GopBrāhm, 1, 3
Select a line for its word-by-word analysis.
ॐ दक्षिणाप्रवणा भूमिर् दक्षिणत आपो वहन्ति तस्माद् यज्ञास् तद्भूमेर् उन्नततरम् इव भवति यत्र भृग्वङ्गिरसो विष्ठास् तद् यथा आप इमांल् लोकान् अभिवहन्त्य् एवम् एव भृग्वङ्गिरसः सर्वान् देवान् अभिवहन्त्य् एवम् एवैषा व्याहृतिः सर्वान् वेदान् अभिवहन्त्य् ॐ इति हर्चाम् ॐ इति यजुषाम् ॐ इति साम्नाम् ॐ इति सर्वस्याहाभिवादस् तं ह स्मैतद् उत्तरं यज्ञे विद्वांसः कुर्वन्ति देवा ब्रह्माण आगच्छत आगच्छतेत्य् एते वै देवा ब्रह्माणो यद् भृग्वङ्गिरसस् तान् एवैतद् गृणानांस् तान् वृणानां ह्वयन्तो मन्यन्ते नान्यो भृग्वङ्गिरोविद् वृतो यज्ञम् आगच्छन् यज्ञस्य तेजसा तेज आप्नोत्य् ऊर्जयोर्जां यशसा यशो नान्यो भृग्वङ्गिरोविद् अवृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति तद् यथापूर्वं वत्सो ऽधीत्य गां धयेद् एवं ब्रह्मा भृग्वङ्गिरोविद् अवृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति तद् यथा गौर् वाश्वो वाश्वतरो वैकपात् द्विपात् त्रिपाद् इति स्यात् किम् अभिवहेत् किम् अभ्यश्नुयाद् इति तस्माद् ऋग्विदम् एव होतारं वृणीष्व यजुर्विदम् अध्वर्युं सामविदम् उद्गातारम् अथर्वाङ्गिरोविदं ब्रह्माणं तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतिष्ठति प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद यश् चैवम् ऋत्विजाम् आर्त्विज्यं वेद यश् च यज्ञे यजनीयं वेदेति ब्राह्मणम् ॥ (१।०)
oṃ dakṣiṇāpravaṇā bhūmir dakṣiṇata āpo vahanti tasmād yajñās tadbhūmer unnatataram iva bhavati yatra bhṛgvaṅgiraso viṣṭhās tad yathā āpa imāṃl lokān abhivahanty evam eva bhṛgvaṅgirasaḥ sarvān devān abhivahanty evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahanty oṃ iti harcām oṃ iti yajuṣām oṃ iti sāmnām oṃ iti sarvasyāhābhivādas taṃ ha smaitad uttaraṃ yajñe vidvāṃsaḥ kurvanti devā brahmāṇa āgacchata āgacchatety ete vai devā brahmāṇo yad bhṛgvaṅgirasas tān evaitad gṛṇānāṃs tān vṛṇānāṃ hvayanto manyante nānyo bhṛgvaṅgirovid vṛto yajñam āgacchan yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśo nānyo bhṛgvaṅgirovid avṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti tad yathāpūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid avṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti tad yathā gaur vāśvo vāśvataro vaikapāt dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇaṃ tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratiṣṭhati pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam ||
प्रजापतिर् यज्ञम् अतनुत स ऋचैव हौत्रम् अकरोत् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वं तं वा एतं महावाद्यं कुरुते यद् ऋचैव हौत्रम् अकरोद् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वं स वा एष त्रिभिर् वेदैर् यज्ञस्यान्यतरः पक्षः संस्क्रियते मनसैव ब्रह्मा यज्ञस्यान्यतरं पक्षं संस्करोत्य् अयम् उ वै यः पवते स यज्ञस् तस्य मनश् च वाक् च वर्तनिर् मनसा चैव हि वाचा च यज्ञे वहत्य् अत एव मन इयम् एव वाक् स यद् वदन् नास्ति विद्याद् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति तद् यथैकपात् पुरुषो यन्न् एकचक्रो वा रथो वर्तमानो भ्रेषं न्येत्य् एवम् एवास्य यज्ञो भ्रेषं न्येति यज्ञस्य भ्रेषम् अनु यजमानो भ्रेषं न्येति यजमानस्य भ्रेषम् अन्व् ऋत्विजो भ्रेषं नियन्ति ऋत्विजां भ्रेषम् अनु दक्षिणा भ्रेषं नियन्ति दक्षिणानां भ्रेषम् अनु यजमानः पुत्रपशुभिर् भ्रेषं न्येति पुत्रपशूनां भ्रेषम् अनु यजमानः स्वर्गेण लोकेन भ्रेषं न्येति स्वर्गस्य लोकस्य भ्रेषम् अनु तस्यार्धस्य योगक्षेमो भ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ (२।०)
prajāpatir yajñam atanuta sa ṛcaiva hautram akarot yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvaṃ taṃ vā etaṃ mahāvādyaṃ kurute yad ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvaṃ sa vā eṣa tribhir vedair yajñasyānyataraḥ pakṣaḥ saṃskriyate manasaiva brahmā yajñasyānyataraṃ pakṣaṃ saṃskaroty ayam u vai yaḥ pavate sa yajñas tasya manaś ca vāk ca vartanir manasā caiva hi vācā ca yajñe vahaty ata eva mana iyam eva vāk sa yad vadan nāsti vidyād ardhaṃ me 'sya yajñasyāntaragād iti tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti yajamānasya bhreṣam anv ṛtvijo bhreṣaṃ niyanti ṛtvijāṃ bhreṣam anu dakṣiṇā bhreṣaṃ niyanti dakṣiṇānāṃ bhreṣam anu yajamānaḥ putrapaśubhir bhreṣaṃ nyeti putrapaśūnāṃ bhreṣam anu yajamānaḥ svargeṇa lokena bhreṣaṃ nyeti svargasya lokasya bhreṣam anu tasyārdhasya yogakṣemo bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam ||
तद् उ ह स्माह श्वेतकेतुर् आरुणेयो ब्रह्माणं दृष्ट्वा भाषमाणम् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति तस्माद् ब्रह्मा स्तुते बहिः पवमाने वाचोयम्यम् उपांश्वन्तर्यामाभ्याम् अथ ये पवमान उदूचुस् तेष्व् अथ यानि च स्तोत्राणि च शस्त्राण्य् आ वषट्कारात् तेषु स यद् ऋक्तो भ्रेषं नियच्छेद् ॐ भूर् जनद् इति गार्हपत्ये जुहुयात् यदि यजुष्ट ॐ भुवो जनद् इति दक्षिणाग्नौ जुहुयात् यदि सामत ॐ स्वर् जनद् इत्य् आहवनीये जुहुयात् यद्य् अनाज्ञाता ब्रह्मता ॐ भूर् भुवः स्वर् जनद् ॐ इत्य् आहवनीय एव जुहुयात् तद्वाकोवाक्यस्यर्चां यजुषां साम्नाम् अथर्वाङ्गिरसाम् अथोप वेदानां रसेन यज्ञस्य विरिष्टं संधीयते तद् यथा लवणेनेत्य् उक्तं तद् यथा उभयपात् पुरुषो यन्न् उभयचक्रो वा रथो वर्तमानो ऽभ्रेषं न्येत्य् एवम् एवास्य यज्ञो ऽभ्रेषं न्येति यज्ञस्याभ्रेषम् अनु यजमानो ऽभ्रेषं न्येति यजमानस्याभ्रेषम् अन्व् ऋत्विजो ऽभ्रेषं नियन्ति ऋत्विजाम् अभ्रेषम् अनु दक्षिणा अभ्रेषं नियन्ति दक्षिणानाम् अभ्रेषम् अनु यजमानः पुत्रपशुभिर् अभ्रेषं न्येति पुत्रपशूनाम् अभ्रेषम् अनु यजमानः स्वर्गेण लोकेनाभ्रेषं न्येति स्वर्गस्य लोकस्याभ्रेषम् अनु तस्यार्धस्य योगक्षेमो ऽभ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ (३।०)
tad u ha smāha śvetaketur āruṇeyo brahmāṇaṃ dṛṣṭvā bhāṣamāṇam ardhaṃ me 'sya yajñasyāntaragād iti tasmād brahmā stute bahiḥ pavamāne vācoyamyam upāṃśvantaryāmābhyām atha ye pavamāna udūcus teṣv atha yāni ca stotrāṇi ca śastrāṇy ā vaṣaṭkārāt teṣu sa yad ṛkto bhreṣaṃ niyacched oṃ bhūr janad iti gārhapatye juhuyāt yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt yadi sāmata oṃ svar janad ity āhavanīye juhuyāt yady anājñātā brahmatā oṃ bhūr bhuvaḥ svar janad oṃ ity āhavanīya eva juhuyāt tadvākovākyasyarcāṃ yajuṣāṃ sāmnām atharvāṅgirasām athopa vedānāṃ rasena yajñasya viriṣṭaṃ saṃdhīyate tad yathā lavaṇenety uktaṃ tad yathā ubhayapāt puruṣo yann ubhayacakro vā ratho vartamāno 'bhreṣaṃ nyety evam evāsya yajño 'bhreṣaṃ nyeti yajñasyābhreṣam anu yajamāno 'bhreṣaṃ nyeti yajamānasyābhreṣam anv ṛtvijo 'bhreṣaṃ niyanti ṛtvijām abhreṣam anu dakṣiṇā abhreṣaṃ niyanti dakṣiṇānām abhreṣam anu yajamānaḥ putrapaśubhir abhreṣaṃ nyeti putrapaśūnām abhreṣam anu yajamānaḥ svargeṇa lokenābhreṣaṃ nyeti svargasya lokasyābhreṣam anu tasyārdhasya yogakṣemo 'bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam ||
तद् यद् औदुम्बर्यान् म आसिष्ट हिङ्कृणोत् मे प्रास्तावीन् म उदके आसीत् मे सुब्रह्मण्याम् आह्वासीद् इत्य् उद्गात्रे दक्षिणा नीयन्ते ग्रहान् मे ऽग्रहीत् प्राचारीन् मे ऽशुश्रुवन् मे समनसस्कार्षीद् अयाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इत्य् अध्वर्यवे होतृषदन आसिष्ट अयाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इति होत्रे देवयजनं मे ऽचीकृपद् ब्रह्मा सादं मे ऽसीसृपद् ब्रह्मजपान् मे ऽजपीत् पुरस्ताद्धोमसंस्थितहोमान् मे ऽहौषीद् अयाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इति ब्रह्मणे भूयिष्ठेन मा ब्रह्मणाकार्षीद् इत्य् एतद् वै भूयिष्ठं ब्रह्म यद् भृग्वङ्गिरसः ये ऽङ्गिरसो ये ऽङ्गिरसः स रसः ये ऽथर्वाणा ये ऽथर्वाणस् तद् भेषजं यद् भेषजं तद् अमृतं यद् अमृतं तद् ब्रह्म स वा एष पूर्वेषाम् ऋत्विजाम् अर्धभागस्यार्धम् इतरेषाम् अर्धं ब्रह्मण इति ब्राह्मणम् ॥ (४।०)
tad yad audumbaryān ma āsiṣṭa hiṅkṛṇot me prāstāvīn ma udake āsīt me subrahmaṇyām āhvāsīd ity udgātre dakṣiṇā nīyante grahān me 'grahīt prācārīn me 'śuśruvan me samanasaskārṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma ity adhvaryave hotṛṣadana āsiṣṭa ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti hotre devayajanaṃ me 'cīkṛpad brahmā sādaṃ me 'sīsṛpad brahmajapān me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe bhūyiṣṭhena mā brahmaṇākārṣīd ity etad vai bhūyiṣṭhaṃ brahma yad bhṛgvaṅgirasaḥ ye 'ṅgiraso ye 'ṅgirasaḥ sa rasaḥ ye 'tharvāṇā ye 'tharvāṇas tad bheṣajaṃ yad bheṣajaṃ tad amṛtaṃ yad amṛtaṃ tad brahma sa vā eṣa pūrveṣām ṛtvijām ardhabhāgasyārdham itareṣām ardhaṃ brahmaṇa iti brāhmaṇam ||
देवाश् च ह वा असुराश् च संग्रामं समयतन्त तत्रैतास् तिस्त्रो होत्रका जिह्मं प्रतिपेदिरे तासाम् इन्द्र उच्छानि सामानि लुलोप तानि होत्रे प्रायच्छद् आज्यं ह वै होतुर् बभूव प्रौगं पोतुर् वैश्वदेवं ह वै होतुर् बभूव निष्केवल्यं नेष्टुर् मरुत्वतीयं ह वै होतुर् बभूव आग्निमारुतम् आग्नीध्रस्य तस्माद् एतद् अभ्यस्ततरम् इव शस्यते यद् आग्निमारुतं यस्माद् एते संशंसुका इव भवन्ति यद्धोता पोता नेष्टाग्नीध्रो मुमोहे वसीत तद् ब्रह्मेयसाम् इवास तासाम् अर्धं प्रतिलुलोप प्रथमार्हणं च प्रथमपदं चैतद् दक्षिणां चैतत् परिशिषेदेद् इति ब्राह्मणम् ॥ (५।०)
devāś ca ha vā asurāś ca saṃgrāmaṃ samayatanta tatraitās tistro hotrakā jihmaṃ pratipedire tāsām indra ucchāni sāmāni lulopa tāni hotre prāyacchad ājyaṃ ha vai hotur babhūva praugaṃ potur vaiśvadevaṃ ha vai hotur babhūva niṣkevalyaṃ neṣṭur marutvatīyaṃ ha vai hotur babhūva āgnimārutam āgnīdhrasya tasmād etad abhyastataram iva śasyate yad āgnimārutaṃ yasmād ete saṃśaṃsukā iva bhavanti yaddhotā potā neṣṭāgnīdhro mumohe vasīta tad brahmeyasām ivāsa tāsām ardhaṃ pratilulopa prathamārhaṇaṃ ca prathamapadaṃ caitad dakṣiṇāṃ caitat pariśiṣeded iti brāhmaṇam ||
उद्दालको ह वा आरुणिर् उदीच्यान् वृतो धावयांचकार तस्य ह निष्क उपाहितो बभूव उपवादाद् बिभ्यतो यो मा ब्राह्मणो ऽनूचान उपवदिष्यति तस्मा एतं प्रदास्यामीति तद्धोदीच्यान् ब्राह्मणान् भयं बिभेद उद्दालको ह वा अयम् आयाति कौरुपाञ्चाली ब्रह्मा ब्रह्मपुत्रः स ऊर्ध्वं वृतो न पर्यादधीत केनेमं वीरेण प्रति संयतामहा इति तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे तं ह स्वैदायनं शौनकम् ऊचुः स्वैदायन त्वं वै नो ब्रह्मिष्ठो ऽसीति त्वयेमं वीरेण प्रतिसयतामहा इति तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे तं ह स्वैदायना इत्य् आमन्त्रयामास स हो गोतमस्य पुत्रेतीति हास्मा असूयात् प्रतिश्रुतं प्रतिशुश्राव स वै गौतमस्य पुत्र ऊर्ध्वं वृतो ऽधावीत् ॥ (६।०)
uddālako ha vā āruṇir udīcyān vṛto dhāvayāṃcakāra tasya ha niṣka upāhito babhūva upavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti taddhodīcyān brāhmaṇān bhayaṃ bibheda uddālako ha vā ayam āyāti kaurupāñcālī brahmā brahmaputraḥ sa ūrdhvaṃ vṛto na paryādadhīta kenemaṃ vīreṇa prati saṃyatāmahā iti taṃ yata eva prapannaṃ dadhre tata evam anupratipedire taṃ ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭho 'sīti tvayemaṃ vīreṇa pratisayatāmahā iti taṃ yata eva prapannaṃ dadhre tata evam anupratipedire taṃ ha svaidāyanā ity āmantrayāmāsa sa ho gotamasya putretīti hāsmā asūyāt pratiśrutaṃ pratiśuśrāva sa vai gautamasya putra ūrdhvaṃ vṛto 'dhāvīt ||
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते कस्माद् असामपरम् इव श्मश्रूण्य् उपकक्षाण्य् अन्यानि लोमानि जायन्ते यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्रजाः शिरस्तः प्रथमं पलिता भवन्ति कस्माद् अन्ततः सर्वा एव पलिता भवन्ति यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मादिमाः प्रजा अदन्तिका जायन्ते कस्मादासामपरमिव जायते यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते कस्माद् आसां पुनर् एव जायन्ते कस्मादन्ततः सर्व एव प्रभिद्यन्ते यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मादधरे दन्ताः पूर्वे जायन्ते पर उत्तरे यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मादधरे दन्ताः अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमौ दंष्ट्रौ दीर्घतरौ कस्मात्समे इव जम्भे यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मादिमे श्रोत्रे ऽन्ततः समे इव दीर्णे यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मात् पुमांसः श्मश्रुवन्तो ऽस्मश्रुवः स्त्रियः यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मादासां संततम् इव शरीरं भवति कस्मादासामस्थीनि दृढतराणीव भवन्ति यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मादासां प्रथमे वयसि रेतः सिक्तं न सम्भवति कस्मादासां मध्यमे वयसि रेतः सिक्तं सम्भवति कस्मादासामुत्तमे वयसि रेतः सिक्तं न सम्भवति यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मादिदं शिश्नमुच्चश एति नीची पद्यते कस्मात् सकृद् अपानम् ॥ (७।०)
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante kasmād asāmaparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmādimāḥ prajā adantikā jāyante kasmādāsāmaparamiva jāyate yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmādantataḥ sarva eva prabhidyante yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmādadhare dantāḥ pūrve jāyante para uttare yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmādadhare dantāḥ aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imau daṃṣṭrau dīrghatarau kasmātsame iva jambhe yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmādime śrotre 'ntataḥ same iva dīrṇe yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmāt pumāṃsaḥ śmaśruvanto 'smaśruvaḥ striyaḥ yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmādāsāṃ saṃtatam iva śarīraṃ bhavati kasmādāsāmasthīni dṛḍhatarāṇīva bhavanti yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmādāsāṃ prathame vayasi retaḥ siktaṃ na sambhavati kasmādāsāṃ madhyame vayasi retaḥ siktaṃ sambhavati kasmādāsāmuttame vayasi retaḥ siktaṃ na sambhavati yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmādidaṃ śiśnamuccaśa eti nīcī padyate kasmāt sakṛd apānam ||
यत् पुरस्ताद् वेदेः प्रथमं बर्हिः स्तृणाति तस्माद् इमा प्रजा शिरस्तः प्रथमं लोमशा जायन्ते यदपरमिव प्रस्तरम् अनुप्रस्तृणाति तस्मादासाम् अपरमिव श्मश्रूण्युपकक्षाण्यन्यानि लोमानि जायन्ते यत्प्राग्बर्हिषः प्रस्तरमनुप्रहरति तस्माद् इमाः प्रजाः शिरस्तः प्रथमं पलिता भवन्ति यदन्ततः सर्वम् एवानुप्रहरति तस्मादन्ततः सर्व एव पलिता भवन्ति यत्प्रयाजा अपुरो ऽनुवाक्यावन्तो भवन्ति तस्मादिमाः प्रजा अदन्तिका जायन्ते यद्धवींषि पुरो ऽनुवाक्यावन्ति भवन्ति तस्मादासामपरम् इव जायन्ते यदनुयाजा अपुरो ऽनुवाक्यावन्तो भवन्ति तस्मादासां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते यत्पत्नीसंयाजाः पुरोऽनुवाक्यावन्तो भवन्ति तस्मादासां पुनरेव जायन्ते यत्समिष्टयजुरपुरोऽनुवाक्यावद् भवति तस्मादन्ततः सर्व एव प्रभिद्यन्ते यद्गायत्र्यानूच्य त्रिष्टुभा यजति तस्मादधरे दन्ताः पूर्वे जायन्ते पर उत्तरे यद् ऋचानूच्य यजुषा यजति तस्मादधरे दन्ता अणीयांसो ह्रसीयांसः प्रथीयांसो वर्सीयांस उत्तरे यदाघारौ दीर्घतरौ प्राञ्चाव् आघारयति तस्मादिमौ दंष्ट्रौ दीर्घतरौ यत्संयाज्ये सच्छन्दसी तस्मात् समे इव जम्भे यच्चतुर्थे प्रयाजे समानयति तस्माद् इमे श्रोत्रे अन्तरतः समे इव दीर्णे यज्जपं जपित्वाभिहिङ्कृणोति तस्मात्पुमांसः श्मश्रुवन्तो ऽश्मश्रुव स्त्रियो यत्सामिधेनीः संतन्वन्नन्वाह तस्माद् आसां संततमिव शरीरं भवति यत्सामिधेन्यः काष्ठहविषो भवन्ति तस्माद् आसाम् अस्थीनि दृढतराणीव भवन्ति यत्प्रयाजा आज्यहविषो भवन्ति तस्माद् आसां प्रथमे वयसि रेतः सिक्तं न सम्भवति यन्मध्ये हविषां दध्ना च पुरोडाशेन च प्रचरन्ति तस्मादासां मध्यमे वयसि रेतः सिक्तं सम्भवति यदनुयाजा आज्यहविषो भवन्ति तस्माद् आसाम् उत्तमे वयसि रेतः सिक्तं न सम्भवति यदुत्तमे ऽनुयाजे सकृद् अपानिति तस्माद् इदं शिश्नमुच्चश एति नीची पद्यते यन् नापानेत् सकृच्छूनं स्याद्यन्मुहुर् अपानेत् सकृत्पन्नं स्यात् तस्मात् सकृद् अपानिति नेत् सकृच्छूनं स्यात्सकृत्पन्नं वेति ॥ (९।१)
yat purastād vedeḥ prathamaṃ barhiḥ stṛṇāti tasmād imā prajā śirastaḥ prathamaṃ lomaśā jāyante yadaparamiva prastaram anuprastṛṇāti tasmādāsām aparamiva śmaśrūṇyupakakṣāṇyanyāni lomāni jāyante yatprāgbarhiṣaḥ prastaramanupraharati tasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti yadantataḥ sarvam evānupraharati tasmādantataḥ sarva eva palitā bhavanti yatprayājā apuro 'nuvākyāvanto bhavanti tasmādimāḥ prajā adantikā jāyante yaddhavīṃṣi puro 'nuvākyāvanti bhavanti tasmādāsāmaparam iva jāyante yadanuyājā apuro 'nuvākyāvanto bhavanti tasmādāsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante yatpatnīsaṃyājāḥ puro'nuvākyāvanto bhavanti tasmādāsāṃ punareva jāyante yatsamiṣṭayajurapuro'nuvākyāvad bhavati tasmādantataḥ sarva eva prabhidyante yadgāyatryānūcya triṣṭubhā yajati tasmādadhare dantāḥ pūrve jāyante para uttare yad ṛcānūcya yajuṣā yajati tasmādadhare dantā aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varsīyāṃsa uttare yadāghārau dīrghatarau prāñcāv āghārayati tasmādimau daṃṣṭrau dīrghatarau yatsaṃyājye sacchandasī tasmāt same iva jambhe yaccaturthe prayāje samānayati tasmād ime śrotre antarataḥ same iva dīrṇe yajjapaṃ japitvābhihiṅkṛṇoti tasmātpumāṃsaḥ śmaśruvanto 'śmaśruva striyo yatsāmidhenīḥ saṃtanvannanvāha tasmād āsāṃ saṃtatamiva śarīraṃ bhavati yatsāmidhenyaḥ kāṣṭhahaviṣo bhavanti tasmād āsām asthīni dṛḍhatarāṇīva bhavanti yatprayājā ājyahaviṣo bhavanti tasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati yanmadhye haviṣāṃ dadhnā ca puroḍāśena ca pracaranti tasmādāsāṃ madhyame vayasi retaḥ siktaṃ sambhavati yadanuyājā ājyahaviṣo bhavanti tasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati yaduttame 'nuyāje sakṛd apāniti tasmād idaṃ śiśnamuccaśa eti nīcī padyate yan nāpānet sakṛcchūnaṃ syādyanmuhur apānet sakṛtpannaṃ syāt tasmāt sakṛd apāniti net sakṛcchūnaṃ syātsakṛtpannaṃ veti ||
अथापि कारवो ह नाम ऋषयो ऽल्पस्वा आसंस्त इममेकगुमग्निष्टोमं ददृशुस्तमाहरंस्तेनायजन्त ते स्वर्ययुः स य इच्छेत्स्वरियामिति स एतेनैकगुनाग्निष्टोमेन यजेतेति ब्राह्मणम् ॥ (१७।०)
athāpi kāravo ha nāma ṛṣayo 'lpasvā āsaṃsta imamekagumagniṣṭomaṃ dadṛśustamāharaṃstenāyajanta te svaryayuḥ sa ya icchetsvariyāmiti sa etenaikagunāgniṣṭomena yajeteti brāhmaṇam ||
अथ यस्य दीक्षितस्यर्तुमती जाया स्यात् प्रतिस्नावा प्रतिस्नावा सरूपवत्साया गोः पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिङ्कृत्य गर्भवेदनपुंसवनैः संपातवन्तं कृत्वा तं परैव प्राश्नीयाद्रेतो वा अन्नं वृषा हिंकार एवं हीश्वरा या दीक्षिताय दीक्षिता जाया पुत्रं लभेतेत्येतेनैव प्रक्रमेण यजेतेति ब्राह्मणम् ॥ (२३।०)
atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyādreto vā annaṃ vṛṣā hiṃkāra evaṃ hīśvarā yā dīkṣitāya dīkṣitā jāyā putraṃ labhetetyetenaiva prakrameṇa yajeteti brāhmaṇam ||
इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे तृतीयः प्रपाठकः ॥ (२४।०)
ityatharvavede gopathabrāhmaṇapūrvabhāge tṛtīyaḥ prapāṭhakaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.