मदनपालनिघण्टुMadanapālanighaṇṭu
MPālNigh, 4
Select a line for its word-by-word analysis.
यद्वाञ्छया विश्वकृतोऽपि देवा ब्रह्मादयो यान्ति मुहुर्भवन्ति । (१।१)
yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti |
अचिन्त्यकृत्यं पुरुषं पुराणं गोपत्वम् आप्तं तमुपाश्रयामि ॥ (१।२)
acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi ||
गोल्द्:: स्य्नोन्य्म्स्सुवर्णं काञ्चनं हेम हाटकं तप्तकाञ्चनम् । (२।१)
gold:: synonymssuvarṇaṃ kāñcanaṃ hema hāṭakaṃ taptakāñcanam |
गोल्द्:: मेदिच्। प्रोपेर्तिएस्सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम् ॥ (३।०)
gold:: medic. propertiessuvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam ||
सिल्वेर्:: स्य्नोन्य्म्स्रूप्यकं रजतं रूप्यं तारं श्वेतं वसूत्तमम् । (५।१)
silver:: synonymsrūpyakaṃ rajataṃ rūpyaṃ tāraṃ śvetaṃ vasūttamam |
सिल्वेर्:: मेदिच्। प्रोपेर्तिएस्रूप्यं शीतं सरं वातपित्तहारि रसायनम् ॥ (५।२)
silver:: medic. propertiesrūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam ||
वयसः स्थापनं स्निग्धं धातूनां हितमुच्यते ॥ (६।२)
vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate ||
चोप्पेर्:: स्य्नोन्य्म्स्ताम्रं म्लेच्छमुखं शुल्वं नैपालं रविनामकम् । (७।१)
copper:: synonymstāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam |
उदुम्बरं सूर्यप्रियं रक्तजं रक्तधातुकम् ॥ (७।२)
udumbaraṃ sūryapriyaṃ raktajaṃ raktadhātukam ||
चोप्पेर्:: मेदिच्। प्रोपेर्तिएस्ताम्रं सरं लघु स्वादु शीतं पित्तकफापहम् । (८।१)
copper:: medic. propertiestāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham |
रोपणं पाण्डुकुष्ठार्शःश्वयथुश्वासकासजित् ॥ (८।२)
ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit ||
ब्रोन्ज़े:: स्य्नोन्य्म्स्कांस्यं लोहं निजं घोषं पञ्चलोहं प्रकाशकम् । (९।१)
bronze:: synonymskāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam |
कांस्यं गुरूष्णं चक्षुष्यं कफपित्तहरं सरम् ॥ (९।२)
kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram ||
ब्रस्स्:: स्य्नोन्य्म्स्पीतलोहं सिंहलकं कपिलं सौकुमारकम् । (१०।१)
brass:: synonymspītalohaṃ siṃhalakaṃ kapilaṃ saukumārakam |
ब्रस्स्:: मेदिच्। प्रोपेर्तिएस्पीतलोहं हिमं रूक्षं कटूष्णं कफपित्तनुत् ॥ (१०।३)
brass:: medic. propertiespītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut ||
तिन्:: स्य्नोन्य्म्स्रङ्ककं तीरकं वङ्गं त्रपु स्यात्करटी घनम् । (११।१)
tin:: synonymsraṅkakaṃ tīrakaṃ vaṅgaṃ trapu syātkaraṭī ghanam |
तिन्:: मेदिच्। प्रोपेर्तिएस्रङ्गं लघु सरं रूक्षमुष्णं मेहकफक्रिमीन् । (११।२)
tin:: medic. propertiesraṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn |
निहन्ति पांडुं सश्वासं दृश्यमीषत्तु पित्तलम् ॥ (११।३)
nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam ||
ज़िन्च्:: स्य्नोन्य्म्स्जसदं रङ्कसदृशं दितिहेतुश्च तन्मतम् । (१२।१)
zinc:: synonymsjasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam |
ज़िन्च्:: मेदिच्। प्रोपेर्तिएस्जसदं तुवरं तिक्तं शीतलं कफपित्तहृत् । (१२।२)
zinc:: medic. propertiesjasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt |
चक्षुष्यं परमं मेहान् पाण्डुं श्वासं च नाशयेत् ॥ (१२।३)
cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet ||
लेअद्:: स्य्नोन्य्म्स्सीसं धातुमलं नागमुरगं परिपिष्टकम् । (१३।१)
lead:: synonymssīsaṃ dhātumalaṃ nāgamuragaṃ paripiṣṭakam |
जवनेष्टं च भुजगं विसृष्टं कृष्णकं विदुः । (१३।२)
javaneṣṭaṃ ca bhujagaṃ visṛṣṭaṃ kṛṣṇakaṃ viduḥ |
सीसं रङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ॥ (१३।३)
sīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam ||
लोहलोहं शस्त्रम् अयः कुष्ठं व्यङ्गं पारावतं घनम् । (१४।१)
lohalohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam |
कृष्णायस्तन्मलं किट्टं मण्डूरो लोहजं रजः ॥ (१४।२)
kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ ||
इरोन्:: मेदिच्। प्रोपेर्तिएस्लोहं सरं गुरु स्वादु कषायं कफपित्तनुत् । (१५।१)
iron:: medic. propertieslohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut |
शीतं नेत्रहितं रूक्षं बल्यं वातलम् उत्तमम् ॥ (१५।२)
śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam ||
शोफकुष्ठप्रमेहार्शोगरपाण्डुक्रिमीञ्जयेत् । (१६।१)
śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet |
मण्डूर:: मेदिच्। प्रोपेर्तिएस्तत्किट्टं तद्गुणं ज्ञेयं विशेषात्पाण्डुनाशनम् ॥ (१६।२)
maṇḍūra:: medic. propertiestatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam ||
मेर्चुर्य्पारदश्चपलो हेमनिधिः सूतो रसोत्तमः । (१७।१)
mercurypāradaścapalo hemanidhiḥ sūto rasottamaḥ |
त्रिनेत्रो रोषणः स्वामी हरबीजं रसः प्रभुः ॥ (१७।२)
trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ ||
मेर्चुर्य्:: मेदिच्। प्रोपेर्तिएस्पारदः कृमिकुष्ठघ्नश्चक्षुष्योष्णो रसायनः ॥ (१८।२)
mercury:: medic. propertiespāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ ||
अभ्रअभ्रकं स्वच्छमाकाशं पटलं वरपीतकम् । (१९।१)
abhraabhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam |
अभ्र:: मेदिच्। प्रोपेर्तिएसभ्रं गुरु हिमं बल्यं कुष्ठमेहत्रिदोषनुत् ॥ (१९।२)
abhra:: medic. propertiesabhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut ||
गगनं कृमिकुष्ठमेहहृद् विशदं शुक्रकरं च दीपनम् । (२०।१)
gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam |
कथितं मुनिभिश्च पूर्वजैर् बल्यकृच्छुक्रकरं च सेवितम् ॥ (२०।२)
kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam ||
सुल्ड़ुर्गन्धकः सौगन्धको लेखी गन्धाश्मा गन्धपीतकः । (२१।१)
sulfurgandhakaḥ saugandhako lekhī gandhāśmā gandhapītakaḥ |
सुल्ड़ुर्:: मेदिच्। प्रोपेर्तिएस्गन्धकः कटुकः पाके वीर्योष्णः पित्तलः सरः । (२२।१)
sulfur:: medic. propertiesgandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ |
माक्षिकमाक्षिकं धातुमाक्षीकं ताप्यं तापीजमुच्यते । (२३।१)
mākṣikamākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate |
माक्षिक:: मेदिच्। प्रोपेर्तिएस्माक्षिकं तुवरं वृष्यं स्वर्यं लघु रसायनम् ॥ (२३।२)
mākṣika:: medic. propertiesmākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam ||
चक्षुष्यं कुष्ठशोफार्शोमेहबस्त्यर्तिपाण्डुताः । (२४।१)
cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ |
व्यवायि कटुकं हन्ति कुष्ठोदरविषक्षयान् ॥ (२४।२)
vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān ||
मनःशिलामनःशिला शिला गोला नैपाली कुनटी कुला । (२५।१)
manaḥśilāmanaḥśilā śilā golā naipālī kunaṭī kulā |
दिव्यौषधिर्नागमाता मनोगुप्ता मनोऽम्बिका ॥ (२५।२)
divyauṣadhirnāgamātā manoguptā mano'mbikā ||
मनःशिला:: मेदिच्। प्रोपेर्तिएस्मनःशिला कृच्छ्रहरा सरोष्णा लेखनी कटुः । (२६।१)
manaḥśilā:: medic. propertiesmanaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ |
तिक्ता स्निग्धा विषश्वासकासभूतकफास्रजित् ॥ (२६।२)
tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit ||
हरितालहरितालमलं तालं गोदन्तं नटभूषणम् । (२७।१)
haritālaharitālamalaṃ tālaṃ godantaṃ naṭabhūṣaṇam |
हरिताल:: मेदिच्। प्रोपेर्तिएस्हरितालं कटु स्निग्धं कषायोष्णं विषं जयेत् । (२७।२)
haritāla:: medic. propertiesharitālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet |
कण्डूकुष्ठास्यरोगांश्च कफपित्तकचग्रहान् ॥ (२७।३)
kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān ||
गैरिकगैरिकं रक्तपाषाणं गिरिमृच्च गवेधुकम् । (२८।१)
gairikagairikaṃ raktapāṣāṇaṃ girimṛcca gavedhukam |
स्वर्णगैरिकस्वर्णवर्णं परं स्वर्णमण्डलं स्वर्णगैरिकम् ॥ (२८।२)
svarṇagairikasvarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam ||
गैरिक:: मेदिच्। प्रोपेर्तिएस्गैरिकं दाहपित्तास्रकफहिक्काविषापहम् । (२९।१)
gairika:: medic. propertiesgairikaṃ dāhapittāsrakaphahikkāviṣāpaham |
चक्षुष्यमन्यत्तद्वच्च विशेषाद्वान्तिनाशनम् ॥ (२९।२)
cakṣuṣyamanyattadvacca viśeṣādvāntināśanam ||
तुत्थतुत्थं कर्पूरिकातुत्थम् अमृतासङ्गम् उच्यते । (३०।१)
tutthatutthaṃ karpūrikātuttham amṛtāsaṅgam ucyate |
मयूरग्रीवकं चान्यच्छिखिकण्ठं च तुत्थकम् ॥ (३०।२)
mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam ||
तुत्थ:: मेदिच्। प्रोपेर्तिएस्तुत्थकं लेखनं भेदि कण्डूकुष्ठविषापहम् । (३१।१)
tuttha:: medic. propertiestutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham |
कफक्रिमिहरं तद्वदन्यच्चक्षुष्यमुत्तमम् ॥ (३१।२)
kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam ||
कासीसकासीसं धातुकासीसं खेचरं तप्तलोमशम् । (३२।१)
kāsīsakāsīsaṃ dhātukāsīsaṃ khecaraṃ taptalomaśam |
कासीस:: मेदिच्। प्रोपेर्तिएस्कासीसद्वयमम्लोष्णं तिक्तं केश्यं दृशे हितम् । (३३।१)
kāsīsa:: medic. propertieskāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam |
हन्ति कण्डूतिविषश्वित्रमूत्रकृच्छ्रकफानिलान् ॥ (३३।२)
hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān ||
हिङ्गुलहिंगुलं दरदं म्लेच्छं सैकतं चूर्णपारदम् । (३४।१)
hiṅgulahiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam |
हिङ्गुल:: मेदिच्। प्रोपेर्तिएस्हिंगुलं पित्तकफनुच्चक्षुष्यं विषकुष्ठहृत् ॥ (३४।२)
hiṅgula:: medic. propertieshiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt ||
सिन्दूरसिन्दूरं नागजं रक्तं श्रीमच्छृङ्गारभूषणम् । (३५।१)
sindūrasindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam |
सिन्दूर:: मेदिच्। प्रोपेर्तिएस्सिन्दूरमुष्णं वीसर्पकुष्ठकण्डूविषापहम् । (३६।१)
sindūra:: medic. propertiessindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham |
सौवीरसौवीरमञ्जनं कृष्णं कालनीलं सुवीरजम् । (३७।१)
sauvīrasauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam |
स्रोतोञ्जनस्रोतोञ्जनं तु स्रोतोजं नदीजं यामुनं वरम् ॥ (३७।२)
srotoñjanasrotoñjanaṃ tu srotojaṃ nadījaṃ yāmunaṃ varam ||
सौवीर:: मेदिच्। प्रोपेर्तिएस्सौवीरं ग्राहि मधुरं चक्षुष्यं कफवातजित् । (३८।१)
sauvīra:: medic. propertiessauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit |
सिध्माक्षयास्रनुच्छीतं स्रोतोऽञ्जनम् अपीदृशम् ॥ (३८।२)
sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam ||
रसाञ्जनरसाञ्जनं रसोद्भूतं तार्क्ष्यं शैलं च तार्क्ष्यजम् । (३९।१)
rasāñjanarasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam |
रसाग्र्यं कृत्रिमं तार्क्ष्यं दार्व्यं दार्वीरसोद्भवम् ॥ (३९।२)
rasāgryaṃ kṛtrimaṃ tārkṣyaṃ dārvyaṃ dārvīrasodbhavam ||
रसाञ्जन:: मेदिच्। प्रोपेर्तिएस्रसाञ्जनं कटु श्लेष्ममुखनेत्रविकारजित् । (४०।१)
rasāñjana:: medic. propertiesrasāñjanaṃ kaṭu śleṣmamukhanetravikārajit |
उष्णं रसायनं तिक्तं छेदनं व्रणदोषजित् ॥ (४०।२)
uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit ||
पुष्पाञ्जनपुष्पाञ्जनं पुष्पकेतुं रीतिजं कुसुमाञ्जनम् । (४१।१)
puṣpāñjanapuṣpāñjanaṃ puṣpaketuṃ rītijaṃ kusumāñjanam |
पुष्पाञ्जन:: मेदिच्। प्रोपेर्तिएस्पुष्पाञ्जनं क्षारमुष्णं काचामपटलापहम् ॥ (४१।२)
puṣpāñjana:: medic. propertiespuṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham ||
शिलाजतुशिलाजतूष्णजं शैलनिर्यासो गिरिशाह्वयम् । (४२।१)
śilājatuśilājatūṣṇajaṃ śailaniryāso giriśāhvayam |
शिलाह्वं गिरिजं शैलं शैलेयं गिरिजत्वपि ॥ (४२।२)
śilāhvaṃ girijaṃ śailaṃ śaileyaṃ girijatvapi ||
शिलाजतु:: मेदिच्। प्रोपेर्तिएस्शिलाजतूष्णं कटुकं योगवाहि रसायनम् । (४३।१)
śilājatu:: medic. propertiesśilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam |
छर्दिप्रमेहवातार्शःकुष्ठास्योदरपाण्डुताः । (४३।२)
chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ |
हन्ति श्वासक्षयोन्मादरक्तशोफकफक्रिमीन् ॥ (४३।३)
hanti śvāsakṣayonmādaraktaśophakaphakrimīn ||
बोलबोलं गन्धरसं वीरं निर्लोहं बर्बरं चलम् । (४४।१)
bolabolaṃ gandharasaṃ vīraṃ nirlohaṃ barbaraṃ calam |
सुगन्धि नालिका पिण्डं रसगन्धं च तद्द्विधा ॥ (४४।२)
sugandhi nālikā piṇḍaṃ rasagandhaṃ ca taddvidhā ||
बोल:: मेदिच्। प्रोपेर्तिएस्बोलं रक्तहरं शीतं मेध्यं दीपनपाचनम् । (४५।१)
bola:: medic. propertiesbolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam |
ज्वरापस्मारकुष्ठघ्नं गर्भाशयविशोधनम् ॥ (४५।२)
jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśodhanam ||
स्फटिकास्फटिकाख्या मृता बाष्पी कक्षी सौराष्ट्रसम्भवा । (४६।१)
sphaṭikāsphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā |
सौराष्ट्रीआडकी तुवरा त्वन्या मृत्तिका सुरमृत्तिका ॥ (४६।२)
saurāṣṭrīāḍakī tuvarā tvanyā mṛttikā suramṛttikā ||
स्फटिका:: मेदिच्। प्रोपेर्तिएस्स्फटिकाख्या कषायोष्णा कफपित्तविषव्रणान् । (४७।१)
sphaṭikā:: medic. propertiessphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān |
निहन्ति श्वित्रवीसर्पांस्तुवरी तद्गुणा मता ॥ (४७।२)
nihanti śvitravīsarpāṃstuvarī tadguṇā matā ||
समुद्रफेनसमुद्रफेनो डिण्डीरः फेनो वारिकफो द्विजः । (४८।१)
samudraphenasamudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ |
समुद्रफेन:: मेदिच्। प्रोपेर्तिएस्समुद्रफेनश्चक्षुष्यो लेखनः शमनः सरः ॥ (४८।२)
samudraphena:: medic. propertiessamudraphenaścakṣuṣyo lekhanaḥ śamanaḥ saraḥ ||
प्रवालप्रवालं विद्रुमं सिन्धुर् लताग्रं रक्तवर्णकम् । (४९।१)
pravālapravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam |
प्रवाल:: मेदिच्। प्रोपेर्तिएस्पुष्टिदं कान्तिदं बल्यं वर्धनं बलशुक्रयोः ॥ (४९।२)
pravāla:: medic. propertiespuṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ ||
मौक्तिकमौक्तिकं तौतिला मुक्ताफलं मुक्ता च शुक्तिजम् । (५०।१)
mauktikamauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam |
मौक्तिक:: मेदिच्। प्रोपेर्तिएस्मौक्तिकं मधुरं शीतं रोगघ्नं विषनाशनम् ॥ (५०।२)
mauktika:: medic. propertiesmauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam ||
माणिक्यमाणिक्यं पद्मरागं स्याद्वसु रत्नं सुरत्नकम् ॥ (५१।०)
māṇikyamāṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam ||
सूर्यकान्तसूर्यकान्तः सूर्यमणिः सूर्याक्षो दहनोपलः ॥ (५२।०)
sūryakāntasūryakāntaḥ sūryamaṇiḥ sūryākṣo dahanopalaḥ ||
चन्द्रकान्तचन्द्रकान्तश्चन्द्रमणिः स्फटिकः स्फटिकोपलः ॥ (५३।०)
candrakāntacandrakāntaścandramaṇiḥ sphaṭikaḥ sphaṭikopalaḥ ||
गोमेदगोमेदं सुन्दरं पीतं रत्नं तृणचरं तथा ॥ (५४।०)
gomedagomedaṃ sundaraṃ pītaṃ ratnaṃ tṛṇacaraṃ tathā ||
वज्रहीरकं भिदुरं वज्रं सूचीवक्त्रं वराहकम् ॥ (५५।०)
vajrahīrakaṃ bhiduraṃ vajraṃ sūcīvaktraṃ varāhakam ||
नीलमणि, वैडूर्यनीलरत्नं नीलमणिर्वैडूर्यं बालवायजम् ॥ (५६।०)
nīlamaṇi, vaiḍūryanīlaratnaṃ nīlamaṇirvaiḍūryaṃ bālavāyajam ||
मरकतगारुत्मतं मरकतं दृषद्गर्भो हरिन्मणिः ॥ (५७।०)
marakatagārutmataṃ marakataṃ dṛṣadgarbho harinmaṇiḥ ||
शुक्तिमुक्तास्फोटोऽब्धिमण्डूकी शुक्तिर् मौक्तिकमन्दिरम् ॥ (५८।०)
śuktimuktāsphoṭo'bdhimaṇḍūkī śuktir mauktikamandiram ||
रत्न:: मेदिच्। प्रोपेर्तिएस्प्रवालमुक्तिमाणिक्यसूर्यशीतकरोपलाः । (५९।१)
ratna:: medic. propertiespravālamuktimāṇikyasūryaśītakaropalāḥ |
चक्षुष्या लेखनाः शीताः कषाया मधुराः सराः । (६०।१)
cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ |
शङ्खशङ्खः कम्बुर्जलधरो वारिजो दीर्घनिःस्वनः । (६१।१)
śaṅkhaśaṅkhaḥ kamburjaladharo vārijo dīrghaniḥsvanaḥ |
शङ्ख:: मेदिच्। प्रोपेर्तिएस्शङ्खो हि कटुकः पाके कषायो मधुरो लघुः ॥ (६१।२)
śaṅkha:: medic. propertiesśaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ ||
लघुशङ्ख:: मेदिच्। प्रोपेर्तिएस्शङ्खो नेत्रहितः शीतो लघुः पित्तकफास्रजित् ॥ (६२।२)
laghuśaṅkha:: medic. propertiesśaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit ||
लघुशङ्खशङ्खो लघुः शङ्खनकः शम्बुको वारिशुक्तयः । (६३।१)
laghuśaṅkhaśaṅkho laghuḥ śaṅkhanakaḥ śambuko vāriśuktayaḥ |
कपर्दकपर्दाः क्षुल्लका ज्ञेया वराटाश्च वराटिका । (६३।२)
kapardakapardāḥ kṣullakā jñeyā varāṭāśca varāṭikā |
लघुशङ्खादयः शीता नेत्ररुक्स्फोटनाशनाः ॥ (६३।३)
laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ ||
खटिनीखटी मक्कोल्लखटिनी श्वेता नाडीतरङ्गकः । (६४।१)
khaṭinīkhaṭī makkollakhaṭinī śvetā nāḍītaraṅgakaḥ |
गौडपाषाणतद्भेदो गौडपाषाणः क्षीरपाक उदाहृतः । (६४।२)
gauḍapāṣāṇatadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ |
खटी:: मेदिच्। प्रोपेर्तिएस्खटी दाहास्रनुच्छीता गौडग्रावापि तद्गुणः ॥ (६४।३)
khaṭī:: medic. propertieskhaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ ||
पङ्क, वालुकापङ्कः कर्दमको ज्ञेयो वालुका सिकता तथा । (६५।१)
paṅka, vālukāpaṅkaḥ kardamako jñeyo vālukā sikatā tathā |
पङ्क:: मेदिच्। प्रोपेर्तिएस्पङ्को दाहास्रपित्तार्त्तिशोथघ्नः शीतलः सरः । (६५।२)
paṅka:: medic. propertiespaṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ |
वालुका:: मेदिच्। प्रोपेर्तिएस्वालुका लेखनी शीता व्रणोरःक्षतनाशिनी ॥ (६५।३)
vālukā:: medic. propertiesvālukā lekhanī śītā vraṇoraḥkṣatanāśinī ||
चुम्बकचुम्बकः कान्तपाषाणोऽयस्कान्तो लोहकर्षकः । (६६।१)
cumbakacumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ |
चुम्बक:: मेदिच्। प्रोपेर्तिएस्चुम्बको लेखनः शीतो मेदोविषगरापहः ॥ (६६।२)
cumbaka:: medic. propertiescumbako lekhanaḥ śīto medoviṣagarāpahaḥ ||
काचकाचः कृत्रिमरत्नं स्याद् पिङ्गाणः काचभाजनम् । (६७।१)
kācakācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam |
काच:: मेदिच्। प्रोपेर्तिएस्काचो विदारणो व्रण्यश्चक्षुष्यो लेखनो लघुः ॥ (६७।२)
kāca:: medic. propertieskāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ ||
यो राज्ञां मुखतिलकः कटारमल्लस् तेन श्रीमदननृपेण निर्मितेऽत्र । (६८।१)
yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra |
ग्रन्थेऽभून्मदनविनोदनाम्नि पूर्णश्चित्रो ऽयं ललितपदैः सुवर्णवर्गः ॥ (६८।२)
granthe'bhūnmadanavinodanāmni pūrṇaścitro 'yaṃ lalitapadaiḥ suvarṇavargaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.