रसकामधेनुRasakāmadhenu

RKDh, 1, 5

3 of 3 · 285 verses

Select a line for its word-by-word analysis.

1.1१.१

बीजसाधने गगनं जारयेवादौ इत्यादिवक्ष्यमाणक्रमाद् अभ्रकगन्धमाक्षिकादिसत्त्वपिष्टिका निरूप्यन्ते । (१।१)

bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante |

1.2१.२

तत्र व्योम्नो दशगुणं सत्त्वं सत्त्वाद्दशगुणा द्रुतिः इति व्योमचूर्णसत्त्वद्रुतिषु तावच्चूर्णरूपां पिष्टिं निरूपयति । (१।२)

tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati |

1.3१.३

व्योमपिष्टीकरणं रसार्णवे । (१।३)

vyomapiṣṭīkaraṇaṃ rasārṇave |

1.4१.४

क्षाराम्लभावितं व्योमं रजसा प्रथमेन च । (१।४)

kṣārāmlabhāvitaṃ vyomaṃ rajasā prathamena ca |

1.5१.५

सृष्टित्रयोदककणातुम्बुरुद्रवमर्दितम् ॥ (१।५)

sṛṣṭitrayodakakaṇātumburudravamarditam ||

2.1२.१

जारितं वाथ पुटितं यवचिञ्चारसेन च । (२।१)

jāritaṃ vātha puṭitaṃ yavaciñcārasena ca |

2.2२.२

शतावरी गुहा रम्भा मेघनादः पुनर्नवा ॥ (२।२)

śatāvarī guhā rambhā meghanādaḥ punarnavā ||

3.1३.१

शिग्रुको यवचिञ्चा च भावितं तद्रसैः क्रमात् । (३।१)

śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt |

3.2३.२

मूलं सितमुमायास्तु कौबेरीमूलमेव च ॥ (३।२)

mūlaṃ sitamumāyāstu kauberīmūlameva ca ||

4.1४.१

कदलीमुसलीशिग्रुताम्बूलीबाणपीलुकम् । (४।१)

kadalīmusalīśigrutāmbūlībāṇapīlukam |

4.2४.२

अलम्बुषा बला कोली ह्यास्फोटा खरमञ्जरी ॥ (४।२)

alambuṣā balā kolī hyāsphoṭā kharamañjarī ||

5.1५.१

तुम्बरुस् तिक्तशाकं चाप्येषाम् एकरसेन तु । (५।१)

tumbarus tiktaśākaṃ cāpyeṣām ekarasena tu |

5.2५.२

राजिकाव्योषयुक्तेन त्रिदिनं स्विन्नमभ्रकम् ॥ (५।२)

rājikāvyoṣayuktena tridinaṃ svinnamabhrakam ||

6.1६.१

काशीशतुम्बरुसिन्धुटंकणक्षारसंयुतम् । (६।१)

kāśīśatumbarusindhuṭaṃkaṇakṣārasaṃyutam |

6.2६.२

पूर्वाभिषवयोगेन सूतकश्चरति क्षणात् ॥ (६।२)

pūrvābhiṣavayogena sūtakaścarati kṣaṇāt ||

7.1७.१

अत्र प्रथमेन रजसा पूर्वोक्तेनाभिषेकेण सृष्टित्रयं लवणत्रयम् उमातसी कौबेरी उत्तरवारुणी यवचिञ्चा तिन्तिडी । (७।१)

atra prathamena rajasā pūrvoktenābhiṣekeṇa sṛṣṭitrayaṃ lavaṇatrayam umātasī kauberī uttaravāruṇī yavaciñcā tintiḍī |

7.2७.२

अयमर्थः क्षाराम्लादिमर्दितपुटितस्य यवचिञ्चारसेन पिष्टिः कार्या । (७।२)

ayamarthaḥ kṣārāmlādimarditapuṭitasya yavaciñcārasena piṣṭiḥ kāryā |

7.3७.३

शतावर्यादिरसमर्दितकाशीशादिभिः सह पुटितस्य यवचिञ्चारसेन पिष्टिर्वा कार्येति पिष्टिद्वयम् । (७।३)

śatāvaryādirasamarditakāśīśādibhiḥ saha puṭitasya yavaciñcārasena piṣṭirvā kāryeti piṣṭidvayam |

7.4७.४

तथा च तत्रैव । (७।४)

tathā ca tatraiva |

7.5७.५

गृहीत्वा देवि धान्याभ्रम् अम्लवर्गेण संयुतम् । (७।५)

gṛhītvā devi dhānyābhram amlavargeṇa saṃyutam |

7.6७.६

क्वाथयित्वाभ्रकं तं तु स्नुहीक्षीरेण मर्दितम् ॥ (७।६)

kvāthayitvābhrakaṃ taṃ tu snuhīkṣīreṇa marditam ||

8.1८.१

अरण्यगोमयेनैव कपोताख्यं पुटं ततः । (८।१)

araṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ |

8.2८.२

कदलीकन्दनिर्यासैर्मूलकन्दरसेन च ॥ (८।२)

kadalīkandaniryāsairmūlakandarasena ca ||

9.1९.१

काकमाची च मीनाक्षी ह्यपामार्गो मुनिस्तथा । (९।१)

kākamācī ca mīnākṣī hyapāmārgo munistathā |

9.2९.२

एरण्डो ह्यार्द्रकश्चैव मेघनादः पुनर्नवा ॥ (९।२)

eraṇḍo hyārdrakaścaiva meghanādaḥ punarnavā ||

10.1१०.१

एकैकस्य पुनर् द्रावैः पुटमेकं प्रदापयेत् । (१०।१)

ekaikasya punar drāvaiḥ puṭamekaṃ pradāpayet |

10.2१०.२

वज्रीक्षीरेण संयुक्तं दोलायन्त्रेण पाचयेत् ॥ (१०।२)

vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet ||

11.1११.१

छायाशुष्कं ततः कृत्वा चणकाम्लेन भैरवि । (११।१)

chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena bhairavi |

11.2११.२

घनसारं च काशीशं वचा निम्बं तथैव च ॥ (११।२)

ghanasāraṃ ca kāśīśaṃ vacā nimbaṃ tathaiva ca ||

12.1१२.१

अभ्रकात्षोडशांशेन ह्येकैकं तत्र निक्षिपेत् । (१२।१)

abhrakātṣoḍaśāṃśena hyekaikaṃ tatra nikṣipet |

12.2१२.२

निधाय ताम्रपात्रे तु घर्षयेत्तं च सुव्रते ॥ (१२।२)

nidhāya tāmrapātre tu gharṣayettaṃ ca suvrate ||

13.1१३.१

नववारं ततो देवि लोहपात्रे तु जारयेत् । (१३।१)

navavāraṃ tato devi lohapātre tu jārayet |

13.2१३.२

रसेन सह देवेशि चणकाम्लेन काञ्जिकम् ॥ (१३।२)

rasena saha deveśi caṇakāmlena kāñjikam ||

14.1१४.१

मृद्वग्निना तु निष्क्वाथ्यं प्रहरार्धेन जायते । (१४।१)

mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate |

14.2१४.२

सोमवल्लीरसैः पिष्ट्वा व्योमं सौवर्चलान्वितम् ॥ (१४।२)

somavallīrasaiḥ piṣṭvā vyomaṃ sauvarcalānvitam ||

15.1१५.१

शनैः शनैर् हंसपाके दापयेच्च पुटत्रयम् । (१५।१)

śanaiḥ śanair haṃsapāke dāpayecca puṭatrayam |

15.2१५.२

सोमवल्लीरसेनैव सप्तवारांश्च भावयेत् ॥ (१५।२)

somavallīrasenaiva saptavārāṃśca bhāvayet ||

16.1१६.१

सोमवल्लीरसेनैव सप्तवारांश्च दापयेत् । (१६।१)

somavallīrasenaiva saptavārāṃśca dāpayet |

16.2१६.२

पातयेन्मृन्मये भाण्डे रसेन सह संप्लुतम् । (१६।२)

pātayenmṛnmaye bhāṇḍe rasena saha saṃplutam |

16.3१६.३

मूलं वल्लीषुपुङ्खाया गव्यक्षीरेण घर्षयेत् । (१६।३)

mūlaṃ vallīṣupuṅkhāyā gavyakṣīreṇa gharṣayet |

16.4१६.४

कल्केन लेपयेत्सूतं गगनं च तदूर्ध्वगम् । (१६।४)

kalkena lepayetsūtaṃ gaganaṃ ca tadūrdhvagam |

16.5१६.५

तापयेद्रवितापेन निर्मुखं ग्रसते क्षणात् । (१६।५)

tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt |

16.6१६.६

जायते पिष्टिका शीघ्रं नात्र कार्या विचारणा । (१६।६)

jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā |

16.7१६.७

इति पुटनेनान्या तृतीया पिष्टिः । (१६।७)

iti puṭanenānyā tṛtīyā piṣṭiḥ |

16.8१६.८

तिलपर्णीरसेनैव गगनं तेन भावयेत् । (१६।८)

tilaparṇīrasenaiva gaganaṃ tena bhāvayet |

16.9१६.९

मर्दनाज्जायते पिष्टिर्नात्र कार्या विचारणा ॥ (१६।९)

mardanājjāyate piṣṭirnātra kāryā vicāraṇā ||

17.1१७.१

पूर्वोक्तविधिना पुटित इति शेषः । (१७।१)

pūrvoktavidhinā puṭita iti śeṣaḥ |

17.2१७.२

इत्यन्या पिष्टिः । (१७।२)

ityanyā piṣṭiḥ |

17.3१७.३

इत्यभ्रम् अर्कचूर्णपिष्टिचतुष्टयम् । (१७।३)

ityabhram arkacūrṇapiṣṭicatuṣṭayam |

17.4१७.४

अथ व्योमसत्त्वपिष्टिः रसार्णवे । (१७।४)

atha vyomasattvapiṣṭiḥ rasārṇave |

17.5१७.५

सत्त्वमावर्तितं व्योम्नः शोधितं काचटंकणैः । (१७।५)

sattvamāvartitaṃ vyomnaḥ śodhitaṃ kācaṭaṃkaṇaiḥ |

17.6१७.६

चिञ्चाफलाम्लसेहुण्डपत्रकल्कनिषेवणैः ॥ (१७।६)

ciñcāphalāmlasehuṇḍapatrakalkaniṣevaṇaiḥ ||

18.1१८.१

पक्त्वा निष्पाद्यतां देवि रसपिष्टिसमं भवेत् । (१८।१)

paktvā niṣpādyatāṃ devi rasapiṣṭisamaṃ bhavet |

18.2१८.२

रसरत्नाकरेऽपि । (१८।२)

rasaratnākare'pi |

18.3१८.३

अभ्रसत्त्वं समावर्त्य समांशं काचटंकणम् ॥ (१८।३)

abhrasattvaṃ samāvartya samāṃśaṃ kācaṭaṃkaṇam ||

19.1१९.१

दत्त्वा दत्त्वा त्रिवारं तद्वज्रमूषागतं धमेत् । (१९।१)

dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet |

19.2१९.२

अम्लवर्गस्नुहीपत्रचिञ्चाबीजं सवल्कलम् ॥ (१९।२)

amlavargasnuhīpatraciñcābījaṃ savalkalam ||

20.1२०.१

कल्कयेत्तत्र तत्सत्त्वं सप्तवारं निषेचयेत् । (२०।१)

kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet |

20.2२०.२

मृदु शुभ्रं भवेत्तच्च हितं सूतस्य जारणे ॥ (२०।२)

mṛdu śubhraṃ bhavettacca hitaṃ sūtasya jāraṇe ||

21.1२१.१

अथ गन्धकपिष्टिः । (२१।१)

atha gandhakapiṣṭiḥ |

21.2२१.२

रसरत्नप्रदीपिकायाम् । (२१।२)

rasaratnapradīpikāyām |

21.3२१.३

विलोडिते स्वर्णजले विशुष्के वस्त्रेऽथ दत्त्वा नवनीतगर्भम् । (२१।३)

viloḍite svarṇajale viśuṣke vastre'tha dattvā navanītagarbham |

21.4२१.४

चूर्णं शिलातालकगन्धकानां सपन्नगानां समभागिकानाम् ॥ (२१।४)

cūrṇaṃ śilātālakagandhakānāṃ sapannagānāṃ samabhāgikānām ||

22.1२२.१

कर्षप्रमाणां तु ततोऽस्य वर्तिं प्रज्वालयेत्तद्गलितं घृतं स्यात् । (२२।१)

karṣapramāṇāṃ tu tato'sya vartiṃ prajvālayettadgalitaṃ ghṛtaṃ syāt |

22.2२२.२

अनेन कुर्याद्रसनायकस्य सर्वत्र पिष्टिं बलिजारणाय ॥ (२२।२)

anena kuryādrasanāyakasya sarvatra piṣṭiṃ balijāraṇāya ||

23.1२३.१

रसेन्द्रचिन्तामणावपि । (२३।१)

rasendracintāmaṇāvapi |

23.2२३.२

शुद्धसूतपलैकं तु कर्षैकं गन्धकस्य तु । (२३।२)

śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya tu |

23.3२३.३

तप्तखल्वे विनिक्षिप्य देवदालीरसप्लुतम् ॥ (२३।३)

taptakhalve vinikṣipya devadālīrasaplutam ||

24.1२४.१

मर्दयेच्च करांगुल्या जायते गन्धपिष्टिका । (२४।१)

mardayecca karāṃgulyā jāyate gandhapiṣṭikā |

24.2२४.२

भागा द्वादश सूतस्य द्वौ भागौ गन्धकस्य च ॥ (२४।२)

bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca ||

25.1२५.१

मर्दयेद् घृतयोगेन जायते गन्धपिष्टिका । (२५।१)

mardayed ghṛtayogena jāyate gandhapiṣṭikā |

25.2२५.२

अन्यत्र च । (२५।२)

anyatra ca |

25.3२५.३

गन्धकस्य पलं चूर्णं बृहतीफलजद्रवैः ॥ (२५।३)

gandhakasya palaṃ cūrṇaṃ bṛhatīphalajadravaiḥ ||

26.1२६.१

आकाशवल्लीस्वरसैर्गोमूत्रेण च भावयेत् । (२६।१)

ākāśavallīsvarasairgomūtreṇa ca bhāvayet |

26.2२६.२

एकविंशतिवारांश्च प्रत्येकं शोषितं च तत् ॥ (२६।२)

ekaviṃśativārāṃśca pratyekaṃ śoṣitaṃ ca tat ||

27.1२७.१

अम्लवर्गैर् भावितं च रक्तपीतगणेन च । (२७।१)

amlavargair bhāvitaṃ ca raktapītagaṇena ca |

27.2२७.२

शुष्कं श्रीरङ्गयन्त्रेण सत्त्वं ग्राह्यं प्रयत्नतः । (२७।२)

śuṣkaṃ śrīraṅgayantreṇa sattvaṃ grāhyaṃ prayatnataḥ |

27.3२७.३

तद्यन्त्रगद्रवेणैव पिष्टिः स्याद्रसजारणे ॥ (२७।३)

tadyantragadraveṇaiva piṣṭiḥ syādrasajāraṇe ||

28.1२८.१

पूर्वोक्तरङ्गाकृष्टिना वा भाविता गन्धादिपिष्टका । (२८।१)

pūrvoktaraṅgākṛṣṭinā vā bhāvitā gandhādipiṣṭakā |

28.2२८.२

इति गन्धकपिष्टिका । (२८।२)

iti gandhakapiṣṭikā |

28.3२८.३

अथ शिलातालपिष्टिः रसार्णवे । (२८।३)

atha śilātālapiṣṭiḥ rasārṇave |

28.4२८.४

स्नेहक्षाराम्लवर्गैश्च शिलायाश्च पुटत्रयम् । (२८।४)

snehakṣārāmlavargaiśca śilāyāśca puṭatrayam |

28.5२८.५

कटाहे धूपने यन्त्रे धूपगन्धानुलेपनात् ॥ (२८।५)

kaṭāhe dhūpane yantre dhūpagandhānulepanāt ||

29.1२९.१

वंगस्य हि विधानेन तालस्य हतस्य च । (२९।१)

vaṃgasya hi vidhānena tālasya hatasya ca |

29.2२९.२

ताप्यहिंगुलयोर् वापि हीनं वै रसकस्य वा ॥ (२९।२)

tāpyahiṃgulayor vāpi hīnaṃ vai rasakasya vā ||

30.1३०.१

देवेन्द्रगिरिस्त्वाह । (३०।१)

devendragiristvāha |

30.2३०.२

षोडशांशं रसात्सत्त्वं लिप्तमूषान्धितं पुटेत् । (३०।२)

ṣoḍaśāṃśaṃ rasātsattvaṃ liptamūṣāndhitaṃ puṭet |

30.3३०.३

सतुषे कर्षगेऽग्नौ च यावत्सूतावशेषितम् ॥ (३०।३)

satuṣe karṣage'gnau ca yāvatsūtāvaśeṣitam ||

31.1३१.१

एवमन्यसत्त्वपिष्टिश्च धातुवर्गोक्तसत्त्वानां कार्या । (३१।१)

evamanyasattvapiṣṭiśca dhātuvargoktasattvānāṃ kāryā |

31.2३१.२

इति शिलातालकमाक्षिकादिपिष्टिः । (३१।२)

iti śilātālakamākṣikādipiṣṭiḥ |

31.3३१.३

अथ रसार्णवे स्वर्णतारबीजानि । (३१।३)

atha rasārṇave svarṇatārabījāni |

31.4३१.४

अथातः सम्प्रवक्ष्यामि बीजानां साधनं प्रिये । (३१।४)

athātaḥ sampravakṣyāmi bījānāṃ sādhanaṃ priye |

31.5३१.५

हेमतारवशाद् बीजं द्विविधं तावदीश्वरि ॥ (३१।५)

hematāravaśād bījaṃ dvividhaṃ tāvadīśvari ||

32.1३२.१

पीतारुणैर् हैमबीजं तारबीजं सितैर्भवेत् । (३२।१)

pītāruṇair haimabījaṃ tārabījaṃ sitairbhavet |

32.2३२.२

कल्पितं रञ्जितं पक्वम् इति भूयस्त्रिधा भवेत् ॥ (३२।२)

kalpitaṃ rañjitaṃ pakvam iti bhūyastridhā bhavet ||

33.1३३.१

कल्पितं द्विविधं तत्र शुद्धमिश्रविभेदतः । (३३।१)

kalpitaṃ dvividhaṃ tatra śuddhamiśravibhedataḥ |

33.2३३.२

रसोपरसलोहानां बीजानां कल्पितं पृथक् ॥ (३३।२)

rasoparasalohānāṃ bījānāṃ kalpitaṃ pṛthak ||

34.1३४.१

शुद्धं मिश्रं तु संयोगाद्यथालाभं सुरेश्वरि । (३४।१)

śuddhaṃ miśraṃ tu saṃyogādyathālābhaṃ sureśvari |

34.2३४.२

मिश्रं यथा हेमाभ्रताम्राभ्रताराभ्रवङ्गाभ्रनागाभ्रकान्ताभ्रादिकम् । (३४।२)

miśraṃ yathā hemābhratāmrābhratārābhravaṅgābhranāgābhrakāntābhrādikam |

34.3३४.३

इति कल्पितबीजानि । (३४।३)

iti kalpitabījāni |

34.4३४.४

अथ तत्रैव रञ्जितबीजानि बीजानि कल्पितान्येवं रञ्जितानि परं शृणु । (३४।४)

atha tatraiva rañjitabījāni bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu |

34.5३४.५

घनं माक्षिकचूर्णेन शुल्वचूर्णेन रञ्जितम् । (३४।५)

ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam |

34.6३४.६

द्वंद्वितं ताप्यसत्त्वेन रसराजस्य रञ्जनम् ॥ (३४।६)

dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam ||

35.1३५.१

आरक्तवल्लिभिर्मूत्रैर्बहुधा परिभावितैः । (३५।१)

āraktavallibhirmūtrairbahudhā paribhāvitaiḥ |

35.2३५.२

कुनटीगन्धपाषाणैर्हेममाक्षिकहिंगुलैः ॥ (३५।२)

kunaṭīgandhapāṣāṇairhemamākṣikahiṃgulaiḥ ||

36.1३६.१

वापितं सेचितं रक्तगणैः स्नेहैर्मृतं ततः । (३६।१)

vāpitaṃ secitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ |

36.2३६.२

रञ्जितं रसराजस्य तीक्ष्णं ताम्रं विशेषतः ॥ (३६।२)

rañjitaṃ rasarājasya tīkṣṇaṃ tāmraṃ viśeṣataḥ ||

37.1३७.१

केवलं विमलं ताम्रं वापितं दरदेन वा । (३७।१)

kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena vā |

37.2३७.२

कुरुते त्रिगुणं जीर्णं लाक्षारसनिभं रसम् ॥ (३७।२)

kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam ||

38.1३८.१

द्विगुणं रसकं दत्त्वा ताम्रं सुध्मातमीश्वरि । (३८।१)

dviguṇaṃ rasakaṃ dattvā tāmraṃ sudhmātamīśvari |

38.2३८.२

कृष्णाभ्रकस्य चूर्णं च रक्तवर्णं मुहुः पुटैः ॥ (३८।२)

kṛṣṇābhrakasya cūrṇaṃ ca raktavarṇaṃ muhuḥ puṭaiḥ ||

39.1३९.१

ताप्येन वा मृतं हेम त्रिगुणेन विपाचितम् । (३९।१)

tāpyena vā mṛtaṃ hema triguṇena vipācitam |

39.2३९.२

हण्डिकायां तु रसकं ताप्यसैन्धवसंयुतम् ॥ (३९।२)

haṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam ||

40.1४०.१

इन्द्रगोपनिभं यावत्सर्वं द्विगुणजारणात् । (४०।१)

indragopanibhaṃ yāvatsarvaṃ dviguṇajāraṇāt |

40.2४०.२

द्रुतहेमनिभं सूतं कुरुते नात्र संशयः ॥ (४०।२)

drutahemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ ||

41.1४१.१

अभ्रकं हेम ताम्रं च शिलया माक्षिकेण च । (४१।१)

abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca |

41.2४१.२

गैरिकेण च मुख्येन रसकेन च रञ्जयेत् ॥ (४१।२)

gairikeṇa ca mukhyena rasakena ca rañjayet ||

42.1४२.१

कुनटीहतकरिणा वा रविणा ताप्यगन्धकहतेन । (४२।१)

kunaṭīhatakariṇā vā raviṇā tāpyagandhakahatena |

42.2४२.२

दरदनिहतायसा वा निर्व्यूढं हेम तद्बीजम् ॥ (४२।२)

daradanihatāyasā vā nirvyūḍhaṃ hema tadbījam ||

43.1४३.१

रससारे तु मेलनकर्म । (४३।१)

rasasāre tu melanakarma |

43.2४३.२

आदावेव तु बीजानां कुर्यान्मेलं यथोचितम् । (४३।२)

ādāveva tu bījānāṃ kuryānmelaṃ yathocitam |

43.3४३.३

निर्वाह्य सर्वबीजानि वापयेत्सेचनेन तु ॥ (४३।३)

nirvāhya sarvabījāni vāpayetsecanena tu ||

44.1४४.१

ताप्यं वा रसकं वापि हंसं वा विमलां शिलाम् । (४४।१)

tāpyaṃ vā rasakaṃ vāpi haṃsaṃ vā vimalāṃ śilām |

44.2४४.२

वापयेत्सर्वबीजेषु सततं सेकपण्डितः ॥ (४४।२)

vāpayetsarvabījeṣu satataṃ sekapaṇḍitaḥ ||

45.1४५.१

सेचनं रक्ततोयेन रञ्जनं स्याद्विशेषतः । (४५।१)

secanaṃ raktatoyena rañjanaṃ syādviśeṣataḥ |

45.2४५.२

भवन्ति सर्वबीजानि रञ्जितानि न संशयः ॥ (४५।२)

bhavanti sarvabījāni rañjitāni na saṃśayaḥ ||

46.1४६.१

रसश्चोपरसाश्चैव रक्तपीताश्च कृत्स्नशः । (४६।१)

rasaścoparasāścaiva raktapītāśca kṛtsnaśaḥ |

46.2४६.२

त्रिगुणा हेमनिर्व्यूढा हेमशेषं तु बीजकम् ॥ (४६।२)

triguṇā hemanirvyūḍhā hemaśeṣaṃ tu bījakam ||

47.1४७.१

तद् बीजं चारयेत्सूते समभागं च कारयेत् । (४७।१)

tad bījaṃ cārayetsūte samabhāgaṃ ca kārayet |

47.2४७.२

रसस्य रञ्जनं कृत्वा समबीजेन सारयेत् ॥ (४७।२)

rasasya rañjanaṃ kṛtvā samabījena sārayet ||

48.1४८.१

इह चारणं सारणं कल्पितपक्वबीजानामप्येवमेव । (४८।१)

iha cāraṇaṃ sāraṇaṃ kalpitapakvabījānāmapyevameva |

48.2४८.२

रसेन्द्रचिन्तामणौ । (४८।२)

rasendracintāmaṇau |

48.3४८.३

कर्षाष्टंकणकज्जलीहरिहयैर्गन्धस्य च द्वौ रजः सिद्धाख्यं सकलैः कृतं पलमथ द्वित्रैश्च लोहैः शृतम् । (४८।३)

karṣāṣṭaṃkaṇakajjalīharihayairgandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śṛtam |

48.4४८.४

भूयो गन्धमृतं चतुर्दशपुटैः स्यादिन्द्रगोपारुणं तत्तारे मधुना पुटेन धमनेनार्कच्छवीमीहते ॥ (४८।४)

bhūyo gandhamṛtaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre madhunā puṭena dhamanenārkacchavīmīhate ||

49.1४९.१

तुल्यं तारे ताम्रमावर्त्य तावत्तप्तं तप्तं गन्धचूर्णे कुनट्याम् । (४९।१)

tulyaṃ tāre tāmramāvartya tāvattaptaṃ taptaṃ gandhacūrṇe kunaṭyām |

49.2४९.२

न्यस्तं यावज्जीर्यते खण्डशोऽथ प्राज्यैर्गन्धैः पाचयेत्काचकूप्याम् ॥ (४९।२)

nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgandhaiḥ pācayetkācakūpyām ||

50.1५०.१

खण्डाकारं तादृशं टंकणेन स्वर्णान्तःस्थं भस्ममूषान्तराले । (५०।१)

khaṇḍākāraṃ tādṛśaṃ ṭaṃkaṇena svarṇāntaḥsthaṃ bhasmamūṣāntarāle |

50.2५०.२

ध्मातं साधु स्यात् सुवर्णं सतारं हीने वर्णे रञ्जयेन्माक्षिकेण ॥ (५०।२)

dhmātaṃ sādhu syāt suvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa ||

51.1५१.१

अथ रसार्णवे पक्वबीजानि । (५१।१)

atha rasārṇave pakvabījāni |

51.2५१.२

बीजानि रञ्जितान्येवं पक्वबीजमतः शृणु । (५१।२)

bījāni rañjitānyevaṃ pakvabījamataḥ śṛṇu |

51.3५१.३

महारसानुपरसान् तीक्ष्णलोहानि च क्षिपेत् ॥ (५१।३)

mahārasānuparasān tīkṣṇalohāni ca kṣipet ||

52.1५२.१

समांशं सममाक्षीकं गन्धकावापयोगतः । (५२।१)

samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ |

52.2५२.२

शतशो वाहयेदेतदक्षीणं सावशेषितम् ॥ (५२।२)

śataśo vāhayedetadakṣīṇaṃ sāvaśeṣitam ||

53.1५३.१

समांशं रसराजस्य गर्भे द्रवति निश्चितम् । (५३।१)

samāṃśaṃ rasarājasya garbhe dravati niścitam |

53.2५३.२

तदेतत् पिष्टिकास्तम्भे जारणायां सुरेश्वरि ॥ (५३।२)

tadetat piṣṭikāstambhe jāraṇāyāṃ sureśvari ||

54.1५४.१

रञ्जने रसराजस्य सारणायां च शस्यते । (५४।१)

rañjane rasarājasya sāraṇāyāṃ ca śasyate |

54.2५४.२

तदेव शतशो रक्तगणस्नेहनिषेचितम् ॥ (५४।२)

tadeva śataśo raktagaṇasnehaniṣecitam ||

55.1५५.१

अधिकं शस्यते तेषु सहस्रांशेन वेधकृत् । (५५।१)

adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt |

55.2५५.२

निर्व्यूढं नागवंगाभ्यां क्रियायां हेमतारयोः ॥ (५५।२)

nirvyūḍhaṃ nāgavaṃgābhyāṃ kriyāyāṃ hematārayoḥ ||

56.1५६.१

खसत्त्वं रविणा योज्यं द्वंद्वितं स्याद्रसायने । (५६।१)

khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane |

56.2५६.२

रसाकृष्टिसस्नेहक्षारकट्वम्लै रसैस्तैस्तालकादिभिः ॥ (५६।२)

rasākṛṣṭisasnehakṣārakaṭvamlai rasaistaistālakādibhiḥ ||

57.1५७.१

समद्वित्रिगुणान् ताम्रे वाहयेद्वंगपन्नगान् । (५७।१)

samadvitriguṇān tāmre vāhayedvaṃgapannagān |

57.2५७.२

रक्तस्नेहनिषिक्तं तद्रसाकृष्टिरिति स्मृतम् ॥ (५७।२)

raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam ||

58.1५८.१

माक्षिकं गन्धपाषाणं हरितालं मनःशिलाम् । (५८।१)

mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām |

58.2५८.२

वैक्रान्तकं कान्तमुखं सस्यकं विमलाञ्जनम् ॥ (५८।२)

vaikrāntakaṃ kāntamukhaṃ sasyakaṃ vimalāñjanam ||

59.1५९.१

रसकं चापि शतशश्चूर्णितं हेम्नि वाहयेत् । (५९।१)

rasakaṃ cāpi śataśaścūrṇitaṃ hemni vāhayet |

59.2५९.२

लोहपर्पटिकाताप्यकंकुष्ठविमलाभ्रकैः ॥ (५९।२)

lohaparpaṭikātāpyakaṃkuṣṭhavimalābhrakaiḥ ||

60.1६०.१

मृतशुल्वशिलासूतस्नुह्यर्कक्षीरहिंगुलैः । (६०।१)

mṛtaśulvaśilāsūtasnuhyarkakṣīrahiṃgulaiḥ |

60.2६०.२

नागो निर्जीवतां याति पुटयोगैः पुनः पुनः ॥ (६०।२)

nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ ||

61.1६१.१

रसतालकशङ्खचिञ्चाक्षारैस्तथा त्रपु । (६१।१)

rasatālakaśaṅkhaciñcākṣāraistathā trapu |

61.2६१.२

मृतं नागं मृतं वंगं शुल्बं तीक्ष्णं तथा मृतम् ॥ (६१।२)

mṛtaṃ nāgaṃ mṛtaṃ vaṃgaṃ śulbaṃ tīkṣṇaṃ tathā mṛtam ||

62.1६२.१

एकैकमुत्तमे हेम्नि वाहयेत्सुरवन्दिते । (६२।१)

ekaikamuttame hemni vāhayetsuravandite |

62.2६२.२

निरुत्थे पन्नगे हेम्नि निर्व्यूढे शतशो गुणैः ॥ (६२।२)

nirutthe pannage hemni nirvyūḍhe śataśo guṇaiḥ ||

63.1६३.१

गोरोचननिभं हेमं भास्करं तारसंनिभम् । (६३।१)

gorocananibhaṃ hemaṃ bhāskaraṃ tārasaṃnibham |

63.2६३.२

तीक्ष्णाभ्रकं रविसमं माक्षिकं द्विगुणं तथा ॥ (६३।२)

tīkṣṇābhrakaṃ ravisamaṃ mākṣikaṃ dviguṇaṃ tathā ||

64.1६४.१

आवर्तितं चूर्णितं च मारितं सप्तभिः पुटैः । (६४।१)

āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ |

64.2६४.२

व्यूढं शतगुणं हेम्नि तद्बीजं जारयेत्समम् ॥ (६४।२)

vyūḍhaṃ śataguṇaṃ hemni tadbījaṃ jārayetsamam ||

65.1६५.१

चन्द्रार्कं पत्रलेपेन शतभागेन वेधयेत् । (६५।१)

candrārkaṃ patralepena śatabhāgena vedhayet |

65.2६५.२

ऊर्ध्वाधो माक्षिकं दत्त्वा शुल्बं हेमसमं भवेत् ॥ (६५।२)

ūrdhvādho mākṣikaṃ dattvā śulbaṃ hemasamaṃ bhavet ||

66.1६६.१

एवं दशगुणं व्यूढं बीजं किरणसंनिभम् । (६६।१)

evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kiraṇasaṃnibham |

66.2६६.२

रसकाभ्रकताम्रेण भागवृद्धं धमेत्ततः ॥ (६६।२)

rasakābhrakatāmreṇa bhāgavṛddhaṃ dhamettataḥ ||

67.1६७.१

माक्षिकेण हतं तच्च बीजे निर्वाहयेत्प्रिये । (६७।१)

mākṣikeṇa hataṃ tacca bīje nirvāhayetpriye |

67.2६७.२

द्वात्रिंशद्गुणितं हेम्नि नागं ताप्यहतं वहेत् ॥ (६७।२)

dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyahataṃ vahet ||

68.1६८.१

त्रिंशद्गुणशिलावापं नागबीजम् उदाहृतम् । (६८।१)

triṃśadguṇaśilāvāpaṃ nāgabījam udāhṛtam |

68.2६८.२

ताप्यतालकवापेन सत्त्वं पीताभ्रकस्य तु ॥ (६८।२)

tāpyatālakavāpena sattvaṃ pītābhrakasya tu ||

69.1६९.१

बीजं निर्वाहयेद् एतद् घोषाकृष्टस्य वेधकम् । (६९।१)

bījaṃ nirvāhayed etad ghoṣākṛṣṭasya vedhakam |

69.2६९.२

नागः करोति मृदुतां निर्व्यूढस्तां च रक्तताम् ॥ (६९।२)

nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām ||

70.1७०.१

वापितं पीततां तीक्ष्णं कान्तस्थां कालिकां विषम् । (७०।१)

vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam |

70.2७०.२

किंचिद्यथा रसरत्नाकरे । (७०।२)

kiṃcidyathā rasaratnākare |

70.3७०.३

स्वर्णं ताम्रं समं शुद्धं द्रावितं लेपयेत्पुनः । (७०।३)

svarṇaṃ tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ |

70.4७०.४

साम्लेन ताप्ययोगेन धमेत्स्वर्णावशेषितम् ॥ (७०।४)

sāmlena tāpyayogena dhametsvarṇāvaśeṣitam ||

71.1७१.१

एवं दशगुणं वाह्यं ताम्रं वा तुत्थसत्त्वकम् । (७१।१)

evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam |

71.2७१.२

पक्वबीजमिति ख्यातं स्वर्णशेषं समाहरेत् ॥ (७१।२)

pakvabījamiti khyātaṃ svarṇaśeṣaṃ samāharet ||

72.1७२.१

तथा च विस्तरतस्तु रससारे । (७२।१)

tathā ca vistaratastu rasasāre |

72.2७२.२

रक्ताभ्रहेमरसकं हेमाभ्रं चपलं शिला । (७२।२)

raktābhrahemarasakaṃ hemābhraṃ capalaṃ śilā |

72.3७२.३

माक्षीकं कान्ततीक्ष्णं च हेम माक्षीकमभ्रकम् ॥ (७२।३)

mākṣīkaṃ kāntatīkṣṇaṃ ca hema mākṣīkamabhrakam ||

73.1७३.१

हेमकान्तं च माक्षीकं तीक्ष्णं माक्षीककाञ्चनम् । (७३।१)

hemakāntaṃ ca mākṣīkaṃ tīkṣṇaṃ mākṣīkakāñcanam |

73.2७३.२

तीक्ष्णारुणं च माक्षीकं कान्ताभ्रं ताप्यकाञ्चनम् ॥ (७३।२)

tīkṣṇāruṇaṃ ca mākṣīkaṃ kāntābhraṃ tāpyakāñcanam ||

74.1७४.१

कृष्णाभ्रं हेमं तीक्ष्णं च शुल्वायस्कान्ततीक्ष्णकम् । (७४।१)

kṛṣṇābhraṃ hemaṃ tīkṣṇaṃ ca śulvāyaskāntatīkṣṇakam |

74.2७४.२

माक्षिकं गगनं हेमं तीक्ष्णं ताम्रं च माक्षिकम् ॥ (७४।२)

mākṣikaṃ gaganaṃ hemaṃ tīkṣṇaṃ tāmraṃ ca mākṣikam ||

75.1७५.१

पीताभ्रं कान्ततीक्ष्णं च कान्तताम्रमाक्षिकम् । (७५।१)

pītābhraṃ kāntatīkṣṇaṃ ca kāntatāmramākṣikam |

75.2७५.२

तीक्ष्णाभ्रताम्रमाक्षीकं ताम्रतीक्ष्णाभ्रकाञ्चनम् ॥ (७५।२)

tīkṣṇābhratāmramākṣīkaṃ tāmratīkṣṇābhrakāñcanam ||

76.1७६.१

शुल्वायस्कान्ततीक्ष्णं च तीक्ष्णायस्कान्तशुल्वकम् । (७६।१)

śulvāyaskāntatīkṣṇaṃ ca tīkṣṇāyaskāntaśulvakam |

76.2७६.२

माक्षिकं गगनं हेम तीक्ष्णताम्रं च माक्षिकम् ॥ (७६।२)

mākṣikaṃ gaganaṃ hema tīkṣṇatāmraṃ ca mākṣikam ||

77.1७७.१

ताम्रकान्ताभ्रमाक्षीकं तीक्ष्णार्कं नागमाक्षिकम् । (७७।१)

tāmrakāntābhramākṣīkaṃ tīkṣṇārkaṃ nāgamākṣikam |

77.2७७.२

रूक्म व्योम रविस्तीक्ष्णं हेमाभ्रशुल्वमाक्षिकम् ॥ (७७।२)

rūkma vyoma ravistīkṣṇaṃ hemābhraśulvamākṣikam ||

78.1७८.१

रूक्म व्योम खगं चौरं खगवंगाभ्रकाञ्चनम् । (७८।१)

rūkma vyoma khagaṃ cauraṃ khagavaṃgābhrakāñcanam |

78.2७८.२

रूक्म व्योम खगं कान्तं सस्याभ्रं काञ्चनं खगम् ॥ (७८।२)

rūkma vyoma khagaṃ kāntaṃ sasyābhraṃ kāñcanaṃ khagam ||

79.1७९.१

रूक्म व्योम खगं हंसं तुत्थाभ्रं खगकाञ्चनम् । (७९।१)

rūkma vyoma khagaṃ haṃsaṃ tutthābhraṃ khagakāñcanam |

79.2७९.२

रूक्म व्योम खगं शैलं रूक्म व्योम खगं त्रपु ॥ (७९।२)

rūkma vyoma khagaṃ śailaṃ rūkma vyoma khagaṃ trapu ||

80.1८०.१

रूक्म व्योम रविश्चौरं तालाभ्रं काञ्चनं खगम् । (८०।१)

rūkma vyoma raviścauraṃ tālābhraṃ kāñcanaṃ khagam |

80.2८०.२

रूक्म व्योम खगं घोषं रूक्म व्योम खगाञ्जनम् ॥ (८०।२)

rūkma vyoma khagaṃ ghoṣaṃ rūkma vyoma khagāñjanam ||

81.1८१.१

रूक्म व्योम खगं ब्राह्मं रूक्म व्योम खगं शिला । (८१।१)

rūkma vyoma khagaṃ brāhmaṃ rūkma vyoma khagaṃ śilā |

81.2८१.२

रूक्म खगं त्रपुश्चौरं खगायश् चोरकाञ्चनम् ॥ (८१।२)

rūkma khagaṃ trapuścauraṃ khagāyaś corakāñcanam ||

82.1८२.१

रूक्म चोरं खगं शैलं रूक्म चोरं च माक्षिकम् । (८२।१)

rūkma coraṃ khagaṃ śailaṃ rūkma coraṃ ca mākṣikam |

82.2८२.२

रूक्म चोरं खगं सस्यं चोरवैक्रान्तमाक्षिकम् ॥ (८२।२)

rūkma coraṃ khagaṃ sasyaṃ coravaikrāntamākṣikam ||

83.1८३.१

रूक्म चोरं खगं गन्धं रूक्म चोरं खगं मलम् । (८३।१)

rūkma coraṃ khagaṃ gandhaṃ rūkma coraṃ khagaṃ malam |

83.2८३.२

रूक्म शिला खगं चोरं रूक्म चोरं खगाञ्जनम् ॥ (८३।२)

rūkma śilā khagaṃ coraṃ rūkma coraṃ khagāñjanam ||

84.1८४.१

रूक्म चोरं खगं तुत्थं कासीसं चोरमाक्षिकम् । (८४।१)

rūkma coraṃ khagaṃ tutthaṃ kāsīsaṃ coramākṣikam |

84.2८४.२

रूक्म चोरं खगं कांक्षी रूक्म चोरं खगं त्रपु ॥ (८४।२)

rūkma coraṃ khagaṃ kāṃkṣī rūkma coraṃ khagaṃ trapu ||

85.0८५.०

रूक्म चोरं खगं नागं चोरं राधोषमाक्षिकम् ॥ (८५।०)

rūkma coraṃ khagaṃ nāgaṃ coraṃ rādhoṣamākṣikam ||

86.1८६.१

रूक्म चोरं खगं शुल्बं राश्चौरं खगमाक्षिकम् । (८६।१)

rūkma coraṃ khagaṃ śulbaṃ rāścauraṃ khagamākṣikam |

86.2८६.२

रूक्म चोरं खगं शुल्वं राश्चौरं खगमाक्षिकम् । (८६।२)

rūkma coraṃ khagaṃ śulvaṃ rāścauraṃ khagamākṣikam |

86.3८६.३

रूक्म चोरं शिलां हंसं चोरं रा हंसमाक्षिकम् ॥ (८६।३)

rūkma coraṃ śilāṃ haṃsaṃ coraṃ rā haṃsamākṣikam ||

87.1८७.१

नागं रारसकं हंसं हंसं राचोरमाक्षिकम् । (८७।१)

nāgaṃ rārasakaṃ haṃsaṃ haṃsaṃ rācoramākṣikam |

87.2८७.२

राशुल्वं रसकं हंसं राश्चोरं शैलहिंगुलम् ॥ (८७।२)

rāśulvaṃ rasakaṃ haṃsaṃ rāścoraṃ śailahiṃgulam ||

88.1८८.१

चोरं रादरदं चोरं हंसं राचोरहिंगुलम् । (८८।१)

coraṃ rādaradaṃ coraṃ haṃsaṃ rācorahiṃgulam |

88.2८८.२

लोहं रादरदं चोरं हिंगुलं तीक्ष्णचोरकम् ॥ (८८।२)

lohaṃ rādaradaṃ coraṃ hiṃgulaṃ tīkṣṇacorakam ||

89.1८९.१

कांक्षी च हिंगुलं चोरं राकांक्षी चोरहिंगुलम् । (८९।१)

kāṃkṣī ca hiṃgulaṃ coraṃ rākāṃkṣī corahiṃgulam |

89.2८९.२

हंसं रारसकं चोरं पुनर्बीजं च जायते ॥ (८९।२)

haṃsaṃ rārasakaṃ coraṃ punarbījaṃ ca jāyate ||

90.1९०.१

हेमैकं त्रिगुणं चोरं हेमैकं त्रिगुणं खगम् । (९०।१)

hemaikaṃ triguṇaṃ coraṃ hemaikaṃ triguṇaṃ khagam |

90.2९०.२

हेमैकं त्रिगुणं हंसं हेमैकं त्रिगुणं गिरिः ॥ (९०।२)

hemaikaṃ triguṇaṃ haṃsaṃ hemaikaṃ triguṇaṃ giriḥ ||

91.1९१.१

हेमैकं त्रिगुणं तालं हेमैकं विमलात्रयम् । (९१।१)

hemaikaṃ triguṇaṃ tālaṃ hemaikaṃ vimalātrayam |

91.2९१.२

त्रिर्भूनागश्च हेमैकं हेमैकं त्रिगुणा शिला ॥ (९१।२)

trirbhūnāgaśca hemaikaṃ hemaikaṃ triguṇā śilā ||

92.1९२.१

हेमैकं त्रिगुणं तुत्थं हेमैकं त्रिगुणं वटम् । (९२।१)

hemaikaṃ triguṇaṃ tutthaṃ hemaikaṃ triguṇaṃ vaṭam |

92.2९२.२

हेमैकं त्रिगुणा रीरी हेमैकं च त्रितुत्थकम् ॥ (९२।२)

hemaikaṃ triguṇā rīrī hemaikaṃ ca tritutthakam ||

93.1९३.१

हेमैकं त्रिगुणं घोषं हेमैकं त्रिगुणं त्रपु । (९३।१)

hemaikaṃ triguṇaṃ ghoṣaṃ hemaikaṃ triguṇaṃ trapu |

93.2९३.२

हेमैकं त्रिगुणं नागं प्रोक्तं बीजमनेकधा ॥ (९३।२)

hemaikaṃ triguṇaṃ nāgaṃ proktaṃ bījamanekadhā ||

94.1९४.१

प्रत्येकं श्लोकपादैकं कल्पितं बीजमत्र वै । (९४।१)

pratyekaṃ ślokapādaikaṃ kalpitaṃ bījamatra vai |

94.2९४.२

पुनः प्रचारयोगेन बीजानामप्यनन्तता ॥ (९४।२)

punaḥ pracārayogena bījānāmapyanantatā ||

95.1९५.१

नानाक्षेत्रसमुद्भूतधातुपाषाणसत्त्वतः । (९५।१)

nānākṣetrasamudbhūtadhātupāṣāṇasattvataḥ |

95.2९५.२

रसोपरससंयोगात् कल्पयेद्बीजम् उत्तमम् ॥ (९५।२)

rasoparasasaṃyogāt kalpayedbījam uttamam ||

96.1९६.१

बीजैः समस्तैर्व्यस्तैर्वा भागोत्तरकृतैरपि । (९६।१)

bījaiḥ samastairvyastairvā bhāgottarakṛtairapi |

96.2९६.२

कनके त्रिगुणैर्जीर्णैः क्रमाद्वेधः शतावधिः ॥ (९६।२)

kanake triguṇairjīrṇaiḥ kramādvedhaḥ śatāvadhiḥ ||

97.1९७.१

रसग्रहरविष्टम्भसंख्या त्रिंशद्गुणोत्तरा । (९७।१)

rasagraharaviṣṭambhasaṃkhyā triṃśadguṇottarā |

97.2९७.२

उत्तमं कनकं जार्यं क्रमवृद्ध्या च वेधकृत् ॥ (९७।२)

uttamaṃ kanakaṃ jāryaṃ kramavṛddhyā ca vedhakṛt ||

98.1९८.१

रसे च भागवृद्ध्या च विंशतित्रिंशद्गुणोत्तरम् । (९८।१)

rase ca bhāgavṛddhyā ca viṃśatitriṃśadguṇottaram |

98.2९८.२

विषमं वा समं वाथ समं विषममेव च ॥ (९८।२)

viṣamaṃ vā samaṃ vātha samaṃ viṣamameva ca ||

99.1९९.१

रागसंख्याक्रमेणैव बीजे जीर्णे च वेधकृत् । (९९।१)

rāgasaṃkhyākrameṇaiva bīje jīrṇe ca vedhakṛt |

99.2९९.२

अत्र खगं कासीसम् । (९९।२)

atra khagaṃ kāsīsam |

99.3९९.३

चोरं खर्परम् । (९९।३)

coraṃ kharparam |

99.4९९.४

हंसं हिङ्गुलम् । (९९।४)

haṃsaṃ hiṅgulam |

99.5९९.५

ब्राह्मं ताम्रम् । (९९।५)

brāhmaṃ tāmram |

99.6९९.६

रा सुवर्णम् । (९९।६)

rā suvarṇam |

99.7९९.७

रसादिसंख्या सहस्रादिवेधकरसेषु स्फुटीभविष्यतीति । (९९।७)

rasādisaṃkhyā sahasrādivedhakaraseṣu sphuṭībhaviṣyatīti |

99.8९९.८

सहस्रवेधके षड्गुणितैर् अयुतवेधके नवगुणितैर् लक्षवेधके द्वादशगुणितैः प्रयुतवेधके पञ्चदशगुणितैः कोटिवेधकेऽष्टादशगुणितै रक्ताभ्रादिभिर् जीर्णैः कनकं बीजं स्यादित्यर्थः । (९९।८)

sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ |

99.9९९.९

पुनश्च तत्रैव । (९९।९)

punaśca tatraiva |

99.10९९.१०

लोहघोषारताम्राणाम् एकद्वित्रिग्रहांशकाः । (९९।१०)

lohaghoṣāratāmrāṇām ekadvitrigrahāṃśakāḥ |

99.11९९.११

नागस्तिथ्यंशकः सर्वे धमेत्तदर्धशेषतः ॥ (९९।११)

nāgastithyaṃśakaḥ sarve dhamettadardhaśeṣataḥ ||

100.1१००.१

रञ्जनीयं समे जीर्णे कनके स्यात् सुबीजकम् । (१००।१)

rañjanīyaṃ same jīrṇe kanake syāt subījakam |

100.2१००.२

जारिते सारिते बीजे शतवेधी भवेद्रसः । (१००।२)

jārite sārite bīje śatavedhī bhavedrasaḥ |

100.3१००.३

हेमसीसकताम्राणां प्रत्येकं च ग्रहांशकम् ॥ (१००।३)

hemasīsakatāmrāṇāṃ pratyekaṃ ca grahāṃśakam ||

101.1१०१.१

रीतिकातीक्ष्णघोषाणां वेदपक्षगुणांशकाः । (१०१।१)

rītikātīkṣṇaghoṣāṇāṃ vedapakṣaguṇāṃśakāḥ |

101.2१०१.२

हेमशेषं भवेद् बीजं शतवेधस्य कारकम् ॥ (१०१।२)

hemaśeṣaṃ bhaved bījaṃ śatavedhasya kārakam ||

102.1१०२.१

तीक्ष्णं ताम्रं समं कृत्वा नागं निर्वाह्य षड्गुणम् । (१०२।१)

tīkṣṇaṃ tāmraṃ samaṃ kṛtvā nāgaṃ nirvāhya ṣaḍguṇam |

102.2१०२.२

ताम्रशेषं भवेद्रक्तं हेमव्यूढं सुबीजकम् ॥ (१०२।२)

tāmraśeṣaṃ bhavedraktaṃ hemavyūḍhaṃ subījakam ||

103.1१०३.१

नागे च त्रिगुणा रीतिर्नागं ताम्रं तथैव च । (१०३।१)

nāge ca triguṇā rītirnāgaṃ tāmraṃ tathaiva ca |

103.2१०३.२

तच्छुल्वं हेमनिर्व्यूढं बीजं भवति शोभनम् ॥ (१०३।२)

tacchulvaṃ hemanirvyūḍhaṃ bījaṃ bhavati śobhanam ||

104.1१०४.१

वसुभागं कृतं हेम शुल्वरक्तं चतुष्टयम् । (१०४।१)

vasubhāgaṃ kṛtaṃ hema śulvaraktaṃ catuṣṭayam |

104.2१०४.२

नागभागद्वयं सर्वं हेमशेषं तु बीजकम् ॥ (१०४।२)

nāgabhāgadvayaṃ sarvaṃ hemaśeṣaṃ tu bījakam ||

105.1१०५.१

लोहाष्टकं रसाः सर्वे तथैवोपरसाः खलु । (१०५।१)

lohāṣṭakaṃ rasāḥ sarve tathaivoparasāḥ khalu |

105.2१०५.२

एकत्र मेलनं कृत्वा लोहशेषं च कारयेत् ॥ (१०५।२)

ekatra melanaṃ kṛtvā lohaśeṣaṃ ca kārayet ||

106.1१०६.१

तद्द्वात्रिंशद्गुणं जार्यं महाबीजमिदं रसे । (१०६।१)

taddvātriṃśadguṇaṃ jāryaṃ mahābījamidaṃ rase |

106.2१०६.२

जारयेद्धेमबीजं हि द्वाविंशतिगुणं तथा ॥ (१०६।२)

jārayeddhemabījaṃ hi dvāviṃśatiguṇaṃ tathā ||

107.1१०७.१

रसरत्नाकरे । (१०७।१)

rasaratnākare |

107.2१०७.२

ताप्येन मारयेच्छुल्वं तथा गन्धेन मारितम् । (१०७।२)

tāpyena mārayecchulvaṃ tathā gandhena māritam |

107.3१०७.३

तत् ताम्रं वाहयेन्नागे मूषामध्ये धमन् धमन् ॥ (१०७।३)

tat tāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman ||

108.1१०८.१

शनैः शतगुणं यावत्ताप्यचूर्णं क्षिपन् क्षिपन् । (१०८।१)

śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipan kṣipan |

108.2१०८.२

तन्नागं वाहयेत्स्वर्णे द्वात्रिंशद्गुणितं क्रमात् ॥ (१०८।२)

tannāgaṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt ||

109.1१०९.१

स्वर्णशेषं तु तद्बीजं समांशं जारयेद्रसे । (१०९।१)

svarṇaśeṣaṃ tu tadbījaṃ samāṃśaṃ jārayedrase |

109.2१०९.२

अनेनैव तु बीजेन जारयेत्सारयेत्पुनः ॥ (१०९।२)

anenaiva tu bījena jārayetsārayetpunaḥ ||

110.1११०.१

पूर्ववज्जारणायोगैर् बन्धनान्तं च कारयेत् । (११०।१)

pūrvavajjāraṇāyogair bandhanāntaṃ ca kārayet |

110.2११०.२

क्रामणेन समायुक्तं सहस्रांशेन वेधयेत् ॥ (११०।२)

krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet ||

111.1१११.१

चन्द्रार्कं जायते स्वर्णं देवाभरणमुत्तमम् । (१११।१)

candrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam |

111.2१११.२

स्वर्णं ताम्रं समं शुद्धं द्रावितं लेपयेत्पुनः ॥ (१११।२)

svarṇaṃ tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ ||

112.1११२.१

साम्लेन ताप्ययोगेन धमेत्स्वर्णावशेषितम् । (११२।१)

sāmlena tāpyayogena dhametsvarṇāvaśeṣitam |

112.2११२.२

एवं दशगुणं वाह्यं ताम्रं वा तुत्थसत्त्वकम् । (११२।२)

evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam |

112.3११२.३

पक्वबीजमिति ख्यातं स्वर्णशेषं समाहरेत् ॥ (११२।३)

pakvabījamiti khyātaṃ svarṇaśeṣaṃ samāharet ||

113.1११३.१

अथ तारपक्वबीजानि रसार्णवे । (११३।१)

atha tārapakvabījāni rasārṇave |

113.2११३.२

हेमबीजमिति प्रोक्तं तारबीजमतः शृणु । (११३।२)

hemabījamiti proktaṃ tārabījamataḥ śṛṇu |

113.3११३.३

तीक्ष्णाभ्रताप्यविमलारसकं समभागकम् ॥ (११३।३)

tīkṣṇābhratāpyavimalārasakaṃ samabhāgakam ||

114.1११४.१

वंगभागाश्च चत्वारः सर्वं ध्मातं विचूर्णितम् । (११४।१)

vaṃgabhāgāśca catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam |

114.2११४.२

पुटेन निहतं कार्यं व्यूढं तारं तु वेधयेत् ॥ (११४।२)

puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet ||

115.1११५.१

द्वात्रिंशच्च गुणं तारे वंगं ताप्यहतं वहेत् । (११५।१)

dvātriṃśacca guṇaṃ tāre vaṃgaṃ tāpyahataṃ vahet |

115.2११५.२

त्रिंशद्गुणं तालकं च वंगबीजमुदाहृतम् ॥ (११५।२)

triṃśadguṇaṃ tālakaṃ ca vaṃgabījamudāhṛtam ||

Data courtesy of The Digital Corpus of Sanskrit.

RKDh, 1, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit