृष्टस्वर्णगद्याणान् गालयेच्चतुरः सुधीः । (४३९।१)

mercury:: rākṣasavaktravatutkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ |

439.2४३९.२

जरकीशदलानीव तेषां पत्राणि कारयेत् ॥ (४३९।२)

jarakīśadalānīva teṣāṃ patrāṇi kārayet ||

440.1४४०.१

नृकपालोद्भवं चैकं पलं धत्तूरमूलजम् । (४४०।१)

nṛkapālodbhavaṃ caikaṃ palaṃ dhattūramūlajam |

440.2४४०.२

चन्दनं च पृथक् घृष्ट्वा तुल्यमेकत्र मिश्रितम् ॥ (४४०।२)

candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam ||

441.1४४१.१

क्षिपेच्छ्रीखण्डमध्ये च गद्याणं वज्रभस्मनः । (४४१।१)

kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ |

441.2४४१.२

खल्वे संपेषयेत् तावद् यावद् एकात्मतां भजेत् ॥ (४४१।२)

khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet ||

442.1४४२.१

हेमपत्राणि तेनैव लेपयेत् सुदृढानि च । (४४२।१)

hemapatrāṇi tenaiva lepayet sudṛḍhāni ca |

442.2४४२.२

गद्याणं चांधमूषायां क्षिपेद् भूनागसत्वजम् ॥ (४४२।२)

gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam ||

443.1४४३.१

हेमपत्राणि तत्रैव क्षिप्त्वा मूषां यदृच्छया । (४४३।१)

hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā |

443.2४४३.२

कोष्ठिकाग्निष्टगर्तासु विवेलं पूरितां मुहुः ॥ (४४३।२)

koṣṭhikāgniṣṭagartāsu vivelaṃ pūritāṃ muhuḥ ||

444.1४४४.१

वक्रवक्त्रधमण्यां ध्मापयेन्मृतजीविभिः । (४४४।१)

vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ |

444.2४४४.२

हेमवज्रात्मकः षोटो भवेद् भूनागसत्वजः ॥ (४४४।२)

hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ ||

445.1४४५.१

अर्तयित्वा च तं षोटं चूर्णं कार्यं सुसूक्ष्मकम् । (४४५।१)

artayitvā ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam |

445.2४४५.२

काचकुम्पीम् अथाकण्ठं सप्तधा वस्त्रमृत्स्नया ॥ (४४५।२)

kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā ||

446.1४४६.१

वेष्टयित्वा च तन्मध्ये प्रथमं कर्षमात्रकम् । (४४६।१)

veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam |

446.2४४६.२

क्षिपेद् भूनागजं सत्वं तन्मध्ये शुद्धपारदम् ॥ (४४६।२)

kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam ||

447.1४४७.१

षट् गद्याणांस्ततो दद्याद्यंत्रे वालुकके क्षिपेत् । (४४७।१)

ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet |

447.2४४७.२

चुल्ह्यामारोप्य तं यन्त्रं ह्यधोऽग्निं ज्वालयेद्धठात् ॥ (४४७।२)

culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt ||

448.1४४८.१

नष्टं नष्टं मुहुः क्षेप्यं सत्वं भूनागसम्भवम् । (४४८।१)

naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam |

448.2४४८.२

सत्वेन द्रवरूपेण भृता धार्या च कुम्पिका ॥ (४४८।२)

satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā ||

449.1४४९.१

अहोरात्रं रसः स्वेद्यः सुधिया सप्तवासरम् । (४४९।१)

ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram |

449.2४४९.२

इत्थं स्विन्नाः षडेवैते स्वेदिताः शुद्धसूतजाः ॥ (४४९।२)

itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ ||

450.1४५०.१

वक्त्रं सूतस्य संजातं सूतो जातश्च राक्षसः । (४५०।१)

vaktraṃ sūtasya saṃjātaṃ sūto jātaśca rākṣasaḥ |

450.2४५०.२

षट् गद्याणाः कृताः पूर्वहेमवल्ल्यादिसत्त्वजाम् ॥ (४५०।२)

ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām ||

451.1४५१.१

चतुःषष्टितमं चांशं तेषां मध्यान्मुहुर्मुहुः । (४५१।१)

catuḥṣaṣṭitamaṃ cāṃśaṃ teṣāṃ madhyānmuhurmuhuḥ |

451.2४५१.२

क्षिप्त्वा खल्वेऽपि सूतान्तः पिष्ट्वा पिष्ट्वा शनैः शनैः ॥ (४५१।२)

kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ ||

452.1४५२.१

जारणीयाः षडेवैते शेषाः षट् सूतजाः स्थिताः । (४५२।१)

jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ |

452.2४५२.२

उत्कृष्टसूतगद्याणाः षडेताभिश्च मिश्रिताः ॥ (४५२।२)

utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ ||

453.1४५३.१

गाल्या द्वादशमूषायां षोटः स्याच्छतवेधकः । (४५३।१)

gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ |

453.2४५३.२

गोल्द्:: चोलोउरिन्ग्रूप्यताम्रादिनागानां गद्याणानां शतं शतम् ॥ (४५३।२)

gold:: colouringrūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam ||

454.1४५४.१

त्रयाणां च शतैकस्मिन् प्रत्येकं गालिते पृथक् । (४५४।१)

trayāṇāṃ ca śataikasmin pratyekaṃ gālite pṛthak |

454.2४५४.२

तन्मध्ये षोटगद्याणं प्रत्येकं च पृथक् क्षिपेत् ॥ (४५४।२)

tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet ||

455.1४५५.१

त्रिषु धातुषु हेम स्यान्निश्चितं तिथिवर्णकम् । (४५५।१)

triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam |

455.2४५५.२

मेर्चुर्य्:: षोट:: सेवनषोटमध्याद्रतीमात्रं प्रगेऽमृतकलान्वितम् ॥ (४५५।२)

mercury:: ṣoṭa:: sevanaṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam ||

456.1४५६.१

आदत्ते नियतं वेलं वलिस्तस्य न जायते । (४५६।१)

ādatte niyataṃ velaṃ valistasya na jāyate |

456.2४५६.२

पलितं मूलतो याति कृष्णाः केशा भवन्ति च ॥ (४५६।२)

palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca ||

457.1४५७.१

शरीरे जायते दार्ढ्यं शरीरं क्षीयते न हि । (४५७।१)

śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi |

457.2४५७.२

देहकान्तिः सुवर्णाभा नित्यं षोटस्य सेवनात् ॥ (४५७।२)

dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt ||

458.1४५८.१

हेमवज्रादिभूनागसत्वैर्निष्पादितस्त्रिभिः । (४५८।१)

hemavajrādibhūnāgasatvairniṣpāditastribhiḥ |

458.2४५८.२

देहकृच्छतवेधी च षोटो जातो ऽयमद्भुतः ॥ (४५८।२)

dehakṛcchatavedhī ca ṣoṭo jāto 'yamadbhutaḥ ||

459.1४५९.१

श्रीभैरवगणाध्यक्षश्रीवाणीभ्यो नमः सदा । (४५९।१)

śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā |

459.2४५९.२

यत्प्रसादाद्धि सिध्यन्ति गुटिकांजनपारदाः ॥ (४५९।२)

yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ ||

460.1४६०.१

संख्याशीतिः सतुर्या स्यात्प्रत्येकं च पृथक् त्रिषु । (४६०।१)

saṃkhyāśītiḥ saturyā syātpratyekaṃ ca pṛthak triṣu |

460.2४६०.२

एवं संख्यात्रयाणां स्याद् द्विपञ्चाशत्शतद्वयम् ॥ (४६०।२)

evaṃ saṃkhyātrayāṇāṃ syād dvipañcāśatśatadvayam ||

461.1४६१.१

एतस्याः सर्वसंख्याया मध्यादेकस्य कस्यचित् । (४६१।१)

etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit |

461.2४६१.२

आरम्भादौ फलान्ते च तपः कुर्यादखण्डितम् ॥ (४६१।२)

ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam ||

462.1४६२.१

अवाङ्मासैकतः पूर्वं निष्पत्तेर् आ फलादपि । (४६२।१)

avāṅmāsaikataḥ pūrvaṃ niṣpatter ā phalādapi |

462.2४६२.२

ब्रह्मचर्यं भुवि स्वापं हविष्यान्नं च भोजनम् ॥ (४६२।२)

brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam ||

463.1४६३.१

तपोविधिषु सिध्यन्ति तपःसाध्या रसादयः । (४६३।१)

tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ |

463.2४६३.२

दोषं दैवस्य यच्छन्ति तपोहीना हि साधकाः ॥ (४६३।२)

doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ ||

464.1४६४.१

वार्त्तोक्ता गुटिकास्तेन श्रीकङ्कालययोगिना । (४६४।१)

vārttoktā guṭikāstena śrīkaṅkālayayoginā |

464.2४६४.२

गुटीं ज्ञानफलां वक्ष्ये द्विपञ्चाशत्सुवल्लिका ॥ (४६४।२)

guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā ||

465.1४६५.१

चत्वारोऽभ्रकसत्वस्य चत्वारः स्वर्णमाक्षिकात् । (४६५।१)

catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt |

465.2४६५.२

शुद्धरूप्यस्य चत्वारो वल्लैको हेमराजिकाः ॥ (४६५।२)

śuddharūpyasya catvāro vallaiko hemarājikāḥ ||

466.1४६६.१

शुद्धोऽष्टादशसंस्कारैः पूर्वो यस्तु पारदः । (४६६।१)

śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ |

466.2४६६.२

तस्यैकोनचत्वारिंशद्द्विपञ्चाशच्च मीलिताः ॥ (४६६।२)

tasyaikonacatvāriṃśaddvipañcāśacca mīlitāḥ ||

467.1४६७.१

खल्वे प्रक्षिप्य सर्वास्तान्मर्दयेद्दिनसप्तकम् । (४६७।१)

khalve prakṣipya sarvāstānmardayeddinasaptakam |

467.2४६७.२

वरुणस्य तरोर् भूतश्रीखण्डसूक्ष्मकं मुहुः ॥ (४६७।२)

varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ ||

468.1४६८.१

मृद्वग्नौ स्वेदयेत्तेन दोलायन्त्रे दिनद्वयम् । (४६८।१)

mṛdvagnau svedayettena dolāyantre dinadvayam |

468.2४६८.२

स्वेदयेत्तद्गुटीं कृत्वा क्रमात् पञ्चामृतेन च ॥ (४६८।२)

svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca ||

469.1४६९.१

मध्वाज्यं दधि दुग्धं च शर्करा चेति पञ्चमी । (४६९।१)

madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī |

469.2४६९.२

अस्मिन् पञ्चामृते स्वेद्या यामाष्टाष्टा मृतं प्रति ॥ (४६९।२)

asmin pañcāmṛte svedyā yāmāṣṭāṣṭā mṛtaṃ prati ||

470.1४७०.१

कान्तलोहमये पात्रे मधुना च गुटीं क्षिपेत् । (४७०।१)

kāntalohamaye pātre madhunā ca guṭīṃ kṣipet |

470.2४७०.२

तत्पात्रं वालुकापूर्णं स्थालिकान्तश्च विन्यसेत् ॥ (४७०।२)

tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset ||

471.1४७१.१

चुल्ह्यां स्थालीं चटाय्याग्निं यामाष्टौ ज्वालयेदधः । (४७१।१)

culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ |

471.2४७१.२

स्वेदनेऽयं विधिः कार्यः स्तोकके चामृते क्रमात् ॥ (४७१।२)

svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt ||

472.1४७२.१

नष्टे नष्टे मुहुः क्षेप्यं क्रमात् पञ्चामृतं सदा । (४७२।१)

naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā |

472.2४७२.२

मधुयुक्तिक्रमेणैव पञ्चधा स्वेदयेद् गुटीम् ॥ (४७२।२)

madhuyuktikrameṇaiva pañcadhā svedayed guṭīm ||

473.1४७३.१

तपोनिष्ठः क्रियावांश्च हस्ताभ्यां तां प्रचालयेत् । (४७३।१)

taponiṣṭhaḥ kriyāvāṃśca hastābhyāṃ tāṃ pracālayet |

473.2४७३.२

निष्पन्ना गुटिका कार्या द्विपञ्चाशत्सुवल्लिका ॥ (४७३।२)

niṣpannā guṭikā kāryā dvipañcāśatsuvallikā ||

474.1४७४.१

यस्याः शुद्धावुभौ पक्षौ प्रसूता चोत्तमे कुले । (४७४।१)

yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule |

474.2४७४.२

ब्राह्मणी क्षत्रिया वापि वैश्यी चैवंविधा च या ॥ (४७४।२)

brāhmaṇī kṣatriyā vāpi vaiśyī caivaṃvidhā ca yā ||

475.1४७५.१

शूद्रीवर्जं त्रिवर्णाया गर्भः स्यात्प्रथमो यदा । (४७५।१)

śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā |

475.2४७५.२

मासैकानन्तरं तस्या गुटिकां तां समर्पयेत् ॥ (४७५।२)

māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet ||

476.1४७६.१

भोजनौषधतांबूलपानवेलां विना तया । (४७६।१)

bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā |

476.2४७६.२

अहर्निशं मुखे धार्या मासमेकं निरन्तरम् ॥ (४७६।२)

aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram ||

477.1४७७.१

मासे वीते च सा पृष्टा ज्ञानं वक्ति त्रिकालजम् । (४७७।१)

māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam |

477.2४७७.२

भावि भूतं वर्तमानं सद्यः प्रत्ययकारकम् ॥ (४७७।२)

bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam ||

478.1४७८.१

गुटिकायाः प्रभावोऽयमतीवाश्चर्यकारकः । (४७८।१)

guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ |

478.2४७८.२

रसगुट्यां जनेषु स्यात्प्रभावातिशयो महान् ॥ (४७८।२)

rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān ||

479.1४७९.१

यादृशं स्वधिया ज्ञातं तादृशं लिखितं मया । (४७९।१)

yādṛśaṃ svadhiyā jñātaṃ tādṛśaṃ likhitaṃ mayā |

479.2४७९.२

यदि क्वचिद् व्यलीकं स्यात्तदा शोध्यं विचक्षणैः ॥ (४७९।२)

yadi kvacid vyalīkaṃ syāttadā śodhyaṃ vicakṣaṇaiḥ ||

480.1४८०.१

ख्यातस्तथा यादववंशरत्नभूजालदेवाभिधराउलो ऽभूत् । (४८०।१)

khyātastathā yādavavaṃśaratnabhūjāladevābhidharāulo 'bhūt |

480.2४८०.२

तदात्मजन्मा महिपाभिधानस् तस्यात्मजो भादिगनामधेयः ॥ (४८०।२)

tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ ||

481.1४८१.१

तदात्मजश् चम्पनामधेयो रसज्ञगेयोज्ज्वलकान्तिकीर्तिः । (४८१।१)

tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ |

481.2४८१.२

परोपकारैकरसः कलावान् मनागजाकौ किल यस्य बन्धू ॥ (४८१।२)

paropakāraikarasaḥ kalāvān manāgajākau kila yasya bandhū ||

Data courtesy of The Digital Corpus of Sanskrit.

RAdhy, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit