याज्ञवल्क्यस्मृतिYājñavalkyasmṛti
YāSmṛ, 1
Select a line for its word-by-word analysis.
आचाराध्याय, १। उपोद्घातप्रकरणम्योगीश्वरं याज्ञवल्क्यं सम्पूज्य मुनयो ऽब्रुवन् । (१।१)
ācārādhyāya, 1. upodghātaprakaraṇamyogīśvaraṃ yājñavalkyaṃ sampūjya munayo 'bruvan |
वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः ॥ (१।२)
varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ ||
मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन् मुनीन् । (२।१)
mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn |
यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत ॥ (२।२)
yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata ||
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ (३।२)
vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa ||
शातातपो वसिष्ठश् च धर्मशास्त्रप्रयोजकाः ॥ (५।२)
śātātapo vasiṣṭhaś ca dharmaśāstraprayojakāḥ ||
पात्रे प्रदीयते यत् तत् सकलं धर्मलक्षणम् ॥ (६।२)
pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam ||
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः । (७।१)
śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ |
सम्यक्संकल्पजः कामो धर्ममूलम् इदं स्मृतम् ॥ (७।२)
samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam ||
चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव वा । (९।१)
catvāro vedadharmajñāḥ parṣat traividyam eva vā |
सा ब्रूते यं स धर्मः स्याद् एको वाध्यात्मवित्तमः ॥ (९।२)
sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ ||
२। ब्रह्मचारिप्रकरणम्ब्रह्मक्षत्रियविट्शूद्रा वर्णास् त्व् आद्यास् त्रयो द्विजाः । (१०।१)
2. brahmacāriprakaraṇambrahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ |
निषेकाद्याः श्मशानान्तास् तेषां वै मन्त्रतः क्रियाः ॥ (१०।२)
niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ ||
गर्भाधानम् ऋतौ पुंसः सवनं स्पन्दनात् पुरा । (११।१)
garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā |
षष्ठे ऽष्टमे वा सीमन्तो मास्य् एते जातकर्म च ॥ (११।२)
ṣaṣṭhe 'ṣṭame vā sīmanto māsy ete jātakarma ca ||
अहन्य् एकादशे नाम चतुर्थे मासि निष्क्रमः । (१२।१)
ahany ekādaśe nāma caturthe māsi niṣkramaḥ |
षष्ठे ऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ (१२।२)
ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam ||
तूष्णीम् एताः क्रियाः स्त्रीणां विवाहस् तु समन्त्रकः ॥ (१३।२)
tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu samantrakaḥ ||
गर्भाष्टमे ऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । (१४।१)
garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam |
राज्ञाम् एकादशे सैके विशाम् एके यथाकुलम् ॥ (१४।२)
rājñām ekādaśe saike viśām eke yathākulam ||
वेदम् अध्यापयेद् एनं शौचाचारांश् च शिक्षयेत् ॥ (१५।२)
vedam adhyāpayed enaṃ śaucācārāṃś ca śikṣayet ||
दिवासंध्यासु कर्णस्थब्रह्मसूत्रोदङ्मुखः । (१६।१)
divāsaṃdhyāsu karṇasthabrahmasūtrodaṅmukhaḥ |
कुर्यान् मूत्रपुरीषे च रात्रौ चेद् दक्षिणामुखः ॥ (१६।२)
kuryān mūtrapurīṣe ca rātrau ced dakṣiṇāmukhaḥ ||
गृहीतशिश्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः । (१७।१)
gṛhītaśiśnaś cotthāya mṛdbhir abhyuddhṛtair jalaiḥ |
गन्धलेपक्षयकरं शौचं कुर्याद् अतन्द्रितः ॥ (१७।२)
gandhalepakṣayakaraṃ śaucaṃ kuryād atandritaḥ ||
प्राग् वा ब्राह्मेण तीर्थेन द्विजो नित्यम् उपस्पृशेत् ॥ (१८।२)
prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet ||
कनिष्ठादेशिन्यङ्गुष्ठमूलान्य् अग्रं करस्य च । (१९।१)
kaniṣṭhādeśinyaṅguṣṭhamūlāny agraṃ karasya ca |
प्रजापतिपितृब्रह्मदेवतीर्थान्य् अनुक्रमात् ॥ (१९।२)
prajāpatipitṛbrahmadevatīrthāny anukramāt ||
त्रिः प्राश्यापो द्विर् उन्मृज्य खान्य् अद्भिः समुपस्पृशेत् । (२०।१)
triḥ prāśyāpo dvir unmṛjya khāny adbhiḥ samupaspṛśet |
अद्भिस् तु प्रकृतिस्थाभिर् हीनाभिः फेनबुद्बुदैः ॥ (२०।२)
adbhis tu prakṛtisthābhir hīnābhiḥ phenabudbudaiḥ ||
हृत्कण्ठतालुगाभिस् तु यथासंख्यं द्विजातयः । (२१।१)
hṛtkaṇṭhatālugābhis tu yathāsaṃkhyaṃ dvijātayaḥ |
शुध्येरन् स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः ॥ (२१।२)
śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ ||
स्नानम् अब्दैवतैर् मन्त्रैर् मार्जनं प्राणसंयमः । (२२।१)
snānam abdaivatair mantrair mārjanaṃ prāṇasaṃyamaḥ |
सूर्यस्य चाप्य् उपस्थानं गायत्र्याः प्रत्यहं जपः ॥ (२२।२)
sūryasya cāpy upasthānaṃ gāyatryāḥ pratyahaṃ japaḥ ||
गायत्रीं शिरसा सार्धं जपेद् व्याहृतिपूर्विकाम् । (२३।१)
gāyatrīṃ śirasā sārdhaṃ japed vyāhṛtipūrvikām |
प्रतिप्रणवसंयुक्तां त्रिर् अयं प्राणसंयमः ॥ (२३।२)
pratipraṇavasaṃyuktāṃ trir ayaṃ prāṇasaṃyamaḥ ||
प्राणान् आयम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु । (२४।१)
prāṇān āyamya saṃprokṣya tṛcenābdaivatena tu |
जपन्न् आसीत सावित्रीं प्रत्यग् आ तारकोदयात् ॥ (२४।२)
japann āsīta sāvitrīṃ pratyag ā tārakodayāt ||
संध्यां प्राक् प्रातर् एवं हि तिष्ठेद् आ सूर्यदर्शनात् । (२५।१)
saṃdhyāṃ prāk prātar evaṃ hi tiṣṭhed ā sūryadarśanāt |
अग्निकार्यं ततः कुर्यात् संध्ययोर् उभयोर् अपि ॥ (२५।२)
agnikāryaṃ tataḥ kuryāt saṃdhyayor ubhayor api ||
ततो ऽभिवादयेद् वृद्धान् असाव् अहम् इति ब्रुवन् । (२६।१)
tato 'bhivādayed vṛddhān asāv aham iti bruvan |
गुरुं चैवाप्य् उपासीत स्वाध्यायार्थं समाहितः ॥ (२६।२)
guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ ||
आहूतश् चाप्य् अधीयीत लब्धं चास्मै निवेदयेत् । (२७।१)
āhūtaś cāpy adhīyīta labdhaṃ cāsmai nivedayet |
हितं तस्याचरेन् नित्यं मनोवाक्कायकर्मभिः ॥ (२७।२)
hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ ||
अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः ॥ (२८।२)
adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ ||
ब्राह्मणेषु चरेद् भैक्षम् अनिन्द्येष्व् आत्मवृत्तये ॥ (२९।२)
brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye ||
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ (३०।२)
brāhmaṇakṣatriyaviśāṃ bhaikṣacaryā yathākramam ||
कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया । (३१।१)
kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā |
आपोशानक्रियापूर्वं सत्कृत्यान्नम् अकुत्सयन् ॥ (३१।२)
āpośānakriyāpūrvaṃ satkṛtyānnam akutsayan ||
ब्रह्मचर्ये स्थितो नैकम् अन्नम् अद्याद् अनापदि । (३२।१)
brahmacarye sthito naikam annam adyād anāpadi |
ब्राह्मणः कामम् अश्नीयाच् छ्राद्धे व्रतम् अपीडयन् ॥ (३२।२)
brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan ||
मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् । (३३।१)
madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam |
स गुरुर् यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति । (३४।१)
sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati |
एते मान्या यथापूर्वम् एभ्यो माता गरीयसी ॥ (३५।२)
ete mānyā yathāpūrvam ebhyo mātā garīyasī ||
प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा । (३६।१)
prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā |
ग्रहणान्तिकम् इत्य् एके केशान्तश् चैव षोडशे ॥ (३६।२)
grahaṇāntikam ity eke keśāntaś caiva ṣoḍaśe ||
आ षोडशाद् आ द्वाविंशाच्चतुर्विंशाच्च वत्सरात् । (३७।१)
ā ṣoḍaśād ā dvāviṃśāccaturviṃśācca vatsarāt |
अत ऊर्ध्वं पतन्त्य् एते सर्वधर्मबहिष्कृताः । (३८।१)
ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ |
सावित्रीपतिता व्रात्या व्रात्यस्तोमाद् ऋते क्रतोः ॥ (३८।२)
sāvitrīpatitā vrātyā vrātyastomād ṛte kratoḥ ||
मातुर् यद् अग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । (३९।१)
mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt |
ब्राह्मणक्षत्रियविशस् तस्माद् एते द्विजाः स्मृताः ॥ (३९।२)
brāhmaṇakṣatriyaviśas tasmād ete dvijāḥ smṛtāḥ ||
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । (४०।१)
yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām |
मधुना पयसा चैव स देवांस् तर्पयेद् द्विजः । (४१।१)
madhunā payasā caiva sa devāṃs tarpayed dvijaḥ |
पितॄन् मधुघृताभ्यां च ऋचो ऽधीते च यो ऽन्वहम् ॥ (४१।२)
pitṝn madhughṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham ||
यजूंषि शक्तितो ऽधीते यो ऽन्वहं स घृतामृतैः । (४२।१)
yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ |
प्रीणाति देवान् आज्येन मधुना च पितॄंस् तथा ॥ (४२।२)
prīṇāti devān ājyena madhunā ca pitṝṃs tathā ||
स तु सोमघृतैर् देवांस् तर्पयेद् यो ऽन्वहं पठेत् । (४३।१)
sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet |
सामानि तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा ॥ (४३।२)
sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā ||
मेदसा तर्पयेद् देवान् अथर्वाङ्गिरसः पठन् । (४४।१)
medasā tarpayed devān atharvāṅgirasaḥ paṭhan |
पितॄंश् च मधुसर्पिर्भ्याम् अन्वहं शक्तितो द्विजः ॥ (४४।२)
pitṝṃś ca madhusarpirbhyām anvahaṃ śaktito dvijaḥ ||
वाकोवाक्यं पुराणं च नाराशंसीश् च गाथिकाः । (४५।१)
vākovākyaṃ purāṇaṃ ca nārāśaṃsīś ca gāthikāḥ |
इतिहासांस् तथा विद्याः शक्त्याधीते हि यो ऽन्वहम् ॥ (४५।२)
itihāsāṃs tathā vidyāḥ śaktyādhīte hi yo 'nvaham ||
करोति तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा ॥ (४६।२)
karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā ||
ते तृप्तास् तर्पयन्त्य् एनं सर्वकामफलैः शुभैः । (४७।१)
te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ |
यं यं क्रतुम् अधीते च तस्य तस्याप्नुयात् फलम् ॥ (४७।२)
yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam ||
त्रिर् वित्तपूर्णपृथिवीदानस्य फलम् अश्नुते । (४८।१)
trir vittapūrṇapṛthivīdānasya phalam aśnute |
तपसश् च परस्येह नित्यं स्वाध्यायवान् द्विजः ॥ (४८।२)
tapasaś ca parasyeha nityaṃ svādhyāyavān dvijaḥ ||
नैष्ठिको ब्रह्मचारी तु वसेद् आचार्यसंनिधौ । (४९।१)
naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau |
तदभावे ऽस्य तनये पत्न्यां वैश्वानरे ऽपि वा ॥ (४९।२)
tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā ||
३। विवाहप्रकरणम्गुरवे तु वरं दत्त्वा स्नायाद् वा तदनुज्ञया । (५१।१)
3. vivāhaprakaraṇamgurave tu varaṃ dattvā snāyād vā tadanujñayā |
वेदं व्रतानि वा पारं नीत्वा ह्य् उभयम् एव वा ॥ (५१।२)
vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā ||
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियम् उद्वहेत् । (५२।१)
aviplutabrahmacaryo lakṣaṇyāṃ striyam udvahet |
अनन्यपूर्विकां कान्ताम् असपिण्डां यवीयसीम् ॥ (५२।२)
ananyapūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm ||
पञ्चमात् सप्तमाद् ऊर्ध्वं मातृतः पितृतस् तथा ॥ (५३।२)
pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā ||
दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् । (५४।१)
daśapūruṣavikhyātācchrotriyāṇāṃ mahākulāt |
एतैर् एव गुणैर् युक्तः सवर्णः श्रोत्रियो वरः । (५५।१)
etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ |
यत्नात् परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ॥ (५५।२)
yatnāt parīkṣitaḥ puṃstve yuvā dhīmān janapriyaḥ ||
यद् उच्यते द्विजातीनां शूद्राद् दारोपसंग्रहः । (५६।१)
yad ucyate dvijātīnāṃ śūdrād dāropasaṃgrahaḥ |
नैतन् मम मतं यस्मात् तत्रायं जायते स्वयम् ॥ (५६।२)
naitan mama mataṃ yasmāt tatrāyaṃ jāyate svayam ||
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् । (५७।१)
tisro varṇānupūrvyeṇa dve tathaikā yathākramam |
ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः ॥ (५७।२)
brāhmaṇakṣatriyaviśāṃ bhāryā svā śūdrajanmanaḥ ||
तज्जः पुनात्य् उभयतः पुरुषान् एकविंशतिम् ॥ (५८।२)
tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim ||
यज्ञस्थ ऋत्विजे दैव आदायार्षस् तु गोद्वयम् । (५९।१)
yajñastha ṛtvije daiva ādāyārṣas tu godvayam |
चतुर्दश प्रथमजः पुनात्य् उत्तरजश् च षट् ॥ (५९।२)
caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ ||
इत्य् उक्त्वा चरतां धर्मं सह या दीयते ऽर्थिने । (६०।१)
ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine |
स कायः पावयेत् तज्जः षट् षड्वंश्यान् सहात्मना ॥ (६०।२)
sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā ||
आसुरो द्रविणादानाद् गान्धर्वः समयान् मिथः । (६१।१)
āsuro draviṇādānād gāndharvaḥ samayān mithaḥ |
राक्षसो युद्धहरणात् पैशाचः कन्यकाछलात् ॥ (६१।२)
rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt ||
पाणिर् ग्राह्यः सवर्णासु गृह्णीयात् क्षत्रिया शरम् । (६२।१)
pāṇir grāhyaḥ savarṇāsu gṛhṇīyāt kṣatriyā śaram |
वैश्या प्रतोदम् आदद्याद् वेदने त्व् अग्रजन्मनः ॥ (६२।२)
vaiśyā pratodam ādadyād vedane tv agrajanmanaḥ ||
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ (६३।२)
kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ ||
अप्रयच्छन् समाप्नोति भ्रूणहत्याम् ऋताव् ऋतौ । (६४।१)
aprayacchan samāpnoti bhrūṇahatyām ṛtāv ṛtau |
गम्यं त्व् अभावे दातॄणां कन्या कुर्यात् स्वयंवरम् ॥ (६४।२)
gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram ||
सकृत् प्रदीयते कन्या हरंस् तां चोरदण्डभाक् । (६५।१)
sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk |
दत्ताम् अपि हरेत् पूर्वाच् छ्रेयांश् चेद् वर आव्रजेत् ॥ (६५।२)
dattām api haret pūrvāc chreyāṃś ced vara āvrajet ||
अदुष्टां तु त्यजन् दण्ड्यो दूषयंस् तु मृषा शतम् ॥ (६६।२)
aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam ||
अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः । (६७।१)
akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ |
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ (६७।२)
svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet ||
अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । (६८।१)
aputrāṃ gurvanujñāto devaraḥ putrakāmyayā |
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋताव् इयात् ॥ (६८।२)
sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāv iyāt ||
आ गर्भसंभवाद् गच्छेत् पतितस् त्व् अन्यथा भवेत् । (६९।१)
ā garbhasaṃbhavād gacchet patitas tv anyathā bhavet |
अनेन विधिना जातः क्षेत्रजो ऽस्य भवेत् सुतः ॥ (६९।२)
anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ ||
परिभूताम् अधःशय्यां वासयेद् व्यभिचारिणीम् ॥ (७०।२)
paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm ||
सोमः शौचं ददाव् आसां गन्धर्वश् च शुभां गिरम् । (७१।१)
somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram |
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्य् अतः ॥ (७१।२)
pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ ||
व्यभिचाराद् ऋतौ शुद्धिर् गर्भे त्यागो विधीयते । (७२।१)
vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate |
सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्य् अप्रियंवदा । (७३।१)
surāpī vyādhitā dhūrtā vandhyārthaghny apriyaṃvadā |
स्त्रीप्रसूश् चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ (७३।२)
strīprasūś cādhivettavyā puruṣadveṣiṇī tathā ||
अधिविन्ना तु भर्तव्या महद् एनो ऽन्यथा भवेत् । (७४।१)
adhivinnā tu bhartavyā mahad eno 'nyathā bhavet |
यत्रानुकूल्यं दंपत्योस् त्रिवर्गस् तत्र वर्धते ॥ (७४।२)
yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate ||
मृते जीवति वा पत्यौ या नान्यम् उपगच्छति । (७५।१)
mṛte jīvati vā patyau yā nānyam upagacchati |
आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । (७६।१)
ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm |
त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियाः ॥ (७६।२)
tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ ||
स्त्रीभिर् भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः । (७७।१)
strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ |
आ शुद्धेः सम्प्रतीक्ष्यो हि महापातकदूषितः ॥ (७७।२)
ā śuddheḥ sampratīkṣyo hi mahāpātakadūṣitaḥ ||
लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । (७८।१)
lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ |
यस्मात् तस्मात् स्त्रियः सेव्याः कर्तव्याश् च सुरक्षिताः ॥ (७८।२)
yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca surakṣitāḥ ||
षोडशर्तुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् । (७९।१)
ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet |
ब्रह्मचार्य् एव पर्वाण्य् आद्याश् चतस्रस् तु वर्जयेत् ॥ (७९।२)
brahmacāry eva parvāṇy ādyāś catasras tu varjayet ||
एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । (८०।१)
evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet |
सुस्थ इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान् ॥ (८०।२)
sustha indau sakṛt putraṃ lakṣaṇyaṃ janayet pumān ||
यथाकामी भवेद् वापि स्त्रीणां वरम् अनुस्मरन् । (८१।१)
yathākāmī bhaved vāpi strīṇāṃ varam anusmaran |
स्वदारनिरतश् चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ (८१।२)
svadāranirataś caiva striyo rakṣyā yataḥ smṛtāḥ ||
भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः । (८२।१)
bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ |
बन्धुभिश् च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥ (८२।२)
bandhubhiś ca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ ||
कुर्याच्छ्वशुरयोः पादवन्दनं भर्तृतत्परा ॥ (८३।२)
kuryācchvaśurayoḥ pādavandanaṃ bhartṛtatparā ||
हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥ (८४।२)
hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā ||
रक्षेत् कन्यां पिता विन्नां पतिः पुत्रास् तु वार्द्धके । (८५।१)
rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārddhake |
अभावे ज्ञातयस् तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः ॥ (८५।२)
abhāve jñātayas teṣāṃ na svātantryaṃ kvacit striyāḥ ||
हीना न स्याद् विना भर्त्रा गर्हणीयान्यथा भवेत् ॥ (८६।२)
hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet ||
पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया । (८७।१)
patipriyahite yuktā svācārā vijitendriyā |
सेह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ (८७।२)
seha kīrtim avāpnoti pretya cānuttamāṃ gatim ||
सत्याम् अन्यां सवर्णायां धर्मकार्यं न कारयेत् । (८८।१)
satyām anyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet |
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥ (८८।२)
savarṇāsu vidhau dharmye jyeṣṭhayā na vinetarā ||
दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । (८९।१)
dāhayitvāgnihotreṇa striyaṃ vṛttavatīṃ patiḥ |
आहरेद् विधिवद् दारान् अग्नींश् चैवाविलम्बयन् ॥ (८९।२)
āhared vidhivad dārān agnīṃś caivāvilambayan ||
४। वर्णजातिविवेकप्रकरणम्सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । (९०।१)
4. varṇajātivivekaprakaraṇamsavarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ |
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ (९०।२)
anindyeṣu vivāheṣu putrāḥ saṃtānavardhanāḥ ||
विप्रान् मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । (९१।१)
viprān mūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyām |
अम्बष्ठः शूद्र्यां निषादो जातः पारशवो ऽपि वा ॥ (९१।२)
ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo 'pi vā ||
वैश्याशूद्र्योस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ । (९२।१)
vaiśyāśūdryos tu rājanyān māhiṣyograu sutau smṛtau |
वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः ॥ (९२।२)
vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ ||
ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस् तथा । (९३।१)
brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā |
शूद्राज् जातस् तु चण्डालः सर्वधर्मबहिष्कृतः ॥ (९३।२)
śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ ||
क्षत्रिया मागधं वैश्याच्छूद्रात् क्षत्तारम् एव च । (९४।१)
kṣatriyā māgadhaṃ vaiśyācchūdrāt kṣattāram eva ca |
शूद्राद् आयोगवं वैश्या जनयामास वै सुतम् ॥ (९४।२)
śūdrād āyogavaṃ vaiśyā janayāmāsa vai sutam ||
असत्सन्तस् तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ (९५।२)
asatsantas tu vijñeyāḥ pratilomānulomajāḥ ||
जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमे ऽपि वा । (९६।१)
jātyutkarṣo yuge jñeyaḥ saptame pañcame 'pi vā |
व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् ॥ (९६।२)
vyatyaye karmaṇāṃ sāmyaṃ pūrvavaccādharottaram ||
५। गृहस्थधर्मप्रकरणम्कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही । (९७।१)
5. gṛhasthadharmaprakaraṇamkarma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī |
शरीरचिन्तां निर्वर्त्य कृतशौचविधिर् द्विजः । (९८।१)
śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ |
प्रातःसंध्याम् उपासीत दन्तधावनपूर्वकम् ॥ (९८।२)
prātaḥsaṃdhyām upāsīta dantadhāvanapūrvakam ||
हुत्वाग्नीन् सूर्यदैवत्यान् जपेन् मन्त्रान् समाहितः । (९९।१)
hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ |
वेदार्थान् अधिगच्छेच् च शास्त्राणि विविधानि च ॥ (९९।२)
vedārthān adhigacchec ca śāstrāṇi vividhāni ca ||
उपेयाद् ईश्वरं चैव योगक्षेमार्थसिद्धये । (१००।१)
upeyād īśvaraṃ caiva yogakṣemārthasiddhaye |
स्नात्वा देवान् पितॄंश् चैव तर्पयेद् अर्चयेत् तथा ॥ (१००।२)
snātvā devān pitṝṃś caiva tarpayed arcayet tathā ||
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ (१०१।२)
japayajñaprasiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet ||
बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः । (१०२।१)
balikarmasvadhāhomasvādhyāyātithisatkriyāḥ |
देवेभ्यश् च हुताद् अन्नाच् छेषाद् भूतबलिं हरेत् । (१०३।१)
devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret |
अन्नं भूमौ श्वचाण्डालवायसेभ्यश् च निक्षिपेत् ॥ (१०३।२)
annaṃ bhūmau śvacāṇḍālavāyasebhyaś ca nikṣipet ||
अन्नं पितृमनुष्येभ्यो देयम् अप्य् अन्वहं जलम् । (१०४।१)
annaṃ pitṛmanuṣyebhyo deyam apy anvahaṃ jalam |
स्वाध्यायं सततं कुर्यान् न पचेद् अन्नम् आत्मने ॥ (१०४।२)
svādhyāyaṃ satataṃ kuryān na paced annam ātmane ||
संभोज्यातिथिभृत्यांश् च दंपत्योः शेषभोजनम् ॥ (१०५।२)
saṃbhojyātithibhṛtyāṃś ca daṃpatyoḥ śeṣabhojanam ||
आ पोशनेनोपरिष्टाद् अधस्ताद् अश्नता तथा । (१०६।१)
ā pośanenopariṣṭād adhastād aśnatā tathā |
अनग्नम् अमृतं चैव कार्यम् अन्नं द्विजन्मना ॥ (१०६।२)
anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā ||
अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः । (१०७।१)
atithitvena varṇānāṃ deyaṃ śaktyānupūrvaśaḥ |
अप्रणोद्यो ऽतिथिः सायम् अपि वाग्भूतृणोदकैः ॥ (१०७।२)
apraṇodyo 'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ ||
सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च । (१०८।१)
satkṛtya bhikṣave bhikṣā dātavyā savratāya ca |
भोजयेच् चागतान् काले सखिसंबन्धिबान्धवान् ॥ (१०८।२)
bhojayec cāgatān kāle sakhisaṃbandhibāndhavān ||
महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् । (१०९।१)
mahokṣaṃ vā mahājaṃ vā śrotriyāyopakalpayet |
सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः ॥ (१०९।२)
satkriyānvāsanaṃ svādu bhojanaṃ sūnṛtaṃ vacaḥ ||
प्रतिसंवत्सरं त्व् अर्घ्याः स्नातकाचार्यपार्थिवाः । (११०।१)
pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ |
प्रियो विवाह्यश् च तथा यज्ञं प्रत्य् ऋत्विजः पुनः ॥ (११०।२)
priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ ||
अध्वनीनो ऽतिथिर् ज्ञेयः श्रोत्रियो वेदपारगः । (१११।१)
adhvanīno 'tithir jñeyaḥ śrotriyo vedapāragaḥ |
मान्याव् एतौ गृहस्थस्य ब्रह्मलोकम् अभीप्सतः ॥ (१११।२)
mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ ||
परपाकरुचिर् न स्याद् अनिन्द्यामन्त्रणाद् ऋते । (११२।१)
parapākarucir na syād anindyāmantraṇād ṛte |
वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ॥ (११२।२)
vākpāṇipādacāpalyaṃ varjayeccātibhojanam ||
अतिथिं श्रोत्रियं तृप्तम् आ सीमन्तम् अनुव्रजेत् । (११३।१)
atithiṃ śrotriyaṃ tṛptam ā sīmantam anuvrajet |
अहःशेषं सहासीत शिष्टैर् इष्टैश् च बन्धुभिः ॥ (११३।२)
ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ ||
उपास्य पश्चिमां संध्यां हुत्वाग्नींस् तान् उपास्य च । (११४।१)
upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca |
भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविशेत् ॥ (११४।२)
bhṛtyaiḥ parivṛto bhuktvā nātitṛptyātha saṃviśet ||
ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेद् आत्मनो हितम् । (११५।१)
brāhme muhūrte cotthāya cintayed ātmano hitam |
धर्मार्थकामान् स्वे काले यथाशक्ति न हापयेत् ॥ (११५।२)
dharmārthakāmān sve kāle yathāśakti na hāpayet ||
विद्याकर्मवयोबन्धुवित्तैर् मान्या यथाक्रमम् । (११६।१)
vidyākarmavayobandhuvittair mānyā yathākramam |
एतैः प्रभूतैः शूद्रो ऽपि वार्द्धके मानम् अर्हति ॥ (११६।२)
etaiḥ prabhūtaiḥ śūdro 'pi vārddhake mānam arhati ||
वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् । (११७।१)
vṛddhabhārinṛpasnātastrīrogivaracakriṇām |
पन्था देयो नृपस् तेषां मान्यः स्नातश् च भूपतेः ॥ (११७।२)
panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ ||
इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । (११८।१)
ijyādhyayanadānāni vaiśyasya kṣatriyasya ca |
प्रतिग्रहो ऽधिको विप्रे याजनाध्यापने तथा ॥ (११८।२)
pratigraho 'dhiko vipre yājanādhyāpane tathā ||
प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । (११९।१)
pradhānaṃ kṣatriye karma prajānāṃ paripālanam |
कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥ (११९।२)
kusīdakṛṣivāṇijyapāśupālyaṃ viśaḥ smṛtam ||
शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग् भवेत् । (१२०।१)
śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet |
शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरन् ॥ (१२०।२)
śilpair vā vividhair jīved dvijātihitam ācaran ||
भार्यारतिः शुचिर् भृत्यभर्ता श्राद्धक्रियारतः । (१२१।१)
bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ |
नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत् ॥ (१२१।२)
namaskāreṇa mantreṇa pañcayajñān na hāpayet ||
अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः । (१२२।१)
ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ |
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ (१२२।२)
dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam ||
वयोबुद्ध्यर्थवाग्वेषश्रुताभिजनकर्मणाम् । (१२३।१)
vayobuddhyarthavāgveṣaśrutābhijanakarmaṇām |
आचरेत् सदृशीं वृत्तिम् अजिह्माम् अशठां तथा ॥ (१२३।२)
ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā ||
त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः । (१२४।१)
traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ |
प्राक्सौमिकीः क्रियाः कुर्याद् यस्यान्नं वार्षिकं भवेत् ॥ (१२४।२)
prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet ||
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । (१२५।१)
pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā |
कर्तव्याग्रयणेष्टिश् च चातुर्मास्यानि चैव हि ॥ (१२५।२)
kartavyāgrayaṇeṣṭiś ca cāturmāsyāni caiva hi ||
एषाम् असंभवे कुर्याद् इष्टिं वैश्वानरीं द्विजः । (१२६।१)
eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ |
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ (१२६।२)
hīnakalpaṃ na kurvīta sati dravye phalapradam ||
चाण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् । (१२७।१)
cāṇḍālo jāyate yajñakaraṇācchūdrabhikṣitāt |
यज्ञार्थं लब्धम् अददद् भासः काको ऽपि वा भवेत् ॥ (१२७।२)
yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet ||
कुशूलकुम्भीधान्यो वा त्र्याहिको ऽश्वस्तनो ऽपि वा । (१२८।१)
kuśūlakumbhīdhānyo vā tryāhiko 'śvastano 'pi vā |
जीवेद् वापि शिलोञ्छेन श्रेयान् एषां परः परः ॥ (१२८।२)
jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ ||
६। स्नातकधर्मप्रकरणम्न स्वाध्यायविरोध्यर्थम् ईहेत न यतस् ततः । (१२९।१)
6. snātakadharmaprakaraṇamna svādhyāyavirodhyartham īheta na yatas tataḥ |
न विरुद्धप्रसङ्गेन संतोषी च भवेत् सदा ॥ (१२९।२)
na viruddhaprasaṅgena saṃtoṣī ca bhavet sadā ||
राजान्तेवासियाज्येभ्यः सीदन्न् इच्छेद् धनं क्षुधा । (१३०।१)
rājāntevāsiyājyebhyaḥ sīdann icched dhanaṃ kṣudhā |
दम्भिहैतुकपाखण्डिबकवृत्तींश् च वर्जयेत् ॥ (१३०।२)
dambhihaitukapākhaṇḍibakavṛttīṃś ca varjayet ||
शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः । (१३१।१)
śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ |
न भार्यादर्शने ऽश्नीयान् नैकवासा न संस्थितः ॥ (१३१।२)
na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ ||
न संशयं प्रपद्येत नाकस्माद् अप्रियं वदेत् । (१३२।१)
na saṃśayaṃ prapadyeta nākasmād apriyaṃ vadet |
नाहितं नानृतं चैव न स्तेनः स्यान् न वार्द्धुषी ॥ (१३२।२)
nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī ||
दाक्षायणी ब्रह्मसूत्री वेणुमान् सकमण्डलुः । (१३३।१)
dākṣāyaṇī brahmasūtrī veṇumān sakamaṇḍaluḥ |
कुर्यात् प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन् ॥ (१३३।२)
kuryāt pradakṣiṇaṃ devamṛdgovipravanaspatīn ||
न तु मेहेन् नदीछायावर्त्मगोष्ठाम्बुभस्मसु । (१३४।१)
na tu mehen nadīchāyāvartmagoṣṭhāmbubhasmasu |
न प्रत्यग्न्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ (१३४।२)
na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ ||
नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् । (१३५।१)
nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām |
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ (१३५।२)
na ca mūtraṃ purīṣaṃ vā nāśucī rāhutārakāḥ ||
अयं मे वज्र इत्य् एवं सर्वं मन्त्रम् उदीरयेत् । (१३६।१)
ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet |
वर्षत्य् अप्रावृतो गच्छेत् स्वपेत् प्रत्यक्शिरा न च ॥ (१३६।२)
varṣaty aprāvṛto gacchet svapet pratyakśirā na ca ||
ष्ठीवनासृक्शकृन्मूत्ररेतांस्य् अप्सु न निक्षिपेत् । (१३७।१)
ṣṭhīvanāsṛkśakṛnmūtraretāṃsy apsu na nikṣipet |
पादौ प्रतापयेन् नाग्नौ न चैनम् अभिलङ्घयेत् ॥ (१३७।२)
pādau pratāpayen nāgnau na cainam abhilaṅghayet ||
जलं पिबेन् नाञ्जलिना न शयानं प्रबोधयेत् । (१३८।१)
jalaṃ piben nāñjalinā na śayānaṃ prabodhayet |
नाक्षैः क्रीडेन् न धर्मघ्नैर् व्याधितैर् वा न संविशेत् ॥ (१३८।२)
nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet ||
विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम् । (१३९।१)
viruddhaṃ varjayet karma pretadhūmaṃ nadītaram |
केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ (१३९।२)
keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim ||
नाचक्षीत धयन्तीं गां नाद्वारेण विशेत् क्वचित् । (१४०।१)
nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit |
न राज्ञः प्रतिगृह्णीयाल् लुब्धस्योच्छास्त्रवर्तिनः ॥ (१४०।२)
na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ ||
प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः । (१४१।१)
pratigrahe sūnicakridhvajiveśyānarādhipāḥ |
दुष्टा दशगुणं पूर्वात् पूर्वाद् एते यथाक्रमम् ॥ (१४१।२)
duṣṭā daśaguṇaṃ pūrvāt pūrvād ete yathākramam ||
अध्यायानाम् उपाकर्म श्रावण्यां श्रवणेन वा । (१४२।१)
adhyāyānām upākarma śrāvaṇyāṃ śravaṇena vā |
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ (१४२।२)
hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya tu ||
पौषमासस्य रोहिण्याम् अष्टकायाम् अथापि वा । (१४३।१)
pauṣamāsasya rohiṇyām aṣṭakāyām athāpi vā |
जलान्ते छन्दसां कुर्याद् उत्सर्गं विधिवद् बहिः ॥ (१४३।२)
jalānte chandasāṃ kuryād utsargaṃ vidhivad bahiḥ ||
त्र्यहं प्रेतेष्व् अनध्यायः शिष्यर्त्विग्गुरुबन्धुषु । (१४४।१)
tryahaṃ preteṣv anadhyāyaḥ śiṣyartviggurubandhuṣu |
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ (१४४।२)
upākarmaṇi cotsarge svaśākhāśrotriye tathā ||
संध्यागर्जितनिर्घातभूकम्पोल्कानिपातने । (१४५।१)
saṃdhyāgarjitanirghātabhūkampolkānipātane |
समाप्य वेदं द्युनिशम् आरण्यकम् अधीत्य च ॥ (१४५।२)
samāpya vedaṃ dyuniśam āraṇyakam adhītya ca ||
पञ्चदश्यां चतुर्दश्याम् अष्टम्यां राहुसूतके । (१४६।१)
pañcadaśyāṃ caturdaśyām aṣṭamyāṃ rāhusūtake |
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ (१४६।२)
ṛtusaṃdhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca ||
कृते ऽनन्तरे त्व् अहोरात्रं शक्रपाते तथोच्छ्रये ॥ (१४७।२)
kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye ||
श्वक्रोष्टृगर्दभोलूकसामबाणार्तनिःस्वने । (१४८।१)
śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane |
देशे ऽशुचाव् आत्मनि च विद्युत्स्तनितसंप्लवे । (१४९।१)
deśe 'śucāv ātmani ca vidyutstanitasaṃplave |
भुक्त्वार्द्रपाणिर् अम्भोऽन्तर् अर्धरात्रे ऽतिमारुते ॥ (१४९।२)
bhuktvārdrapāṇir ambho'ntar ardharātre 'timārute ||
पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु । (१५०।१)
pāṃsupravarṣe digdāhe saṃdhyānīhārabhītiṣu |
धावतः पूतिगन्धे च शिष्टे च गृहम् आगते ॥ (१५०।२)
dhāvataḥ pūtigandhe ca śiṣṭe ca gṛham āgate ||
सप्तत्रिंशदनध्यायान् एतांस् तात्कालिकान् विदुः ॥ (१५१।२)
saptatriṃśadanadhyāyān etāṃs tātkālikān viduḥ ||
देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः । (१५२।१)
devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ |
नाक्रामेद् रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥ (१५२।२)
nākrāmed raktaviṇmūtraṣṭhīvanodvartanādi ca ||
विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन । (१५३।१)
viprāhikṣatriyātmāno nāvajñeyāḥ kadācana |
आ मृत्योः श्रियम् आकाङ्क्षेन् न कंचिन् मर्मणि स्पृशेत् ॥ (१५३।२)
ā mṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet ||
दूराद् उच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् । (१५४।१)
dūrād ucchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet |
श्रुतिस्मृत्युदितं सम्यङ् नित्यम् आचारम् आचरेत् ॥ (१५४।२)
śrutismṛtyuditaṃ samyaṅ nityam ācāram ācaret ||
गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् । (१५५।१)
gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet |
न निन्दाताडने कुर्यात् पुत्रं शिष्यं च ताडयेत् ॥ (१५५।२)
na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet ||
कर्मणा मनसा वाचा यत्नाद् धर्मं समाचरेत् । (१५६।१)
karmaṇā manasā vācā yatnād dharmaṃ samācaret |
अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु ॥ (१५६।२)
asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu ||
मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः । (१५७।१)
mātṛpitratithibhrātṛjāmisaṃbandhimātulaiḥ |
वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः ॥ (१५७।२)
vṛddhabālāturācāryavaidyasaṃśritabāndhavaiḥ ||
विवादं वर्जयित्वा तु सर्वांल् लोकाञ् जयेद् गृही ॥ (१५८।२)
vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī ||
पञ्च पिण्डान् अनुद्धृत्य न स्नायात् परवारिषु । (१५९।१)
pañca piṇḍān anuddhṛtya na snāyāt paravāriṣu |
अदत्तान्य् अग्निहीनस्य नान्नम् अद्याद् अनापदि ॥ (१६०।२)
adattāny agnihīnasya nānnam adyād anāpadi ||
वैणाभिशस्तवार्द्धुष्यगणिकागणदीक्षिणाम् ॥ (१६१।२)
vaiṇābhiśastavārddhuṣyagaṇikāgaṇadīkṣiṇām ||
चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् । (१६२।१)
cikitsakāturakruddhapuṃścalīmattavidviṣām |
क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥ (१६२।२)
krūrograpatitavrātyadāmbhikocchiṣṭabhojinām ||
अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् । (१६३।१)
avīrāstrīsvarṇakārastrījitagrāmayājinām |
शस्त्रविक्रयिकर्मारतन्तुवायश्ववृत्तिनाम् ॥ (१६३।२)
śastravikrayikarmāratantuvāyaśvavṛttinām ||
पिशुनानृतिनोश् चैव तथा चाक्रिकबन्दिनाम् । (१६५।१)
piśunānṛtinoś caiva tathā cākrikabandinām |
एषाम् अन्नं न भोक्तव्यं सोमविक्रयिणस् तथा ॥ (१६५।२)
eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā ||
भोज्यान्नाः नापितश् चैव यश् चात्मानं निवेदयेत् ॥ (१६६।२)
bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet ||
७। भक्ष्याभक्ष्यप्रकरणमनर्चितं वृथामांसं केशकीटसमन्वितम् । (१६७।१)
7. bhakṣyābhakṣyaprakaraṇamanarcitaṃ vṛthāmāṃsaṃ keśakīṭasamanvitam |
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥ (१६७।२)
śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam ||
उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् । (१६८।१)
udakyāspṛṣṭasaṃghuṣṭaṃ paryāyānnaṃ ca varjayet |
गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥ (१६८।२)
goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ ||
अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् । (१६९।१)
annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃsthitam |
औष्ट्रम् ऐकशफं स्त्रैणम् आरण्यकम् अथाविकम् ॥ (१७०।२)
auṣṭram aikaśaphaṃ straiṇam āraṇyakam athāvikam ||
देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस् तथा । (१७१।१)
devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā |
क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् । (१७२।१)
kravyādapakṣidātyūhaśukapratudaṭiṭṭibhān |
सारसैकशफान् हंसान् सर्वांश् च ग्रामवासिनः ॥ (१७२।२)
sārasaikaśaphān haṃsān sarvāṃś ca grāmavāsinaḥ ||
जालपादान् खञ्जरीटान् अज्ञातांश् च मृगद्विजान् ॥ (१७४।२)
jālapādān khañjarīṭān ajñātāṃś ca mṛgadvijān ||
चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च । (१७५।१)
cāṣāṃś ca raktapādāṃś ca saunaṃ vallūram eva ca |
मत्स्यांश् च कामतो जग्ध्वा सोपवासस् त्र्यहं वसेत् ॥ (१७५।२)
matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset ||
पलाण्डुं विड्वराहं च छत्त्राकं ग्रामकुक्कुटम् । (१७६।१)
palāṇḍuṃ viḍvarāhaṃ ca chattrākaṃ grāmakukkuṭam |
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ (१७६।२)
laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret ||
भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः । (१७७।१)
bhakṣyāḥ pañcanakhāḥ sedhāgodhākacchapaśallakāḥ |
शशश् च मत्स्येष्व् अपि हि सिंहतुण्डकरोहिताः ॥ (१७७।२)
śaśaś ca matsyeṣv api hi siṃhatuṇḍakarohitāḥ ||
तथा पाठीनराजीवसशल्काश् च द्विजातिभिः । (१७८।१)
tathā pāṭhīnarājīvasaśalkāś ca dvijātibhiḥ |
अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ (१७८।२)
ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇavarjane ||
प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया । (१७९।१)
prāṇātyaye tathā śrāddhe prokṣite dvijakāmyayā |
देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक् ॥ (१७९।२)
devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk ||
संमितानि दुराचारो यो हन्त्य् अविधिना पशून् ॥ (१८०।२)
saṃmitāni durācāro yo hanty avidhinā paśūn ||
सर्वान् कामान् अवाप्नोति हयमेधफलं तथा । (१८१।१)
sarvān kāmān avāpnoti hayamedhaphalaṃ tathā |
गृहे ऽपि निवसन् विप्रो मुनिर् मांसविवर्जनात् ॥ (१८१।२)
gṛhe 'pi nivasan vipro munir māṃsavivarjanāt ||
८। द्रव्यशुद्धिप्रकरणम्सौवर्णराजताब्जानाम् ऊर्ध्वपात्रग्रहाश्मनाम् । (१८२।१)
8. dravyaśuddhiprakaraṇamsauvarṇarājatābjānām ūrdhvapātragrahāśmanām |
पात्राणां चमसानां च वारिणा शुद्धिर् इष्यते । (१८३।१)
pātrāṇāṃ camasānāṃ ca vāriṇā śuddhir iṣyate |
चरुस्रुक्स्रुवसस्नेहपात्राण्य् उष्णेन वारिणा ॥ (१८३।२)
carusruksruvasasnehapātrāṇy uṣṇena vāriṇā ||
स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् । (१८४।१)
sphyaśūrpājinadhānyānāṃ musalolūkhalānasām |
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ॥ (१८४।२)
prokṣaṇaṃ saṃhatānāṃ ca bahūnāṃ dhānyavāsasām ||
तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् । (१८५।१)
takṣaṇaṃ dāruśṛṅgāsthnāṃ govālaiḥ phalasaṃbhuvām |
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ (१८५।२)
mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi ||
सोषरोदकगोमूत्रैः शुध्यत्य् आविककौशिकम् । (१८६।१)
soṣarodakagomūtraiḥ śudhyaty āvikakauśikam |
सश्रीफलैर् अंशुपट्टं सारिष्टैः कुतपं तथा ॥ (१८६।२)
saśrīphalair aṃśupaṭṭaṃ sāriṣṭaiḥ kutapaṃ tathā ||
सगौरसर्षपैः क्षौमं पुनःपाकान् महीमयम् । (१८७।१)
sagaurasarṣapaiḥ kṣaumaṃ punaḥpākān mahīmayam |
कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥ (१८७।२)
kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā ||
भूशुद्धिर् मार्जनाद् दाहात् कालाद् गोक्रमणात् तथा । (१८८।१)
bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā |
सेकाद् उल्लेखनाल् लेपाद् गृहं मार्जनलेपनात् ॥ (१८८।२)
sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt ||
गोघ्राते ऽन्ने तथा केशमक्षिकाकीटदूषिते । (१८९।१)
goghrāte 'nne tathā keśamakṣikākīṭadūṣite |
सलिलं भस्म मृद् वापि प्रक्षेप्तव्यं विशुद्धये ॥ (१८९।२)
salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye ||
त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः । (१९०।१)
trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ |
भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च ॥ (१९०।२)
bhasmādbhiḥ kāṃsyalohānāṃ śuddhiḥ plāvo dravasya ca ||
अमेध्याक्तस्य मृत्तोयैः शुद्धिर् गन्धादिकर्षणात् । (१९१।१)
amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt |
वाक्शस्तम् अम्बुनिर्णिक्तम् अज्ञातं च सदा शुचि ॥ (१९१।२)
vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci ||
शुचि गोतृप्तिकृत् तोयं प्रकृतिस्थं महीगतम् । (१९२।१)
śuci gotṛptikṛt toyaṃ prakṛtisthaṃ mahīgatam |
तथा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ॥ (१९२।२)
tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam ||
रश्मिर् अग्नी रजश्छाया गौर् अश्वो वसुधानिलः । (१९३।१)
raśmir agnī rajaśchāyā gaur aśvo vasudhānilaḥ |
विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः ॥ (१९३।२)
vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ ||
अजाश्वयोर् मुखं मेध्यं न गोर् न नरजा मलाः । (१९४।१)
ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ |
पन्थानश् च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ (१९४।२)
panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ ||
मुखजा विप्रुषो मेध्यास् तथाचमनबिन्दवः । (१९५।१)
mukhajā vipruṣo medhyās tathācamanabindavaḥ |
श्मश्रु चास्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ॥ (१९५।२)
śmaśru cāsyagataṃ dantasaktaṃ tyaktvā tataḥ śuciḥ ||
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे । (१९६।१)
snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe |
आचान्तः पुनर् आचामेद् वासो विपरिधाय च ॥ (१९६।२)
ācāntaḥ punar ācāmed vāso viparidhāya ca ||
रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः । (१९७।१)
rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ |
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ (१९७।२)
mārutenaiva śudhyanti pakveṣṭakacitāni ca ||
९। दानप्रकरणम्तपस् तप्त्वासृजद् ब्रह्मा ब्राह्मणान् वेदगुप्तये । (१९८।१)
9. dānaprakaraṇamtapas taptvāsṛjad brahmā brāhmaṇān vedaguptaye |
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ (१९८।२)
tṛptyarthaṃ pitṛdevānāṃ dharmasaṃrakṣaṇāya ca ||
सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः । (१९९।१)
sarvasya prabhavo viprāḥ śrutādhyayanaśīlinaḥ |
तेभ्यः क्रियापराः श्रेष्ठास् तेभ्यो ऽप्य् अध्यात्मवित्तमाः ॥ (१९९।२)
tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ ||
यत्र वृत्तम् इमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥ (२००।२)
yatra vṛttam ime cobhe taddhi pātraṃ prakīrtitam ||
गोभूतिलहिरण्यादि पात्रे दातव्यम् अर्चितम् । (२०१।१)
gobhūtilahiraṇyādi pātre dātavyam arcitam |
नापात्रे विदुषा किंचिद् आत्मनः श्रेय इच्छता ॥ (२०१।२)
nāpātre viduṣā kiṃcid ātmanaḥ śreya icchatā ||
विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः । (२०२।१)
vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ |
गृह्णन् प्रदातारम् अधो नयत्य् आत्मानम् एव च ॥ (२०२।२)
gṛhṇan pradātāram adho nayaty ātmānam eva ca ||
दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः । (२०३।१)
dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ |
याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः ॥ (२०३।२)
yācitenāpi dātavyaṃ śraddhāpūtaṃ svaśaktitaḥ ||
हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता । (२०४।१)
hemaśṛṅgī śaphai raupyaiḥ suśīlā vastrasaṃyutā |
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ (२०४।२)
sakāṃsyapātrā dātavyā kṣīriṇī gauḥ sadakṣiṇā ||
दातास्याः स्वर्गम् आप्नोति वत्सरान् रोमसंमितान् । (२०५।१)
dātāsyāḥ svargam āpnoti vatsarān romasaṃmitān |
कपिला चेत् तारयति भूयश् चासप्तमं कुलम् ॥ (२०५।२)
kapilā cet tārayati bhūyaś cāsaptamaṃ kulam ||
सवत्सारोमतुल्यानि युगान्य् उभयतोमुखीम् । (२०६।१)
savatsāromatulyāni yugāny ubhayatomukhīm |
दातास्याः स्वर्गम् आप्नोति पूर्वेण विधिना ददत् ॥ (२०६।२)
dātāsyāḥ svargam āpnoti pūrveṇa vidhinā dadat ||
यावद् वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते । (२०७।१)
yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate |
तावद् गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति ॥ (२०७।२)
tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati ||
यथाकथंचिद् दत्त्वा गां धेनुं वाधेनुम् एव वा । (२०८।१)
yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva vā |
अरोगाम् अपरिक्लिष्टां दाता स्वर्गे महीयते ॥ (२०८।२)
arogām aparikliṣṭāṃ dātā svarge mahīyate ||
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् । (२०९।१)
śrāntasaṃvāhanaṃ rogiparicaryā surārcanam |
पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानवत् ॥ (२०९।२)
pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat ||
भूदीपांश् चान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् । (२१०।१)
bhūdīpāṃś cānnavastrāmbhastilasarpiḥpratiśrayān |
नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ (२१०।२)
naiveśikaṃ svarṇadhuryaṃ dattvā svarge mahīyate ||
यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥ (२११।२)
yānaṃ vṛkṣaṃ priyaṃ śayyāṃ dattvātyantaṃ sukhī bhavet ||
सर्वधर्ममयं ब्रह्म प्रदानेभ्यो ऽधिकं यतः । (२१२।१)
sarvadharmamayaṃ brahma pradānebhyo 'dhikaṃ yataḥ |
तद् ददत् समवाप्नोति ब्रह्मलोकम् अविच्युतम् ॥ (२१२।२)
tad dadat samavāpnoti brahmalokam avicyutam ||
प्रतिग्रहसमर्थो ऽपि नादत्ते यः प्रतिग्रहम् । (२१३।१)
pratigrahasamartho 'pi nādatte yaḥ pratigraham |
ये लोका दानशीलानां स तान् आप्नोति पुष्कलान् ॥ (२१३।२)
ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān ||
कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः । (२१४।१)
kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ |
मांसं शय्यासनं धानाः प्रत्याखेयं न वारि च ॥ (२१४।२)
māṃsaṃ śayyāsanaṃ dhānāḥ pratyākheyaṃ na vāri ca ||
अयाचिताहृतं ग्राह्यम् अपि दुष्कृतकर्मणः । (२१५।१)
ayācitāhṛtaṃ grāhyam api duṣkṛtakarmaṇaḥ |
अन्यत्र कुलटाषण्ढपतितेभ्यस् तथा द्विषः ॥ (२१५।२)
anyatra kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ ||
देवातिथिअर्चनकृते गुरुभृत्यार्थम् एव वा । (२१६।१)
devātithiarcanakṛte gurubhṛtyārtham eva vā |
सर्वतः प्रतिगृह्णीयाद् आत्मवृत्त्यर्थम् एव च ॥ (२१६।२)
sarvataḥ pratigṛhṇīyād ātmavṛttyartham eva ca ||
१०। श्राद्धप्रकरणममावास्याष्टका वृद्धिः कृष्णपक्षो ऽयनद्वयम् । (२१७।१)
10. śrāddhaprakaraṇamamāvāsyāṣṭakā vṛddhiḥ kṛṣṇapakṣo 'yanadvayam |
द्रव्यं ब्राह्मणसंपत्तिर् विषुवत् सूर्यसंक्रमः ॥ (२१७।२)
dravyaṃ brāhmaṇasaṃpattir viṣuvat sūryasaṃkramaḥ ||
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । (२१८।१)
vyatīpāto gajacchāyā grahaṇaṃ candrasūryayoḥ |
श्राद्धं प्रति रुचिश् चैते श्राद्धकालाः प्रकीर्तिताः ॥ (२१८।२)
śrāddhaṃ prati ruciś caite śrāddhakālāḥ prakīrtitāḥ ||
अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद् युवा । (२१९।१)
agryaḥ sarveṣu vedeṣu śrotriyo brahmavid yuvā |
वेदार्थविज् ज्येष्ठसामा त्रिमधुस् त्रिसुपर्णकः ॥ (२१९।२)
vedārthavij jyeṣṭhasāmā trimadhus trisuparṇakaḥ ||
स्वस्रीयर्त्विज्जामातृयाज्यश्वशुरमातुलाः । (२२०।१)
svasrīyartvijjāmātṛyājyaśvaśuramātulāḥ |
त्रिणाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः ॥ (२२०।२)
triṇāciketadauhitraśiṣyasaṃbandhibāndhavāḥ ||
कर्मनिष्ठास् तपोनिष्ठाः पञ्चाग्निर् ब्रह्मचारिणः । (२२१।१)
karmaniṣṭhās taponiṣṭhāḥ pañcāgnir brahmacāriṇaḥ |
पितृमातृपराश् चैव ब्राह्मणाः श्राद्धसंपदः ॥ (२२१।२)
pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ ||
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस् तथा । (२२२।१)
rogī hīnātiriktāṅgaḥ kāṇaḥ paunarbhavas tathā |
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ (२२२।२)
avakīrṇī kuṇḍagolau kunakhī śyāvadantakaḥ ||
भृतकाध्यापकः क्लीबः कन्यादूष्य् अभिशस्तकः । (२२३।१)
bhṛtakādhyāpakaḥ klībaḥ kanyādūṣy abhiśastakaḥ |
मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः ॥ (२२३।२)
mitradhruk piśunaḥ somavikrayī parivindakaḥ ||
परपूर्वापतिः स्तेनः कर्मदुष्टाश् च निन्दिताः ॥ (२२४।२)
parapūrvāpatiḥ stenaḥ karmaduṣṭāś ca ninditāḥ ||
निमन्त्रयेत पूर्वेद्युर् ब्राह्मणान् आत्मवान् शुचिः । (२२५।१)
nimantrayeta pūrvedyur brāhmaṇān ātmavān śuciḥ |
तैश् चापि संयतैर् भाव्यं मनोवाक्कायकर्मभिः ॥ (२२५।२)
taiś cāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ ||
अपराह्णे समभ्यर्च्य स्वागतेनागतांस् तु तान् । (२२६।१)
aparāhṇe samabhyarcya svāgatenāgatāṃs tu tān |
युग्मान् दैवे यथाशक्ति पित्र्ये ऽयुग्मांस् तथैव च । (२२७।१)
yugmān daive yathāśakti pitrye 'yugmāṃs tathaiva ca |
परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥ (२२७।२)
paristṛte śucau deśe dakṣiṇāpravaṇe tathā ||
द्वौ दैवे प्राक् त्रयः पित्र्य उदग् एकैकम् एव वा । (२२८।१)
dvau daive prāk trayaḥ pitrya udag ekaikam eva vā |
मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदेविकम् ॥ (२२८।२)
mātāmahānām apy evaṃ tantraṃ vā vaiśvadevikam ||
पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशान् अपि । (२२९।१)
pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśān api |
आवाहयेद् अनुज्ञातो विश्वे देवास इत्य् ऋचा ॥ (२२९।२)
āvāhayed anujñāto viśve devāsa ity ṛcā ||
शं नो देव्या पयः क्षिप्त्वा यवो ऽसीति यवांस् तथा ॥ (२३०।२)
śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃs tathā ||
या दिव्या इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिक्षिपेत् । (२३१।१)
yā divyā iti mantreṇa hasteṣv arghyaṃ vinikṣipet |
दत्त्वा उदकं गन्धमाल्यं धूपदानं सदीपकम् ॥ (२३१।२)
dattvā udakaṃ gandhamālyaṃ dhūpadānaṃ sadīpakam ||
तथाच्छादनदानं च करशौचार्थम् अम्बु च । (२३२।१)
tathācchādanadānaṃ ca karaśaucārtham ambu ca |
अपसव्यं ततः कृत्वा पितॄणाम् अप्रदक्षिणम् ॥ (२३२।२)
apasavyaṃ tataḥ kṛtvā pitṝṇām apradakṣiṇam ||
द्विगुणांस् तु कुशान् दत्त्वा ह्य् उषन्तस् त्वेत्य् ऋचा पितॄन् । (२३३।१)
dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn |
आवाह्य तदनुज्ञातो जपेद् आयन्तु नस् ततः ॥ (२३३।२)
āvāhya tadanujñāto japed āyantu nas tataḥ ||
यवार्थास् तु तिलैः कार्याः कुर्याद् अर्घ्यादि पूर्ववत् ॥ (२३४।२)
yavārthās tu tilaiḥ kāryāḥ kuryād arghyādi pūrvavat ||
दत्त्वा अर्घ्यं संस्रवांस् तेषां पात्रे कृत्वा विधानतः । (२३५।१)
dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ |
पितृभ्यः स्थानम् असीति न्युब्जं पात्रं करोत्य् अधः ॥ (२३५।२)
pitṛbhyaḥ sthānam asīti nyubjaṃ pātraṃ karoty adhaḥ ||
अग्नौ करिष्यन्न् आदाय पृच्छत्य् अन्नं घृतप्लुतम् । (२३६।१)
agnau kariṣyann ādāya pṛcchaty annaṃ ghṛtaplutam |
कुरुष्वेत्य् अभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ (२३६।२)
kuruṣvety abhyanujñāto hutvāgnau pitṛyajñavat ||
हुतशेषं प्रदद्यात् तु भाजनेषु समाहितः । (२३७।१)
hutaśeṣaṃ pradadyāt tu bhājaneṣu samāhitaḥ |
दत्त्वान्नं पृथिवीपात्रम् इति पात्राभिमन्त्रणम् । (२३८।१)
dattvānnaṃ pṛthivīpātram iti pātrābhimantraṇam |
कृत्वेदं विष्णुर् इत्य् अन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥ (२३८।२)
kṛtvedaṃ viṣṇur ity anne dvijāṅguṣṭhaṃ niveśayet ||
सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम् । (२३९।१)
savyāhṛtikāṃ gāyatrīṃ madhu vātā iti tryṛcam |
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस् ते ऽपि वाग्यताः ॥ (२३९।२)
japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃs te 'pi vāgyatāḥ ||
अन्नम् इष्टं हविष्यं च दद्याद् अक्रोधनो ऽत्वरः । (२४०।१)
annam iṣṭaṃ haviṣyaṃ ca dadyād akrodhano 'tvaraḥ |
आ तृप्तेस् तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ (२४०।२)
ā tṛptes tu pavitrāṇi japtvā pūrvajapaṃ tathā ||
अन्नम् आदाय तृप्ताः स्थ शेषं चैवानुमान्य च । (२४१।१)
annam ādāya tṛptāḥ stha śeṣaṃ caivānumānya ca |
तद् अन्नं विकिरेद् भूमौ दद्याच् चापः सकृत् सकृत् ॥ (२४१।२)
tad annaṃ vikired bhūmau dadyāc cāpaḥ sakṛt sakṛt ||
सर्वम् अन्नम् उपादाय सतिलं दक्षिणामुखः । (२४२।१)
sarvam annam upādāya satilaṃ dakṣiṇāmukhaḥ |
उच्छिष्टसंनिधौ पिण्डान् दद्याद् वै पितृयज्ञवत् ॥ (२४२।२)
ucchiṣṭasaṃnidhau piṇḍān dadyād vai pitṛyajñavat ||
मातामहानाम् अप्य् एवं दद्याद् आचमनं ततः । (२४३।१)
mātāmahānām apy evaṃ dadyād ācamanaṃ tataḥ |
स्वस्तिवाच्यं ततः कुर्याद् अक्षय्योदकम् एव च ॥ (२४३।२)
svastivācyaṃ tataḥ kuryād akṣayyodakam eva ca ||
दत्त्वा तु दक्षिणां शक्त्या स्वधाकारम् उदाहरेत् । (२४४।१)
dattvā tu dakṣiṇāṃ śaktyā svadhākāram udāharet |
वाच्यताम् इत्य् अनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ (२४४।२)
vācyatām ity anujñātaḥ prakṛtebhyaḥ svadhocyatām ||
ब्रूयुर् अस्तु स्वधेत्य् उक्ते भूमौ सिञ्चेत् ततो जलम् । (२४५।१)
brūyur astu svadhety ukte bhūmau siñcet tato jalam |
विश्वे देवाश् च प्रीयन्तां विप्रैश् चोक्त इदं जपेत् ॥ (२४५।२)
viśve devāś ca prīyantāṃ vipraiś cokta idaṃ japet ||
दातारो नो ऽभिवर्धन्तां वेदाः संततिर् एव च । (२४६।१)
dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca |
श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्व् इति ॥ (२४६।२)
śraddhā ca no mā vyagamad bahu deyaṃ ca no 'stv iti ||
इत्य् उक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् । (२४७।१)
ity uktvoktvā priyā vācaḥ praṇipatya visarjayet |
वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् ॥ (२४७।२)
vāje vāja iti prītaḥ pitṛpūrvaṃ visarjanam ||
यस्मिंस् तु संस्रवाः पूर्वम् अर्घ्यपात्रे निवेशिताः । (२४८।१)
yasmiṃs tu saṃsravāḥ pūrvam arghyapātre niveśitāḥ |
पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ (२४८।२)
pitṛpātraṃ taduttānaṃ kṛtvā viprān visarjayet ||
प्रदक्षिणम् अनुव्रज्य भुञ्जीत पितृसेवितम् । (२४९।१)
pradakṣiṇam anuvrajya bhuñjīta pitṛsevitam |
ब्रह्मचारी भवेत् तां तु रजनीं ब्राह्मणैः सह ॥ (२४९।२)
brahmacārī bhavet tāṃ tu rajanīṃ brāhmaṇaiḥ saha ||
एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान् पितॄन् । (२५०।१)
evaṃ pradakṣiṇāvṛtko vṛddhau nāndīmukhān pitṝn |
यजेत दधि कर्कन्धुमिश्रान् पिण्डान् यवैः क्रियाः ॥ (२५०।२)
yajeta dadhi karkandhumiśrān piṇḍān yavaiḥ kriyāḥ ||
एकोद्दिष्टं देवहीनम् एकार्घ्यैकपवित्रकम् । (२५१।१)
ekoddiṣṭaṃ devahīnam ekārghyaikapavitrakam |
उपतिष्ठताम् अक्षय्यस्थाने विप्रविसर्जने । (२५२।१)
upatiṣṭhatām akṣayyasthāne vipravisarjane |
अभिरम्यताम् इति वदेद् ब्रूयुस् ते ऽभिरताः स्म ह ॥ (२५२।२)
abhiramyatām iti vaded brūyus te 'bhiratāḥ sma ha ||
गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयम् । (२५३।१)
gandhodakatilair yuktaṃ kuryāt pātracatuṣṭayam |
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ (२५३।२)
arghyārthaṃ pitṛpātreṣu pretapātraṃ prasecayet ||
ये समाना इति द्वाभ्यां शेषं पूर्ववद् आचरेत् । (२५४।१)
ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret |
एतत् सपिण्डीकरणम् एकोद्दिष्टं स्त्रिया अपि ॥ (२५४।२)
etat sapiṇḍīkaraṇam ekoddiṣṭaṃ striyā api ||
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद् भवेत् । (२५५।१)
arvāksapiṇḍīkaraṇaṃ yasya saṃvatsarād bhavet |
तस्याप्य् अन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे ॥ (२५५।२)
tasyāpy annaṃ sodakumbhaṃ dadyāt saṃvatsaraṃ dvije ||
मृते ऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम् । (२५६।१)
mṛte 'hani prakartavyaṃ pratimāsaṃ tu vatsaram |
प्रतिसंवत्सरं चैवम् आद्यम् एकादशे ऽहनि ॥ (२५६।२)
pratisaṃvatsaraṃ caivam ādyam ekādaśe 'hani ||
पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जले ऽपि वा । (२५७।१)
piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi vā |
प्रक्षिपेत् सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ (२५७।२)
prakṣipet satsu vipreṣu dvijocchiṣṭaṃ na mārjayet ||
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । (२५८।१)
haviṣyānnena vai māsaṃ pāyasena tu vatsaram |
ऐणरौरववाराहशाशैर् मांसैर् यथाक्रमम् । (२५९।१)
aiṇarauravavārāhaśāśair māṃsair yathākramam |
मासवृद्ध्याभितृप्यन्ति दत्तैर् इह पितामहाः ॥ (२५९।२)
māsavṛddhyābhitṛpyanti dattair iha pitāmahāḥ ||
खड्दामिषं महाशल्कं मधु मुन्यन्नम् एव वा । (२६०।१)
khaḍdāmiṣaṃ mahāśalkaṃ madhu munyannam eva vā |
लौहामिषं महाशाकं मांसं वार्ध्रीणसस्य च ॥ (२६०।२)
lauhāmiṣaṃ mahāśākaṃ māṃsaṃ vārdhrīṇasasya ca ||
यद् ददाति गयास्थश् च सर्वम् आनन्त्यम् अश्नुते । (२६१।१)
yad dadāti gayāsthaś ca sarvam ānantyam aśnute |
तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ (२६१।२)
tathā varṣātrayodaśyāṃ maghāsu ca viśeṣataḥ ||
कन्यां कन्यावेदिनश् च पशून् वै सत्सुतान् अपि । (२६२।१)
kanyāṃ kanyāvedinaś ca paśūn vai satsutān api |
द्यूतं कृषिं वाणिज्यां च द्विशफैकशफांस् तथा ॥ (२६२।२)
dyūtaṃ kṛṣiṃ vāṇijyāṃ ca dviśaphaikaśaphāṃs tathā ||
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके । (२६३।१)
brahmavarcasvinaḥ putrān svarṇarūpye sakupyake |
ज्ञातिश्रैष्ठ्यं सर्वकामान् आप्नोति श्राद्धदः सदा ॥ (२६३।२)
jñātiśraiṣṭhyaṃ sarvakāmān āpnoti śrāddhadaḥ sadā ||
प्रतिपत्प्रभृतिष्व् एकां वर्जयित्वा चतुर्दशीम् । (२६४।१)
pratipatprabhṛtiṣv ekāṃ varjayitvā caturdaśīm |
शस्त्रेण तु हता ये वै तेभ्यस् तत्र प्रदीयते ॥ (२६४।२)
śastreṇa tu hatā ye vai tebhyas tatra pradīyate ||
स्वर्गं ह्य् अपत्यम् ओजश् च शौर्यं क्षेत्रं बलं तथा । (२६५।१)
svargaṃ hy apatyam ojaś ca śauryaṃ kṣetraṃ balaṃ tathā |
पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥ (२६५।२)
putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham ||
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीन् अपि । (२६६।१)
pravṛttacakratāṃ caiva vāṇijyaprabhṛtīn api |
धनं वेदान् भिषक्सिद्धिं कुप्यं गा अप्य् अजाविकम् । (२६७।१)
dhanaṃ vedān bhiṣaksiddhiṃ kupyaṃ gā apy ajāvikam |
अश्वान् आयुश् च विधिवद् यः श्राद्धं सम्प्रयच्छति ॥ (२६७।२)
aśvān āyuś ca vidhivad yaḥ śrāddhaṃ samprayacchati ||
कृत्तिकादिभरण्यन्तं स कामान् आप्नुयाद् इमान् । (२६८।१)
kṛttikādibharaṇyantaṃ sa kāmān āpnuyād imān |
आस्तिकः श्रद्दधानश् च व्यपेतमदमत्सरः ॥ (२६८।२)
āstikaḥ śraddadhānaś ca vyapetamadamatsaraḥ ||
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । (२६९।१)
vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ |
प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ (२६९।२)
prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ ||
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । (२७०।१)
āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca |
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ (२७०।२)
prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ ||
११। गणपतिकल्पप्रकरणम्विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः । (२७१।१)
11. gaṇapatikalpaprakaraṇamvināyakaḥ karmavighnasiddhyarthaṃ viniyojitaḥ |
गणानाम् आधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥ (२७१।२)
gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā ||
स्वप्ने ऽवगाहते ऽत्यर्थं जलं मुण्डांश् च पश्यति ॥ (२७२।२)
svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃś ca paśyati ||
काषायवाससश् चैव क्रव्यादांश् चाधिरोहति । (२७३।१)
kāṣāyavāsasaś caiva kravyādāṃś cādhirohati |
अन्त्यजैर् गर्दभैर् उष्ट्रैः सहैकत्रावतिष्ठते ॥ (२७३।२)
antyajair gardabhair uṣṭraiḥ sahaikatrāvatiṣṭhate ||
व्रजन्न् अपि तथात्मानं मन्यते ऽनुगतं परैः । (२७४।१)
vrajann api tathātmānaṃ manyate 'nugataṃ paraiḥ |
विमना विफलारम्भः संसीदत्य् अनिमित्ततः ॥ (२७४।२)
vimanā viphalārambhaḥ saṃsīdaty animittataḥ ||
कुमारी च न भर्तारम् अपत्यं गर्भम् अङ्गना ॥ (२७५।२)
kumārī ca na bhartāram apatyaṃ garbham aṅganā ||
आचार्यत्वं श्रोत्रियश्च न शिष्यो ऽध्ययनं तथा । (२७६।१)
ācāryatvaṃ śrotriyaśca na śiṣyo 'dhyayanaṃ tathā |
वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः ॥ (२७६।२)
vaṇiglābhaṃ na cāpnoti kṛṣiṃ cāpi kṛṣīvalaḥ ||
स्नपनं तस्य कर्तव्यं पुण्ये ऽह्नि विधिपूर्वकम् । (२७७।१)
snapanaṃ tasya kartavyaṃ puṇye 'hni vidhipūrvakam |
सर्वौषधैः सर्वगन्धैर् विलिप्तशिरसस् तथा । (२७८।१)
sarvauṣadhaiḥ sarvagandhair viliptaśirasas tathā |
भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥ (२७८।२)
bhadrāsanopaviṣṭasya svastivācyā dvijāḥ śubhāḥ ||
अश्वस्थानाद् गजस्थानाद् वल्मीकात् संगमाद्ध्रदात् । (२७९।१)
aśvasthānād gajasthānād valmīkāt saṃgamāddhradāt |
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निक्षिपेत् ॥ (२७९।२)
mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu nikṣipet ||
या आहृता ह्य् एकवर्णैश् चतुर्भिः कलशैर् ह्रदात् । (२८०।१)
yā āhṛtā hy ekavarṇaiś caturbhiḥ kalaśair hradāt |
चर्मण्य् आनडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ (२८०।२)
carmaṇy ānaḍuhe rakte sthāpyaṃ bhadrāsanaṃ tataḥ ||
सहस्राक्षं शतधारम् ऋषिभिः पावनं कृतम् । (२८१।१)
sahasrākṣaṃ śatadhāram ṛṣibhiḥ pāvanaṃ kṛtam |
तेन त्वाम् अभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ (२८१।२)
tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te ||
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः । (२८२।१)
bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ |
भगम् इन्द्रश् च वायुश् च भगं सप्तर्षयो ददुः ॥ (२८२।२)
bhagam indraś ca vāyuś ca bhagaṃ saptarṣayo daduḥ ||
यत् ते केशेषु दौर्भाग्यं सीमन्ते यच् च मूर्धनि । (२८३।१)
yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani |
ललाटे कर्णयोर् अक्ष्णोर् आपस् तद् घ्नन्तु सर्वदा ॥ (२८३।२)
lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā ||
स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु । (२८४।१)
snātasya sārṣapaṃ tailaṃ sruveṇaudumbareṇa tu |
जुहुयान् मूर्धनि कुशान् सव्येन परिगृह्य च ॥ (२८४।२)
juhuyān mūrdhani kuśān savyena parigṛhya ca ||
कूश्माण्डो राजपुत्रश् चेत्य् अन्ते स्वाहासमन्वितैः ॥ (२८५।२)
kūśmāṇḍo rājaputraś cety ante svāhāsamanvitaiḥ ||
नामभिर् बलिमन्त्रैश् च नमस्कारसमन्वितैः । (२८६।१)
nāmabhir balimantraiś ca namaskārasamanvitaiḥ |
दद्याच् चतुष्पथे शूर्पे कुशान् आस्तीर्य सर्वतः ॥ (२८६।२)
dadyāc catuṣpathe śūrpe kuśān āstīrya sarvataḥ ||
कृताकृतांस् तण्डुलांश् च पललौदनम् एव च । (२८७।१)
kṛtākṛtāṃs taṇḍulāṃś ca palalaudanam eva ca |
मत्स्यान् पक्वांस् तथैवामान् मांसम् एतावद् एव तु ॥ (२८७।२)
matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu ||
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधाम् अपि । (२८८।१)
puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhām api |
मूलकं पूरिकापूपांस् तथैवोण्डेरकस्रजः ॥ (२८८।२)
mūlakaṃ pūrikāpūpāṃs tathaivoṇḍerakasrajaḥ ||
दध्य् अन्नं पायसं चैव गुडपिष्टं समोदकम् । (२८९।१)
dadhy annaṃ pāyasaṃ caiva guḍapiṣṭaṃ samodakam |
एतान् सर्वान् समाहृत्य भूमौ कृत्वा ततः शिरः ॥ (२८९।२)
etān sarvān samāhṛtya bhūmau kṛtvā tataḥ śiraḥ ||
विनायकस्य जननीम् उपतिष्ठेत् ततो ऽम्बिकाम् । (२९०।१)
vināyakasya jananīm upatiṣṭhet tato 'mbikām |
दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णम् अञ्जलिम् ॥ (२९०।२)
dūrvāsarṣapapuṣpāṇāṃ dattvārghyaṃ pūrṇam añjalim ||
रूपं देहि यशो देहि भगं भवति देहि मे । (२९१।१)
rūpaṃ dehi yaśo dehi bhagaṃ bhavati dehi me |
पुत्रान् देहि धनं देहि सर्वकामांश् च देहि मे ॥ (२९१।२)
putrān dehi dhanaṃ dehi sarvakāmāṃś ca dehi me ||
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । (२९२।१)
tataḥ śuklāmbaradharaḥ śuklamālyānulepanaḥ |
ब्राह्मणान् भोजयेद् दद्याद् वस्त्रयुग्मं गुरोर् अपि ॥ (२९२।२)
brāhmaṇān bhojayed dadyād vastrayugmaṃ guror api ||
एवं विनायकं पूज्य ग्रहांश् चैव विधानतः । (२९३।१)
evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ |
कर्मणां फलम् आप्नोति श्रियं चाप्नोत्य् अनुत्तमाम् ॥ (२९३।२)
karmaṇāṃ phalam āpnoti śriyaṃ cāpnoty anuttamām ||
आदित्यस्य सदा पूजां तिलकं स्वामिनस् तथा । (२९४।१)
ādityasya sadā pūjāṃ tilakaṃ svāminas tathā |
महागणपतेश् चैव कुर्वन् सिद्धिम् अवाप्नुयात् ॥ (२९४।२)
mahāgaṇapateś caiva kurvan siddhim avāpnuyāt ||
१२। ग्रहशान्तिप्रकरणम्श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । (२९५।१)
12. grahaśāntiprakaraṇamśrīkāmaḥ śāntikāmo vā grahayajñaṃ samācaret |
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्न् अपि ॥ (२९५।२)
vṛṣṭyāyuḥpuṣṭikāmo vā tathaivābhicarann api ||
सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः । (२९६।१)
sūryaḥ somo mahīputraḥ somaputro bṛhaspatiḥ |
शुक्रः शनैश्चरो राहुः केतुश् चेति ग्रहाः स्मृताः ॥ (२९६।२)
śukraḥ śanaiścaro rāhuḥ ketuś ceti grahāḥ smṛtāḥ ||
ताम्रकात् स्फटिकाद् रक्तचन्दनात् स्वर्णकाद् उभौ । (२९७।१)
tāmrakāt sphaṭikād raktacandanāt svarṇakād ubhau |
राजताद् अयसः सीसात् कांस्यात् कार्या ग्रहाः क्रमात् ॥ (२९७।२)
rājatād ayasaḥ sīsāt kāṃsyāt kāryā grahāḥ kramāt ||
स्ववर्णैर् वा पटे लेख्या गन्धैर् मण्डलकेषु वा । (२९८।१)
svavarṇair vā paṭe lekhyā gandhair maṇḍalakeṣu vā |
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ (२९८।२)
yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca ||
गन्धाश् च बलयश् चैव धूपो देयश् च गुग्गुलुः । (२९९।१)
gandhāś ca balayaś caiva dhūpo deyaś ca gugguluḥ |
कर्तव्या मन्त्रवन्तश् च चरवः प्रतिदैवतम् ॥ (२९९।२)
kartavyā mantravantaś ca caravaḥ pratidaivatam ||
आकृष्णेन इमं देवा अग्निर् मूर्धा दिवः ककुत् । (३००।१)
ākṛṣṇena imaṃ devā agnir mūrdhā divaḥ kakut |
उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ (३००।२)
udbudhyasveti ca ṛco yathāsaṃkhyaṃ prakīrtitāḥ ||
बृहस्पते ऽति यद् अर्यस् तथैवान्नात् परिस्रुतः । (३०१।१)
bṛhaspate 'ti yad aryas tathaivānnāt parisrutaḥ |
शं नो देवीस् तथा काण्डात् केतुं कृण्वन्न् इमांस् तथा ॥ (३०१।२)
śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā ||
अर्कः पलाशः खदिरो ऽपामार्गो ऽथ पिप्पलः । (३०२।१)
arkaḥ palāśaḥ khadiro 'pāmārgo 'tha pippalaḥ |
उदुम्बरः शमी दूर्वा कुशाश् च समिधः क्रमात् ॥ (३०२।२)
udumbaraḥ śamī dūrvā kuśāś ca samidhaḥ kramāt ||
एकैकस्य त्व् अष्टशतम् अष्टाविंशतिर् एव वा । (३०३।१)
ekaikasya tv aṣṭaśatam aṣṭāviṃśatir eva vā |
होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युताः ॥ (३०३।२)
hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa vā yutāḥ ||
गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् । (३०४।१)
guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam |
दध्योदनं हविश् चूर्णं मांसं चित्रान्नम् एव च ॥ (३०४।२)
dadhyodanaṃ haviś cūrṇaṃ māṃsaṃ citrānnam eva ca ||
दद्याद् ग्रहक्रमाद् एवं द्विजेभ्यो भोजनं बुधः । (३०५।१)
dadyād grahakramād evaṃ dvijebhyo bhojanaṃ budhaḥ |
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥ (३०५।२)
śaktito vā yathālābhaṃ satkṛtya vidhipūrvakam ||
धेनुः शङ्खस् तथानड्वान् हेम वासो हयः क्रमात् । (३०६।१)
dhenuḥ śaṅkhas tathānaḍvān hema vāso hayaḥ kramāt |
कृष्णा गौर् आयसं छाग एता वै दक्षिणाः स्मृताः ॥ (३०६।२)
kṛṣṇā gaur āyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ ||
यश् च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् । (३०७।१)
yaś ca yasya yadā duḥsthaḥ sa taṃ yatnena pūjayet |
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ (३०७।२)
brahmaṇaiṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyatha ||
ग्रहाधीना नरेन्द्राणाम् उच्छ्रायाः पतनानि च । (३०८।१)
grahādhīnā narendrāṇām ucchrāyāḥ patanāni ca |
भावाभावौ च जगतस् तस्मात् पूज्यतमा ग्रहाः ॥ (३०८।२)
bhāvābhāvau ca jagatas tasmāt pūjyatamā grahāḥ ||
ग्रहाणाम् इदम् आतिथ्यं कुर्यात् संवत्सराद् अपि । (३०९।१)
grahāṇām idam ātithyaṃ kuryāt saṃvatsarād api |
१३। राजधर्मप्रकरणम्महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः । (३१०।१)
13. rājadharmaprakaraṇammahotsāhaḥ sthūlalakṣaḥ kṛtajño vṛddhasevakaḥ |
विनीतः सत्त्वसम्पन्नः कुलीनः सत्यवाक् शुचिः ॥ (३१०।२)
vinītaḥ sattvasampannaḥ kulīnaḥ satyavāk śuciḥ ||
अदीर्घसूत्रः स्मृतिमान् अक्षुद्रो ऽपरुषस् तथा । (३११।१)
adīrghasūtraḥ smṛtimān akṣudro 'paruṣas tathā |
धार्मिको ऽव्यसनश् चैव प्राज्ञः शूरो रहस्यवित् ॥ (३११।२)
dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit ||
स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च । (३१२।१)
svarandhragoptānvīkṣikyāṃ daṇḍanītyāṃ tathaiva ca |
विनीतस् त्व् अथ वार्तायां त्रय्यां चैव नराधिपः ॥ (३१२।२)
vinītas tv atha vārtāyāṃ trayyāṃ caiva narādhipaḥ ||
स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान् शुचीन् । (३१३।१)
sa mantriṇaḥ prakurvīta prājñān maulān sthirān śucīn |
तैः सार्धं चिन्तयेद् राज्यं विप्रेणाथ ततः स्वयम् ॥ (३१३।२)
taiḥ sārdhaṃ cintayed rājyaṃ vipreṇātha tataḥ svayam ||
पुरोहितं प्रकुर्वीत दैवज्ञम् उदितोदितम् । (३१४।१)
purohitaṃ prakurvīta daivajñam uditoditam |
दण्डनीत्यां च कुशलम् अथर्वाङ्गिरसे तथा ॥ (३१४।२)
daṇḍanītyāṃ ca kuśalam atharvāṅgirase tathā ||
श्रौतस्मार्तक्रियाहेतोर् वृणुयाद् एव चर्त्विजः । (३१५।१)
śrautasmārtakriyāhetor vṛṇuyād eva cartvijaḥ |
यज्ञांश् चैव प्रकुर्वीत विधिवद् भूरिदक्षिणान् ॥ (३१५।२)
yajñāṃś caiva prakurvīta vidhivad bhūridakṣiṇān ||
भोगांश् च दद्याद् विप्रेभ्यो वसूनि विविधानि च । (३१६।१)
bhogāṃś ca dadyād viprebhyo vasūni vividhāni ca |
अक्षयो ऽयं निधी राज्ञां यद् विप्रेषूपपादितम् ॥ (३१६।२)
akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣūpapāditam ||
अस्कन्नम् अव्यथं चैव प्रायश्चित्तैर् अदूषितम् । (३१७।१)
askannam avyathaṃ caiva prāyaścittair adūṣitam |
अग्नेः सकाशाद् विप्राग्नौ हुतं श्रेष्ठम् इहोच्यते ॥ (३१७।२)
agneḥ sakāśād viprāgnau hutaṃ śreṣṭham ihocyate ||
अलब्धम् ईहेद् धर्मेण लब्धं यत्नेन पालयेत् । (३१८।१)
alabdham īhed dharmeṇa labdhaṃ yatnena pālayet |
पालितं वर्धयेन् नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ (३१८।२)
pālitaṃ vardhayen nītyā vṛddhaṃ pātreṣu nikṣipet ||
दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् । (३१९।१)
dattvā bhūmiṃ nibandhaṃ vā kṛtvā lekhyaṃ tu kārayet |
पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । (३२०।१)
paṭe vā tāmrapaṭṭe vā svamudroparicihnitam |
अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः ॥ (३२०।२)
abhilekhyātmano vaṃśyān ātmānaṃ ca mahīpatiḥ ||
स्वहस्तकालसम्पन्नं शासनं कारयेत् स्थिरम् ॥ (३२१।२)
svahastakālasampannaṃ śāsanaṃ kārayet sthiram ||
रम्यं पशव्यम् आजीव्यं जाङ्गलं देशम् आवसेत् । (३२२।१)
ramyaṃ paśavyam ājīvyaṃ jāṅgalaṃ deśam āvaset |
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥ (३२२।२)
tatra durgāṇi kurvīta janakośātmaguptaye ||
तत्र तत्र च निष्णातान् अध्यक्षान् कुशलान् शुचीन् । (३२३।१)
tatra tatra ca niṣṇātān adhyakṣān kuśalān śucīn |
प्रकुर्याद् आयकर्मान्तव्ययकर्मसु चोद्यतान् ॥ (३२३।२)
prakuryād āyakarmāntavyayakarmasu codyatān ||
नातः परतरो धर्मो नृपाणां यद् रणार्जितम् । (३२४।१)
nātaḥ parataro dharmo nṛpāṇāṃ yad raṇārjitam |
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश् चाभयं सदा ॥ (३२४।२)
viprebhyo dīyate dravyaṃ prajābhyaś cābhayaṃ sadā ||
य आहवेषु वध्यन्ते भूम्यर्थम् अपराङ्मुखाः । (३२५।१)
ya āhaveṣu vadhyante bhūmyartham aparāṅmukhāḥ |
अकूटैर् आयुधैर् यान्ति ते स्वर्गं योगिनो यथा ॥ (३२५।२)
akūṭair āyudhair yānti te svargaṃ yogino yathā ||
पदानि क्रतुतुल्यानि भग्नेष्व् अविनिवर्तिनाम् । (३२६।१)
padāni kratutulyāni bhagneṣv avinivartinām |
राजा सुकृतम् आदत्ते हतानां विपलायिनाम् ॥ (३२६।२)
rājā sukṛtam ādatte hatānāṃ vipalāyinām ||
तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् । (३२७।१)
tavāhaṃvādinaṃ klībaṃ nirhetiṃ parasaṃgatam |
न हन्याद् विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥ (३२७।२)
na hanyād vinivṛttaṃ ca yuddhaprekṣaṇakādikam ||
कृतरक्षः समुत्थाय पश्येद् आयव्ययौ स्वयम् । (३२८।१)
kṛtarakṣaḥ samutthāya paśyed āyavyayau svayam |
व्यवहारांस् ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ (३२८।२)
vyavahārāṃs tato dṛṣṭvā snātvā bhuñjīta kāmataḥ ||
हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् । (३२९।१)
hiraṇyaṃ vyāpṛtānītaṃ bhāṇḍāgāreṣu nikṣipet |
पश्येच् चारांस् ततो दूतान् प्रेषयेन् मन्त्रिसंगतः ॥ (३२९।२)
paśyec cārāṃs tato dūtān preṣayen mantrisaṃgataḥ ||
ततः स्वैरविहारी स्यान् मन्त्रिभिर् वा समागतः । (३३०।१)
tataḥ svairavihārī syān mantribhir vā samāgataḥ |
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ (३३०।२)
balānāṃ darśanaṃ kṛtvā senānyā saha cintayet ||
संध्याम् उपास्य शृणुयाच् चाराणां गूढभाषितम् । (३३१।१)
saṃdhyām upāsya śṛṇuyāc cārāṇāṃ gūḍhabhāṣitam |
गीतनृत्यैश् च भुञ्जीत पठेत् स्वाध्यायम् एव च ॥ (३३१।२)
gītanṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca ||
संविशेत् तूर्यघोषेण प्रतिबुध्येत् तथैव च । (३३२।१)
saṃviśet tūryaghoṣeṇa pratibudhyet tathaiva ca |
शास्त्राणि चिन्तयेद् बुद्ध्या सर्वकर्तव्यतास् तथा ॥ (३३२।२)
śāstrāṇi cintayed buddhyā sarvakartavyatās tathā ||
प्रेषयेच् च ततश् चारान् स्वेष्व् अन्येषु च सादरान् । (३३३।१)
preṣayec ca tataś cārān sveṣv anyeṣu ca sādarān |
ऋत्विक्पुरोहिताचार्यैर् आशीर्भिर् अभिनन्दितः ॥ (३३३।२)
ṛtvikpurohitācāryair āśīrbhir abhinanditaḥ ||
दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद् गां काञ्चनं महीम् । (३३४।१)
dṛṣṭvā jyotirvido vaidyān dadyād gāṃ kāñcanaṃ mahīm |
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥ (३३४।२)
naiveśikāni ca tataḥ śrotriyebhyo gṛhāṇi ca ||
ब्राह्मणेषु क्षमी स्निग्धेष्व् अजिह्मः क्रोधनो ऽरिषु । (३३५।१)
brāhmaṇeṣu kṣamī snigdheṣv ajihmaḥ krodhano 'riṣu |
स्याद् राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥ (३३५।२)
syād rājā bhṛtyavargeṣu prajāsu ca yathā pitā ||
पुण्यात् षड्भागम् आदत्ते न्यायेन परिपालयन् । (३३६।१)
puṇyāt ṣaḍbhāgam ādatte nyāyena paripālayan |
सर्वदानाधिकं यस्मात् प्रजानां परिपालनम् ॥ (३३६।२)
sarvadānādhikaṃ yasmāt prajānāṃ paripālanam ||
पीड्यमानाः प्रजा रक्षेत् कायस्थैश् च विशेषतः ॥ (३३७।२)
pīḍyamānāḥ prajā rakṣet kāyasthaiś ca viśeṣataḥ ||
अरक्ष्यमाणाः कुर्वन्ति यत्किंचित् किल्बिषं प्रजाः । (३३८।१)
arakṣyamāṇāḥ kurvanti yatkiṃcit kilbiṣaṃ prajāḥ |
तस्मात् तु नृपतेर् अर्धं यस्माद् गृह्णात्य् असौ करान् ॥ (३३८।२)
tasmāt tu nṛpater ardhaṃ yasmād gṛhṇāty asau karān ||
ये राष्ट्राधिकृतास् तेषां चारैर् ज्ञात्वा विचेष्टितम् । (३३९।१)
ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam |
साधून् संमानयेद् राजा विपरीतांश् च घातयेत् ॥ (३३९।२)
sādhūn saṃmānayed rājā viparītāṃś ca ghātayet ||
उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् । (३४०।१)
utkocajīvino dravyahīnān kṛtvā vivāsayet |
सद्दानमानसत्कारान् श्रोत्रियान् वासयेत् सदा ॥ (३४०।२)
saddānamānasatkārān śrotriyān vāsayet sadā ||
अन्यायेन नृपो राष्ट्रात् स्वकोशं यो ऽभिवर्धयेत् । (३४१।१)
anyāyena nṛpo rāṣṭrāt svakośaṃ yo 'bhivardhayet |
सो ऽचिराद् विगतश्रीको नाशम् एति सबान्धवः ॥ (३४१।२)
so 'cirād vigataśrīko nāśam eti sabāndhavaḥ ||
राज्ञः कुलं श्रियं प्राणांश् चादग्ध्वा न निवर्तते ॥ (३४२।२)
rājñaḥ kulaṃ śriyaṃ prāṇāṃś cādagdhvā na nivartate ||
य एव नृपतेर् धर्मः स्वराष्ट्रपरिपालने । (३४३।१)
ya eva nṛpater dharmaḥ svarāṣṭraparipālane |
तम् एव कृत्स्नम् आप्नोति परराष्ट्रं वशं नयन् ॥ (३४३।२)
tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan ||
यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः । (३४४।१)
yasmin deśe ya ācāro vyavahāraḥ kulasthitiḥ |
तथैव परिपाल्यो ऽसौ यदा वशम् उपागतः ॥ (३४४।२)
tathaiva paripālyo 'sau yadā vaśam upāgataḥ ||
मन्त्रमूलं यतो राज्यं तस्मान् मन्त्रं सुरक्षितम् । (३४५।१)
mantramūlaṃ yato rājyaṃ tasmān mantraṃ surakṣitam |
कुर्याद् यथास्य न विदुः कर्मणाम् आ फलोदयात् ॥ (३४५।२)
kuryād yathāsya na viduḥ karmaṇām ā phalodayāt ||
अरिर् मित्रम् उदासीनो ऽनन्तरस् तत्परः परः । (३४६।१)
arir mitram udāsīno 'nantaras tatparaḥ paraḥ |
क्रमशो मण्डलं चिन्त्यं सामादिभिर् उपक्रमैः ॥ (३४६।२)
kramaśo maṇḍalaṃ cintyaṃ sāmādibhir upakramaiḥ ||
उपायाः साम दानं च भेदो दण्डस् तथैव च । (३४७।१)
upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca |
सम्यक्प्रयुक्ताः सिध्येयुर् दण्डस् त्व् अगतिका गतिः ॥ (३४७।२)
samyakprayuktāḥ sidhyeyur daṇḍas tv agatikā gatiḥ ||
संधिं च विग्रहं यानम् आसनं संश्रयं तथा । (३४८।१)
saṃdhiṃ ca vigrahaṃ yānam āsanaṃ saṃśrayaṃ tathā |
द्वैधीभावं गुणान् एतान् यथावत् परिकल्पयेत् ॥ (३४८।२)
dvaidhībhāvaṃ guṇān etān yathāvat parikalpayet ||
यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् । (३४९।१)
yadā sasyaguṇopetaṃ pararāṣṭraṃ tadā vrajet |
दैवे पुरुषकारे च कर्मसिद्धिर् व्यवस्थिता । (३५०।१)
daive puruṣakāre ca karmasiddhir vyavasthitā |
तत्र दैवम् अभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ (३५०।२)
tatra daivam abhivyaktaṃ pauruṣaṃ paurvadehikam ||
केचिद् दैवात् स्वभावाद् वा कालात् पुरुषकारतः । (३५१।१)
kecid daivāt svabhāvād vā kālāt puruṣakārataḥ |
संयोगे केचिद् इच्छन्ति फलं कुशलबुद्धयः ॥ (३५१।२)
saṃyoge kecid icchanti phalaṃ kuśalabuddhayaḥ ||
यथा ह्य् एकेन चक्रेण रथस्य न गतिर् भवेत् । (३५२।१)
yathā hy ekena cakreṇa rathasya na gatir bhavet |
हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा यतः । (३५३।१)
hiraṇyabhūmilābhebhyo mitralabdhir varā yataḥ |
अतो यतेत तत्प्राप्त्यै रक्षेत् सत्यं समाहितः ॥ (३५३।२)
ato yateta tatprāptyai rakṣet satyaṃ samāhitaḥ ||
स्वाम्य् अमात्या जनो दुर्गं कोशो दण्डस् तथैव च । (३५४।१)
svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca |
मित्राण्य् एताः प्रकृतयो राज्यं सप्ताङ्गम् उच्यते ॥ (३५४।२)
mitrāṇy etāḥ prakṛtayo rājyaṃ saptāṅgam ucyate ||
तद् अवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । (३५५।१)
tad avāpya nṛpo daṇḍaṃ durvṛtteṣu nipātayet |
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ (३५५।२)
dharmo hi daṇḍarūpeṇa brahmaṇā nirmitaḥ purā ||
स नेतुं न्यायतो ऽशक्यो लुब्धेनाकृतबुद्धिना । (३५६।१)
sa netuṃ nyāyato 'śakyo lubdhenākṛtabuddhinā |
यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् । (३५७।१)
yathāśāstraṃ prayuktaḥ san sadevāsuramānavam |
जगद् आनन्दयेत् सर्वम् अन्यथा तत् प्रकोपयेत् ॥ (३५७।२)
jagad ānandayet sarvam anyathā tat prakopayet ||
सम्यक् तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ (३५८।२)
samyak tu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham ||
अपि भ्राता सुतो ऽर्घ्यो वा श्वशुरो मातुलो ऽपि वा । (३५९।१)
api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā |
नादण्ड्यो नाम राज्ञो ऽस्ति धर्माद् विचलितः स्वकात् ॥ (३५९।२)
nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt ||
यो दण्ड्यान् दण्डयेद् राजा सम्यग् वध्यांश् च घातयेत् । (३६०।१)
yo daṇḍyān daṇḍayed rājā samyag vadhyāṃś ca ghātayet |
इष्टं स्यात् क्रतुभिस् तेन समाप्तवरदक्षिणैः ॥ (३६०।२)
iṣṭaṃ syāt kratubhis tena samāptavaradakṣiṇaiḥ ||
इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । (३६१।१)
iti saṃcintya nṛpatiḥ kratutulyaphalaṃ pṛthak |
व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् ॥ (३६१।२)
vyavahārān svayaṃ paśyet sabhyaiḥ parivṛto 'nvaham ||
कुलानि जातीः श्रेणीश् च गणान् जानपदान् अपि । (३६२।१)
kulāni jātīḥ śreṇīś ca gaṇān jānapadān api |
स्वधर्माच् चलितान् राजा विनीय स्थापयेत् पथि ॥ (३६२।२)
svadharmāc calitān rājā vinīya sthāpayet pathi ||
जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । (३६३।१)
jālasūryamarīcisthaṃ trasareṇū rajaḥ smṛtam |
ते ऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥ (३६३।२)
te 'ṣṭau likṣā tu tās tisro rājasarṣapa ucyate ||
गौरस् तु ते त्रयः षट् ते यवो मध्यस् तु ते त्रयः । (३६४।१)
gauras tu te trayaḥ ṣaṭ te yavo madhyas tu te trayaḥ |
कृष्णलः पञ्च ते माषस् ते सुवर्णस् तु षोडश ॥ (३६४।२)
kṛṣṇalaḥ pañca te māṣas te suvarṇas tu ṣoḍaśa ||
पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् । (३६५।१)
palaṃ suvarṇāś catvāraḥ pañca vāpi prakīrtitam |
द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥ (३६५।२)
dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te ||
निष्कं सुवर्णाश् चत्वारः कार्षिकस् ताम्रिकः पणः ॥ (३६६।२)
niṣkaṃ suvarṇāś catvāraḥ kārṣikas tāmrikaḥ paṇaḥ ||
तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः ॥ (३६७।२)
tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ ||
धिग्दण्डस् त्व् अथ वाग्दण्डो धनदण्डो वधस् तथा । (३६८।१)
dhigdaṇḍas tv atha vāgdaṇḍo dhanadaṇḍo vadhas tathā |
योज्या व्यस्ताः समस्ता वा ह्य् अपराधवशाद् इमे ॥ (३६८।२)
yojyā vyastāḥ samastā vā hy aparādhavaśād ime ||
ज्ञात्वापराधं देशं च कालं बलम् अथापि वा । (३६९।१)
jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi vā |
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ (३६९।२)
vayaḥ karma ca vittaṃ ca daṇḍaṃ daṇḍyeṣu pātayet ||
Data courtesy of The Digital Corpus of Sanskrit.