वैखानसधर्मसूत्रVaikhānasadharmasūtra

VaikhDharmSū, 3

3 of 3 · 15 verses

Select a line for its word-by-word analysis.

1.0१.०

गृहस्थाश्रमी द्वे यज्ञोपवीते वैणवं दण्डं कमण्डलुं च धारयेत् स्नात्वा सभार्यो गृह्याग्नौ गार्ह्याणि कर्माणि श्रौताग्निषु श्रौतानि कुर्यात् सायं च होमान्ते ऽतिथीन् अभ्यागतान् प्राशयित्वा मितं प्राश्य पत्न्या शयीत आर्द्रपादः प्रत्यग् उत्तरशिरा न स्वपित्य् ऋतुरात्रिषु स्वभार्याम् उपगच्छेद् आदौ त्रिरात्रम् ऋतुमतीगमनसहासनशयनानि वर्जयेत् परदारान् न संगच्छेत् परदारगमनाद् आयुः श्रीर् ब्रह्मवर्चसं विनश्यति भार्यया सह नाश्नात्य् अश्नन्तीं तां जृम्भमाणां नग्नां च नावलोकयेत् असत्यवादं वर्जयत्य् असत्यात् परं पापं सत्यात् परो धर्मश् च नास्ति सर्वप्राणिहितो ऽद्रोहेणैव जीवेच् छुद्धार्थवान् कुसूलधान्यः कुम्भीधान्यो ऽश्वस्तनिको वा स्यात् द्विजातिः पतितान्त्यजातान् न स्पृशेद् उदये ऽस्तमये च सूर्यं नेक्षेत देवगुरुविप्रघृतक्षीरदधिमृत्तोयसमिद्दर्भाग्निवनस्पतीन् प्रदक्षिणं गच्छेत् ॥ (१।०)

gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet ||

2.0२.०

स्नातकराजगुरुश्रेष्ठरोगिभारभृदन्तर्वत्नीनां देयो वातार्करश्मिभिः पन्थानः शुध्यन्ति परस्यासनशयनान्य् अदत्तानि नोपयुञ्जीत अदत्तेषूपयुक्तेषु स्वपुण्यचतुर्थांशो जहाति अन्योपयुक्तानि वस्त्रमाल्योपानट्छत्त्राणि नैव धारयेद् अग्नौ पादं न तापयेद् अग्नाव् अग्निं वा देवालये ऽग्नौ जले च मूत्रपुरीषपूयशोणितरेतःश्लेष्मोच्छिष्टाङ्गनिष्पेषान् न प्रक्षिपेत् नग्नां परस्त्रियं विण्मूत्रे च न पश्येद् उच्छिष्टो देवार्कचन्द्रग्रहर्क्षतारा नेक्षेत देवगुरुस्नातकदीक्षितराजगोश्रेष्ठानां छायां नाक्रमति इन्द्रधनुः परस्मै न दर्शयेन् न वदेत् स्वपन्तं नावबोधयेद् एको ऽध्वानं न गच्छेत् परक्षेत्रे चरन्तीं गां धयन्तं वत्सं च न वारयेज् जीर्णमलवासा न स्यात् ॥ (२।०)

snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt ||

3.0३.०

अक्षैः क्रीडां प्रेतधूमं बालातापं च वर्जयेत् केशरोमतुषाङ्गारकपालास्थिविण्मूत्रपूयशोणितरेतःश्लेष्मोच्छिष्टान् नाधितिष्ठेत् अमेध्यलिप्ते ऽङ्गे यावत् तत्लेपगन्धमनःशङ्का न स्यात् पतितान्त्यजमूर्खाधार्मिकवैरिभिः सार्धं न वसेद् उच्छिष्टो ऽशुचिर् वा देवगोविप्राग्नीन् न स्पृशेत् देवान् वेदान् राजगुरुमातापितॄन् विद्वद्ब्राह्मणान् नावमन्येत अवमन्ता निन्दकश् च विनश्यति सर्वभूतकुत्सां ताडनं च न कुर्वीत गुरुणा मातापितृभ्यां तत्पित्राद्यैर् भ्रातृपितृभ्रातृमातुलाचार्यर्त्विजाद्यैर् विवादं नाचरेत् सर्वशुद्धिषु पुरुषस्यार्थशुद्धिः स्त्रीशुद्धिर् अन्नशुद्धिश् च श्रेष्ठतमा स्यात् द्रव्येषु रत्नसौवर्णरजतमयान्य् अद्भिः शोधयति ताम्रत्रपुसीसायसाद्यान्य् अम्लवारिभिर् दारुदन्तजातानि तक्षणाद् धावनाद् वा यज्ञपात्राणि दक्षिणपाणिना मार्जनात् क्षालनाद् वा संशोध्यानि ॥ (३।०)

akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni ||

4.0४.०

चर्ममयसंहतानि वस्त्राणि शाकमूलफलानि च प्रोक्षयेद् घृतादीनि द्रव्याण्य् उत्पूयोल्कया दर्शयेत् कौशेयाविकान्य् ऊषैर् अंशुतट्टानि श्रीफलैः शङ्खशुक्तिगोशृङ्गाणि सर्षपैः सवारिभिर् मृन्मयानि पुनर् दाहेन गृहं मार्जनोपलेपनाप्सेकैर् भूमिं खननादन्यमृत्पूरणगोवासकाद्यैर् मार्जनाद्यैश् च शोधयेद् गोतृप्तिकरं भूगतं तोयं दोषविहीनं सुपूतं वाक्शस्तं वारिनिर्णिक्तम् अदृष्टं योषिदास्यं कारुहस्तः प्रसारितपण्यं च सर्वदा शुद्धं शकुन्युच्छिष्टं फलम् अनिन्द्यं मशकमक्षिकानिलीनं तद्विप्रुषश् च न दूष्याणि वाय्वग्निसूर्यरश्मिभिः स्पृष्टं च मेध्यम् आतुरे बाले पचनालये च शौचं न विचारणीयं यथाशक्ति स्याद् विण्मूत्राभ्यां बह्वापो न दूष्याः परस्याचामतस् तोयबिन्दुभिर् भूमौ निपत्योद्गतैः पादस्पृष्टैर् आचामयन् नाशुचिः स्यात् ॥ (४।०)

carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt ||

5.0५.०

वानप्रस्थो नित्यस्वाध्यायी कुशेध्मादीन् अग्न्यर्थं शाकमूलफलान्य् अशनार्थं च शुचौ जातान्य् आहरेद् अन्याधीनम् अन्योत्सृष्टम् अशुचौ जातं गोरसं च वर्जयेत् धान्यधनसंचयं न कुर्वीत वस्त्रं नाच्छादयेत् मधूक्ते तोयं मांसोक्ते पैष्टिकं गृह्णाति सर्वभूतेषु दयालुः समः क्षान्तः शुचिर् निरसूयकः सुखे निःस्पृहो मङ्गल्यवाणीर्ष्याकार्पण्यवर्जी मत्स्यादीन् दंशकान् सीरकृष्टजातानि कन्दमूलफलशाकादीनि च त्यजन् जटाश्मश्रुरोमनखानि धारयंस् त्रिकालस्नायी धरा आशयो वन्यैर् एव चरुपुरोडाशान् निर्वपेत् पलाण्ड्वादीन् निर्यासं श्वेतवृन्ताकं सुनिषण्णकं श्लेष्मातकं व्रजकलिं चित्रकं शिग्रुं भूस्तृणं कोविदारं मूलकं च वर्जयति मुनेः सर्वं मांसं गोमांसतुल्यं धान्याम्लं सुरासमं भवति पूर्वसंचिताशनं पूर्वाणि वसनान्य् आश्वयुजे मासि त्यजति वेदवेदान्तेन ध्यानयोगी तपः समाचरति अपत्नीको ऽनग्निर् अदारो ऽनिकेतनो वृक्षमूले वसन् वनस्थाश्रमेषु गृहस्थानां गृहेषु वा भिक्षां भिक्षित्वाम्बुपार्श्वे शुद्धे पर्णे प्राणयात्रामात्रम् अन्नं भिक्षुवद् अश्नाति शरीरं शोषयन्न् उत्तरम् उत्तरं तीव्रं तपः कुर्यात् ॥ (५।०)

vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt ||

6.0६.०

भिक्षुः स्नात्वा नित्यं प्रणवेनात्मानं तर्पयेत् तेनैव नमस्कुर्यात् षडवरान् प्राणायामान् कृत्वा शतावरां सावित्रीं जप्त्वा संध्याम् उपासीत अप्पवित्रेणोत्पूताभिर् अद्भिर् आचामेत् काषायधारणं सर्वत्यागं मैथुनवर्जनम् अस्तैन्यादीन् अप्याचरेत् असहायो ऽनग्निर् अनिकेतनो निःसंशयी सम्मानावमानसमो विवादक्रोधलोभमोहानृतवर्जी ग्रामाद् बहिर् विविक्ते मठे देवालये वृक्षमूले वा निवसेत् चातुर्मासाद् अन्यत्रैकाहाद् ऊर्ध्वम् एकस्मिन् देशे न वसेद् वर्षाः शरच्चातुर्मास्यम् एकत्रैव वसेत् त्रिदण्डे काषायाप्पवित्रादीन् योजयित्वा कण्ठे वामहस्तेन धारयन् दक्षिणेन भिक्षापात्रं गृहीत्वैककाले विप्राणां शुद्धानां गृहेषु वैश्वदेवान्ते भिक्षां चरेत् भूमौ वीक्ष्य जन्तून् परिहरन् पादं न्यसेद् अधोमुखस् तिष्ठन् भिक्षाम् आलिप्सते ॥ (६।०)

bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate ||

7.0७.०

गोदोहनकालमात्रं तदर्धं वा स्थित्वा व्रजेद् अलाभे ऽप्य् अवमाने ऽप्यविषादी लब्धे सम्माने ऽप्य् असंतोषी स्यात् द्रुतं विलम्बितं वा न गच्छेत् भिक्षाकालाद् अन्यत्र परवेश्म न गन्तव्यं भिक्षितुं क्रोशाद् ऊर्ध्वं न गच्छेत् भिक्षां चरित्वा तोयपार्श्वे प्रक्षालितपाणिपाद आचम्योद् उ त्यम् इत्यादित्यायातो देवा इति विष्णवे ब्रह्म जज्ञाम् इति ब्रह्मणे च भिक्षाग्रं दत्त्वा सर्वभूतेभ्य इति बलिं प्रक्षिपेत् पाणिनाग्निहोत्रविधानेनात्मयज्ञं संकल्प्य प्राणयात्रामात्रम् अष्टौ ग्रासान् वाश्नीयात् कामं नाश्नाति वस्त्रपूतं जलं पीत्वाचम्याचामति निन्दाक्रोशौ न कुर्वीत बन्धूञ् ज्ञातींस् त्यजेद् वंशचारित्रं तपः श्रुतं न वदेत् सङ्गं त्यक्त्वा नियमयमी प्रियं सत्यं वदन् सर्वभूतस्याविरोधी समः सदाध्यात्मरतो ध्यानयोगी नारायणं परं ब्रह्म पश्यन् धारणां धारयेद् अक्षरं ब्रह्माप्नोति नारायणः परं ब्रह्मेति श्रुतिः ॥ (७।०)

godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ ||

8.0८.०

संन्यासिनो ऽनाहिताग्नेर् देहं मृतं पुत्रो ऽन्यो वा तृणैर् अन्तरीकृत्य शुद्धैर् ब्राह्मणैर् यन्त्रेण वा संनिधाय समुद्रगाम्यां नद्यां तीरे वा सैकते देशे सृगालादिभिर् अस्पृश्यं यथा तथावटं खनति गायत्र्या स्नापयित्वा तथा तत्रासयित्वा शाययित्वा वा दक्षिणे हस्ते वैष्णवैर् मन्त्रैस् त्रिदण्डं संन्यस्य सव्ये यद् अस्य पारे रजस इति शिक्यम् अप्पवित्रम् उदरे सावित्र्या भिक्षापात्रं गुह्यप्रदेशे भूमिर् भूमिम् इति काषायं मृद्ग्रहणीं कमण्डलुं च संन्यस्य पिदध्यात् तस्मिन् सृगालादिभिः स्पृष्टे तत्कर्ता पापीयान् भवति आहिताग्नेर् अग्नीन् आत्मन्य् आरोप्य संन्यासिनो मृतं देहं गायत्र्या स्नापयित्वा पूर्ववद् वाहयित्वा शुद्धे देशे निधाय लौकिकाग्नौ तदग्निम् उपावरोहेत्य् अवरोप्य पवित्रं त इति घृतक्षीरम् आस्ये प्रक्षिप्य पूर्ववत् त्रिदण्डादीन् विन्यस्य ब्रह्ममेधेन पितृमेधेन वाहिताग्निमन्त्रैस् तदग्निभिर् दहनमाचरति तयोर् आशौचोदकबलिपिण्डदानैकोद्दिष्टादीन् नैव कुर्यात् नारायणबलिं करोति तद्वहनं खनित्वा पिधानं दहनं नारायणबलिं वा यः कुर्यात् सो ऽश्वमेधफलं समाप्नुयात् ॥ (८।०)

saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt ||

9.0९.०

नारायणबलिं नारायणाद् एव सर्वार्थसिद्धिर् इति ब्रह्मणाद्यैर् नरैर् हतस्यात्मघातिनो रज्जुशस्त्रोदकाशनिदंष्ट्रिपशुसर्पादिभिः सर्वपापमृतस्यादाह्यानाम् अन्येषां भिक्षोश् चैकादशदिनाद् ऊर्ध्वं महापातकिनां पञ्चानां द्वादशसंवत्सराद् ऊर्ध्वं स पिण्डीकरणस्थाने मृतकार्थम् अपरपक्षे द्वादश्यां श्रवणे वा करोति पूर्वे ऽहनि द्वादश ब्राह्मणान् निमन्त्रयेद् अपरे ऽहनि विष्णोर् आलयपार्श्वे नदीतीरे गृहे वाग्न्यायतनं कृत्वाघारं जुहुयाद् अग्निं परिस्तीर्याग्नेर् वायव्यां विष्टरे दर्भेषु तद्रूपं सुवर्णं वा संस्थाप्य पुरुषं ध्यायन्न् ॐ भूः पुरुषम् इत्य् आद्यैः प्राङ्मुखं देवं नारायणम् आवाह्यासनपाद्याचमनानि दद्यात् पुरुषसूक्तेन स्नापयित्वा नारायणाय विद्मह इत्य् अष्टाक्षरमन्त्रेण वा वस्त्रोत्तरीयाभरणपाद्याचमनपुष्पगन्धधूपदीपाक्षताचमनैर् अर्चयति ॥ (९।०)

nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati ||

10.0१०.०

केशवाद्यैर् द्वादशनामभिर् अद्भिस् तर्पयेत् परिषिच्य सहस्रशीर्षाद्यैर् विष्णोर् नुकाद्यैर् द्वादशनामभिश् चाज्यं चरुं जुहुयात् गुडाज्यफलयुक्तं पायसं हविर् विष्णुगायत्र्या देवेशाय निवेद्य पाद्याचमनमुखवासं दद्यात् अग्नेर् दक्षिणे दर्भेषूत्तराग्रेषु दक्षिणाद्य् अर्चयित्वा ब्राह्मणान् पादौ प्रक्षाल्य नवानिवस्त्रोत्तरीयाभरणानि दत्त्वा पुष्पाद्यैः पूजयित्वा द्वादशमूर्तिं ध्यायन्न् उपदंशघृतगुडदधिफलयुक्तं श्वेतम् अन्नं भोजयित्वा यथाशक्ति सुवर्णं दक्षिणां ददाति सहस्रशीर्षाद्यैः स्तुत्वा द्वादशनामभिः प्रणमेद् अन्तहोमं जुहोत्य् अभीष्टां परां गतिं स गत्वा विष्णोर् लोके महीयते ॥ (१०।०)

keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate ||

11.0११.०

चातुर्वर्ण्यसंकरेणोत्पन्नानाम् अनुलोमप्रतिलोमान्तरालव्रात्यानाम् उत्पत्तिं नाम वृत्तिं च ऊर्ध्वजाताद् अधोजातायां जातो ऽनुलोमो ऽधरोत्पन्नाद् ऊर्ध्वजातायां जातः प्रतिलोमस् ततो ऽनुलोमाद् अनुलोम्यां जातो ऽन्तरालः प्रतिलोमात् प्रतिलोम्यां जातो व्रात्यो भवति ब्रह्मणो मुखाद् उद्भूता ब्राह्मणा ब्राह्मण्यश् च ब्रह्मर्षयः पत्न्यो बभूवुस् तेषां गात्रोत्पन्नाद् ब्राह्मण्याम् असगोत्रायां विधिना समन्त्रकं गृहीतायां जातो ब्राह्मणः शुद्धो भवेत् विधिहीनम् अन्यपूर्वायां गोलको हर्तृकायां कुण्डश् च विप्रौ द्वौ निन्दितौ स्यातां तस्माद् अधो बाहुभ्याम् आत् क्षत्रियात् क्षत्रियायां विधिवज् जातः क्षत्रियः शुद्धस् तयोर् अविधिकं गूढोत्पन्नो ऽशुद्धो भोजाख्यो नैवाभिषेच्यः पट्टबन्धो राज्ञः सैनापत्यं करोति शुद्धाभावे ऽपट्टबन्धो नॄन् पायात् तद्वृत्तं राजवत् स्यात् अधस्ताद् ऊरुभ्याम् आद् वैश्याद् वैश्यायां तथा वैश्यः शुद्धो विधिवर्जं मणिकारो ऽशुद्धो मणिमुक्तादिवेधः शङ्खवलयकारी स्यात् ॥ (११।०)

cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt ||

12.0१२.०

अथ पद्भ्याम् उत्पन्नाच् छूद्राच् छूद्रायां न्यायेन शूद्रः शुद्धो जारान् मालवको निन्दितः शूद्रो ऽश्वपालो ऽश्वतृणहारी च इत्य् एते चातुर्वर्णिकास् तेषाम् एव संस्कारेणोत्पन्नाः सर्वे ऽनुलोमाद्याः ब्राह्मणात् क्षत्रियकन्यायां जातः सवर्णो ऽनुलोमेषु मुख्यो ऽस्य वृत्तिर् आथर्वणं कर्माश्वहस्तिरथसंवाहनम् आरोहणं राज्ञः सैनापत्यं चायुर्वेदकृत्यं गूढोत्पन्नो ऽभिनिषक्ताख्यो ऽभिषिक्तश् चेन् नृपो भूयाद् अष्टाङ्गम् आयुर्वेदं भूततन्त्रं वा संपठेत् तदुक्ताचारो दयायुक्तः सत्यवादी तद्विधानेन सर्वप्राणिहितं कुर्यात् ज्योतिर् गणनादिकाधिकवृत्तिर् वा विप्राद् वैश्यायाम् अम्बष्ठः कक्ष्याजीव्य् आग्नेयनर्तको ध्वजविश्रावी शल्यचिकित्सी जारात् कुम्भकारः कुलालवृत्तिर् नापितो नाभेर् ऊर्ध्ववप्ता च क्षत्रियाद् वैश्यायां मद्गुः श्रेष्ठित्वं प्राप्तो महानर्माख्यश् च वैश्यवृत्तिः क्षात्रम् कर्म नाचरति गूढाद् आश्विको ऽश्वक्रयविक्रयी स्यात् ॥ (१२।०)

atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt ||

13.0१३.०

विप्राच् छूद्रायां पारशवो भद्रकालीपूजनचित्रकर्माङ्गविद्यातूर्यघोषणमर्दनवृत्तिर् जारोत्पन्नो निषादो व्याडादिमृगहिंसाकारी राजन्यतः शूद्रायाम् उग्रः सुदण्ड्यदण्डनकृत्यो जाराच् छूलिकः शूलारोहणादियातनाकृत्यो वैश्यतः शूद्रायां चूचुकः क्रमुकताम्बूलशर्करादिक्रयविक्रयी गूढात् कटकारः कटकारी चेति ततो ऽनुलोमाद् अनुलोमायां जातश् चानुलोमः पितुर् मातुर् वा जातं वृत्तिं भजेत क्षत्रियाद् विप्रकन्यायां मन्त्रवज् जातः सूतः प्रतिलोमेषु मुख्यो ऽयं मन्त्रहीनोपनीतो द्विजधर्महीनो ऽस्य वृत्तिर् धर्मानुबोधनं राज्ञो ऽन्नसंस्कारश् च जारेण मन्त्रहीनजो रथकारो द्विजत्वविहीनः शूद्रकृत्यो ऽश्वानां पोषणदमनादिपरिचर्याजीवी वैश्याद् ब्राह्मण्यां मागधः शूद्रैर् अप्य् अभोज्यान् नो ऽस्पृश्यः सर्ववन्दी प्रशंसाकीर्तनगानप्रेषणवृत्तिर् गूढाच् चक्री लवणतैलविक्रेता स्यात् ॥ (१३।०)

viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt ||

14.0१४.०

वैश्यान् नृपायाम् आयोगवस् तन्तुवायः पटकर्ता वस्त्रकांस्योपजीवी गूढाचारात् पुलिन्दो ऽरण्यवृत्तिर् दुष्टमृगसत्त्वघाती शूद्रात् क्षत्रियायां पुल्कसः कृतकां वार्क्षां वा सुरां हुत्वा पाचको विक्रीणीत चोरवृत्ताद् वेलवो जन्भननर्तनगानकृत्यः शूद्राद् वैश्यायां वैदेहकः शूद्रास्पृश्यस् तैर् अप्य् अभोज्यान्नो वन्यवृत्तिर् अजमहिषगोपालस् तद्रसान् विक्रयी चौर्याच् चक्रिको लवणतैलपिण्याकजीवी शूद्राद् ब्राह्मण्यां चण्डालः सीसकालायसाभरणो वर्ध्राबन्धकण्ठः कक्षेरीयुक्तो यतस् ततश् चरन् सर्वकर्मबहिष्कृतः पूर्वाह्णे ग्रामादौ वीथ्याम् अन्यत्रापि मलान्य् अपकृष्य बहिर् अपोहयति ग्रामाद् बहिर् दूरे स्वजातीयैर् निवसेत् मध्याह्नात् परं ग्रामे न विशति विशेच् चेद् राज्ञा वध्यो ऽन्यथा भ्रूणहत्याम् अवाप्नोत्य् अन्तरालव्रत्याश् च चूचुकाद् विप्रायां तक्षको ऽस्पृश्यो झल्लरीहस्तो दारुकारः सुवर्णकारो ऽयस्कारः कांस्यकारो वा क्षत्रियायां मत्स्यबन्धुर् मत्स्यबन्धी वैश्यायां सामुद्रः समुद्रपण्यजीवी मत्स्यघाती च स्यात् ॥ (१४।०)

vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt ||

15.0१५.०

अम्बष्ठाद् विप्रायां नाविकः समुद्रपण्यमत्स्यजीवी समुद्रलङ्घनां नावं प्लावयति क्षत्रियायाम् अधोनापितो नाभेर् अधो रोमवप्ता मद्गोर् विप्रायां वेणुको वेणुवीणावादी क्षत्रियायां कर्मकरः कर्मकारी वैदेहकाद् विप्रायां चर्मकारश् चर्मजीवी नृपायां सूचिकः सूचीवेधनकृत्यवान् आयोगवाद् विप्रायां ताम्रस् ताम्रजीवी नृपायां खनकः खननजीवी खननान् नृपायाम् उद्बन्धकः शूद्रास्पृश्यो वस्त्रनिर्णेजकः पुल्कसाद् विप्रायां रजको वस्त्राणां रजोनिर्णेजकश् चण्डालाद् विप्रायां श्वपचः चण्डालवच् चिह्नयुक्तो नित्यनिन्द्यः सर्वकर्मबहिष्कार्यो नगर्यादौ मलापोहकः श्मशाने वसन् हेयपात्रग्राही प्रेतम् अबन्धुकं विसृजेत वध्यान् हत्वा तद्वस्त्रादिग्राही पराधीनाहारो भिन्नपात्रभोजी श्वमांसभक्षी चर्मवारवाणवाणिज्यकारी स्यात् तस्मान् निकृष्टे सुते समुत्पन्ने पतितो नष्टो घोरान् नरकान् व्रजति सत्पुत्रो नरकेभ्यस् त्रायकः पितॄन् पावयित्वा तस्माद् ब्राह्मणाद्याः सवर्णायां विधिवत् पुत्रम् उत्पादयेयुरिति विखनाः ॥ (१५।०)

ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

VaikhDharmSū, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit