रसतरङ्गिणीRasataraṅgiṇī

RTar, 3

2 of 3 · 100 verses

Select a line for its word-by-word analysis.

1.1१.१

च्रुचिब्ले:: स्य्नोन्य्म्स्मूषा हि कुमुदी ख्याता प्रोक्ता कुमुदिका च सा । (१।१)

crucible:: synonymsmūṣā hi kumudī khyātā proktā kumudikā ca sā |

1.2१.२

क्रौञ्चिका वह्निमित्रा च पाचनी च निगद्यते ॥ (१।२)

krauñcikā vahnimitrā ca pācanī ca nigadyate ||

2.1२.१

च्रुचिब्ले:: निरुक्तिमुष्णाति दोषान्यस्मात्सा तस्मान्मूषा प्रकीर्तिता । (२।१)

crucible:: niruktimuṣṇāti doṣānyasmātsā tasmānmūṣā prakīrtitā |

2.2२.२

कुमुदाकारसादृश्यात् कुमुदी च निगद्यते ॥ (२।२)

kumudākārasādṛśyāt kumudī ca nigadyate ||

3.1३.१

वह्निर्मित्रं यतश्चास्या वह्निमित्रा ततः स्मृता । (३।१)

vahnirmitraṃ yataścāsyā vahnimitrā tataḥ smṛtā |

3.2३.२

द्रव्यपाचनयोगाच्च पाचनी समुदीरिता ॥ (३।२)

dravyapācanayogācca pācanī samudīritā ||

4.1४.१

च्रुचिब्ले:: लिद्द्रव्यपूरितमूषादेः द्रव्यपातनिवृत्तये । (४।१)

crucible:: liddravyapūritamūṣādeḥ dravyapātanivṛttaye |

4.2४.२

आच्छादकं भवेद् यत्तु पिधानं तदिहोच्यते ॥ (४।२)

ācchādakaṃ bhaved yattu pidhānaṃ tadihocyate ||

5.1५.१

च्रुचिब्ले:: सन्धिलेपनमूषादीनां तु यत्सन्धौ किट्टाद्यैः स्याद्विलेपनम् । (५।१)

crucible:: sandhilepanamūṣādīnāṃ tu yatsandhau kiṭṭādyaiḥ syādvilepanam |

5.2५.२

तत् संधिलेपनं ख्यातं तच्चोक्तं सन्धिबन्धनम् ॥ (५।२)

tat saṃdhilepanaṃ khyātaṃ taccoktaṃ sandhibandhanam ||

6.1६.१

च्रुचिब्ले:: च्लय्सशर्करा पाण्डुरा च वह्नितापसहा चिरम् । (६।१)

crucible:: claysaśarkarā pāṇḍurā ca vahnitāpasahā ciram |

6.2६.२

स्थूला च मृत्तिका या स्यात् मूषार्थं सा मतोत्तमा ॥ (६।२)

sthūlā ca mṛttikā yā syāt mūṣārthaṃ sā matottamā ||

7.1७.१

च्रुचिब्ले:: गेनेरल्शिखित्रकैर्दग्धतुषैः शणेन सलद्दिका दण्डसुकुट्टिता च । (७।१)

crucible:: generalśikhitrakairdagdhatuṣaiḥ śaṇena saladdikā daṇḍasukuṭṭitā ca |

7.2७.२

या मृत्तिका तद्विहिता तु मूषा सामान्यमूषा कथिता रसज्ञैः ॥ (७।२)

yā mṛttikā tadvihitā tu mūṣā sāmānyamūṣā kathitā rasajñaiḥ ||

8.1८.१

वज्रमूषात्रयो भागा मृदो द्वौ तु शणलद्दिकयोस्तथा । (८।१)

vajramūṣātrayo bhāgā mṛdo dvau tu śaṇaladdikayostathā |

8.2८.२

भागो दग्धतुषादेश्च किट्टस्य त्वर्ध एव च ॥ (८।२)

bhāgo dagdhatuṣādeśca kiṭṭasya tvardha eva ca ||

9.1९.१

एभिः कृता तु या मूषा वज्रमूषा तु सा मता । (९।१)

ebhiḥ kṛtā tu yā mūṣā vajramūṣā tu sā matā |

9.2९.२

प्रयुज्यते विशेषेण सत्त्वपातनकर्मणि ॥ (९।२)

prayujyate viśeṣeṇa sattvapātanakarmaṇi ||

10.1१०.१

योगमूषातुषाद्यैश्च बिडाद्यैश्च कृता चापि विलेपिता । (१०।१)

yogamūṣātuṣādyaiśca biḍādyaiśca kṛtā cāpi vilepitā |

10.2१०.२

सूतसिद्धिकरी चैषा योगमूषा निगद्यते ॥ (१०।२)

sūtasiddhikarī caiṣā yogamūṣā nigadyate ||

11.1११.१

च्रुचिब्ले:: वज्रद्रावणिकासमैर् भूनागगाराद्यैस् तुषाद्यैश्चापि निर्मिता । (११।१)

crucible:: vajradrāvaṇikāsamair bhūnāgagārādyais tuṣādyaiścāpi nirmitā |

11.2११.२

क्षीरैश्च माहिषैर् मूषा वज्रद्रावणिका मता ॥ (११।२)

kṣīraiśca māhiṣair mūṣā vajradrāvaṇikā matā ||

12.1१२.१

वज्रद्रावणिका मूषा वज्रसत्त्वप्रसाधिका । (१२।१)

vajradrāvaṇikā mūṣā vajrasattvaprasādhikā |

12.2१२.२

यामद्वयमपि ध्माता नासौ द्रवति कर्हिचित् ॥ (१२।२)

yāmadvayamapi dhmātā nāsau dravati karhicit ||

13.1१३.१

च्रुचिब्ले:: गारमूषादग्धषड्गुणगारेण मृदा चासितया तु या । (१३।१)

crucible:: gāramūṣādagdhaṣaḍguṇagāreṇa mṛdā cāsitayā tu yā |

13.2१३.२

विधीयते च किट्टाद्यैर् गारमूषा तु सा मता ॥ (१३।२)

vidhīyate ca kiṭṭādyair gāramūṣā tu sā matā ||

14.1१४.१

यामयुग्ममपि ध्माता नासौ द्रवति निश्चितम् । (१४।१)

yāmayugmamapi dhmātā nāsau dravati niścitam |

14.2१४.२

ढालनादौ विशेषेण रसज्ञैः सा प्रयुज्यते ॥ (१४।२)

ḍhālanādau viśeṣeṇa rasajñaiḥ sā prayujyate ||

15.1१५.१

च्रुचिब्ले:: गोस्तनीमूषासापिधाना शिखोपेता गोस्तनाकारसन्निभा । (१५।१)

crucible:: gostanīmūṣāsāpidhānā śikhopetā gostanākārasannibhā |

15.2१५.२

सत्त्वद्रावणशुद्ध्यर्था सा मूषा गोस्तनी मता ॥ (१५।२)

sattvadrāvaṇaśuddhyarthā sā mūṣā gostanī matā ||

16.1१६.१

मल्लमूषासम्पुटाकारतां नीता मल्लद्वितययोजनात् । (१६।१)

mallamūṣāsampuṭākāratāṃ nītā malladvitayayojanāt |

16.2१६.२

मल्लमूषा समाख्याता पर्पट्यादिप्रसाधिका ॥ (१६।२)

mallamūṣā samākhyātā parpaṭyādiprasādhikā ||

17.1१७.१

महामूषावर्तुला चिपिटा मूले स्थूला चायामविस्तरा । (१७।१)

mahāmūṣāvartulā cipiṭā mūle sthūlā cāyāmavistarā |

17.2१७.२

विस्तृतास्या च या मूषा महामूषा तु सा मता ॥ (१७।२)

vistṛtāsyā ca yā mūṣā mahāmūṣā tu sā matā ||

18.1१८.१

लोहाभ्रताप्यसत्त्वादेः पुटनार्थं भिषग्वरैः । (१८।१)

lohābhratāpyasattvādeḥ puṭanārthaṃ bhiṣagvaraiḥ |

18.2१८.२

प्रयुज्यते महामूषा स्थूलमूषा च सा स्मृता ॥ (१८।२)

prayujyate mahāmūṣā sthūlamūṣā ca sā smṛtā ||

19.1१९.१

वृन्टकमूषाधत्तूरपुष्पाकारेण सच्छिद्राष्टाङ्गुलेन च । (१९।१)

vṛnṭakamūṣādhattūrapuṣpākāreṇa sacchidrāṣṭāṅgulena ca |

19.2१९.२

नालेन तूर्ध्वतः श्लिष्टां सुदृढं द्वादशाङ्गुला ॥ (१९।२)

nālena tūrdhvataḥ śliṣṭāṃ sudṛḍhaṃ dvādaśāṅgulā ||

20.1२०.१

वृन्ताकसदृशाकारा मूषा वृन्ताकमूषिका । (२०।१)

vṛntākasadṛśākārā mūṣā vṛntākamūṣikā |

20.2२०.२

साधयेत्खर्परादीनां सत्त्वं वै मूषयानया ॥ (२०।२)

sādhayetkharparādīnāṃ sattvaṃ vai mūṣayānayā ||

21.1२१.१

च्रुचिब्ले:: आप्यायनकद्रव्ये द्रवोन्मुखे जाते मूषाया वह्नियोगतः । (२१।१)

crucible:: āpyāyanakadravye dravonmukhe jāte mūṣāyā vahniyogataḥ |

21.2२१.२

निष्कासनं क्षणं यत्तु तन्मूषाप्यायनं मतम् ॥ (२१।२)

niṣkāsanaṃ kṣaṇaṃ yattu tanmūṣāpyāyanaṃ matam ||

22.1२२.१

अङ्गारधानिकाअङ्गारधानिका ख्याता हसन्ती च हसन्तिका । (२२।१)

aṅgāradhānikāaṅgāradhānikā khyātā hasantī ca hasantikā |

22.2२२.२

अङ्गारशकटी चापि हसनी च निगद्यते ॥ (२२।२)

aṅgāraśakaṭī cāpi hasanī ca nigadyate ||

23.1२३.१

अङ्गारधानिका ह्येषा मृदुद्रव्यप्रसाधिका । (२३।१)

aṅgāradhānikā hyeṣā mṛdudravyaprasādhikā |

23.2२३.२

वङ्गादीनां ढालनादौ विशेषेण प्रयुज्यते ॥ (२३।२)

vaṅgādīnāṃ ḍhālanādau viśeṣeṇa prayujyate ||

24.1२४.१

कोष्ठीसत्त्वादिपातनाद्यर्था द्रव्यढालनसाधिका । (२४।१)

koṣṭhīsattvādipātanādyarthā dravyaḍhālanasādhikā |

24.2२४.२

वह्निसंधानिका या तु कोष्ठिका सा निगद्यते ॥ (२४।२)

vahnisaṃdhānikā yā tu koṣṭhikā sā nigadyate ||

25.1२५.१

अङ्गारकोष्ठीनृपहस्तमितोत्सेधे तदर्धायामविस्तृता । (२५।१)

aṅgārakoṣṭhīnṛpahastamitotsedhe tadardhāyāmavistṛtā |

25.2२५.२

मध्यतश्चतुरस्रा च मृदा च परिलेपिता ॥ (२५।२)

madhyataścaturasrā ca mṛdā ca parilepitā ||

26.1२६.१

चतुरङ्गुलमानेन रन्ध्रेण परिशोभिता । (२६।१)

caturaṅgulamānena randhreṇa pariśobhitā |

26.2२६.२

नालिकां समकोणां च रन्ध्रे तिर्यङ् निवेशयेत् ॥ (२६।२)

nālikāṃ samakoṇāṃ ca randhre tiryaṅ niveśayet ||

27.1२७.१

नालिकाया मुखे चैव भस्त्रावक्त्रं निवेशयेत् । (२७।१)

nālikāyā mukhe caiva bhastrāvaktraṃ niveśayet |

27.2२७.२

आपूर्य कोकिलैः कोष्ठीं द्रव्यमूषान्वितां धमेत् ॥ (२७।२)

āpūrya kokilaiḥ koṣṭhīṃ dravyamūṣānvitāṃ dhamet ||

28.1२८.१

अङ्गारकोष्ठिका ख्याता द्रव्यढालनसाधिका । (२८।१)

aṅgārakoṣṭhikā khyātā dravyaḍhālanasādhikā |

28.2२८.२

सत्त्वानां पातने चेयं विशेषाद्विनियुज्यते ॥ (२८।२)

sattvānāṃ pātane ceyaṃ viśeṣādviniyujyate ||

29.1२९.१

पातालकोष्ठीवितस्तिविस्तृतं गर्तं भूमौ कुर्याद्विधानतः । (२९।१)

pātālakoṣṭhīvitastivistṛtaṃ gartaṃ bhūmau kuryādvidhānataḥ |

29.2२९.२

तन्मध्ये वर्तुलं छिद्रं निम्नवेशे प्रकल्पयेत् ॥ (२९।२)

tanmadhye vartulaṃ chidraṃ nimnaveśe prakalpayet ||

30.1३०.१

गर्तमध्यगते छिद्रे तिर्यङ् नालं निवेशयेत् । (३०।१)

gartamadhyagate chidre tiryaṅ nālaṃ niveśayet |

30.2३०.२

नालवक्त्रे च भस्त्राया मुखं सम्यक् निरोधयेत् ॥ (३०।२)

nālavaktre ca bhastrāyā mukhaṃ samyak nirodhayet ||

31.1३१.१

द्रव्यमूषां कोष्ठिकायां निधाय भस्त्रया धमेत् । (३१।१)

dravyamūṣāṃ koṣṭhikāyāṃ nidhāya bhastrayā dhamet |

31.2३१.२

पातालकोष्ठिका ह्येषा मृदुद्रव्यप्रसाधिका ॥ (३१।२)

pātālakoṣṭhikā hyeṣā mṛdudravyaprasādhikā ||

32.1३२.१

पुट:: देड़िनितिओन्रसोपरसलोहादेः पाकमानप्रमापकम् । (३२।१)

puṭa:: definitionrasoparasalohādeḥ pākamānapramāpakam |

32.2३२.२

उत्पलाद्यग्निसंयोगात् यत् तदत्र पुटं स्मृतम् ॥ (३२।२)

utpalādyagnisaṃyogāt yat tadatra puṭaṃ smṛtam ||

33.1३३.१

पुटपाक:: उसेभवेद्यतः पुटादेव दोषहानिर्गुणोदयः । (३३।१)

puṭapāka:: usebhavedyataḥ puṭādeva doṣahānirguṇodayaḥ |

33.2३३.२

रसोपरसलोहानां पुटपाकस्ततः स्मृतः ॥ (३३।२)

rasoparasalohānāṃ puṭapākastataḥ smṛtaḥ ||

34.1३४.१

पुटपाकेन लोहादेर् निरुत्थत्वं च दीपनम् । (३४।१)

puṭapākena lohāder nirutthatvaṃ ca dīpanam |

34.2३४.२

भवेद्वारितरत्वं च पुटपाकस्ततः स्मृतः ॥ (३४।२)

bhavedvāritaratvaṃ ca puṭapākastataḥ smṛtaḥ ||

35.1३५.१

मृतलोहादिकं यस्मादतिशेते मृतं रसम् । (३५।१)

mṛtalohādikaṃ yasmādatiśete mṛtaṃ rasam |

35.2३५.२

पुटपाकविधानेन पुटं तस्मात्प्रशस्यते ॥ (३५।२)

puṭapākavidhānena puṭaṃ tasmātpraśasyate ||

36.1३६.१

पुटपाक:: गेन्। मेथोद्मूषागते तु लोहादौ पुटनीये विशेद्यथा । (३६।१)

puṭapāka:: gen. methodmūṣāgate tu lohādau puṭanīye viśedyathā |

36.2३६.२

वह्निस्तु स्वानुकूल्येन तथा स्यात्तु पुटक्रमः ॥ (३६।२)

vahnistu svānukūlyena tathā syāttu puṭakramaḥ ||

37.1३७.१

सूर्यपुटद्रव्याणां भावितानां तु भावनौषधजै रसैः । (३७।१)

sūryapuṭadravyāṇāṃ bhāvitānāṃ tu bhāvanauṣadhajai rasaiḥ |

37.2३७.२

शोषणं सूर्यतापे यत् तत् सूर्यपुटमुच्यते ॥ (३७।२)

śoṣaṇaṃ sūryatāpe yat tat sūryapuṭamucyate ||

38.1३८.१

महापुटव्यामार्धनिम्ने चतुरस्ररूपे हस्तद्वयायाममिते च कुण्डे । (३८।१)

mahāpuṭavyāmārdhanimne caturasrarūpe hastadvayāyāmamite ca kuṇḍe |

38.2३८.२

वन्योत्पलापूरितगर्भभागे मूषां निदध्यात् पुटनीयपूर्णाम् ॥ (३८।२)

vanyotpalāpūritagarbhabhāge mūṣāṃ nidadhyāt puṭanīyapūrṇām ||

39.1३९.१

पुनस्तु विन्यस्य वनोत्पलानि सम्पूरयेत्कुण्डमुखं रसज्ञः । (३९।१)

punastu vinyasya vanotpalāni sampūrayetkuṇḍamukhaṃ rasajñaḥ |

39.2३९.२

संदीप्य वह्निं पुटनं ततस्तन्महापुटाख्यं विबुधैः प्रदिष्टम् ॥ (३९।२)

saṃdīpya vahniṃ puṭanaṃ tatastanmahāpuṭākhyaṃ vibudhaiḥ pradiṣṭam ||

40.1४०.१

गजपुटनृपकरचतुरस्रोत्सेधदैर्घ्ये तु कुण्डे छगणगणभृतार्धे मूषिकां स्थापयित्वा । (४०।१)

gajapuṭanṛpakaracaturasrotsedhadairghye tu kuṇḍe chagaṇagaṇabhṛtārdhe mūṣikāṃ sthāpayitvā |

40.2४०.२

पुटनमिह भवेद् यच्छाणपूर्णे ऽर्धे भागे गजपुटम् इह तन्त्रे भाषितं तद् रसज्ञैः ॥ (४०।२)

puṭanamiha bhaved yacchāṇapūrṇe 'rdhe bhāge gajapuṭam iha tantre bhāṣitaṃ tad rasajñaiḥ ||

41.1४१.१

वाराहपुटकुण्डे त्वरत्निमानेन चतुरस्रे तथोच्छ्रिते । (४१।१)

vārāhapuṭakuṇḍe tvaratnimānena caturasre tathocchrite |

41.2४१.२

पुटं यद् दीयते तत्तु वाराहपुटमुच्यते ॥ (४१।२)

puṭaṃ yad dīyate tattu vārāhapuṭamucyate ||

42.1४२.१

कुक्कुटपुटवितस्तिद्वयमानेन निम्ने च चतुरस्रके । (४२।१)

kukkuṭapuṭavitastidvayamānena nimne ca caturasrake |

42.2४२.२

पुटं यद् दीयते तत्तु मतं कुक्कुटकं बुधैः ॥ (४२।२)

puṭaṃ yad dīyate tattu mataṃ kukkuṭakaṃ budhaiḥ ||

43.1४३.१

कपोटपुटवन्योत्पलैरष्टसंख्यैः क्षितौ यद्दीयते पुटम् । (४३।१)

kapoṭapuṭavanyotpalairaṣṭasaṃkhyaiḥ kṣitau yaddīyate puṭam |

43.2४३.२

रसादीनां तु सिद्ध्यर्थं तत्कपोतपुटं स्मृतम् ॥ (४३।२)

rasādīnāṃ tu siddhyarthaṃ tatkapotapuṭaṃ smṛtam ||

44.1४४.१

गोवरपुटगोर्वरैर्वा तुषैर्वापि खलु कुण्डेऽथवा क्षितौ । (४४।१)

govarapuṭagorvarairvā tuṣairvāpi khalu kuṇḍe'thavā kṣitau |

44.2४४.२

पुटं यद्दीयते विज्ञैस्तद् गोर्वरपुटं स्मृतम् ॥ (४४।२)

puṭaṃ yaddīyate vijñaistad gorvarapuṭaṃ smṛtam ||

45.1४५.१

भाण्डपुटमूषागर्भे तुषापूर्णे स्थूले भाण्डेऽग्नियोजनात् । (४५।१)

bhāṇḍapuṭamūṣāgarbhe tuṣāpūrṇe sthūle bhāṇḍe'gniyojanāt |

45.2४५.२

दीयते यत्पुटं विज्ञैस्तद् भाण्डपुटम् उच्यते ॥ (४५।२)

dīyate yatpuṭaṃ vijñaistad bhāṇḍapuṭam ucyate ||

46.1४६.१

वालुकापुटप्रतप्तवालुकागर्भे न्यस्य मूत्रादिकं दृढम् । (४६।१)

vālukāpuṭaprataptavālukāgarbhe nyasya mūtrādikaṃ dṛḍham |

46.2४६.२

यद् दीयते पुटं तत्तु वालुकापुटमुच्यते ॥ (४६।२)

yad dīyate puṭaṃ tattu vālukāpuṭamucyate ||

47.1४७.१

भूधरपुटभूमिगर्भे कुमुदिकां विन्यस्य द्व्यङ्गुलोपरि । (४७।१)

bhūdharapuṭabhūmigarbhe kumudikāṃ vinyasya dvyaṅgulopari |

47.2४७.२

यद् दीयते पुटं तत्तु पुटं भूधरसंज्ञकम् ॥ (४७।२)

yad dīyate puṭaṃ tattu puṭaṃ bhūdharasaṃjñakam ||

48.1४८.१

लावकपुटगोर्वरैर्वा तुषैर्वापि वितस्त्यूर्ध्वं पुटं तु यत् । (४८।१)

lāvakapuṭagorvarairvā tuṣairvāpi vitastyūrdhvaṃ puṭaṃ tu yat |

48.2४८.२

मृदुद्रव्यप्रसिद्ध्यर्थं तल्लावकपुटं मतम् ॥ (४८।२)

mṛdudravyaprasiddhyarthaṃ tallāvakapuṭaṃ matam ||

49.1४९.१

पुट:: एन्त्स्छेइदुन्ग् ड़्र् एइन् पुटनान्माननिर्देशे वीक्ष्य द्रव्यबलाबलम् । (४९।१)

puṭa:: Entscheidung fr ein puṭanānmānanirdeśe vīkṣya dravyabalābalam |

49.2४९.२

पुटेष्वन्यतमं दद्यात् यत्स्याद् युक्ततमं भृशम् ॥ (४९।२)

puṭeṣvanyatamaṃ dadyāt yatsyād yuktatamaṃ bhṛśam ||

50.1५०.१

चोw दुन्गुपलं चोत्पलं ख्यातं गिरिण्डं पिष्टकं तथा । (५०।१)

cow dungupalaṃ cotpalaṃ khyātaṃ giriṇḍaṃ piṣṭakaṃ tathā |

50.2५०.२

छाणं च छगणं चैव करीषं च निगद्यते ॥ (५०।२)

chāṇaṃ ca chagaṇaṃ caiva karīṣaṃ ca nigadyate ||

Data courtesy of The Digital Corpus of Sanskrit.

RTar, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit