सूर्यसिद्धान्तSūryasiddhānta

SūrSiddh, 2

2 of 2 · 138 verses

Select a line for its word-by-word analysis.

1.1१.१

अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः । (१।१)

adṛśyarūpāḥ kālasya mūrtayo bhagaṇāśritāḥ |

1.2१.२

शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः ॥ (१।२)

śīghramandoccapātākhyā grahāṇāṃ gatihetavaḥ ||

2.1२.१

तद्वातरश्मिभिर् बद्धास् तैः सव्येतरपाणिभिः । (२।१)

tadvātaraśmibhir baddhās taiḥ savyetarapāṇibhiḥ |

2.2२.२

प्राक् पश्चाद् अपकृष्यन्ते यथासन्नं स्वदिङ्मुखम् ॥ (२।२)

prāk paścād apakṛṣyante yathāsannaṃ svadiṅmukham ||

3.1३.१

प्रवहाख्यो मरुत् तांस् तु स्वोच्चाभिमुखम् ईरयेत् । (३।१)

pravahākhyo marut tāṃs tu svoccābhimukham īrayet |

3.2३.२

पूर्वापराकृष्टास् ते गतिं यान्ति पृथग्विधाः ॥ (३।२)

pūrvāparākṛṣṭās te gatiṃ yānti pṛthagvidhāḥ ||

4.1४.१

ग्रहात् प्राग्भगणार्धस्थः प्राङ्मुखं कर्षति ग्रहम् । (४।१)

grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham |

4.2४.२

उच्चसंज्ञो ऽपरार्धस्थस् तद्वत् पश्चान्मुखं ग्रहम् ॥ (४।२)

uccasaṃjño 'parārdhasthas tadvat paścānmukhaṃ graham ||

5.1५.१

स्वोच्चापकृष्टा भगणैः प्राङ्मुखं यान्ति यद् ग्रहाः । (५।१)

svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃ yānti yad grahāḥ |

5.2५.२

तत् तेषु धनम् इत्य् उक्तम् ऋणं पश्चान्मुखेषु च ॥ (५।२)

tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu ca ||

6.1६.१

दक्षिणोत्तरतो ऽप्य् एवं पातो राहुः स्वरंहसा । (६।१)

dakṣiṇottarato 'py evaṃ pāto rāhuḥ svaraṃhasā |

6.2६.२

विक्षिपत्य् एष विक्षेपं चन्द्रादीनाम् अपक्रमात् ॥ (६।२)

vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt ||

7.1७.१

उत्तराभिमुखं पातो विक्षिपत्य् अपरार्धगः । (७।१)

uttarābhimukhaṃ pāto vikṣipaty aparārdhagaḥ |

7.2७.२

ग्रहं प्राग्भगणार्धस्थो याम्यायाम् अपकर्षति ॥ (७।२)

grahaṃ prāgbhagaṇārdhastho yāmyāyām apakarṣati ||

8.1८.१

बुधभार्गवयोः शीघ्रात् तद्वत् पातो यदा स्थितः । (८।१)

budhabhārgavayoḥ śīghrāt tadvat pāto yadā sthitaḥ |

8.2८.२

तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत् ॥ (८।२)

tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat ||

9.1९.१

महत्त्वान् मण्डलस्यार्कः स्वल्पम् एवापकृष्यते । (९।१)

mahattvān maṇḍalasyārkaḥ svalpam evāpakṛṣyate |

9.2९.२

मण्डलाल्पतया चन्द्रस् ततो बह्व् अपकृष्यते । (९।२)

maṇḍalālpatayā candras tato bahv apakṛṣyate |

10.1१०.१

भौमादयो ऽल्पमूर्तित्वाच् छीघ्रमन्दोच्चसंज्ञकैः । (१०।१)

bhaumādayo 'lpamūrtitvāc chīghramandoccasaṃjñakaiḥ |

10.2१०.२

दैवतैर् अपकृष्यन्ते सुदूरम् अतिवेगिताः ॥ (१०।२)

daivatair apakṛṣyante sudūram ativegitāḥ ||

11.1११.१

अतो धनर्णं सुमहत् तेषां गतिवशाद् भवेत् । (११।१)

ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet |

11.2११.२

आकृष्यमाणास् तैर् एवं व्योम्नि यान्त्य् अनिलाहताः ॥ (११।२)

ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāḥ ||

12.1१२.१

वक्रातिवक्रा विकला मन्दा मन्दतरा समा । (१२।१)

vakrātivakrā vikalā mandā mandatarā samā |

12.2१२.२

तथा शीघ्रतरा शीघ्रा ग्रहाणाम् अष्टधा गतिः ॥ (१२।२)

tathā śīghratarā śīghrā grahāṇām aṣṭadhā gatiḥ ||

13.1१३.१

तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा । (१३।१)

tatrātiśīghrā śīghrākhyā mandā mandatarā samā |

13.2१३.२

ऋज्वीति पञ्चधा ज्ञेया या वक्रा सातिवक्रगा ॥ (१३।२)

ṛjvīti pañcadhā jñeyā yā vakrā sātivakragā ||

14.1१४.१

तत्तद्गतिवशान् नित्यं यथा दृक्तुल्यतां ग्रहाः । (१४।१)

tattadgativaśān nityaṃ yathā dṛktulyatāṃ grahāḥ |

14.2१४.२

प्रयान्ति तत् प्रवक्ष्यामि स्फुटीकरणम् आदरात् ॥ (१४।२)

prayānti tat pravakṣyāmi sphuṭīkaraṇam ādarāt ||

15.1१५.१

राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धम् उच्यते । (१५।१)

rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdham ucyate |

15.2१५.२

तत् तद्विभक्तलब्धोनमिश्रितं तद् द्वितीयकम् ॥ (१५।२)

tat tadvibhaktalabdhonamiśritaṃ tad dvitīyakam ||

16.1१६.१

आद्येनैवं क्रमात् पिण्डान् भक्त्वा लब्धोनसंयुताः । (१६।१)

ādyenaivaṃ kramāt piṇḍān bhaktvā labdhonasaṃyutāḥ |

16.2१६.२

खण्डकाः स्युश् चतुर्विंशज्यार्धपिण्डाः क्रमाद् अमी ॥ (१६।२)

khaṇḍakāḥ syuś caturviṃśajyārdhapiṇḍāḥ kramād amī ||

17.1१७.१

तत्त्वाश्विनो ऽङ्काब्धिकृता रूपभूमिधरर्तवः । (१७।१)

tattvāśvino 'ṅkābdhikṛtā rūpabhūmidharartavaḥ |

17.2१७.२

खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवः ॥ (१७।२)

khāṅkāṣṭau pañcaśūnyeśā bāṇarūpaguṇendavaḥ ||

18.1१८.१

शून्यलोचनपञ्चैकाश् छिद्ररूपमुनीन्दवः । (१८।१)

śūnyalocanapañcaikāś chidrarūpamunīndavaḥ |

18.2१८.२

वियच्चन्द्रातिधृतयो गुणरन्ध्राम्बराश्विनः ॥ (१८।२)

viyaccandrātidhṛtayo guṇarandhrāmbarāśvinaḥ ||

19.1१९.१

मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाः । (१९।१)

muniṣaḍyamanetrāṇi candrāgnikṛtadasrakāḥ |

19.2१९.२

पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विनः ॥ (१९।२)

pañcāṣṭaviṣayākṣīṇi kuñjarāśvinagāśvinaḥ ||

20.1२०.१

रन्ध्रपञ्चाष्टकयमा वस्वद्र्यङ्कयमास् तथा । (२०।१)

randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā |

20.2२०.२

कृताष्टशून्यज्वलना नगाद्रिशशिवह्नयः ॥ (२०।२)

kṛtāṣṭaśūnyajvalanā nagādriśaśivahnayaḥ ||

21.1२१.१

षट्पञ्चलोचनगुणाश् चन्द्रनेत्राग्निवह्नयः । (२१।१)

ṣaṭpañcalocanaguṇāś candranetrāgnivahnayaḥ |

21.2२१.२

यमाद्रिवह्निज्वलना रन्ध्रशून्यार्णवाग्नयः ॥ (२१।२)

yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ ||

22.1२२.१

रूपाग्निसागरगुणा वस्वग्निकृतवह्नयः । (२२।१)

rūpāgnisāgaraguṇā vasvagnikṛtavahnayaḥ |

22.2२२.२

प्रोज्झ्योत्क्रमेण व्यासार्धाद् उत्क्रमज्यार्धपिण्डिकाः ॥ (२२।२)

projjhyotkrameṇa vyāsārdhād utkramajyārdhapiṇḍikāḥ ||

23.1२३.१

मुनयो रन्ध्रयमला रसषट्का मुनीश्वराः । (२३।१)

munayo randhrayamalā rasaṣaṭkā munīśvarāḥ |

23.2२३.२

द्व्यष्टैका रूपषड्दस्राः सागरार्थहुताशनाः । (२३।२)

dvyaṣṭaikā rūpaṣaḍdasrāḥ sāgarārthahutāśanāḥ |

24.1२४.१

खर्तुवेदा नवाद्र्यर्था दिङ्नागास् त्र्यर्थकुञ्जराः । (२४।१)

khartuvedā navādryarthā diṅnāgās tryarthakuñjarāḥ |

24.2२४.२

नगाम्बरवियच्चन्द्रा रूपभूधरशंकराः ॥ (२४।२)

nagāmbaraviyaccandrā rūpabhūdharaśaṃkarāḥ ||

25.1२५.१

शरार्णवहुताशैका भुजंगाक्षिशरेन्दवः । (२५।१)

śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ |

25.2२५.२

नवरूपमहीध्रैका गजैकाङ्कनिशाकराः ॥ (२५।२)

navarūpamahīdhraikā gajaikāṅkaniśākarāḥ ||

26.1२६.१

गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः । (२६।१)

guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaḥ |

26.2२६.२

वस्वर्णवार्थयमलास् तुरङ्गर्तुनगाश्विनः ॥ (२६।२)

vasvarṇavārthayamalās turaṅgartunagāśvinaḥ ||

27.1२७.१

नवाष्टनवनेत्राणि पावकैकयमाग्नयः । (२७।१)

navāṣṭanavanetrāṇi pāvakaikayamāgnayaḥ |

27.2२७.२

गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः ॥ (२७।२)

gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāḥ ||

28.1२८.१

परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः । (२८।१)

paramāpakramajyā tu saptarandhraguṇendavaḥ |

28.2२८.२

तद्गुणा ज्या त्रिजीवाप्ता तच्चापं क्रान्तिर् उच्यते ॥ (२८।२)

tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate ||

29.1२९.१

ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद् विशोध्य च । (२९।१)

grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca |

29.2२९.२

शेषं केन्द्रपदं तस्माद् भुजज्या कोटिर् एव च ॥ (२९।२)

śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca ||

30.1३०.१

गताद् भुजज्या विषमे गम्यात् कोटिः पदे भवेत् । (३०।१)

gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet |

30.2३०.२

युग्मे तु गम्याद् बाहुज्या कोटिज्या तु गताद् भवेत् ॥ (३०।२)

yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet ||

31.1३१.१

लिप्तास् तत्त्वयमैर् भक्ता लब्धं ज्यापिण्डिकं गताम् । (३१।१)

liptās tattvayamair bhaktā labdhaṃ jyāpiṇḍikaṃ gatām |

31.2३१.२

गतगम्यान्तराभ्यस्तं विभजेत् तत्त्वलोचनैः ॥ (३१।२)

gatagamyāntarābhyastaṃ vibhajet tattvalocanaiḥ ||

32.1३२.१

तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके । (३२।१)

tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake |

32.2३२.२

स्यात् क्रमज्याविधिर् अयम् उत्क्रमज्यास्व् अपि स्मृतः ॥ (३२।२)

syāt kramajyāvidhir ayam utkramajyāsv api smṛtaḥ ||

33.1३३.१

ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम् । (३३।१)

jyāṃ projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam |

33.2३३.२

संख्यातत्त्वाश्विसंवर्गे संयोज्य धनुर् उच्यते ॥ (३३।२)

saṃkhyātattvāśvisaṃvarge saṃyojya dhanur ucyate ||

34.1३४.१

रवेर् मन्दपरिध्यंशा मनवः शीतगो रदाः । (३४।१)

raver mandaparidhyaṃśā manavaḥ śītago radāḥ |

34.2३४.२

युग्मान्ते विषमान्ते तु नखलिप्तोनितास् तयोः ॥ (३४।२)

yugmānte viṣamānte tu nakhaliptonitās tayoḥ ||

35.1३५.१

युग्मान्ते ऽर्थाद्रयः खाग्निसुराः सूर्या नवार्णवाः । (३५।१)

yugmānte 'rthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ |

35.2३५.२

ओजे द्व्यगा वसुयमा रदा रुद्रा गजाब्दयः ॥ (३५।२)

oje dvyagā vasuyamā radā rudrā gajābdayaḥ ||

36.1३६.१

कुजादीनां अतः शीघ्रा युग्मान्ते ऽर्थाग्निदस्रकाः । (३६।१)

kujādīnāṃ ataḥ śīghrā yugmānte 'rthāgnidasrakāḥ |

36.2३६.२

गुणाग्निचन्द्राः खनगा द्विरसाक्षीणि गोऽग्नयः ॥ (३६।२)

guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ ||

37.1३७.१

ओजान्ते द्वित्रियमला द्विविश्वे यमपर्वताः । (३७।१)

ojānte dvitriyamalā dviviśve yamaparvatāḥ |

37.2३७.२

खर्तुदस्रा वियद्वेदाः शीघ्रकर्मणि कीर्तिताः ॥ (३७।२)

khartudasrā viyadvedāḥ śīghrakarmaṇi kīrtitāḥ ||

38.1३८.१

ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता । (३८।१)

ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā |

38.2३८.२

युग्मे वृत्ते धनर्णं स्याद् ओजाद् ऊनाधिके स्फुटम् ॥ (३८।२)

yugme vṛtte dhanarṇaṃ syād ojād ūnādhike sphuṭam ||

39.1३९.१

तद्गुणे भुजकोटिज्ये भगणांशविभाजिते । (३९।१)

tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite |

39.2३९.२

तद्भुजज्याफलधनुर् मान्दं लिप्तादिकं फलम् ॥ (३९।२)

tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam ||

40.1४०.१

शैघ्र्यं कोटिफलं केन्द्रे मकरादौ धनं स्मृतम् । (४०।१)

śaighryaṃ koṭiphalaṃ kendre makarādau dhanaṃ smṛtam |

40.2४०.२

संशोध्यं तु त्रिजीवायां कर्क्यादौ कोटिजं फलम् ॥ (४०।२)

saṃśodhyaṃ tu trijīvāyāṃ karkyādau koṭijaṃ phalam ||

41.1४१.१

तद्बाहुफलवर्गैक्यान् मूलं कर्णश् चलाभिधः । (४१।१)

tadbāhuphalavargaikyān mūlaṃ karṇaś calābhidhaḥ |

41.2४१.२

त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम् ॥ (४१।२)

trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam ||

42.1४२.१

लब्धस्य चापं लिप्तादिफलं शैघ्र्यम् इदं स्मृतम् । (४२।१)

labdhasya cāpaṃ liptādiphalaṃ śaighryam idaṃ smṛtam |

42.2४२.२

एतद् आद्ये कुजादीनां चतुर्थे चैव कर्मणि ॥ (४२।२)

etad ādye kujādīnāṃ caturthe caiva karmaṇi ||

43.1४३.१

मान्दं कर्मैकम् अर्केन्दोर् भौमादीनाम् अथोच्यते । (४३।१)

māndaṃ karmaikam arkendor bhaumādīnām athocyate |

43.2४३.२

शैघ्र्यं मान्दं पुनर् मान्दं शैघ्र्यं चत्वार्य् अनुक्रमात् ॥ (४३।२)

śaighryaṃ māndaṃ punar māndaṃ śaighryaṃ catvāry anukramāt ||

44.1४४.१

मध्ये शीघ्रफलस्यार्धं मान्दम् अर्धफलं तथा । (४४।१)

madhye śīghraphalasyārdhaṃ māndam ardhaphalaṃ tathā |

44.2४४.२

मध्यग्रहे मन्दफलं सकलं शैघ्र्यम् एव च ॥ (४४।२)

madhyagrahe mandaphalaṃ sakalaṃ śaighryam eva ca ||

45.1४५.१

अजादिकेन्द्रे सर्वेषां शैघ्र्ये मान्दे च कर्मणि । (४५।१)

ajādikendre sarveṣāṃ śaighrye mānde ca karmaṇi |

45.2४५.२

धनं ग्रहाणां लिप्तादि तुलादावृणम् एव च ॥ (४५।२)

dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca ||

46.1४६.१

अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर् विभाजिता । (४६।१)

arkabāhuphalābhyastā grahabhuktir vibhājitā |

46.2४६.२

भचक्रकलिकाभिस् तु लिप्ताः कर्या ग्रहे ऽर्कवत् ॥ (४६।२)

bhacakrakalikābhis tu liptāḥ karyā grahe 'rkavat ||

47.1४७.१

स्वमन्दभुक्तिसंशुद्धा मध्यभुक्तिर् निशापतेः । (४७।१)

svamandabhuktisaṃśuddhā madhyabhuktir niśāpateḥ |

47.2४७.२

दोर्ज्यान्तरादिकं कृत्वा भुक्ताव् ऋणधनं भवेत् ॥ (४७।२)

dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet ||

48.1४८.१

ग्रहभुक्तेः फलं कार्यं ग्रहवन् मन्दकर्मणि । (४८।१)

grahabhukteḥ phalaṃ kāryaṃ grahavan mandakarmaṇi |

48.2४८.२

दोर्ज्यान्तरगुणा भुक्तिस् तत्त्वनेत्रोद्धृता पुनः ॥ (४८।२)

dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaḥ ||

49.1४९.१

स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृता कलाः । (४९।१)

svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāḥ |

49.2४९.२

कर्क्यादौ तु धनं तत्र मकरादाव् ऋणं स्मृतम् ॥ (४९।२)

karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam ||

50.1५०.१

मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्चभुक्तितः । (५०।१)

mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitaḥ |

50.2५०.२

तच्छेषं विवरेणाथ हन्यात् त्रिज्यान्त्यकर्णयोः ॥ (५०।२)

taccheṣaṃ vivareṇātha hanyāt trijyāntyakarṇayoḥ ||

51.1५१.१

चलकर्णहृतं भुक्तौ कर्णे त्रिज्याधिके धनम् । (५१।१)

calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam |

51.2५१.२

ऋणम् ऊने ऽधिके प्रोज्झ्य शेषं वक्रगतिर् भवेत् ॥ (५१।२)

ṛṇam ūne 'dhike projjhya śeṣaṃ vakragatir bhavet ||

52.1५२.१

दूरस्थितः स्वशीघ्रोच्चाद् ग्रहः शिथिलरश्मिभिः । (५२।१)

dūrasthitaḥ svaśīghroccād grahaḥ śithilaraśmibhiḥ |

52.2५२.२

सव्येतराकृष्टतनुर् भवेत् वक्रगतिस् तदा ॥ (५२।२)

savyetarākṛṣṭatanur bhavet vakragatis tadā ||

53.1५३.१

कृतर्तुचन्द्रैर् वेदेन्द्रैः शून्यत्र्येकैर् गुणाष्टभिः । (५३।१)

kṛtartucandrair vedendraiḥ śūnyatryekair guṇāṣṭabhiḥ |

53.2५३.२

शररुद्रैश् चतुर्थेषु केन्द्रांशैर् भूसुतादयः ॥ (५३।२)

śararudraiś caturtheṣu kendrāṃśair bhūsutādayaḥ ||

54.1५४.१

भवन्ति वक्रिणस् तैस् तु स्वैः स्वैश् चक्राद् विशोधितैः । (५४।१)

bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ |

54.2५४.२

अवशिष्टांशतुल्यैः स्वैः केन्द्रैर् उझन्ति वक्रताम् ॥ (५४।२)

avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām ||

55.1५५.१

महत्त्वाच् छीघ्रपरिधेः सप्तमे भृगुभूसुतौ । (५५।१)

mahattvāc chīghraparidheḥ saptame bhṛgubhūsutau |

55.2५५.२

अष्टमे जीवशशैजौ नवमे तु शनैश्चरः ॥ (५५।२)

aṣṭame jīvaśaśaijau navame tu śanaiścaraḥ ||

56.1५६.१

कुजार्किगुरुपातानां ग्रहवच् छीघ्रजं फलम् । (५६।१)

kujārkigurupātānāṃ grahavac chīghrajaṃ phalam |

56.2५६.२

वामं तृतीयकं मान्दं बुधभार्गवयोः फलम् ॥ (५६।२)

vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoḥ phalam ||

57.1५७.१

स्वपातोनाद् ग्रहाज् जीवा शीघ्राद् भृगुजसौम्ययोः । (५७।१)

svapātonād grahāj jīvā śīghrād bhṛgujasaumyayoḥ |

57.2५७.२

विक्षेपघ्न्य् अन्त्यकर्णाप्ता विक्षेपस् त्रिज्यया विधोः ॥ (५७।२)

vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoḥ ||

58.1५८.१

विक्षेपापक्रमैकत्वे क्रान्तिर् विक्षेपसंयुता । (५८।१)

vikṣepāpakramaikatve krāntir vikṣepasaṃyutā |

58.2५८.२

दिग्भेदे वियुता स्पष्टा भास्करस्य यथागता ॥ (५८।२)

digbhede viyutā spaṣṭā bhāskarasya yathāgatā ||

59.1५९.१

ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः । (५९।१)

grahodayaprāṇahatā khakhāṣṭaikoddhṛtā gatiḥ |

59.2५९.२

चक्रासवो लब्धयुता स्वाहोरात्रासवः स्मृताः ॥ (५९।२)

cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ ||

60.1६०.१

क्रान्तेः क्रमोत्क्रम्मज्ये द्वे कृत्वा तत्रोत्क्रमज्यया । (६०।१)

krānteḥ kramotkrammajye dve kṛtvā tatrotkramajyayā |

60.2६०.२

हीना त्रिज्या दिनव्यासदलं तद्दक्षिणोत्तरम् ॥ (६०।२)

hīnā trijyā dinavyāsadalaṃ taddakṣiṇottaram ||

61.1६१.१

क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता । (६१।१)

krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā |

61.2६१.२

त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः ॥ (६१।२)

trijyāguṇāhorātrārdhakarṇāptā carajāsavaḥ ||

62.1६२.१

तत्कार्मुकम् उदक्क्रान्तौ धनशनी पृथक्स्थिते । (६२।१)

tatkārmukam udakkrāntau dhanaśanī pṛthaksthite |

62.2६२.२

स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृते ॥ (६२।२)

svāhorātracaturbhāge dinarātridale smṛte ||

63.1६३.१

याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षपे । (६३।१)

yāmyakrāntau viparyaste dviguṇe tu dinakṣape |

63.2६३.२

विक्षेपयुक्तोनितया क्रान्त्या भानाम् अपि स्वके ॥ (६३।२)

vikṣepayuktonitayā krāntyā bhānām api svake ||

64.1६४.१

भभोगो ऽष्टशतीलिप्ताः खाश्विशैलास् तथा तिथेः । (६४।१)

bhabhogo 'ṣṭaśatīliptāḥ khāśviśailās tathā titheḥ |

64.2६४.२

ग्रहलिप्ताभभोगाप्ता भानि भुक्त्या दिनादिकम् ॥ (६४।२)

grahaliptābhabhogāptā bhāni bhuktyā dinādikam ||

65.1६५.१

रवीन्दुयोगलिप्ताभ्यो योगा भभोगभाजिताः । (६५।१)

ravīnduyogaliptābhyo yogā bhabhogabhājitāḥ |

65.2६५.२

गता गम्याश् च षष्टिघ्न्यो भुक्तियोगाप्तनाडिकाः ॥ (६५।२)

gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāḥ ||

66.1६६.१

अर्कोनचन्द्रलिप्ताभ्यस् तिथयो भोगभाजिताः । (६६।१)

arkonacandraliptābhyas tithayo bhogabhājitāḥ |

66.2६६.२

गता गम्याश् च षष्टिघ्न्यो नाड्यो भुक्त्यन्तरोद्धृताः ॥ (६६।२)

gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāḥ ||

67.1६७.१

ध्रुवाणि शकुनिर् नागं तृतीयं तु चतुष्पदम् । (६७।१)

dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam |

67.2६७.२

किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश् चापरार्धतः ॥ (६७।२)

kiṃstughnaṃ tu caturdaśyāḥ kṛṣṇāyāś cāparārdhataḥ ||

68.1६८.१

बवादीनि ततः सप्त चराख्यकरणानि च । (६८।१)

bavādīni tataḥ sapta carākhyakaraṇāni ca |

68.2६८.२

मासे ऽष्टकृत्व एकैकं करणानां प्रवर्तते ॥ (६८।२)

māse 'ṣṭakṛtva ekaikaṃ karaṇānāṃ pravartate ||

69.1६९.१

तिथ्यर्धभोगं सर्वेषां करणानां प्रकल्पयेत् । (६९।१)

tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet |

69.2६९.२

एषा स्फुटगतिः प्रोक्ता सूर्यादीनां खचारिणाम् ॥ (६९।२)

eṣā sphuṭagatiḥ proktā sūryādīnāṃ khacāriṇām ||

Data courtesy of The Digital Corpus of Sanskrit.

SūrSiddh, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit