शार्ङ्गधरसंहिताŚārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11
Select a line for its word-by-word analysis.
सप्तधातवःस्वर्णतारारताम्राणि नागवङ्गौ च तीक्ष्णकम् । (१।१)
saptadhātavaḥsvarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam |
धातवः सप्त विज्ञेयास्ततस्तान् शोधयेद्बुधः ॥ (१।२)
dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ ||
लोहशुद्धिस्वर्णतारारताम्रायःपत्राण्यग्नौ प्रतापयेत् । (२।१)
lohaśuddhisvarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet |
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ (२।२)
niṣiñcettaptataptāni taile takre ca kāñjike ||
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा । (३।१)
gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā |
एवं स्वर्णादिलोहानां विशुद्धिः सम्प्रजायते ॥ (३।२)
evaṃ svarṇādilohānāṃ viśuddhiḥ samprajāyate ||
नागवङ्गौ प्रतप्तौ च गालितौ तौ निषिञ्चयेत् । (४।१)
nāgavaṅgau prataptau ca gālitau tau niṣiñcayet |
त्रिधा त्रिधा विशुद्धिः स्याद्रविदुग्धेन च त्रिधा ॥ (४।२)
tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā ||
गोल्द्:: मारणस्वर्णाच्च द्विगुणं सूतमम्लेन सह मर्दयेत् । (५।१)
gold:: māraṇasvarṇācca dviguṇaṃ sūtamamlena saha mardayet |
त्रिंशद्वनोपलैर्दद्यात् पुटान्येवं चतुर्दश ॥ (६।२)
triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa ||
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः । (७।१)
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ |
स्वर्णस्य निरुत्थभस्मकाञ्चने गालिते नागं षोडशांशेन निक्षिपेत् ॥ (७।२)
svarṇasya nirutthabhasmakāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet ||
चूर्णयित्वा तथाम्लेन घृष्ट्वा कृत्वा च गोलकम् । (८।१)
cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam |
गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम् ॥ (८।२)
golakena samaṃ gandhaṃ dattvā caivādharottaram ||
शरावसंपुटे धृत्वा पुटेत् त्रिंशद्वनोपलैः । (९।१)
śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ |
स्वर्णमारणकाञ्चनाररसैर् घृष्ट्वा समसूतकगन्धयोः । (१०।१)
svarṇamāraṇakāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ |
काञ्चनारत्वचः कल्कैर्मूषायुग्मं प्रकल्पयेत् । (११।१)
kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet |
धृत्वा तत्संपुटे गोलं मृन्मूषासंपुटे पचेत् ॥ (११।२)
dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet ||
निधाय संधिरोधं च कृत्वा संशोष्य कोकिलैः । (१२।१)
nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ |
वह्निं खरतरं कुर्यादेवं दद्यात्पुटत्रयम् ॥ (१२।२)
vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam ||
निरुत्थं जायते भस्म सर्वकार्येषु योजयेत् । (१३।१)
nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet |
काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम् ॥ (१३।२)
kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam ||
ज्वालामुखी यथा हन्यात्तथा हन्ति मनःशिला । (१४।१)
jvālāmukhī yathā hanyāttathā hanti manaḥśilā |
गोल्द्:: मारणशिलासिन्दूरयोश्चूर्णं समयोरर्कदुग्धकैः ॥ (१४।२)
gold:: māraṇaśilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ ||
सप्तैव भावना दद्याच्छोषयेच्च पुनः पुनः । (१५।१)
saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ |
ततस्तु गालिते हेम्नि कल्कोऽयं दीयते समः ॥ (१५।२)
tatastu gālite hemni kalko'yaṃ dīyate samaḥ ||
एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत् ॥ (१६।२)
evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet ||
स्वर्णमारणपारावतमलैर्लिम्पेदथवा कुक्कुटोद्भवैः । (१७।१)
svarṇamāraṇapārāvatamalairlimpedathavā kukkuṭodbhavaiḥ |
हेमपत्राणि तेषां च प्रदद्यादन्तरान्तरम् ॥ (१७।२)
hemapatrāṇi teṣāṃ ca pradadyādantarāntaram ||
गन्धचूर्णं समं धृत्वा शरावयुग्मसंपुटे । (१८।१)
gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe |
प्रदद्यात् कुक्कुटपुटं पञ्चभिर्गोमयोपलैः ॥ (१८।२)
pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ ||
त्रिंशद्वनोपलैर्देयं जायते हेमभस्मकम् ॥ (१९।२)
triṃśadvanopalairdeyaṃ jāyate hemabhasmakam ||
सुवर्णं च भवेत्स्वादु तिक्तं स्निग्धं हिमं गुरु । (२०।१)
suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru |
सिल्वेर्:: मारणभागैकं तालकं मर्द्यं जम्बेनाम्लेन केनचित् । (२१।१)
silver:: māraṇabhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit |
धृत्वा मूषापुटे रुद्ध्वा पुटेत् त्रिंशद्वनोपलैः । (२२।१)
dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ |
समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत् ॥ (२२।२)
samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet ||
सिल्वेर्:: मारणस्नुहीक्षीरेण सम्पिष्टं माक्षिकं तेन लेपयेत् ॥ (२३।२)
silver:: māraṇasnuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet ||
ब्रस्स्:: मारणअर्कक्षीरेण सम्पिष्टो गन्धकस्तेन लेपयेत् । (२५।१)
brass:: māraṇaarkakṣīreṇa sampiṣṭo gandhakastena lepayet |
समेनारस्य पत्राणि शुद्धान्यम्लद्रवैर् मुहुः ॥ (२५।२)
samenārasya patrāṇi śuddhānyamladravair muhuḥ ||
एवं पुटद्वयेनैव भस्मारं भवति ध्रुवम् ॥ (२६।२)
evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam ||
आरवत्कांस्यमप्येवं भस्मतां याति निश्चितम् । (२७।१)
āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam |
ताम्ररीतिकांस्यमारणअर्कक्षीरवदाजं स्यात्क्षीरनिर्गुण्डिका तथा ॥ (२७।२)
tāmrarītikāṃsyamāraṇaarkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā ||
ताम्रमारणसूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः । (२८।२)
tāmramāraṇasūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ |
पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत् । (२९।१)
pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet |
गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम् । (३०।१)
gandhakenāmlaghṛṣṭena tasya kuryācca golakam |
ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम् ॥ (३०।२)
tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām ||
धृत्वा तद्गोलकं भाण्डे शरावेण च रोधयेत् ॥ (३१।२)
dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet ||
वालुकाभिः प्रपूर्याथ विभूतिलवणाम्बुभिः । (३२।१)
vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ |
दत्त्वा भाण्डमुखे मुद्रां ततश्चुल्ल्यां विपाचयेत् ॥ (३२।२)
dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet ||
क्रमवृद्धाग्निना सम्यग्यावद्यामचतुष्टयम् । (३३।१)
kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam |
स्वाङ्गशीतलम् उद्धृत्य मर्दयेत्सूरणद्रवैः ॥ (३३।२)
svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ ||
दिनैकं गोलकं कुर्यादर्धगन्धेन लेपयेत् । (३४।१)
dinaikaṃ golakaṃ kuryādardhagandhena lepayet |
स्वाङ्गशीतं समुद्धृत्य मृतं ताम्रं शुभं भवेत् । (३५।१)
svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet |
वान्तिं भ्रान्तिं क्लमं मूर्च्छां न करोति कदाचन ॥ (३५।२)
vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana ||
नागमारणताम्बूलीरससम्पिष्टशिलालेपात् पुनः पुनः ॥ (३६।०)
nāgamāraṇatāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ ||
द्वात्रिंशद्भिः पुटैर्नागो निरुत्थो याति भस्मताम् । (३७।१)
dvātriṃśadbhiḥ puṭairnāgo niruttho yāti bhasmatām |
नागमारण (२)अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निक्षिपेत् ॥ (३७।२)
nāgamāraṇa (2)aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet ||
मृत्पात्रे द्राविते नागे लोहदर्व्या प्रचालयेत् । (३८।१)
mṛtpātre drāvite nāge lohadarvyā pracālayet |
यामैकेन भवेद्भस्म तत्तुल्यां च मनःशिलाम् ॥ (३८।२)
yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām ||
काञ्जिकेन द्वयं पिष्ट्वा पचेद्दृढपुटेन च । (३९।१)
kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca |
स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च ॥ (३९।२)
svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca ||
पुनः पुटेच्छरावाभ्यामेवं षष्टिपुटैर्मृतिः । (४०।१)
punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ |
वङ्गमारणमृत्पात्रे द्राविते वङ्गे चिञ्चाश्वत्थत्वचो रजः ॥ (४०।२)
vaṅgamāraṇamṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ ||
क्षिप्त्वा क्षिप्त्वा चतुर्थांशम् अयोदर्व्या प्रचालयेत् । (४१।१)
kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet |
अथ भस्मसमं तालं क्षिप्त्वाम्लेन प्रमर्दयेत् । (४२।१)
atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet |
एवं दशपुटैः पक्वो वङ्गस्तु म्रियते ध्रुवम् ॥ (४३।२)
evaṃ daśapuṭaiḥ pakvo vaṅgastu mriyate dhruvam ||
इरोन्:: मारणशुद्धं लोहभवं चूर्णं पातालगरुडीरसैः । (४४।१)
iron:: māraṇaśuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ |
मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटत्रयम् ॥ (४४।२)
mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam ||
पुटषट्कं ततो दद्यादेवं तीक्ष्णमृतिर्भवेत् ॥ (४५।२)
puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet ||
तीक्ष्णलोह:: मारणक्षिपेद्वा दशमांशेन दरदं तीक्ष्णचूर्णतः । (४६।१)
tīkṣṇaloha:: māraṇakṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ |
मर्दयेत्कन्यकाद्रावैर्यामयुग्मं ततः पुटेत् ॥ (४६।२)
mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet ||
एवं सप्तपुटैर्मृत्युं लोहचूर्णमवाप्नुयात् । (४७।१)
evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt |
स्तन्येन चार्कदुग्धेन तीक्ष्णस्यैवं मृतिर्भवेत् । (४८।१)
stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet |
लोहमारणसूतकाद्द्विगुणं गन्धं दत्त्वा कुर्याच्च कज्जलीम् ॥ (४८।२)
lohamāraṇasūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm ||
द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्रवैः । (४९।१)
dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ |
यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके ॥ (४९।२)
yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake ||
घर्मे धृत्वा रुबूकस्य पत्रैराच्छादयेद्बुधः । (५०।१)
gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ |
यामार्धेनोष्णतां भूयाद्धान्यराशौ न्यसेत्ततः ॥ (५०।२)
yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ ||
दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् । (५१।१)
dattvopari śarāvaṃ tu tridinānte samuddharet |
पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत् ॥ (५१।२)
piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet ||
एवं सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत् । (५२।१)
evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet |
शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः ॥ (५२।२)
śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ ||
म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा । (५३।१)
mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā |
सप्तोपधातवःमाक्षिकं तुत्थकाभ्रे च नीलाञ्जनशिलालकाः ॥ (५३।२)
saptopadhātavaḥmākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ ||
स्वर्णमाक्षिकशोधनमाक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च ॥ (५४।२)
svarṇamākṣikaśodhanamākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca ||
मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् । (५५।१)
mātuluṅgadravairvātha jambīrotthadravaiḥ pacet |
चालयेल्लोहजे पात्रे यावत्पात्रं तु लोहितम् ॥ (५५।२)
cālayellohaje pātre yāvatpātraṃ tu lohitam ||
भवेत् ततस्तु संशुद्धिं स्वर्णमाक्षिकमृच्छति । (५६।१)
bhavet tatastu saṃśuddhiṃ svarṇamākṣikamṛcchati |
स्वर्णमाक्षिकमारणकुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत् ॥ (५६।२)
svarṇamākṣikamāraṇakulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet ||
तक्रेण वाजमूत्रेण म्रियते स्वर्णमाक्षिकम् । (५७।१)
takreṇa vājamūtreṇa mriyate svarṇamākṣikam |
तारमाक्षिकशोधनकर्कोटीमेषशृङ्ग्युत्थैर् द्रवैर् जम्बीरजैर् दिनम् ॥ (५७।२)
tāramākṣikaśodhanakarkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam ||
भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् । (५८।१)
bhāvayedātape tīvre vimalā śudhyati dhruvam |
तुत्थ:: शोधनविष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः ॥ (५८।२)
tuttha:: śodhanaviṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ ||
दशांशं टङ्कणं दत्त्वा पचेन्मृदुपुटेन तु । (५९।१)
daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu |
पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ (५९।२)
puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye ||
अभ्र:: शोधनकृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत् । (६०।१)
abhra:: śodhanakṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet |
भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर् द्रवैः ॥ (६०।२)
bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ ||
अभ्र:: मारणकृत्वा धान्याभ्रकं तत्तु शोषयित्वाथ मर्दयेत् ॥ (६१।२)
abhra:: māraṇakṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet ||
अर्कक्षीरैर् दिनं खल्वे चक्राकारं च कारयेत् । (६२।१)
arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet |
वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत् ॥ (६२।२)
veṣṭayedarkapatraiśca samyaggajapuṭe pacet ||
पुनर्मर्द्यं पुनः पाच्यं सप्तवारं प्रयत्नतः । (६३।१)
punarmardyaṃ punaḥ pācyaṃ saptavāraṃ prayatnataḥ |
ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम् ॥ (६३।२)
tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam ||
म्रियते नात्र संदेहः सर्वयोगेषु योजयेत् । (६४।१)
mriyate nātra saṃdehaḥ sarvayogeṣu yojayet |
तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत् ॥ (६४।२)
tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet ||
मृते जीर्णे तदभ्रं तु सर्वयोगेषु योजयेत् । (६५।१)
mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet |
मृतं त्वभ्रं हरेन्मृत्युं जरापलितनाशनम् ॥ (६५।२)
mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam ||
अभ्र:: मारणशुद्धं धान्याभ्रकं मुस्तं शुण्ठीषड्भागयोजितम् ॥ (६६।२)
abhra:: māraṇaśuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam ||
मर्दयेत् काञ्जिकेनैव दिनं चित्रकजै रसैः । (६७।१)
mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ |
ततो गजपुटं दद्यात्तस्मादुद्धृत्य मर्दयेत् ॥ (६७।२)
tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet ||
त्रिफलावारिणा तद्वत्पुटेदेवं पुटैस्त्रिभिः । (६८।१)
triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ |
मर्दितं पुटितं वह्नौ त्रित्रिवेलं व्रजेन्मृतिम् । (६९।१)
marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim |
अभ्रसत्त्व (?)धान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य च । (६९।२)
abhrasattva (?)dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca |
पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् ॥ (६९।३)
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet ||
नीलाञ्जनशोधननीलाञ्जनं चूर्णयित्वा जम्बीरद्रवभावितम् ॥ (७०।२)
nīlāñjanaśodhananīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam ||
दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् । (७१।१)
dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet |
तौरी शङ्खं च कङ्कुष्ठं शुद्धिमायाति निश्चितम् । (७२।१)
taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam |
रेअल्गर्:: शोधनपचेत् त्र्यहम् अजामूत्रैर् दोलायन्त्रे मनःशिलाम् ॥ (७२।२)
realgar:: śodhanapacet tryaham ajāmūtrair dolāyantre manaḥśilām ||
भावयेत्सप्तधा पित्तैरजायाः शुद्धिमृच्छति । (७३।१)
bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati |
ओर्पिमेन्त्:: शोधनतालकं कणशः कृत्वा सचूर्णं काञ्जिके क्षिपेत् ॥ (७३।२)
orpiment:: śodhanatālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet ||
दोलायन्त्रेण यामैकं ततः कूष्माण्डजैर्द्रवैः । (७४।१)
dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ |
तिलतैले पचेद्यामं यामं च त्रिफलाजलैः ॥ (७४।२)
tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ ||
एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकम् । (७५।१)
evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam |
रसकशुद्धिनरमूत्रैश्च गोमूत्रैः सप्ताहं रसकं पचेत् ॥ (७५।२)
rasakaśuddhinaramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet ||
दोलायन्त्रेण शुद्धिः स्यात्ततः कार्येषु योजयेत् । (७६।१)
dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet |
धातुसत्त्वनिर्गमलाक्षा मीनाः पयश्छागं टङ्कणं मृगशृङ्गकम् ॥ (७६।२)
dhātusattvanirgamalākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam ||
पिण्याकं सर्षपाः शिग्रुर्गुञ्जोर्णागुडसैन्धवाः । (७७।१)
piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ |
यवास्तिक्ता घृतं क्षौद्रं यथालाभं विचूर्णयेत् ॥ (७७।२)
yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet ||
एभिर्विमिश्रिताः सर्वे धातवो गाढवह्निना । (७८।१)
ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā |
मूषाध्माताः प्रजायन्ते मुक्तसत्त्वा न संशयः ॥ (७८।२)
mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ ||
वज्रशोधनकुलत्थकोद्रवक्वाथैर् दोलायन्त्रे विपाचयेत् । (७९।१)
vajraśodhanakulatthakodravakvāthair dolāyantre vipācayet |
व्याघ्रीकन्दगतं वज्रं त्रिदिनं तद्विशुध्यति ॥ (७९।२)
vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati ||
वज्रमारणतप्तं तप्तं तु तद्वज्रं खरमूत्रैर्निषेचयेत् । (८०।१)
vajramāraṇataptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet |
पुनस्तप्यं पुनः सेच्यमेवं कुर्यात् त्रिसप्तधा ॥ (८०।२)
punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā ||
मत्कुणैस्तालकं पिष्ट्वा यावद्भवति गोलकम् । (८१।१)
matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam |
तद्गोले निहितं वज्रं तद्गोलं वह्निना धमेत् ॥ (८१।२)
tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet ||
सिञ्चयेद् अश्वमूत्रेण तद्गोले च क्षिपेत्पुनः । (८२।१)
siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ |
रुद्ध्वा ध्मातं पुनः सेच्यमेवं कुर्यात् त्रिसप्तधा ॥ (८२।२)
ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā ||
एवं च म्रियते वज्रं चूर्णं सर्वत्र योजयेत् । (८३।१)
evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet |
वज्रमारण (?)हिङ्गुसैन्धवसंयुक्ते क्वाथे कौलत्थजे क्षिपेत् ॥ (८३।२)
vajramāraṇa (?)hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet ||
तप्तं तप्तं पुनर्वज्रं भूयाच्चूर्णं त्रिसप्तधा । (८४।१)
taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā |
वज्रमारण (३)मण्डूकं कांस्यजे पात्रे निगृह्य स्थापयेत् सुधीः ॥ (८४।२)
vajramāraṇa (3)maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ ||
स भीतो मूत्रयेत्तत्र तन्मूत्रे वज्रमावपेत् । (८५।१)
sa bhīto mūtrayettatra tanmūtre vajramāvapet |
तप्तं तप्तं च बहुधा वज्रस्यैवं मृतिर्भवेत् ॥ (८५।२)
taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet ||
वैक्रान्त:: मारणवैक्रान्तं वज्रवच्छोध्यं नीलं वा लोहितं तथा । (८६।१)
vaikrānta:: māraṇavaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā |
हयमूत्रेण तत्सेच्यं तप्तं तप्तं द्विसप्तधा ॥ (८६।२)
hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā ||
ततस्तु मेषदुग्धस्य पञ्चाङ्गे गोलकं क्षिपेत् । (८७।१)
tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet |
पुटेन्मूषापुटे रुद्ध्वा कुर्यादेवं च सप्तधा ॥ (८७।२)
puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā ||
वैक्रान्तं भस्मतां याति वज्रस्थाने नियोजयेत् । (८८।१)
vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet |
मणिशोधनमारणस्वेदयेद्दोलिकायन्त्रे जयन्त्याः स्वरसेन च ॥ (८८।२)
maṇiśodhanamāraṇasvedayeddolikāyantre jayantyāḥ svarasena ca ||
जेwएल्, चोरल्, पेअर्ल्:: मारणकुमार्यास् तण्डुलीयेन स्तन्येन च निषेचयेत् ॥ (८९।२)
jewel, coral, pearl:: māraṇakumāryās taṇḍulīyena stanyena ca niṣecayet ||
प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः । (९०।१)
pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ |
मौक्तिकानि प्रवालानि तथा रत्नान्यशेषतः ॥ (९०।२)
mauktikāni pravālāni tathā ratnānyaśeṣataḥ ||
क्षणाद्विविधवर्णानि म्रियन्ते नात्र संशयः । (९१।१)
kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ |
उक्तमाक्षिकवन्मुक्ताः प्रवालानि च मारयेत् ॥ (९१।२)
uktamākṣikavanmuktāḥ pravālāni ca mārayet ||
शिलाजतुशोधनशिलाजतु समानीय ग्रीष्मतप्तशिलाच्युतम् ॥ (९२।२)
śilājatuśodhanaśilājatu samānīya grīṣmataptaśilācyutam ||
गोदुग्धैस् त्रिफलाक्वाथैर् भृङ्गद्रावैश्च मर्दयेत् । (९३।१)
godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet |
आतपे दिनमेकैकं तच्छुद्धं शुद्धतां व्रजेत् ॥ (९३।२)
ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet ||
शिलाजतुशोधनमुख्यां शिलाजतुशिलां सूक्ष्मखण्डप्रकल्पिताम् । (९४।१)
śilājatuśodhanamukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām |
निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः ॥ (९४।२)
nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ ||
मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम् । (९५।१)
mardayitvā tato nīraṃ gṛhṇīyādvastragālitam |
स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः ॥ (९५।२)
sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ ||
उपरिस्थं घनं यत्स्यात्तत्क्षिपेदन्यपात्रके । (९६।१)
uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake |
धारयेदातपे तस्माद् उपरिस्थं घनं नयेत् ॥ (९६।२)
dhārayedātape tasmād uparisthaṃ ghanaṃ nayet ||
एवं पुनः पुनर्नीत्वा द्विमासाभ्यां शिलाजतु । (९७।१)
evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu |
भूयात्कार्यक्षमं वह्नौ क्षिप्तं लिङ्गोपमं भवेत् ॥ (९७।२)
bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet ||
निर्धूमं च ततः शुद्धं सर्वकर्मसु योजयेत् । (९८।१)
nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet |
अधःस्थितं च यच्छेषं तस्मिन् नीरं विनिक्षिपेत् ॥ (९८।२)
adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet ||
विमर्द्य धारयेद् घर्मे पूर्ववच्चैव तन्नयेत् । (९९।१)
vimardya dhārayed gharme pūrvavaccaiva tannayet |
मण्डूरअक्षाङ्गारैर् धमेत् किट्टं लोहजं तद्गवां जलैः ॥ (९९।२)
maṇḍūraakṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ ||
सेचयेत् तप्ततप्तं च सप्तवारं पुनः पुनः । (१००।१)
secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ |
चूर्णयित्वा ततः क्वाथैर्द्विगुणैस् त्रिफलाभवैः ॥ (१००।२)
cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ ||
आलोड्य भर्जयेद्वह्नौ मण्डूरं जायते वरम् । (१०१।१)
āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam |
क्षारकरणक्षीरवृक्षस्य काष्ठानि शुष्काण्यग्नौ प्रदीपयेत् ॥ (१०१।२)
kṣārakaraṇakṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet ||
नीत्वा तद्भस्म मृत्पात्रे क्षिप्त्वा नीरे चतुर्गुणे । (१०२।१)
nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe |
विमर्द्य धारयेद् रात्रौ प्रातरच्छं जलं नयेत् ॥ (१०२।२)
vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet ||
तन्नीरं क्वाथयेद्वह्नौ यावत्सर्वं विशुष्यति । (१०३।१)
tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati |
ततः पात्रात्समुल्लिख्य क्षारो ग्राह्यः सितप्रभः ॥ (१०३।२)
tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ ||
चूर्णाभः प्रतिसार्यः स्यात्पेयः स्यात्क्वाथवत्स्थितः । (१०४।१)
cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ |
इति क्षारद्वयं धीमान्युक्तकार्येषु योजयेत् ॥ (१०४।२)
iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet ||
Data courtesy of The Digital Corpus of Sanskrit.