ऐतरेयोपनिषद्Aitareyopaniṣad
AitUp, 1, 2
2 of 13 · 23 verses
Select a line for its word-by-word analysis.
1.1१.१ता एता देवताः सृष्टा अस्मिन् महत्य् अर्णवे प्रापतन् । (१।१)
tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan |
1.2१.२तम् अशनापिपासाभ्याम् अन्ववार्जत् । (१।२)
tam aśanāpipāsābhyām anvavārjat |
1.3१.३ता एनम् अब्रुवन्न् आयतनं नः प्रजानीहि । (१।३)
tā enam abruvann āyatanaṃ naḥ prajānīhi |
1.4१.४यस्मिन् प्रतिष्ठिता अन्नम् अदामेति ॥ (१।४)
yasmin pratiṣṭhitā annam adāmeti ||
2.1२.१ताभ्यो गाम् आनयत् । (२।१)
2.2२.२ता अब्रुवन् न वै नो ऽयम् अलम् इति । (२।२)
tā abruvan na vai no 'yam alam iti |
2.3२.३ताभ्यो ऽश्वम् आनयत् । (२।३)
2.4२.४ता अब्रुवन् न वै नो ऽयम् अलम् इति ॥ (२।४)
tā abruvan na vai no 'yam alam iti ||
3.1३.१ताभ्यः पुरुषम् आनयत् । (३।१)
3.2३.२ता अब्रुवन् सुकृतं बतेति । (३।२)
tā abruvan sukṛtaṃ bateti |
3.3३.३पुरुषो वाव सुकृतम् । (३।३)
3.4३.४ता अब्रवीद् यथायतनं प्रविशतेति ॥ (३।४)
tā abravīd yathāyatanaṃ praviśateti ||
4.1४.१अग्निर् वाग् भूत्वा मुखं प्राविशत् । (४।१)
agnir vāg bhūtvā mukhaṃ prāviśat |
4.2४.२वायुः प्राणो भूत्वा नासिके प्राविशत् । (४।२)
vāyuḥ prāṇo bhūtvā nāsike prāviśat |
4.3४.३आदित्यश् चक्षुर् भूत्वाक्षिणी प्राविशत् । (४।३)
ādityaś cakṣur bhūtvākṣiṇī prāviśat |
4.4४.४दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् । (४।४)
diśaḥ śrotraṃ bhūtvā karṇau prāviśan |
4.5४.५ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन् । (४।५)
oṣadhivanaspatayo lomāni bhūtvā tvacaṃ prāviśan |
4.6४.६चन्द्रमा मनो भूत्वा हृदयं प्राविशत् । (४।६)
candramā mano bhūtvā hṛdayaṃ prāviśat |
4.7४.७मृत्युर् अपानो भूत्वा नाभिं प्राविशत् । (४।७)
mṛtyur apāno bhūtvā nābhiṃ prāviśat |
4.8४.८आपो रेतो भूत्वा शिश्नं प्राविशन् ॥ (४।८)
āpo reto bhūtvā śiśnaṃ prāviśan ||
5.1५.१तम् अशनापिपासे अब्रूताम् अवाभ्याम् अभिप्रजानीहीति । (५।१)
tam aśanāpipāse abrūtām avābhyām abhiprajānīhīti |
5.2५.२ते अब्रवीद् एतास्व् एव वां देवतास्व् आभजाम्य् एतासु भागिन्यौ करोमीति । (५।२)
te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti |
5.3५.३तस्माद् यस्यै कस्यै च देवतायै हविर् गृह्यते भागिन्याव् एवास्याम् अशनापिपासे भवतः ॥ (५।३)
tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ ||
Data courtesy of The Digital Corpus of Sanskrit.