तर्कसंग्रहTarkasaṃgraha

Chapter 1

1 of 1 · 323 verses

Select a line for its word-by-word analysis.

1.1१.१

निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । (१।१)

nidhāya hṛdi viśveśaṃ vidhāya guruvandanam |

1.2१.२

बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥ (१।२)

bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ ||

2.1२.१

द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः ॥ (२।१)

dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ ||

3.1३.१

तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ॥ (३।१)

tatra dravyāṇi pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navaiva ||

4.1४.१

रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश् चतुर्विंशतिगुणाः ॥ (४।१)

rūparasagandhasparśasaṃkhyāparimāṇapṛthaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhecchādveṣaprayatnadharmādharmasaṃskārāś caturviṃśatiguṇāḥ ||

5.1५.१

उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥ (५।१)

utkṣepaṇāvakṣepaṇākuñcanaprasāraṇagamanāni pañca karmāṇi ||

6.1६.१

परम् अपरं चेति द्विविधं सामान्यम् ॥ (६।१)

param aparaṃ ceti dvividhaṃ sāmānyam ||

7.1७.१

नित्यद्रव्यवृत्तयो विशेषास् त्व् अनन्ता एव ॥ (७।१)

nityadravyavṛttayo viśeṣās tv anantā eva ||

8.1८.१

समवायस् त्व् एक एव ॥ (८।१)

samavāyas tv eka eva ||

9.1९.१

अभावश् चतुर्विधः । (९।१)

abhāvaś caturvidhaḥ |

9.2९.२

प्रागभावः प्रध्वंसाभावो ऽत्यन्ताभावो ऽन्योन्याभावश् चेति ॥ (९।२)

prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo 'nyonyābhāvaś ceti ||

10.1१०.१

गन्धवती पृथिवी । (१०।१)

gandhavatī pṛthivī |

10.2१०.२

सा द्विविधा नित्यानित्या च । (१०।२)

sā dvividhā nityānityā ca |

10.3१०.३

नित्या परमाणुरूपा । (१०।३)

nityā paramāṇurūpā |

10.4१०.४

अनित्या कार्यरूपा । (१०।४)

anityā kāryarūpā |

10.5१०.५

पुनस् त्रिविधा शरीरेन्द्रियविषयभेदात् । (१०।५)

punas trividhā śarīrendriyaviṣayabhedāt |

10.6१०.६

शरीरम् अस्मदादीनाम् । (१०।६)

śarīram asmadādīnām |

10.7१०.७

इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । (१०।७)

indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti |

10.8१०.८

विषयो मृत्पाषाणादिः ॥ (१०।८)

viṣayo mṛtpāṣāṇādiḥ ||

11.1११.१

शीतस्पर्शवत्य आपः । (११।१)

śītasparśavatya āpaḥ |

11.2११.२

ता द्विविधाः नित्या अनित्याश् च । (११।२)

tā dvividhāḥ nityā anityāś ca |

11.3११.३

नित्याः परमाणुरूपाः । (११।३)

nityāḥ paramāṇurūpāḥ |

11.4११.४

अनित्याः कार्यरूपाः । (११।४)

anityāḥ kāryarūpāḥ |

11.5११.५

पुनस् त्रिविधाः शरीरेन्द्रियविषयभेदात् । (११।५)

punas trividhāḥ śarīrendriyaviṣayabhedāt |

11.6११.६

शरीरं वरुणलोके । (११।६)

śarīraṃ varuṇaloke |

11.7११.७

इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । (११।७)

indriyaṃ rasagrāhakaṃ rasanaṃ jihvāgravarti |

11.8११.८

विषयः सरित्समुद्रादिः ॥ (११।८)

viṣayaḥ saritsamudrādiḥ ||

12.1१२.१

उष्णस्पर्शवत् तेजः । (१२।१)

uṣṇasparśavat tejaḥ |

12.2१२.२

तद् द्विविधं नित्यम् अनित्यं च । (१२।२)

tad dvividhaṃ nityam anityaṃ ca |

12.3१२.३

नित्यं परमाणुरूपम् । (१२।३)

nityaṃ paramāṇurūpam |

12.4१२.४

अनित्यं कार्यरूपम् । (१२।४)

anityaṃ kāryarūpam |

12.5१२.५

पुनस् त्रिविधं शरीरेन्द्रियविषयभेदात् । (१२।५)

punas trividhaṃ śarīrendriyaviṣayabhedāt |

12.6१२.६

शरीरम् आदित्यलोके । (१२।६)

śarīram ādityaloke |

12.7१२.७

इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । (१२।७)

indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti |

12.8१२.८

विषयश् चतुर्विधः । (१२।८)

viṣayaś caturvidhaḥ |

12.9१२.९

भौमदिव्यौदर्याकरजभेदात् । (१२।९)

bhaumadivyaudaryākarajabhedāt |

12.10१२.१०

भौमं वह्न्यादिकम् । (१२।१०)

bhaumaṃ vahnyādikam |

12.11१२.११

अबिन्धनं दिव्यं विद्युदादि । (१२।११)

abindhanaṃ divyaṃ vidyudādi |

12.12१२.१२

भुक्तस्य परिणामहेतुर् औदर्यम् आकरजं सुवर्णादि ॥ (१२।१२)

bhuktasya pariṇāmahetur audaryam ākarajaṃ suvarṇādi ||

13.1१३.१

रूपरहितस्पर्शवान् वायुः । (१३।१)

rūparahitasparśavān vāyuḥ |

13.2१३.२

स द्विविधो नित्यो ऽनित्यश् च । (१३।२)

sa dvividho nityo 'nityaś ca |

13.3१३.३

नित्यः परमाणुरूपः । (१३।३)

nityaḥ paramāṇurūpaḥ |

13.4१३.४

अनित्यः कार्यरूपः । (१३।४)

anityaḥ kāryarūpaḥ |

13.5१३.५

पुनस् त्रिविधः शरीरेन्द्रियविषयभेदात् । (१३।५)

punas trividhaḥ śarīrendriyaviṣayabhedāt |

13.6१३.६

शरीरं वायुलोके । (१३।६)

śarīraṃ vāyuloke |

13.7१३.७

इन्द्रियं स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति । (१३।७)

indriyaṃ sparśagrāhakaṃ tvaksarvaśarīravarti |

13.8१३.८

विषयो वृक्षादिकम्पनहेतुः । (१३।८)

viṣayo vṛkṣādikampanahetuḥ |

13.9१३.९

शरीरान्तःसंचारी वायुः प्राणः । (१३।९)

śarīrāntaḥsaṃcārī vāyuḥ prāṇaḥ |

13.10१३.१०

स चैको ऽप्य् उपाधिभेदात् प्राणापानादिसंज्ञा लभते ॥ (१३।१०)

sa caiko 'py upādhibhedāt prāṇāpānādisaṃjñā labhate ||

14.1१४.१

शब्दगुणम् आकाशम् । (१४।१)

śabdaguṇam ākāśam |

14.2१४.२

तच् चैकं विभु नित्यं च ॥ (१४।२)

tac caikaṃ vibhu nityaṃ ca ||

15.1१५.१

अतीतादिव्यवहारहेतुः कालः । (१५।१)

atītādivyavahārahetuḥ kālaḥ |

15.2१५.२

स चैको विभुर् नित्यश् च ॥ (१५।२)

sa caiko vibhur nityaś ca ||

16.1१६.१

प्राच्यादिव्यवहारहेतुर् दिक् । (१६।१)

prācyādivyavahārahetur dik |

16.2१६.२

सा चैका विभ्वी नित्या च ॥ (१६।२)

sā caikā vibhvī nityā ca ||

17.1१७.१

ज्ञानाधिकरणम् आत्मा । (१७।१)

jñānādhikaraṇam ātmā |

17.2१७.२

स द्विविधः परमात्मा जीवात्मा च । (१७।२)

sa dvividhaḥ paramātmā jīvātmā ca |

17.3१७.३

तत्रेश्वरः सर्वज्ञः परमात्मैक एव । (१७।३)

tatreśvaraḥ sarvajñaḥ paramātmaika eva |

17.4१७.४

जीवात्मा प्रतिशरीरं भिन्नो विभुर् नित्यश् च ॥ (१७।४)

jīvātmā pratiśarīraṃ bhinno vibhur nityaś ca ||

18.1१८.१

सुखाद्युपलब्धिसाधनम् इन्द्रियं मनः । (१८।१)

sukhādyupalabdhisādhanam indriyaṃ manaḥ |

18.2१८.२

तच् च प्रत्यात्मनियतत्वाद् अनन्तं परमाणुरूपं नित्यं च ॥ (१८।२)

tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca ||

19.1१९.१

चक्षुर्मात्रग्राह्यो गुणो रूपम् । (१९।१)

cakṣurmātragrāhyo guṇo rūpam |

19.2१९.२

तच् च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात् सप्तविधं पृथिवीजलतेजोवृत्ति । (१९।२)

tac ca śuklanīlapītaraktaharitakapiśacitrabhedāt saptavidhaṃ pṛthivījalatejovṛtti |

19.3१९.३

तत्र पृथिव्यां सप्तविधम् । (१९।३)

tatra pṛthivyāṃ saptavidham |

19.4१९.४

अभास्वरशुक्लं जले । (१९।४)

abhāsvaraśuklaṃ jale |

19.5१९.५

भास्वरशुक्लं तेजसि ॥ (१९।५)

bhāsvaraśuklaṃ tejasi ||

20.1२०.१

रसनग्राह्यो गुणो रसः । (२०।१)

rasanagrāhyo guṇo rasaḥ |

20.2२०.२

स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । (२०।२)

sa ca madhurāmlalavaṇakaṭukaṣāyatiktabhedāt ṣaḍvidhaḥ |

20.3२०.३

पृथिव्यां षड्विधः । (२०।३)

pṛthivyāṃ ṣaḍvidhaḥ |

20.4२०.४

जले मधुर एव ॥ (२०।४)

jale madhura eva ||

21.1२१.१

घ्राणग्राह्यो गुणो गन्धः । (२१।१)

ghrāṇagrāhyo guṇo gandhaḥ |

21.2२१.२

स च द्विविधः सुरभिरसुरभिश् च । (२१।२)

sa ca dvividhaḥ surabhirasurabhiś ca |

21.3२१.३

पृथिवीमात्रवृत्तिः । (२१।३)

pṛthivīmātravṛttiḥ |

21.4२१.४

त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । (२१।४)

tvagindriyamātragrāhyo guṇaḥ sparśaḥ |

21.5२१.५

स च त्रिविधः शीतोष्णानुष्णाशीतभेदात् । (२१।५)

sa ca trividhaḥ śītoṣṇānuṣṇāśītabhedāt |

21.6२१.६

पृथिव्यप्तेजोवायुवृत्तिः । (२१।६)

pṛthivyaptejovāyuvṛttiḥ |

21.7२१.७

तत्र शीतो जले । (२१।७)

tatra śīto jale |

21.8२१.८

उष्णस् तेजसि । (२१।८)

uṣṇas tejasi |

21.9२१.९

अनुष्णाशीतः पृथिवीवाय्वोः ॥ (२१।९)

anuṣṇāśītaḥ pṛthivīvāyvoḥ ||

22.1२२.१

रूपादिचतुष्टयं पृथिव्यां पाकजम् अनित्यं च । (२२।१)

rūpādicatuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca |

22.2२२.२

अन्यत्रापाकजं नित्यम् अन्त्यं च । (२२।२)

anyatrāpākajaṃ nityam antyaṃ ca |

22.3२२.३

नित्यगतं नित्यम् । (२२।३)

nityagataṃ nityam |

22.4२२.४

अनित्यगतम् अनित्यम् ॥ (२२।४)

anityagatam anityam ||

23.1२३.१

एकत्वादिव्यवहारहेतुः संख्या । (२३।१)

ekatvādivyavahārahetuḥ saṃkhyā |

23.2२३.२

नवद्रव्यवृत्तिर् एकत्वादिपरार्धपर्यन्ता । (२३।२)

navadravyavṛttir ekatvādiparārdhaparyantā |

23.3२३.३

एकत्वं नित्यम् अनित्यं च । (२३।३)

ekatvaṃ nityam anityaṃ ca |

23.4२३.४

नित्यगतं नित्यम् अनित्यगतम् अनित्यम् । (२३।४)

nityagataṃ nityam anityagatam anityam |

23.5२३.५

द्वित्वादिकं तु सर्वत्रानित्यम् एव ॥ (२३।५)

dvitvādikaṃ tu sarvatrānityam eva ||

24.1२४.१

मानव्यवहारकारणं परिमाणं । (२४।१)

mānavyavahārakāraṇaṃ parimāṇaṃ |

24.2२४.२

नवद्रव्यवृत्ति । (२४।२)

navadravyavṛtti |

24.3२४.३

तच् चतुर्विधम् । (२४।३)

tac caturvidham |

24.4२४.४

अणु महद् दीर्घं ह्रस्वं चेति ॥ (२४।४)

aṇu mahad dīrghaṃ hrasvaṃ ceti ||

25.1२५.१

पृथग्व्यवहारकारणं पृथक्त्वम् । (२५।१)

pṛthagvyavahārakāraṇaṃ pṛthaktvam |

25.2२५.२

सर्वद्रव्यवृत्ति ॥ (२५।२)

sarvadravyavṛtti ||

26.1२६.१

संयुक्तव्यवहारहेतुः संयोगः । (२६।१)

saṃyuktavyavahārahetuḥ saṃyogaḥ |

26.2२६.२

सर्वद्रव्यवृत्तिः ॥ (२६।२)

sarvadravyavṛttiḥ ||

27.1२७.१

संयोगनाशको गुणो विभागः । (२७।१)

saṃyoganāśako guṇo vibhāgaḥ |

27.2२७.२

सर्वद्रव्यवृत्तिः ॥ (२७।२)

sarvadravyavṛttiḥ ||

28.1२८.१

परापरव्यवहारासाधारणकारणे परत्वापरत्वे । (२८।१)

parāparavyavahārāsādhāraṇakāraṇe paratvāparatve |

28.2२८.२

पृथिव्यादिचतुष्टयमनोवृत्तीति । (२८।२)

pṛthivyādicatuṣṭayamanovṛttīti |

28.3२८.३

ते द्विविधे दिक्कृते कालकृते च । (२८।३)

te dvividhe dikkṛte kālakṛte ca |

28.4२८.४

दूरस्थे दिक्कृतं परत्वम् । (२८।४)

dūrasthe dikkṛtaṃ paratvam |

28.5२८.५

समीपस्थे दिक्कृतम् अपरत्वम् । (२८।५)

samīpasthe dikkṛtam aparatvam |

28.6२८.६

ज्येष्ठे कालकृतं परत्वम् । (२८।६)

jyeṣṭhe kālakṛtaṃ paratvam |

28.7२८.७

कनिष्ठे कालकृतम् अपरत्वम् ॥ (२८।७)

kaniṣṭhe kālakṛtam aparatvam ||

29.1२९.१

आद्यपतनासमवायिकारणं गुरुत्वं । (२९।१)

ādyapatanāsamavāyikāraṇaṃ gurutvaṃ |

29.2२९.२

पृथिवीजलवृत्ति ॥ (२९।२)

pṛthivījalavṛtti ||

30.1३०.१

आद्यस्यन्दनासमवायिकारणं द्रवत्वं पृथिव्यप्तेजोवृत्ति । (३०।१)

ādyasyandanāsamavāyikāraṇaṃ dravatvaṃ pṛthivyaptejovṛtti |

30.2३०.२

तद् द्विविधं सांसिद्धिकं नैमित्तिकं च । (३०।२)

tad dvividhaṃ sāṃsiddhikaṃ naimittikaṃ ca |

30.3३०.३

सांसिद्धिकं जले नैमित्तिकं पृथिवीतेजसोः । (३०।३)

sāṃsiddhikaṃ jale naimittikaṃ pṛthivītejasoḥ |

30.4३०.४

पृथिव्यां घृतादावग्निसंयोगजन्यं दरवत्वम् । (३०।४)

pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam |

30.5३०.५

तेजसि सुवर्णादौ ॥ (३०।५)

tejasi suvarṇādau ||

31.1३१.१

चूर्णादिपिण्डीभावहेतुर् गुणः स्नेहः । (३१।१)

cūrṇādipiṇḍībhāvahetur guṇaḥ snehaḥ |

31.2३१.२

जलमात्रवृत्तिः ॥ (३१।२)

jalamātravṛttiḥ ||

32.1३२.१

श्रोत्रग्राह्यो गुणः शब्दः । (३२।१)

śrotragrāhyo guṇaḥ śabdaḥ |

32.2३२.२

आकाशमात्रवृत्तिः । (३२।२)

ākāśamātravṛttiḥ |

32.3३२.३

स द्विविधो द्वन्यात्मको वर्णात्मकश् चेति । (३२।३)

sa dvividho dvanyātmako varṇātmakaś ceti |

32.4३२.४

द्वन्यात्मको भेर्यादौ । (३२।४)

dvanyātmako bheryādau |

32.5३२.५

वर्णात्मकः संस्कृतभाषादिरूपः ॥ (३२।५)

varṇātmakaḥ saṃskṛtabhāṣādirūpaḥ ||

33.1३३.१

सर्वव्यवहारहेतुर् बुद्धिर् ज्ञानम् । (३३।१)

sarvavyavahārahetur buddhir jñānam |

33.2३३.२

सा द्विविधा स्मृतिरनुभवश् च । (३३।२)

sā dvividhā smṛtiranubhavaś ca |

33.3३३.३

संस्कारमात्रजन्यं ज्ञानं स्मृतिः । (३३।३)

saṃskāramātrajanyaṃ jñānaṃ smṛtiḥ |

33.4३३.४

तद्भिन्नं ज्ञानम् अनुभवः ॥ (३३।४)

tadbhinnaṃ jñānam anubhavaḥ ||

34.1३४.१

स द्विविधो यथार्थो ऽयथार्थश् च । (३४।१)

sa dvividho yathārtho 'yathārthaś ca |

34.2३४.२

तद्वति तत्प्रकारको ऽनुभवो यथार्थः । (३४।२)

tadvati tatprakārako 'nubhavo yathārthaḥ |

34.3३४.३

यथा रजत इदं रजतम् इति ज्ञानम् । (३४।३)

yathā rajata idaṃ rajatam iti jñānam |

34.4३४.४

स एव प्रमेत्य् उच्यते । (३४।४)

sa eva pramety ucyate |

34.5३४.५

तदभाववति तत्प्रकारको ऽनुभवो ऽयथार्थः । (३४।५)

tadabhāvavati tatprakārako 'nubhavo 'yathārthaḥ |

34.6३४.६

यथा शुक्ताव् इदं रजतम् इति ज्ञानम् ॥ (३४।६)

yathā śuktāv idaṃ rajatam iti jñānam ||

35.1३५.१

यथार्थानुभवश् चतुर्विधः प्रत्यक्षानुमित्युपमितिशब्दभेदात् । (३५।१)

yathārthānubhavaś caturvidhaḥ pratyakṣānumityupamitiśabdabhedāt |

35.2३५.२

तत्करणम् अपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात् ॥ (३५।२)

tatkaraṇam api caturvidhaṃ pratyakṣānumānopamānaśabdabhedāt ||

36.1३६.१

असाधारणम् कारणं करणम् । (३६।१)

asādhāraṇam kāraṇaṃ karaṇam |

36.2३६.२

कार्यनियतपूर्ववृत्ति कारणम् । (३६।२)

kāryaniyatapūrvavṛtti kāraṇam |

36.3३६.३

कार्यं प्रागभावप्रतियोगि । (३६।३)

kāryaṃ prāgabhāvapratiyogi |

36.4३६.४

कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् । (३६।४)

kāraṇaṃ trividhaṃ samavāyyasamavāyinimittabhedāt |

36.5३६.५

यत् समवेतं कार्यम् उत्पद्यते तत् समवायिकारणम् । (३६।५)

yat samavetaṃ kāryam utpadyate tat samavāyikāraṇam |

36.6३६.६

यथा तन्तवः पटस्य पटश् च खगतरूपादेः । (३६।६)

yathā tantavaḥ paṭasya paṭaś ca khagatarūpādeḥ |

36.7३६.७

कार्येण कारणेन वा सहैकस्मिन्न् अर्थे समवेतत्वे सति यत् कारणं तद् असमवायिकारणम् । (३६।७)

kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam |

36.8३६.८

यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटरूपस्य । (३६।८)

yathā tantusaṃyogaḥ paṭasya tanturūpaṃ paṭarūpasya |

36.9३६.९

तदुभयभिन्नं कारणं निमित्तकारणम् । (३६।९)

tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam |

36.10३६.१०

यथा तुरीवेमादिकं पटस्य । (३६।१०)

yathā turīvemādikaṃ paṭasya |

36.11३६.११

तद् एतत्त्रिविधकारणमध्ये यद् असाधारणं कारणं तद् एव करणम् ॥ (३६।११)

tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam ||

37.1३७.१

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । (३७।१)

tatra pratyakṣajñānakaraṇaṃ pratyakṣam |

37.2३७.२

इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । (३७।२)

indriyārthasannikarṣajanyaṃ jñānaṃ pratyakṣam |

37.3३७.३

तद् द्विविधं निर्विकल्पकं सविकल्पकं चेति । (३७।३)

tad dvividhaṃ nirvikalpakaṃ savikalpakaṃ ceti |

37.4३७.४

तत्र निर्विकल्पकं ज्ञानं निर्विकल्पकं यथेदं किंचित् । (३७।४)

tatra nirvikalpakaṃ jñānaṃ nirvikalpakaṃ yathedaṃ kiṃcit |

37.5३७.५

सपरकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयम् ब्रह्मणो ऽयं श्यामोऽयम् इति ॥ (३७।५)

saparakārakaṃ jñānaṃ savikalpakaṃ yathā ḍittho'yam brahmaṇo 'yaṃ śyāmo'yam iti ||

38.1३८.१

प्रत्यक्षज्ञानहेतुर् इन्द्रियार्थसन्निकर्षः षड्विधः । (३८।१)

pratyakṣajñānahetur indriyārthasannikarṣaḥ ṣaḍvidhaḥ |

38.2३८.२

संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायो विशेषणविशेष्यभावश् चेति । (३८।२)

saṃyogaḥ saṃyuktasamavāyaḥ saṃyuktasamavetasamavāyaḥ samavāyaḥ samavetasamavāyo viśeṣaṇaviśeṣyabhāvaś ceti |

38.3३८.३

चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । (३८।३)

cakṣuṣā ghaṭapratyakṣajanane saṃyogaḥ sannikarṣaḥ |

38.4३८.४

घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपस्य समवायात् । (३८।४)

ghaṭarūpapratyakṣajanane saṃyuktasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpasya samavāyāt |

38.5३८.५

रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । (३८।५)

rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt |

38.6३८.६

श्रोत्रेण शब्दस्याकाशगुणत्वात् गुणगुणिनोश् च समवायात् । (३८।६)

śrotreṇa śabdasyākāśaguṇatvāt guṇaguṇinoś ca samavāyāt |

38.7३८.७

शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । (३८।७)

śabdatvasākṣātkāre samavetasamavāyaḥ sannikarṣaḥ śrotrasamavete śabde śabdatvasya samavāyāt |

38.8३८.८

अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षो घटाभाववद् भृतलम् इत्य् अत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् । (३८।८)

abhāvapratyakṣe viśeṣaṇaviśeṣyabhāvaḥ sannikarṣo ghaṭābhāvavad bhṛtalam ity atra cakṣuḥsaṃyukte bhūtale ghaṭābhāvasya viśeṣaṇatvāt |

38.9३८.९

एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम् । (३८।९)

evaṃ sannikarṣaṣaṭkajanyaṃ jñānaṃ pratyakṣam |

38.10३८.१०

तत्करणम् इन्द्रियम् । (३८।१०)

tatkaraṇam indriyam |

38.11३८.११

तस्माद् इन्द्रियं प्रत्यक्षप्रमाणम् इति सिद्धम् ॥ (३८।११)

tasmād indriyaṃ pratyakṣapramāṇam iti siddham ||

39.1३९.१

अनुमितिकरणम् अनुमानम् । (३९।१)

anumitikaraṇam anumānam |

39.2३९.२

परामर्शजन्यं ज्ञानम् अनुमितिः । (३९।२)

parāmarśajanyaṃ jñānam anumitiḥ |

39.3३९.३

व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । (३९।३)

vyāptiviśiṣṭapakṣadharmatājñānaṃ parāmarśaḥ |

39.4३९.४

यथा वह्निव्याप्यधूमवान् अयं पर्वत इति ज्ञानं परामर्शः । (३९।४)

yathā vahnivyāpyadhūmavān ayaṃ parvata iti jñānaṃ parāmarśaḥ |

39.5३९.५

तज् जन्यं पर्वतो वह्निमान् इति ज्ञानम् अनुमितिः । (३९।५)

taj janyaṃ parvato vahnimān iti jñānam anumitiḥ |

39.6३९.६

यत्र यत्र धूमस् तत्राग्निर् इति साहचर्यनियमो व्याप्तिः । (३९।६)

yatra yatra dhūmas tatrāgnir iti sāhacaryaniyamo vyāptiḥ |

39.7३९.७

व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥ (३९।७)

vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā ||

40.1४०.१

अनुमानं द्विविधं स्वार्थं परार्थं च । (४०।१)

anumānaṃ dvividhaṃ svārthaṃ parārthaṃ ca |

40.2४०.२

तत्र स्वार्थं स्वानुमितिहेतुः । (४०।२)

tatra svārthaṃ svānumitihetuḥ |

40.3४०.३

तथा हि स्वयम् एव भूयो दर्शनेन यत्र धूमस् तत्र अग्निर् इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस् तद्गते चाग्नौ संदिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस् तत्राग्निर् इति । (४०।३)

tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti |

40.4४०.४

तदन्तरं वह्निव्याप्यधूमवान् अयं पर्वत इति ज्ञानम् उत्पद्यते । (४०।४)

tadantaraṃ vahnivyāpyadhūmavān ayaṃ parvata iti jñānam utpadyate |

40.5४०.५

अयम् एव लिङ्गपरामर्श इत्य् उच्यते । (४०।५)

ayam eva liṅgaparāmarśa ity ucyate |

40.6४०.६

तस्मात् पर्वतो वह्निमान् इति ज्ञानम् अनुमितिर् उत्पद्यते । (४०।६)

tasmāt parvato vahnimān iti jñānam anumitir utpadyate |

40.7४०.७

तद् एतत् स्वार्थानुमानम् । (४०।७)

tad etat svārthānumānam |

40.8४०.८

यत् तु स्वयं धूमाद् अग्निम् अनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुक्ते तत् परार्थानुमानम् । (४०।८)

yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam |

40.9४०.९

यथा पर्वतो वह्निमान् धूमवत्त्वात् । (४०।९)

yathā parvato vahnimān dhūmavattvāt |

40.10४०.१०

यो यो धूमवान् स वह्निमान् यथा महानसः । (४०।१०)

yo yo dhūmavān sa vahnimān yathā mahānasaḥ |

40.11४०.११

तथा चायम् । (४०।११)

tathā cāyam |

40.12४०.१२

तस्मात् तथेति । (४०।१२)

tasmāt tatheti |

40.13४०.१३

अनेन प्रतिपादिताल्लिङ्गात् परोऽप्य् अग्निं प्रतिपद्यते ॥ (४०।१३)

anena pratipāditālliṅgāt paro'py agniṃ pratipadyate ||

41.1४१.१

प्रतिज्ञाहेतूदाहरणोपनयनिगमानि पञ्चावयवः । (४१।१)

pratijñāhetūdāharaṇopanayanigamāni pañcāvayavaḥ |

41.2४१.२

पर्वतो वह्निमान् इति प्रतिज्ञा । (४१।२)

parvato vahnimān iti pratijñā |

41.3४१.३

धूमवत्त्वाद् इति हेतुः । (४१।३)

dhūmavattvād iti hetuḥ |

41.4४१.४

यो यो धूमवान् स सोऽग्निमान् यथा महानस इत्य् उदाहरणम् । (४१।४)

yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam |

41.5४१.५

तथा चायम् इति उपनयः । (४१।५)

tathā cāyam iti upanayaḥ |

41.6४१.६

तस्मात् तथेति निगमनम् ॥ (४१।६)

tasmāt tatheti nigamanam ||

42.1४२.१

स्वार्थानुमितिपरार्थानुमित्योर् लिङ्गपरामर्श एव करणम् । (४२।१)

svārthānumitiparārthānumityor liṅgaparāmarśa eva karaṇam |

42.2४२.२

तस्माल् लिङ्गपरामर्शानुमानम् ॥ (४२।२)

tasmāl liṅgaparāmarśānumānam ||

43.1४३.१

लिङ्गं त्रिविधम् । (४३।१)

liṅgaṃ trividham |

43.2४३.२

अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । (४३।२)

anvayavyatireki kevalānvayi kevalavyatireki ceti |

43.3४३.३

अन्वयेन व्यतिरेकेण च व्याप्तिमद् अन्वयव्यतिरेकि । (४३।३)

anvayena vyatirekeṇa ca vyāptimad anvayavyatireki |

43.4४३.४

यथा वह्नौ साध्ये धूमवत्त्वम् । (४३।४)

yathā vahnau sādhye dhūmavattvam |

43.5४३.५

यत्र धूमस् तत्राग्निर् यथा महानस इत्य् अन्वयव्याप्तिः । (४३।५)

yatra dhūmas tatrāgnir yathā mahānasa ity anvayavyāptiḥ |

43.6४३.६

यत्र वह्निर् नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रद इति व्यतिरेकव्याप्तिः । (४३।६)

yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ |

43.7४३.७

अन्वयमात्रव्याप्तिकं केवलान्वयि यथा घटोऽभिधेयः प्रमेयत्वात् पटवत् । (४३।७)

anvayamātravyāptikaṃ kevalānvayi yathā ghaṭo'bhidheyaḥ prameyatvāt paṭavat |

43.8४३.८

अत्र प्रमेयत्वाभिध्यत्वयोर् व्यतिरेकव्याप्तिर् नास्ति सर्वस्यापि प्रमेयत्वाद् अभिधेयत्वाच् च । (४३।८)

atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca |

43.9४३.९

व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि यथा पृथिवी तरेभ्यो भिद्यते गन्धवत्त्वात् । (४३।९)

vyatirekamātravyāptikaṃ kevalavyatireki yathā pṛthivī tarebhyo bhidyate gandhavattvāt |

43.10४३.१०

यद् इतरेभ्यो न भिद्यते न तद् गन्धवत् । (४३।१०)

yad itarebhyo na bhidyate na tad gandhavat |

43.11४३.११

यथा जलम् । (४३।११)

yathā jalam |

43.12४३.१२

न चेयं तथा । (४३।१२)

na ceyaṃ tathā |

43.13४३.१३

तस्मान् न तथेति अत्र यद् गन्धवत् तद् इतरभिन्नम् इत्य् अन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ॥ (४३।१३)

tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt ||

44.1४४.१

संदिग्धसाध्यवान् पक्षः । (४४।१)

saṃdigdhasādhyavān pakṣaḥ |

44.2४४.२

यथा धूमवत्त्वे हेतौ पर्वतः ॥ (४४।२)

yathā dhūmavattve hetau parvataḥ ||

45.1४५.१

निश्चितसाध्यवान् सपक्षः । (४५।१)

niścitasādhyavān sapakṣaḥ |

45.2४५.२

यथा तत्रैव महानसः ॥ (४५।२)

yathā tatraiva mahānasaḥ ||

46.1४६.१

निश्चितसाध्याभाववान् विपक्षः । (४६।१)

niścitasādhyābhāvavān vipakṣaḥ |

46.2४६.२

यथा तत्रैव महाह्रदः ॥ (४६।२)

yathā tatraiva mahāhradaḥ ||

47.1४७.१

सव्यभिचारविरुद्धसत्पक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ॥ (४७।१)

savyabhicāraviruddhasatpakṣāsiddhabādhitāḥ pañca hetvābhāsāḥ ||

48.1४८.१

सव्यभिचारो ऽनैकान्तिकः । (४८।१)

savyabhicāro 'naikāntikaḥ |

48.2४८.२

स त्रिविधः । (४८।२)

sa trividhaḥ |

48.3४८.३

साधारणासाधारणानुपसंहारिभेदात् । (४८।३)

sādhāraṇāsādhāraṇānupasaṃhāribhedāt |

48.4४८.४

तत्र साध्याभाववद्वृत्तिः साधारणो ऽनैकान्तिकः । (४८।४)

tatra sādhyābhāvavadvṛttiḥ sādhāraṇo 'naikāntikaḥ |

48.5४८.५

यथा पर्वतो वह्निमान् प्रमेयत्वाद् इति प्रमेयत्वस्य वह्न्यभाववति ह्रदे विद्यमानत्वात् । (४८।५)

yathā parvato vahnimān prameyatvād iti prameyatvasya vahnyabhāvavati hrade vidyamānatvāt |

48.6४८.६

सर्वसपक्षविपक्षव्यावृत्तो ऽसाधारणः । (४८।६)

sarvasapakṣavipakṣavyāvṛtto 'sādhāraṇaḥ |

48.7४८.७

यथा शब्दो नित्यः शब्दत्वाद् इति । (४८।७)

yathā śabdo nityaḥ śabdatvād iti |

48.8४८.८

शब्दत्वं सर्वेभ्यो नित्येभ्योऽन्त्येभ्यश् च व्यावृत्तं शब्दमात्रवृत्ति । (४८।८)

śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti |

48.9४८.९

अन्वयव्यतिरेकदृष्टान्तरहितो ऽनुपसंहारी । (४८।९)

anvayavyatirekadṛṣṭāntarahito 'nupasaṃhārī |

48.10४८.१०

यथा सर्वम् अनित्यं प्रमेयत्वाद् इति । (४८।१०)

yathā sarvam anityaṃ prameyatvād iti |

48.11४८.११

अत्र सर्वस्यापि पक्षत्वाद् दृष्टान्तो नास्ति ॥ (४८।११)

atra sarvasyāpi pakṣatvād dṛṣṭānto nāsti ||

49.1४९.१

साध्याभावव्याप्तो हेतुर् विरुद्धः । (४९।१)

sādhyābhāvavyāpto hetur viruddhaḥ |

49.2४९.२

यत्र शब्दो नित्यः कृतकत्वाद् इति । (४९।२)

yatra śabdo nityaḥ kṛtakatvād iti |

49.3४९.३

कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् ॥ (४९।३)

kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam ||

50.1५०.१

यस्य साध्यभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । (५०।१)

yasya sādhyabhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ |

50.2५०.२

यथा शब्दो नित्यः श्रावणत्वाच् छब्दत्ववद् इति । (५०।२)

yathā śabdo nityaḥ śrāvaṇatvāc chabdatvavad iti |

50.3५०.३

शब्दोऽनित्यः कार्यत्वाद् घटवद् इति ॥ (५०।३)

śabdo'nityaḥ kāryatvād ghaṭavad iti ||

51.1५१.१

असिद्धस् त्रिविधः । (५१।१)

asiddhas trividhaḥ |

51.2५१.२

आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश् चेति । (५१।२)

āśrayāsiddhaḥ svarūpāsiddho vyāpyatvāsiddhaś ceti |

51.3५१.३

आश्रयासिद्धो यथा गगनारविन्दं सुरभ्य् अरविन्दत्वात् सरोजारविन्दवत् । (५१।३)

āśrayāsiddho yathā gaganāravindaṃ surabhy aravindatvāt sarojāravindavat |

51.4५१.४

अत्र गगनारविन्दम् आश्रयः । (५१।४)

atra gaganāravindam āśrayaḥ |

51.5५१.५

स च नास्त्य् एव । (५१।५)

sa ca nāsty eva |

51.6५१.६

स्वरूपासिद्धो यथा शब्दो गुणश् चाक्षुषत्वात् । (५१।६)

svarūpāsiddho yathā śabdo guṇaś cākṣuṣatvāt |

51.7५१.७

अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात् । (५१।७)

atra cākṣuṣatvaṃ śabde nāsti śabdasya śrāvaṇatvāt |

51.8५१.८

सोपाधिको व्याप्यत्वासिद्धः । (५१।८)

sopādhiko vyāpyatvāsiddhaḥ |

51.9५१.९

साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । (५१।९)

sādhyavyāpakatve sati sādhanāvyāpaka upādhiḥ |

51.10५१.१०

साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । (५१।१०)

sādhyasamānādhikaraṇātyantābhāvāpratiyogitvaṃ sādhyavyāpakatvam |

51.11५१.११

साधनवन्न् इष्टात्यन्ताभावप्रतियोगित्वं साधारणाव्यापकत्वम् । (५१।११)

sādhanavann iṣṭātyantābhāvapratiyogitvaṃ sādhāraṇāvyāpakatvam |

51.12५१.१२

पर्वतो धूमवान् वह्निमत्त्वाद् इत्य् अत्रार्द्रेन्धनसंयोग उपाधिः । (५१।१२)

parvato dhūmavān vahnimattvād ity atrārdrendhanasaṃyoga upādhiḥ |

51.13५१.१३

तथा हि । (५१।१३)

tathā hi |

51.14५१.१४

यत्र धूमस् तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता । (५१।१४)

yatra dhūmas tatrārdrendhanasaṃyoga iti sādhyavyāpakatā |

51.15५१.१५

यत्र वह्निस् तत्रार्द्रेन्धनसंयोगाभावाद् इति साधनाव्यापकता । (५१।१५)

yatra vahnis tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā |

51.16५१.१६

एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वाद् आर्द्रेन्धनसंयोग उपाधिः । (५१।१६)

evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ārdrendhanasaṃyoga upādhiḥ |

51.17५१.१७

सोपाधिकत्वाद् वह्निमत्त्वं व्याप्यत्वासिद्धम् ॥ (५१।१७)

sopādhikatvād vahnimattvaṃ vyāpyatvāsiddham ||

52.1५२.१

यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । (५२।१)

yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ |

52.2५२.२

यथा वह्निर् अनुष्णो द्रव्यत्वाद् इति । (५२।२)

yathā vahnir anuṣṇo dravyatvād iti |

52.3५२.३

अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यत इति बाधितत्वम् ॥ (५२।३)

atrānuṣṇatvaṃ sādhyaṃ tadabhāva uṣṇatvaṃ spārśanapratyakṣeṇa gṛhyata iti bādhitatvam ||

53.1५३.१

उपमितिकरणम् उपमानम् । (५३।१)

upamitikaraṇam upamānam |

53.2५३.२

संज्ञासंज्ञिसंबन्धज्ञानम् उपमितिः । (५३।२)

saṃjñāsaṃjñisaṃbandhajñānam upamitiḥ |

53.3५३.३

तत्करणं सादृश्यज्ञानम् । (५३।३)

tatkaraṇaṃ sādṛśyajñānam |

53.4५३.४

अतिदेशवाक्यार्थस्मरणम् अवान्तरव्यापारः । (५३।४)

atideśavākyārthasmaraṇam avāntaravyāpāraḥ |

53.5५३.५

तथा हि कश्चिद् गवयशब्दार्थम् अजानन् कुतश्चिद् आरण्यकपुरुषाद् गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति । (५३।५)

tathā hi kaścid gavayaśabdārtham ajānan kutaścid āraṇyakapuruṣād gosadṛśo gavaya iti śrutvā vanaṃ gato vākyārthaṃ smaran gosadṛśaṃ piṇḍaṃ paśyati |

53.6५३.६

तदनन्तरम् असौ गवयशब्दवाच्य इत्य् उपमितिर् उत्पद्यते ॥ (५३।६)

tadanantaram asau gavayaśabdavācya ity upamitir utpadyate ||

54.1५४.१

आप्तवाक्यं शब्दः । (५४।१)

āptavākyaṃ śabdaḥ |

54.2५४.२

आप्तस् तु यथार्थवक्ता । (५४।२)

āptas tu yathārthavaktā |

54.3५४.३

वाक्यं पदसमूहः । (५४।३)

vākyaṃ padasamūhaḥ |

54.4५४.४

यथा गाम् आनयेति । (५४।४)

yathā gām ānayeti |

54.5५४.५

शक्तं पदम् । (५४।५)

śaktaṃ padam |

54.6५४.६

अस्मात् पदाद् अयम् अर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः ॥ (५४।६)

asmāt padād ayam artho boddhavya itīśvarasaṃketaḥ śaktiḥ ||

55.1५५.१

आकाङ्क्षा योग्यता संनिधिश् च वाक्यार्थज्ञानहेतुः । (५५।१)

ākāṅkṣā yogyatā saṃnidhiś ca vākyārthajñānahetuḥ |

55.2५५.२

पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकाङ्क्षा । (५५।२)

padasya padāntaravyatirekaprayuktānvayānanubhāvakatvam ākāṅkṣā |

55.3५५.३

अर्थाबाधो योग्यता । (५५।३)

arthābādho yogyatā |

55.4५५.४

पदानामविलम्बेनोच्चारणं संनिधिः ॥ (५५।४)

padānāmavilambenoccāraṇaṃ saṃnidhiḥ ||

56.1५६.१

आकाङ्क्षादिरहितं वाक्यम् अप्रमाणम् । (५६।१)

ākāṅkṣādirahitaṃ vākyam apramāṇam |

56.2५६.२

यथा गौर् अश्वः पुरुषो हस्तीति न प्रमाणम् आकाङ्क्षाविरहात् । (५६।२)

yathā gaur aśvaḥ puruṣo hastīti na pramāṇam ākāṅkṣāvirahāt |

56.3५६.३

अग्निना सिञ्चेद् इति न प्रमाणं योग्यताविरहात् । (५६।३)

agninā siñced iti na pramāṇaṃ yogyatāvirahāt |

56.4५६.४

प्रहरे प्रेहरे ऽसहोच्चारितानि गाम् आनयेत्यादिपदानि न प्रमाणं संनिध्यभावात् ॥ (५६।४)

prahare prehare 'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt ||

57.1५७.१

वाक्यं द्विविधम् । (५७।१)

vākyaṃ dvividham |

57.2५७.२

वैदिकं लौकिकं च । (५७।२)

vaidikaṃ laukikaṃ ca |

57.3५७.३

वैदिकम् ईश्वरोक्तत्वात् सर्वम् एव प्रमाणम् । (५७।३)

vaidikam īśvaroktatvāt sarvam eva pramāṇam |

57.4५७.४

लौकिकं त्व् आप्तोक्तं प्रमाणम् । (५७।४)

laukikaṃ tv āptoktaṃ pramāṇam |

57.5५७.५

अन्यद् अप्रमाणम् ॥ (५७।५)

anyad apramāṇam ||

58.1५८.१

वाक्यार्थज्ञानं शब्दज्ञानम् । (५८।१)

vākyārthajñānaṃ śabdajñānam |

58.2५८.२

तत्करणं शब्दः ॥ (५८।२)

tatkaraṇaṃ śabdaḥ ||

59.1५९.१

अयथार्थानुभवस् त्रिविधः संशयविपर्ययतर्कभेदात् । (५९।१)

ayathārthānubhavas trividhaḥ saṃśayaviparyayatarkabhedāt |

59.2५९.२

एकस्मिन् धर्मिनि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः । (५९।२)

ekasmin dharmini viruddhanānādharmavaiśiṣṭyāvagāhi jñānaṃ saṃśayaḥ |

59.3५९.३

यथा स्थाणुर् वा पुरुषो वेति । (५९।३)

yathā sthāṇur vā puruṣo veti |

59.4५९.४

मिथ्याज्ञानं विपर्ययः । (५९।४)

mithyājñānaṃ viparyayaḥ |

59.5५९.५

यथा शुक्ताव् इदं रजतम् इति । (५९।५)

yathā śuktāv idaṃ rajatam iti |

59.6५९.६

व्याप्यारोपेण व्यापकारोपस् तर्कः यथा यदि वह्निर् न स्यात् तर्हि धूमोऽपि न स्याद् इति ॥ (५९।६)

vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti ||

60.1६०.१

स्मृतिर् अपि द्विविधा । (६०।१)

smṛtir api dvividhā |

60.2६०.२

यथार्थायथार्था च प्रमाजन्या यथार्था । (६०।२)

yathārthāyathārthā ca pramājanyā yathārthā |

60.3६०.३

अप्रमाजन्यायथार्था ॥ (६०।३)

apramājanyāyathārthā ||

61.1६१.१

सर्वेषाम् अनुकूलतया वेदनीयं सुखम् ॥ (६१।१)

sarveṣām anukūlatayā vedanīyaṃ sukham ||

62.1६२.१

सर्वेषां प्रतिकूलतया वेदनीयं दुःखम् ॥ (६२।१)

sarveṣāṃ pratikūlatayā vedanīyaṃ duḥkham ||

63.1६३.१

इच्छा कामः ॥ (६३।१)

icchā kāmaḥ ||

64.1६४.१

क्रोधो द्वेषः ॥ (६४।१)

krodho dveṣaḥ ||

65.1६५.१

कृतिः प्रयत्नः ॥ (६५।१)

kṛtiḥ prayatnaḥ ||

66.1६६.१

विहितकर्मजन्यो धर्मः ॥ (६६।१)

vihitakarmajanyo dharmaḥ ||

67.1६७.१

निषिद्धकर्मजन्यस् त्व् अधर्मः ॥ (६७।१)

niṣiddhakarmajanyas tv adharmaḥ ||

68.1६८.१

बुद्ध्यादयोऽष्टाव् आत्ममात्रविशेषगुणाः ॥ (६८।१)

buddhyādayo'ṣṭāv ātmamātraviśeṣaguṇāḥ ||

69.1६९.१

बुद्धीच्छाप्रयत्ना द्विविधाः । (६९।१)

buddhīcchāprayatnā dvividhāḥ |

69.2६९.२

नित्या अनित्याश् च । (६९।२)

nityā anityāś ca |

69.3६९.३

नित्या ईश्वरस्य । (६९।३)

nityā īśvarasya |

69.4६९.४

अनित्या जीवस्य ॥ (६९।४)

anityā jīvasya ||

70.1७०.१

संस्कारस् त्रिविधः । (७०।१)

saṃskāras trividhaḥ |

70.2७०.२

वेगो भावना स्थितिस्थापकश् चेति । (७०।२)

vego bhāvanā sthitisthāpakaś ceti |

70.3७०.३

वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । (७०।३)

vegaḥ pṛthivyādicatuṣṭayamanovṛttiḥ |

70.4७०.४

अनुभवजन्या स्मृतिहेतुर् भावनात्ममात्रवृत्तिः । (७०।४)

anubhavajanyā smṛtihetur bhāvanātmamātravṛttiḥ |

70.5७०.५

अन्यथा कृतस्य पुनस् तदवस्थापादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः ॥ (७०।५)

anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ ||

71.1७१.१

चलनात्मकं कर्म । (७१।१)

calanātmakaṃ karma |

71.2७१.२

ऊर्ध्वदेशसंयोगहेतुर् उत्क्षेपणम् । (७१।२)

ūrdhvadeśasaṃyogahetur utkṣepaṇam |

71.3७१.३

अधोदेशसंयोगहेतुर् अपक्षेपणम् । (७१।३)

adhodeśasaṃyogahetur apakṣepaṇam |

71.4७१.४

शरीरसंनिकृष्टसंयोगहेतुर् आकुञ्चनम् । (७१।४)

śarīrasaṃnikṛṣṭasaṃyogahetur ākuñcanam |

71.5७१.५

विप्रकृष्टसंयोगहेतुः प्रसारणम् । (७१।५)

viprakṛṣṭasaṃyogahetuḥ prasāraṇam |

71.6७१.६

अन्यत् सर्वं गमनम् । (७१।६)

anyat sarvaṃ gamanam |

71.7७१.७

पृथिव्यादिचतुष्टयमनोमात्रवृत्ति ॥ (७१।७)

pṛthivyādicatuṣṭayamanomātravṛtti ||

72.1७२.१

नित्यम् एकम् अनेकानुगतं सामान्यम् । (७२।१)

nityam ekam anekānugataṃ sāmānyam |

72.2७२.२

द्रव्यगुणकर्मवृत्ति । (७२।२)

dravyaguṇakarmavṛtti |

72.3७२.३

तद् द्विविधं परापरभेदात् । (७२।३)

tad dvividhaṃ parāparabhedāt |

72.4७२.४

परं सत्ता । (७२।४)

paraṃ sattā |

72.5७२.५

अपरं द्रव्यत्वादिः ॥ (७२।५)

aparaṃ dravyatvādiḥ ||

73.1७३.१

नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ॥ (७३।१)

nityadravyavṛttayo vyāvartakā viśeṣāḥ ||

74.1७४.१

नित्यसंबन्धः समवायः । (७४।१)

nityasaṃbandhaḥ samavāyaḥ |

74.2७४.२

अयुतसिद्धवृत्तिः । (७४।२)

ayutasiddhavṛttiḥ |

74.3७४.३

ययोर् द्वयोर् मध्य एकम् अविनश्यदपराश्रितम् एवावतिष्ठते ताव् अयुतसिद्धौ । (७४।३)

yayor dvayor madhya ekam avinaśyadaparāśritam evāvatiṣṭhate tāv ayutasiddhau |

74.4७४.४

यथावयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति ॥ (७४।४)

yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti ||

75.1७५.१

अनादिः सान्तः प्रागभावः । (७५।१)

anādiḥ sāntaḥ prāgabhāvaḥ |

75.2७५.२

उत्पत्तेः पूर्वं कार्यस्य । (७५।२)

utpatteḥ pūrvaṃ kāryasya |

75.3७५.३

सादिर् अनन्तः प्रध्वंसः । (७५।३)

sādir anantaḥ pradhvaṃsaḥ |

75.4७५.४

उत्पत्त्यनन्तरं कार्यस्य । (७५।४)

utpattyanantaraṃ kāryasya |

75.5७५.५

त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताको ऽत्यन्ताभावः । (७५।५)

traikālikasaṃsargāvacchinnapratiyogitāko 'tyantābhāvaḥ |

75.6७५.६

यथा भूतले घटो नास्तीति । (७५।६)

yathā bhūtale ghaṭo nāstīti |

75.7७५.७

तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताको ऽन्योन्याभावः यथा घटः पटो न भवतीति ॥ (७५।७)

tādātmyasaṃbandhāvacchinnapratiyogitāko 'nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti ||

76.1७६.१

सर्वेषां पदार्थानां यथायथम् उक्तेष्व् अन्तर्भावात् सप्तैव पदार्था इति सिद्धम् ॥ (७६।१)

sarveṣāṃ padārthānāṃ yathāyatham ukteṣv antarbhāvāt saptaiva padārthā iti siddham ||

77.1७७.१

काणादन्यायमतयोर् बालाव्युत्पत्तिसिद्धये । (७७।१)

kāṇādanyāyamatayor bālāvyutpattisiddhaye |

77.2७७.२

अन्नंभट्टेन विदुषा रचितस् तर्कसंग्रहः ॥ (७७।२)

annaṃbhaṭṭena viduṣā racitas tarkasaṃgrahaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Tarkasaṃgraha, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit