अश्वलायनगृह्यसूत्रAśvalāyanagṛhyasūtra
AśvGṛSū, 1, 1
Select a line for its word-by-word analysis.
कुलम् अग्रे परीक्षेत ये मातृतः पितृतश् च इति यथोक्तं पुरस्तात् ॥ (१।१)
kulam agre parīkṣeta ye mātṛtaḥ pitṛtaś ca iti yathoktaṃ purastāt ||
बुद्धिरूपशीललक्षणसम्पन्नाम् अरोगाम् उपयच्छेत् ॥ (३।१)
buddhirūpaśīlalakṣaṇasampannām arogām upayacchet ||
दुर्विज्ञेयानि लक्षणान्य् अष्टौ पिण्डान् कृत्वा ऋतम् अग्रे प्रथमं जज्ञ ऋते सत्यम् प्रतिष्ठितम् । (४।१)
durvijñeyāni lakṣaṇāny aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyam pratiṣṭhitam |
यद् इयं कुमार्य् अभिजाता तद् इयम् इह प्रतिपद्यताम् । (४।२)
yad iyaṃ kumāry abhijātā tad iyam iha pratipadyatām |
यत् सत्यं तद् दृश्यताम् इति पिण्डान् अभिमन्त्र्य कुमारीं ब्रूयाद् एषाम् एकम् गृहाणेति ॥ (४।३)
yat satyaṃ tad dṛśyatām iti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekam gṛhāṇeti ||
क्षेत्राच् चेद् उभयतःसस्याद् गृह्णीयाद् अन्नवत्य् अस्याः प्रजा भविष्यतीति विद्याद् गोष्ठात् पशुमती वेदिपुरीषाद् ब्रह्मवर्चस्विन्य् अविदासिनो ह्रदात् सर्वसम्पन्ना देवनात् कितवी चतुष्पथाद् द्विप्रव्राजिनीरिणाद् अधन्या श्मशानात् पतिघ्नी ॥ (५।१)
kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī ||
Data courtesy of The Digital Corpus of Sanskrit.