संवित्सिद्धिSaṃvitsiddhi

SaṃSi, 1

1 of 1 · 443 verses

Select a line for its word-by-word analysis.

1.1१.१

एकम् एवाद्वितीयं तद् ब्रह्मेत्य् उपनिषद्वचः । (१।१)

ekam evādvitīyaṃ tad brahmety upaniṣadvacaḥ |

1.2१.२

ब्रह्मणो ऽन्यस्य सद्भावं ननु तत् प्रतिषेधति ॥ (१।२)

brahmaṇo 'nyasya sadbhāvaṃ nanu tat pratiṣedhati ||

2.1२.१

अत्र ब्रूमो ऽद्वितीयोक्तौ समासः को विवक्षितः । (२।१)

atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ |

2.2२.२

किं स्वित् तत्पुरुषः किंवा बहुव्रीहिर् अथोच्यताम् ॥ (२।२)

kiṃ svit tatpuruṣaḥ kiṃvā bahuvrīhir athocyatām ||

3.1३.१

पूर्वस्मिन्न् उत्तरस् तावत् प्राधान्येन विवक्ष्यते । (३।१)

pūrvasminn uttaras tāvat prādhānyena vivakṣyate |

3.2३.२

पदार्थस् तत्र तद् ब्रह्म ततोऽन्यत् सदृशं तु वा ॥ (३।२)

padārthas tatra tad brahma tato'nyat sadṛśaṃ tu vā ||

4.1४.१

तद्विरुद्धम् अथो वा स्यात् त्रिष्व् अप्य् अन्यन् न बाधते । (४।१)

tadviruddham atho vā syāt triṣv apy anyan na bādhate |

4.2४.२

अन्यत्वे सदृशत्वे वा द्वितीयं सिध्यति ध्रुवम् ॥ (४।२)

anyatve sadṛśatve vā dvitīyaṃ sidhyati dhruvam ||

5.1५.१

विरुद्धत्वे द्वितीयेन तृतीयं प्रथमं तु वा । (५।१)

viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu vā |

5.2५.२

ब्रह्म प्राप्नोति यस्मात् तद् द्वितीयेन विरुध्यते ॥ (५।२)

brahma prāpnoti yasmāt tad dvitīyena virudhyate ||

6.1६.१

अतः सप्रथमाः सर्वे तृतीयाद्यर्थराशयः । (६।१)

ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ |

6.2६.२

द्वितीयेन तथा स्पृष्ट्वा स्वस्थास् तिष्ठन्त्य् अबाधिताः ॥ (६।२)

dvitīyena tathā spṛṣṭvā svasthās tiṣṭhanty abādhitāḥ ||

7.1७.१

ननु नञ् ब्रह्मणो ऽन्यस्य सर्वस्यैव निषेधकम् । (७।१)

nanu nañ brahmaṇo 'nyasya sarvasyaiva niṣedhakam |

7.2७.२

द्वितीयग्रहणं यस्मात् सर्वस्यैवोपलक्षणम् ॥ (७।२)

dvitīyagrahaṇaṃ yasmāt sarvasyaivopalakṣaṇam ||

8.1८.१

नैवं निषेधो न ह्य् अस्माद् द्वितीयस्यावगम्यते । (८।१)

naivaṃ niṣedho na hy asmād dvitīyasyāvagamyate |

8.2८.२

ततो ऽन्यत् तद्विरुद्धं वा सदृशं वात्र वक्ति सः ॥ (८।२)

tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ ||

9.1९.१

द्वितीयं यस्य नैवास्ति तद् ब्रह्मेति विवक्षिते । (९।१)

dvitīyaṃ yasya naivāsti tad brahmeti vivakṣite |

9.2९.२

सत्यादिलक्षणोक्तीनाम् अपलक्षणता भवेत् ॥ (९।२)

satyādilakṣaṇoktīnām apalakṣaṇatā bhavet ||

10.1१०.१

अद्वितीये द्वितीयार्थनास्तितामात्रगोचरे । (१०।१)

advitīye dvitīyārthanāstitāmātragocare |

10.2१०.२

स्वनिष्ठत्वान् नञर्थस्य न स्याद् ब्रह्मपदान्वयः ॥ (१०।२)

svaniṣṭhatvān nañarthasya na syād brahmapadānvayaḥ ||

11.1११.१

द्वितीयशून्यता तत्र ब्रह्मणो न विशेषणम् । (११।१)

dvitīyaśūnyatā tatra brahmaṇo na viśeṣaṇam |

11.2११.२

विशेषणे वा तद् ब्रह्म तृतीयं प्रथमं तु वा ॥ (११।२)

viśeṣaṇe vā tad brahma tṛtīyaṃ prathamaṃ tu vā ||

12.1१२.१

प्रसक्तं पूर्ववत् सर्वं बहुव्रीहौ समस्यति । (१२।१)

prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati |

12.2१२.२

ब्रह्मणः प्रथमा ये च तृतीयाद्या जगत्त्रये ॥ (१२।२)

brahmaṇaḥ prathamā ye ca tṛtīyādyā jagattraye ||

13.1१३.१

ब्रह्म प्रत्य् अद्वितीयत्वात् स्वस्थास् तिष्ठन्त्य् अबाधिताः । (१३।१)

brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ |

13.2१३.२

किंच तत्र बहुव्रीहौ समासे संश्रिते सति ॥ (१३।२)

kiṃca tatra bahuvrīhau samāse saṃśrite sati ||

14.1१४.१

वृत्त्यर्थस्य नञर्थस्य न पदार्थान्तरान्वयः । (१४।१)

vṛttyarthasya nañarthasya na padārthāntarānvayaḥ |

14.2१४.२

सत्य् अर्थान्तरसम्बन्धे षष्ठी यस्येति युज्यते ॥ (१४।२)

saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate ||

15.1१५.१

द्वितीयवस्तुनास्तित्वं न ब्रह्म न विशेषणम् । (१५।१)

dvitīyavastunāstitvaṃ na brahma na viśeṣaṇam |

15.2१५.२

असत्त्वान् न ह्य् असद् ब्रह्म भवेन् नापि विशेषणम् ॥ (१५।२)

asattvān na hy asad brahma bhaven nāpi viśeṣaṇam ||

16.1१६.१

तस्मात् प्रपञ्चसद्भावो नाद्वैतश्रुतिबाधितः । (१६।१)

tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ |

16.2१६.२

स्वप्रमाणबलात् सिद्धः श्रुत्या चाप्य् अनुमोदितः ॥ (१६।२)

svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ ||

17.1१७.१

तेनाद्वितीयं ब्रह्मेति श्रुतेर् अर्थो ऽयम् उच्यते । (१७।१)

tenādvitīyaṃ brahmeti śruter artho 'yam ucyate |

17.2१७.२

द्वितीयगणनायोग्यो नासीद् अस्ति भविष्यति ॥ (१७।२)

dvitīyagaṇanāyogyo nāsīd asti bhaviṣyati ||

18.1१८.१

समो वाभ्यधिको वास्य यो द्वितीयस् तु गण्यते । (१८।१)

samo vābhyadhiko vāsya yo dvitīyas tu gaṇyate |

18.2१८.२

यतो ऽस्य विभवव्यूहकलामात्रम् इदं जगत् ॥ (१८।२)

yato 'sya vibhavavyūhakalāmātram idaṃ jagat ||

19.1१९.१

द्वितीयवागास्पदतां प्रतिपद्येत तत्कथम् । (१९।१)

dvitīyavāgāspadatāṃ pratipadyeta tatkatham |

19.2१९.२

यथा चोलनृपः सम्राडद्वितीयो ऽद्य भूतले ॥ (१९।२)

yathā colanṛpaḥ samrāḍadvitīyo 'dya bhūtale ||

20.1२०.१

इति तत्तुल्यनृपतिनिवारणपरं वचः । (२०।१)

iti tattulyanṛpatinivāraṇaparaṃ vacaḥ |

20.2२०.२

न तु तद्भृत्यतत्पुत्रकलत्रादिनिषेधकम् ॥ (२०।२)

na tu tadbhṛtyatatputrakalatrādiniṣedhakam ||

21.1२१.१

तथा सुरासुरनरब्रह्मब्रह्माण्डकोटयः । (२१।१)

tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ |

21.2२१.२

क्लेशकर्मविपाकाद्यैर् अस्पृष्टस्याखिलेशितुः ॥ (२१।२)

kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ ||

22.1२२.१

ज्ञानादिषाड्गुण्यनिधेर् अचिन्त्यविभवस्य ताः । (२२।१)

jñānādiṣāḍguṇyanidher acintyavibhavasya tāḥ |

22.2२२.२

विष्णोर् विभूतिमहिमसमुद्रद्रप्सविप्रुषः ॥ (२२।२)

viṣṇor vibhūtimahimasamudradrapsavipruṣaḥ ||

23.1२३.१

कः खल्व् अङ्गुलिभङ्गेन समुद्रान् सप्तसङ्ख्यया । (२३।१)

kaḥ khalv aṅgulibhaṅgena samudrān saptasaṅkhyayā |

23.2२३.२

गणयन् गणयेद् ऊर्मिफेनबुद्बुदविप्रुषः ॥ (२३।२)

gaṇayan gaṇayed ūrmiphenabudbudavipruṣaḥ ||

24.1२४.१

यथैक एव सविता न द्वितीयो नभःस्थले । (२४।१)

yathaika eva savitā na dvitīyo nabhaḥsthale |

24.2२४.२

इत्युक्त्या न हि सावित्रा निषिध्यन्ते ऽत्र रश्मयः ॥ (२४।२)

ityuktyā na hi sāvitrā niṣidhyante 'tra raśmayaḥ ||

25.1२५.१

यथा प्रधानसंख्येयसङ्ख्यायां नैव गण्यते । (२५।१)

yathā pradhānasaṃkhyeyasaṅkhyāyāṃ naiva gaṇyate |

25.2२५.२

सङ्ख्या पृथक्सती तत्र संख्येयान्यपदार्थवत् ॥ (२५।२)

saṅkhyā pṛthaksatī tatra saṃkhyeyānyapadārthavat ||

26.1२६.१

तथा । (२६।१)

tathā |

26.2२६.२

पादो ऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि । (२६।२)

pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi |

26.3२६.३

इति ब्रुवन् जगत् सर्वम् इत्थम्भावे न्यवेशयत् ॥ (२६।३)

iti bruvan jagat sarvam itthambhāve nyaveśayat ||

27.1२७.१

तथा । (२७।१)

tathā |

27.2२७.२

एतावान् अस्य महिमा ततो ज्यायस्तरो हि सः । (२७।२)

etāvān asya mahimā tato jyāyastaro hi saḥ |

27.3२७.३

यत्रान्यन् न विजानाति स भूमोदरम् अन्तरम् । (२७।३)

yatrānyan na vijānāti sa bhūmodaram antaram |

27.4२७.४

कुरुते ऽस्य भयं व्यक्तम् इत्यादिश्रुतयः पराः ॥ (२७।४)

kurute 'sya bhayaṃ vyaktam ityādiśrutayaḥ parāḥ ||

28.1२८.१

मेरोर् इवाणुर् यस्येदं ब्रह्माण्डम् अखिलं जगत् । (२८।१)

meror ivāṇur yasyedaṃ brahmāṇḍam akhilaṃ jagat |

28.2२८.२

इत्यादिकाः समस्तस्य तदित्थम्भावतापराः ॥ (२८।२)

ityādikāḥ samastasya taditthambhāvatāparāḥ ||

29.1२९.१

वाचारम्भणमात्रं तु जगत् स्थावरजङ्गमम् । (२९।१)

vācārambhaṇamātraṃ tu jagat sthāvarajaṅgamam |

29.2२९.२

विकारजातं कूटस्थं मूलकारणम् एव सत् ॥ (२९।२)

vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat ||

30.1३०.१

अनन्यत् कारणात् कार्यं पावकाद् विस्फुलिङ्गवत् । (३०।१)

ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat |

30.2३०.२

मृत्तिकालोहबीजादिनानादृष्टान्तविस्तरैः ॥ (३०।२)

mṛttikālohabījādinānādṛṣṭāntavistaraiḥ ||

31.1३१.१

नाशकद् दग्धुम् अनलस् तृणं मज्जयितुं जलम् । (३१।१)

nāśakad dagdhum analas tṛṇaṃ majjayituṃ jalam |

31.2३१.२

न वायुश् चलितुं शक्तः तच्छक्त्याप्यायनादृते ॥ (३१।२)

na vāyuś calituṃ śaktaḥ tacchaktyāpyāyanādṛte ||

32.1३२.१

एकप्रधानविज्ञानाद् विज्ञातम् अखिलं भवेत् । (३२।१)

ekapradhānavijñānād vijñātam akhilaṃ bhavet |

32.2३२.२

इत्यादिवेदवचनतन्मूलाप्तागमैर् अपि ॥ (३२।२)

ityādivedavacanatanmūlāptāgamair api ||

33.1३३.१

ब्रह्मात्मनात्मलाभो ऽयं प्रपञ्चश् चिदचिन्मयः । (३३।१)

brahmātmanātmalābho 'yaṃ prapañcaś cidacinmayaḥ |

33.2३३.२

इति प्रमीयते ब्राह्मी विभूतिर् न निषिध्यते ॥ (३३।२)

iti pramīyate brāhmī vibhūtir na niṣidhyate ||

34.1३४.१

तन्निषेधे समस्तस्य मिथ्यात्वाल्लोकवेदयोः । (३४।१)

tanniṣedhe samastasya mithyātvāllokavedayoḥ |

34.2३४.२

व्यवहारास् तु लुप्येरंस्तथा स्याद् ब्रह्मधीर् अपि ॥ (३४।२)

vyavahārās tu lupyeraṃstathā syād brahmadhīr api ||

35.1३५.१

व्यावहारिकसत्यत्वान् मृषात्वे ऽप्य् अविरुद्धता । (३५।१)

vyāvahārikasatyatvān mṛṣātve 'py aviruddhatā |

35.2३५.२

प्रत्यक्षादेर् इति मतं प्राग् एव समदूदुषम् ॥ (३५।२)

pratyakṣāder iti mataṃ prāg eva samadūduṣam ||

36.1३६.१

अतश् चोपनिषज्जातब्रह्माद्वैतधिया जगत् । (३६।१)

ataś copaniṣajjātabrahmādvaitadhiyā jagat |

36.2३६.२

न बाध्यते विभूतित्वाद् ब्रह्मणश् चेत्यवस्थितम् ॥ (३६।२)

na bādhyate vibhūtitvād brahmaṇaś cetyavasthitam ||

37.1३७.१

ननु सत्त्वे प्रपञ्चस्य नास्तीति प्रत्ययः कथम् । (३७।१)

nanu sattve prapañcasya nāstīti pratyayaḥ katham |

37.2३७.२

असत्त्वे वा कथं तस्मिन्न् अस्तीति प्रत्ययो भवेत् ॥ (३७।२)

asattve vā kathaṃ tasminn astīti pratyayo bhavet ||

38.1३८.१

सदसत्त्वं तथैकस्य विरुद्धत्वाद् असम्भवि । (३८।१)

sadasattvaṃ tathaikasya viruddhatvād asambhavi |

38.2३८.२

सदसत्प्रत्ययप्राप्तविरुद्धद्वन्द्वसङ्गमे ॥ (३८।२)

sadasatpratyayaprāptaviruddhadvandvasaṅgame ||

39.1३९.१

तयोर् अन्यतरार्थस्य निश्चयाभावहेतुतः । (३९।१)

tayor anyatarārthasya niścayābhāvahetutaḥ |

39.2३९.२

सदसत्त्वं प्रपञ्चस्य जैनास् तु प्रतिपेदिरे ॥ (३९।२)

sadasattvaṃ prapañcasya jainās tu pratipedire ||

40.1४०.१

सत्त्वप्राप्तिं पुरस्कृत्य नास्तीति प्रत्ययोदयात् । (४०।१)

sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt |

40.2४०.२

सदा सत्त्वं प्रपञ्चस्य साङ्ख्यास् तु प्रतिपेदिरे ॥ (४०।२)

sadā sattvaṃ prapañcasya sāṅkhyās tu pratipedire ||

41.1४१.१

सदसत्प्रत्ययप्राप्तविरुद्धद्वन्द्वसङ्कटे । (४१।१)

sadasatpratyayaprāptaviruddhadvandvasaṅkaṭe |

41.2४१.२

विरोधपरिहारार्थं सत्त्वासत्त्वांशभङ्गतः । (४१।२)

virodhaparihārārthaṃ sattvāsattvāṃśabhaṅgataḥ |

41.3४१.३

सदसद्भ्याम् अनिर्वाच्यं प्रपञ्चं केचिद् ऊचिरे ॥ (४१।३)

sadasadbhyām anirvācyaṃ prapañcaṃ kecid ūcire ||

42.1४२.१

सत्त्वासत्त्वे विभागेन देशकालादिभेदतः । (४२।१)

sattvāsattve vibhāgena deśakālādibhedataḥ |

42.2४२.२

घटादेर् इति मन्वाना व्यवस्थाम् अपरे जगुः ॥ (४२।२)

ghaṭāder iti manvānā vyavasthām apare jaguḥ ||

43.1४३.१

तद् एवं वादिसम्मर्दात् संशये समुपस्थिते । (४३।१)

tad evaṃ vādisammardāt saṃśaye samupasthite |

43.2४३.२

निर्णयः क्रियते तत्र मीमांसकमतेन तु ॥ (४३।२)

nirṇayaḥ kriyate tatra mīmāṃsakamatena tu ||

44.1४४.१

घटस्वरूपे नास्तित्वम् अस्तित्वं यद्य् अबूबुधत् । (४४।१)

ghaṭasvarūpe nāstitvam astitvaṃ yady abūbudhat |

44.2४४.२

स्याद् एव युगपत्सत्त्वम् असत्त्वं च घटादिषु ॥ (४४।२)

syād eva yugapatsattvam asattvaṃ ca ghaṭādiṣu ||

45.1४५.१

इदानीम् इदम् अत्रास्ति नास्तीत्येवंविधा यतः । (४५।१)

idānīm idam atrāsti nāstītyevaṃvidhā yataḥ |

45.2४५.२

देशकालदशाभेदाद् अस्ति नास्तीति नो धियः ॥ (४५।२)

deśakāladaśābhedād asti nāstīti no dhiyaḥ ||

46.1४६.१

अतो देशादिभेदेन सदसत्त्वं घटादिषु । (४६।१)

ato deśādibhedena sadasattvaṃ ghaṭādiṣu |

46.2४६.२

व्यवस्थितं निरस्तत्वाद् वादस्येह न सम्भवः ॥ (४६।२)

vyavasthitaṃ nirastatvād vādasyeha na sambhavaḥ ||

47.1४७.१

ननु देशादिसम्बन्धः सत एवोपपद्यते । (४७।१)

nanu deśādisambandhaḥ sata evopapadyate |

47.2४७.२

न देशकालसम्बन्धाद् असतः सत्त्वम् इष्यते ॥ (४७।२)

na deśakālasambandhād asataḥ sattvam iṣyate ||

48.1४८.१

सम्बन्धो द्व्याश्रयस् तस्मात् सतः सत्त्वं सदा भवेत् । (४८।१)

sambandho dvyāśrayas tasmāt sataḥ sattvaṃ sadā bhavet |

48.2४८.२

असतः कारकैः सत्त्वं जन्मनेत्यतिदुर्घटम् ॥ (४८।२)

asataḥ kārakaiḥ sattvaṃ janmanetyatidurghaṭam ||

49.1४९.१

आद्यन्तवान् प्रपञ्चो ऽतः सत्कक्ष्यान्तर्निवेश्यते । (४९।१)

ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate |

49.2४९.२

उक्तं च । (४९।२)

uktaṃ ca |

49.3४९.३

आदाव् अन्ते च यन् नास्ति नास्ति मध्ये ऽपि तत् तथा । (४९।३)

ādāv ante ca yan nāsti nāsti madhye 'pi tat tathā |

49.4४९.४

अतो निश्चितसद्भावः सदा सन्न् अभ्युपेयताम् । (४९।४)

ato niścitasadbhāvaḥ sadā sann abhyupeyatām |

49.5४९.५

इति ॥ (४९।५)

iti ||

50.1५०.१

असतः सर्वदासत्त्वं जन्ययोगात् खपुष्पवत् । (५०।१)

asataḥ sarvadāsattvaṃ janyayogāt khapuṣpavat |

50.2५०.२

असत्त्वे न विशेषो ऽस्ति प्रागत्यन्तासतोर् इह ॥ (५०।२)

asattve na viśeṣo 'sti prāgatyantāsator iha ||

51.1५१.१

श्वेतकेतुम् उपादाय तत् त्वम् इत्य् अपि यच्छ्रुतम् । (५१।१)

śvetaketum upādāya tat tvam ity api yacchrutam |

51.2५१.२

षष्ठप्रपाठके तस्य कुतो मुख्यार्थसम्भवः ॥ (५१।२)

ṣaṣṭhaprapāṭhake tasya kuto mukhyārthasambhavaḥ ||

52.1५२.१

कार्पण्यशोकदुःखार्तश् चेतनस् त्वम्पदोदितः । (५२।१)

kārpaṇyaśokaduḥkhārtaś cetanas tvampadoditaḥ |

52.2५२.२

सर्वज्ञः सत्यसङ्कल्पो निस्सीमसुखसागरः । (५२।२)

sarvajñaḥ satyasaṅkalpo nissīmasukhasāgaraḥ |

52.3५२.३

तत्पदार्थस् तयोर् ऐक्यं तेजस् तिमिरवत् कथम् ॥ (५२।३)

tatpadārthas tayor aikyaṃ tejas timiravat katham ||

53.1५३.१

त्वमर्थस्थे तटस्थे वा तदर्थस्थे विभेदके । (५३।१)

tvamarthasthe taṭasthe vā tadarthasthe vibhedake |

53.2५३.२

गुणे तत्त्वंपदश्रुत्योर् ऐकार्थ्यं दूरवारितम् ॥ (५३।२)

guṇe tattvaṃpadaśrutyor aikārthyaṃ dūravāritam ||

54.1५४.१

अज्ञत्वसर्ववेदित्वदुःखित्वसुखितादिके । (५४।१)

ajñatvasarvaveditvaduḥkhitvasukhitādike |

54.2५४.२

विशेषणे वा चिद्धातोर् अथवाप्य् उपलक्षणे । (५४।२)

viśeṣaṇe vā ciddhātor athavāpy upalakṣaṇe |

54.3५४.३

विरुद्धगुणसङ्क्रान्तेर् भेदः स्यात् त्वंतदर्थयोः ॥ (५४।३)

viruddhaguṇasaṅkrānter bhedaḥ syāt tvaṃtadarthayoḥ ||

55.1५५.१

वाच्यैकदेशभङ्गेन चिदेकव्यक्तिनिष्ठता । (५५।१)

vācyaikadeśabhaṅgena cidekavyaktiniṣṭhatā |

55.2५५.२

सो ऽयं गौर् इतिवत् तत्त्वंपदयोर् इत्य् अपेशलम् ॥ (५५।२)

so 'yaṃ gaur itivat tattvaṃpadayor ity apeśalam ||

56.1५६.१

देशकालदशाभेदाद् एकस्मिन्न् अपि धर्मिणि । (५६।१)

deśakāladaśābhedād ekasminn api dharmiṇi |

56.2५६.२

विरुद्धद्वन्द्वसङ्क्रान्तेः सो ऽयं गौर् इति युज्यते ॥ (५६।२)

viruddhadvandvasaṅkrānteḥ so 'yaṃ gaur iti yujyate ||

57.1५७.१

स्वप्रकाशस्य चिद्धातोर् विरुद्धद्वन्द्वसङ्गतौ । (५७।१)

svaprakāśasya ciddhātor viruddhadvandvasaṅgatau |

57.2५७.२

न व्यवस्थापकं किंचिद् देशकालदशादिके ॥ (५७।२)

na vyavasthāpakaṃ kiṃcid deśakāladaśādike ||

58.1५८.१

निर्धूतनिखिलद्वन्द्वस्वप्रकाशे चिदात्मनि । (५८।१)

nirdhūtanikhiladvandvasvaprakāśe cidātmani |

58.2५८.२

द्वैतानर्थभ्रमाभावाच्छास्त्रं निर्विषयं भवेत् ॥ (५८।२)

dvaitānarthabhramābhāvācchāstraṃ nirviṣayaṃ bhavet ||

59.1५९.१

एतेन सत्यकामत्वजगत्कारणतादयः । (५९।१)

etena satyakāmatvajagatkāraṇatādayaḥ |

59.2५९.२

मायोपाधौ परे ऽध्यस्ताः शोकमोहादयः पुनः ॥ (५९।२)

māyopādhau pare 'dhyastāḥ śokamohādayaḥ punaḥ ||

60.1६०.१

अविद्योपाधिके जीवे विनाशे नेति यन् मतम् । (६०।१)

avidyopādhike jīve vināśe neti yan matam |

60.2६०.२

क्षुद्रब्रह्मविदाम् एतन् मतं प्राग् एव दूषितम् ॥ (६०।२)

kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam ||

61.1६१.१

चित्स्वरूपे विशिष्टे वा मायाविद्याद्युपाधयः । (६१।१)

citsvarūpe viśiṣṭe vā māyāvidyādyupādhayaḥ |

61.2६१.२

पूर्वस्मिन् सर्वसंकर्यं परजीवाविभागतः ॥ (६१।२)

pūrvasmin sarvasaṃkaryaṃ parajīvāvibhāgataḥ ||

62.1६२.१

उत्तरस्मिन्न् अपि तथा विशिष्टम् अपि चिद् यदि । (६२।१)

uttarasminn api tathā viśiṣṭam api cid yadi |

62.2६२.२

चित्स्वरूपं हि निर्भेदं मायाविद्याद्युपाधिभिः । (६२।२)

citsvarūpaṃ hi nirbhedaṃ māyāvidyādyupādhibhiḥ |

62.3६२.३

विभिन्नम् इव विभ्रान्तं विशिष्टं च इति मन्यते ॥ (६२।३)

vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca iti manyate ||

63.1६३.१

तटस्थावस्थिता धर्माः स्वरूपं न स्पृशन्ति किम् । (६३।१)

taṭasthāvasthitā dharmāḥ svarūpaṃ na spṛśanti kim |

63.2६३.२

न हि दण्डिशिरश्छेदाद् देवदत्तो न हिंसितः ॥ (६३।२)

na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ ||

64.1६४.१

अचिदंशव्यपोहेन चिदेकपरिशेषता । (६४।१)

acidaṃśavyapohena cidekapariśeṣatā |

64.2६४.२

अतस् तत् त्वम् असीत्यादेर् अर्थे इत्य् अप्य् असुन्दरम् ॥ (६४।२)

atas tat tvam asītyāder arthe ity apy asundaram ||

65.1६५.१

अब्रह्मानात्मताभावे प्रत्यक् चित् परिशिष्यते । (६५।१)

abrahmānātmatābhāve pratyak cit pariśiṣyate |

65.2६५.२

तत्त्वंपदद्वयं जीवपरतादात्म्यगोचरम् । (६५।२)

tattvaṃpadadvayaṃ jīvaparatādātmyagocaram |

65.3६५.३

तन्मुख्यवृत्ति तादात्म्यम् अपि वस्तुद्वयाश्रयम् ॥ (६५।३)

tanmukhyavṛtti tādātmyam api vastudvayāśrayam ||

66.1६६.१

भेदाभेदविकल्पस् तु यत् त्वया परिचोदितः । (६६।१)

bhedābhedavikalpas tu yat tvayā paricoditaḥ |

66.2६६.२

अभेदाभेदिनो ऽसत्ये बन्धे सति निरर्थकः ॥ (६६।२)

abhedābhedino 'satye bandhe sati nirarthakaḥ ||

67.1६७.१

अभेदो भेदमर्दी तु स्वाश्रयीभूतवस्तुनोः । (६७।१)

abhedo bhedamardī tu svāśrayībhūtavastunoḥ |

67.2६७.२

भेदः परस्परानात्म्यं भावानाम् एवम् एतयोः ॥ (६७।२)

bhedaḥ parasparānātmyaṃ bhāvānām evam etayoḥ ||

68.1६८.१

स्वरूपम् अभ्युपेत्यैव भेदाभेदविकल्पयोः । (६८।१)

svarūpam abhyupetyaiva bhedābhedavikalpayoḥ |

68.2६८.२

बाधनं तेन वाग्बाधाद् विरोधेन निगृह्यसे ॥ (६८।२)

bādhanaṃ tena vāgbādhād virodhena nigṛhyase ||

69.1६९.१

भिन्नाभिन्नत्वसम्बन्धसदसत्त्वविकल्पनम् । (६९।१)

bhinnābhinnatvasambandhasadasattvavikalpanam |

69.2६९.२

प्रत्यक्षानुभवापास्तं केवलं कण्ठशोषणम् ॥ (६९।२)

pratyakṣānubhavāpāstaṃ kevalaṃ kaṇṭhaśoṣaṇam ||

70.1७०.१

नीले नीलमतिर् यादृगुत्पले नीलधीर् हि सा । (७०।१)

nīle nīlamatir yādṛgutpale nīladhīr hi sā |

70.2७०.२

नीलम् उत्पलम् एवेदम् इति साक्षाच्चकास्ति नः ॥ (७०।२)

nīlam utpalam evedam iti sākṣāccakāsti naḥ ||

71.1७१.१

यथा विदितसंयोगसम्बन्धे ऽप्य् अक्षगोचरे । (७१।१)

yathā viditasaṃyogasambandhe 'py akṣagocare |

71.2७१.२

भेदाभेदादिदुस्तर्कविकल्पाधानविभ्रमः ॥ (७१।२)

bhedābhedādidustarkavikalpādhānavibhramaḥ ||

72.1७२.१

तद्वत् तादात्म्यसम्बन्धे श्रुतिप्रत्यक्षमूलके । (७२।१)

tadvat tādātmyasambandhe śrutipratyakṣamūlake |

72.2७२.२

श्रुतिदण्डेन दुस्तर्कविकल्पभ्रमवारणम् ॥ (७२।२)

śrutidaṇḍena dustarkavikalpabhramavāraṇam ||

73.1७३.१

निर्दोषापौरुषेयी च श्रुतिर् अत्यर्थम् आदरात् । (७३।१)

nirdoṣāpauruṣeyī ca śrutir atyartham ādarāt |

73.2७३.२

असकृत्तत्त्वम् इत्य् आह तादात्म्यं ब्रह्मजीवयोः ॥ (७३।२)

asakṛttattvam ity āha tādātmyaṃ brahmajīvayoḥ ||

74.1७४.१

ब्रह्मानन्दह्रदान्तःस्थोः मुक्तात्मा सुखम् एधते । (७४।१)

brahmānandahradāntaḥsthoḥ muktātmā sukham edhate |

74.2७४.२

फले च फलिनो ऽभावान् मोक्षस्यापुरुषार्थता । (७४।२)

phale ca phalino 'bhāvān mokṣasyāpuruṣārthatā |

74.3७४.३

एकशेषे हि चिद्धातोः कस्य मोक्षः फलं भवेत् ॥ (७४।३)

ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet ||

75.1७५.१

किंच प्रपञ्चरूपेण का नु संविद् विवर्तते । (७५।१)

kiṃca prapañcarūpeṇa kā nu saṃvid vivartate |

75.2७५.२

न तावद् घटधीस् तस्याम् असत्याम् अपि दर्शनात् ॥ (७५।२)

na tāvad ghaṭadhīs tasyām asatyām api darśanāt ||

76.1७६.१

न हि तस्याम् अजातायां नष्टायां वाखिलं जगत् । (७६।१)

na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat |

76.2७६.२

नास्तीति शक्यते वक्तुम् उक्तौ प्रत्यक्षबधनात् । (७६।२)

nāstīti śakyate vaktum uktau pratyakṣabadhanāt |

76.3७६.३

नाप्य् अन्यसंवित् तन्नाशे ऽप्य् अन्येषाम् उपलम्भनात् ॥ (७६।३)

nāpy anyasaṃvit tannāśe 'py anyeṣām upalambhanāt ||

77.1७७.१

ननु संविदभिन्नैका न तस्याम् अस्ति भेदधीः । (७७।१)

nanu saṃvidabhinnaikā na tasyām asti bhedadhīḥ |

77.2७७.२

घटादयो हि भिद्यन्ते न तु सा चित् प्रकाशनात् ॥ (७७।२)

ghaṭādayo hi bhidyante na tu sā cit prakāśanāt ||

78.1७८.१

घटधीः पटसंवित्तिसमये नावभाति चेत् । (७८।१)

ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet |

78.2७८.२

नैवं घटो हि नाभाति सा स्फुरत्य् एव तु स्फुटम् ॥ (७८।२)

naivaṃ ghaṭo hi nābhāti sā sphuraty eva tu sphuṭam ||

79.1७९.१

घटव्यावृत्तसंवित्तिर् अथ न स्फुरतीति चेत् । (७९।१)

ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet |

79.2७९.२

तद्व्यावृत्तिपदेनापि किं सैवोक्ताथ वेतरत् । (७९।२)

tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat |

79.3७९.३

सैव चेद् भासते ऽन्यच्चेन् न ब्रूहस् तस्य भासनम् ॥ (७९।३)

saiva ced bhāsate 'nyaccen na brūhas tasya bhāsanam ||

80.1८०.१

किंचास्याः स्वप्रकाशाया नीरूपाया न हि स्वतः । (८०।१)

kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ |

80.2८०.२

ऋते विषयनानात्वान् नानात्वावग्रहभ्रमः ॥ (८०।२)

ṛte viṣayanānātvān nānātvāvagrahabhramaḥ ||

81.1८१.१

न वस्तु वस्तुधर्मो वा न प्रत्यक्षो न लौकिकः । (८१।१)

na vastu vastudharmo vā na pratyakṣo na laukikaḥ |

81.2८१.२

घटादिवेद्यभेदो ऽपि केवलं भ्रमलक्षणः ॥ (८१।२)

ghaṭādivedyabhedo 'pi kevalaṃ bhramalakṣaṇaḥ ||

82.1८२.१

यदा तदा तदायतो धीभेदावग्रहोदयः । (८२।१)

yadā tadā tadāyato dhībhedāvagrahodayaḥ |

82.2८२.२

कुतः कुतस्तरां तस्य परमार्थत्वसम्बन्धः ॥ (८२।२)

kutaḥ kutastarāṃ tasya paramārthatvasambandhaḥ ||

83.1८३.१

किञ्च स्वयम्प्रकाशस्य स्वतो वा परतो ऽपि वा । (८३।१)

kiñca svayamprakāśasya svato vā parato 'pi vā |

83.2८३.२

प्रागभावादिसिद्धिः स्यात् स्वतस् तावन् न युज्यते ॥ (८३।२)

prāgabhāvādisiddhiḥ syāt svatas tāvan na yujyate ||

84.1८४.१

स्वस्मिन् सति विरुद्धत्वाद् अभावस्यानवस्थितेः । (८४।१)

svasmin sati viruddhatvād abhāvasyānavasthiteḥ |

84.2८४.२

स्वनिमित्तप्रकाशस्य स्वस्याभावे ऽप्य् असम्भवात् । (८४।२)

svanimittaprakāśasya svasyābhāve 'py asambhavāt |

84.3८४.३

अनन्यगोचरत्वेन चितो न परतो ऽपि च ॥ (८४।३)

ananyagocaratvena cito na parato 'pi ca ||

85.1८५.१

किञ्च वेद्यस्य भेदादेर् न चिद्धर्मत्वसम्भवः । (८५।१)

kiñca vedyasya bhedāder na ciddharmatvasambhavaḥ |

85.2८५.२

रूपादिवत् अतः संविदद्वितीया स्वयंप्रभा ॥ (८५।२)

rūpādivat ataḥ saṃvidadvitīyā svayaṃprabhā ||

86.1८६.१

अतस् तद्भेदम् आश्रित्य यद्विलक्षणादिजल्पितम् । (८६।१)

atas tadbhedam āśritya yadvilakṣaṇādijalpitam |

86.2८६.२

तदविद्याविलासो ऽयम् इति ब्रह्मविदो विदुः ॥ (८६।२)

tadavidyāvilāso 'yam iti brahmavido viduḥ ||

87.1८७.१

हन्त ब्रह्मोपदेशो ऽयं श्रद्दधानेषु शोभते । (८७।१)

hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate |

87.2८७.२

वयम् अश्रद्दधानाः सो ये युक्तिं प्रार्थयामहे ॥ (८७।२)

vayam aśraddadhānāḥ so ye yuktiṃ prārthayāmahe ||

88.1८८.१

प्रतिप्रमातृविषयं परस्परविलक्षणाः । (८८।१)

pratipramātṛviṣayaṃ parasparavilakṣaṇāḥ |

88.2८८.२

अपरोक्षं प्रकाशन्ते सुखदुःखादिवद् धियः ॥ (८८।२)

aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ ||

89.1८९.१

सम्बन्धिव्यङ्ग्यभेदस्य संयोगेच्छादिकस्य नः । (८९।१)

sambandhivyaṅgyabhedasya saṃyogecchādikasya naḥ |

89.2८९.२

न हि भेदः स्वतो नास्ति नाप्रत्यक्षश् च संमतः ॥ (८९।२)

na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ ||

90.1९०.१

यदि सर्वगता नित्या संविद् एवाभ्युपेयते । (९०।१)

yadi sarvagatā nityā saṃvid evābhyupeyate |

90.2९०.२

ततः सर्वं सदा भायात् न वा किंचित् कदाचन ॥ (९०।२)

tataḥ sarvaṃ sadā bhāyāt na vā kiṃcit kadācana ||

91.1९१.१

तदानीं न हि वेद्यस्य सन्न्निधीतरकारिता । (९१।१)

tadānīṃ na hi vedyasya sannnidhītarakāritā |

91.2९१.२

व्यवस्था घटते वित्तेर् व्योमवद् वैभवाश्रयात् ॥ (९१।२)

vyavasthā ghaṭate vitter vyomavad vaibhavāśrayāt ||

92.1९२.१

नापि कारणभेदेन नित्यायास् तदभावतः । (९२।१)

nāpi kāraṇabhedena nityāyās tadabhāvataḥ |

92.2९२.२

न च स्वरूपनानात्वात् तद् एकत्वपरिग्रहात् ॥ (९२।२)

na ca svarūpanānātvāt tad ekatvaparigrahāt ||

93.1९३.१

ततश् च बधिरान्धादेः शब्दादिग्रहणं भवेत् । (९३।१)

tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet |

93.2९३.२

गुरुशिष्यादिभेदश् च निर्निमित्तः प्रसज्यते ॥ (९३।२)

guruśiṣyādibhedaś ca nirnimittaḥ prasajyate ||

94.1९४.१

ननु नः संविदो भिन्नं सर्वं नाम न किंचन । (९४।१)

nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana |

94.2९४.२

अतः सर्वं सदा भायाद् इत्यकण्डे ऽनुयुज्यते ॥ (९४।२)

ataḥ sarvaṃ sadā bhāyād ityakaṇḍe 'nuyujyate ||

95.1९५.१

इदम् आख्याहि भो किं नु नीलादिर् न प्रकाशते । (९५।१)

idam ākhyāhi bho kiṃ nu nīlādir na prakāśate |

95.2९५.२

प्रकाशमानो नीलादिः संविदो वा न भिद्यते ॥ (९५।२)

prakāśamāno nīlādiḥ saṃvido vā na bhidyate ||

96.1९६.१

आदौ प्रतीतिसुभगो निवाहो लोकवेदयोः । (९६।१)

ādau pratītisubhago nivāho lokavedayoḥ |

96.2९६.२

यतः पदपदार्थादि न किंचिद् अवभासते ॥ (९६।२)

yataḥ padapadārthādi na kiṃcid avabhāsate ||

97.1९७.१

द्वितीये संविदो ऽद्वैतं व्याहन्येत समीहितम् । (९७।१)

dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam |

97.2९७.२

यद्य् अयं विविधाकारप्रपञ्चः संविदात्मकः । (९७।२)

yady ayaṃ vividhākāraprapañcaḥ saṃvidātmakaḥ |

97.3९७.३

सापि संवित् तद् आत्मेति यतो नाना प्रसज्यते ॥ (९७।३)

sāpi saṃvit tad ātmeti yato nānā prasajyate ||

98.1९८.१

न चाविद्याविलासत्वाद् भेदाभेदानिरूपणा । (९८।१)

na cāvidyāvilāsatvād bhedābhedānirūpaṇā |

98.2९८.२

सा हि न्यायानलस्पृष्टा जातुषाभरणायते ॥ (९८।२)

sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate ||

99.1९९.१

तथा हि यद्य् अविद्येयं विद्याभावात्मिकेष्यते । (९९।१)

tathā hi yady avidyeyaṃ vidyābhāvātmikeṣyate |

99.2९९.२

निरुपाख्यस्वभावत्वात् सा न किंचिन् नियच्छति ॥ (९९।२)

nirupākhyasvabhāvatvāt sā na kiṃcin niyacchati ||

100.1१००.१

अर्थान्तरम् अविद्या चेत् साध्वी भेदानिरूपणा । (१००।१)

arthāntaram avidyā cet sādhvī bhedānirūpaṇā |

100.2१००.२

अर्थानर्थान्तरत्वादिविकल्पो ऽस्या न युज्यते । (१००।२)

arthānarthāntaratvādivikalpo 'syā na yujyate |

100.3१००.३

विद्यातो ऽर्थान्तरं चासाव् इति सुव्याहृतं वचः ॥ (१००।३)

vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ ||

101.1१०१.१

अथार्थान्तरभावो ऽपि तस्यास् ते भ्रान्तिकल्पितः । (१०१।१)

athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ |

101.2१०१.२

हन्तैवं सत्य् अविद्यैव विद्या स्यात् परमार्थतः ॥ (१०१।२)

hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ ||

102.1१०२.१

किञ्च शुद्धाजडा संवित् अविद्येयं तु नेसृशी । (१०२।१)

kiñca śuddhājaḍā saṃvit avidyeyaṃ tu nesṛśī |

102.2१०२.२

तत् केन हेतुना सेयम् अन्यैव न निरूप्यते ॥ (१०२।२)

tat kena hetunā seyam anyaiva na nirūpyate ||

103.1१०३.१

अपि चेयम् अविद्या ते यदभावादिरूपिणी । (१०३।१)

api ceyam avidyā te yadabhāvādirūpiṇī |

103.2१०३.२

सा विद्या किं नु संवित्तिर् वेद्यं वा वेदिताथ वा ॥ (१०३।२)

sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā ||

104.1१०४.१

वेद्यत्वे वेदितृत्वे च नास्यास् ताभ्यां निवर्तनम् । (१०४।१)

vedyatve veditṛtve ca nāsyās tābhyāṃ nivartanam |

104.2१०४.२

न हि ज्ञानाद् ऋते ऽज्ञानम् अन्यतस् ते निवर्तते । (१०४।२)

na hi jñānād ṛte 'jñānam anyatas te nivartate |

104.3१०४.३

संविद् एवेति चेत् तस्या ननु भवाद् असम्भवः ॥ (१०४।३)

saṃvid eveti cet tasyā nanu bhavād asambhavaḥ ||

105.1१०५.१

किञ्चेयं तद्विरुद्धा वा न तस्याः क्वापि सम्भवः । (१०५।१)

kiñceyaṃ tadviruddhā vā na tasyāḥ kvāpi sambhavaḥ |

105.2१०५.२

यतो ऽखिलं जगद्व्याप्तं विद्ययैवाद्वितीयया ॥ (१०५।२)

yato 'khilaṃ jagadvyāptaṃ vidyayaivādvitīyayā ||

106.1१०६.१

अभावो ऽन्यो विरुद्धो वा संविदो ऽपि यदीष्यते । (१०६।१)

abhāvo 'nyo viruddho vā saṃvido 'pi yadīṣyate |

106.2१०६.२

तदानीं संविद् अद्वैतप्रतिज्ञां दूरतस् त्यज ॥ (१०६।२)

tadānīṃ saṃvid advaitapratijñāṃ dūratas tyaja ||

107.1१०७.१

किञ्चासौ कस्य जीवस्य को जीवो यस्य सेति चेत् । (१०७।१)

kiñcāsau kasya jīvasya ko jīvo yasya seti cet |

107.2१०७.२

नन्व् एवम् असमाधानम् अन्योन्याश्रयणं भवेत् ॥ (१०७।२)

nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet ||

108.1१०८.१

न तु जीवाद् अविद्या स्यात् न च जीवस् तया विना । (१०८।१)

na tu jīvād avidyā syāt na ca jīvas tayā vinā |

108.2१०८.२

न बीजाङ्कुरतुल्यत्वं जीवोत्पत्तेर् अयोगतः ॥ (१०८।२)

na bījāṅkuratulyatvaṃ jīvotpatter ayogataḥ ||

109.1१०९.१

ब्रह्मणश् चेन् न सर्वज्ञं कथं तद् बंभ्रमीति तेभोः । (१०९।१)

brahmaṇaś cen na sarvajñaṃ kathaṃ tad baṃbhramīti tebhoḥ |

109.2१०९.२

अविद्याकृतदेहात्मप्रत्ययाधीनता न ते । (१०९।२)

avidyākṛtadehātmapratyayādhīnatā na te |

109.3१०९.३

ब्रह्मसर्वज्ञभावस्य तत्स्वाभाविकताश्रुतेः ॥ (१०९।३)

brahmasarvajñabhāvasya tatsvābhāvikatāśruteḥ ||

110.1११०.१

भेदावभासगर्भत्वाद् अथ सर्वज्ञता मृषा । (११०।१)

bhedāvabhāsagarbhatvād atha sarvajñatā mṛṣā |

110.2११०.२

तत एवामृषा कस्मान् न स्वाच्छब्दान्तरादिवत् ॥ (११०।२)

tata evāmṛṣā kasmān na svācchabdāntarādivat ||

111.1१११.१

यथा शब्दान्तराभ्याससंख्याद्याः शास्त्रभेदकाः । (१११।१)

yathā śabdāntarābhyāsasaṃkhyādyāḥ śāstrabhedakāḥ |

111.2१११.२

भेदावभासगर्भाश् च यथार्थाः तादृशी न किम् ॥ (१११।२)

bhedāvabhāsagarbhāś ca yathārthāḥ tādṛśī na kim ||

112.1११२.१

सर्वज्ञे नित्यमुक्ते ऽपि यद्य् अज्ञानस्य सम्भवः । (११२।१)

sarvajñe nityamukte 'pi yady ajñānasya sambhavaḥ |

112.2११२.२

तेजसीव तमस् तस्मान् न निवर्तेत केनचित् ॥ (११२।२)

tejasīva tamas tasmān na nivarteta kenacit ||

113.1११३.१

सर्वज्ञत्वादिवचनप्रामाण्यं व्यावहारिकम् । (११३।१)

sarvajñatvādivacanaprāmāṇyaṃ vyāvahārikam |

113.2११३.२

तात्त्विकं तु प्रमाणत्वम् अद्वैतवचसाम् इति । (११३।२)

tāttvikaṃ tu pramāṇatvam advaitavacasām iti |

113.3११३.३

नियामकं न पश्यामो निर्बन्धात् तावकाद् ऋते ॥ (११३।३)

niyāmakaṃ na paśyāmo nirbandhāt tāvakād ṛte ||

114.1११४.१

आश्रयप्रतियोगित्वे परस्परविरोधिनी । (११४।१)

āśrayapratiyogitve parasparavirodhinī |

114.2११४.२

कथं वैकरसं ब्रह्म सद् इति प्रतिपद्यते ॥ (११४।२)

kathaṃ vaikarasaṃ brahma sad iti pratipadyate ||

115.1११५.१

प्रत्यक्त्वेनाश्रयो ब्रह्मरूपेण प्रतियोगि चेत् । (११५।१)

pratyaktvenāśrayo brahmarūpeṇa pratiyogi cet |

115.2११५.२

रूपभेदः कृतस्य ऽयं यद्य् अविद्याप्रसादजः । (११५।२)

rūpabhedaḥ kṛtasya 'yaṃ yady avidyāprasādajaḥ |

115.3११५.३

ननु सापि तदायत्तेत्यन्योन्याश्रयणं पुनः ॥ (११५।३)

nanu sāpi tadāyattetyanyonyāśrayaṇaṃ punaḥ ||

116.1११६.१

अवस्तुत्वाद् अविद्यायाः [॥। औ३ लेत्तेरौस्झ्झ्] नेदं तद्रूपणं यदि । (११६।१)

avastutvād avidyāyāḥ nedaṃ tadrūpaṇaṃ yadi |

116.2११६.२

वस्तुनो दूषणत्वेन त्वया क्वेदं निरीक्षितम् ॥ (११६।२)

vastuno dūṣaṇatvena tvayā kvedaṃ nirīkṣitam ||

117.1११७.१

स्वसाध्यस्य पुरस्काराद् दोषो ऽन्योन्यसमाश्रयः । (११७।१)

svasādhyasya puraskārād doṣo 'nyonyasamāśrayaḥ |

117.2११७.२

न वस्तुत्वाद् अवस्तुत्वाद् इत्य् अतो नेदम् उत्तरम् ॥ (११७।२)

na vastutvād avastutvād ity ato nedam uttaram ||

118.1११८.१

किंचाविद्या न चेत् [॥। औ३ लेत्तेरौस्झ्झ्] वस्तु व्यवहर्यं कथं भवेत् । (११८।१)

kiṃcāvidyā na cet vastu vyavaharyaṃ kathaṃ bhavet |

118.2११८.२

न चासद्व्योमपुष्पादिव्यवहारवद् इष्यते ॥ (११८।२)

na cāsadvyomapuṣpādivyavahāravad iṣyate ||

119.1११९.१

नाप्य् अवस्त्विति चोक्तौ तु वस्तुत्वं सिध्यति ध्रुवम् । (११९।१)

nāpy avastviti coktau tu vastutvaṃ sidhyati dhruvam |

119.2११९.२

निषिध्यते समस्तेन नञा वस्त्विति चेन् मतम् ॥ (११९।२)

niṣidhyate samastena nañā vastviti cen matam ||

120.1१२०.१

समस्तेन नञा वस्तु प्रथमं यन्निषिध्यते । (१२०।१)

samastena nañā vastu prathamaṃ yanniṣidhyate |

120.2१२०.२

प्रतिप्रसूतं व्यस्तेन पुनस् तद् इति वस्तुता ॥ (१२०।२)

pratiprasūtaṃ vyastena punas tad iti vastutā ||

121.1१२१.१

अतो न वस्तु नावस्तु न सद्वाच्यं न चाप्यसत् । (१२१।१)

ato na vastu nāvastu na sadvācyaṃ na cāpyasat |

121.2१२१.२

भेदो न कश्चकास्तीति विवक्षीर् मा स्म जातुचित् ॥ (१२१।२)

bhedo na kaścakāstīti vivakṣīr mā sma jātucit ||

122.1१२२.१

किञ्च प्रपञ्चनिर्वाहजननी येयम् आश्रिता । (१२२।१)

kiñca prapañcanirvāhajananī yeyam āśritā |

122.2१२२.२

अविद्या सा किम् एकैव नैका वा तद् इदं वद । (१२२।२)

avidyā sā kim ekaiva naikā vā tad idaṃ vada |

122.3१२२.३

तदाश्रयश्च संसारी तथैको नैक एव वा ॥ (१२२।३)

tadāśrayaśca saṃsārī tathaiko naika eva vā ||

123.1१२३.१

सा चेद् एका ततस् सैका शुकस्य ब्रह्मविद्यया । (१२३।१)

sā ced ekā tatas saikā śukasya brahmavidyayā |

123.2१२३.२

पूर्वम् एव निरस्तेति व्यर्थस्ते मुक्तये श्रमः ॥ (१२३।२)

pūrvam eva nirasteti vyarthaste muktaye śramaḥ ||

124.1१२४.१

स्यान् मतं नैव ते सन्ति वामदेवशुकादयः । (१२४।१)

syān mataṃ naiva te santi vāmadevaśukādayaḥ |

124.2१२४.२

यद्विद्यया निरस्तत्वान् नाद्याविद्येति चोद्यते ॥ (१२४।२)

yadvidyayā nirastatvān nādyāvidyeti codyate ||

125.1१२५.१

मुक्तामुक्तादिभेदो हि कल्पितो मदविद्यया । (१२५।१)

muktāmuktādibhedo hi kalpito madavidyayā |

125.2१२५.२

दृश्यत्वान् मामकस्वप्नदृश्यभेदप्रपञ्चवत् ॥ (१२५।२)

dṛśyatvān māmakasvapnadṛśyabhedaprapañcavat ||

126.1१२६.१

यत् पुनर् ब्रह्मविद्यातस् तेषां मुक्तिर् अभूद् इति । (१२६।१)

yat punar brahmavidyātas teṣāṃ muktir abhūd iti |

126.2१२६.२

वाक्यं तत्स्वाप्नमुक्त्युक्तियुक्त्या प्रत्यूह्यताम् इति ॥ (१२६।२)

vākyaṃ tatsvāpnamuktyuktiyuktyā pratyūhyatām iti ||

127.1१२७.१

नन्व् ईदृशानुमानेन स्वाविद्यापरिकल्पितम् । (१२७।१)

nanv īdṛśānumānena svāvidyāparikalpitam |

127.2१२७.२

प्रपञ्चं साधयत्यन्यः कथं प्रत्युच्यते त्वया ॥ (१२७।२)

prapañcaṃ sādhayatyanyaḥ kathaṃ pratyucyate tvayā ||

128.1१२८.१

त्वदविद्यानिमित्तत्वे यो हेतुस्ते विवक्षितः । (१२८।१)

tvadavidyānimittatve yo hetuste vivakṣitaḥ |

128.2१२८.२

स एव हेतुस्तस्यापि भवेत्सर्वज्ञसिद्धिवत् ॥ (१२८।२)

sa eva hetustasyāpi bhavetsarvajñasiddhivat ||

129.1१२९.१

इत्य् अन्योन्यविरुद्धोक्तिव्याहते भवतां मते । (१२९।१)

ity anyonyaviruddhoktivyāhate bhavatāṃ mate |

129.2१२९.२

मुखम् अस्तीति यत् किंचित् प्रलपन्न् इव लक्ष्यसे ॥ (१२९।२)

mukham astīti yat kiṃcit pralapann iva lakṣyase ||

130.1१३०.१

यथा च स्वाप्नमुक्त्युक्तिसदृशी तद्विमुक्तिभीः । (१३०।१)

yathā ca svāpnamuktyuktisadṛśī tadvimuktibhīḥ |

130.2१३०.२

तथैव भवतो ऽपीति व्यर्थो मोक्षाय ते श्रमः ॥ (१३०।२)

tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ ||

131.1१३१.१

यथा तेषाम् अभूतैव पुरस्ताद् आत्मविद्यया । (१३१।१)

yathā teṣām abhūtaiva purastād ātmavidyayā |

131.2१३१.२

मुक्तिर् भूतोच्यते तद्वत् परस्ताद् आत्मविद्यया ॥ (१३१।२)

muktir bhūtocyate tadvat parastād ātmavidyayā ||

132.1१३२.१

अभाविन्य् एव सा मिथ्या भाविनीत्य् अपदिश्यताम् । (१३२।१)

abhāviny eva sā mithyā bhāvinīty apadiśyatām |

132.2१३२.२

सन्ति च स्वप्नदृष्टानि दृष्टान्तवचनानि ते ॥ (१३२।२)

santi ca svapnadṛṣṭāni dṛṣṭāntavacanāni te ||

133.1१३३.१

ननु नेदम् अनिष्टं मे यन् मुक्तिर् न भविष्यति । (१३३।१)

nanu nedam aniṣṭaṃ me yan muktir na bhaviṣyati |

133.2१३३.२

आत्मनो नित्यमुक्तत्वान् नित्यसिद्धैव सा यतः ॥ (१३३।२)

ātmano nityamuktatvān nityasiddhaiva sā yataḥ ||

134.1१३४.१

तद् इदं शान्तिकर्मादौ वेतालवाहनं भवेत् । (१३४।१)

tad idaṃ śāntikarmādau vetālavāhanaṃ bhavet |

134.2१३४.२

येनैवं सुतरां व्यर्थो ब्रह्मविद्यार्जनश्रमः ॥ (१३४।२)

yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ ||

135.1१३५.१

अविद्याप्रतिबद्धत्वाद् अथ सा नित्यसत्य् अपि । (१३५।१)

avidyāpratibaddhatvād atha sā nityasaty api |

135.2१३५.२

असतीवेति तद्व्यक्तिर् विद्याफलम् उपेयते ॥ (१३५।२)

asatīveti tadvyaktir vidyāphalam upeyate ||

136.1१३६.१

हस्तस्थम् एव हेमादि विस्मृतं मृग्यते यथा । (१३६।१)

hastastham eva hemādi vismṛtaṃ mṛgyate yathā |

136.2१३६.२

यथा तद् एव हस्तस्थम् अवगम्योपशाम्यति ॥ (१३६।२)

yathā tad eva hastastham avagamyopaśāmyati ||

137.1१३७.१

तथैव नित्यसिद्धात्मस्वरूपानवबोधतः । (१३७।१)

tathaiva nityasiddhātmasvarūpānavabodhataḥ |

137.2१३७.२

संसारिणस् तथाभावो व्यज्यते ब्रह्मविद्यया ॥ (१३७।२)

saṃsāriṇas tathābhāvo vyajyate brahmavidyayā ||

138.1१३८.१

हन्त केयम् अभिव्यक्तिर् या विद्याफलम् इष्यते । (१३८।१)

hanta keyam abhivyaktir yā vidyāphalam iṣyate |

138.2१३८.२

स्वप्रकाशस्य चिद्धातोर् या स्वरूपपदे स्थिता ॥ (१३८।२)

svaprakāśasya ciddhātor yā svarūpapade sthitā ||

139.1१३९.१

संवित् किं सैव किं वाहं ब्रह्मास्तीतीति कीदृशी । (१३९।१)

saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī |

139.2१३९.२

यदि स्वरूपसंवित् सा नित्यैवेति न तत्फलम् ॥ (१३९।२)

yadi svarūpasaṃvit sā nityaiveti na tatphalam ||

140.1१४०.१

अथ ब्रह्माहम् अस्मीति संवित्तिर् व्यक्तिर् इष्यते । (१४०।१)

atha brahmāham asmīti saṃvittir vyaktir iṣyate |

140.2१४०.२

ननु ते ब्रह्मविद्या सा सैव तस्याः फलं कथम् ॥ (१४०।२)

nanu te brahmavidyā sā saiva tasyāḥ phalaṃ katham ||

141.1१४१.१

किञ्च सा तत् त्वम् अस्य् आदिवाक्यजन्या भवन् मते । (१४१।१)

kiñca sā tat tvam asy ādivākyajanyā bhavan mate |

141.2१४१.२

उत्पत्तिमत्य् अनित्येति मुक्तस्यापि भयं भवेत् ॥ (१४१।२)

utpattimaty anityeti muktasyāpi bhayaṃ bhavet ||

142.1१४२.१

अपि च व्यवहारज्ञाः सति पुष्कलकारेण । (१४२।१)

api ca vyavahārajñāḥ sati puṣkalakāreṇa |

142.2१४२.२

कार्यं न जायते येन तम् आहुः प्रतिबन्धकम् ॥ (१४२।२)

kāryaṃ na jāyate yena tam āhuḥ pratibandhakam ||

143.1१४३.१

इह किं तद् यद् उत्पत्तुम् उपक्रान्तं स्वहेतुतः । (१४३।१)

iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ |

143.2१४३.२

अविद्याप्रतिबद्धत्वाद् उत्पत्तिं न प्रपद्यते ॥ (१४३।२)

avidyāpratibaddhatvād utpattiṃ na prapadyate ||

144.1१४४.१

न मुक्तिर् नित्यसिद्धत्वात् न ब्रह्मास्मीति धीर् अपि । (१४४।१)

na muktir nityasiddhatvāt na brahmāsmīti dhīr api |

144.2१४४.२

न हि ब्रह्माहम् अस्मीति संवित्पुष्कलकारणम् । (१४४।२)

na hi brahmāham asmīti saṃvitpuṣkalakāraṇam |

144.3१४४.३

संसारिणस् तदास्तीति कथं सा प्रतिबध्यते ॥ (१४४।३)

saṃsāriṇas tadāstīti kathaṃ sā pratibadhyate ||

145.1१४५.१

यतः सा कारणाभावाद् इदानीं नोपजायते । (१४५।१)

yataḥ sā kāraṇābhāvād idānīṃ nopajāyate |

145.2१४५.२

न पुनः प्रतिबद्धत्वाद् अस्थाने तेन तद्वचः ॥ (१४५।२)

na punaḥ pratibaddhatvād asthāne tena tadvacaḥ ||

146.1१४६.१

किञ्चैको जीव इत्य् एतद् वस्तुस्थित्या न युज्यते । (१४६।१)

kiñcaiko jīva ity etad vastusthityā na yujyate |

146.2१४६.२

अविद्यातत्समाश्लेषजीवत्वादि मृषा हि ते ॥ (१४६।२)

avidyātatsamāśleṣajīvatvādi mṛṣā hi te ||

147.1१४७.१

प्रातिभासिकम् एकत्वं प्रतिभासपराहतम् । (१४७।१)

prātibhāsikam ekatvaṃ pratibhāsaparāhatam |

147.2१४७.२

यतो नः प्रतिभासन्ते संसरन्तः सहस्रशः ॥ (१४७।२)

yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ ||

148.1१४८.१

आसंसारसमुच्छेदं व्यवहाराश् च तत्कृताः । (१४८।१)

āsaṃsārasamucchedaṃ vyavahārāś ca tatkṛtāḥ |

148.2१४८.२

अबाधिताः प्रतीयन्ते स्वप्नवृत्तिविलक्षणाः ॥ (१४८।२)

abādhitāḥ pratīyante svapnavṛttivilakṣaṇāḥ ||

149.1१४९.१

तेन यौक्तिकम् एकत्वम् अपि युक्तिपराहतम् । (१४९।१)

tena yauktikam ekatvam api yuktiparāhatam |

149.2१४९.२

प्रवृत्तिभेदानुमिता विरुद्धमितिवृत्तयः । (१४९।२)

pravṛttibhedānumitā viruddhamitivṛttayaḥ |

149.3१४९.३

तत्तत्स्वात्मवद् अन्ये ऽपि देहिनो ऽशक्यनिह्नवाः ॥ (१४९।३)

tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ ||

150.1१५०.१

यथानुमेयाद् वह्न्यादेर् अनुमाना विलक्षणाः । (१५०।१)

yathānumeyād vahnyāder anumānā vilakṣaṇāḥ |

150.2१५०.२

प्रत्यक्षं तेक्ष्यन्ते तथान्येभ्यो जीवेभ्यो न पृथक् कथम् ॥ (१५०।२)

pratyakṣaṃ tekṣyante tathānyebhyo jīvebhyo na pṛthak katham ||

151.1१५१.१

न चेच्चेष्टाविशेषेण परो बोद्धानुमीयते । (१५१।१)

na cecceṣṭāviśeṣeṇa paro boddhānumīyate |

151.2१५१.२

व्यवहारो ऽवलुप्येत सर्वो लौकिकवैदिकः ॥ (१५१।२)

vyavahāro 'valupyeta sarvo laukikavaidikaḥ ||

152.1१५२.१

न चौपाधिकभेदेन मेयमातृविभागधीः । (१५२।१)

na caupādhikabhedena meyamātṛvibhāgadhīḥ |

152.2१५२.२

स्वशरीरे ऽपि तत्प्राप्तेः शिरःपाण्यादिभेदतः ॥ (१५२।२)

svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ ||

153.1१५३.१

यथा तत्र शिरःपाणिपादादौ वेदनोदये । (१५३।१)

yathā tatra śiraḥpāṇipādādau vedanodaye |

153.2१५३.२

अनुसन्धानमेकत्वे तथा सर्वत्र ते भवेत् ॥ (१५३।२)

anusandhānamekatve tathā sarvatra te bhavet ||

154.1१५४.१

प्रायणाम् नरकक्लेशात् प्रसूतिव्यसनाद् अपि । (१५४।१)

prāyaṇām narakakleśāt prasūtivyasanād api |

154.2१५४.२

चिरातिवृत्ताः प्राग्जन्मभोगा न स्मृतिगोचराः ॥ (१५४।२)

cirātivṛttāḥ prāgjanmabhogā na smṛtigocarāḥ ||

155.1१५५.१

युगपज्जायमानेषु सुखदुःखादिषु स्फुटः । (१५५।१)

yugapajjāyamāneṣu sukhaduḥkhādiṣu sphuṭaḥ |

155.2१५५.२

आश्रयासङ्करस् तत्र कथम् ऐकार्थ्यविभ्रमः ॥ (१५५।२)

āśrayāsaṅkaras tatra katham aikārthyavibhramaḥ ||

156.1१५६.१

न च प्रातिस्विकाविद्याकल्पितस्वस्वदृश्यकैः । (१५६।१)

na ca prātisvikāvidyākalpitasvasvadṛśyakaiḥ |

156.2१५६.२

जीवैर् अनेकैर् अप्य् एषा लोकयात्रोपपद्यते ॥ (१५६।२)

jīvair anekair apy eṣā lokayātropapadyate ||

157.1१५७.१

परवार्तानभिज्ञास् ते स्वस्वस्वप्नैकदर्शिनः । (१५७।१)

paravārtānabhijñās te svasvasvapnaikadarśinaḥ |

157.2१५७.२

कथं प्रवर्तयेयुस् तां सङ्गाद्येकनिबन्धनाम् ॥ (१५७।२)

kathaṃ pravartayeyus tāṃ saṅgādyekanibandhanām ||

158.1१५८.१

किंच स्वयम्प्रकाशत्वविभुत्वैकत्वनित्यताः । (१५८।१)

kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ |

158.2१५८.२

त्वदभ्युपेता बाधेरन् संविदस् ते ऽद्वितीयताम् ॥ (१५८।२)

tvadabhyupetā bādheran saṃvidas te 'dvitīyatām ||

159.1१५९.१

संविद् एव न ते धर्माः सिद्धायाम् अपि संविदि । (१५९।१)

saṃvid eva na te dharmāḥ siddhāyām api saṃvidi |

159.2१५९.२

विवाददर्शनात् तेषु तद्रूपाणां च भेदतः ॥ (१५९।२)

vivādadarśanāt teṣu tadrūpāṇāṃ ca bhedataḥ ||

160.1१६०.१

न च ते भ्रान्तिसिद्धास् ते येनाद्वैताविरोधिनः । (१६०।१)

na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ |

160.2१६०.२

तत्त्वावेदकवेदान्तवाक्यसिद्धा हि ते गुणाः ॥ (१६०।२)

tattvāvedakavedāntavākyasiddhā hi te guṇāḥ ||

161.1१६१.१

आनन्दस्वप्रकाशत्वनित्यत्वमहिमाद्य् अथ । (१६१।१)

ānandasvaprakāśatvanityatvamahimādy atha |

161.2१६१.२

ब्रह्मस्वरूपम् एवेष्टं तत्रापीदं विविच्यताम् ॥ (१६१।२)

brahmasvarūpam eveṣṭaṃ tatrāpīdaṃ vivicyatām ||

162.1१६२.१

ब्रह्मेति यावन् निर्दिष्टं तन्मात्रं किं सुखादयः । (१६२।१)

brahmeti yāvan nirdiṣṭaṃ tanmātraṃ kiṃ sukhādayaḥ |

162.2१६२.२

अथ वा तस्य ते यद् वा त एव ब्रह्मसंज्ञिनः ॥ (१६२।२)

atha vā tasya te yad vā ta eva brahmasaṃjñinaḥ ||

163.1१६३.१

आद्ये तत्तत्पदाम्नानवैयर्थ्यं वेदलोकयोः । (१६३।१)

ādye tattatpadāmnānavaiyarthyaṃ vedalokayoḥ |

163.2१६३.२

पूर्वोक्तनीत्या भेदश् च जगज्जन्मादिकारणम् ॥ (१६३।२)

pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam ||

164.1१६४.१

अभ्युपेत्यैव हि ब्रह्म विवादास् तेषु वादिनाम् । (१६४।१)

abhyupetyaiva hi brahma vivādās teṣu vādinām |

164.2१६४.२

द्वितीये सैव तैर् एव ब्रह्मणः सद्वितीयता ॥ (१६४।२)

dvitīye saiva tair eva brahmaṇaḥ sadvitīyatā ||

165.1१६५.१

तृतीये ब्रह्म भिद्येत तन्मात्रत्वात् पदे पदे । (१६५।१)

tṛtīye brahma bhidyeta tanmātratvāt pade pade |

165.2१६५.२

तत्समूहो ऽथ वा ब्रह्म तरुवृन्दवनादिवत् ॥ (१६५।२)

tatsamūho 'tha vā brahma taruvṛndavanādivat ||

166.1१६६.१

प्रकर्षश् च प्रकाशश् च भिन्नाव् एवार्कवर्तिनौ । (१६६।१)

prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau |

166.2१६६.२

तेन न क्वापि वाक्यार्थो विभागो ऽस्ति निदर्शनम् ॥ (१६६।२)

tena na kvāpi vākyārtho vibhāgo 'sti nidarśanam ||

167.1१६७.१

जाड्यदुःखाद्यपोहेन यद्य् एकत्रैव वर्तिता । (१६७।१)

jāḍyaduḥkhādyapohena yady ekatraiva vartitā |

167.2१६७.२

ज्ञानानन्दादिशब्दानां न सतः सद्वितीयता ॥ (१६७।२)

jñānānandādiśabdānāṃ na sataḥ sadvitīyatā ||

168.1१६८.१

अपोहाः किं न सन्त्य् एव सन्तो वा नोभये ऽपि वा । (१६८।१)

apohāḥ kiṃ na santy eva santo vā nobhaye 'pi vā |

168.2१६८.२

सत्त्वे सत् सद्वितीयं स्याज्जडाद्यात्मकतेतरे ॥ (१६८।२)

sattve sat sadvitīyaṃ syājjaḍādyātmakatetare ||

169.1१६९.१

सदसद्व्यतिरेकोक्तिः पूर्वम् एव पराकृता । (१६९।१)

sadasadvyatirekoktiḥ pūrvam eva parākṛtā |

169.2१६९.२

तथात्वे च घटादिभ्यो ब्रह्मापि न विशिष्यते ॥ (१६९।२)

tathātve ca ghaṭādibhyo brahmāpi na viśiṣyate ||

170.1१७०.१

किञ्चापोह्यजडत्वादिविरुद्धार्थासमर्पणे । (१७०।१)

kiñcāpohyajaḍatvādiviruddhārthāsamarpaṇe |

170.2१७०.२

नैव तत्तदपोह्यते तदेकार्थैः पदैर् इव ॥ (१७०।२)

naiva tattadapohyate tadekārthaiḥ padair iva ||

171.1१७१.१

प्रतियोगिनि दृश्ये तु या भावान्तरमात्रधीः । (१७१।१)

pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ |

171.2१७१.२

सैवाभाव इतीहापि सद्भिस् ते सद्वितीयता ॥ (१७१।२)

saivābhāva itīhāpi sadbhis te sadvitīyatā ||

172.1१७२.१

भूतभौतिकभेदानां सदसद्व्यतिरेकिता । (१७२।१)

bhūtabhautikabhedānāṃ sadasadvyatirekitā |

172.2१७२.२

कुतो ऽवसीयते किं नु प्रत्यक्षादेर् उतागमात् ॥ (१७२।२)

kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt ||

173.1१७३.१

प्रत्यक्षादीनि मानानि स्वं स्वम् अर्थं यथायथम् । (१७३।१)

pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham |

173.2१७३.२

व्यवच्छिन्दन्ति जायन्त इति यावत् स्वसाक्षिकम् ॥ (१७३।२)

vyavacchindanti jāyanta iti yāvat svasākṣikam ||

174.1१७४.१

यथाग्रतः स्थिते नीले नीलिमान्यकथा न धीः । (१७४।१)

yathāgrataḥ sthite nīle nīlimānyakathā na dhīḥ |

174.2१७४.२

एकाकारा न हि तया स्फटिके धवले मतिः ॥ (१७४।२)

ekākārā na hi tayā sphaṭike dhavale matiḥ ||

175.1१७५.१

क्षीरे मधुरधीर् यादृङ्नैव निम्बकषायधीः । (१७५।१)

kṣīre madhuradhīr yādṛṅnaiva nimbakaṣāyadhīḥ |

175.2१७५.२

व्यवहाराश् च नियताः सर्वे लौकिकवैदिकाः ॥ (१७५।२)

vyavahārāś ca niyatāḥ sarve laukikavaidikāḥ ||

176.1१७६.१

सत्यं प्रतीतिर् असत्य् अस्या मूलं नास्तीति चेन् न तत् । (१७६।१)

satyaṃ pratītir asaty asyā mūlaṃ nāstīti cen na tat |

176.2१७६.२

सा चेद् अस्ति तस्या मूलं कल्प्यतां कार्यभूतया ॥ (१७६।२)

sā ced asti tasyā mūlaṃ kalpyatāṃ kāryabhūtayā ||

177.1१७७.१

कॢप्तं चेन्द्रियलिङ्गादि तद्भावानुविधानतः । (१७७।१)

kḷptaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ |

177.2१७७.२

यौगपद्यक्रमायोगाद्यवच्छेदविधानयोः ॥ (१७७।२)

yaugapadyakramāyogādyavacchedavidhānayoḥ ||

178.1१७८.१

ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः । (१७८।१)

aikyāyogācca bhedo na pratyakṣa iti yo bhramaḥ |

178.2१७८.२

भेदेतरेतराभावविवेकाग्रहणेन सः ॥ (१७८।२)

bhedetaretarābhāvavivekāgrahaṇena saḥ ||

179.1१७९.१

स्वरूपम् एव भावानां प्रत्यक्षेण परिस्फुरत् । (१७९।१)

svarūpam eva bhāvānāṃ pratyakṣeṇa parisphurat |

179.2१७९.२

भेदव्याहारहेतुः स्यात् प्रतियोगिव्यपेक्षया ॥ (१७९।२)

bhedavyāhārahetuḥ syāt pratiyogivyapekṣayā ||

180.1१८०.१

यथा तन्मात्रधीर् नानानास्तिव्याहारसाधनी । (१८०।१)

yathā tanmātradhīr nānānāstivyāhārasādhanī |

180.2१८०.२

ह्रस्वदीर्घत्वभेदा वा यथैकत्र षडङ्गुले ॥ (१८०।२)

hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule ||

181.1१८१.१

एवं व्यवस्थितानेकप्रकाराकारवत्तया । (१८१।१)

evaṃ vyavasthitānekaprakārākāravattayā |

181.2१८१.२

प्रत्यक्षस्य प्रपञ्चस्य तद्भावो ऽशक्यनिह्नवः ॥ (१८१।२)

pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ ||

182.1१८२.१

आगमः कार्यनिष्ठत्वाद् ईदृशे ऽर्थे न तु प्रमा । (१८२।१)

āgamaḥ kāryaniṣṭhatvād īdṛśe 'rthe na tu pramā |

182.2१८२.२

प्रामाण्ये ऽप्य् अन्वयायोग्यपदार्थत्वान् न बोधकः ॥ (१८२।२)

prāmāṇye 'py anvayāyogyapadārthatvān na bodhakaḥ ||

183.1१८३.१

नासत् प्रतीतेः बाधाच्च न सदित्यपि यन्न तत् । (१८३।१)

nāsat pratīteḥ bādhācca na sadityapi yanna tat |

183.2१८३.२

प्रतीतेर् एव सत् किं न बाधान् नासत् कुतो जगत् । (१८३।२)

pratīter eva sat kiṃ na bādhān nāsat kuto jagat |

183.3१८३.३

तस्माद् अविद्ययैवेयम् अविद्या भवताश्रिता ॥ (१८३।३)

tasmād avidyayaiveyam avidyā bhavatāśritā ||

184.1१८४.१

किञ्च भेदप्रपञ्चस्य धर्मो मिथ्यात्वलक्षणः । (१८४।१)

kiñca bhedaprapañcasya dharmo mithyātvalakṣaṇaḥ |

184.2१८४.२

मिथ्या वा परमार्थो वा नाद्यः कल्पो ऽयम् अञ्जसा ॥ (१८४।२)

mithyā vā paramārtho vā nādyaḥ kalpo 'yam añjasā ||

185.1१८५.१

तन्मिथ्यात्वे प्रपञ्चस्य सत्यत्वं दुरपह्नवम् । (१८५।१)

tanmithyātve prapañcasya satyatvaṃ durapahnavam |

185.2१८५.२

पारमार्थ्ये ऽपि तेनैव तवाद्वैतं विहन्यते ॥ (१८५।२)

pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate ||

186.1१८६.१

सर्वाण्य् एव प्रमाणानि स्वं स्वम् अर्थं यथोदितम् । (१८६।१)

sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathoditam |

186.2१८६.२

असतो ऽर्थान्तरेभ्यश् च व्यवच्छिन्दन्ति भान्ति नः ॥ (१८६।२)

asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ ||

187.1१८७.१

तथा हीह घटो ऽस्तीति येयं धीर् उपजायते । (१८७।१)

tathā hīha ghaṭo 'stīti yeyaṃ dhīr upajāyate |

187.2१८७.२

सा तदा तस्य नाभावं पटत्वं वानुमन्यते ॥ (१८७।२)

sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate ||

188.1१८८.१

नन्व् अस्तीति यद् उक्तं किं तन्मात्रं घट इत्य् अपि । (१८८।१)

nanv astīti yad uktaṃ kiṃ tanmātraṃ ghaṭa ity api |

188.2१८८.२

अर्थान्तरं वा तन्मात्रे सदद्वैतं प्रसज्यते । (१८८।२)

arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate |

188.3१८८.३

अर्थान्तरत्वे सिद्धं तत् सदसद्भ्यां विलक्षणम् ॥ (१८८।३)

arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam ||

189.1१८९.१

यद्य् एवम् अस्ति ब्रह्मेति ब्रह्मौपनिषदं मतम् । (१८९।१)

yady evam asti brahmeti brahmaupaniṣadaṃ matam |

189.2१८९.२

घटवत् सदसत्त्वाभ्याम् अनिर्वाच्यं तवापतेत् ॥ (१८९।२)

ghaṭavat sadasattvābhyām anirvācyaṃ tavāpatet ||

190.1१९०.१

आनन्दसत्यज्ञानादिनिर्देशैर् एव वैदिकैः । (१९०।१)

ānandasatyajñānādinirdeśair eva vaidikaiḥ |

190.2१९०.२

ब्रह्मणो ऽप्य् अतथाभावस् त्वयैवैवं समर्थितः ॥ (१९०।२)

brahmaṇo 'py atathābhāvas tvayaivaivaṃ samarthitaḥ ||

191.1१९१.१

सदसद्व्यतिरेकोक्तिः प्रपञ्चस्य च हीयते । (१९१।१)

sadasadvyatirekoktiḥ prapañcasya ca hīyate |

191.2१९१.२

यद् यथा किंचिद् उच्येत तत्सर्वस्य तथा भवेत् ॥ (१९१।२)

yad yathā kiṃcid ucyeta tatsarvasya tathā bhavet ||

192.1१९२.१

तस्माद् अस्तीति संवित्तिर् जायमाना घटादिषु । (१९२।१)

tasmād astīti saṃvittir jāyamānā ghaṭādiṣu |

192.2१९२.२

तत्तत्पदार्थसंस्थानपारमार्थ्यावबोधिनी ॥ (१९२।२)

tattatpadārthasaṃsthānapāramārthyāvabodhinī ||

193.1१९३.१

सजातीयविजातीयव्यवच्छेदनिबन्धनैः । (१९३।१)

sajātīyavijātīyavyavacchedanibandhanaiḥ |

193.2१९३.२

स्वैः स्वैर् व्यवस्थितै रूपैः पदार्थानां तु या स्थितिः । (१९३।२)

svaiḥ svair vyavasthitai rūpaiḥ padārthānāṃ tu yā sthitiḥ |

193.3१९३.३

सा सत्ता न स्वतन्त्रान्या तत्राद्वैतकथा कथम् ॥ (१९३।३)

sā sattā na svatantrānyā tatrādvaitakathā katham ||

194.1१९४.१

न च नानाविधाकारप्रतीतिः शक्यनिह्नवा । (१९४।१)

na ca nānāvidhākārapratītiḥ śakyanihnavā |

194.2१९४.२

न वेद्यं वित्तिधर्मः स्याद् इति यत्प्रागुदीरितम् ॥ (१९४।२)

na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam ||

195.1१९५.१

तेनापि साधितं किंचित् संविदो ऽस्ति न वा त्वया । (१९५।१)

tenāpi sādhitaṃ kiṃcit saṃvido 'sti na vā tvayā |

195.2१९५.२

अस्ति चेत् पक्षपातः स्यान् न चेत् ते विफलः श्रमः ॥ (१९५।२)

asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ ||

196.1१९६.१

अतः स्वरसविस्पष्टदृष्टभेदास् तु संविदः । (१९६।१)

ataḥ svarasavispaṣṭadṛṣṭabhedās tu saṃvidaḥ |

196.2१९६.२

यथावस्थायिभिर्बाह्यैर् नैक्यं यान्ति घटादिभिः ॥ (१९६।२)

yathāvasthāyibhirbāhyair naikyaṃ yānti ghaṭādibhiḥ ||

197.1१९७.१

सहोपलम्भनियमो न खल्व् एकैकसंविदा । (१९७।१)

sahopalambhaniyamo na khalv ekaikasaṃvidā |

197.2१९७.२

न चेद् अस्ति ससामान्यं सर्वं संवेदनास्पदम् ॥ (१९७।२)

na ced asti sasāmānyaṃ sarvaṃ saṃvedanāspadam ||

198.1१९८.१

सहोपलम्भनियमान् नान्यो ऽर्थः संविदो भवेत् । (१९८।१)

sahopalambhaniyamān nānyo 'rthaḥ saṃvido bhavet |

198.2१९८.२

यद् एतद् अपराधीनस्वप्रकाशं तद् एव हि । (१९८।२)

yad etad aparādhīnasvaprakāśaṃ tad eva hi |

198.3१९८.३

स्वयम्प्रकाशताशब्दम् इति वृद्धाः प्रचक्षते ॥ (१९८।३)

svayamprakāśatāśabdam iti vṛddhāḥ pracakṣate ||

199.1१९९.१

यस्मिन्न् अभासमाने ऽपि यो नामार्थो न भासते । (१९९।१)

yasminn abhāsamāne 'pi yo nāmārtho na bhāsate |

199.2१९९.२

नासाव् अर्थान्तरस् तस्मान् मिथ्येन्दुर् इव चन्द्रतः ॥ (१९९।२)

nāsāv arthāntaras tasmān mithyendur iva candrataḥ ||

200.1२००.१

अभासमाने विज्ञाने न चात्मार्थावभासनम् । (२००।१)

abhāsamāne vijñāne na cātmārthāvabhāsanam |

200.2२००.२

इति संविद्विवर्तत्वं प्रपञ्चः स्फुटम् अञ्चति ॥ (२००।२)

iti saṃvidvivartatvaṃ prapañcaḥ sphuṭam añcati ||

201.1२०१.१

मैवं स्मार्थान् परिभवः प्रत्यक्षेण बलीयसा । (२०१।१)

maivaṃ smārthān paribhavaḥ pratyakṣeṇa balīyasā |

201.2२०१.२

संरक्ष्यमाणभेदास् ते नानुमानानुवर्तिनः ॥ (२०१।२)

saṃrakṣyamāṇabhedās te nānumānānuvartinaḥ ||

202.1२०२.१

तथा हीदम् अहं वेद्मीत्य् अन्योन्यानात्मना स्फुटम् । (२०२।१)

tathā hīdam ahaṃ vedmīty anyonyānātmanā sphuṭam |

202.2२०२.२

त्रयं साक्षाच्चकास्तीति सर्वेषाम् आत्मसाक्षिकम् ॥ (२०२।२)

trayaṃ sākṣāccakāstīti sarveṣām ātmasākṣikam ||

203.1२०३.१

प्रत्यक्षप्रतिपक्षं च नानुमानं प्रवर्तते । (२०३।१)

pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate |

203.2२०३.२

न हि वह्नेर् अनुष्णत्वं द्रव्यत्वाद् अनुमीयते ॥ (२०३।२)

na hi vahner anuṣṇatvaṃ dravyatvād anumīyate ||

204.1२०४.१

किञ्च हेतुर् विरुद्धो ऽयं सहभावो द्वयोर् यतः । (२०४।१)

kiñca hetur viruddho 'yaṃ sahabhāvo dvayor yataḥ |

204.2२०४.२

तवापि न हि संवित्तिः स्वात्मना सह भासते ॥ (२०४।२)

tavāpi na hi saṃvittiḥ svātmanā saha bhāsate ||

205.1२०५.१

नीलाद्युपप्लवापेतस्वच्छचिन्मात्रसन्ततिः । (२०५।१)

nīlādyupaplavāpetasvacchacinmātrasantatiḥ |

205.2२०५.२

स्वापादौ भासते नैवम् अर्थः संवेदनात् पृथक् । (२०५।२)

svāpādau bhāsate naivam arthaḥ saṃvedanāt pṛthak |

205.3२०५.३

तेन संवेदनं सत्यं संवेद्यो ऽर्थस् त्व् असन्न् इति ॥ (२०५।३)

tena saṃvedanaṃ satyaṃ saṃvedyo 'rthas tv asann iti ||

206.1२०६.१

तद् एतद् अपरामृष्टस्ववाग्बाधस्य जल्पितम् । (२०६।१)

tad etad aparāmṛṣṭasvavāgbādhasya jalpitam |

206.2२०६.२

अहोपलम्भनियमो येनैवं सति हीयते ॥ (२०६।२)

ahopalambhaniyamo yenaivaṃ sati hīyate ||

207.1२०७.१

यस्माद् ऋते यद् आभाति भाति तस्माद् ऋते ऽपि तत् । (२०७।१)

yasmād ṛte yad ābhāti bhāti tasmād ṛte 'pi tat |

207.2२०७.२

घटाद् ऋते ऽपि निर्भातः पटाद् इव घटः स्वयम् ॥ (२०७।२)

ghaṭād ṛte 'pi nirbhātaḥ paṭād iva ghaṭaḥ svayam ||

Data courtesy of The Digital Corpus of Sanskrit.

SaṃSi, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit