वृद्धयमस्मृतिVṛddhayamasmṛti

Chapter 1

1 of 2 · 68 verses

Select a line for its word-by-word analysis.

1.1१.१

नारदाद् याश् च मुनयो यमं धर्मभृतां वरम् । (१।१)

nāradād yāś ca munayo yamaṃ dharmabhṛtāṃ varam |

1.2१.२

प्रणम्य सुखम् आसीनं वृद्धं ज्ञानविदां वरम् ॥ (१।२)

praṇamya sukham āsīnaṃ vṛddhaṃ jñānavidāṃ varam ||

2.1२.१

पप्रच्छुर् वैदिकं कर्म सर्वलोकोपकारकम् । (२।१)

papracchur vaidikaṃ karma sarvalokopakārakam |

2.2२.२

सर्वपापक्षयकरं श्रवणाज्ञानमहत् ॥ (२।२)

sarvapāpakṣayakaraṃ śravaṇājñānamahat ||

3.1३.१

महर्षे सम्प्रवक्ष्यामि यमो न त्वात्रिलोचनम् । (३।१)

maharṣe sampravakṣyāmi yamo na tvātrilocanam |

3.2३.२

संगृह्य धर्मशास्त्राणि सर्वलोकोपकारकम् ॥ (३।२)

saṃgṛhya dharmaśāstrāṇi sarvalokopakārakam ||

4.1४.१

सुप्तोत्थाय उषः प्रातः आचम्याथहरं स्मरेत् । (४।१)

suptotthāya uṣaḥ prātaḥ ācamyāthaharaṃ smaret |

4.2४.२

उत्थायनैर् ऋते देसे मलमूत्रे विसर्जयेत् ॥ (४।२)

utthāyanair ṛte dese malamūtre visarjayet ||

5.1५.१

ग्रामाहुर् अतरङ्गत्वा तृणैर् आच्छाद्य मेदिनीम् । (५।१)

grāmāhur ataraṅgatvā tṛṇair ācchādya medinīm |

5.2५.२

शिरः प्रावृत्य वस्त्रेण पिधायास्यं करेण च ॥ (५।२)

śiraḥ prāvṛtya vastreṇa pidhāyāsyaṃ kareṇa ca ||

6.1६.१

उत्तरादिमुखः कुर्यात् संध्ययोर् मलमूत्रकम् । (६।१)

uttarādimukhaḥ kuryāt saṃdhyayor malamūtrakam |

6.2६.२

दिवोत्तरामुखः कुर्याद् रात्रौ याम्यहरिङ्मुखः ॥ (६।२)

divottarāmukhaḥ kuryād rātrau yāmyahariṅmukhaḥ ||

7.1७.१

प्रत्यङ्मुखस् तु पूर्वाह्णे पराह्णे हरिदिण्मुखः । (७।१)

pratyaṅmukhas tu pūrvāhṇe parāhṇe haridiṇmukhaḥ |

7.2७.२

न केदारे न सेतौ च नाशुचौ न च भूरुहे ॥ (७।२)

na kedāre na setau ca nāśucau na ca bhūruhe ||

8.1८.१

गण्डूषयेन् मूत्रयेद् वा नदीदेवालयान्तिके । (८।१)

gaṇḍūṣayen mūtrayed vā nadīdevālayāntike |

8.2८.२

दन्तशुद्धिं च यः कुर्यात् पच्यते नरकादिना ॥ (८।२)

dantaśuddhiṃ ca yaḥ kuryāt pacyate narakādinā ||

9.1९.१

गृहीतशिश्नश् चोत्थाय मौनीवस्त्रावकुण्ठितः । (९।१)

gṛhītaśiśnaś cotthāya maunīvastrāvakuṇṭhitaḥ |

9.2९.२

पूर्वम् उद्धृततोयेन शौचं कुर्यात् तथा मृदा ॥ (९।२)

pūrvam uddhṛtatoyena śaucaṃ kuryāt tathā mṛdā ||

10.1१०.१

न मार्गस्थानवल्मीकानोषरस्थाखुसंचितात् । (१०।१)

na mārgasthānavalmīkānoṣarasthākhusaṃcitāt |

10.2१०.२

नान्यशिष्टां च नार्द्रां च शौचार्थं मृदम् आहरेत् ॥ (१०।२)

nānyaśiṣṭāṃ ca nārdrāṃ ca śaucārthaṃ mṛdam āharet ||

11.1११.१

गुदेष्टाभिर् द्वादशभिः मृद्भिः षोडशभिश् च वा । (११।१)

gudeṣṭābhir dvādaśabhiḥ mṛdbhiḥ ṣoḍaśabhiś ca vā |

11.2११.२

चतुर्विंशतिभिश् चापि द्वात्रिंशद्भिर् अथापि वा ॥ (११।२)

caturviṃśatibhiś cāpi dvātriṃśadbhir athāpi vā ||

12.1१२.१

न्यूनाधिकान् अकर्तव्या असंख्याश् च वृथा भवेत् । (१२।१)

nyūnādhikān akartavyā asaṃkhyāś ca vṛthā bhavet |

12.2१२.२

यावद् गन्धक्षयो वापि शौचं कुर्याद् विशुद्धये ॥ (१२।२)

yāvad gandhakṣayo vāpi śaucaṃ kuryād viśuddhaye ||

13.1१३.१

आद्यन्तशोधनं कुर्यात् शौचस्थलमहर्निशम् । (१३।१)

ādyantaśodhanaṃ kuryāt śaucasthalamaharniśam |

13.2१३.२

नोचेत् पितॄन् भक्षयति स्वयं चाशुचितां व्रजेत् ॥ (१३।२)

nocet pitṝn bhakṣayati svayaṃ cāśucitāṃ vrajet ||

14.1१४.१

लिङ्गेति सः करे वामे दशासप्त च दक्षिणे । (१४।१)

liṅgeti saḥ kare vāme daśāsapta ca dakṣiṇe |

14.2१४.२

पादयोः सप्त वा तिस्रो मृदामलकमात्रया ॥ (१४।२)

pādayoḥ sapta vā tisro mṛdāmalakamātrayā ||

15.1१५.१

ऐवं मलविसर्गे तु मूत्रशौचे तु कथ्यते । (१५।१)

aivaṃ malavisarge tu mūtraśauce tu kathyate |

15.2१५.२

एकालिङ्गे करे तिस्रः द्वे वा पञ्च च हस्तयोः ॥ (१५।२)

ekāliṅge kare tisraḥ dve vā pañca ca hastayoḥ ||

16.1१६.१

सव्यहस्तं बहिर् जानौ अपश्यैव तद् अन्तरा । (१६।१)

savyahastaṃ bahir jānau apaśyaiva tad antarā |

16.2१६.२

एवं शोचं द्विजः कृत्वा आजानुक्षालयेत् पदे ॥ (१६।२)

evaṃ śocaṃ dvijaḥ kṛtvā ājānukṣālayet pade ||

17.1१७.१

शौचमित्थं गृहस्थस्य वर्णी तु द्विगुणं चरेत् । (१७।१)

śaucamitthaṃ gṛhasthasya varṇī tu dviguṇaṃ caret |

17.2१७.२

त्रिगुणं तु वनस्थस्य यतीनां तु चतुर्गुणम् ॥ (१७।२)

triguṇaṃ tu vanasthasya yatīnāṃ tu caturguṇam ||

18.1१८.१

स्त्रीशूद्राणां यथा शोचं सर्वेषां च मनः शुचिः । (१८।१)

strīśūdrāṇāṃ yathā śocaṃ sarveṣāṃ ca manaḥ śuciḥ |

18.2१८.२

कृत्वा द्वादशगण्डूषं मलसूत्रे तु षड् भवेत् ॥ (१८।२)

kṛtvā dvādaśagaṇḍūṣaṃ malasūtre tu ṣaḍ bhavet ||

19.1१९.१

प्रवेशयेत् करं सव्यं जले चामणि बन्धनम् । (१९।१)

praveśayet karaṃ savyaṃ jale cāmaṇi bandhanam |

19.2१९.२

तत आदायहस्तेन प्राङ्मुखः सलिलं पिबेत् ॥ (१९।२)

tata ādāyahastena prāṅmukhaḥ salilaṃ pibet ||

20.1२०.१

समन्त्रकम् अशब्दं च हृदयस्थे जले पुनः । (२०।१)

samantrakam aśabdaṃ ca hṛdayasthe jale punaḥ |

20.2२०.२

अङ्गुष्ठानाभिकाभ्यं च द्वादशाङ्गानि संस्पृशेत् ॥ (२०।२)

aṅguṣṭhānābhikābhyaṃ ca dvādaśāṅgāni saṃspṛśet ||

21.1२१.१

मध्ये मध्ये जलं स्पृश्य तत्तद् एवं सु चिन्तयेत् । (२१।१)

madhye madhye jalaṃ spṛśya tattad evaṃ su cintayet |

21.2२१.२

परिमृश्य द्विर् आस्यं तु सकृद् ओष्ठौ परिस्पृशेत् ॥ (२१।२)

parimṛśya dvir āsyaṃ tu sakṛd oṣṭhau parispṛśet ||

22.1२२.१

वेदत्रयं समुच्चार्यम् आषमात्रजलं पिबेत् । (२२।१)

vedatrayaṃ samuccāryam āṣamātrajalaṃ pibet |

22.2२२.२

त्वं न्यूनम् अधिकं पीतं सुरेति कवयो विदुः ॥ (२२।२)

tvaṃ nyūnam adhikaṃ pītaṃ sureti kavayo viduḥ ||

23.1२३.१

व्याहृतीभिश् चतुर्वारं त्रिः पिबेत् प्रणवेन वा । (२३।१)

vyāhṛtībhiś caturvāraṃ triḥ pibet praṇavena vā |

23.2२३.२

सावित्र्या व पिबेद् अम्बू त्रिः पिबेद् वाप्य् आमन्त्रकम् ॥ (२३।२)

sāvitryā va pibed ambū triḥ pibed vāpy āmantrakam ||

24.1२४.१

गोकर्णवत् करं कृत्वा गृह्णीयाद् देवतीर्थतः । (२४।१)

gokarṇavat karaṃ kṛtvā gṛhṇīyād devatīrthataḥ |

24.2२४.२

पिबे च ब्रह्मतीर्थे न दिवा वीक्ष्य जलं पिबेत् ॥ (२४।२)

pibe ca brahmatīrthe na divā vīkṣya jalaṃ pibet ||

25.1२५.१

पिबेद् विप्रो जले ह्यस्थे कर्मस्थे बाहुजः पुनः । (२५।१)

pibed vipro jale hyasthe karmasthe bāhujaḥ punaḥ |

25.2२५.२

वैश्याशूद्रास् तथा नार्य आस्यस्थे च पुनाति च ॥ (२५।२)

vaiśyāśūdrās tathā nārya āsyasthe ca punāti ca ||

26.1२६.१

पवित्रं धारयन् विप्रः शुद्धाचमनम् आचरेत् । (२६।१)

pavitraṃ dhārayan vipraḥ śuddhācamanam ācaret |

26.2२६.२

वैधेकर्मणि मत्याज्यं पवित्रं त्व् अन्यथात्मजेत् ॥ (२६।२)

vaidhekarmaṇi matyājyaṃ pavitraṃ tv anyathātmajet ||

27.1२७.१

ब्रह्मगन्धिं कर्मकाले भुक्तिकाले च वर्तुलम् । (२७।१)

brahmagandhiṃ karmakāle bhuktikāle ca vartulam |

27.2२७.२

चतुभिर् दर्भपिञ्जूलैर् ब्राह्मणस्य पवित्रकम् ॥ (२७।२)

catubhir darbhapiñjūlair brāhmaṇasya pavitrakam ||

28.1२८.१

एकैकं न्यूनम् उद्दिष्टं वर्णे वर्णे यथा क्रमम् । (२८।१)

ekaikaṃ nyūnam uddiṣṭaṃ varṇe varṇe yathā kramam |

28.2२८.२

दन्तशुद्धिं ततः कुर्याद् दन्तकाष्ठैः शुभैः समैः ॥ (२८।२)

dantaśuddhiṃ tataḥ kuryād dantakāṣṭhaiḥ śubhaiḥ samaiḥ ||

29.1२९.१

क्षीरवृक्षोद्भवैः कुर्याद् यद् वा कण्टकवृक्षकैः । (२९।१)

kṣīravṛkṣodbhavaiḥ kuryād yad vā kaṇṭakavṛkṣakaiḥ |

29.2२९.२

काघासैः क्रमुकैः काशैः खर्गुरश् च निषिद्धजैः ॥ (२९।२)

kāghāsaiḥ kramukaiḥ kāśaiḥ kharguraś ca niṣiddhajaiḥ ||

30.1३०.१

न कुर्द्दन्तसि शुद्ध्यं च कृत्वा सद्यो त्यजो भवेत् । (३०।१)

na kurddantasi śuddhyaṃ ca kṛtvā sadyo tyajo bhavet |

30.2३०.२

प्रादक्षिण्या क्रमेणैव मन्दयन्त्रेन कारयेत् ॥ (३०।२)

prādakṣiṇyā krameṇaiva mandayantrena kārayet ||

31.1३१.१

प्रतीपद् भूतषष्ठीषु नवभ्याम् अथपर्वसु । (३१।१)

pratīpad bhūtaṣaṣṭhīṣu navabhyām athaparvasu |

31.2३१.२

श्राद्धाहे दन्तशुद्धिश् चेद् दहत्य् आसप्तमकुलम् ॥ (३१।२)

śrāddhāhe dantaśuddhiś ced dahaty āsaptamakulam ||

32.1३२.१

सप्तम्यामसितार्केषु श्रवणे जन्मभेदथा । (३२।१)

saptamyāmasitārkeṣu śravaṇe janmabhedathā |

32.2३२.२

न कुर्याद् दन्तशुध्यं तौ गण्डूषान्द्दादशाचरेत् ॥ (३२।२)

na kuryād dantaśudhyaṃ tau gaṇḍūṣānddādaśācaret ||

33.1३३.१

ऐन्द्रे सम्पदम् आप्नोति ऐशान्यां सर्वसिद्धयः । (३३।१)

aindre sampadam āpnoti aiśānyāṃ sarvasiddhayaḥ |

33.2३३.२

इतरत्र महान् दोषः पुत्रस्त्रीपशुनाशनः ॥ (३३।२)

itaratra mahān doṣaḥ putrastrīpaśunāśanaḥ ||

34.1३४.१

एवं दन्तानूशुची कृत्वा पुनर् आचम्य बुद्धिमान् । (३४।१)

evaṃ dantānūśucī kṛtvā punar ācamya buddhimān |

34.2३४.२

संकल्प्य विधिपूर्वं तु ततः स्नातुम् उपक्रमेत् ॥ (३४।२)

saṃkalpya vidhipūrvaṃ tu tataḥ snātum upakramet ||

Data courtesy of The Digital Corpus of Sanskrit.

Vṛddhayamasmṛti, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit