ऐतरेयोपनिषद्Aitareyopaniṣad

AitUp, 1, 1

1 of 13 · 37 verses

Select a line for its word-by-word analysis.

1.1१.१

आत्मा वा इदम् एक एवाग्र आसीत् । (१।१)

ātmā vā idam eka evāgra āsīt |

1.2१.२

नान्यत् किंचन मिषत् । (१।२)

nānyat kiṃcana miṣat |

1.3१.३

स ईक्षत लोकान् नु सृजा इति ॥ (१।३)

sa īkṣata lokān nu sṛjā iti ||

2.1२.१

स इमांल् लोकान् असृजताम्भो मरीचीर् मरम् आपः । (२।१)

sa imāṃl lokān asṛjatāmbho marīcīr maram āpaḥ |

2.2२.२

अदो ऽम्भः परेण दिवम् । (२।२)

ado 'mbhaḥ pareṇa divam |

2.3२.३

द्यौः प्रतिष्ठा । (२।३)

dyauḥ pratiṣṭhā |

2.4२.४

अन्तरिक्षं मरीचयः । (२।४)

antarikṣaṃ marīcayaḥ |

2.5२.५

पृथिवी मरः । (२।५)

pṛthivī maraḥ |

2.6२.६

या अधस्तात् ता आपः ॥ (२।६)

yā adhastāt tā āpaḥ ||

3.1३.१

स ईक्षतेमे नु लोकाः । (३।१)

sa īkṣateme nu lokāḥ |

3.2३.२

लोकपालान् नु सृजा इति । (३।२)

lokapālān nu sṛjā iti |

3.3३.३

सो ऽद्भ्य एव पुरुषं समुद्धृत्यामूर्छयत् ॥ (३।३)

so 'dbhya eva puruṣaṃ samuddhṛtyāmūrchayat ||

4.1४.१

तम् अभ्यतपत् । (४।१)

tam abhyatapat |

4.2४.२

तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डम् । (४।२)

tasyābhitaptasya mukhaṃ nirabhidyata yathāṇḍam |

4.3४.३

मुखाद् वाक् । (४।३)

mukhād vāk |

4.4४.४

वाचो ऽग्निः । (४।४)

vāco 'gniḥ |

4.5४.५

नासिके निरभिद्येताम् । (४।५)

nāsike nirabhidyetām |

4.6४.६

नासिकाभ्यां प्राणः । (४।६)

nāsikābhyāṃ prāṇaḥ |

4.7४.७

प्राणाद् वायुः । (४।७)

prāṇād vāyuḥ |

4.8४.८

अक्षिणी निरभिद्येताम् । (४।८)

akṣiṇī nirabhidyetām |

4.9४.९

अक्षीभ्यां चक्षुः । (४।९)

akṣībhyāṃ cakṣuḥ |

4.10४.१०

चक्षुष आदित्यः । (४।१०)

cakṣuṣa ādityaḥ |

4.11४.११

कर्णौ निरभिद्येताम् । (४।११)

karṇau nirabhidyetām |

4.12४.१२

कर्णाभ्यां श्रोत्रम् । (४।१२)

karṇābhyāṃ śrotram |

4.13४.१३

श्रोत्राद् दिशः । (४।१३)

śrotrād diśaḥ |

4.14४.१४

त्वङ् निरभिद्यत । (४।१४)

tvaṅ nirabhidyata |

4.15४.१५

त्वचो लोमानि । (४।१५)

tvaco lomāni |

4.16४.१६

लोमभ्य ओषधिवनस्पतयः । (४।१६)

lomabhya oṣadhivanaspatayaḥ |

4.17४.१७

हृदयं निरभिद्यत । (४।१७)

hṛdayaṃ nirabhidyata |

4.18४.१८

हृदयान् मनः । (४।१८)

hṛdayān manaḥ |

4.19४.१९

मनसश् चन्द्रमाः । (४।१९)

manasaś candramāḥ |

4.20४.२०

नाभिर् निरभिद्यत । (४।२०)

nābhir nirabhidyata |

4.21४.२१

नाभ्या अपानः । (४।२१)

nābhyā apānaḥ |

4.22४.२२

अपानान् मृत्युः । (४।२२)

apānān mṛtyuḥ |

4.23४.२३

शिश्नं निरभिद्यत । (४।२३)

śiśnaṃ nirabhidyata |

4.24४.२४

शिश्नाद् रेतः । (४।२४)

śiśnād retaḥ |

4.25४.२५

रेतस आपः ॥ (४।२५)

retasa āpaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AitUp, 1, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit