योगरत्नाकरYogaratnākara

YRā, 1

1 of 1 · 848 verses

Select a line for its word-by-word analysis.

1.1१.१

सप्तधातुस्वर्णतारारताम्राणि नागवङ्गौ च तीक्ष्णकम् । (१।१)

saptadhātusvarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam |

1.2१.२

धातवः सप्त विज्ञेया अष्टमः क्वापि पारदः ॥ (१।२)

dhātavaḥ sapta vijñeyā aṣṭamaḥ kvāpi pāradaḥ ||

2.1२.१

अष्टधातुस्वर्णं तारं च ताम्रं च वङ्गो नागस्तु पञ्चमः । (२।१)

aṣṭadhātusvarṇaṃ tāraṃ ca tāmraṃ ca vaṅgo nāgastu pañcamaḥ |

2.2२.२

रीतिका च तथा घोषो लोहं चेत्यष्ट धातवः ॥ (२।२)

rītikā ca tathā ghoṣo lohaṃ cetyaṣṭa dhātavaḥ ||

3.1३.१

सामान्यधातुशोधनतैले तक्रे गवां मूत्रे काञ्जिके च कुलत्थके । (३।१)

sāmānyadhātuśodhanataile takre gavāṃ mūtre kāñjike ca kulatthake |

3.2३.२

सप्तधा तप्तनिर्वापात् सर्वलोहं विशुध्यति ॥ (३।२)

saptadhā taptanirvāpāt sarvalohaṃ viśudhyati ||

4.1४.१

अथ सप्तधातुवर्णाःस्वर्णं चम्पकवर्णाभं कृष्णत्वं तारताम्रयोः । (४।१)

atha saptadhātuvarṇāḥsvarṇaṃ campakavarṇābhaṃ kṛṣṇatvaṃ tāratāmrayoḥ |

4.2४.२

कांस्यं धूसरवर्णं स्यान्नागः पारावतप्रभः ॥ (४।२)

kāṃsyaṃ dhūsaravarṇaṃ syānnāgaḥ pārāvataprabhaḥ ||

5.1५.१

वङ्गं शुभ्रत्वमायाति तीक्ष्णं जम्बूफलोपमम् । (५।१)

vaṅgaṃ śubhratvamāyāti tīkṣṇaṃ jambūphalopamam |

5.2५.२

अभ्रकं चेष्टिकाभं स्याद्धातूनां वर्णनिर्णयः ॥ (५।२)

abhrakaṃ ceṣṭikābhaṃ syāddhātūnāṃ varṇanirṇayaḥ ||

6.1६.१

शिलार्कदुग्धगन्धकैर्युताश्च सप्त धातवः । (६।१)

śilārkadugdhagandhakairyutāśca sapta dhātavaḥ |

6.2६.२

पुटैश्च द्वादशैः परं व्रजन्ति भस्मतां सदा ॥ (६।२)

puṭaiśca dvādaśaiḥ paraṃ vrajanti bhasmatāṃ sadā ||

7.1७.१

स्वर्णदाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् । (७।१)

svarṇadāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham |

7.2७.२

तारशुल्वोत्थितं स्निग्धं मृदु हेम गुरूत्तमम् ॥ (७।२)

tāraśulvotthitaṃ snigdhaṃ mṛdu hema gurūttamam ||

8.1८.१

श्वेताङ्गं कठिनं रूक्षं विवर्णं समलं दलम् । (८।१)

śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam |

8.2८.२

दाहे छेदे सितं श्वेतं कषे लघु च तत्त्यजेत् ॥ (८।२)

dāhe chede sitaṃ śvetaṃ kaṣe laghu ca tattyajet ||

9.1९.१

स्वर्णशोधनसुवर्णमुत्तमं वह्नौ विद्रुतं निक्षिपेत्त्रिशः । (९।१)

svarṇaśodhanasuvarṇamuttamaṃ vahnau vidrutaṃ nikṣipettriśaḥ |

9.2९.२

काञ्चनारद्रवैः शुद्धं काञ्चनं जायते भृशम् ॥ (९।२)

kāñcanāradravaiḥ śuddhaṃ kāñcanaṃ jāyate bhṛśam ||

10.1१०.१

स्वर्णमारणकाञ्चने गलिते नागं षोडशांशेन निक्षिपेत् । (१०।१)

svarṇamāraṇakāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet |

10.2१०.२

चूर्णयित्वा तथाम्लेन घृष्ट्वा कृत्वा च गोलकम् ॥ (१०।२)

cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam ||

11.1११.१

गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम् । (११।१)

golakena samaṃ gandhaṃ dattvā caivādharottaram |

11.2११.२

शरावसंपुटे धृत्वा पुटेद्विंशवनोत्पलैः ॥ (११।२)

śarāvasaṃpuṭe dhṛtvā puṭedviṃśavanotpalaiḥ ||

12.1१२.१

एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते । (१२।१)

evaṃ saptapuṭairhema nirutthaṃ bhasma jāyate |

12.2१२.२

स्वर्णपत्रसमं नागभस्म निम्बूविलेपितम् ॥ (१२।२)

svarṇapatrasamaṃ nāgabhasma nimbūvilepitam ||

13.1१३.१

त्रिवारं वै गजपुटे सुवर्णं भस्मतां व्रजेत् । (१३।१)

trivāraṃ vai gajapuṭe suvarṇaṃ bhasmatāṃ vrajet |

13.2१३.२

पारावतमलैर् लेप्यान्यथवा कुक्कुटोद्भवैः ॥ (१३।२)

pārāvatamalair lepyānyathavā kukkuṭodbhavaiḥ ||

14.1१४.१

हेमपत्राणि लेप्यानि प्रदद्यादुत्तरोत्तरम् । (१४।१)

hemapatrāṇi lepyāni pradadyāduttarottaram |

14.2१४.२

गन्धचूर्णं समं कृत्वा शरावयुतसंपुटे ॥ (१४।२)

gandhacūrṇaṃ samaṃ kṛtvā śarāvayutasaṃpuṭe ||

15.1१५.१

प्रदद्यात्कुक्कुटपदं पञ्चभिर्गोमयोपलैः । (१५।१)

pradadyātkukkuṭapadaṃ pañcabhirgomayopalaiḥ |

15.2१५.२

एवं नवपुटं दद्याद्दशमं च महापुटम् । (१५।२)

evaṃ navapuṭaṃ dadyāddaśamaṃ ca mahāpuṭam |

15.3१५.३

त्रिंशद्वनोपलैर् देयं जायते हेमभस्म तु ॥ (१५।३)

triṃśadvanopalair deyaṃ jāyate hemabhasma tu ||

16.1१६.१

स्वर्णगुणाःस्वर्णं शीतं पवित्रं क्षयवमिकसनश्वासमेहास्रपित्तक्षैण्यक्ष्वेडक्षतास्रप्रदरगदहरं स्वादु तिक्तं कषायम् । (१६।१)

svarṇaguṇāḥsvarṇaṃ śītaṃ pavitraṃ kṣayavamikasanaśvāsamehāsrapittakṣaiṇyakṣveḍakṣatāsrapradaragadaharaṃ svādu tiktaṃ kaṣāyam |

16.2१६.२

वृष्यं मेधाग्निकान्तिप्रदमधुरसरं कार्श्यहारि त्रिदोषोन्मादापस्मारशूलज्वरजयि वपुषो बृंहणं नेत्रपथ्यम् ॥ (१६।२)

vṛṣyaṃ medhāgnikāntipradamadhurasaraṃ kārśyahāri tridoṣonmādāpasmāraśūlajvarajayi vapuṣo bṛṃhaṇaṃ netrapathyam ||

17.1१७.१

एतद् भस्म सुवर्णजं मधुघृतोपेतं द्विगुञ्जोन्मितं लीढं हन्ति नृणां क्षयाग्निसदनं श्वासं च कासारुची । (१७।१)

etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī |

17.2१७.२

ओजोधातुविवर्धनं बलकरं पाण्ड्वामयध्वंसनं पथ्यं सर्वविषापहं गदहरं दुष्टग्रहण्यादिहृत् ॥ (१७।२)

ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ gadaharaṃ duṣṭagrahaṇyādihṛt ||

18.1१८.१

बलं च वीर्यं हरते नराणां रोगव्रजान् पोषयतीह काये । (१८।१)

balaṃ ca vīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye |

18.2१८.२

असौख्यकार्येव सदैव हेमापक्वं सदोषं मरणं करोति ॥ (१८।२)

asaukhyakāryeva sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti ||

19.1१९.१

शुद्धस्वर्णदलगुणाःशुद्धं स्वर्णदलं समस्तविषहृच्छूलाम्लपित्तापहं हृद्यं पुष्टिकरं क्षयव्रणहरं कायाग्निमान्द्यं जयेत् । (१९।१)

śuddhasvarṇadalaguṇāḥśuddhaṃ svarṇadalaṃ samastaviṣahṛcchūlāmlapittāpahaṃ hṛdyaṃ puṣṭikaraṃ kṣayavraṇaharaṃ kāyāgnimāndyaṃ jayet |

19.2१९.२

हिक्कानाहहरं परं कफहरं नृणां हितं सर्वदा तत्तद्रोगहरानुपानसहितं सर्वामयध्वंसनम् ॥ (१९।२)

hikkānāhaharaṃ paraṃ kaphaharaṃ nṛṇāṃ hitaṃ sarvadā tattadrogaharānupānasahitaṃ sarvāmayadhvaṃsanam ||

20.1२०.१

रौप्यगुरु स्निग्धं मृदु श्वेतं दाहे छेदे च यत्क्षमम् । (२०।१)

raupyaguru snigdhaṃ mṛdu śvetaṃ dāhe chede ca yatkṣamam |

20.2२०.२

वर्णाग्र्यं चन्द्रवत्स्वच्छं तारमत्र गुणान्वितम् ॥ (२०।२)

varṇāgryaṃ candravatsvacchaṃ tāramatra guṇānvitam ||

21.1२१.१

कृत्रिमं कठिनं रूक्षं रक्तपीतदलं लघु । (२१।१)

kṛtrimaṃ kaṭhinaṃ rūkṣaṃ raktapītadalaṃ laghu |

21.2२१.२

दाहे छेदे च यन्नष्टं रूप्ये दोषा दश स्मृताः ॥ (२१।२)

dāhe chede ca yannaṣṭaṃ rūpye doṣā daśa smṛtāḥ ||

22.1२२.१

रौप्यशोधनपत्त्रीकृतं तु रजतं संतप्तं जातवेदसि । (२२।१)

raupyaśodhanapattrīkṛtaṃ tu rajataṃ saṃtaptaṃ jātavedasi |

22.2२२.२

निर्वापितमगस्त्यस्य रसे वारत्रयं शुचि ॥ (२२।२)

nirvāpitamagastyasya rase vāratrayaṃ śuci ||

23.1२३.१

तारपत्राणि सूक्ष्माणि कृत्वा तत्तुल्ययोः पृथक् । (२३।१)

tārapatrāṇi sūkṣmāṇi kṛtvā tattulyayoḥ pṛthak |

23.2२३.२

सूतगन्धकयोस् तुल्यतालयोः खल्वसंस्थयोः ॥ (२३।२)

sūtagandhakayos tulyatālayoḥ khalvasaṃsthayoḥ ||

24.1२४.१

कल्कं कृत्वा कुमार्यद्भिस्तेन तानि प्रलेपयेत् । (२४।१)

kalkaṃ kṛtvā kumāryadbhistena tāni pralepayet |

24.2२४.२

शरावसंपुटे रुद्धं त्रिंशद्वन्योपलैः पुटेत् । (२४।२)

śarāvasaṃpuṭe ruddhaṃ triṃśadvanyopalaiḥ puṭet |

24.3२४.३

एवं रजतमाप्नोति मृतिं वारद्वयेन वै ॥ (२४।३)

evaṃ rajatamāpnoti mṛtiṃ vāradvayena vai ||

25.1२५.१

रौप्यशोधन (२)विधाय पिष्टं सूतेन रजतस्याथ मेलयेत् । (२५।१)

raupyaśodhana (2)vidhāya piṣṭaṃ sūtena rajatasyātha melayet |

25.2२५.२

तालगन्धं समं पश्चान्मर्दयेन्निम्बुकद्रवैः । (२५।२)

tālagandhaṃ samaṃ paścānmardayennimbukadravaiḥ |

25.3२५.३

द्वित्रैः पुटैर्भवेद्भस्म योज्यमेतद्रसादिषु ॥ (२५।३)

dvitraiḥ puṭairbhavedbhasma yojyametadrasādiṣu ||

26.1२६.१

रौप्यमारणमाक्षिकं दरदनिम्बुजप्लुतं सूक्ष्मरौप्यदलसंचयं पुटेत् । (२६।१)

raupyamāraṇamākṣikaṃ daradanimbujaplutaṃ sūkṣmaraupyadalasaṃcayaṃ puṭet |

26.2२६.२

द्वित्रिवारमथ भस्मतां व्रजेत् पातकौघ इव शङ्करस्मृतेः ॥ (२६।२)

dvitrivāramatha bhasmatāṃ vrajet pātakaugha iva śaṅkarasmṛteḥ ||

27.1२७.१

रौप्यगुणाःतारं शीतकषायमम्लमधुरं दोषत्रयच्छेदनं स्निग्धं दीपनमक्षिकुक्षिगदजिद्दाहं विषादिं हरेत् । (२७।१)

raupyaguṇāḥtāraṃ śītakaṣāyamamlamadhuraṃ doṣatrayacchedanaṃ snigdhaṃ dīpanamakṣikukṣigadajiddāhaṃ viṣādiṃ haret |

27.2२७.२

मेदोद्भेदि मदात्ययात्ययकरं कांत्यायुरारोग्यकृद् यक्ष्मापस्मृतिशूलपाण्डुपलितप्लीहज्वरघ्नं सरम् ॥ (२७।२)

medodbhedi madātyayātyayakaraṃ kāṃtyāyurārogyakṛd yakṣmāpasmṛtiśūlapāṇḍupalitaplīhajvaraghnaṃ saram ||

28.1२८.१

अशुद्धं रजतं कुर्यात्पाण्डुकण्डूगलग्रहान् । (२८।१)

aśuddhaṃ rajataṃ kuryātpāṇḍukaṇḍūgalagrahān |

28.2२८.२

विबन्धं वीर्यनाशं च बलहानिं शिरोरुजम् ॥ (२८।२)

vibandhaṃ vīryanāśaṃ ca balahāniṃ śirorujam ||

29.1२९.१

ताम्रन विषं विषमित्याहुस्ताम्रं तु विषमुच्यते । (२९।१)

tāmrana viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate |

29.2२९.२

एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्तिताः ॥ (२९।२)

eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ ||

30.1३०.१

भ्रमो मूर्च्छा विदाहश्च स्वेदक्लेदनवान्तयः । (३०।१)

bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ |

30.2३०.२

अरुचिश्चित्तसंताप एते दोषा विषोपमाः । (३०।२)

aruciścittasaṃtāpa ete doṣā viṣopamāḥ |

30.3३०.३

तस्मात्संशोधयेत्ताम्रं तद्दोषविनिवृत्तये ॥ (३०।३)

tasmātsaṃśodhayettāmraṃ taddoṣavinivṛttaye ||

31.1३१.१

ताम्रशोधनवज्रीदुग्धैः सलवणैस्ताम्रपत्रं विलेपयेत् । (३१।१)

tāmraśodhanavajrīdugdhaiḥ salavaṇaistāmrapatraṃ vilepayet |

31.2३१.२

अग्नौ संताप्य निर्गुण्डीरसैः संसेचयेत्त्रिशः । (३१।२)

agnau saṃtāpya nirguṇḍīrasaiḥ saṃsecayettriśaḥ |

31.3३१.३

स्नुह्यर्कक्षीरसेचैर्वा शुल्बशुद्धिः प्रजायते ॥ (३१।३)

snuhyarkakṣīrasecairvā śulbaśuddhiḥ prajāyate ||

32.1३२.१

गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना । (३२।१)

gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā |

32.2३२.२

साम्लक्षारेण संशुद्धिं ताम्रं प्राप्नोति सर्वथा ॥ (३२।२)

sāmlakṣāreṇa saṃśuddhiṃ tāmraṃ prāpnoti sarvathā ||

33.1३३.१

ताम्रमारणचूर्णं शुद्धस्य ताम्रस्य समसूतं विमर्दयेत् । (३३।१)

tāmramāraṇacūrṇaṃ śuddhasya tāmrasya samasūtaṃ vimardayet |

33.2३३.२

खल्वे जम्बीरनीरेण तयोस्तुल्यं तु गन्धकम् । (३३।२)

khalve jambīranīreṇa tayostulyaṃ tu gandhakam |

33.3३३.३

दिनं गजपुटे पाच्यं ताम्रभस्म प्रजायते ॥ (३३।३)

dinaṃ gajapuṭe pācyaṃ tāmrabhasma prajāyate ||

34.1३४.१

तिलपर्णीरसैस् ताम्रपत्राणि परिलेपयेत् । (३४।१)

tilaparṇīrasais tāmrapatrāṇi parilepayet |

34.2३४.२

शुभ्रवर्णं भवेत्क्षिप्रं नात्र कार्या विचारणा ॥ (३४।२)

śubhravarṇaṃ bhavetkṣipraṃ nātra kāryā vicāraṇā ||

35.1३५.१

शुद्धताम्रस्य पत्राणि शुक्तिद्वयमितानि च । (३५।१)

śuddhatāmrasya patrāṇi śuktidvayamitāni ca |

35.2३५.२

त्रपु शुक्तिमितं तेन वेष्टयित्वाथ तानि तु ॥ (३५।२)

trapu śuktimitaṃ tena veṣṭayitvātha tāni tu ||

36.1३६.१

यामं पचेद् घटीयन्त्रे यदा त्रपुमयं तदा । (३६।१)

yāmaṃ paced ghaṭīyantre yadā trapumayaṃ tadā |

36.2३६.२

तत्स्वाङ्गशीतं निष्कास्य भक्षयेद् वल्लसंमितम् ॥ (३६।२)

tatsvāṅgaśītaṃ niṣkāsya bhakṣayed vallasaṃmitam ||

37.1३७.१

शृङ्गवेरयवक्षारशोषणैस्तन्निहन्ति च । (३७।१)

śṛṅgaverayavakṣāraśoṣaṇaistannihanti ca |

37.2३७.२

कफामयारुचिप्लीह्नस् त्रपुताम्रम् इदं क्षणात् ॥ (३७।२)

kaphāmayāruciplīhnas traputāmram idaṃ kṣaṇāt ||

38.1३८.१

सोमनाथताम्रशुल्बतुल्येन सूतेन बलिना तत्समेन च । (३८।१)

somanāthatāmraśulbatulyena sūtena balinā tatsamena ca |

38.2३८.२

तदर्धांशेन तालेन शिलया च तदर्धया ॥ (३८।२)

tadardhāṃśena tālena śilayā ca tadardhayā ||

39.1३९.१

विधाय कज्जलीं श्लक्ष्णां सूक्ष्मकज्जलसंनिभाम् । (३९।१)

vidhāya kajjalīṃ ślakṣṇāṃ sūkṣmakajjalasaṃnibhām |

39.2३९.२

कज्जल्या ताम्रपत्राणि पर्यायेण विलेपयेत् ॥ (३९।२)

kajjalyā tāmrapatrāṇi paryāyeṇa vilepayet ||

40.1४०.१

यन्त्राध्यायविनिर्दिष्टवालुकायन्त्रगं पचेत् । (४०।१)

yantrādhyāyavinirdiṣṭavālukāyantragaṃ pacet |

40.2४०.२

प्रपचेद्युगयामं तु स्वाङ्गशीतं समुद्धरेत् ॥ (४०।२)

prapacedyugayāmaṃ tu svāṅgaśītaṃ samuddharet ||

41.1४१.१

तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितं तल्लीढं परिणामशूलमुदरं शूलं च पाण्डुज्वरम् । (४१।१)

tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ tallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram |

41.2४१.२

गुल्मप्लीहक्षयाग्निसादसदनं श्वासं च कासं तथा दुष्टां च ग्रहणीं हरेद्ध्रुवमिदं तत्सोमनाथाभिधम् ॥ (४१।२)

gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham ||

42.1४२.१

नेपालं समरुद्रबीजम् असुरस् तुल्यस् तयोस् तालकस् तस्यार्धार्धशिलां विधाय विधिना श्लक्ष्णां परां कज्जलीम् । (४२।१)

nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm |

42.2४२.२

लिप्त्वा ताम्रदलान्यधोर्ध्वमनया भाण्डे पचेद्यामकं यन्त्राध्यायसमुक्तशास्त्रविधिना तत्स्वाङ्गशीतं हरेत् ॥ (४२।२)

liptvā tāmradalānyadhordhvamanayā bhāṇḍe pacedyāmakaṃ yantrādhyāyasamuktaśāstravidhinā tatsvāṅgaśītaṃ haret ||

43.1४३.१

षामान्यताम्रगुणाःताम्रं शीतं निहन्याद् व्रणकृमिजठरानाहसंप्लीहपाण्डुश्वासंश्लेष्मास्रवातक्षयपवनगदं शूलयुग्मं च गुल्मम् । (४३।१)

ṣāmānyatāmraguṇāḥtāmraṃ śītaṃ nihanyād vraṇakṛmijaṭharānāhasaṃplīhapāṇḍuśvāsaṃśleṣmāsravātakṣayapavanagadaṃ śūlayugmaṃ ca gulmam |

43.2४३.२

कुष्ठान्यष्टादशापि स्मरबलरुचिकृद्रक्तमेदोऽम्लपित्तच्छेदि प्रोक्तं त्वशुद्धं क्रिमिम् उदरगदाध्मानकुष्ठादि कुर्यात् ॥ (४३।२)

kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt ||

44.1४४.१

रीतिकांस्यरीतिका द्विविधा ज्ञेया तत्राद्या राजरीतिका । (४४।१)

rītikāṃsyarītikā dvividhā jñeyā tatrādyā rājarītikā |

44.2४४.२

काकतुण्डी द्वितीया सा तयोराद्या गुणाधिका ॥ (४४।२)

kākatuṇḍī dvitīyā sā tayorādyā guṇādhikā ||

45.1४५.१

संतप्ता काञ्जिके क्षिप्ता ताम्रा स्याद्राजरीतिका । (४५।१)

saṃtaptā kāñjike kṣiptā tāmrā syādrājarītikā |

45.2४५.२

काकतुण्डी तु कृष्णा स्यान्नासौ सेव्या विजानता ॥ (४५।२)

kākatuṇḍī tu kṛṣṇā syānnāsau sevyā vijānatā ||

46.1४६.१

कांस्यं च द्विविधं प्रोक्तं पुष्पतैलिकभेदतः । (४६।१)

kāṃsyaṃ ca dvividhaṃ proktaṃ puṣpatailikabhedataḥ |

46.2४६.२

पुष्पं श्वेततमं तत्र तैलिकं कपिशप्रभम् ॥ (४६।२)

puṣpaṃ śvetatamaṃ tatra tailikaṃ kapiśaprabham ||

47.1४७.१

एतयोः प्रथमं श्रेष्ठं संसेव्यं रोगशान्तये । (४७।१)

etayoḥ prathamaṃ śreṣṭhaṃ saṃsevyaṃ rogaśāntaye |

47.2४७.२

राजरीतिस्तथा घोषं ताम्रवच्छोधयेद् भिषक् ॥ (४७।२)

rājarītistathā ghoṣaṃ tāmravacchodhayed bhiṣak ||

48.1४८.१

ताम्रवन्मारणं चापि तयोरुक्तं भिषग्वरैः । (४८।१)

tāmravanmāraṇaṃ cāpi tayoruktaṃ bhiṣagvaraiḥ |

48.2४८.२

रीतिकायुगलं रूक्षं सतिक्तं लवणं सरम् । (४८।२)

rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram |

48.3४८.३

शोधनं पाण्डुरोगघ्नं क्रिमिघ्नं लेखनं हिमम् ॥ (४८।३)

śodhanaṃ pāṇḍurogaghnaṃ krimighnaṃ lekhanaṃ himam ||

49.1४९.१

कांस्यं कषायं तिक्तोष्णं लेखनं विशदं सरम् । (४९।१)

kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram |

49.2४९.२

रूक्षं गुरु च चक्षुष्यं कफपित्तहरं परम् ॥ (४९।२)

rūkṣaṃ guru ca cakṣuṣyaṃ kaphapittaharaṃ param ||

50.1५०.१

मुण्डं तीक्ष्णं तथा कान्तमिति लोहं त्रिधा स्मृतम् । (५०।१)

muṇḍaṃ tīkṣṇaṃ tathā kāntamiti lohaṃ tridhā smṛtam |

50.2५०.२

मुण्डाच्छताधिकं तीक्ष्णं तीक्ष्णात्कान्तं शताधिकम् ॥ (५०।२)

muṇḍācchatādhikaṃ tīkṣṇaṃ tīkṣṇātkāntaṃ śatādhikam ||

51.1५१.१

मुण्डं तु वर्तुलं भूमौ पर्वतेषु च जायते । (५१।१)

muṇḍaṃ tu vartulaṃ bhūmau parvateṣu ca jāyate |

51.2५१.२

गजबल्यादि तीक्ष्णं स्यात्कान्तं चुम्बकसम्भवम् ॥ (५१।२)

gajabalyādi tīkṣṇaṃ syātkāntaṃ cumbakasambhavam ||

52.1५२.१

यत्राङ्गं दृश्यते लोहे तीक्ष्णं लोहं तदुत्तमम् । (५२।१)

yatrāṅgaṃ dṛśyate lohe tīkṣṇaṃ lohaṃ taduttamam |

52.2५२.२

कासीसामलकल्काक्ते लोहेऽङ्गं दृश्यते मुखम् ॥ (५२।२)

kāsīsāmalakalkākte lohe'ṅgaṃ dṛśyate mukham ||

53.1५३.१

कान्तलक्षणयत्पात्रस्थे प्रसरति जले तैलबिन्दुर्न दत्तो हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्कः । (५३।१)

kāntalakṣaṇayatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ |

53.2५३.२

पाच्यं दुग्धं भवति शिखराकारकं नैति भूमिं दग्धाङ्गाः स्युः सजलचणकाः कान्तलोहं तदुक्तम् ॥ (५३।२)

pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam ||

54.1५४.१

लोहशोधनशशरक्तेन संलिप्तं किंचार्कपयसायसः । (५४।१)

lohaśodhanaśaśaraktena saṃliptaṃ kiṃcārkapayasāyasaḥ |

54.2५४.२

दलं हुताशने ध्मातं सिक्तं त्रैफलवारिणा । (५४।२)

dalaṃ hutāśane dhmātaṃ siktaṃ traiphalavāriṇā |

54.3५४.३

एवं त्रिशः कृते लोहं शुद्धिम् आप्नोत्यसंशयम् ॥ (५४।३)

evaṃ triśaḥ kṛte lohaṃ śuddhim āpnotyasaṃśayam ||

55.1५५.१

क्वाथ्यमष्टगुणे तोये त्रिफला षोडशं पलम् । (५५।१)

kvāthyamaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam |

55.2५५.२

तत्क्वाथे पादशेषे तु लोहस्य पलपञ्चकम् ॥ (५५।२)

tatkvāthe pādaśeṣe tu lohasya palapañcakam ||

56.1५६.१

कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् । (५६।१)

kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet |

56.2५६.२

एवं प्रलीयते धातुर्गिरिजो लोहसम्भवः ॥ (५६।२)

evaṃ pralīyate dhāturgirijo lohasambhavaḥ ||

57.1५७.१

लोहमारणलोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना । (५७।१)

lohamāraṇalohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā |

57.2५७.२

मध्यमं मूलिकाभिश्च कनिष्ठं गन्धकादिभिः ॥ (५७।२)

madhyamaṃ mūlikābhiśca kaniṣṭhaṃ gandhakādibhiḥ ||

58.1५८.१

शुद्धस्य सूतराजस्य भागो भागद्वयं बलेः । (५८।१)

śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ |

58.2५८.२

द्वयोः समं सारचूर्णं मर्दयेत् कन्यकाम्बुना ॥ (५८।२)

dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā ||

59.1५९.१

यामद्वयं तस्य गोलं संवेष्ट्यैरण्डजैर्दलैः । (५९।१)

yāmadvayaṃ tasya golaṃ saṃveṣṭyairaṇḍajairdalaiḥ |

59.2५९.२

ततः सूत्रेण सम्बध्य स्थापयेत्ताम्रसंपुटे ॥ (५९।२)

tataḥ sūtreṇa sambadhya sthāpayettāmrasaṃpuṭe ||

60.1६०.१

मुद्रयेद्वदनं तस्य मृदा संशोष्य तत्पुनः । (६०।१)

mudrayedvadanaṃ tasya mṛdā saṃśoṣya tatpunaḥ |

60.2६०.२

त्रिदिनं धान्यराशिस्थं तत उद्धृत्य मर्दयेत् ॥ (६०।२)

tridinaṃ dhānyarāśisthaṃ tata uddhṛtya mardayet ||

61.1६१.१

रजस्तद्वस्त्रगलितं नीरे तरति हंसवत् । (६१।१)

rajastadvastragalitaṃ nīre tarati haṃsavat |

61.2६१.२

सोमामृताभिधम् इदं लोहभस्म प्रकीर्तितम् ॥ (६१।२)

somāmṛtābhidham idaṃ lohabhasma prakīrtitam ||

62.1६२.१

लोहमारण (२)द्वादशांशेन दरदं तीक्ष्णचूर्णस्य मेलयेत् । (६२।१)

lohamāraṇa (2)dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet |

62.2६२.२

कन्यानीरेण संमर्द्य यामयुग्मं तु तत्पुनः ॥ (६२।२)

kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpunaḥ ||

63.1६३.१

शरावसंपुटे कृत्वा पुटेद्गजपुटेन वै । (६३।१)

śarāvasaṃpuṭe kṛtvā puṭedgajapuṭena vai |

63.2६३.२

सप्तधैवं कृतं लोहरजो वारितरं भवेत् ॥ (६३।२)

saptadhaivaṃ kṛtaṃ loharajo vāritaraṃ bhavet ||

64.1६४.१

लोहमारण (३)लोहचूर्णं पलं खल्वे सारकस्य पलं तथा । (६४।१)

lohamāraṇa (3)lohacūrṇaṃ palaṃ khalve sārakasya palaṃ tathā |

64.2६४.२

अश्वगन्धापलं चापि सर्वमेकत्र मर्दयेत् ॥ (६४।२)

aśvagandhāpalaṃ cāpi sarvamekatra mardayet ||

65.1६५.१

कुमार्यद्भिर्दिनं पश्चाद्गोलकं रुबुपत्रकैः । (६५।१)

kumāryadbhirdinaṃ paścādgolakaṃ rubupatrakaiḥ |

65.2६५.२

संवेष्ट्य च मृदा लिप्त्वा पुटेद्गजपुटे पचेत् ॥ (६५।२)

saṃveṣṭya ca mṛdā liptvā puṭedgajapuṭe pacet ||

66.1६६.१

स्वाङ्गशीतं समुद्धृत्य सिन्दूराभमयोरजः । (६६।१)

svāṅgaśītaṃ samuddhṛtya sindūrābhamayorajaḥ |

66.2६६.२

मृतं वारितरं ग्राह्यं सर्वकार्यकरं परम् ॥ (६६।२)

mṛtaṃ vāritaraṃ grāhyaṃ sarvakāryakaraṃ param ||

67.1६७.१

लोहमारण (४)दाडिमीपत्रजरसैर्लोहचूर्णं च भावितम् । (६७।१)

lohamāraṇa (4)dāḍimīpatrajarasairlohacūrṇaṃ ca bhāvitam |

67.2६७.२

आतपे सप्तधा तेन पुनर्गजपुटद्वयम् ॥ (६७।२)

ātape saptadhā tena punargajapuṭadvayam ||

68.1६८.१

इत्थं कृतं च तद्भस्म शुद्धं वारितरं भवेत् । (६८।१)

itthaṃ kṛtaṃ ca tadbhasma śuddhaṃ vāritaraṃ bhavet |

68.2६८.२

योजयेत्सर्वरोगेषु सत्यं गुरुवचो यथा ॥ (६८।२)

yojayetsarvarogeṣu satyaṃ guruvaco yathā ||

69.1६९.१

लोहमारण (५)गृहीत्वा तीक्ष्णजं चूर्णं तथैव च गवां दधि । (६९।१)

lohamāraṇa (5)gṛhītvā tīkṣṇajaṃ cūrṇaṃ tathaiva ca gavāṃ dadhi |

69.2६९.२

एकत्र कारयेद् भाण्डे यावच्छोषत्वम् आप्नुयात् ॥ (६९।२)

ekatra kārayed bhāṇḍe yāvacchoṣatvam āpnuyāt ||

70.1७०.१

उद्धृत्य गालयेदग्नौ त्रिफलायाः पुटत्रयम् । (७०।१)

uddhṛtya gālayedagnau triphalāyāḥ puṭatrayam |

70.2७०.२

देयं वारितरं सद्यो जायते नात्र संशयः ॥ (७०।२)

deyaṃ vāritaraṃ sadyo jāyate nātra saṃśayaḥ ||

71.1७१.१

लोहमारणएकभागं लोहचूर्णं तत्समो नवसागरः । (७१।१)

lohamāraṇaekabhāgaṃ lohacūrṇaṃ tatsamo navasāgaraḥ |

71.2७१.२

किंचित्तप्तोदकं ग्राह्यं सर्वं वस्त्रे निबध्य च ॥ (७१।२)

kiṃcittaptodakaṃ grāhyaṃ sarvaṃ vastre nibadhya ca ||

72.1७२.१

यामान्ते घर्षयेत्पाणौ सद्यो वारितरं भवेत् । (७२।१)

yāmānte gharṣayetpāṇau sadyo vāritaraṃ bhavet |

72.2७२.२

योजयेत्सर्वरोगेषु सर्वरोगानुत्पत्तये ॥ (७२।२)

yojayetsarvarogeṣu sarvarogānutpattaye ||

73.1७३.१

इरोन्:: छेच्किन्ग् थे वारितर स्ततेसर्वमेतन्मृतं लोहं ध्मातव्यं मित्रपञ्चकैः । (७३।१)

iron:: checking the vāritara statesarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ |

73.2७३.२

इत्येवं स्यान्निरुत्थानं सेव्यं वारितरं भवेत् ॥ (७३।२)

ityevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet ||

74.1७४.१

पञ्चमित्रमधुगुडघृतगुंजाटंकणं पञ्चमित्रम् । (७४।१)

pañcamitramadhuguḍaghṛtaguṃjāṭaṃkaṇaṃ pañcamitram |

74.2७४.२

लोहमारणरक्तिकाघृतं लाक्षया युतं क्षौद्रमिश्रितं टङ्कणान्वितम् । (७४।२)

lohamāraṇaraktikāghṛtaṃ lākṣayā yutaṃ kṣaudramiśritaṃ ṭaṅkaṇānvitam |

74.3७४.३

ऊर्णया तथा ध्माततां गताः सप्तधातवो यान्ति जीवताम् ॥ (७४।३)

ūrṇayā tathā dhmātatāṃ gatāḥ saptadhātavo yānti jīvatām ||

75.1७५.१

गन्धकं चोत्थितं लोहं तुल्यं खल्वे विमर्दयेत् । (७५।१)

gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet |

75.2७५.२

दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् । (७५।२)

dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet |

75.3७५.३

इत्येवं सर्वलोहानां कर्तव्यं तन्निरुत्थितम् ॥ (७५।३)

ityevaṃ sarvalohānāṃ kartavyaṃ tannirutthitam ||

76.1७६.१

लोहगुणाःकान्तं तु शीतं मधुरं कषायमायुष्करं धातुविवर्धनं च । (७६।१)

lohaguṇāḥkāntaṃ tu śītaṃ madhuraṃ kaṣāyamāyuṣkaraṃ dhātuvivardhanaṃ ca |

76.2७६.२

हन्यात् त्रिदोषव्रणमेहकुष्ठप्लीहोदरग्रन्थिविषक्रिमींश्च ॥ (७६।२)

hanyāt tridoṣavraṇamehakuṣṭhaplīhodaragranthiviṣakrimīṃśca ||

77.1७७.१

पाण्डुं पीडयति क्षयं क्षपयति क्षैण्यं क्षिणोति क्षणात् कासं नाशयति भ्रमं शमयति श्लेष्मामयान् खादति । (७७।१)

pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati |

77.2७७.२

अस्रं गुल्मसशूलपीनसवमिश्वासप्रमेहारुचीर् आशून्मूलयति प्रकम्पनहरं लोहं हिमं चाक्षुषम् ॥ (७७।२)

asraṃ gulmasaśūlapīnasavamiśvāsapramehārucīr āśūnmūlayati prakampanaharaṃ lohaṃ himaṃ cākṣuṣam ||

78.1७८.१

शुद्धं पित्तकफानिलमोहं हन्ति हितं शिवशक्त्या लोहम् । (७८।१)

śuddhaṃ pittakaphānilamohaṃ hanti hitaṃ śivaśaktyā loham |

78.2७८.२

पाण्डुगदामयशूलविनाशि प्रोक्तम् अशुद्धं रोगविकासि ॥ (७८।२)

pāṇḍugadāmayaśūlavināśi proktam aśuddhaṃ rogavikāsi ||

79.1७९.१

ये गुणा मृतरूप्यस्य ते गुणाः कान्तभस्मनः । (७९।१)

ye guṇā mṛtarūpyasya te guṇāḥ kāntabhasmanaḥ |

79.2७९.२

कान्ताभावे प्रदातव्यं रूप्यमित्याह भैरवः ॥ (७९।२)

kāntābhāve pradātavyaṃ rūpyamityāha bhairavaḥ ||

80.1८०.१

कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा । (८०।१)

kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā |

80.2८०.२

मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवकः ॥ (८०।२)

madyamamlarasaṃ caiva tyajellohasya sevakaḥ ||

81.1८१.१

मत्स्यं जीवकवार्ताकमाषं च कारवेल्लकम् । (८१।१)

matsyaṃ jīvakavārtākamāṣaṃ ca kāravellakam |

81.2८१.२

व्यायामं तीक्ष्णकं मद्यं तैलाम्लं दूरतस्यजेत् ॥ (८१।२)

vyāyāmaṃ tīkṣṇakaṃ madyaṃ tailāmlaṃ dūratasyajet ||

82.1८२.१

वल्लं वल्लार्धमानं च यथायोगेन योजयेत् । (८२।१)

vallaṃ vallārdhamānaṃ ca yathāyogena yojayet |

82.2८२.२

त्रिफला लोहचूर्णं च वलीपलितनाशनम् ॥ (८२।२)

triphalā lohacūrṇaṃ ca valīpalitanāśanam ||

83.1८३.१

व्योषं भार्गी च मधुना लोहं धातुरुजापहम् । (८३।१)

vyoṣaṃ bhārgī ca madhunā lohaṃ dhāturujāpaham |

83.2८३.२

कज्जलीमधुकृष्णाभ्यां श्लेष्मरोगनिवारणम् ॥ (८३।२)

kajjalīmadhukṛṣṇābhyāṃ śleṣmaroganivāraṇam ||

84.1८४.१

शर्करा च चतुर्जातं रक्तपित्तरुजापहम् । (८४।१)

śarkarā ca caturjātaṃ raktapittarujāpaham |

84.2८४.२

पुनर्नवा च गोक्षीरैर् बलवृद्धिकरं परम् ॥ (८४।२)

punarnavā ca gokṣīrair balavṛddhikaraṃ param ||

85.1८५.१

पुनर्नवारसेनैव पाण्डुरोगनिषूदनम् । (८५।१)

punarnavārasenaiva pāṇḍuroganiṣūdanam |

85.2८५.२

हरिद्रा लोहचूर्णं च पिप्पली मधुना सह । (८५।२)

haridrā lohacūrṇaṃ ca pippalī madhunā saha |

85.3८५.३

विंशतिं च प्रमेहाणां नाशयेन्नात्र संशयः ॥ (८५।३)

viṃśatiṃ ca pramehāṇāṃ nāśayennātra saṃśayaḥ ||

86.1८६.१

शिलाजतुसमायुक्तं मूत्रकृच्छ्रनिवारणम् । (८६।१)

śilājatusamāyuktaṃ mūtrakṛcchranivāraṇam |

86.2८६.२

वासकः पिप्पली द्राक्षा लोहं च मधुना सह ॥ (८६।२)

vāsakaḥ pippalī drākṣā lohaṃ ca madhunā saha ||

87.1८७.१

गुटिकां भक्षयेत्प्रातः पञ्चकासनिवारणम् । (८७।१)

guṭikāṃ bhakṣayetprātaḥ pañcakāsanivāraṇam |

87.2८७.२

ताम्बूलेन समायुक्तं भक्षयेल्लोहमुत्तमम् ॥ (८७।२)

tāmbūlena samāyuktaṃ bhakṣayellohamuttamam ||

88.1८८.१

अग्निदीप्तिकरं वृष्यं देहकान्तिविवर्धनम् । (८८।१)

agnidīptikaraṃ vṛṣyaṃ dehakāntivivardhanam |

88.2८८.२

किमत्र बहुनोक्तेन देहलोहकरं मतम् ॥ (८८।२)

kimatra bahunoktena dehalohakaraṃ matam ||

89.1८९.१

अल्पौषधैस्तोकपुटैर् हीनं गन्धकपारदैः । (८९।१)

alpauṣadhaistokapuṭair hīnaṃ gandhakapāradaiḥ |

89.2८९.२

अपक्वं लोहजं चूर्णम् आयुःक्षयकरं नृणाम् ॥ (८९।२)

apakvaṃ lohajaṃ cūrṇam āyuḥkṣayakaraṃ nṛṇām ||

90.1९०.१

मण्डूरकरणशताब्दमुत्तमं किट्टं मध्यं चाशीतिवार्षिकम् । (९०।१)

maṇḍūrakaraṇaśatābdamuttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam |

90.2९०.२

अधमं षष्टिवर्षीयं ततो हीनं विषोपमम् ॥ (९०।२)

adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam ||

91.1९१.१

अक्षाङ्गारैर् धमेत् किट्टं लोहजं तद्गवां जलैः । (९१।१)

akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ |

91.2९१.२

सेचयेदक्षपात्रान्तः सप्तवारं पुनः पुनः ॥ (९१।२)

secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ ||

92.1९२.१

चूर्णयित्वा ततः क्वाथैर् द्विगुणैस् त्रिफलोद्भवैः । (९२।१)

cūrṇayitvā tataḥ kvāthair dviguṇais triphalodbhavaiḥ |

92.2९२.२

आलोड्य भर्जयेद् वह्नौ मण्डूरं जायते वरम् ॥ (९२।२)

āloḍya bharjayed vahnau maṇḍūraṃ jāyate varam ||

93.1९३.१

मण्डूरं शिशिरं रुच्यं पाण्डुश्वयथुशोथजित् । (९३।१)

maṇḍūraṃ śiśiraṃ rucyaṃ pāṇḍuśvayathuśothajit |

93.2९३.२

हलीमकं कामलां च प्लीहानं कुम्भकामलाम् ॥ (९३।२)

halīmakaṃ kāmalāṃ ca plīhānaṃ kumbhakāmalām ||

94.1९४.१

वङ्गखुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते । (९४।१)

vaṅgakhurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate |

94.2९४.२

खुरं तत्र गुणैः श्रेष्ठं मिश्रकं न हितं मतम् ॥ (९४।२)

khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam ||

95.1९५.१

धवलं मृदुलं स्निग्धं द्रुतद्रावं सगौरवम् । (९५।१)

dhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam |

95.2९५.२

निःशब्दं खुरवङ्गं स्यान्मिश्रकं श्यामशुभ्रकम् ॥ (९५।२)

niḥśabdaṃ khuravaṅgaṃ syānmiśrakaṃ śyāmaśubhrakam ||

96.1९६.१

वङ्गशोधनद्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसे । (९६।१)

vaṅgaśodhanadrāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase |

96.2९६.२

विशुध्यति त्रिवारेण खुरवङ्गं न संशयः ॥ (९६।२)

viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ ||

97.1९७.१

वङ्गमारणशाणमात्रं भवेद्वङ्गं भुजंगो रक्तिकामितः । (९७।१)

vaṅgamāraṇaśāṇamātraṃ bhavedvaṅgaṃ bhujaṃgo raktikāmitaḥ |

97.2९७.२

खर्परे गलितं सर्वं लोहदर्व्या विघर्षयेत् ॥ (९७।२)

kharpare galitaṃ sarvaṃ lohadarvyā vigharṣayet ||

98.1९८.१

प्रहराज्जायते भस्म भिन्नकज्जलसंनिभम् । (९८।१)

praharājjāyate bhasma bhinnakajjalasaṃnibham |

98.2९८.२

शुक्लतां याति तद्भस्म तीव्रखर्परवह्निना ॥ (९८।२)

śuklatāṃ yāti tadbhasma tīvrakharparavahninā ||

99.1९९.१

वङ्गमारणपलाशद्रवयुक्तेन वङ्गपत्राणि लेपयेत् । (९९।१)

vaṅgamāraṇapalāśadravayuktena vaṅgapatrāṇi lepayet |

99.2९९.२

तालेन पुटितं भस्म त्रिवारं जायते ध्रुवम् ॥ (९९।२)

tālena puṭitaṃ bhasma trivāraṃ jāyate dhruvam ||

100.1१००.१

वङ्गमारण (३)भल्लाततैलसंलिप्तं वङ्गं वस्त्रेण वेष्टितम् । (१००।१)

vaṅgamāraṇa (3)bhallātatailasaṃliptaṃ vaṅgaṃ vastreṇa veṣṭitam |

100.2१००.२

चिञ्चापिप्पलपालाशकाष्ठाग्नौ याति पञ्चताम् ॥ (१००।२)

ciñcāpippalapālāśakāṣṭhāgnau yāti pañcatām ||

101.1१०१.१

वङ्गमारण (४)मृत्पात्रे द्राविते वङ्गे चिञ्चाश्वत्थत्वचो रजः । (१०१।१)

vaṅgamāraṇa (4)mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ |

101.2१०१.२

क्षिप्त्वा क्षिप्त्वा चतुर्थांशं लोहदर्व्या विचालयेत् । (१०१।२)

kṣiptvā kṣiptvā caturthāṃśaṃ lohadarvyā vicālayet |

101.3१०१.३

ततो द्वियाममात्रेण वङ्गभस्म प्रजायते ॥ (१०१।३)

tato dviyāmamātreṇa vaṅgabhasma prajāyate ||

102.1१०२.१

अथ भस्मसमं तालं क्षिप्त्वाम्लेन प्रमर्दयेत् । (१०२।१)

atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet |

102.2१०२.२

ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत् ॥ (१०२।२)

tato gajapuṭe paktvā punaramlena mardayet ||

103.1१०३.१

तालेन दशमांशेन याममेकं ततः पुटेत् । (१०३।१)

tālena daśamāṃśena yāmamekaṃ tataḥ puṭet |

103.2१०३.२

एवं दशपुटैः पक्वं वङ्गं तु म्रियते ध्रुवम् ॥ (१०३।२)

evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ tu mriyate dhruvam ||

104.1१०४.१

वङ्गगुणाःवङ्गं तिक्तोष्णकं रूक्षमीषद्वातप्रकोपणम् । (१०४।१)

vaṅgaguṇāḥvaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam |

104.2१०४.२

मेहश्लेष्मामयघ्नं च मेदोघ्नं क्रिमिनाशनम् ॥ (१०४।२)

mehaśleṣmāmayaghnaṃ ca medoghnaṃ krimināśanam ||

105.1१०५.१

अशुद्धममृतं वङ्गं प्रमेहादिगदप्रदम् । (१०५।१)

aśuddhamamṛtaṃ vaṅgaṃ pramehādigadapradam |

105.2१०५.२

गुल्महृद्रोगशूलार्शःकासश्वासवमिप्रदम् ॥ (१०५।२)

gulmahṛdrogaśūlārśaḥkāsaśvāsavamipradam ||

106.1१०६.१

नागद्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलम् । (१०६।१)

nāgadrutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam |

106.2१०६.२

पूतिगन्धं बहिःकृष्णं शुद्धं सीसमतोऽन्यथा ॥ (१०६।२)

pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā ||

107.1१०७.१

नागो द्रुतोऽग्निसंयोगाद्रविदुग्धे निपातितः । (१०७।१)

nāgo druto'gnisaṃyogādravidugdhe nipātitaḥ |

107.2१०७.२

सच्छिद्रहण्डिकासंस्थस्त्रिवारं शुद्धिमाप्नुयात् ॥ (१०७।२)

sacchidrahaṇḍikāsaṃsthastrivāraṃ śuddhimāpnuyāt ||

108.1१०८.१

नागमारणअश्वत्थचिञ्चात्वग्भस्म नागस्य चतुरंशतः । (१०८।१)

nāgamāraṇaaśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ |

108.2१०८.२

क्षिपेन्नागं पचेत्पात्रे चालयेल्लोहचाटुना ॥ (१०८।२)

kṣipennāgaṃ pacetpātre cālayellohacāṭunā ||

109.1१०९.१

यामाद् भस्म तदुद्धृत्य भस्मतुल्यां मनःशिलाम् । (१०९।१)

yāmād bhasma taduddhṛtya bhasmatulyāṃ manaḥśilām |

109.2१०९.२

जम्बीरैरारनालैर् वा पिष्ट्वा रुद्ध्वा पुटे पचेत् ॥ (१०९।२)

jambīrairāranālair vā piṣṭvā ruddhvā puṭe pacet ||

110.1११०.१

स्वाङ्गशैत्यं पुनः पिष्ट्वा विंशत्यंशशिलायुतम् । (११०।१)

svāṅgaśaityaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam |

110.2११०.२

अम्लेनैव तु यामैकं पूर्ववत्पाचयेत्पुटे । (११०।२)

amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe |

110.3११०.३

एवं षष्टिपुटैः पक्वो नागः स्यात्सुनिरुत्थितः ॥ (११०।३)

evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātsunirutthitaḥ ||

111.1१११.१

नागमारण (२)मनःशिलागन्धयुताटरूषपरिप्लुतं नागदलं विमृष्टम् । (१११।१)

nāgamāraṇa (2)manaḥśilāgandhayutāṭarūṣapariplutaṃ nāgadalaṃ vimṛṣṭam |

111.2१११.२

पुटैस्त्रिभिः कुम्भमितैः प्रयाति भस्मत्वम् एतत् प्रवदन्ति तज्ज्ञाः ॥ (१११।२)

puṭaistribhiḥ kumbhamitaiḥ prayāti bhasmatvam etat pravadanti tajjñāḥ ||

112.1११२.१

नागमारण (३)ताम्बूलीरससम्पिष्टशिलालेपात् पुनः पुनः । (११२।१)

nāgamāraṇa (3)tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ |

112.2११२.२

द्वात्रिंशद्भिः पुटैर्नागो निरुत्थो जायते ध्रुवम् ॥ (११२।२)

dvātriṃśadbhiḥ puṭairnāgo niruttho jāyate dhruvam ||

113.1११३.१

नागगुणाःअत्युष्णं सीसकं स्निग्धं तिक्तं वातकफापहम् । (११३।१)

nāgaguṇāḥatyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham |

113.2११३.२

प्रमेहतोयदोषघ्नं दीपनं चामवातनुत् ॥ (११३।२)

pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut ||

114.1११४.१

अशुद्धः कुरुते नागः प्रमेहक्षयकामलाः । (११४।१)

aśuddhaḥ kurute nāgaḥ pramehakṣayakāmalāḥ |

114.2११४.२

तस्मात्संशुद्ध एवायं मारणीयो भिषग्वरैः ॥ (११४।२)

tasmātsaṃśuddha evāyaṃ māraṇīyo bhiṣagvaraiḥ ||

115.1११५.१

उपधातवःअभ्रकं माक्षिकं तालं शिला नीलाञ्जनं तथा । (११५।१)

upadhātavaḥabhrakaṃ mākṣikaṃ tālaṃ śilā nīlāñjanaṃ tathā |

115.2११५.२

तुत्थकं रसकं चैव प्रोक्ताः सप्तोपधातवः ॥ (११५।२)

tutthakaṃ rasakaṃ caiva proktāḥ saptopadhātavaḥ ||

116.1११६.१

अभ्रकशुक्लं रक्तं तथा पीतं कृष्णं चैव यथाक्रमम् । (११६।१)

abhrakaśuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ caiva yathākramam |

116.2११६.२

पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् ॥ (११६।२)

pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham ||

117.1११७.१

दलानि मुञ्चत्यनले पिनाकं भेकं स्वरावं कुरुतेऽनलस्थम् । (११७।१)

dalāni muñcatyanale pinākaṃ bhekaṃ svarāvaṃ kurute'nalastham |

117.2११७.२

फूत्कारं रावं भुजगः करोति ह्यविक्रियं वह्निगतं सुवज्रम् ॥ (११७।२)

phūtkāraṃ rāvaṃ bhujagaḥ karoti hyavikriyaṃ vahnigataṃ suvajram ||

118.1११८.१

पिनाकं कुरुते कुष्ठं दर्दुरं मृत्युदायकम् । (११८।१)

pinākaṃ kurute kuṣṭhaṃ darduraṃ mṛtyudāyakam |

118.2११८.२

नागं भगन्दरं कुर्याद् वज्राभ्रं गदवृन्दजित् ॥ (११८।२)

nāgaṃ bhagandaraṃ kuryād vajrābhraṃ gadavṛndajit ||

119.1११९.१

अभ्रकशोधनप्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् । (११९।१)

abhrakaśodhanaprataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam |

119.2११९.२

निर्दोषं जायते नूनं प्रक्षिप्तं वापि गोजले । (११९।२)

nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale |

119.3११९.३

त्रिफलाक्वथिते वापि गवां दुग्धे विशेषतः ॥ (११९।३)

triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ ||

120.1१२०.१

अभ्रशोधन (२)कृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत् । (१२०।१)

abhraśodhana (2)kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet |

120.2१२०.२

भिन्नपत्रं ततः कृत्वा तण्डुलीयाम्लयोर्द्रवैः ॥ (१२०।२)

bhinnapatraṃ tataḥ kṛtvā taṇḍulīyāmlayordravaiḥ ||

121.0१२१.०

भावयेद् अष्टयामं तु ह्येवं शुध्यति चाभ्रकम् ॥ (१२१।०)

bhāvayed aṣṭayāmaṃ tu hyevaṃ śudhyati cābhrakam ||

122.1१२२.१

धान्याभ्रकपादांशशालिसंयुक्तम् अभ्रं बद्ध्वाथ कम्बले । (१२२।१)

dhānyābhrakapādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale |

122.2१२२.२

त्रिरात्रं स्थापयेन्नीरे तत् क्लिन्नं मर्दयेत्करैः ॥ (१२२।२)

trirātraṃ sthāpayennīre tat klinnaṃ mardayetkaraiḥ ||

123.1१२३.१

कम्बलाद् गलितं सूक्ष्मं वालुकासदृशं च यत् । (१२३।१)

kambalād galitaṃ sūkṣmaṃ vālukāsadṛśaṃ ca yat |

123.2१२३.२

तद्धान्याभ्रमिति प्रोक्तमथ मारणसिद्धये ॥ (१२३।२)

taddhānyābhramiti proktamatha māraṇasiddhaye ||

124.1१२४.१

अभ्रमारणकृत्वा धान्याभ्रकं तच्च शोषयित्वाथ मर्दयेत् । (१२४।१)

abhramāraṇakṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet |

124.2१२४.२

अर्कक्षीरैर्दिनं खल्वे चक्राकारं च कारयेत् ॥ (१२४।२)

arkakṣīrairdinaṃ khalve cakrākāraṃ ca kārayet ||

125.1१२५.१

वेष्टयेद् अर्कपत्रैश्च सम्यग्गजपुटे पचेत् । (१२५।१)

veṣṭayed arkapatraiśca samyaggajapuṭe pacet |

125.2१२५.२

पुनर्मर्द्यं पुनः पाच्यं सप्तवारं पुनः पुनः ॥ (१२५।२)

punarmardyaṃ punaḥ pācyaṃ saptavāraṃ punaḥ punaḥ ||

126.1१२६.१

ततो वटजटाक्वाथैस् तद्वद् देयं पुटत्रयम् । (१२६।१)

tato vaṭajaṭākvāthais tadvad deyaṃ puṭatrayam |

126.2१२६.२

म्रियते नात्र संदेहः सर्वरोगेषु योजयेत् ॥ (१२६।२)

mriyate nātra saṃdehaḥ sarvarogeṣu yojayet ||

127.1१२७.१

तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत् । (१२७।१)

tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet |

127.2१२७.२

घृते जीर्णे तदभ्रं तु सर्वरोगेषु योजयेत् ॥ (१२७।२)

ghṛte jīrṇe tadabhraṃ tu sarvarogeṣu yojayet ||

128.1१२८.१

धान्याभ्रकं रविक्षीरै रविमूलद्रवेण वा । (१२८।१)

dhānyābhrakaṃ ravikṣīrai ravimūladraveṇa vā |

128.2१२८.२

पिष्ट्वा पिष्ट्वा पुटेत्पाकात्सप्तधा म्रियतेऽभ्रकः ॥ (१२८।२)

piṣṭvā piṣṭvā puṭetpākātsaptadhā mriyate'bhrakaḥ ||

129.1१२९.१

अभ्रमारण (२)धान्याभ्रं मेघनादैः कदलिघनजलैष्टङ्कणाङ्कोलतोयैः खल्वे संमर्द्य गाढं तदनु गजपुटान्द्वादशैवं प्रदद्यात् । (१२९।१)

abhramāraṇa (2)dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt |

129.2१२९.२

मीनाक्षीभृङ्गतोयैस्त्रिफलजलयुतैर्मर्दयेत्सप्तवारं गन्धं तुल्यं च दत्त्वा प्रवरगजपुटात्पञ्चतां याति मेघः ॥ (१२९।२)

mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ ||

130.1१३०.१

अभ्रमारण (३)दुग्धत्रयं कुमार्यम्बु गजमूत्रं नृमूत्रकम् । (१३०।१)

abhramāraṇa (3)dugdhatrayaṃ kumāryambu gajamūtraṃ nṛmūtrakam |

130.2१३०.२

वटभृङ्गम् अजारक्तम् एभिर् अभ्रं सुमर्दितम् । (१३०।२)

vaṭabhṛṅgam ajāraktam ebhir abhraṃ sumarditam |

130.3१३०.३

शतधा पुटितं भस्म जायते पद्मरागवत् ॥ (१३०।३)

śatadhā puṭitaṃ bhasma jāyate padmarāgavat ||

131.1१३१.१

अभ्रमारण (४)धान्याभ्रकं समादाय मुस्ताक्वाथैः पुटत्रयम् । (१३१।१)

abhramāraṇa (4)dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam |

131.2१३१.२

तद्वत्पुनर्नवानीरैः कासमर्दरसैस्तथा ॥ (१३१।२)

tadvatpunarnavānīraiḥ kāsamardarasaistathā ||

132.1१३२.१

नागवल्लीदलैः सर्पिःक्षीरैर्देयं पृथक् पृथक् । (१३२।१)

nāgavallīdalaiḥ sarpiḥkṣīrairdeyaṃ pṛthak pṛthak |

132.2१३२.२

दिने दिने मर्दयित्वा क्वाथैर्वटजटोद्भवैः ॥ (१३२।२)

dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ ||

133.1१३३.१

दत्त्वा पुटत्रयं पश्चात् त्रिपुटं मुसलीद्रवैः । (१३३।१)

dattvā puṭatrayaṃ paścāt tripuṭaṃ musalīdravaiḥ |

133.2१३३.२

त्रिर्गोक्षुरकषायेण त्रिः पुटेद् वानरीरसैः ॥ (१३३।२)

trirgokṣurakaṣāyeṇa triḥ puṭed vānarīrasaiḥ ||

134.1१३४.१

मोचाकन्दरसैः पाच्यं त्रिवारं कोकिलाक्षजैः । (१३४।१)

mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣajaiḥ |

134.2१३४.२

रसैः पुटेत्ततो धेनुक्षीरादेकं पुटं मृदु ॥ (१३४।२)

rasaiḥ puṭettato dhenukṣīrādekaṃ puṭaṃ mṛdu ||

135.1१३५.१

दध्ना घृतेन मधुना स्वच्छया सितया तथा । (१३५।१)

dadhnā ghṛtena madhunā svacchayā sitayā tathā |

135.2१३५.२

एकमेकं पुटं दद्यादभ्रस्यैवं मृतिर्भवेत् ॥ (१३५।२)

ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet ||

136.1१३६.१

अभ्रमारण (५)धान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य च । (१३६।१)

abhramāraṇa (5)dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca |

136.2१३६.२

पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् । (१३६।२)

piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet |

136.3१३६.३

स्वभावशीतलं चूर्णं सर्वरोगेषु योजयेत् ॥ (१३६।३)

svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet ||

137.1१३७.१

अभ्रगुणाःनिश्चन्द्रकं भजेत्तत्तु शुद्धदेहे रसायनम् । (१३७।१)

abhraguṇāḥniścandrakaṃ bhajettattu śuddhadehe rasāyanam |

137.2१३७.२

सचन्द्रं विषवज्ज्ञेयं मृत्युकृद्व्याघ्ररोमवत् ॥ (१३७।२)

sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat ||

138.1१३८.१

अभ्र:: अमृतीकरणवराम्बु गोघृतं चाभ्रं कलाषड्दिक्समांशकम् । (१३८।१)

abhra:: amṛtīkaraṇavarāmbu goghṛtaṃ cābhraṃ kalāṣaḍdiksamāṃśakam |

138.2१३८.२

मृद्वग्निना पचेल्लेह्यम् अमृतीकरणं त्विदम् ॥ (१३८।२)

mṛdvagninā pacellehyam amṛtīkaraṇaṃ tvidam ||

139.1१३९.१

वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाशूलामकोष्ठामयान् । (१३९।१)

vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakoṣṭhāmayān |

139.2१३९.२

आर्तिश्वासगदं प्रमेहमरुचिं कासामयं दुर्धरम् मन्दाग्निं जठरव्यथां विजयते खं हन्ति सर्वामयान् ॥ (१३९।२)

ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān ||

140.1१४०.१

गौरीतेजः परमममृतं वातपित्तक्षयघ्नं प्रज्ञाबोधि प्रशमितजरं वृष्यमायुष्यमग्र्यम् । (१४०।१)

gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnaṃ prajñābodhi praśamitajaraṃ vṛṣyamāyuṣyamagryam |

140.2१४०.२

बल्यं स्निग्धं रुचिदमकफं दीपनं शीतवीर्यं तत्तद्योगैः सकलगदहृद्व्योम सूतेन्द्रबन्धि ॥ (१४०।२)

balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi ||

141.1१४१.१

क्षाराम्लं विदलं कोलं कर्कटां कारवेल्लकम् । (१४१।१)

kṣārāmlaṃ vidalaṃ kolaṃ karkaṭāṃ kāravellakam |

141.2१४१.२

वृन्ताकं च करीरं च तैलं चाभ्रे विवर्जयेत् ॥ (१४१।२)

vṛntākaṃ ca karīraṃ ca tailaṃ cābhre vivarjayet ||

142.1१४२.१

अभ्रकं च निशायुक्तं पिप्पली मधुना सह । (१४२।१)

abhrakaṃ ca niśāyuktaṃ pippalī madhunā saha |

142.2१४२.२

विंशतिं च प्रमेहाणां नाशयेन्नात्र संशयः ॥ (१४२।२)

viṃśatiṃ ca pramehāṇāṃ nāśayennātra saṃśayaḥ ||

143.1१४३.१

अभ्रकं हेमसंयुक्तं क्षयरोगविनाशनम् । (१४३।१)

abhrakaṃ hemasaṃyuktaṃ kṣayarogavināśanam |

143.2१४३.२

रौप्यहेमाभ्रकं चैव धातुवृद्धिकरं परम् ॥ (१४३।२)

raupyahemābhrakaṃ caiva dhātuvṛddhikaraṃ param ||

144.1१४४.१

अभ्रकं च हरीतक्या गुडेन सह योजितम् । (१४४।१)

abhrakaṃ ca harītakyā guḍena saha yojitam |

144.2१४४.२

एलाशर्करया युक्तं रक्तपित्तविनाशनम् ॥ (१४४।२)

elāśarkarayā yuktaṃ raktapittavināśanam ||

145.1१४५.१

त्रिकटु त्रिफलां चैव चातुर्जातं सशर्करम् । (१४५।१)

trikaṭu triphalāṃ caiva cāturjātaṃ saśarkaram |

145.2१४५.२

मधुना लेहयेत्प्रातः क्षयार्शःपाण्डुनाशनम् ॥ (१४५।२)

madhunā lehayetprātaḥ kṣayārśaḥpāṇḍunāśanam ||

146.1१४६.१

गुडूचीसत्त्वखण्डाभ्यां मिश्रितं मेहनाशनम् । (१४६।१)

guḍūcīsattvakhaṇḍābhyāṃ miśritaṃ mehanāśanam |

146.2१४६.२

एलागोक्षुरभूधात्रीसितागव्येन मिश्रितम् ॥ (१४६।२)

elāgokṣurabhūdhātrīsitāgavyena miśritam ||

147.1१४७.१

प्रातः संसेवनान्नित्यं मेहकृच्छ्रनिवारणम् । (१४७।१)

prātaḥ saṃsevanānnityaṃ mehakṛcchranivāraṇam |

147.2१४७.२

पिप्पलीमधुसंयुक्तं भ्रमजीर्णज्वरापहम् ॥ (१४७।२)

pippalīmadhusaṃyuktaṃ bhramajīrṇajvarāpaham ||

148.1१४८.१

मधुत्रिफलया युक्तं दृष्टिपुष्टिकरं मतम् । (१४८।१)

madhutriphalayā yuktaṃ dṛṣṭipuṣṭikaraṃ matam |

148.2१४८.२

मूर्वासत्त्वयुतं व्योम व्रणानां च विनाशनम् ॥ (१४८।२)

mūrvāsattvayutaṃ vyoma vraṇānāṃ ca vināśanam ||

149.1१४९.१

गोक्षीरक्षीरकन्दाभ्यां बलवृद्धिकरं परम् । (१४९।१)

gokṣīrakṣīrakandābhyāṃ balavṛddhikaraṃ param |

149.2१४९.२

भल्लातकयुतं व्योम त्वर्शोदोषनिवारणम् ॥ (१४९।२)

bhallātakayutaṃ vyoma tvarśodoṣanivāraṇam ||

150.1१५०.१

नागरं पौष्करं भार्गी गगनं मधुना सह । (१५०।१)

nāgaraṃ pauṣkaraṃ bhārgī gaganaṃ madhunā saha |

150.2१५०.२

अश्वगन्धायुतं खादेद्वातव्याधिनिवारणम् ॥ (१५०।२)

aśvagandhāyutaṃ khādedvātavyādhinivāraṇam ||

151.1१५१.१

चातुर्जातं सिता चाभ्रं पित्तरोगनिवारणम् । (१५१।१)

cāturjātaṃ sitā cābhraṃ pittaroganivāraṇam |

151.2१५१.२

कट्फलं पिप्पली क्षौद्रं श्लेष्मरोगनिवारणम् ॥ (१५१।२)

kaṭphalaṃ pippalī kṣaudraṃ śleṣmaroganivāraṇam ||

152.1१५२.१

सर्वक्षारयुतं चाभ्रमग्निवृद्धिकरं परम् । (१५२।१)

sarvakṣārayutaṃ cābhramagnivṛddhikaraṃ param |

152.2१५२.२

मूत्राघातं मूत्रकृच्छ्रमश्मरीमपि नाशयेत् ॥ (१५२।२)

mūtrāghātaṃ mūtrakṛcchramaśmarīmapi nāśayet ||

153.1१५३.१

विजयारससंयुक्तं शुक्रस्तम्भकरं परम् । (१५३।१)

vijayārasasaṃyuktaṃ śukrastambhakaraṃ param |

153.2१५३.२

लवङ्गमधुसंयुक्तं धातुवृद्धिकरं परम् ॥ (१५३।२)

lavaṅgamadhusaṃyuktaṃ dhātuvṛddhikaraṃ param ||

154.1१५४.१

गोक्षीरं शर्करायुक्तं पित्तरोगविनाशनम् । (१५४।१)

gokṣīraṃ śarkarāyuktaṃ pittarogavināśanam |

154.2१५४.२

अभ्रकं विधिसंयुक्तं पथ्ययोगेन योजितम् ॥ (१५४।२)

abhrakaṃ vidhisaṃyuktaṃ pathyayogena yojitam ||

155.1१५५.१

वलीपलितनाशः स्याज्जीवेच्च शरदां शतम् । (१५५।१)

valīpalitanāśaḥ syājjīvecca śaradāṃ śatam |

155.2१५५.२

वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुसंग्रहणिकाशूलं च कुष्ठामयम् । (१५५।२)

vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍusaṃgrahaṇikāśūlaṃ ca kuṣṭhāmayam |

155.3१५५.३

सर्वश्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां परिहरेच्छ्लेष्मामयान् निश्चितम् ॥ (१५५।३)

sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam ||

156.0१५६.०

नातःपरतरं किंचिज्जरामृत्युविनाशनम् ॥ (१५६।०)

nātaḥparataraṃ kiṃcijjarāmṛtyuvināśanam ||

157.1१५७.१

स्वर्णमाक्षिकस्वर्णवर्णं गुरु स्निग्धमीषन् नीलच्छविच्छटम् । (१५७।१)

svarṇamākṣikasvarṇavarṇaṃ guru snigdhamīṣan nīlacchavicchaṭam |

157.2१५७.२

कषे कनकवद्घृष्टं तद्वरं हेममाक्षिकम् ॥ (१५७।२)

kaṣe kanakavadghṛṣṭaṃ tadvaraṃ hemamākṣikam ||

158.1१५८.१

अशुद्धं माक्षिकं कुर्यादान्ध्यं कुष्ठं क्षयं क्रिमीन् । (१५८।१)

aśuddhaṃ mākṣikaṃ kuryādāndhyaṃ kuṣṭhaṃ kṣayaṃ krimīn |

158.2१५८.२

शोधनीयं प्रयत्नेन तस्मात् कनकमाक्षिकम् ॥ (१५८।२)

śodhanīyaṃ prayatnena tasmāt kanakamākṣikam ||

159.1१५९.१

स्वर्णमाक्षिकशोधनत्रिभागं माक्षिकं ग्राह्यं चतुर्थांशेन सैन्धवम् । (१५९।१)

svarṇamākṣikaśodhanatribhāgaṃ mākṣikaṃ grāhyaṃ caturthāṃśena saindhavam |

159.2१५९.२

जम्बीरजरसैर् वापि बीजपूरद्रवैः पचेत् ॥ (१५९।२)

jambīrajarasair vāpi bījapūradravaiḥ pacet ||

160.1१६०.१

घर्षितं लोहपात्रे च याति पात्रं च रक्तताम् । (१६०।१)

gharṣitaṃ lohapātre ca yāti pātraṃ ca raktatām |

160.2१६०.२

ततः शुद्धत्वम् आयाति स्वर्णमाक्षिकम् ईदृशम् ॥ (१६०।२)

tataḥ śuddhatvam āyāti svarṇamākṣikam īdṛśam ||

161.1१६१.१

स्वर्णमाक्षिकशोधनएरण्डतैललुङ्गाम्बुसिद्धं शुध्यति माक्षिकम् । (१६१।१)

svarṇamākṣikaśodhanaeraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam |

161.2१६१.२

शुद्धं वा कदलीकन्दतोयेन घटिकाद्वयम् । (१६१।२)

śuddhaṃ vā kadalīkandatoyena ghaṭikādvayam |

161.3१६१.३

तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् ॥ (१६१।३)

taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam ||

162.1१६२.१

माक्षिकशोधनअगस्तिपत्रनिर्यासैः शिग्रुमूलं सुपेषितम् । (१६२।१)

mākṣikaśodhanaagastipatraniryāsaiḥ śigrumūlaṃ supeṣitam |

162.2१६२.२

तन्मध्ये पुटितं शुद्धं निम्बूजाम्लेन पाचितम् ॥ (१६२।२)

tanmadhye puṭitaṃ śuddhaṃ nimbūjāmlena pācitam ||

163.1१६३.१

माक्षिकमारणमाक्षिकस्य चतुर्थांशं दत्त्वा गन्धं विमर्दयेत् । (१६३।१)

mākṣikamāraṇamākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet |

163.2१६३.२

उरुबूकस्य तैलेन ततः कार्या सुचक्रिका ॥ (१६३।२)

urubūkasya tailena tataḥ kāryā sucakrikā ||

164.1१६४.१

शरावसंपुटे कृत्वा पुटेद्गजपुटेन च । (१६४।१)

śarāvasaṃpuṭe kṛtvā puṭedgajapuṭena ca |

164.2१६४.२

धान्यस्य तुषमूर्ध्वाधो दत्त्वा शीतं समुद्धरेत् । (१६४।२)

dhānyasya tuṣamūrdhvādho dattvā śītaṃ samuddharet |

164.3१६४.३

सिन्दूराभं भवेद्भस्म माक्षिकस्य न संशयः ॥ (१६४।३)

sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ ||

165.1१६५.१

माक्षिकमारण (२)अजामूत्रेऽथवा तैले कषाये वा कुलत्थजे । (१६५।१)

mākṣikamāraṇa (2)ajāmūtre'thavā taile kaṣāye vā kulatthaje |

165.2१६५.२

तक्रे वा घर्षितं पक्वं म्रियते स्वर्णमाक्षिकम् ॥ (१६५।२)

takre vā gharṣitaṃ pakvaṃ mriyate svarṇamākṣikam ||

166.1१६६.१

माक्षिकगुणाःमाक्षिकं तिक्तमधुरं मेहार्शःक्षयकुष्ठनुत् । (१६६।१)

mākṣikaguṇāḥmākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut |

166.2१६६.२

कफपित्तहरं शीतं योगवाहि रसायनम् ॥ (१६६।२)

kaphapittaharaṃ śītaṃ yogavāhi rasāyanam ||

167.1१६७.१

माक्षिको रजतहाटकप्रभः शोधितोऽतिगुणदः सुसेवितः । (१६७।१)

mākṣiko rajatahāṭakaprabhaḥ śodhito'tiguṇadaḥ susevitaḥ |

167.2१६७.२

मेहकुष्ठकृमिशोफपाण्डुतापस्मृतीर् हरति सोऽश्मरीं जयेत् ॥ (१६७।२)

mehakuṣṭhakṛmiśophapāṇḍutāpasmṛtīr harati so'śmarīṃ jayet ||

168.1१६८.१

मन्दानलत्वं बलहानिम् उग्रां विष्टम्भतामन्यगदांश्च दुष्टान् । (१६८।१)

mandānalatvaṃ balahānim ugrāṃ viṣṭambhatāmanyagadāṃśca duṣṭān |

168.2१६८.२

करोति मालां व्रणपूर्विकां च माक्षीकधातुर्गुरुरप्यपक्वः ॥ (१६८।२)

karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ ||

169.1१६९.१

माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः । (१६९।१)

mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ |

169.2१६९.२

दुर्मेललोहद्वयमेलकश्च गुणोत्तरः सर्वरसायनाग्र्यः ॥ (१६९।२)

durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ ||

170.1१७०.१

तारमाक्षिककांस्यवत्तारमाक्षीकं कषे घृष्टं तु रूप्यवत् । (१७०।१)

tāramākṣikakāṃsyavattāramākṣīkaṃ kaṣe ghṛṣṭaṃ tu rūpyavat |

170.2१७०.२

गुरु स्निग्धं सितं यत्तच्छ्रेष्ठं स्यात्तारमाक्षिकम् ॥ (१७०।२)

guru snigdhaṃ sitaṃ yattacchreṣṭhaṃ syāttāramākṣikam ||

171.1१७१.१

स्वर्णमाक्षिकवद् दोषा विज्ञेयास्तारमाक्षिके । (१७१।१)

svarṇamākṣikavad doṣā vijñeyāstāramākṣike |

171.2१७१.२

अतस्तद्दोषशान्त्यर्थं शोधनं कथ्यते यथा ॥ (१७१।२)

atastaddoṣaśāntyarthaṃ śodhanaṃ kathyate yathā ||

172.1१७२.१

तारमाक्षिकशोधनकर्कोटीमेषशृङ्गीजै रसैर्जम्बीरजैर्दिनम् । (१७२।१)

tāramākṣikaśodhanakarkoṭīmeṣaśṛṅgījai rasairjambīrajairdinam |

172.2१७२.२

आतपे भावना देया शुद्धं स्यात् तारमाक्षिकम् ॥ (१७२।२)

ātape bhāvanā deyā śuddhaṃ syāt tāramākṣikam ||

173.1१७३.१

तारमाक्षिकशोधनस्वर्णमाक्षिकवज्ज्ञेयं तारमाक्षिकमारणम् । (१७३।१)

tāramākṣikaśodhanasvarṇamākṣikavajjñeyaṃ tāramākṣikamāraṇam |

173.2१७३.२

विमलाया गुणाः किंचिन्न्यूनाः कनकमाक्षिकात् ॥ (१७३।२)

vimalāyā guṇāḥ kiṃcinnyūnāḥ kanakamākṣikāt ||

174.1१७४.१

तालकअशुद्धं तालमायुर्हृत् कफमारुतमेहकृत् । (१७४।१)

tālakaaśuddhaṃ tālamāyurhṛt kaphamārutamehakṛt |

174.2१७४.२

तापस्फोटाङ्गसङ्कोचान्कुरुते तेन शोधयेत् ॥ (१७४।२)

tāpasphoṭāṅgasaṅkocānkurute tena śodhayet ||

175.1१७५.१

तालकशोधनतालकं कणशः कृत्वा तच्चूर्णं काञ्जिके क्षिपेत् । (१७५।१)

tālakaśodhanatālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike kṣipet |

175.2१७५.२

दोलायन्त्रेण यामैकं पक्वं शुध्यति तालकम् ॥ (१७५।२)

dolāyantreṇa yāmaikaṃ pakvaṃ śudhyati tālakam ||

176.1१७६.१

तालकमारणसदलं तालकं शुद्धं पुनर्नव्या रसेन तु । (१७६।१)

tālakamāraṇasadalaṃ tālakaṃ śuddhaṃ punarnavyā rasena tu |

176.2१७६.२

खल्वे विमर्दयेदेकदिनं पश्चाद्विशोषयेत् ॥ (१७६।२)

khalve vimardayedekadinaṃ paścādviśoṣayet ||

177.1१७७.१

संशोष्य गोलकं तस्य कुर्यात्तच्च विशोषयेत् । (१७७।१)

saṃśoṣya golakaṃ tasya kuryāttacca viśoṣayet |

177.2१७७.२

ततः पुनर्नवाक्षारैः स्थाल्यर्धं तु प्रपूरयेत् ॥ (१७७।२)

tataḥ punarnavākṣāraiḥ sthālyardhaṃ tu prapūrayet ||

178.1१७८.१

तत्र तद्गोलकं धृत्वा पुनस्तेनैव पूरयेत् । (१७८।१)

tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet |

178.2१७८.२

आ कण्ठं पिठरं तस्य पिधानं धारयेन्मुखे ॥ (१७८।२)

ā kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe ||

179.1१७९.१

स्थालीं चुल्ल्यां समारोप्य क्रमाद्वह्निं विवर्धयेत् । (१७९।१)

sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet |

179.2१७९.२

दिनान्यन्तरशून्यानि पञ्च वह्निं प्रदीपयेत् ॥ (१७९।२)

dinānyantaraśūnyāni pañca vahniṃ pradīpayet ||

180.1१८०.१

एवं तु म्रियते तालं मात्रा तस्यैकरक्तिका । (१८०।१)

evaṃ tu mriyate tālaṃ mātrā tasyaikaraktikā |

180.2१८०.२

अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत् ॥ (१८०।२)

anupānānyanekāni yathāyogyaṃ prayojayet ||

181.1१८१.१

तालकगुणाःहरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् । (१८१।१)

tālakaguṇāḥharitālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam |

181.2१८१.२

कण्डूकुष्ठाख्यरोगास्रवातपित्तकफव्रणान् ॥ (१८१।२)

kaṇḍūkuṣṭhākhyarogāsravātapittakaphavraṇān ||

182.1१८२.१

तालकं हरते रोगान्कुष्ठं मृत्युजरापहम् । (१८२।१)

tālakaṃ harate rogānkuṣṭhaṃ mṛtyujarāpaham |

182.2१८२.२

शोधितं कुरुते वीर्यं कांतिं वृद्धिं तथायुषः ॥ (१८२।२)

śodhitaṃ kurute vīryaṃ kāṃtiṃ vṛddhiṃ tathāyuṣaḥ ||

183.1१८३.१

मनःशिलामनःशिला मन्दबलं करोति जन्तुं ध्रुवं शोधनम् अन्तरेण । (१८३।१)

manaḥśilāmanaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa |

183.2१८३.२

मलस्य बन्धं किल मूत्ररोगं सशर्करं कृच्छ्रगदं च कुर्यात् ॥ (१८३।२)

malasya bandhaṃ kila mūtrarogaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt ||

184.1१८४.१

मनःशिलाशोधनपचेत्त्र्यहम् अजामूत्रे दोलायन्त्रे मनःशिलाम् । (१८४।१)

manaḥśilāśodhanapacettryaham ajāmūtre dolāyantre manaḥśilām |

184.2१८४.२

भावयेत्सप्तधा मूत्रैरजायाः शुद्धिमृच्छति ॥ (१८४।२)

bhāvayetsaptadhā mūtrairajāyāḥ śuddhimṛcchati ||

185.1१८५.१

मनःशिलाशोधन (२)अगस्तिपत्रतोयेन भाविता सप्तवारकम् । (१८५।१)

manaḥśilāśodhana (2)agastipatratoyena bhāvitā saptavārakam |

185.2१८५.२

शृङ्गवेररसे वापि विशुध्यति मनःशिला ॥ (१८५।२)

śṛṅgaverarase vāpi viśudhyati manaḥśilā ||

186.1१८६.१

मनःशिलागुणाःमनःशिला गुरुर्वर्ण्या सरोष्णा लेखनी कटुः । (१८६।१)

manaḥśilāguṇāḥmanaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ |

186.2१८६.२

तिक्ता स्निग्धा विषश्वासकासभूतविषास्रनुत् ॥ (१८६।२)

tiktā snigdhā viṣaśvāsakāsabhūtaviṣāsranut ||

187.1१८७.१

स्रोतोञ्जनस्रोतोञ्जनं द्विधा प्रोक्तं श्वेतकृष्णप्रभेदतः । (१८७।१)

srotoñjanasrotoñjanaṃ dvidhā proktaṃ śvetakṛṣṇaprabhedataḥ |

187.2१८७.२

त्रिफलावारिणा स्वेद्यं तद्द्वयं शुद्धिमृच्छति ॥ (१८७।२)

triphalāvāriṇā svedyaṃ taddvayaṃ śuddhimṛcchati ||

188.1१८८.१

सौवीरं ग्राहि मधुरं चक्षुष्यं कफपित्तजित् । (१८८।१)

sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphapittajit |

188.2१८८.२

हिध्माक्षयास्रनुच्छीतं स्रोतोञ्जनमपीदृशम् ॥ (१८८।२)

hidhmākṣayāsranucchītaṃ srotoñjanamapīdṛśam ||

189.1१८९.१

तुत्थविष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः । (१८९।१)

tutthaviṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ |

189.2१८९.२

दशांशं टङ्कणं दत्त्वा पचेल्लघुपुटे ततः । (१८९।२)

daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ |

189.3१८९.३

पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थं विशुध्यति ॥ (१८९।३)

puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaṃ viśudhyati ||

190.1१९०.१

तुत्थशोधनओतोर्विशा समं तुत्थं सक्षौद्रं टङ्कणाङ्घ्रियुक् । (१९०।१)

tutthaśodhanaotorviśā samaṃ tutthaṃ sakṣaudraṃ ṭaṅkaṇāṅghriyuk |

190.2१९०.२

त्रिधैवं पुटितं शुद्धं वान्तिभ्रान्तिविवर्जितम् ॥ (१९०।२)

tridhaivaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam ||

191.1१९१.१

तुत्थकं कटुकं क्षारं कषायं विशदं लघु । (१९१।१)

tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu |

191.2१९१.२

लेखनं भेदि चक्षुष्यं कण्डूकृमिविषापहम् । (१९१।२)

lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham |

191.3१९१.३

कफास्रपित्तकुष्ठघ्नं मेहमेदोविनाशनम् ॥ (१९१।३)

kaphāsrapittakuṣṭhaghnaṃ mehamedovināśanam ||

192.1१९२.१

खर्परनृमूत्रे वाथ गोमूत्रे सप्ताहं रसकं पचेत् । (१९२।१)

kharparanṛmūtre vātha gomūtre saptāhaṃ rasakaṃ pacet |

192.2१९२.२

दोलायन्त्रेण शुद्धं स्यात्ततः कार्येषु योजयेत् ॥ (१९२।२)

dolāyantreṇa śuddhaṃ syāttataḥ kāryeṣu yojayet ||

193.1१९३.१

खर्परं कटुकं क्षारं कषायं वामकं लघु । (१९३।१)

kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu |

193.2१९३.२

लेखनं भेदनं शीतं चक्षुष्यं कफपित्तनुत् । (१९३।२)

lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittanut |

193.3१९३.३

विषास्रकुष्ठकण्डूनां नाशनं परमं मतम् ॥ (१९३।३)

viṣāsrakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam ||

194.1१९४.१

पारदरसो विप्रः सितो रक्तः क्षत्रियः पीत ऊरुजः । (१९४।१)

pāradaraso vipraḥ sito raktaḥ kṣatriyaḥ pīta ūrujaḥ |

194.2१९४.२

शूद्रः कृष्ण इति प्रोक्तो वर्णभेदाच्चतुर्विधः ॥ (१९४।२)

śūdraḥ kṛṣṇa iti prokto varṇabhedāccaturvidhaḥ ||

195.0१९५.०

ब्राह्मणः कल्प्यते कल्पे गुटिकायां च बाहुजः ॥ (१९५।०)

brāhmaṇaḥ kalpyate kalpe guṭikāyāṃ ca bāhujaḥ ||

196.0१९६.०

धातुवादे तथा वैश्यः शूद्रश्चेतरकर्मणि ॥ (१९६।०)

dhātuvāde tathā vaiśyaḥ śūdraścetarakarmaṇi ||

197.1१९७.१

अन्तः सुनीलो बहिरुज्ज्वलाङ्गो मध्याह्नचन्द्रप्रतिमप्रकाशः । (१९७।१)

antaḥ sunīlo bahirujjvalāṅgo madhyāhnacandrapratimaprakāśaḥ |

197.2१९७.२

शस्तोऽथ धूम्रः परिपाण्डुरश्च चित्रो न योज्यो रसकर्मसिद्ध्यै ॥ (१९७।२)

śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhyai ||

198.1१९८.१

रसदोषाःपूर्वैर् दोषा रसेन्द्रस्य ये च प्रोक्ता मनीषिभिः । (१९८।१)

rasadoṣāḥpūrvair doṣā rasendrasya ye ca proktā manīṣibhiḥ |

198.2१९८.२

अतस्तेषां प्रशान्त्यर्थं प्रोच्यते कर्म सांप्रतम् ॥ (१९८।२)

atasteṣāṃ praśāntyarthaṃ procyate karma sāṃpratam ||

199.1१९९.१

त्रिदोषमलशिखिविषनामानो रसस्य नैसर्गिकास्त्रयो दोषाः । (१९९।१)

tridoṣamalaśikhiviṣanāmāno rasasya naisargikāstrayo doṣāḥ |

199.2१९९.२

मूर्छां मलेन कुरुते शिखिना दाहं विषेण मृत्युं च ॥ (१९९।२)

mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca ||

200.1२००.१

मलेन मूर्छां दहनेन दाहं विषेण मृत्युं वितनोति सूतः । (२००।१)

malena mūrchāṃ dahanena dāhaṃ viṣeṇa mṛtyuṃ vitanoti sūtaḥ |

200.2२००.२

मलादिदोषत्रयमेतदत्र नैसर्गिकं शुद्धिमतोऽभिधास्ये ॥ (२००।२)

malādidoṣatrayametadatra naisargikaṃ śuddhimato'bhidhāsye ||

201.1२०१.१

रसकञ्चुकाःनागो वङ्गो मलो वह्निश्चाञ्चल्यं च गिरिर्विषम् । (२०१।१)

rasakañcukāḥnāgo vaṅgo malo vahniścāñcalyaṃ ca girirviṣam |

201.2२०१.२

पारदे कञ्चुका सप्त गुणा नैसर्गिका इमे ॥ (२०१।२)

pārade kañcukā sapta guṇā naisargikā ime ||

202.1२०२.१

रक्तेष्टिकानिशाधूमसारोर्णाभस्मचूर्णकैः । (२०२।१)

rakteṣṭikāniśādhūmasārorṇābhasmacūrṇakaiḥ |

202.2२०२.२

जम्बीरद्रवसंयुक्तैर् नागदोषापनुत्तये ॥ (२०२।२)

jambīradravasaṃyuktair nāgadoṣāpanuttaye ||

203.1२०३.१

विशालाङ्कोलमूलानां रजसा काञ्जिकेन च । (२०३।१)

viśālāṅkolamūlānāṃ rajasā kāñjikena ca |

203.2२०३.२

शनैःशनैः स्वहस्तेन वङ्गदोषविमुक्तये ॥ (२०३।२)

śanaiḥśanaiḥ svahastena vaṅgadoṣavimuktaye ||

204.1२०४.१

राजवृक्षस्य मूलोत्थचूर्णेन सह कन्यका । (२०४।१)

rājavṛkṣasya mūlotthacūrṇena saha kanyakā |

204.2२०४.२

मलदोषापनुत्त्यर्थं चित्रको वह्निदूषणम् ॥ (२०४।२)

maladoṣāpanuttyarthaṃ citrako vahnidūṣaṇam ||

205.1२०५.१

चाञ्चल्यं कृष्णधत्तूरो गिरिं हन्ति कटुत्रयम् । (२०५।१)

cāñcalyaṃ kṛṣṇadhattūro giriṃ hanti kaṭutrayam |

205.2२०५.२

त्रिफला विषनाशाय कन्यका सप्त कञ्चुकान् ॥ (२०५।२)

triphalā viṣanāśāya kanyakā sapta kañcukān ||

206.1२०६.१

अन्यप्रकारःआरग्वधो हन्ति मलं प्रयत्नात् कुमारिका सप्त हि कञ्चुकांश्च । (२०६।१)

anyaprakāraḥāragvadho hanti malaṃ prayatnāt kumārikā sapta hi kañcukāṃśca |

206.2२०६.२

अङ्कोलमूलं च विषं निहन्याद्रसस्य वह्निः किल पावकं च ॥ (२०६।२)

aṅkolamūlaṃ ca viṣaṃ nihanyādrasasya vahniḥ kila pāvakaṃ ca ||

207.1२०७.१

प्रत्येकं सप्तवारं च मर्दितः पारदो भवेत् । (२०७।१)

pratyekaṃ saptavāraṃ ca marditaḥ pārado bhavet |

207.2२०७.२

तदा विशुद्धतां याति सर्वयोगार्हितो भवेत् ॥ (२०७।२)

tadā viśuddhatāṃ yāti sarvayogārhito bhavet ||

208.1२०८.१

अन्यच्चकुमारित्रिफलाव्योषचित्रकं नैम्बुकं रसम् । (२०८।१)

anyaccakumāritriphalāvyoṣacitrakaṃ naimbukaṃ rasam |

208.2२०८.२

दिनैकं मर्दितं कृत्वा शुद्धो भवति पारदः ॥ (२०८।२)

dinaikaṃ marditaṃ kṛtvā śuddho bhavati pāradaḥ ||

209.1२०९.१

अन्यच्चआरनालेन चोष्णेन क्षालयेत्प्रतिमर्दनम् । (२०९।१)

anyaccaāranālena coṣṇena kṣālayetpratimardanam |

209.2२०९.२

रसं तत्र प्रयातं तु शोषयित्वाथ पातयेत् ॥ (२०९।२)

rasaṃ tatra prayātaṃ tu śoṣayitvātha pātayet ||

210.1२१०.१

गृहीत्वा प्रक्षिपेत् सूतं स्यादेवं पारदः शुचिः । (२१०।१)

gṛhītvā prakṣipet sūtaṃ syādevaṃ pāradaḥ śuciḥ |

210.2२१०.२

पारदात्षोडशांशं तु मिलित्वा सकलं भिषक् ॥ (२१०।२)

pāradātṣoḍaśāṃśaṃ tu militvā sakalaṃ bhiṣak ||

211.1२११.१

चूर्णं प्रदेयं च पलं मर्दने तप्तखल्वके । (२११।१)

cūrṇaṃ pradeyaṃ ca palaṃ mardane taptakhalvake |

211.2२११.२

तप्तखल्वअजाशकृत्तुषाग्निं च खनित्वा भूमिमावपेत् ॥ (२११।२)

taptakhalvaajāśakṛttuṣāgniṃ ca khanitvā bhūmimāvapet ||

212.1२१२.१

तस्योपरि स्थितं खल्वं तप्तखल्वं जगुर्बुधाः । (२१२।१)

tasyopari sthitaṃ khalvaṃ taptakhalvaṃ jagurbudhāḥ |

212.2२१२.२

एतन्मर्दनमाख्यातं खसंशुद्धये बुधैः ॥ (२१२।२)

etanmardanamākhyātaṃ khasaṃśuddhaye budhaiḥ ||

213.1२१३.१

मूर्छनत्र्यूषणं त्रिफला वन्ध्याकन्दक्षुद्राद्वयान्वितम् । (२१३।१)

mūrchanatryūṣaṇaṃ triphalā vandhyākandakṣudrādvayānvitam |

213.2२१३.२

चित्रकेण निशाक्षारकन्यार्ककनकद्रवैः ॥ (२१३।२)

citrakeṇa niśākṣārakanyārkakanakadravaiḥ ||

214.1२१४.१

सूतं कृतेन क्वाथेन वारान् सप्त विमर्दयेत् । (२१४।१)

sūtaṃ kṛtena kvāthena vārān sapta vimardayet |

214.2२१४.२

इत्थं स मूर्छितः सूतो जह्यात्सप्तापि कञ्चुकान् ॥ (२१४।२)

itthaṃ sa mūrchitaḥ sūto jahyātsaptāpi kañcukān ||

215.1२१५.१

उत्थापनतत उत्थापयेत्सूतमातपे निम्बुकार्दितम् । (२१५।१)

utthāpanatata utthāpayetsūtamātape nimbukārditam |

215.2२१५.२

उत्थापनं विशिष्टं तु चूर्णपातनयन्त्रके । (२१५।२)

utthāpanaṃ viśiṣṭaṃ tu cūrṇapātanayantrake |

215.3२१५.३

धृत्वाग्नावूर्ध्वभाण्डान्तं संग्रहेत्पारदः शुचिः ॥ (२१५।३)

dhṛtvāgnāvūrdhvabhāṇḍāntaṃ saṃgrahetpāradaḥ śuciḥ ||

216.1२१६.१

स्वेदनरसं चतुर्गुणे वस्त्रे रसोनकशरावके । (२१६।१)

svedanarasaṃ caturguṇe vastre rasonakaśarāvake |

216.2२१६.२

नियन्त्र्य दोलायन्त्रे तु प्रकल्प्य दिवसं पचेत् ॥ (२१६।२)

niyantrya dolāyantre tu prakalpya divasaṃ pacet ||

217.1२१७.१

सव्योषत्रिफलावह्निकन्याकल्के तुषाम्बुनि । (२१७।१)

savyoṣatriphalāvahnikanyākalke tuṣāmbuni |

217.2२१७.२

शेषदोषापनुत्त्यर्थम् इदं स्वेदनमीरितम् ॥ (२१७।२)

śeṣadoṣāpanuttyartham idaṃ svedanamīritam ||

218.1२१८.१

शोधनपलादूनस्य सूतस्य ह्यधिकस्य पलैः शतैः । (२१८।१)

śodhanapalādūnasya sūtasya hyadhikasya palaiḥ śataiḥ |

218.2२१८.२

न संस्कारः प्रकर्तव्यः संस्कारः स्यात्ततोऽपरः ॥ (२१८।२)

na saṃskāraḥ prakartavyaḥ saṃskāraḥ syāttato'paraḥ ||

219.1२१९.१

शुभेऽहनि प्रकर्तव्य आरम्भो रसशोधने । (२१९।१)

śubhe'hani prakartavya ārambho rasaśodhane |

219.2२१९.२

एकान्ते धामनि शुभे पुराभ्यर्च्यो हि भैरवः ॥ (२१९।२)

ekānte dhāmani śubhe purābhyarcyo hi bhairavaḥ ||

220.1२२०.१

गुणागुणाःसूतोऽशुद्धतया गुणं न कुरुते कुष्ठाग्निमान्द्यक्रिमीञ्छर्द्यरोचकजाड्यदाहमरणं धत्ते नृणां सेवनात् । (२२०।१)

guṇāguṇāḥsūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt |

220.2२२०.२

शुद्धः स्यात्सकलामयौघशमनो यो योगवाहो मृतो युक्त्या षड्गुणगन्धयुग्गदहरो योगेन धात्वादिभुक् ॥ (२२०।२)

śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk ||

221.1२२१.१

मूर्च्छार्तो गदहृत्तथैव खगतिं दत्ते निबद्धो ऽर्थदस् तद्भस्मामयवार्द्धकादिहरणं दृक्पुष्टिकान्तिप्रदम् । (२२१।१)

mūrcchārto gadahṛttathaiva khagatiṃ datte nibaddho 'rthadas tadbhasmāmayavārddhakādiharaṇaṃ dṛkpuṣṭikāntipradam |

221.2२२१.२

वृष्यं मृत्युविनाशनं बलकरं कान्ताजनानन्ददं शार्दूलातुलसत्त्वकृत् क्रमभुजां योगानुसारि स्फुटम् ॥ (२२१।२)

vṛṣyaṃ mṛtyuvināśanaṃ balakaraṃ kāntājanānandadaṃ śārdūlātulasattvakṛt kramabhujāṃ yogānusāri sphuṭam ||

222.1२२२.१

मूर्छां गतो यो हरते च रोगान्बद्धो यदा खेचरतामुपैति । (२२२।१)

mūrchāṃ gato yo harate ca rogānbaddho yadā khecaratāmupaiti |

222.2२२२.२

लीनो भवेत्सर्वसमृद्धिदायी विराजतेऽसौ नितरां रसेन्द्रः ॥ (२२२।२)

līno bhavetsarvasamṛddhidāyī virājate'sau nitarāṃ rasendraḥ ||

223.1२२३.१

मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति । (२२३।१)

mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati |

223.2२२३.२

अमरीकरोति हि मृतं कोऽन्यः करुणाकरः सूतात् ॥ (२२३।२)

amarīkaroti hi mṛtaṃ ko'nyaḥ karuṇākaraḥ sūtāt ||

224.1२२४.१

अर्थाः सहाया निखिलं च शास्त्रं हस्तक्रिया कर्मणि कौशलं च । (२२४।१)

arthāḥ sahāyā nikhilaṃ ca śāstraṃ hastakriyā karmaṇi kauśalaṃ ca |

224.2२२४.२

नित्योद्यमस्तत्परता च वह्निरेभिर्गुणैः सिध्यति सूतकेन्द्रः ॥ (२२४।२)

nityodyamastatparatā ca vahnirebhirguṇaiḥ sidhyati sūtakendraḥ ||

225.1२२५.१

अथवा दरदाकृष्टं स्विन्नं लवणाम्बुभाजि दोलायाम् । (२२५।१)

athavā daradākṛṣṭaṃ svinnaṃ lavaṇāmbubhāji dolāyām |

225.2२२५.२

रसमादाय यथेच्छं कर्तव्यस्तेन भैषजो योगः ॥ (२२५।२)

rasamādāya yathecchaṃ kartavyastena bhaiṣajo yogaḥ ||

226.1२२६.१

निम्बूरसेन सम्पिष्टं प्रहरं दरदं दृढम् । (२२६।१)

nimbūrasena sampiṣṭaṃ praharaṃ daradaṃ dṛḍham |

226.2२२६.२

ऊर्ध्वपातनयन्त्रेण संग्राह्यो निर्मलो रसः ॥ (२२६।२)

ūrdhvapātanayantreṇa saṃgrāhyo nirmalo rasaḥ ||

227.1२२७.१

रसस्य मुखकरणमथवा बिन्दुलीकीटैश्च रसो मर्द्यस्त्रिवासरम् । (२२७।१)

rasasya mukhakaraṇamathavā bindulīkīṭaiśca raso mardyastrivāsaram |

227.2२२७.२

लवणाम्लैर्मुखं तस्य जायते धातुभक्षकम् ॥ (२२७।२)

lavaṇāmlairmukhaṃ tasya jāyate dhātubhakṣakam ||

228.1२२८.१

सास्यो रसः स्यात्पटुशिग्रुतुत्थैः सराजिकैः शोषणकैस् त्रिरात्रम् । (२२८।१)

sāsyo rasaḥ syātpaṭuśigrututthaiḥ sarājikaiḥ śoṣaṇakais trirātram |

228.2२२८.२

पिष्टस्ततः स्विन्नतनुः सुवर्णमुख्यानयं खादति सर्वधातून् ॥ (२२८।२)

piṣṭastataḥ svinnatanuḥ suvarṇamukhyānayaṃ khādati sarvadhātūn ||

229.1२२९.१

षड्गुणगन्धकजारणम्तप्तखल्वे रसं क्षिप्त्वा अधश्चुल्ल्यास्तुषाग्निभिः । (२२९।१)

ṣaḍguṇagandhakajāraṇamtaptakhalve rasaṃ kṣiptvā adhaścullyāstuṣāgnibhiḥ |

229.2२२९.२

स्तोकं स्तोकं क्षिपेद्गन्धमेवं वै षड्गुणं चरेत् ॥ (२२९।२)

stokaṃ stokaṃ kṣipedgandhamevaṃ vai ṣaḍguṇaṃ caret ||

230.1२३०.१

मृत्कुण्डे निक्षिपेन्नीरं तन्मध्ये च शरावकम् । (२३०।१)

mṛtkuṇḍe nikṣipennīraṃ tanmadhye ca śarāvakam |

230.2२३०.२

महत्कुण्डपिधानाभं मध्ये मेखलया युतम् ॥ (२३०।२)

mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam ||

231.1२३१.१

क्षिप्त्वा च मेखलामध्ये संशुद्धं रसमुत्तमम् । (२३१।१)

kṣiptvā ca mekhalāmadhye saṃśuddhaṃ rasamuttamam |

231.2२३१.२

रसस्योपरि गन्धस्य रजो दद्यात्समांशकम् ॥ (२३१।२)

rasasyopari gandhasya rajo dadyātsamāṃśakam ||

232.1२३२.१

दत्त्वोपरि शरावं च भस्ममुद्रां प्रदापयेत् । (२३२।१)

dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet |

232.2२३२.२

तस्योपरि पुटं दद्याच्चतुर्भिर्गोमयोत्पलैः ॥ (२३२।२)

tasyopari puṭaṃ dadyāccaturbhirgomayotpalaiḥ ||

233.1२३३.१

एवं पुनः पुनर्गन्धं षड्गुणं जीर्यते बुधैः । (२३३।१)

evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jīryate budhaiḥ |

233.2२३३.२

गन्धे जीर्णे भवेत्सूतस्तीक्ष्णाग्निः सर्वकर्मसु ॥ (२३३।२)

gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu ||

234.1२३४.१

समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मनुत् । (२३४।१)

same gandhe tu rogaghno dviguṇe rājayakṣmanut |

234.2२३४.२

जीर्णे तु त्रिगुणे गन्धे कामिनीदर्पनाशनः ॥ (२३४।२)

jīrṇe tu triguṇe gandhe kāminīdarpanāśanaḥ ||

235.1२३५.१

चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः । (२३५।१)

caturguṇe tu tejasvī sarvaśāstraviśāradaḥ |

235.2२३५.२

भवेत्पञ्चगुणे सिद्धः षड्गुणे मृत्युनाशनः ॥ (२३५।२)

bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyunāśanaḥ ||

236.1२३६.१

दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् । (२३६।१)

dinamekaṃ rasendrasya yo dadāti hutāśanam |

236.2२३६.२

द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ॥ (२३६।२)

dravanti tasya pāpāni kurvannapi na lipyate ||

237.1२३७.१

रसबन्धनरम्भा वीरा स्नुही चैव क्षीरकञ्चुकिरेव च । (२३७।१)

rasabandhanarambhā vīrā snuhī caiva kṣīrakañcukireva ca |

237.2२३७.२

दिनारिश्चैव गोरम्भा मीनाक्षी काकमाचिका । (२३७।२)

dināriścaiva gorambhā mīnākṣī kākamācikā |

237.3२३७.३

एभिस्तु मर्दितः सूतः पुनर्जन्म न विद्यते ॥ (२३७।३)

ebhistu marditaḥ sūtaḥ punarjanma na vidyate ||

238.1२३८.१

रसबन्धन (२)पुष्पितमनोजमन्दिरमध्ये सूतो नियोजितो युक्त्या । (२३८।१)

rasabandhana (2)puṣpitamanojamandiramadhye sūto niyojito yuktyā |

238.2२३८.२

बद्धो भवति कियद्भिर्दिवसैः पुष्पप्रभावेण ॥ (२३८।२)

baddho bhavati kiyadbhirdivasaiḥ puṣpaprabhāveṇa ||

239.1२३९.१

रसबन्धन (३)भूलताशीवरीमूलं वारिणा मर्दयेद्दृढम् । (२३९।१)

rasabandhana (3)bhūlatāśīvarīmūlaṃ vāriṇā mardayeddṛḍham |

239.2२३९.२

तन्मूषां लेपयेन्मध्ये तन्मध्ये निक्षिपेद्रसम् ॥ (२३९।२)

tanmūṣāṃ lepayenmadhye tanmadhye nikṣipedrasam ||

240.1२४०.१

पञ्चटङ्कप्रमाणां तां मूषामङ्गारके क्षिपेत् । (२४०।१)

pañcaṭaṅkapramāṇāṃ tāṃ mūṣāmaṅgārake kṣipet |

240.2२४०.२

एवं बद्धो भवेत्सूतो मूषान्तःस्थो दृढो भवेत् ॥ (२४०।२)

evaṃ baddho bhavetsūto mūṣāntaḥstho dṛḍho bhavet ||

241.1२४१.१

मुखमध्यगतस् तिष्ठेन्मुखरोगविनाशनः । (२४१।१)

mukhamadhyagatas tiṣṭhenmukharogavināśanaḥ |

241.2२४१.२

शरीरे क्रमिते सूते जरापलितजिन्नरः ॥ (२४१।२)

śarīre kramite sūte jarāpalitajinnaraḥ ||

242.1२४२.१

स्तम्भयेच्छस्त्रसंघातं कामोत्पादनकारकः । (२४२।१)

stambhayecchastrasaṃghātaṃ kāmotpādanakārakaḥ |

242.2२४२.२

पुनर्नवं वयः कुर्यात् साधकानां न संशयः ॥ (२४२।२)

punarnavaṃ vayaḥ kuryāt sādhakānāṃ na saṃśayaḥ ||

243.1२४३.१

रसमारणअपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत् । (२४३।१)

rasamāraṇaapāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet |

243.2२४३.२

तत्संपुटे न्यसेत्सूतं मलयूदुग्धमिश्रितम् ॥ (२४३।२)

tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam ||

244.1२४४.१

द्रोणपुष्पीप्रसूनानि विडङ्गम् अरिमेदकः । (२४४।१)

droṇapuṣpīprasūnāni viḍaṅgam arimedakaḥ |

244.2२४४.२

एतच्चूर्णमधश्चोर्ध्वं दत्त्वा मुद्रां प्रदापयेत् ॥ (२४४।२)

etaccūrṇamadhaścordhvaṃ dattvā mudrāṃ pradāpayet ||

245.1२४५.१

तं गोलं मुद्रयेत्सम्यङ्मृन्मूषासंपुटे सुधीः । (२४५।१)

taṃ golaṃ mudrayetsamyaṅmṛnmūṣāsaṃpuṭe sudhīḥ |

245.2२४५.२

मुद्रां दत्त्वा शोषयित्वा ततो गजपुटे पचेत् । (२४५।२)

mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet |

245.3२४५.३

एवमेकपुटेनैव जायते सूतभस्मकम् ॥ (२४५।३)

evamekapuṭenaiva jāyate sūtabhasmakam ||

246.1२४६.१

रसमारण (२)शुद्धसूतं समं गन्धं वटक्षीरैर्विमर्दयेत् । (२४६।१)

rasamāraṇa (2)śuddhasūtaṃ samaṃ gandhaṃ vaṭakṣīrairvimardayet |

246.2२४६.२

पाचयेन्मृत्तिकापात्रे वटकाष्ठैर् विमर्दयेत् ॥ (२४६।२)

pācayenmṛttikāpātre vaṭakāṣṭhair vimardayet ||

247.1२४७.१

लघ्वग्निना दिनं पाच्यं भस्मसूतं भवेद्ध्रुवम् । (२४७।१)

laghvagninā dinaṃ pācyaṃ bhasmasūtaṃ bhaveddhruvam |

247.2२४७.२

द्विगुञ्जं पर्णखण्डेन पुष्टिम् अग्निं च वर्धयेत् ॥ (२४७।२)

dviguñjaṃ parṇakhaṇḍena puṣṭim agniṃ ca vardhayet ||

248.1२४८.१

रससिन्दूरपलद्वयं शुद्धरसं पलार्धं शुद्धगन्धकम् । (२४८।१)

rasasindūrapaladvayaṃ śuddharasaṃ palārdhaṃ śuddhagandhakam |

248.2२४८.२

कर्षार्धं नवसारं च जम्बीरेण विमर्दयेत् ॥ (२४८।२)

karṣārdhaṃ navasāraṃ ca jambīreṇa vimardayet ||

249.1२४९.१

काचकूप्यां क्षिपेच्चैव सप्तधा मृदकर्पटैः । (२४९।१)

kācakūpyāṃ kṣipeccaiva saptadhā mṛdakarpaṭaiḥ |

249.2२४९.२

विलेप्य काचकूपीं तामातपे शोषयेद्दृढम् ॥ (२४९।२)

vilepya kācakūpīṃ tāmātape śoṣayeddṛḍham ||

250.1२५०.१

छिद्रभाण्डे ततः कूपीं न्यसेत् सिकतयन्त्रके । (२५०।१)

chidrabhāṇḍe tataḥ kūpīṃ nyaset sikatayantrake |

250.2२५०.२

कूपिकां कण्ठमानेन पूरयेदिष्टवालुकाः ॥ (२५०।२)

kūpikāṃ kaṇṭhamānena pūrayediṣṭavālukāḥ ||

251.1२५१.१

पञ्च पूज्याः कुमार्यश्च ततश्चुल्ल्यां विनिक्षिपेत् । (२५१।१)

pañca pūjyāḥ kumāryaśca tataścullyāṃ vinikṣipet |

251.2२५१.२

पचेद्यामाष्टकं चैव कूपिकां च क्षणे क्षणे ॥ (२५१।२)

pacedyāmāṣṭakaṃ caiva kūpikāṃ ca kṣaṇe kṣaṇe ||

252.1२५२.१

संशोध्य पाचयेद्यन्त्रे स्वाङ्गशीतं समुद्धरेत् । (२५२।१)

saṃśodhya pācayedyantre svāṅgaśītaṃ samuddharet |

252.2२५२.२

ग्राह्यं च दरदाकारं देवदानवदुर्लभम् ॥ (२५२।२)

grāhyaṃ ca daradākāraṃ devadānavadurlabham ||

253.1२५३.१

सेवयेद् रोगनाशाय तत्तद्रोगानुपानतः । (२५३।१)

sevayed roganāśāya tattadrogānupānataḥ |

253.2२५३.२

वल्लं वा वल्लयुग्मं वा कणया मधुना सह ॥ (२५३।२)

vallaṃ vā vallayugmaṃ vā kaṇayā madhunā saha ||

254.1२५४.१

सेवितं कामिनीकामं दर्शयेद्रतिकौतुकम् । (२५४।१)

sevitaṃ kāminīkāmaṃ darśayedratikautukam |

254.2२५४.२

वीर्यबन्धकरं शीघ्रं योषामदविनाशनम् ॥ (२५४।२)

vīryabandhakaraṃ śīghraṃ yoṣāmadavināśanam ||

255.1२५५.१

सिन्दूरं हरवीर्यसंभवमिदं रूक्षाग्निमान्द्यापहं यक्ष्मादिक्षयपाण्डुशोफमुदरं गुल्मप्रमेहापहम् । (२५५।१)

sindūraṃ haravīryasaṃbhavamidaṃ rūkṣāgnimāndyāpahaṃ yakṣmādikṣayapāṇḍuśophamudaraṃ gulmapramehāpaham |

255.2२५५.२

शूलप्लीहविनाशनं ज्वरहरं दुष्टव्रणान् नाशयेद् अर्शांसि ग्रहणीभगन्दरहरं छर्दित्रिदोषापहम् ॥ (२५५।२)

śūlaplīhavināśanaṃ jvaraharaṃ duṣṭavraṇān nāśayed arśāṃsi grahaṇībhagandaraharaṃ charditridoṣāpaham ||

256.1२५६.१

रससिन्दूर (२)सूतः पञ्चपलः स्वदोषरहितस्तत्तुल्यभागो बलिर् द्वौ चैतौ नवसारपादकलितौ संमर्द्य कूप्यां न्यसेत् । (२५६।१)

rasasindūra (2)sūtaḥ pañcapalaḥ svadoṣarahitastattulyabhāgo balir dvau caitau navasārapādakalitau saṃmardya kūpyāṃ nyaset |

256.2२५६.२

तां यन्त्रे सिकताख्यके तलबिले पक्त्वार्कयामं हिमं भित्त्वा कुङ्कुमपिञ्जरं रसवरं भस्माददेद् वैद्यराट् ॥ (२५६।२)

tāṃ yantre sikatākhyake talabile paktvārkayāmaṃ himaṃ bhittvā kuṅkumapiñjaraṃ rasavaraṃ bhasmādaded vaidyarāṭ ||

257.1२५७.१

वाते सक्षौद्रपिप्पल्यपि च कफरुजि त्र्यूषणं साग्निचूर्णं पित्ते सैला सिता स्याद् व्रणवति बृहतीनागरार्द्रामृताम्बु । (२५७।१)

vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu |

257.2२५७.२

पुष्टौ साज्यत्रियामा हरनयनफला शाल्मलीपुष्पवृन्तं किंवा कान्ताललाटाभरणरसपतेः स्याद् अनुपानमेतत् ॥ (२५७।२)

puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat ||

258.1२५८.१

रससिन्दूर (३)भागो रसस्य त्रय एव भागा गन्धस्य माषः पवनाशनस्य । (२५८।१)

rasasindūra (3)bhāgo rasasya traya eva bhāgā gandhasya māṣaḥ pavanāśanasya |

258.2२५८.२

संमर्द्य गाढं सकलं सुभाण्डे तां कज्जलीं काचकृते निदध्यात् ॥ (२५८।२)

saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte nidadhyāt ||

259.1२५९.१

संरुध्य मृत्कर्पटकैर्वटीनां मुखे सचूर्णां गुटिकां च दत्त्वा । (२५९।१)

saṃrudhya mṛtkarpaṭakairvaṭīnāṃ mukhe sacūrṇāṃ guṭikāṃ ca dattvā |

259.2२५९.२

क्रमाग्निना त्रीणि दिनानि पक्त्वा तां वालुकायन्त्रगतां ततः स्यात् ॥ (२५९।२)

kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt ||

260.1२६०.१

बन्धूकपुष्पारुणमीशजस्य भस्म प्रयोज्यं च किलामयेषु । (२६०।१)

bandhūkapuṣpāruṇamīśajasya bhasma prayojyaṃ ca kilāmayeṣu |

260.2२६०.२

निजानुपानैर्मरणं जरां च हन्त्यस्य वल्लः क्रमसेवनेन ॥ (२६०।२)

nijānupānairmaraṇaṃ jarāṃ ca hantyasya vallaḥ kramasevanena ||

261.1२६१.१

अपहरति रोगवृन्दं द्रढयति कायं महद्बलं कुरुते । (२६१।१)

apaharati rogavṛndaṃ draḍhayati kāyaṃ mahadbalaṃ kurute |

261.2२६१.२

शुक्रशतानि च सूते सिन्दूराख्यो रसः पुंसाम् ॥ (२६१।२)

śukraśatāni ca sūte sindūrākhyo rasaḥ puṃsām ||

262.1२६२.१

निखिलक्षयभक्षणदक्षतरं व्रणकुष्ठभगंदरमेहहरम् । (२६२।१)

nikhilakṣayabhakṣaṇadakṣataraṃ vraṇakuṣṭhabhagaṃdaramehaharam |

262.2२६२.२

बलदीधितिशुक्रसमृद्धिकरं रसभस्म समस्तगदापहरम् ॥ (२६२।२)

baladīdhitiśukrasamṛddhikaraṃ rasabhasma samastagadāpaharam ||

263.1२६३.१

रससिन्दूर (४)पलमात्रं रसं शुद्धं तावन्मात्रं तु गन्धकम् । (२६३।१)

rasasindūra (4)palamātraṃ rasaṃ śuddhaṃ tāvanmātraṃ tu gandhakam |

263.2२६३.२

विधिवत् कज्जलीं कृत्वा न्यग्रोधाङ्कुरवारिणा ॥ (२६३।२)

vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāriṇā ||

264.1२६४.१

भावनात्रितयं दत्त्वा स्थालीमध्ये निधापयेत् । (२६४।१)

bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet |

264.2२६४.२

विधाय काच्छपं यन्त्रं वालुकाभिः प्रपूरयेत् ॥ (२६४।२)

vidhāya kācchapaṃ yantraṃ vālukābhiḥ prapūrayet ||

265.1२६५.१

दद्यात्तदनु मन्दाग्निं भिषग्यामचतुष्टयम् । (२६५।१)

dadyāttadanu mandāgniṃ bhiṣagyāmacatuṣṭayam |

265.2२६५.२

जायते रससिन्दूरं तरुणारुणसंनिभम् ॥ (२६५।२)

jāyate rasasindūraṃ taruṇāruṇasaṃnibham ||

266.1२६६.१

अनुपानविशेषेण करोति विविधान्गुणान् । (२६६।१)

anupānaviśeṣeṇa karoti vividhānguṇān |

266.2२६६.२

क्षयकुष्ठमरुत्प्लीहमेहघ्नं पाण्डुनाशनम् ॥ (२६६।२)

kṣayakuṣṭhamarutplīhamehaghnaṃ pāṇḍunāśanam ||

267.1२६७.१

अथ विशिष्टानुपानानियथा जलगतं तैलं तत्क्षणादेव सर्पति । (२६७।१)

atha viśiṣṭānupānāniyathā jalagataṃ tailaṃ tatkṣaṇādeva sarpati |

267.2२६७.२

एवमौषधम् अङ्गेषु प्रसर्पत्यनुपानतः ॥ (२६७।२)

evamauṣadham aṅgeṣu prasarpatyanupānataḥ ||

268.1२६८.१

पिप्पली मधुना सार्धं वातमेहं हिनस्ति च । (२६८।१)

pippalī madhunā sārdhaṃ vātamehaṃ hinasti ca |

268.2२६८.२

त्रिफला शर्करासार्धं पित्तमेहहरा स्मृता ॥ (२६८।२)

triphalā śarkarāsārdhaṃ pittamehaharā smṛtā ||

269.1२६९.१

पिप्पली मरिचं शुण्ठी भार्गी च मधुना सह । (२६९।१)

pippalī maricaṃ śuṇṭhī bhārgī ca madhunā saha |

269.2२६९.२

कासश्वासप्रशमनः शूलस्य च विनाशनः ॥ (२६९।२)

kāsaśvāsapraśamanaḥ śūlasya ca vināśanaḥ ||

270.1२७०.१

हरिद्रा शर्करासार्धं रुधिरस्य विकारनुत् । (२७०।१)

haridrā śarkarāsārdhaṃ rudhirasya vikāranut |

270.2२७०.२

त्र्यूषणं त्रिफला वासा कामलापाण्डुमान्द्यहृत् ॥ (२७०।२)

tryūṣaṇaṃ triphalā vāsā kāmalāpāṇḍumāndyahṛt ||

271.1२७१.१

पिप्पली चित्रकं पथ्या तथा सौवर्चलं क्षिपेत् । (२७१।१)

pippalī citrakaṃ pathyā tathā sauvarcalaṃ kṣipet |

271.2२७१.२

अग्निमान्द्यबद्धकोष्ठहृद्व्यथानाशनं परम् ॥ (२७१।२)

agnimāndyabaddhakoṣṭhahṛdvyathānāśanaṃ param ||

272.1२७२.१

शिलाजतु तथैला च सितोपलसमन्वितम् । (२७२।१)

śilājatu tathailā ca sitopalasamanvitam |

272.2२७२.२

मूत्रकृच्छ्रे प्रशस्तोऽयं सत्यं नागार्जुनोदितम् ॥ (२७२।२)

mūtrakṛcchre praśasto'yaṃ satyaṃ nāgārjunoditam ||

273.1२७३.१

लवङ्गं कुङ्कुमं पत्री हिङ्गुलं करहाटिका । (२७३।१)

lavaṅgaṃ kuṅkumaṃ patrī hiṅgulaṃ karahāṭikā |

273.2२७३.२

पिप्पली विजया चैव समानीमानि कारयेत् ॥ (२७३।२)

pippalī vijayā caiva samānīmāni kārayet ||

274.1२७४.१

कर्पूरादहिफेनाच्च नागाद् भागार्धकं क्षिपेत् । (२७४।१)

karpūrādahiphenācca nāgād bhāgārdhakaṃ kṣipet |

274.2२७४.२

सर्वमेकत्र संमर्द्य धातुवृद्धौ प्रदापयेत् ॥ (२७४।२)

sarvamekatra saṃmardya dhātuvṛddhau pradāpayet ||

275.1२७५.१

सौवर्चलं लवङ्गं च भूनिम्बश्च हरीतकी । (२७५।१)

sauvarcalaṃ lavaṅgaṃ ca bhūnimbaśca harītakī |

275.2२७५.२

अस्यानुपानयोगेन सर्वज्वरविनाशनः ॥ (२७५।२)

asyānupānayogena sarvajvaravināśanaḥ ||

276.1२७६.१

तथा रेचकरः प्रोक्तः सौवर्चलफलत्रिकात् । (२७६।१)

tathā recakaraḥ proktaḥ sauvarcalaphalatrikāt |

276.2२७६.२

लवङ्गं कुङ्कुमं चैव दरदेन च संयुतः ॥ (२७६।२)

lavaṅgaṃ kuṅkumaṃ caiva daradena ca saṃyutaḥ ||

277.1२७७.१

ताम्बूलेन समं भक्ष्यो धातुवृद्धिकरः परः । (२७७।१)

tāmbūlena samaṃ bhakṣyo dhātuvṛddhikaraḥ paraḥ |

277.2२७७.२

विदारीचूर्णयोगेन धातुवृद्धिकरो मतः । (२७७।२)

vidārīcūrṇayogena dhātuvṛddhikaro mataḥ |

277.3२७७.३

विजयादीप्यसंयुक्तो वमनस्य विकारनुत् ॥ (२७७।३)

vijayādīpyasaṃyukto vamanasya vikāranut ||

278.1२७८.१

सौवर्चलं हरिद्रा च विजया दीप्यकस्तथा । (२७८।१)

sauvarcalaṃ haridrā ca vijayā dīpyakastathā |

278.2२७८.२

अनेनोदरपीडां च सद्योजातां विनाशयेत् ॥ (२७८।२)

anenodarapīḍāṃ ca sadyojātāṃ vināśayet ||

279.1२७९.१

चतुर्वल्लं पलाशस्य बीजाच्च द्विगुणं गुडात् । (२७९।१)

caturvallaṃ palāśasya bījācca dviguṇaṃ guḍāt |

279.2२७९.२

अस्यानुपानयोगेन कृमिदोषविनाशनः ॥ (२७९।२)

asyānupānayogena kṛmidoṣavināśanaḥ ||

280.1२८०.१

अहिफेनं लवङ्गं च दरदं विजया तथा । (२८०।१)

ahiphenaṃ lavaṅgaṃ ca daradaṃ vijayā tathā |

280.2२८०.२

अस्यानुपानतः सद्यः सर्वातीसारनाशनः ॥ (२८०।२)

asyānupānataḥ sadyaḥ sarvātīsāranāśanaḥ ||

281.1२८१.१

सौवर्चलेन दीप्येन चाग्निमान्द्यहरः परः । (२८१।१)

sauvarcalena dīpyena cāgnimāndyaharaḥ paraḥ |

281.2२८१.२

क्षुद्बोधजनकश्चैव सिद्धनागेश्वरोदितम् ॥ (२८१।२)

kṣudbodhajanakaścaiva siddhanāgeśvaroditam ||

282.1२८२.१

गुडूचीसत्त्वयोगेन सर्वपुष्टिकरः स्मृतः । (२८२।१)

guḍūcīsattvayogena sarvapuṣṭikaraḥ smṛtaḥ |

282.2२८२.२

युक्तानुपानसहितः सर्वान्रोगान्विनाशयेत् ॥ (२८२।२)

yuktānupānasahitaḥ sarvānrogānvināśayet ||

283.1२८३.१

रसेन्द्रस्य पथ्यापथ्यानिसैन्धवामृतधान्याकजीरकार्द्रकसंयुतम् । (२८३।१)

rasendrasya pathyāpathyānisaindhavāmṛtadhānyākajīrakārdrakasaṃyutam |

283.2२८३.२

तण्डुलीयकवार्ताकपटोलं लाजसाधितम् ॥ (२८३।२)

taṇḍulīyakavārtākapaṭolaṃ lājasādhitam ||

284.1२८४.१

गोधूमजीर्णशाल्यन्नं गव्यं क्षीरं घृतं दधि । (२८४।१)

godhūmajīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi |

284.2२८४.२

हंसोदकं मुद्गरसं रसेन्द्रे च हितं विदुः ॥ (२८४।२)

haṃsodakaṃ mudgarasaṃ rasendre ca hitaṃ viduḥ ||

285.1२८५.१

अभ्यङ्गं मलिने योज्यं तैलैर्नारायणादिभिः । (२८५।१)

abhyaṅgaṃ maline yojyaṃ tailairnārāyaṇādibhiḥ |

285.2२८५.२

अबलाशीततोयेन मस्तके परिषेचयेत् ॥ (२८५।२)

abalāśītatoyena mastake pariṣecayet ||

286.1२८६.१

तृष्णायां नारिकेलाम्बु मुद्गयूषं सशर्करम् । (२८६।१)

tṛṣṇāyāṃ nārikelāmbu mudgayūṣaṃ saśarkaram |

286.2२८६.२

द्राक्षादाडिमखर्जूरकदलीनां फलं भजेत् ॥ (२८६।२)

drākṣādāḍimakharjūrakadalīnāṃ phalaṃ bhajet ||

287.1२८७.१

बृहतीबिल्वकूष्माण्डं वंशाग्रं कारवेल्लकम् । (२८७।१)

bṛhatībilvakūṣmāṇḍaṃ vaṃśāgraṃ kāravellakam |

287.2२८७.२

माषान्मसूरनिष्पावं कुलत्थांल्लवणं तिलान् ॥ (२८७।२)

māṣānmasūraniṣpāvaṃ kulatthāṃllavaṇaṃ tilān ||

288.1२८८.१

लङ्घनोद्वर्तनं स्नानं ताम्रभाण्डं सुरासवम् । (२८८।१)

laṅghanodvartanaṃ snānaṃ tāmrabhāṇḍaṃ surāsavam |

288.2२८८.२

अनूपमांसं धान्याम्लं भोजनं कदलीदले ॥ (२८८।२)

anūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale ||

289.1२८९.१

कांस्यके गुरु विष्टम्भि तीक्ष्णं चोष्णं भृशं तथा । (२८९।१)

kāṃsyake guru viṣṭambhi tīkṣṇaṃ coṣṇaṃ bhṛśaṃ tathā |

289.2२८९.२

अपथ्यं सूतराजस्य पुरा प्रोक्तं महर्षिभिः ॥ (२८९।२)

apathyaṃ sūtarājasya purā proktaṃ maharṣibhiḥ ||

290.1२९०.१

कूष्माण्डं कर्कटी कोलं कलिङ्गं करमर्दकम् । (२९०।१)

kūṣmāṇḍaṃ karkaṭī kolaṃ kaliṅgaṃ karamardakam |

290.2२९०.२

करीरं चेति षट्कादीन्रसभुग्वर्जयेज्जनः ॥ (२९०।२)

karīraṃ ceti ṣaṭkādīnrasabhugvarjayejjanaḥ ||

291.1२९१.१

गन्धकचतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः । (२९१।१)

gandhakacaturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ |

291.2२९१.२

रक्तो हेमक्रियासूक्तः पीतश्चैव रसायने । (२९१।२)

rakto hemakriyāsūktaḥ pītaścaiva rasāyane |

291.3२९१.३

व्रणादिलेपने श्वेतः श्रेष्ठः कृष्णः सुदुर्लभः ॥ (२९१।३)

vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ ||

292.1२९२.१

सदुग्धभाण्डस्य पटस्थितोऽयं शुद्धो भवेत्कूर्मपुटेन गन्धः । (२९२।१)

sadugdhabhāṇḍasya paṭasthito'yaṃ śuddho bhavetkūrmapuṭena gandhaḥ |

292.2२९२.२

आभ्यां कृता कज्जलिकानुपानैः सर्वामयघ्नी रसगन्धकाभ्याम् ॥ (२९२।२)

ābhyāṃ kṛtā kajjalikānupānaiḥ sarvāmayaghnī rasagandhakābhyām ||

293.1२९३.१

गन्धकः कटुकस्तिक्तो वीर्योष्णस् तुवरः सरः । (२९३।१)

gandhakaḥ kaṭukastikto vīryoṣṇas tuvaraḥ saraḥ |

293.2२९३.२

पित्तलः कटुकः पाके कण्डूविसर्पजन्तुजित् ॥ (२९३।२)

pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpajantujit ||

294.1२९४.१

हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनम् । (२९४।१)

hanti kuṣṭhakṣayaplīhakaphavātān rasāyanam |

294.2२९४.२

अशोधितो गन्ध एष कुष्ठसंतापकारकः । (२९४।२)

aśodhito gandha eṣa kuṣṭhasaṃtāpakārakaḥ |

294.3२९४.३

शुक्रौजःक्षयम् आबल्यं करोति च रुचिप्रणुत् ॥ (२९४।३)

śukraujaḥkṣayam ābalyaṃ karoti ca rucipraṇut ||

295.1२९५.१

हिङ्गुलदरदस्त्रिविधः प्रोक्तश्चर्मारः शुकतुण्डकः । (२९५।१)

hiṅguladaradastrividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ |

295.2२९५.२

हंसपादस् तृतीयस्तु गुणवानुत्तरोत्तरम् ॥ (२९५।२)

haṃsapādas tṛtīyastu guṇavānuttarottaram ||

296.1२९६.१

चर्मारस्त्वतिरक्तः स्यात् किंचित् पीतः शुकास्यकः । (२९६।१)

carmārastvatiraktaḥ syāt kiṃcit pītaḥ śukāsyakaḥ |

296.2२९६.२

श्वेतरेखः प्रवालाभो हंसपादः स उच्यते ॥ (२९६।२)

śvetarekhaḥ pravālābho haṃsapādaḥ sa ucyate ||

297.1२९७.१

अशुद्धो दरदः कुर्याद् आन्ध्यं क्षैण्यं क्लमं भ्रमम् । (२९७।१)

aśuddho daradaḥ kuryād āndhyaṃ kṣaiṇyaṃ klamaṃ bhramam |

297.2२९७.२

मोहं मेहं च संशोध्यः क्रमाद्वैद्यैस्तु हिङ्गुलः ॥ (२९७।२)

mohaṃ mehaṃ ca saṃśodhyaḥ kramādvaidyaistu hiṅgulaḥ ||

298.1२९८.१

मेषाक्षीरेण दरदमम्लवर्गैश्च भावितम् । (२९८।१)

meṣākṣīreṇa daradamamlavargaiśca bhāvitam |

298.2२९८.२

सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ (२९८।२)

saptavāraṃ prayatnena śuddhimāyāti niścitam ||

299.1२९९.१

हिङ्गुलमारणवल्लमात्रं तालपिष्टं शरावे स्थापयेत्ततः । (२९९।१)

hiṅgulamāraṇavallamātraṃ tālapiṣṭaṃ śarāve sthāpayettataḥ |

299.2२९९.२

तस्मिन्कर्षसमं देयं शकलं दरदस्य च ॥ (२९९।२)

tasminkarṣasamaṃ deyaṃ śakalaṃ daradasya ca ||

300.1३००.१

पूरयेद् आर्द्रकरसं द्विगुणं तत्र बुद्धिमान् । (३००।१)

pūrayed ārdrakarasaṃ dviguṇaṃ tatra buddhimān |

300.2३००.२

पुष्पाणि माषमात्राणि परितः स्थापयेत्ततः ॥ (३००।२)

puṣpāṇi māṣamātrāṇi paritaḥ sthāpayettataḥ ||

301.1३०१.१

शरावसंपुटं दत्त्वा चुल्ल्यां मध्याग्निना पचेत् । (३०१।१)

śarāvasaṃpuṭaṃ dattvā cullyāṃ madhyāgninā pacet |

301.2३०१.२

घटिकात्रयपर्यन्तं तत उत्तार्य पेषयेत् ॥ (३०१।२)

ghaṭikātrayaparyantaṃ tata uttārya peṣayet ||

302.1३०२.१

ताम्बूले गुञ्जमात्रं तु देयं पुष्टिकरं मतम् । (३०२।१)

tāmbūle guñjamātraṃ tu deyaṃ puṣṭikaraṃ matam |

302.2३०२.२

पाण्डौ क्षये च शूले च सर्वरोगेषु योजयेत् ॥ (३०२।२)

pāṇḍau kṣaye ca śūle ca sarvarogeṣu yojayet ||

303.1३०३.१

वज्रशोधनव्याघ्रीकन्दगतं वज्रं दोलायन्त्रेण पाचयेत् । (३०३।१)

vajraśodhanavyāghrīkandagataṃ vajraṃ dolāyantreṇa pācayet |

303.2३०३.२

सप्ताहं कोद्रवक्वाथैः कुलिशं विमलं भवेत् ॥ (३०३।२)

saptāhaṃ kodravakvāthaiḥ kuliśaṃ vimalaṃ bhavet ||

304.1३०४.१

वज्रमारणत्रिवर्षारूढकार्पासीमूलमादाय पेषयेत् । (३०४।१)

vajramāraṇatrivarṣārūḍhakārpāsīmūlamādāya peṣayet |

304.2३०४.२

त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ॥ (३०४।२)

trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet ||

305.1३०५.१

तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् । (३०५।१)

tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet |

305.2३०५.२

एवं सप्तपुटैर्नूनं कुलिशं मृतिमृच्छति ॥ (३०५।२)

evaṃ saptapuṭairnūnaṃ kuliśaṃ mṛtimṛcchati ||

306.1३०६.१

वज्रमारण (२)त्रिःसप्तकृत्वः संतप्तं खरमूत्रेण सेचितम् । (३०६।१)

vajramāraṇa (2)triḥsaptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secitam |

306.2३०६.२

मत्कुणैस्तालकं पिष्ट्वा तद्गोले कुलिशं क्षिपेत् ॥ (३०६।२)

matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet ||

307.1३०७.१

प्रध्मातं वाजिमूत्रेण सिक्तं पूर्वक्रमेण वै । (३०७।१)

pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai |

307.2३०७.२

भस्मीभवति तद्वज्रं शङ्खशीतांशुसुन्दरम् ॥ (३०७।२)

bhasmībhavati tadvajraṃ śaṅkhaśītāṃśusundaram ||

308.1३०८.१

वज्रमारण (३)हिङ्गुसैन्धवसंयुक्तक्वाथे कौलत्थजे क्षिपेत् । (३०८।१)

vajramāraṇa (3)hiṅgusaindhavasaṃyuktakvāthe kaulatthaje kṣipet |

308.2३०८.२

तप्तं तप्तं पुनर्वज्रं भूयाच्चूर्णं त्रिसप्तधा ॥ (३०८।२)

taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā ||

309.1३०९.१

मण्डूकं कांस्यजे पात्रे निगृह्य स्थापयेत् सुधीः । (३०९।१)

maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ |

309.2३०९.२

स भीतो मूत्रयेत्तत्र तन्मूत्रे वज्रमावपेत् । (३०९।२)

sa bhīto mūtrayettatra tanmūtre vajramāvapet |

309.3३०९.३

तप्तं तप्तं च बहुधा वज्रस्यैवं मृतिर्भवेत् ॥ (३०९।३)

taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet ||

310.1३१०.१

वज्रं समीरकफपित्तगदान् निहन्ति वज्रोपमं च कुरुते वपुर् उत्तमश्रि । (३१०।१)

vajraṃ samīrakaphapittagadān nihanti vajropamaṃ ca kurute vapur uttamaśri |

310.2३१०.२

शोषक्षयभ्रमभगन्दरमेहमेदःपाण्डूदरश्वयथुहारि च षण्ढषाण्ढ्यम् ॥ (३१०।२)

śoṣakṣayabhramabhagandaramehamedaḥpāṇḍūdaraśvayathuhāri ca ṣaṇḍhaṣāṇḍhyam ||

311.1३११.१

वैक्रान्तवैक्रान्तं वज्रवच्छोध्यं नीलं वा लोहितं तथा । (३११।१)

vaikrāntavaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā |

311.2३११.२

हयमूत्रेण सिञ्चेत् तप्तं तप्तं द्विसप्तधा ॥ (३११।२)

hayamūtreṇa siñcet taptaṃ taptaṃ dvisaptadhā ||

312.1३१२.१

ततस्तु मेषदुग्ध्यास्तु पञ्चाङ्गे गोलकं क्षिपेत् । (३१२।१)

tatastu meṣadugdhyāstu pañcāṅge golakaṃ kṣipet |

312.2३१२.२

पुटेन्मूषापुटे रुद्ध्वा कुर्यादेवं च सप्तधा । (३१२।२)

puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā |

312.3३१२.३

वैक्रान्तं भस्मतां याति वज्रस्थाने नियोजयेत् ॥ (३१२।३)

vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet ||

313.1३१३.१

वातपित्तानिलध्वंसि षड्रसं देहदार्ढ्यकृत् । (३१३।१)

vātapittāniladhvaṃsi ṣaḍrasaṃ dehadārḍhyakṛt |

313.2३१३.२

पाण्डूदरज्वरश्वासकासयक्ष्मप्रमेहनुत् ॥ (३१३।२)

pāṇḍūdarajvaraśvāsakāsayakṣmapramehanut ||

314.1३१४.१

शेषरत्नशोधनमारणानिशुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं शुचि । (३१४।१)

śeṣaratnaśodhanamāraṇāniśudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ śuci |

314.2३१४.२

विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धतः शुचि ॥ (३१४।२)

vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhataḥ śuci ||

315.1३१५.१

पुष्परागं च कौलत्थक्वाथयोगेन शुध्यति । (३१५।१)

puṣparāgaṃ ca kaulatthakvāthayogena śudhyati |

315.2३१५.२

रोचनाभिश्च गोमेदं वैडूर्यं त्रिफलाजलैः । (३१५।२)

rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ |

315.3३१५.३

नीलं नीलीरसैर् वज्रं विना शुध्यति दोलया ॥ (३१५।३)

nīlaṃ nīlīrasair vajraṃ vinā śudhyati dolayā ||

316.1३१६.१

स्वेदयेद्दोलिकायन्त्रे जयन्त्याः स्वरसेन च । (३१६।१)

svedayeddolikāyantre jayantyāḥ svarasena ca |

316.2३१६.२

मणिमुक्ताप्रवालानि यामैकं शोधनं भवेत् ॥ (३१६।२)

maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet ||

317.1३१७.१

लकुचद्रावसम्पिष्टैः शिलातालकगन्धकैः । (३१७।१)

lakucadrāvasampiṣṭaiḥ śilātālakagandhakaiḥ |

317.2३१७.२

वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ (३१७।२)

vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu ||

318.1३१८.१

कुमार्या तण्डुलीयेन स्तन्येन च निषेचयेत् । (३१८।१)

kumāryā taṇḍulīyena stanyena ca niṣecayet |

318.2३१८.२

प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः ॥ (३१८।२)

pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ ||

319.1३१९.१

मौक्तिकानि प्रवालानि तथा रत्नान्यशेषतः । (३१९।१)

mauktikāni pravālāni tathā ratnānyaśeṣataḥ |

319.2३१९.२

क्षणाद्विविधवर्णानि म्रियन्ते नात्र संशयः ॥ (३१९।२)

kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ ||

320.1३२०.१

उक्तमाक्षिकवन्मुक्ताप्रवालानि च मारयेत् । (३२०।१)

uktamākṣikavanmuktāpravālāni ca mārayet |

320.2३२०.२

वज्रवत् सर्वरत्नानि शोधयेन्मारयेत्तथा ॥ (३२०।२)

vajravat sarvaratnāni śodhayenmārayettathā ||

321.1३२१.१

रत्नगुणाःरत्नानि चोपरत्नानि चक्षुष्याणि सराणि च । (३२१।१)

ratnaguṇāḥratnāni coparatnāni cakṣuṣyāṇi sarāṇi ca |

321.2३२१.२

शीतलानि कषायाणि मधुराणि शुभानि च ॥ (३२१।२)

śītalāni kaṣāyāṇi madhurāṇi śubhāni ca ||

322.1३२२.१

वृष्याणि मङ्गलान्यायुस्तुष्टिपुष्टिकराणि च । (३२२।१)

vṛṣyāṇi maṅgalānyāyustuṣṭipuṣṭikarāṇi ca |

322.2३२२.२

ग्रहालक्ष्मीविषक्षैण्यपापसंतापनानि च ॥ (३२२।२)

grahālakṣmīviṣakṣaiṇyapāpasaṃtāpanāni ca ||

323.1३२३.१

यक्ष्मपाण्डुप्रमेहार्शःकासश्वासभगन्दरान् । (३२३।१)

yakṣmapāṇḍupramehārśaḥkāsaśvāsabhagandarān |

323.2३२३.२

ज्वरविसर्पकुष्ठानि शूलकृच्छ्रव्रणामयान् । (३२३।२)

jvaravisarpakuṣṭhāni śūlakṛcchravraṇāmayān |

323.3३२३.३

घ्नन्ति पुष्टिं यशः कान्तिं पुण्यानि च नृणां भृशम् ॥ (३२३।३)

ghnanti puṣṭiṃ yaśaḥ kāntiṃ puṇyāni ca nṛṇāṃ bhṛśam ||

324.1३२४.१

शिलाजतुनिदाघे घर्मसंतप्ता धातुसारं धराधराः । (३२४।१)

śilājatunidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ |

324.2३२४.२

निर्यासवत् प्रमुञ्चन्ति तच्छिलाजतु कीर्त्यते ॥ (३२४।२)

niryāsavat pramuñcanti tacchilājatu kīrtyate ||

325.1३२५.१

शिलाजतुशोधनअथोष्णकाले रवितापयुक्ते व्यभ्रे निवाते समभूमिभागे । (३२५।१)

śilājatuśodhanaathoṣṇakāle ravitāpayukte vyabhre nivāte samabhūmibhāge |

325.2३२५.२

चत्वारि पात्राण्यसितायसानि न्यस्यातपे दत्तमनोऽवधानः ॥ (३२५।२)

catvāri pātrāṇyasitāyasāni nyasyātape dattamano'vadhānaḥ ||

326.1३२६.१

शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तोयं द्विगुणं ततोऽस्मात् । (३२६।१)

śilājatu śreṣṭhamavāpya pātre prakṣipya toyaṃ dviguṇaṃ tato'smāt |

326.2३२६.२

उष्णं तदर्धं शृतमत्र दत्त्वा विशोधयेत्तन्मृदितं यथावत् ॥ (३२६।२)

uṣṇaṃ tadardhaṃ śṛtamatra dattvā viśodhayettanmṛditaṃ yathāvat ||

327.1३२७.१

ततस्तु यत्कृष्णमुपैति चोर्ध्वं संतानिकावद् रविरश्मियोगात् । (३२७।१)

tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmiyogāt |

327.2३२७.२

पात्रात्तदन्यत्र ततो निदध्यात्तस्यान्तरे चोष्णजलं निधाय ॥ (३२७।२)

pātrāttadanyatra tato nidadhyāttasyāntare coṣṇajalaṃ nidhāya ||

328.1३२८.१

ततश्च तस्मादपरत्र पात्रे तस्माच्च पात्रादपरत्र भूयः । (३२८।१)

tataśca tasmādaparatra pātre tasmācca pātrādaparatra bhūyaḥ |

328.2३२८.२

पुनस्ततोऽन्यत्र निधाय कृष्णं यत्संहृतं तत्पुनराहरेच्च ॥ (३२८।२)

punastato'nyatra nidhāya kṛṣṇaṃ yatsaṃhṛtaṃ tatpunarāharecca ||

329.1३२९.१

यदा विशुद्धं जलमच्छमूर्ध्वं प्रसन्नभावान्मलमेत्यधस्तात् । (३२९।१)

yadā viśuddhaṃ jalamacchamūrdhvaṃ prasannabhāvānmalametyadhastāt |

329.2३२९.२

तदा त्यजेत्तत्सलिलं मलं च शिलाजतु स्याज्जलशुद्धमेवम् ॥ (३२९।२)

tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam ||

330.1३३०.१

शुद्धशिलाजतुपरीक्षावह्नौ क्षिप्तं तु निर्धूमं यत्तु लिङ्गोपमं भवेत् । (३३०।१)

śuddhaśilājatuparīkṣāvahnau kṣiptaṃ tu nirdhūmaṃ yattu liṅgopamaṃ bhavet |

330.2३३०.२

तृणाग्रेणाम्भसि क्षिप्तम् अधो गलति तन्तुवत् । (३३०।२)

tṛṇāgreṇāmbhasi kṣiptam adho galati tantuvat |

330.3३३०.३

गोमूत्रगन्धि मलिनं शुद्धं ज्ञेयं शिलाजतु ॥ (३३०।३)

gomūtragandhi malinaṃ śuddhaṃ jñeyaṃ śilājatu ||

331.1३३१.१

शिलाजतु रसायनं कटुकतिक्तमुष्णं कृमिक्षयोदरभिदश्मरीश्वयथुपाण्डुकण्डूहरम् । (३३१।१)

śilājatu rasāyanaṃ kaṭukatiktamuṣṇaṃ kṛmikṣayodarabhidaśmarīśvayathupāṇḍukaṇḍūharam |

331.2३३१.२

प्रमेहवमिकुष्ठजित् कफसमीरदुर्नामहृद् वलीपलितमानसान् अपि सकासकृच्छ्रप्रणुत् ॥ (३३१।२)

pramehavamikuṣṭhajit kaphasamīradurnāmahṛd valīpalitamānasān api sakāsakṛcchrapraṇut ||

332.1३३२.१

अशुद्धं दाहमूर्छायभ्रमपित्तास्रशोषताः । (३३२।१)

aśuddhaṃ dāhamūrchāyabhramapittāsraśoṣatāḥ |

332.2३३२.२

शिलाजतु प्रकुरुते मान्द्यमग्नेश्च विड्ग्रहम् ॥ (३३२।२)

śilājatu prakurute māndyamagneśca viḍgraham ||

333.1३३३.१

सिन्दूरशोधनसिन्दूरं निम्बुकद्रावैः पिष्ट्वा वह्नौ विशोषयेत् । (३३३।१)

sindūraśodhanasindūraṃ nimbukadrāvaiḥ piṣṭvā vahnau viśoṣayet |

333.2३३३.२

ततस्तण्डुलतोयेन तथाभूतं विशुध्यति ॥ (३३३।२)

tatastaṇḍulatoyena tathābhūtaṃ viśudhyati ||

334.1३३४.१

सिन्दूरमुक्तं वीसर्पकुष्ठकण्डूविषापहम् । (३३४।१)

sindūramuktaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham |

334.2३३४.२

भग्नसंधानजननं व्रणशोधनरोपणम् ॥ (३३४।२)

bhagnasaṃdhānajananaṃ vraṇaśodhanaropaṇam ||

335.1३३५.१

समुद्रफेनसमुद्रफेनश्चक्षुष्यो लेखनः शीतलः सरः । (३३५।१)

samudraphenasamudraphenaścakṣuṣyo lekhanaḥ śītalaḥ saraḥ |

335.2३३५.२

कर्णस्रावरुजागूथहरः पाचनदीपनः ॥ (३३५।२)

karṇasrāvarujāgūthaharaḥ pācanadīpanaḥ ||

336.1३३६.१

अशुद्धः स करोत्यङ्गभङ्गं तस्माद्विशोधयेत् । (३३६।१)

aśuddhaḥ sa karotyaṅgabhaṅgaṃ tasmādviśodhayet |

336.2३३६.२

समुद्रफेनः सम्पिष्टो निम्बुतोयेन शुध्यति ॥ (३३६।२)

samudraphenaḥ sampiṣṭo nimbutoyena śudhyati ||

337.1३३७.१

गैरिकगैरिकं किंचिद् आज्येन भृष्टं शुद्धं प्रजायते । (३३७।१)

gairikagairikaṃ kiṃcid ājyena bhṛṣṭaṃ śuddhaṃ prajāyate |

337.2३३७.२

कायकान्तिवयःस्थैर्यबलौजोवृद्धिकारकम् ॥ (३३७।२)

kāyakāntivayaḥsthairyabalaujovṛddhikārakam ||

338.1३३८.१

प्रमेहकुष्ठपिटिकासर्वव्रणविषापहम् । (३३८।१)

pramehakuṣṭhapiṭikāsarvavraṇaviṣāpaham |

338.2३३८.२

स्वर्णगैरिकम् अन्यत्तु श्रेष्ठं सामान्यगैरिकात् ॥ (३३८।२)

svarṇagairikam anyattu śreṣṭhaṃ sāmānyagairikāt ||

339.1३३९.१

एरण्डबीजशुद्धिगन्धर्वहस्तबीजानां नारिकेलोदकेन च । (३३९।१)

eraṇḍabījaśuddhigandharvahastabījānāṃ nārikelodakena ca |

339.2३३९.२

याममात्राद्भवेच्छुद्धिर् दन्तीबीजं पचेद्यथा ॥ (३३९।२)

yāmamātrādbhavecchuddhir dantībījaṃ pacedyathā ||

340.1३४०.१

मरीचशुद्धिमरीचं चाम्लतक्रेण भावितं घटिकात्रयम् । (३४०।१)

marīcaśuddhimarīcaṃ cāmlatakreṇa bhāvitaṃ ghaṭikātrayam |

340.2३४०.२

मरीचं निस्तुषं कृत्वा शुद्धं भवति निश्चितम् ॥ (३४०।२)

marīcaṃ nistuṣaṃ kṛtvā śuddhaṃ bhavati niścitam ||

341.1३४१.१

पिप्पलीशुद्धिवैदेही चित्रकरसैरातपे भावयेत्पुटे । (३४१।१)

pippalīśuddhivaidehī citrakarasairātape bhāvayetpuṭe |

341.2३४१.२

सम्यक् शुद्धा भवत्यत्र रसयोगेषु योजयेत् ॥ (३४१।२)

samyak śuddhā bhavatyatra rasayogeṣu yojayet ||

342.1३४२.१

हिङ्गुशुद्धिपद्मपत्ररसे याममातपे भावितं विदुः । (३४२।१)

hiṅguśuddhipadmapatrarase yāmamātape bhāvitaṃ viduḥ |

342.2३४२.२

रामठं शुद्धिमाप्नोति रसयोगेषु योजयेत् ॥ (३४२।२)

rāmaṭhaṃ śuddhimāpnoti rasayogeṣu yojayet ||

343.1३४३.१

शङ्खशङ्खः क्षारो हिमो ग्राही ग्रहणीरेकनाशनः । (३४३।१)

śaṅkhaśaṅkhaḥ kṣāro himo grāhī grahaṇīrekanāśanaḥ |

343.2३४३.२

नेत्रपुष्पहरो वर्ण्यस्तारुण्यपिटिकाप्रणुत् । (३४३।२)

netrapuṣpaharo varṇyastāruṇyapiṭikāpraṇut |

343.3३४३.३

अशुद्धो गुणदो नैष शुद्धोऽम्लैः स गुणप्रदः ॥ (३४३।३)

aśuddho guṇado naiṣa śuddho'mlaiḥ sa guṇapradaḥ ||

344.1३४४.१

दक्षिणावर्तशङ्खस्तु त्रिदोषघ्नः शुचिर्निधिः । (३४४।१)

dakṣiṇāvartaśaṅkhastu tridoṣaghnaḥ śucirnidhiḥ |

345.1३४५.१

भूनागसत्त्वमयूरपक्षसत्त्वगुणाःताम्रभूभवनागांश्च त्रिंशत् पिष्यन् समेन तान् । (३४५।१)

bhūnāgasattvamayūrapakṣasattvaguṇāḥtāmrabhūbhavanāgāṃśca triṃśat piṣyan samena tān |

345.2३४५.२

पुरलाक्षोर्णनाभिः स्यान्मत्स्यपिण्याकटङ्कणैः ॥ (३४५।२)

puralākṣorṇanābhiḥ syānmatsyapiṇyākaṭaṅkaṇaiḥ ||

346.1३४६.१

द्रवमेतैश्च संयोज्य मर्दयित्वा धमेत्सुखम् । (३४६।१)

dravametaiśca saṃyojya mardayitvā dhametsukham |

346.2३४६.२

मुञ्चन्ति ताम्रवत्सत्त्वं तत्पक्षा अपि बर्हिणाम् ॥ (३४६।२)

muñcanti tāmravatsattvaṃ tatpakṣā api barhiṇām ||

347.1३४७.१

भूनागसत्वं शिशिरं सर्वकुष्ठव्रणप्रणुत् । (३४७।१)

bhūnāgasatvaṃ śiśiraṃ sarvakuṣṭhavraṇapraṇut |

347.2३४७.२

तत्सृष्टजलपानेन स्थावरं चाति जङ्गमम् ॥ (३४७।२)

tatsṛṣṭajalapānena sthāvaraṃ cāti jaṅgamam ||

348.1३४८.१

विषं नश्यति तत्पात्रगतः सूतोऽग्नितो दृढः । (३४८।१)

viṣaṃ naśyati tatpātragataḥ sūto'gnito dṛḍhaḥ |

348.2३४८.२

एवं मयूरपक्षोत्थसत्वस्यापि गुणो मतः ॥ (३४८।२)

evaṃ mayūrapakṣotthasatvasyāpi guṇo mataḥ ||

349.1३४९.१

कर्पूरशुद्धिगोदुग्धे त्रिफलाक्वाथे भृङ्गद्रावे समांशके । (३४९।१)

karpūraśuddhigodugdhe triphalākvāthe bhṛṅgadrāve samāṃśake |

349.2३४९.२

मर्दयेद्याममात्रं तु कर्पूरं शुद्धिम् आप्नुयात् ॥ (३४९।२)

mardayedyāmamātraṃ tu karpūraṃ śuddhim āpnuyāt ||

350.1३५०.१

टङ्कणशुद्धिअशुद्धष्टङ्कणो वान्तिभ्रान्तिकारी प्रयोजितः । (३५०।१)

ṭaṅkaṇaśuddhiaśuddhaṣṭaṅkaṇo vāntibhrāntikārī prayojitaḥ |

350.2३५०.२

अतस्तं शोधयेदेवं गोमयेनाप्लुतः शुचिः ॥ (३५०।२)

atastaṃ śodhayedevaṃ gomayenāplutaḥ śuciḥ ||

351.1३५१.१

टङ्कणो वह्निकृत्स्वर्णरूप्ययोः शोधनः सरः । (३५१।१)

ṭaṅkaṇo vahnikṛtsvarṇarūpyayoḥ śodhanaḥ saraḥ |

351.2३५१.२

विषदोषहरो हृद्यो वातश्लेष्मविकारनुत् ॥ (३५१।२)

viṣadoṣaharo hṛdyo vātaśleṣmavikāranut ||

352.1३५२.१

विषानिकालकूटो वत्सनाभः शृङ्गकश्च प्रदीपनः । (३५२।१)

viṣānikālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpanaḥ |

352.2३५२.२

हालाहलो ब्रह्मपुत्रो हरिद्रः सक्तुकस्तथा । (३५२।२)

hālāhalo brahmaputro haridraḥ saktukastathā |

352.3३५२.३

सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव ॥ (३५२।३)

saurāṣṭrika iti proktā viṣabhedā amī nava ||

353.1३५३.१

ब्राह्मणः पाण्डुरस्तेषु क्षत्रियो रक्तवर्णकः । (३५३।१)

brāhmaṇaḥ pāṇḍurasteṣu kṣatriyo raktavarṇakaḥ |

353.2३५३.२

वैश्यः पीतप्रभः शूद्रः कृष्णाभः स तु निन्दितः ॥ (३५३।२)

vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābhaḥ sa tu ninditaḥ ||

354.1३५४.१

रसायने विषं विप्रं देहपुष्टौ तु बाहुजम् । (३५४।१)

rasāyane viṣaṃ vipraṃ dehapuṣṭau tu bāhujam |

354.2३५४.२

कुष्ठनाशे प्रयुञ्जीत वैश्यं शूद्रं तु धातुषु ॥ (३५४।२)

kuṣṭhanāśe prayuñjīta vaiśyaṃ śūdraṃ tu dhātuṣu ||

355.1३५५.१

विषं प्राणहरं युक्त्या प्राणकृच्च रसायनम् । (३५५।१)

viṣaṃ prāṇaharaṃ yuktyā prāṇakṛcca rasāyanam |

355.2३५५.२

योगवाहि परं श्लेष्मवातहृत्संनिपातजित् ॥ (३५५।२)

yogavāhi paraṃ śleṣmavātahṛtsaṃnipātajit ||

356.1३५६.१

विषशोधनविषं तु खण्डशः कृत्वा वस्त्रखण्डेन बन्धयेत् । (३५६।१)

viṣaśodhanaviṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet |

356.2३५६.२

गोमूत्रमध्ये निक्षिप्य स्थापयेदातपे त्र्यहम् ॥ (३५६।२)

gomūtramadhye nikṣipya sthāpayedātape tryaham ||

357.1३५७.१

गोमूत्रं तु प्रदातव्यं नूतनं प्रत्यहं बुधैः । (३५७।१)

gomūtraṃ tu pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ |

357.2३५७.२

त्र्यहेऽतीते तदुद्धृत्य शोषयेन्मृदु पेषयेत् ॥ (३५७।२)

tryahe'tīte taduddhṛtya śoṣayenmṛdu peṣayet ||

358.0३५८.०

शुध्यत्येवं विषं सेव्यं योग्यं भवति चार्तिजित् ॥ (३५८।०)

śudhyatyevaṃ viṣaṃ sevyaṃ yogyaṃ bhavati cārtijit ||

359.1३५९.१

विषशोधन (२)खण्डीकृत्य विषं वस्त्रपरिबद्धं तु दोलया । (३५९।१)

viṣaśodhana (2)khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā |

359.2३५९.२

अजापयसि संस्विन्नं यामतः शुद्धिमाप्नुयात् ॥ (३५९।२)

ajāpayasi saṃsvinnaṃ yāmataḥ śuddhimāpnuyāt ||

360.1३६०.१

विषशोधन (३)विषग्रन्थिं मले न्यस्य माहिषे दृढमुद्रितम् । (३६०।१)

viṣaśodhana (3)viṣagranthiṃ male nyasya māhiṣe dṛḍhamudritam |

360.2३६०.२

करिषाग्नौ पचेद्यामं वस्त्रपूतं विषं शुचि ॥ (३६०।२)

kariṣāgnau pacedyāmaṃ vastrapūtaṃ viṣaṃ śuci ||

361.1३६१.१

विषशोधन (४)कणशो वत्सनाभं च कृत्वा बद्ध्वा च कर्पटे । (३६१।१)

viṣaśodhana (4)kaṇaśo vatsanābhaṃ ca kṛtvā baddhvā ca karpaṭe |

361.2३६१.२

दोलायन्त्रे जलक्षीरे प्रहराच्छुद्धिमृच्छति ॥ (३६१।२)

dolāyantre jalakṣīre praharācchuddhimṛcchati ||

362.1३६२.१

विषमारणतुल्येन टङ्कणेनैव द्विगुणेनोषणेन च । (३६२।१)

viṣamāraṇatulyena ṭaṅkaṇenaiva dviguṇenoṣaṇena ca |

362.2३६२.२

विषं संयोजितं शुद्धं मृतं भवति सर्वथा ॥ (३६२।२)

viṣaṃ saṃyojitaṃ śuddhaṃ mṛtaṃ bhavati sarvathā ||

363.1३६३.१

विषगुणाःविषं रसायनं बल्यं वातश्लेष्मविकारनुत् । (३६३।१)

viṣaguṇāḥviṣaṃ rasāyanaṃ balyaṃ vātaśleṣmavikāranut |

363.2३६३.२

कटुतिक्तकषायं च मदकारि सुखप्रदम् ॥ (३६३।२)

kaṭutiktakaṣāyaṃ ca madakāri sukhapradam ||

364.1३६४.१

व्यवायि शीतनुद्दाहि कुष्ठवातास्रनाशम् । (३६४।१)

vyavāyi śītanuddāhi kuṣṭhavātāsranāśam |

364.2३६४.२

अग्निमान्द्यश्वासकासप्लीहोदरभगन्दरान् । (३६४।२)

agnimāndyaśvāsakāsaplīhodarabhagandarān |

364.3३६४.३

गुल्मपाण्डुव्रणार्शांसि नाशयेत् क्रमशो नृणाम् ॥ (३६४।३)

gulmapāṇḍuvraṇārśāṃsi nāśayet kramaśo nṛṇām ||

365.1३६५.१

गौरीपाषाणगौरीपाषाणकः प्रोक्तो द्विविधः श्वेतरक्तकः । (३६५।१)

gaurīpāṣāṇagaurīpāṣāṇakaḥ prokto dvividhaḥ śvetaraktakaḥ |

365.2३६५.२

श्वेतः शङ्खसदृग्रक्तो दाडिमाभः प्रकीर्तितः ॥ (३६५।२)

śvetaḥ śaṅkhasadṛgrakto dāḍimābhaḥ prakīrtitaḥ ||

366.1३६६.१

श्वेतः कृत्रिमकः प्रोक्तो रक्तः पर्वतसंभवः । (३६६।१)

śvetaḥ kṛtrimakaḥ prokto raktaḥ parvatasaṃbhavaḥ |

366.2३६६.२

विषरूपधरौ तौ हि रसकर्मणि पूजितौ ॥ (३६६।२)

viṣarūpadharau tau hi rasakarmaṇi pūjitau ||

367.1३६७.१

गौरिपाषाणकश्चान्यो विकटो रक्तचूर्णकः । (३६७।१)

gauripāṣāṇakaścānyo vikaṭo raktacūrṇakaḥ |

367.2३६७.२

रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥ (३६७।२)

rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt ||

368.1३६८.१

गौरीपाषाणशोधन (१)घननादरसान्विते च मल्लः परिपाच्यः किल दोलकाह्वयन्त्रे । (३६८।१)

gaurīpāṣāṇaśodhana (1)ghananādarasānvite ca mallaḥ paripācyaḥ kila dolakāhvayantre |

368.2३६८.२

शुभवह्निरथो दिनं च मन्दः परिदेयः परिजायते स शुद्धः ॥ (३६८।२)

śubhavahniratho dinaṃ ca mandaḥ parideyaḥ parijāyate sa śuddhaḥ ||

369.1३६९.१

गौरीपाषाणशोधन (२)उल्लीपाषाणसंशुद्धिर् वक्ष्यते शास्त्रसंमतम् । (३६९।१)

gaurīpāṣāṇaśodhana (2)ullīpāṣāṇasaṃśuddhir vakṣyate śāstrasaṃmatam |

369.2३६९.२

चूर्णीकृतं पटे बद्ध्वा शिलाक्षारोदकेन च ॥ (३६९।२)

cūrṇīkṛtaṃ paṭe baddhvā śilākṣārodakena ca ||

370.1३७०.१

दोलायन्त्रे दिनैकं तु पाचितः शुद्धिम् आप्नुयात् । (३७०।१)

dolāyantre dinaikaṃ tu pācitaḥ śuddhim āpnuyāt |

370.2३७०.२

विकटं पोटलीं बद्ध्वा दोलायन्त्रेण काञ्जिके ॥ (३७०।२)

vikaṭaṃ poṭalīṃ baddhvā dolāyantreṇa kāñjike ||

371.1३७१.१

टङ्कणे वा गवां दुग्धे पाचयेद् घटिकाद्वयम् । (३७१।१)

ṭaṅkaṇe vā gavāṃ dugdhe pācayed ghaṭikādvayam |

371.2३७१.२

आजमांसरसे वापि शुद्धो भवति निश्चयात् ॥ (३७१।२)

ājamāṃsarase vāpi śuddho bhavati niścayāt ||

372.1३७२.१

उल्लीपाषाणमल्लं च केचिन्नामान्तरं विदुः । (३७२।१)

ullīpāṣāṇamallaṃ ca kecinnāmāntaraṃ viduḥ |

372.2३७२.२

वाते कफे तथा शीते योजयन्ति चिकित्सकाः ॥ (३७२।२)

vāte kaphe tathā śīte yojayanti cikitsakāḥ ||

373.1३७३.१

उपविषाणिअर्कक्षीरस्नुहीक्षीरलाङ्गलीकरवीरकाः । (३७३।१)

upaviṣāṇiarkakṣīrasnuhīkṣīralāṅgalīkaravīrakāḥ |

373.2३७३.२

गुञ्जाहिफेनधत्तूराः सप्तोपविषजातयः ॥ (३७३।२)

guñjāhiphenadhattūrāḥ saptopaviṣajātayaḥ ||

374.1३७४.१

मतान्तरमर्कस्नुग्लाङ्गलीगुञ्जाहयारिविषमुष्टयः । (३७४।१)

matāntaramarkasnuglāṅgalīguñjāhayāriviṣamuṣṭayaḥ |

374.2३७४.२

धूर्तोऽहिफेनजैपालौ नवोपविषजातयः ॥ (३७४।२)

dhūrto'hiphenajaipālau navopaviṣajātayaḥ ||

375.1३७५.१

अर्कद्वयं सरं वातकुष्ठकण्डूविषापहम् । (३७५।१)

arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūviṣāpaham |

375.2३७५.२

निहन्ति प्लीहगुल्मार्शोयकृच्छ्लेष्मोदरक्रिमीन् ॥ (३७५।२)

nihanti plīhagulmārśoyakṛcchleṣmodarakrimīn ||

376.1३७६.१

सेहुण्डो रेचनस्तीक्ष्णो दीपनः कटुको गुरुः । (३७६।१)

sehuṇḍo recanastīkṣṇo dīpanaḥ kaṭuko guruḥ |

376.2३७६.२

शूलमष्ठीलिकाध्मानगुल्मशोफोदरानिलान् ॥ (३७६।२)

śūlamaṣṭhīlikādhmānagulmaśophodarānilān ||

377.1३७७.१

हन्ति दोषान् यकृत्प्लीहकुष्ठोन्मादाश्मपाण्डुताः । (३७७।१)

hanti doṣān yakṛtplīhakuṣṭhonmādāśmapāṇḍutāḥ |

377.2३७७.२

अर्कसेहुण्डयोर्दुग्धं तत् स्वयं शुद्धमुच्यते ॥ (३७७।२)

arkasehuṇḍayordugdhaṃ tat svayaṃ śuddhamucyate ||

378.1३७८.१

लाङ्गली शुद्धिमायाति दिनं गोमूत्रसंस्थिता । (३७८।१)

lāṅgalī śuddhimāyāti dinaṃ gomūtrasaṃsthitā |

378.2३७८.२

कलिकारी सरा कुष्ठशोफार्शोव्रणशूलजित् । (३७८।२)

kalikārī sarā kuṣṭhaśophārśovraṇaśūlajit |

378.3३७८.३

तीक्ष्णोष्णा कृमिनुल्लघ्वी पित्तला गर्भपातिनी ॥ (३७८।३)

tīkṣṇoṣṇā kṛminullaghvī pittalā garbhapātinī ||

379.1३७९.१

गुञ्जा काञ्जिकसंस्विन्ना शुद्धिमायाति यामतः । (३७९।१)

guñjā kāñjikasaṃsvinnā śuddhimāyāti yāmataḥ |

379.2३७९.२

गुञ्जा लघुर्हिमा रूक्षा भेदनी श्वासकासजित् । (३७९।२)

guñjā laghurhimā rūkṣā bhedanī śvāsakāsajit |

379.3३७९.३

कोष्णा वृष्या कुष्ठकण्डूश्लेष्मपित्तव्रणापहा ॥ (३७९।३)

koṣṇā vṛṣyā kuṣṭhakaṇḍūśleṣmapittavraṇāpahā ||

380.1३८०.१

हयारिर् विषवच्छोध्यो गोदुग्धे दोलकेन तु । (३८०।१)

hayārir viṣavacchodhyo godugdhe dolakena tu |

380.2३८०.२

करवीरद्वयं नेत्ररोगकुष्ठव्रणापहम् । (३८०।२)

karavīradvayaṃ netrarogakuṣṭhavraṇāpaham |

380.3३८०.३

लघूष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम् ॥ (३८०।३)

laghūṣṇaṃ kṛmikaṇḍūghnaṃ bhakṣitaṃ viṣavanmatam ||

381.1३८१.१

किंचिदाज्येन संमृष्टो विषमुष्टिर्विशुध्यति । (३८१।१)

kiṃcidājyena saṃmṛṣṭo viṣamuṣṭirviśudhyati |

381.2३८१.२

विषमुष्टिस्तिक्तकटुस्तीक्ष्णोष्णः श्लेष्मवातहा ॥ (३८१।२)

viṣamuṣṭistiktakaṭustīkṣṇoṣṇaḥ śleṣmavātahā ||

382.0३८२.०

सारमेयविषोन्मादहरो मदकरः स्मृतः ॥ (३८२।०)

sārameyaviṣonmādaharo madakaraḥ smṛtaḥ ||

383.1३८३.१

जैपालजैपालोऽस्ति गुरुस्तिक्तो वान्तिकृज्ज्वरकुष्ठनुत् । (३८३।१)

jaipālajaipālo'sti gurustikto vāntikṛjjvarakuṣṭhanut |

383.2३८३.२

उष्णः सरो व्रणश्लेष्मकण्डूकृमिविषापहः ॥ (३८३।२)

uṣṇaḥ saro vraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ ||

384.1३८४.१

जैपालशुद्धिजैपालं रहितं त्वगङ्कुररसज्ञाभिर् मले माहिषे निक्षिप्तं त्र्यहमुष्णतोयविमले खल्वे सवासोर्दितम् । (३८४।१)

jaipālaśuddhijaipālaṃ rahitaṃ tvagaṅkurarasajñābhir male māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimale khalve savāsorditam |

384.2३८४.२

लिप्तं नूतनखर्परेषु विगतस्नेहं रजःसंनिभं निम्बूकाम्बुविभावितं च बहुशः शुद्धं गुणाढ्यं भवेत् ॥ (३८४।२)

liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet ||

385.1३८५.१

जैपालं निस्तुषं कृत्वा दुग्धे दोलायुतं पचेत् । (३८५।१)

jaipālaṃ nistuṣaṃ kṛtvā dugdhe dolāyutaṃ pacet |

385.2३८५.२

अन्तर्जिह्वां परित्यज्य युञ्ज्याच्च रसकर्मणि ॥ (३८५।२)

antarjihvāṃ parityajya yuñjyācca rasakarmaṇi ||

386.1३८६.१

वस्त्रे बद्ध्वा तु जैपालं गोमयस्योदके न्यसेत् । (३८६।१)

vastre baddhvā tu jaipālaṃ gomayasyodake nyaset |

386.2३८६.२

पाचयेद्याममात्रं तु जैपालः शुद्धतां व्रजेत् ॥ (३८६।२)

pācayedyāmamātraṃ tu jaipālaḥ śuddhatāṃ vrajet ||

387.1३८७.१

उन्मत्तधत्तूरबीजं गोमूत्रे चतुर्यामोषितं पुनः । (३८७।१)

unmattadhattūrabījaṃ gomūtre caturyāmoṣitaṃ punaḥ |

387.2३८७.२

क्वथितं निस्तुषं कृत्वा शुद्धं यागेषु योजयेत् ॥ (३८७।२)

kvathitaṃ nistuṣaṃ kṛtvā śuddhaṃ yāgeṣu yojayet ||

388.1३८८.१

धत्तूरो मदवर्णाग्निवातकृज्ज्वरकुष्ठनुत् । (३८८।१)

dhattūro madavarṇāgnivātakṛjjvarakuṣṭhanut |

388.2३८८.२

उष्णो गुरुर्व्रणश्लेष्मकण्डूकृमिविषापहः ॥ (३८८।२)

uṣṇo gururvraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ ||

389.1३८९.१

अहिफेनअहिफेनं शृङ्गवेररसैर्भाव्यं त्रिसप्तधा । (३८९।१)

ahiphenaahiphenaṃ śṛṅgaverarasairbhāvyaṃ trisaptadhā |

389.2३८९.२

शुध्यत्युक्तेषु योगेषु योजयेत्तद्विधानतः ॥ (३८९।२)

śudhyatyukteṣu yogeṣu yojayettadvidhānataḥ ||

390.1३९०.१

अफुकं शोषणं ग्राही श्लेष्मघ्नं वातपित्तलम् । (३९०।१)

aphukaṃ śoṣaṇaṃ grāhī śleṣmaghnaṃ vātapittalam |

390.2३९०.२

मदतृड्दाहकृच्छुक्रस्तम्भनायासमोहकृत् ॥ (३९०।२)

madatṛḍdāhakṛcchukrastambhanāyāsamohakṛt ||

391.1३९१.१

अतिसारे ग्रहण्यां च हितं दीपनपाचनम् । (३९१।१)

atisāre grahaṇyāṃ ca hitaṃ dīpanapācanam |

391.2३९१.२

सेवितं दिवसैः कैश्चिद् भ्रमयत्यन्यथार्तिकृत् ॥ (३९१।२)

sevitaṃ divasaiḥ kaiścid bhramayatyanyathārtikṛt ||

392.1३९२.१

नवभिर्मर्दितः सूतश्छिन्नपक्षः प्रजायते । (३९२।१)

navabhirmarditaḥ sūtaśchinnapakṣaḥ prajāyate |

392.2३९२.२

मुखं च जायते तस्य धातूंश्च ग्रसतेतराम् ॥ (३९२।२)

mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām ||

393.1३९३.१

भङ्गिका पित्तला तिक्ता तीक्ष्णोष्णा ग्राहिणी लघुः । (३९३।१)

bhaṅgikā pittalā tiktā tīkṣṇoṣṇā grāhiṇī laghuḥ |

393.2३९३.२

कर्षणी दीपनी रुच्या मदकृत्कफवातहृत् ॥ (३९३।२)

karṣaṇī dīpanī rucyā madakṛtkaphavātahṛt ||

394.1३९४.१

बब्बूलत्वक्कषायेण भङ्गां संस्वेद्य शोषयेत् । (३९४।१)

babbūlatvakkaṣāyeṇa bhaṅgāṃ saṃsvedya śoṣayet |

394.2३९४.२

गोदुग्धभावनां दत्त्वा शुष्कां सर्वत्र योजयेत् ॥ (३९४।२)

godugdhabhāvanāṃ dattvā śuṣkāṃ sarvatra yojayet ||

395.1३९५.१

गरुडमन्त्रॐ नमः प्रचण्डगरुडाय पक्षिराजाय विष्णुवाहनाय विनतासुताय हे गरुड कश्यपसुत वैनतेय तार्क्ष्य स्वर्णवज्र चञ्चुवज्र तुण्डनखप्रहरणायानन्तवासुकितक्षककर्कोटपद्ममहापद्मशङ्खपालकुलिकजयविजयाष्टमहानागकाल उच्चाटनीमूषकविषप्रहरणावहननधूनन शीघ्रकम्प २ आवेश २ ढण्ढर हे हे श्रीगरुडाय नमः । (३९५।१)

garuḍamantraoṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ |

395.2३९५.२

मन्त्रेणानेन मन्त्रज्ञो जलं चुलकमात्रकम् । (३९५।२)

mantreṇānena mantrajño jalaṃ culakamātrakam |

395.3३९५.३

सप्तवाराभिजप्तं तु पाययेद् ग्रस्तचेतनम् ॥ (३९५।३)

saptavārābhijaptaṃ tu pāyayed grastacetanam ||

396.1३९६.१

सर्पादिविषवेगेन सद्यो निर्विषमाप्नुयात् । (३९६।१)

sarpādiviṣavegena sadyo nirviṣamāpnuyāt |

396.2३९६.२

त्रिवारमेवं पानीयं पातव्यं न पिबेदपि ॥ (३९६।२)

trivāramevaṃ pānīyaṃ pātavyaṃ na pibedapi ||

397.1३९७.१

मुखमध्ये तदाक्षेपः कर्तव्यस्तज्जलेन हि । (३९७।१)

mukhamadhye tadākṣepaḥ kartavyastajjalena hi |

397.2३९७.२

अथवा मस्तके तस्य तर्जन्या ताडयेद्बुधः । (३९७।२)

athavā mastake tasya tarjanyā tāḍayedbudhaḥ |

397.3३९७.३

त्रिवारं मन्त्रपूर्वं तु निर्विषो भवति क्षणात् ॥ (३९७।३)

trivāraṃ mantrapūrvaṃ tu nirviṣo bhavati kṣaṇāt ||

398.1३९८.१

अभ्रकसत्त्वपातनभावयेच्चूर्णितं त्वभ्रं दिनैकं काञ्जिकेन च । (३९८।१)

abhrakasattvapātanabhāvayeccūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca |

398.2३९८.२

रम्भासूरणजैर् नीरैर् मूलकैश्च सुमेलयेत् ॥ (३९८।२)

rambhāsūraṇajair nīrair mūlakaiśca sumelayet ||

399.1३९९.१

तुर्यांशटङ्कणेनैव क्षुद्रमत्स्यैः समं पुनः । (३९९।१)

turyāṃśaṭaṅkaṇenaiva kṣudramatsyaiḥ samaṃ punaḥ |

399.2३९९.२

महिषीमलसंमिश्रान्विधायास्याथ गोलकान् ॥ (३९९।२)

mahiṣīmalasaṃmiśrānvidhāyāsyātha golakān ||

400.1४००.१

खराग्निना धमेद्गाढं सत्त्वं मुञ्चति कांस्यवत् । (४००।१)

kharāgninā dhamedgāḍhaṃ sattvaṃ muñcati kāṃsyavat |

400.2४००.२

मारितं ताम्रवत्त्वभ्रपारदाभ्यां निषेवयेत् ॥ (४००।२)

māritaṃ tāmravattvabhrapāradābhyāṃ niṣevayet ||

401.1४०१.१

सत्त्वमभ्रस्य शिशिरं त्रिदोषघ्नं रसायनम् । (४०१।१)

sattvamabhrasya śiśiraṃ tridoṣaghnaṃ rasāyanam |

401.2४०१.२

विशेषात् पुंस्त्वजननं वयसःस्तम्भनं परम् ॥ (४०१।२)

viśeṣāt puṃstvajananaṃ vayasaḥstambhanaṃ param ||

402.1४०२.१

अगस्त्यपत्रनिर्यासमर्दितं सूरणस्थितम् । (४०२।१)

agastyapatraniryāsamarditaṃ sūraṇasthitam |

402.2४०२.२

अभ्रं गोष्ठगतं मासं जायते पारदोपमम् ॥ (४०२।२)

abhraṃ goṣṭhagataṃ māsaṃ jāyate pāradopamam ||

403.1४०३.१

तालकसत्त्वलाक्षाराजितिलाञ्शिग्रु टङ्कणं लवणं गुडम् । (४०३।१)

tālakasattvalākṣārājitilāñśigru ṭaṅkaṇaṃ lavaṇaṃ guḍam |

403.2४०३.२

तालकार्धेन संमिश्रं मूषायां स्थिरभाजने । (४०३।२)

tālakārdhena saṃmiśraṃ mūṣāyāṃ sthirabhājane |

403.3४०३.३

रुद्ध्वा पुटेद् अधोयन्त्रे सत्वं मुञ्चति सर्वथा ॥ (४०३।३)

ruddhvā puṭed adhoyantre satvaṃ muñcati sarvathā ||

404.1४०४.१

क्षारकल्पनाक्षारवृक्षस्य काष्ठानि शुष्काण्यग्नौ प्रदीपयेत् । (४०४।१)

kṣārakalpanākṣāravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet |

404.2४०४.२

नीत्वा तद्भस्म मृत्पात्रे क्षिप्त्वा नीरे चतुर्गुणे ॥ (४०४।२)

nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe ||

405.1४०५.१

विमर्द्य धारयेद्रात्रौ प्रातरच्छं जलं नयेत् । (४०५।१)

vimardya dhārayedrātrau prātaracchaṃ jalaṃ nayet |

405.2४०५.२

तन्नीरं क्वाथयेद्वह्नौ यावत्सर्वं विशुष्यति ॥ (४०५।२)

tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati ||

406.1४०६.१

ततः पात्रात्समुद्धृत्य क्षारो ग्राह्यः सितप्रभः । (४०६।१)

tataḥ pātrātsamuddhṛtya kṣāro grāhyaḥ sitaprabhaḥ |

406.2४०६.२

चूर्णाभः प्रतिसार्यः स्यात्तैजसः क्वाथवत् स्थितः । (४०६।२)

cūrṇābhaḥ pratisāryaḥ syāttaijasaḥ kvāthavat sthitaḥ |

406.3४०६.३

इति क्षारद्वयं धीमान् युक्तकार्येषु योजयेत् ॥ (४०६।३)

iti kṣāradvayaṃ dhīmān yuktakāryeṣu yojayet ||

Data courtesy of The Digital Corpus of Sanskrit.

YRā, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit