याज्ञवल्क्यस्मृतिYājñavalkyasmṛti

YāSmṛ, 3

3 of 3 · 670 verses

Select a line for its word-by-word analysis.

1.1१.१

आशौचप्रकरणमूनद्विवर्षं निखनेन् न कुर्याद् उदकं ततः । (१।१)

āśaucaprakaraṇamūnadvivarṣaṃ nikhanen na kuryād udakaṃ tataḥ |

1.2१.२

आ श्मशानाद् अनुव्रज्य इतरो ज्ञातिभिर् वृतः ॥ (१।२)

ā śmaśānād anuvrajya itaro jñātibhir vṛtaḥ ||

2.1२.१

यमसूक्तं तथा गाथा जपद्भिर् लौकिकाग्निना । (२।१)

yamasūktaṃ tathā gāthā japadbhir laukikāgninā |

2.2२.२

स दग्धव्य उपेतश् चेद् आहिताग्न्यावृतार्थवत् ॥ (२।२)

sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat ||

3.1३.१

सप्तमाद् दशमाद् वापि ज्ञातयो ऽभ्युपयन्त्य् अपः । (३।१)

saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ |

3.2३.२

अप नः शोशुचद् अघम् अनेन पितृदिङ्मुखाः ॥ (३।२)

apa naḥ śośucad agham anena pitṛdiṅmukhāḥ ||

4.1४.१

एवं मातामहाचार्यप्रेतानाम् उदकक्रिया । (४।१)

evaṃ mātāmahācāryapretānām udakakriyā |

4.2४.२

कामोदकं सखिप्रत्तास्वस्रीयश्वशुरर्त्विजाम् ॥ (४।२)

kāmodakaṃ sakhiprattāsvasrīyaśvaśurartvijām ||

5.1५.१

सकृत् प्रसिञ्चन्त्य् उदकं नामगोत्रेण वाग्यताः । (५।१)

sakṛt prasiñcanty udakaṃ nāmagotreṇa vāgyatāḥ |

5.2५.२

न ब्रह्मचारिणः कुर्युर् उदकं पतितास् तथा ॥ (५।२)

na brahmacāriṇaḥ kuryur udakaṃ patitās tathā ||

6.1६.१

पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः । (६।१)

pākhaṇḍyanāśritāḥ stenā bhartṛghnyaḥ kāmagādikāḥ |

6.2६.२

सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ (६।२)

surāpya ātmatyāginyo nāśaucodakabhājanāḥ ||

7.1७.१

कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् । (७।१)

kṛtodakān samuttīrṇān mṛduśādvalasaṃsthitān |

7.2७.२

स्नातान् अपवदेयुस् तान् इतिहासैः पुरातनैः ॥ (७।२)

snātān apavadeyus tān itihāsaiḥ purātanaiḥ ||

8.1८.१

मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । (८।१)

mānuṣye kadalīstambhaniḥsāre sāramārgaṇam |

8.2८.२

करोति यः स संमूढो जलबुद्बुदसंनिभे ॥ (८।२)

karoti yaḥ sa saṃmūḍho jalabudbudasaṃnibhe ||

9.1९.१

पञ्चधा संभृतः कायो यदि पञ्चत्वम् आगतः । (९।१)

pañcadhā saṃbhṛtaḥ kāyo yadi pañcatvam āgataḥ |

9.2९.२

कर्मभिः स्वशरीरोत्थैस् तत्र का परिदेवना ॥ (९।२)

karmabhiḥ svaśarīrotthais tatra kā paridevanā ||

10.1१०.१

गन्त्री वसुमती नाशम् उदधिर् दैवतानि च । (१०।१)

gantrī vasumatī nāśam udadhir daivatāni ca |

10.2१०.२

फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ (१०।२)

phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati ||

11.1११.१

श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतो ऽवशः । (११।१)

śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ |

11.2११.२

अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ (११।२)

ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ ||

12.1१२.१

इति संश्रुत्य गच्छेयुर् गृहं बालपुरःसराः । (१२।१)

iti saṃśrutya gaccheyur gṛhaṃ bālapuraḥsarāḥ |

12.2१२.२

विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ (१२।२)

vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ ||

13.1१३.१

आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् । (१३।१)

ācamyāgnyādi salilaṃ gomayaṃ gaurasarṣapān |

13.2१३.२

प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ (१३।२)

praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ ||

14.1१४.१

प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनाम् अपि । (१४।१)

praveśanādikaṃ karma pretasaṃsparśinām api |

14.2१४.२

इच्छतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमान् ॥ (१४।२)

icchatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamān ||

15.1१५.१

आचार्यपितृउपाध्यायान् निर्हृत्यापि व्रती व्रती । (१५।१)

ācāryapitṛupādhyāyān nirhṛtyāpi vratī vratī |

15.2१५.२

संकटान्नं च नाश्नीयान् न च तैः सह संवसेत् ॥ (१५।२)

saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset ||

16.1१६.१

क्रीतलब्धाशना भूमौ स्वपेयुस् ते पृथक् क्षितौ । (१६।१)

krītalabdhāśanā bhūmau svapeyus te pṛthak kṣitau |

16.2१६.२

पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥ (१६।२)

piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam ||

17.1१७.१

जलम् एकाहम् आकाशे स्थाप्यं क्षीरं च मृन्मये । (१७।१)

jalam ekāham ākāśe sthāpyaṃ kṣīraṃ ca mṛnmaye |

17.2१७.२

वैतानौपासनाः कार्याः क्रियाश् च श्रुतिचोदनात् ॥ (१७।२)

vaitānaupāsanāḥ kāryāḥ kriyāś ca śruticodanāt ||

18.1१८.१

त्रिरात्रं दशरात्रं वा शावम् आशौचम् इष्यते । (१८।१)

trirātraṃ daśarātraṃ vā śāvam āśaucam iṣyate |

18.2१८.२

ऊनद्विवर्ष उभयोः सूतकं मातुर् एव हि ॥ (१८।२)

ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi ||

19.1१९.१

पित्रोस् तु सूतकं मातुस् तद् असृग्दर्शनाद् ध्रुवम् । (१९।१)

pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam |

19.2१९.२

तद् अहर् न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥ (१९।२)

tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt ||

20.1२०.१

अन्तरा जन्ममरणे शेषाहोभिर् विशुध्यति । (२०।१)

antarā janmamaraṇe śeṣāhobhir viśudhyati |

20.2२०.२

गर्भस्रावे मासतुल्या निशाः शुद्धेस् तु कारणम् ॥ (२०।२)

garbhasrāve māsatulyā niśāḥ śuddhes tu kāraṇam ||

21.1२१.१

हतानां नृपगोविप्रैर् अन्वक्षं चात्मघातिनाम् । (२१।१)

hatānāṃ nṛpagoviprair anvakṣaṃ cātmaghātinām |

21.2२१.२

प्रोषिते कालशेषः स्यात् पूर्णे दत्त्वोदकं शुचिः ॥ (२१।२)

proṣite kālaśeṣaḥ syāt pūrṇe dattvodakaṃ śuciḥ ||

22.1२२.१

क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु । (२२।१)

kṣatrasya dvādaśāhāni viśaḥ pañcadaśaiva tu |

22.2२२.२

त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ॥ (२२।२)

triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ ||

23.1२३.१

आ दन्तजन्मनः सद्या अचूडान् नैशिकी स्मृता । (२३।१)

ā dantajanmanaḥ sadyā acūḍān naiśikī smṛtā |

23.2२३.२

त्रिरात्रम् आ व्रतादेशाद् दशरात्रम् अतः परम् ॥ (२३।२)

trirātram ā vratādeśād daśarātram ataḥ param ||

24.1२४.१

अहस् त्व् अदत्तकन्यासु बालेषु च विशोधनम् । (२४।१)

ahas tv adattakanyāsu bāleṣu ca viśodhanam |

24.2२४.२

गुर्वन्तेवास्यनूचानम् आतुलश्रोत्रियेषु च ॥ (२४।२)

gurvantevāsyanūcānam ātulaśrotriyeṣu ca ||

25.1२५.१

अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च । (२५।१)

anauraseṣu putreṣu bhāryāsv anyagatāsu ca |

25.2२५.२

निवासराजनि प्रेते तद् अहः शुद्धिकारणम् ॥ (२५।२)

nivāsarājani prete tad ahaḥ śuddhikāraṇam ||

26.1२६.१

ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः क्वचित् । (२६।१)

brāhmaṇenānugantavyo na śūdro na dvijaḥ kvacit |

26.2२६.२

अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक् शुचिः ॥ (२६।२)

anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ ||

27.1२७.१

महीपतीनां नाशौचं हतानां विद्युता तथा । (२७।१)

mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā |

27.2२७.२

गोब्राह्मणार्थं संग्रामे यस्य चेच्छति भूमिपः ॥ (२७।२)

gobrāhmaṇārthaṃ saṃgrāme yasya cecchati bhūmipaḥ ||

28.1२८.१

ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् । (२८।१)

ṛtvijāṃ dīkṣitānāṃ ca yajñiyaṃ karma kurvatām |

28.2२८.२

सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ (२८।२)

satrivratibrahmacāridātṛbrahmavidāṃ tathā ||

29.1२९.१

दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । (२९।१)

dāne vivāhe yajñe ca saṃgrāme deśaviplave |

29.2२९.२

आपद्यपि हि कष्टायां सद्यः शौचं विधीयते ॥ (२९।२)

āpadyapi hi kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate ||

30.1३०.१

उदक्याशुचिभिः स्नायात् संस्पृष्टस् तैर् उपस्पृशेत् । (३०।१)

udakyāśucibhiḥ snāyāt saṃspṛṣṭas tair upaspṛśet |

30.2३०.२

अब्लिङ्गानि जपेच्चैव गायत्रीं मनसा सकृत् ॥ (३०।२)

abliṅgāni japeccaiva gāyatrīṃ manasā sakṛt ||

31.1३१.१

कालो ऽग्निः कर्म मृद् वायुर् मनो ज्ञानं तपो जलम् । (३१।१)

kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam |

31.2३१.२

पश्चात् तापो निराहारः सर्वे ऽमी शुद्धिहेतवः ॥ (३१।२)

paścāt tāpo nirāhāraḥ sarve 'mī śuddhihetavaḥ ||

32.1३२.१

अकार्यकारिणां दानं वेगो नद्याश् च शुद्धिकृत् । (३२।१)

akāryakāriṇāṃ dānaṃ vego nadyāś ca śuddhikṛt |

32.2३२.२

शोध्यस्य मृच्च तोयं च संन्यासो वै द्विजन्मनाम् ॥ (३२।२)

śodhyasya mṛcca toyaṃ ca saṃnyāso vai dvijanmanām ||

33.1३३.१

तपो वेदविदां क्षान्तिर् विदुषां वर्ष्मणो जलम् । (३३।१)

tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam |

33.2३३.२

जपः प्रच्छन्नपानानां मनसः सत्यम् उच्यते ॥ (३३।२)

japaḥ pracchannapānānāṃ manasaḥ satyam ucyate ||

34.1३४.१

भूतात्मनस् तपोविद्ये बुद्धेर् ज्ञानं विशोधनम् । (३४।१)

bhūtātmanas tapovidye buddher jñānaṃ viśodhanam |

34.2३४.२

क्षेत्रज्ञस्येश्वरज्ञानाद् विशुद्धिः परमा मता ॥ (३४।२)

kṣetrajñasyeśvarajñānād viśuddhiḥ paramā matā ||

35.1३५.१

आपद्धर्मप्रकरणम्क्षात्रेण कर्मणा जीवेद् विशां वाप्य् आपदि द्विजः । (३५।१)

āpaddharmaprakaraṇamkṣātreṇa karmaṇā jīved viśāṃ vāpy āpadi dvijaḥ |

35.2३५.२

निस्तीर्य ताम् अथात्मानं पावयित्वा न्यसेत् पथि ॥ (३५।२)

nistīrya tām athātmānaṃ pāvayitvā nyaset pathi ||

36.1३६.१

फलोपलक्षौमसोममनुष्यापूपवीरुधः । (३६।१)

phalopalakṣaumasomamanuṣyāpūpavīrudhaḥ |

36.2३६.२

तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम् ॥ (३६।२)

tilaudanarasakṣārān dadhi kṣīraṃ ghṛtaṃ jalam ||

37.1३७.१

शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः । (३७।१)

śastrāsavamadhūcchiṣṭaṃ madhu lākṣā ca barhiṣaḥ |

37.2३७.२

मृच्चर्मपुष्पकुतपकेशतक्रविषक्षितिः ॥ (३७।२)

mṛccarmapuṣpakutapakeśatakraviṣakṣitiḥ ||

38.1३८.१

कौशेयनीललवणमांसैकशफसीसकान् । (३८।१)

kauśeyanīlalavaṇamāṃsaikaśaphasīsakān |

38.2३८.२

शकार्द्रौषधिपिण्याकपशुगन्धांस् तथैव च ॥ (३८।२)

śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca ||

39.1३९.१

वैश्यवृत्त्यापि जीवन् नो विक्रीणीत कदाचन । (३९।१)

vaiśyavṛttyāpi jīvan no vikrīṇīta kadācana |

39.2३९.२

धर्मार्थं विक्रयं नेयास् तिला धान्येन तत्समाः ॥ (३९।२)

dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ ||

40.1४०.१

लाक्षालवणमांसानि पतनीयानि विक्रये । (४०।१)

lākṣālavaṇamāṃsāni patanīyāni vikraye |

40.2४०.२

पायो दधि च मद्यं च हीनवर्णकराणि तु ॥ (४०।२)

pāyo dadhi ca madyaṃ ca hīnavarṇakarāṇi tu ||

41.1४१.१

आपद्गतः सम्प्रगृह्णन् भुञ्जानो वा यतस् ततः । (४१।१)

āpadgataḥ sampragṛhṇan bhuñjāno vā yatas tataḥ |

41.2४१.२

न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ (४१।२)

na lipyetainasā vipro jvalanārkasamo hi saḥ ||

42.1४२.१

कृषिः शिल्पं भृतिर् विद्या कुसीदं शकटं गिरिः । (४२।१)

kṛṣiḥ śilpaṃ bhṛtir vidyā kusīdaṃ śakaṭaṃ giriḥ |

42.2४२.२

सेवानूपं नृपो भैक्षम् आपत्तौ जीवनानि तु ॥ (४२।२)

sevānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu ||

43.1४३.१

बुभुक्षितस् त्र्यहं स्थित्वा धान्यम् अब्राह्मणाद्धरेत् । (४३।१)

bubhukṣitas tryahaṃ sthitvā dhānyam abrāhmaṇāddharet |

43.2४३.२

प्रतिगृह्य तद् आख्येयम् अभियुक्तेन धर्मतः ॥ (४३।२)

pratigṛhya tad ākhyeyam abhiyuktena dharmataḥ ||

44.1४४.१

तस्य वृत्तं कुलं शीलं श्रुतम् अध्ययनं तपः । (४४।१)

tasya vṛttaṃ kulaṃ śīlaṃ śrutam adhyayanaṃ tapaḥ |

44.2४४.२

ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् ॥ (४४।२)

jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet ||

45.1४५.१

वानप्रस्थधर्मप्रकरणम्सुतविन्यस्तपत्नीकस् तया वानुगतो वनम् । (४५।१)

vānaprasthadharmaprakaraṇamsutavinyastapatnīkas tayā vānugato vanam |

45.2४५.२

वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ (४५।२)

vānaprastho brahmacārī sāgniḥ sopāsano vrajet ||

46.1४६.१

अफालकृष्टेनाग्नींश् च पितॄन् देवातिथीन् अपि । (४६।१)

aphālakṛṣṭenāgnīṃś ca pitṝn devātithīn api |

46.2४६.२

भृत्यांश् च तर्पयेत् श्मश्रुजटालोमभृद् आत्मवान् ॥ (४६।२)

bhṛtyāṃś ca tarpayet śmaśrujaṭālomabhṛd ātmavān ||

47.1४७.१

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा । (४७।१)

ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya vā |

47.2४७.२

अर्थस्य संचयं कुर्यात् कृतम् आश्वयुजे त्यजेत् ॥ (४७।२)

arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet ||

48.1४८.१

दान्तस् त्रिषवणस्नायी निवृत्तश् च प्रतिग्रहात् । (४८।१)

dāntas triṣavaṇasnāyī nivṛttaś ca pratigrahāt |

48.2४८.२

स्वाध्यायवान् दानशीलः सर्वसत्त्वहिते रतः ॥ (४८।२)

svādhyāyavān dānaśīlaḥ sarvasattvahite rataḥ ||

49.1४९.१

दन्तोलूखलिकः कालपक्वाशी वाश्मकुट्टकः । (४९।१)

dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ |

49.2४९.२

श्रौत्रं स्मार्तं फलस्नेहैः कर्म कुर्यात् तथा क्रियाः ॥ (४९।२)

śrautraṃ smārtaṃ phalasnehaiḥ karma kuryāt tathā kriyāḥ ||

50.1५०.१

चान्द्रायणैर् नयेत् कालं कृच्छ्रैर् वा वर्तयेत् सदा । (५०।१)

cāndrāyaṇair nayet kālaṃ kṛcchrair vā vartayet sadā |

50.2५०.२

पक्षे गते वाप्य् अश्नीयान् मासे वाहनि वा गते ॥ (५०।२)

pakṣe gate vāpy aśnīyān māse vāhani vā gate ||

51.1५१.१

स्वप्याद् भूमौ शुची रात्रौ दिवा सम्प्रपदैर् नयेत् । (५१।१)

svapyād bhūmau śucī rātrau divā samprapadair nayet |

51.2५१.२

स्थानासनविहारैर् वा योगाभ्यासेन वा तथा ॥ (५१।२)

sthānāsanavihārair vā yogābhyāsena vā tathā ||

52.1५२.१

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः । (५२।१)

grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ |

52.2५२.२

आर्द्रवासास् तु हेमन्ते शक्त्या वापि तपश् चरेत् ॥ (५२।२)

ārdravāsās tu hemante śaktyā vāpi tapaś caret ||

53.1५३.१

यः कण्टकैर् वितुदति चन्दनैर् यश् च लिम्पति । (५३।१)

yaḥ kaṇṭakair vitudati candanair yaś ca limpati |

53.2५३.२

अक्रुद्धो ऽपरितुष्टश् च समस्तस्य च तस्य च ॥ (५३।२)

akruddho 'parituṣṭaś ca samastasya ca tasya ca ||

54.1५४.१

अग्नीन् वाप्य् आत्मसात्कृत्वा वृक्षावासो मिताशनः । (५४।१)

agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ |

54.2५४.२

वानप्रस्थगृहेष्व् एव यात्रार्थं भैक्षम् आचरेत् ॥ (५४।२)

vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret ||

55.1५५.१

ग्रामाद् आहृत्य वा ग्रासान् अष्टौ भुञ्जीत वाग्यतः । (५५।१)

grāmād āhṛtya vā grāsān aṣṭau bhuñjīta vāgyataḥ |

55.2५५.२

वायुभक्षः प्रागुदीचीं गच्छेद् वावर्ष्मसंक्षयात् ॥ (५५।२)

vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt ||

56.1५६.१

यतिधर्मप्रकरणम्वनाद् गृहाद् वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् । (५६।१)

yatidharmaprakaraṇamvanād gṛhād vā kṛtveṣṭiṃ sārvavedasadakṣiṇām |

56.2५६.२

प्राजापत्यां तदन्ते तान् अग्नीन् आरोप्य चात्मनि ॥ (५६।२)

prājāpatyāṃ tadante tān agnīn āropya cātmani ||

57.1५७.१

अधीतवेदो जपकृत् पुत्रवान् अन्नदो ऽग्निमान् । (५७।१)

adhītavedo japakṛt putravān annado 'gnimān |

57.2५७.२

शक्त्या च यज्ञकृन् मोक्षे मनः कुर्यात् तु नान्यथा ॥ (५७।२)

śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā ||

58.1५८.१

सर्वभूतहितः शान्तस् त्रिदण्डी सकमण्डलुः । (५८।१)

sarvabhūtahitaḥ śāntas tridaṇḍī sakamaṇḍaluḥ |

58.2५८.२

एकारामः परिव्रज्य भिक्षार्थी ग्रामम् आश्रयेत् ॥ (५८।२)

ekārāmaḥ parivrajya bhikṣārthī grāmam āśrayet ||

59.1५९.१

अप्रमत्तश् चरेद् भैक्षं सायाह्ने ऽनभिलक्षितः । (५९।१)

apramattaś cared bhaikṣaṃ sāyāhne 'nabhilakṣitaḥ |

59.2५९.२

रहिते भिक्षुकैर् ग्रामे यात्रामात्रम् अलोलुपः ॥ (५९।२)

rahite bhikṣukair grāme yātrāmātram alolupaḥ ||

60.1६०.१

यतिपात्राणि मृद्वेणुदार्वलाबुमयानि च । (६०।१)

yatipātrāṇi mṛdveṇudārvalābumayāni ca |

60.2६०.२

सलिलं शुद्धिर् एतेषां गोवालैश् चावघर्षणम् ॥ (६०।२)

salilaṃ śuddhir eteṣāṃ govālaiś cāvagharṣaṇam ||

61.1६१.१

संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च । (६१।१)

saṃnirudhyendriyagrāmaṃ rāgadveṣau prahāya ca |

61.2६१.२

भयं हित्वा च भूतानाम् अमृतीभवति द्विजः ॥ (६१।२)

bhayaṃ hitvā ca bhūtānām amṛtībhavati dvijaḥ ||

62.1६२.१

कर्तव्याशयशुद्धिस् तु भिक्षुकेण विशेषतः । (६२।१)

kartavyāśayaśuddhis tu bhikṣukeṇa viśeṣataḥ |

62.2६२.२

ज्ञानोत्पत्तिनिमित्तत्वात् स्वातन्त्र्यकरणाय च ॥ (६२।२)

jñānotpattinimittatvāt svātantryakaraṇāya ca ||

63.1६३.१

अवेक्ष्या गर्भवासाश् च कर्मजा गतयस् तथा । (६३।१)

avekṣyā garbhavāsāś ca karmajā gatayas tathā |

63.2६३.२

आधयो व्याधयः क्लेशा जरा रूपविपर्ययः ॥ (६३।२)

ādhayo vyādhayaḥ kleśā jarā rūpaviparyayaḥ ||

64.1६४.१

भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः । (६४।१)

bhavo jātisahasreṣu priyāpriyaviparyayaḥ |

64.2६४.२

ध्यानयोगेन संपश्येत् सूक्ष्म आत्मात्मनि स्थितः ॥ (६४।२)

dhyānayogena saṃpaśyet sūkṣma ātmātmani sthitaḥ ||

65.1६५.१

नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः । (६५।१)

nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi saḥ |

65.2६५.२

अतो यद् आत्मनो ऽपथ्यं परेषां न तद् आचरेत् ॥ (६५।२)

ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret ||

66.1६६.१

सत्यम् अस्तेयम् अक्रोधो ह्रीः शौचं धीर् धृतिर् दमः । (६६।१)

satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ |

66.2६६.२

संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ॥ (६६।२)

saṃyatendriyatā vidyā dharmaḥ sarva udāhṛtaḥ ||

67.1६७.१

निःसरन्ति यथा लोहपिण्डात् तप्तात् स्फुलिङ्गकाः । (६७।१)

niḥsaranti yathā lohapiṇḍāt taptāt sphuliṅgakāḥ |

67.2६७.२

सकाशाद् आत्मनस् तद्वद् आत्मानः प्रभवन्ति हि ॥ (६७।२)

sakāśād ātmanas tadvad ātmānaḥ prabhavanti hi ||

68.1६८.१

तत्रात्मा हि स्वयं किंचित् कर्म किंचित् स्वभावतः । (६८।१)

tatrātmā hi svayaṃ kiṃcit karma kiṃcit svabhāvataḥ |

68.2६८.२

करोति किंचिद् अभ्यासाद् धर्माधर्मोभयात्मकम् ॥ (६८।२)

karoti kiṃcid abhyāsād dharmādharmobhayātmakam ||

69.1६९.१

निमित्तम् अक्षरः कर्ता बोद्धा गुणी वशी । (६९।१)

nimittam akṣaraḥ kartā boddhā guṇī vaśī |

69.2६९.२

अजः शरीरग्रहणात् स जात इति कीर्त्यते ॥ (६९।२)

ajaḥ śarīragrahaṇāt sa jāta iti kīrtyate ||

70.1७०.१

सर्गादौ स यथाकाशं वायुं ज्योतिर् जलं महीम् । (७०।१)

sargādau sa yathākāśaṃ vāyuṃ jyotir jalaṃ mahīm |

70.2७०.२

सृजत्य् एकोत्तरगुणांस् तथादत्ते भवन्न् अपि ॥ (७०।२)

sṛjaty ekottaraguṇāṃs tathādatte bhavann api ||

71.1७१.१

आहुत्याप्यायते सूर्यः सूर्याद् वृष्टिर् अथौषधिः । (७१।१)

āhutyāpyāyate sūryaḥ sūryād vṛṣṭir athauṣadhiḥ |

71.2७१.२

तद् अन्नं रसरूपेण शुक्रत्वम् अधिगच्छति ॥ (७१।२)

tad annaṃ rasarūpeṇa śukratvam adhigacchati ||

72.1७२.१

स्त्रीपुंसयोस् तु संयोगे विशुद्धे शुक्रशोणिते । (७२।१)

strīpuṃsayos tu saṃyoge viśuddhe śukraśoṇite |

72.2७२.२

पञ्चधातून् स्वयं षष्ठ आदत्ते युगपत् प्रभुः ॥ (७२।२)

pañcadhātūn svayaṃ ṣaṣṭha ādatte yugapat prabhuḥ ||

73.1७३.१

इन्द्रियाणि मनः प्राणो ज्ञानम् आयुः सुखं धृतिः । (७३।१)

indriyāṇi manaḥ prāṇo jñānam āyuḥ sukhaṃ dhṛtiḥ |

73.2७३.२

धारणा प्रेरणं दुःखम् इच्छाहंकार एव च ॥ (७३।२)

dhāraṇā preraṇaṃ duḥkham icchāhaṃkāra eva ca ||

74.1७४.१

प्रयत्न आकृतिर् वर्णः स्वरद्वेषौ भवाभवौ । (७४।१)

prayatna ākṛtir varṇaḥ svaradveṣau bhavābhavau |

74.2७४.२

तस्यैतद् आत्मजं सर्वम् अनादेर् आदिम् इच्छतः ॥ (७४।२)

tasyaitad ātmajaṃ sarvam anāder ādim icchataḥ ||

75.1७५.१

प्रथमे मासि संक्लेदभूतो धातुविमूर्छितः । (७५।१)

prathame māsi saṃkledabhūto dhātuvimūrchitaḥ |

75.2७५.२

मास्य् अर्बुदं द्वितीये तु तृतीये ऽङ्गेन्द्रियैर् युतः ॥ (७५।२)

māsy arbudaṃ dvitīye tu tṛtīye 'ṅgendriyair yutaḥ ||

76.1७६.१

आकाशाल् लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् । (७६।१)

ākāśāl lāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ balādikam |

76.2७६.२

वायोश् च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यम् एव च ॥ (७६।२)

vāyoś ca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyam eva ca ||

77.1७७.१

पित्तात् तु दर्शनं पक्तिम् औष्ण्यं रूपं प्रकाशिताम् । (७७।१)

pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām |

77.2७७.२

रसात् तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥ (७७।२)

rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam ||

78.1७८.१

भूमेर् गन्धं तथा घ्राणं गौरवं मूर्तिम् एव च । (७८।१)

bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca |

78.2७८.२

आत्मा गृह्णात्य् अजः सर्वं तृतीये स्पन्दते ततः ॥ (७८।२)

ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ ||

79.1७९.१

दौहृदस्याप्रदानेन गर्भो दोषम् अवाप्नुयात् । (७९।१)

dauhṛdasyāpradānena garbho doṣam avāpnuyāt |

79.2७९.२

वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियाः ॥ (७९।२)

vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ ||

80.1८०.१

स्थैर्यं चतुर्थे त्व् अङ्गानां पञ्चमे शोणितोद्भवः । (८०।१)

sthairyaṃ caturthe tv aṅgānāṃ pañcame śoṇitodbhavaḥ |

80.2८०.२

षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥ (८०।२)

ṣaṣṭhe balasya varṇasya nakharomṇāṃ ca saṃbhavaḥ ||

81.1८१.१

मनश्चैतन्ययुक्तो ऽसौ नाडीस्नायुसिरायुतः । (८१।१)

manaścaitanyayukto 'sau nāḍīsnāyusirāyutaḥ |

81.2८१.२

सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमान् अपि ॥ (८१।२)

saptame cāṣṭame caiva tvaṅmāṃsasmṛtimān api ||

82.1८२.१

पुनर् धात्रीं पुनर् घर्मम् ओजस् तस्य प्रधावति । (८२।१)

punar dhātrīṃ punar gharmam ojas tasya pradhāvati |

82.2८२.२

अष्टमे मास्य् अतो गर्भो जातः प्राणैर् वियुज्यते ॥ (८२।२)

aṣṭame māsy ato garbho jātaḥ prāṇair viyujyate ||

83.1८३.१

नवमे दशमे वापि प्रबलैः सूतिमारुतैः । (८३।१)

navame daśame vāpi prabalaiḥ sūtimārutaiḥ |

83.2८३.२

निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ (८३।२)

niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ ||

84.1८४.१

तस्य षोढा शरीराणि षट् त्वचो धारयन्ति च । (८४।१)

tasya ṣoḍhā śarīrāṇi ṣaṭ tvaco dhārayanti ca |

84.2८४.२

षडङ्गानि तथास्थ्नां च सह षष्ट्या शतत्रयम् ॥ (८४।२)

ṣaḍaṅgāni tathāsthnāṃ ca saha ṣaṣṭyā śatatrayam ||

85.1८५.१

स्थालैः सह चतुःषष्टिर् दन्ता वै विंशतिर् नखाः । (८५।१)

sthālaiḥ saha catuḥṣaṣṭir dantā vai viṃśatir nakhāḥ |

85.2८५.२

पाणिपादशलाकाश् च तेषां स्थानचतुष्टयम् ॥ (८५।२)

pāṇipādaśalākāś ca teṣāṃ sthānacatuṣṭayam ||

86.1८६.१

षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर् गुल्फेषु च चतुष्टयम् । (८६।१)

ṣaṣṭyaṅgulīnāṃ dve pārṣṇyor gulpheṣu ca catuṣṭayam |

86.2८६.२

चत्वार्यरत्निकास्थीनि जङ्घयोस् तावद् एव तु ॥ (८६।२)

catvāryaratnikāsthīni jaṅghayos tāvad eva tu ||

87.1८७.१

द्वे द्वे जानुकपोलोरुफलकांससमुद्भवे । (८७।१)

dve dve jānukapoloruphalakāṃsasamudbhave |

87.2८७.२

अक्षतालूषके श्रोणीफलके च विनिर्दिशेत् ॥ (८७।२)

akṣatālūṣake śroṇīphalake ca vinirdiśet ||

88.1८८.१

भगास्थ्य् एकं तथा पृष्ठे चत्वारिंशच्च पञ्च च । (८८।१)

bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśacca pañca ca |

88.2८८.२

ग्रीवा पञ्चदशास्थिः स्याज् जत्र्व् एकैकं तथा हनुः ॥ (८८।२)

grīvā pañcadaśāsthiḥ syāj jatrv ekaikaṃ tathā hanuḥ ||

89.1८९.१

तन्मूले द्वे ललाटाक्षिगण्डे नासा घनास्थिका । (८९।१)

tanmūle dve lalāṭākṣigaṇḍe nāsā ghanāsthikā |

89.2८९.२

पार्श्वकाः स्थालकैः सार्धम् अर्बुदैश् च द्विसप्ततिः ॥ (८९।२)

pārśvakāḥ sthālakaiḥ sārdham arbudaiś ca dvisaptatiḥ ||

90.1९०.१

द्वौ शङ्खकौ कपालानि चत्वारि शिरसस् तथा । (९०।१)

dvau śaṅkhakau kapālāni catvāri śirasas tathā |

90.2९०.२

उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ (९०।२)

uraḥ saptadaśāsthīni puruṣasyāsthisaṃgrahaḥ ||

91.1९१.१

गन्धरूपरसस्पर्शशब्दाश् च विषयाः स्मृताः । (९१।१)

gandharūparasasparśaśabdāś ca viṣayāḥ smṛtāḥ |

91.2९१.२

नासिका लोचने जिह्वा त्वक् श्रोत्रं च इन्द्रियाणि च ॥ (९१।२)

nāsikā locane jihvā tvak śrotraṃ ca indriyāṇi ca ||

92.1९२.१

हस्तौ पायुर् उपस्थं च जिह्वा पादौ च पञ्च वै । (९२।१)

hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai |

92.2९२.२

कर्मेन्द्रियाणि जानीयान् मनश् चैवोभयात्मकम् ॥ (९२।२)

karmendriyāṇi jānīyān manaś caivobhayātmakam ||

93.1९३.१

नाभिर् ओजो गुदं शुक्रं शोणितं शङ्खकौ तथा । (९३।१)

nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau tathā |

93.2९३.२

मूर्धांसकण्ठहृदयं प्राणस्यायतनानि तु ॥ (९३।२)

mūrdhāṃsakaṇṭhahṛdayaṃ prāṇasyāyatanāni tu ||

94.1९४.१

वपा वसावहननं नाभिः क्लोम यकृत् प्लिहा । (९४।१)

vapā vasāvahananaṃ nābhiḥ kloma yakṛt plihā |

94.2९४.२

क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानम् एव च ॥ (९४।२)

kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānam eva ca ||

95.1९५.१

आमाशयो ऽथ हृदयं स्थूलान्त्रं गुद एव च । (९५।१)

āmāśayo 'tha hṛdayaṃ sthūlāntraṃ guda eva ca |

95.2९५.२

उदरं च गुदौ कोष्ठ्यौ विस्तारो ऽयम् उदाहृतः ॥ (९५।२)

udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ ||

96.1९६.१

कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ । (९६।१)

kanīnike cākṣikūṭe śaṣkulī karṇapatrakau |

96.2९६.२

कर्णौ शङ्खौ भ्रुवौ दन्तवेष्टाव् ओष्ठौ ककुन्दरे ॥ (९६।२)

karṇau śaṅkhau bhruvau dantaveṣṭāv oṣṭhau kakundare ||

97.1९७.१

वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ । (९७।१)

vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātajau stanau |

97.2९७.२

उपजिह्वास्फिजौ बाहू जङ्घोरुषु च पिण्डिका ॥ (९७।२)

upajihvāsphijau bāhū jaṅghoruṣu ca piṇḍikā ||

98.1९८.१

तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके । (९८।१)

tālūdaraṃ bastiśīrṣaṃ cibuke galaśuṇḍike |

98.2९८.२

अवटश् चैवम् एतानि स्थानान्य् अत्र शरीरके ॥ (९८।२)

avaṭaś caivam etāni sthānāny atra śarīrake ||

99.1९९.१

अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च । (९९।१)

akṣikarṇacatuṣkaṃ ca paddhastahṛdayāni ca |

99.2९९.२

नव छिद्राणि तान्य् एव प्राणस्यायतनानि तु ॥ (९९।२)

nava chidrāṇi tāny eva prāṇasyāyatanāni tu ||

100.1१००.१

शिराः शतानि सप्तैव नव स्नायुशतानि च । (१००।१)

śirāḥ śatāni saptaiva nava snāyuśatāni ca |

100.2१००.२

धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥ (१००।२)

dhamanīnāṃ śate dve tu pañca peśīśatāni ca ||

101.1१०१.१

एकोनत्रिंशल्लक्षाणि तथा नव शतानि च । (१०१।१)

ekonatriṃśallakṣāṇi tathā nava śatāni ca |

101.2१०१.२

षट्पञ्चाशच्च जानीत सिरा धमनिसंज्ञिताः ॥ (१०१।२)

ṣaṭpañcāśacca jānīta sirā dhamanisaṃjñitāḥ ||

102.1१०२.१

त्रयो लक्षास् तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् । (१०२।१)

trayo lakṣās tu vijñeyāḥ śmaśrukeśāḥ śarīriṇām |

102.2१०२.२

सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ॥ (१०२।२)

saptottaraṃ marmaśataṃ dve ca saṃdhiśate tathā ||

103.1१०३.१

रोम्णां कोट्यस् तु पञ्चाशच्चतस्रः कोट्य एव च । (१०३।१)

romṇāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca |

103.2१०३.२

सप्तषष्टिस् तथा लक्षाः सार्धाः स्वेदायनैः सह ॥ (१०३।२)

saptaṣaṣṭis tathā lakṣāḥ sārdhāḥ svedāyanaiḥ saha ||

104.1१०४.१

वायवीयैर् विगण्यन्ते विभक्ताः परमाणवः । (१०४।१)

vāyavīyair vigaṇyante vibhaktāḥ paramāṇavaḥ |

104.2१०४.२

यद्य् अप्य् एको ऽनुवेत्त्य् एषां भावनां चैव संस्थितिम् ॥ (१०४।२)

yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim ||

105.1१०५.१

रसस्य नव विज्ञेया जलस्याञ्जलयो दश । (१०५।१)

rasasya nava vijñeyā jalasyāñjalayo daśa |

105.2१०५.२

सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ (१०५।२)

saptaiva tu purīṣasya raktasyāṣṭau prakīrtitāḥ ||

106.1१०६.१

षट् श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रम् एव च । (१०६।१)

ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca |

106.2१०६.२

वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वम् तु मस्तके ॥ (१०६।२)

vasā trayo dvau tu medo majjaikordhvam tu mastake ||

107.1१०७.१

श्लेष्मौजसस् तावद् एव रेतसस् तावद् एव तु । (१०७।१)

śleṣmaujasas tāvad eva retasas tāvad eva tu |

107.2१०७.२

इत्य् एतद् अस्थिरं वर्ष्म यस्य मोक्षाय कृत्य् असौ ॥ (१०७।२)

ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau ||

108.1१०८.१

द्वासप्ततिसहस्राणि हृदयाद् अभिनिःसृताः । (१०८।१)

dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ |

108.2१०८.२

हिताहिता नाम नाड्यस् तासां मध्ये शशिप्रभम् ॥ (१०८।२)

hitāhitā nāma nāḍyas tāsāṃ madhye śaśiprabham ||

109.1१०९.१

मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः । (१०९।१)

maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ |

109.2१०९.२

स ज्ञेयस् तं विदित्वेह पुनर् आजायते न तु ॥ (१०९।२)

sa jñeyas taṃ viditveha punar ājāyate na tu ||

110.1११०.१

ज्ञेयं चारण्यकम् अहं यद् आदित्याद् अवाप्तवान् । (११०।१)

jñeyaṃ cāraṇyakam ahaṃ yad ādityād avāptavān |

110.2११०.२

योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगम् अभीप्सता ॥ (११०।२)

yogaśāstraṃ ca matproktaṃ jñeyaṃ yogam abhīpsatā ||

111.1१११.१

अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् । (१११।१)

ananyaviṣayaṃ kṛtvā manobuddhismṛtīndriyam |

111.2१११.२

ध्येय आत्मा स्थितो यो ऽसौ हृदये दीपवत् प्रभुः ॥ (१११।२)

dhyeya ātmā sthito yo 'sau hṛdaye dīpavat prabhuḥ ||

112.1११२.१

यथाविधानेन पठन् सामगायम् अविच्युतम् । (११२।१)

yathāvidhānena paṭhan sāmagāyam avicyutam |

112.2११२.२

सावधानस् तद् अभ्यासात् परं ब्रह्माधिगच्छति ॥ (११२।२)

sāvadhānas tad abhyāsāt paraṃ brahmādhigacchati ||

113.1११३.१

अपरान्तकम् उल्लोप्यं मद्रकं प्रकरीं तथा । (११३।१)

aparāntakam ullopyaṃ madrakaṃ prakarīṃ tathā |

113.2११३.२

औवेणकं सरोबिन्दुम् उत्तरं गीतकानि च ॥ (११३।२)

auveṇakaṃ sarobindum uttaraṃ gītakāni ca ||

114.1११४.१

ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका । (११४।१)

ṛggāthā pāṇikā dakṣavihitā brahmagītikā |

114.2११४.२

गेयम् एतत् तदभ्यासकरणान् मोक्षसंज्ञितम् ॥ (११४।२)

geyam etat tadabhyāsakaraṇān mokṣasaṃjñitam ||

115.1११५.१

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । (११५।१)

vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ |

115.2११५.२

तालज्ञश् चाप्रयासेन मोक्षमार्गं नियच्छति ॥ (११५।२)

tālajñaś cāprayāsena mokṣamārgaṃ niyacchati ||

116.1११६.१

गीतज्ञो यदि योगेन नाप्नोति परमं पदम् । (११६।१)

gītajño yadi yogena nāpnoti paramaṃ padam |

116.2११६.२

रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ (११६।२)

rudrasyānucaro bhūtvā tenaiva saha modate ||

117.1११७.१

अनादिर् आत्मा कथितस् तस्यादिस् तु शरीरकम् । (११७।१)

anādir ātmā kathitas tasyādis tu śarīrakam |

117.2११७.२

आत्मनस् तु जगत् सर्वं जगतश् चात्मसंभवः ॥ (११७।२)

ātmanas tu jagat sarvaṃ jagataś cātmasaṃbhavaḥ ||

118.1११८.१

कथम् एतद् विमुह्यामः सदेवासुरमानवम् । (११८।१)

katham etad vimuhyāmaḥ sadevāsuramānavam |

118.2११८.२

जगदुद्भूतम् आत्मा च कथं तस्मिन् वदस्व नः ॥ (११८।२)

jagadudbhūtam ātmā ca kathaṃ tasmin vadasva naḥ ||

119.1११९.१

मोहजालम् अपास्येह पुरुषो दृश्यते हि यः । (११९।१)

mohajālam apāsyeha puruṣo dṛśyate hi yaḥ |

119.2११९.२

सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः ॥ (११९।२)

sahasrakarapannetraḥ sūryavarcāḥ sahasrakaḥ ||

120.1१२०.१

स आत्मा चैव यज्ञश् च विश्वरूपः प्रजापतिः । (१२०।१)

sa ātmā caiva yajñaś ca viśvarūpaḥ prajāpatiḥ |

120.2१२०.२

विराजः सो ऽन्नरूपेण यज्ञत्वम् उपगच्छति ॥ (१२०।२)

virājaḥ so 'nnarūpeṇa yajñatvam upagacchati ||

121.1१२१.१

यो द्रव्यदेवतात्यागसम्भूतो रस उत्तमः । (१२१।१)

yo dravyadevatātyāgasambhūto rasa uttamaḥ |

121.2१२१.२

देवान् संतर्प्य स रसो यजमानं फलेन च ॥ (१२१।२)

devān saṃtarpya sa raso yajamānaṃ phalena ca ||

122.1१२२.१

संयोज्य वायुना सोमं नीयते रश्मिभिस् ततः । (१२२।१)

saṃyojya vāyunā somaṃ nīyate raśmibhis tataḥ |

122.2१२२.२

ऋग्यजुःसामविहितं सौरं धामोपनीयते ॥ (१२२।२)

ṛgyajuḥsāmavihitaṃ sauraṃ dhāmopanīyate ||

123.1१२३.१

खमण्डलाद् असौ सूर्यः सृजत्य् अमृतम् उत्तमम् । (१२३।१)

khamaṇḍalād asau sūryaḥ sṛjaty amṛtam uttamam |

123.2१२३.२

यज् जन्म सर्वभूतानाम् अशनानशनात्मनाम् ॥ (१२३।२)

yaj janma sarvabhūtānām aśanānaśanātmanām ||

124.1१२४.१

तस्माद् अन्नात् पुनर् यज्ञः पुनर् अन्नं पुनः क्रतुः । (१२४।१)

tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ |

124.2१२४.२

एवम् एतद् अनाद्यन्तं चक्रं सम्परिवर्तते ॥ (१२४।२)

evam etad anādyantaṃ cakraṃ samparivartate ||

125.1१२५.१

अनादिर् आत्मा संभूतिर् विद्यते नान्तरात्मनः । (१२५।१)

anādir ātmā saṃbhūtir vidyate nāntarātmanaḥ |

125.2१२५.२

समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥ (१२५।२)

samavāyī tu puruṣo mohecchādveṣakarmajaḥ ||

126.1१२६.१

सहस्रात्मा मया यो व आदिदेव उदाहृतः । (१२६।१)

sahasrātmā mayā yo va ādideva udāhṛtaḥ |

126.2१२६.२

मुखबाहूरुपज्जाः स्युस् तस्य वर्णा यथाक्रमम् ॥ (१२६।२)

mukhabāhūrupajjāḥ syus tasya varṇā yathākramam ||

127.1१२७.१

पृथिवी पादतस् तस्य शिरसो द्यौर् अजायत । (१२७।१)

pṛthivī pādatas tasya śiraso dyaur ajāyata |

127.2१२७.२

नस्तः प्राणा दिशः श्रोत्रात् स्पर्शाद् वायुर् मुखाच्छिखी ॥ (१२७।२)

nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukhācchikhī ||

128.1१२८.१

मनसश् चन्द्रमा जातश् चक्षुषश् च दिवाकरः । (१२८।१)

manasaś candramā jātaś cakṣuṣaś ca divākaraḥ |

128.2१२८.२

जघनाद् अन्तरिक्षं च जगच्च सचराचरम् ॥ (१२८।२)

jaghanād antarikṣaṃ ca jagacca sacarācaram ||

129.1१२९.१

यद्य् एवं स कथं ब्रह्मन् पापयोनिषु जायते । (१२९।१)

yady evaṃ sa kathaṃ brahman pāpayoniṣu jāyate |

129.2१२९.२

ईश्वरः स कथं भावैर् अनिष्टैः सम्प्रयुज्यते ॥ (१२९।२)

īśvaraḥ sa kathaṃ bhāvair aniṣṭaiḥ samprayujyate ||

130.1१३०.१

करणैर् अन्वितस्यापि पूर्वं ज्ञानं कथं च न । (१३०।१)

karaṇair anvitasyāpi pūrvaṃ jñānaṃ kathaṃ ca na |

130.2१३०.२

वेत्ति सर्वगतां कस्मात् सर्वगो ऽपि न वेदनाम् ॥ (१३०।२)

vetti sarvagatāṃ kasmāt sarvago 'pi na vedanām ||

131.1१३१.१

अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः । (१३१।१)

antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ |

131.2१३१.२

दोषैः प्रयाति जीवो ऽयं भवं योनिशतेषु च ॥ (१३१।२)

doṣaiḥ prayāti jīvo 'yaṃ bhavaṃ yoniśateṣu ca ||

132.1१३२.१

अनन्ताश् च यथा भावाः शरीरेषु शरीरिणाम् । (१३२।१)

anantāś ca yathā bhāvāḥ śarīreṣu śarīriṇām |

132.2१३२.२

रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥ (१३२।२)

rūpāṇyapi tathaiveha sarvayoniṣu dehinām ||

133.1१३३.१

विपाकः कर्मणां प्रेत्य केषांचिद् इह जायते । (१३३।१)

vipākaḥ karmaṇāṃ pretya keṣāṃcid iha jāyate |

133.2१३३.२

इह वामुत्र वैकेषां भावस् तत्र प्रयोजनम् ॥ (१३३।२)

iha vāmutra vaikeṣāṃ bhāvas tatra prayojanam ||

134.1१३४.१

परद्रव्याण्य् अभिध्यायंस् तथानिष्टानि चिन्तयन् । (१३४।१)

paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan |

134.2१३४.२

वितथाभिनिवेशी च जायते ऽन्यासु योनिषु ॥ (१३४।२)

vitathābhiniveśī ca jāyate 'nyāsu yoniṣu ||

135.1१३५.१

पुरुषो ऽनृतवादी च पिशुनः परुषस् तथा । (१३५।१)

puruṣo 'nṛtavādī ca piśunaḥ paruṣas tathā |

135.2१३५.२

अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ (१३५।२)

anibaddhapralāpī ca mṛgapakṣiṣu jāyate ||

136.1१३६.१

अदत्तादाननिरतः परदारोपसेवकः । (१३६।१)

adattādānanirataḥ paradāropasevakaḥ |

136.2१३६.२

हिंसकश् चाविधानेन स्थावरेष्व् अभिजायते ॥ (१३६।२)

hiṃsakaś cāvidhānena sthāvareṣv abhijāyate ||

137.1१३७.१

आत्मज्ञः शौचवान् दान्तस् तपस्वी विजितेन्द्रियः । (१३७।१)

ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ |

137.2१३७.२

धर्मकृद् वेदविद्यावित् सात्त्विको देवयोनिताम् ॥ (१३७।२)

dharmakṛd vedavidyāvit sāttviko devayonitām ||

138.1१३८.१

असत्कार्यरतो ऽधीर आरम्भी विषयी च यः । (१३८।१)

asatkāryarato 'dhīra ārambhī viṣayī ca yaḥ |

138.2१३८.२

स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ (१३८।२)

sa rājaso manuṣyeṣu mṛto janmādhigacchati ||

139.1१३९.१

निद्रालुः क्रूरकृल् लुब्धो नास्तिको याचकस् तथा । (१३९।१)

nidrāluḥ krūrakṛl lubdho nāstiko yācakas tathā |

139.2१३९.२

प्रमादवान् भिन्नवृत्तो भवेत् तिर्यक्षु तामसः ॥ (१३९।२)

pramādavān bhinnavṛtto bhavet tiryakṣu tāmasaḥ ||

140.1१४०.१

रजसा तमसा चैवं समाविष्टो भ्रमन्न् इह । (१४०।१)

rajasā tamasā caivaṃ samāviṣṭo bhramann iha |

140.2१४०.२

भावैर् अनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ (१४०।२)

bhāvair aniṣṭaiḥ saṃyuktaḥ saṃsāraṃ pratipadyate ||

141.1१४१.१

मलिनो हि यथा आदर्शो रूपालोकस्य न क्षमः । (१४१।१)

malino hi yathā ādarśo rūpālokasya na kṣamaḥ |

141.2१४१.२

तथाविपक्वकरण आत्मज्ञानस्य न क्षमः ॥ (१४१।२)

tathāvipakvakaraṇa ātmajñānasya na kṣamaḥ ||

142.1१४२.१

कट्वेर्वारौ यथापक्वे मधुरः सन् रसो ऽपि न । (१४२।१)

kaṭvervārau yathāpakve madhuraḥ san raso 'pi na |

142.2१४२.२

प्राप्यते ह्य् आत्मनि तथा नापक्वकरणे ज्ञता ॥ (१४२।२)

prāpyate hy ātmani tathā nāpakvakaraṇe jñatā ||

143.1१४३.१

सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् । (१४३।१)

sarvāśrayāṃ nije dehe dehī vindati vedanām |

143.2१४३.२

योगी मुक्तश् च सर्वासां यो न चाप्नोति वेदनाम् ॥ (१४३।२)

yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām ||

144.1१४४.१

आकाशम् एकं हि यथा घटादिषु पृथग् भवेत् । (१४४।१)

ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet |

144.2१४४.२

तथात्मा एको ह्य् अनेकश् च जलाधारेष्व् इवांशुमान् ॥ (१४४।२)

tathātmā eko hy anekaś ca jalādhāreṣv ivāṃśumān ||

145.1१४५.१

ब्रह्मखानिलतेजांसि जलं भूश् चेति धातवः । (१४५।१)

brahmakhānilatejāṃsi jalaṃ bhūś ceti dhātavaḥ |

145.2१४५.२

इमे लोका एष चात्मा तस्माच्च सचराचरम् ॥ (१४५।२)

ime lokā eṣa cātmā tasmācca sacarācaram ||

146.1१४६.१

मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् । (१४६।१)

mṛddaṇḍacakrasaṃyogāt kumbhakāro yathā ghaṭam |

146.2१४६.२

करोति तृणमृत्काष्ठैर् गृहं वा गृहकारकः ॥ (१४६।२)

karoti tṛṇamṛtkāṣṭhair gṛhaṃ vā gṛhakārakaḥ ||

147.1१४७.१

हेममात्रम् उपादाय रूपं वा हेमकारकः । (१४७।१)

hemamātram upādāya rūpaṃ vā hemakārakaḥ |

147.2१४७.२

निजलालासमायोगात् कोशं वा कोशकारकः ॥ (१४७।२)

nijalālāsamāyogāt kośaṃ vā kośakārakaḥ ||

148.1१४८.१

कारणान्य् एवम् आदाय तासु तास्व् इह योनिषु । (१४८।१)

kāraṇāny evam ādāya tāsu tāsv iha yoniṣu |

148.2१४८.२

सृजत्य् आत्मानम् आत्मा च सम्भूय करणानि च ॥ (१४८।२)

sṛjaty ātmānam ātmā ca sambhūya karaṇāni ca ||

149.1१४९.१

महाभूतानि सत्यानि यथात्मापि तथैव हि । (१४९।१)

mahābhūtāni satyāni yathātmāpi tathaiva hi |

149.2१४९.२

को ऽन्यथैकेन नेत्रेण दृष्टम् अन्येन पश्यति ॥ (१४९।२)

ko 'nyathaikena netreṇa dṛṣṭam anyena paśyati ||

150.1१५०.१

वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् । (१५०।१)

vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām |

150.2१५०.२

अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ (१५०।२)

atītārthasmṛtiḥ kasya ko vā svapnasya kārakaḥ ||

151.1१५१.१

जातिरूपवयोवृत्तविद्यादिभिर् अहंकृतः । (१५१।१)

jātirūpavayovṛttavidyādibhir ahaṃkṛtaḥ |

151.2१५१.२

शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥ (१५१।२)

śabdādiviṣayodyogaṃ karmaṇā manasā girā ||

152.1१५२.१

स संदिग्धमतिः कर्मफलम् अस्ति न वेति वा । (१५२।१)

sa saṃdigdhamatiḥ karmaphalam asti na veti vā |

152.2१५२.२

विप्लुतः सिद्धम् आत्मानम् असिद्धो ऽपि हि मन्यते ॥ (१५२।२)

viplutaḥ siddham ātmānam asiddho 'pi hi manyate ||

153.1१५३.१

मम दाराः सुतामात्या अहम् एषाम् इति स्थितिः । (१५३।१)

mama dārāḥ sutāmātyā aham eṣām iti sthitiḥ |

153.2१५३.२

हिताहितेषु भावेषु विपरीतमतिः सदा ॥ (१५३।२)

hitāhiteṣu bhāveṣu viparītamatiḥ sadā ||

154.1१५४.१

ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान् । (१५४।१)

jñeyajñe prakṛtau caiva vikāre cāviśeṣavān |

154.2१५४.२

अनाशकानलाघातजलप्रपतनोद्यमी ॥ (१५४।२)

anāśakānalāghātajalaprapatanodyamī ||

155.1१५५.१

एवंवृत्तो ऽविनीतात्मा वितथाभिनिवेशवान् । (१५५।१)

evaṃvṛtto 'vinītātmā vitathābhiniveśavān |

155.2१५५.२

कर्मणा द्वेषमोहाभ्याम् इच्छया चैव बध्यते ॥ (१५५।२)

karmaṇā dveṣamohābhyām icchayā caiva badhyate ||

156.1१५६.१

आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता । (१५६।१)

ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā |

156.2१५६.२

तत्कर्मणाम् अनुष्ठानं सङ्गः सद्भिर् गिरः शुभाः ॥ (१५६।२)

tatkarmaṇām anuṣṭhānaṃ saṅgaḥ sadbhir giraḥ śubhāḥ ||

157.1१५७.१

स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् । (१५७।१)

stryālokālambhavigamaḥ sarvabhūtātmadarśanam |

157.2१५७.२

त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ (१५७।२)

tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam ||

158.1१५८.१

विषयेन्द्रियसंरोधस् तन्द्रालस्यविवर्जनम् । (१५८।१)

viṣayendriyasaṃrodhas tandrālasyavivarjanam |

158.2१५८.२

शरीरपरिसंख्यानं प्रवृत्तिष्व् अघदर्शनम् ॥ (१५८।२)

śarīraparisaṃkhyānaṃ pravṛttiṣv aghadarśanam ||

159.1१५९.१

नीरजस्तमसा सत्त्वशुद्धिर् निःस्पृहता शमः । (१५९।१)

nīrajastamasā sattvaśuddhir niḥspṛhatā śamaḥ |

159.2१५९.२

एतैर् उपायैः संशुद्धः सत्त्वयोग्य् अमृतीभवेत् ॥ (१५९।२)

etair upāyaiḥ saṃśuddhaḥ sattvayogy amṛtībhavet ||

160.1१६०.१

तत्त्वस्मृतेर् उपस्थानात् सत्त्वयोगात् परिक्षयात् । (१६०।१)

tattvasmṛter upasthānāt sattvayogāt parikṣayāt |

160.2१६०.२

कर्मणां संनिकर्षाच्च सतां योगः प्रवर्तते ॥ (१६०।२)

karmaṇāṃ saṃnikarṣācca satāṃ yogaḥ pravartate ||

161.1१६१.१

शरीरसंक्षये यस्य मनः सत्त्वस्थम् ईश्वरम् । (१६१।१)

śarīrasaṃkṣaye yasya manaḥ sattvastham īśvaram |

161.2१६१.२

अविप्लुतमतिः सम्यक् स जातिसंस्मरताम् इयात् ॥ (१६१।२)

aviplutamatiḥ samyak sa jātisaṃsmaratām iyāt ||

162.1१६२.१

यथा हि भरतो वर्णैर् वर्णयत्य् आत्मनस् तनुम् । (१६२।१)

yathā hi bharato varṇair varṇayaty ātmanas tanum |

162.2१६२.२

नानारूपाणि कुर्वाणस् तथात्मा कर्मजास् तनूः ॥ (१६२।२)

nānārūpāṇi kurvāṇas tathātmā karmajās tanūḥ ||

163.1१६३.१

कालकर्मात्मबीजानां दोषैर् मातुस् तथैव च । (१६३।१)

kālakarmātmabījānāṃ doṣair mātus tathaiva ca |

163.2१६३.२

गर्भस्य वैकृतं दृष्टम् अङ्गहीनादि जन्मनः ॥ (१६३।२)

garbhasya vaikṛtaṃ dṛṣṭam aṅgahīnādi janmanaḥ ||

164.1१६४.१

अहंकारेण मनसा गत्या कर्मफलेन च । (१६४।१)

ahaṃkāreṇa manasā gatyā karmaphalena ca |

164.2१६४.२

शरीरेण च नात्मायं मुक्तपूर्वः कथंचन ॥ (१६४।२)

śarīreṇa ca nātmāyaṃ muktapūrvaḥ kathaṃcana ||

165.1१६५.१

वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः । (१६५।१)

vartyādhārasnehayogād yathā dīpasya saṃsthitiḥ |

165.2१६५.२

विक्रियापि च दृष्टैवम् अकाले प्राणसंक्षयः ॥ (१६५।२)

vikriyāpi ca dṛṣṭaivam akāle prāṇasaṃkṣayaḥ ||

166.1१६६.१

अनन्ता रश्मयस् तस्य दीपवद् यः स्थितो हृदि । (१६६।१)

anantā raśmayas tasya dīpavad yaḥ sthito hṛdi |

166.2१६६.२

सितासिताः कर्बुरूपाः कपिला नीललोहिताः ॥ (१६६।२)

sitāsitāḥ karburūpāḥ kapilā nīlalohitāḥ ||

167.1१६७.१

ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्यमण्डलम् । (१६७।१)

ūrdhvam ekaḥ sthitas teṣāṃ yo bhittvā sūryamaṇḍalam |

167.2१६७.२

ब्रह्मलोकम् अतिक्रम्य तेन याति परां गतिम् ॥ (१६७।२)

brahmalokam atikramya tena yāti parāṃ gatim ||

168.1१६८.१

यद् अस्यान्यद् रश्मिशतम् ऊर्ध्वम् एव व्यवस्थितम् । (१६८।१)

yad asyānyad raśmiśatam ūrdhvam eva vyavasthitam |

168.2१६८.२

तेन देवशरीराणि सधामानि प्रपद्यते ॥ (१६८।२)

tena devaśarīrāṇi sadhāmāni prapadyate ||

169.1१६९.१

ये ऽनेकरूपाश् चाधस्ताद् रश्मयो ऽस्य मृदुप्रभाः । (१६९।१)

ye 'nekarūpāś cādhastād raśmayo 'sya mṛduprabhāḥ |

169.2१६९.२

इह कर्मोपभोगाय तैः संसरति सो ऽवशः ॥ (१६९।२)

iha karmopabhogāya taiḥ saṃsarati so 'vaśaḥ ||

170.1१७०.१

वेदैः शास्त्रैः सविज्ञानैर् जन्मना मरणेन च । (१७०।१)

vedaiḥ śāstraiḥ savijñānair janmanā maraṇena ca |

170.2१७०.२

आर्त्या गत्या तथागत्या सत्येन ह्य् अनृतेन च ॥ (१७०।२)

ārtyā gatyā tathāgatyā satyena hy anṛtena ca ||

171.1१७१.१

श्रेयसा सुखदुःखाभ्यां कर्मभिश् च शुभाशुभैः । (१७१।१)

śreyasā sukhaduḥkhābhyāṃ karmabhiś ca śubhāśubhaiḥ |

171.2१७१.२

निमित्तशाकुनज्ञानग्रहसंयोगजैः फलैः ॥ (१७१।२)

nimittaśākunajñānagrahasaṃyogajaiḥ phalaiḥ ||

172.1१७२.१

तारानक्षत्रसंचारैर् जागरैः स्वप्नजैर् अपि । (१७२।१)

tārānakṣatrasaṃcārair jāgaraiḥ svapnajair api |

172.2१७२.२

आकाशपवनज्योतिर्जलभूतिमिरैस् तथा ॥ (१७२।२)

ākāśapavanajyotirjalabhūtimirais tathā ||

173.1१७३.१

मन्वन्तरैर् युगप्राप्त्या मन्त्रौषधिफलैर् अपि । (१७३।१)

manvantarair yugaprāptyā mantrauṣadhiphalair api |

173.2१७३.२

वित्तात्मानं वेद्यमानं कारणं जगतस् तथा ॥ (१७३।२)

vittātmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā ||

174.1१७४.१

अहंकारः स्मृतिर् मेधा द्वेषो बुद्धिः सुखं धृतिः । (१७४।१)

ahaṃkāraḥ smṛtir medhā dveṣo buddhiḥ sukhaṃ dhṛtiḥ |

174.2१७४.२

इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥ (१७४।२)

indriyāntarasaṃcāra icchā dhāraṇajīvite ||

175.1१७५.१

स्वर्गः स्वप्नश् च भावानां प्रेरणं मनसो गतिः । (१७५।१)

svargaḥ svapnaś ca bhāvānāṃ preraṇaṃ manaso gatiḥ |

175.2१७५.२

निमेषश् चेतना यत्न आदानं पाञ्चभौतिकम् ॥ (१७५।२)

nimeṣaś cetanā yatna ādānaṃ pāñcabhautikam ||

176.1१७६.१

यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः । (१७६।१)

yata etāni dṛśyante liṅgāni paramātmanaḥ |

176.2१७६.२

तस्माद् अस्ति परो देहाद् आत्मा सर्वग ईश्वरः ॥ (१७६।२)

tasmād asti paro dehād ātmā sarvaga īśvaraḥ ||

177.1१७७.१

बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च । (१७७।१)

buddhīndriyāṇi sārthāni manaḥ karmendriyāṇi ca |

177.2१७७.२

अहंकारश् च बुद्धिश् च पृथिव्यादीनि चैव हि ॥ (१७७।२)

ahaṃkāraś ca buddhiś ca pṛthivyādīni caiva hi ||

178.1१७८.१

अव्यक्तम् आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते । (१७८।१)

avyaktam ātmā kṣetrajñaḥ kṣetrasyāsya nigadyate |

178.2१७८.२

ईश्वरः सर्वभूतस्थः सन्न् असन् सद् असच्च यः ॥ (१७८।२)

īśvaraḥ sarvabhūtasthaḥ sann asan sad asacca yaḥ ||

179.1१७९.१

बुद्धेर् उत्पत्तिर् अव्यक्तात् ततो ऽहंकारसंभवः । (१७९।१)

buddher utpattir avyaktāt tato 'haṃkārasaṃbhavaḥ |

179.2१७९.२

तन्मात्रादीन्य् अहंकाराद् एकोत्तरगुणानि च ॥ (१७९।२)

tanmātrādīny ahaṃkārād ekottaraguṇāni ca ||

180.1१८०.१

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च तद्गुणाः । (१८०।१)

śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ |

180.2१८०.२

यो यस्मान् निःसृतश् चैषां स तस्मिन्न् एव लीयते ॥ (१८०।२)

yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate ||

181.1१८१.१

यथात्मानं सृजत्य् आत्मा तथा वः कथितो मया । (१८१।१)

yathātmānaṃ sṛjaty ātmā tathā vaḥ kathito mayā |

181.2१८१.२

विपाकात् त्रिप्रकाराणां कर्मणाम् ईश्वरो ऽपि सन् ॥ (१८१।२)

vipākāt triprakārāṇāṃ karmaṇām īśvaro 'pi san ||

182.1१८२.१

सत्त्वं रजस् तमश् चैव गुणास् तस्यैव कीर्तिताः । (१८२।१)

sattvaṃ rajas tamaś caiva guṇās tasyaiva kīrtitāḥ |

182.2१८२.२

रजस्तमोभ्याम् आविष्टश् चक्रवद् भ्राम्यते ह्य् असौ ॥ (१८२।२)

rajastamobhyām āviṣṭaś cakravad bhrāmyate hy asau ||

183.1१८३.१

अनादिर् आदिमांश् चैव स एव पुरुषः परः । (१८३।१)

anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ |

183.2१८३.२

लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः ॥ (१८३।२)

liṅgendriyagrāhyarūpaḥ savikāra udāhṛtaḥ ||

184.1१८४.१

पितृयानो ऽजवीथ्याश् च यद् अगस्त्यस्य चान्तरम् । (१८४।१)

pitṛyāno 'javīthyāś ca yad agastyasya cāntaram |

184.2१८४.२

तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति ॥ (१८४।२)

tenāgnihotriṇo yānti svargakāmā divaṃ prati ||

185.1१८५.१

ये च दानपराः सम्यग् अष्टाभिश् च गुणैर् युताः । (१८५।१)

ye ca dānaparāḥ samyag aṣṭābhiś ca guṇair yutāḥ |

185.2१८५.२

ते ऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥ (१८५।२)

te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ ||

186.1१८६.१

तत्राष्टाशीतिसाहस्रमुनयो गृहमेधिनः । (१८६।१)

tatrāṣṭāśītisāhasramunayo gṛhamedhinaḥ |

186.2१८६.२

पुनरावर्तिनो बीजभूता धर्मप्रवर्तकाः ॥ (१८६।२)

punarāvartino bījabhūtā dharmapravartakāḥ ||

187.1१८७.१

सप्तर्षिनागवीथ्यन्तर् देवलोकं समाश्रिताः । (१८७।१)

saptarṣināgavīthyantar devalokaṃ samāśritāḥ |

187.2१८७.२

तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ (१८७।२)

tāvanta eva munayaḥ sarvārambhavivarjitāḥ ||

188.1१८८.१

तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया । (१८८।१)

tapasā brahmacaryeṇa saṅgatyāgena medhayā |

188.2१८८.२

तत्र गत्वावतिष्ठन्ते यावद् आभूतसंप्लवम् ॥ (१८८।२)

tatra gatvāvatiṣṭhante yāvad ābhūtasaṃplavam ||

189.1१८९.१

यतो वेदाः पुराणानि विद्योपनिषदस् तथा । (१८९।१)

yato vedāḥ purāṇāni vidyopaniṣadas tathā |

189.2१८९.२

श्लोकाः सूत्राणि भाष्याणि यच्च किंचन वाङ्मयम् ॥ (१८९।२)

ślokāḥ sūtrāṇi bhāṣyāṇi yacca kiṃcana vāṅmayam ||

190.1१९०.१

वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः । (१९०।१)

vedānuvacanaṃ yajño brahmacaryaṃ tapo damaḥ |

190.2१९०.२

श्रद्धोपवासः स्वातन्त्र्यम् आत्मनो ज्ञानहेतवः ॥ (१९०।२)

śraddhopavāsaḥ svātantryam ātmano jñānahetavaḥ ||

191.1१९१.१

स ह्य् आश्रमैर् विजिज्ञास्यः समस्तैर् एवम् एव तु । (१९१।१)

sa hy āśramair vijijñāsyaḥ samastair evam eva tu |

191.2१९१.२

द्रष्टव्यस् त्व् अथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः ॥ (१९१।२)

draṣṭavyas tv atha mantavyaḥ śrotavyaś ca dvijātibhiḥ ||

192.1१९२.१

य एनम् एवं विन्दन्ति ये वारण्यकम् आश्रिताः । (१९२।१)

ya enam evaṃ vindanti ye vāraṇyakam āśritāḥ |

192.2१९२.२

उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ (१९२।२)

upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ ||

193.1१९३.१

क्रमात् ते सम्भवन्त्य् अर्चिर् अहः शुक्लं तथोत्तरम् । (१९३।१)

kramāt te sambhavanty arcir ahaḥ śuklaṃ tathottaram |

193.2१९३.२

अयनं देवलोकं च सवितारं सवैद्युतम् ॥ (१९३।२)

ayanaṃ devalokaṃ ca savitāraṃ savaidyutam ||

194.1१९४.१

ततस् तान् पुरुषो ऽभ्येत्य मानसो ब्रह्मलौकिकान् । (१९४।१)

tatas tān puruṣo 'bhyetya mānaso brahmalaukikān |

194.2१९४.२

करोति पुनरावृत्तिस् तेषाम् इह न विद्यते ॥ (१९४।२)

karoti punarāvṛttis teṣām iha na vidyate ||

195.1१९५.१

यज्ञेन तपसा दानैर् ये हि स्वर्गजितो नराः । (१९५।१)

yajñena tapasā dānair ye hi svargajito narāḥ |

195.2१९५.२

धूमं निशां कृष्णपक्षं दक्षिणायनम् एव च ॥ (१९५।२)

dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanam eva ca ||

196.1१९६.१

पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् । (१९६।१)

pitṛlokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm |

196.2१९६.२

क्रमात् ते सम्भवन्तीह पुनर् एव व्रजन्ति च ॥ (१९६।२)

kramāt te sambhavantīha punar eva vrajanti ca ||

197.1१९७.१

एतद् यो न विजानाति मार्गद्वितयम् आत्मवान् । (१९७।१)

etad yo na vijānāti mārgadvitayam ātmavān |

197.2१९७.२

दन्दशूकः पतङ्गो वा भवेत् कीटो ऽथवा कृमिः ॥ (१९७।२)

dandaśūkaḥ pataṅgo vā bhavet kīṭo 'thavā kṛmiḥ ||

198.1१९८.१

ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् । (१९८।१)

ūrusthottānacaraṇaḥ savye nyasyottaraṃ karam |

198.2१९८.२

उत्तानं किंचिद् उन्नाम्य मुखं विष्टभ्य चोरसा ॥ (१९८।२)

uttānaṃ kiṃcid unnāmya mukhaṃ viṣṭabhya corasā ||

199.1१९९.१

निमीलिताक्षः सत्त्वस्थो दन्तैर् दन्तान् असंस्पृशन् । (१९९।१)

nimīlitākṣaḥ sattvastho dantair dantān asaṃspṛśan |

199.2१९९.२

तालुस्थाचलजिह्वश् च संवृतास्यः सुनिश्चलः ॥ (१९९।२)

tālusthācalajihvaś ca saṃvṛtāsyaḥ suniścalaḥ ||

200.1२००.१

संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः । (२००।१)

saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ |

200.2२००.२

द्विगुणं त्रिगुणं वापि प्राणायामम् उपक्रमेत् ॥ (२००।२)

dviguṇaṃ triguṇaṃ vāpi prāṇāyāmam upakramet ||

201.1२०१.१

ततो ध्येयः स्थितो यो ऽसौ हृदये दीपवत् प्रभुः । (२०१।१)

tato dhyeyaḥ sthito yo 'sau hṛdaye dīpavat prabhuḥ |

201.2२०१.२

धारयेत् तत्र चात्मानं धारणां धारयन् बुधः ॥ (२०१।२)

dhārayet tatra cātmānaṃ dhāraṇāṃ dhārayan budhaḥ ||

202.1२०२.१

अन्तर्धानं स्मृतिः कान्तिर् दृष्टिः श्रोत्रज्ञता तथा । (२०२।१)

antardhānaṃ smṛtiḥ kāntir dṛṣṭiḥ śrotrajñatā tathā |

202.2२०२.२

निजं शरीरम् उत्सृज्य परकायप्रवेशनम् ॥ (२०२।२)

nijaṃ śarīram utsṛjya parakāyapraveśanam ||

203.1२०३.१

अर्थानां छन्दतः सृष्टिर् योगसिद्धेर् हि लक्षणम् । (२०३।१)

arthānāṃ chandataḥ sṛṣṭir yogasiddher hi lakṣaṇam |

203.2२०३.२

सिद्धे योगे त्यजन् देहम् अमृतत्वाय कल्पते ॥ (२०३।२)

siddhe yoge tyajan deham amṛtatvāya kalpate ||

204.1२०४.१

अथ वाप्य् अभ्यसन् वेदं न्यस्तकर्मा वने वसन् । (२०४।१)

atha vāpy abhyasan vedaṃ nyastakarmā vane vasan |

204.2२०४.२

अयाचिताशी मितभुक् परां सिद्धिम् अवाप्नुयात् ॥ (२०४।२)

ayācitāśī mitabhuk parāṃ siddhim avāpnuyāt ||

205.1२०५.१

न्यायागतधनस् तत्त्वज्ञाननिष्ठो ऽतिथिप्रियः । (२०५।१)

nyāyāgatadhanas tattvajñānaniṣṭho 'tithipriyaḥ |

205.2२०५.२

श्राद्धकृत् सत्यवादी च गृहस्थो ऽपि हि मुच्यते ॥ (२०५।२)

śrāddhakṛt satyavādī ca gṛhastho 'pi hi mucyate ||

206.1२०६.१

प्रायश्चित्तप्रकरणम्महापातकजान् घोरान् नरकान् प्राप्य दारुणान् । (२०६।१)

prāyaścittaprakaraṇammahāpātakajān ghorān narakān prāpya dāruṇān |

206.2२०६.२

कर्मक्षयात् प्रजायन्ते महापातकिनस् त्व् इह ॥ (२०६।२)

karmakṣayāt prajāyante mahāpātakinas tv iha ||

207.1२०७.१

मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिम् ऋच्छति । (२०७।१)

mṛgāśvasūkaroṣṭrāṇāṃ brahmahā yonim ṛcchati |

207.2२०७.२

खरपुल्कसवेनानां सुरापो नात्र संशयः ॥ (२०७।२)

kharapulkasavenānāṃ surāpo nātra saṃśayaḥ ||

208.1२०८.१

कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् । (२०८।१)

kṛmikīṭapataṅgatvaṃ svarṇahārī samāpnuyāt |

208.2२०८.२

तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ (२०८।२)

tṛṇagulmalatātvaṃ ca kramaśo gurutalpagaḥ ||

209.1२०९.१

ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः । (२०९।१)

brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ |

209.2२०९.२

हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ (२०९।२)

hemahārī tu kunakhī duścarmā gurutalpagaḥ ||

210.1२१०.१

यो येन संवसत्य् एषां स तल्लिङ्गो ऽभिजायते । (२१०।१)

yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate |

210.2२१०.२

अन्नहर्तामयावी स्यान् मूको वागपहारकः ॥ (२१०।२)

annahartāmayāvī syān mūko vāgapahārakaḥ ||

211.1२११.१

धान्यमिश्रो ऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः । (२११।१)

dhānyamiśro 'tiriktāṅgaḥ piśunaḥ pūtināsikaḥ |

211.2२११.२

तैलहृत् तैलपायी स्यात् पूतिवक्त्रस् तु सूचकः ॥ (२११।२)

tailahṛt tailapāyī syāt pūtivaktras tu sūcakaḥ ||

212.1२१२.१

परस्य योषितं हृत्वा ब्रह्मस्वम् अपहृत्य च । (२१२।१)

parasya yoṣitaṃ hṛtvā brahmasvam apahṛtya ca |

212.2२१२.२

अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ (२१२।२)

araṇye nirjale deśe bhavati brahmarākṣasaḥ ||

213.1२१३.१

हीनजातौ प्रजायेत पररत्नापहारकः । (२१३।१)

hīnajātau prajāyeta pararatnāpahārakaḥ |

213.2२१३.२

पत्रशाकं शिखी हत्वा गन्धान् छुच्छुन्दरी शुभान् ॥ (२१३।२)

patraśākaṃ śikhī hatvā gandhān chucchundarī śubhān ||

214.1२१४.१

मूषको धान्यहारी स्याद् यानम् उष्ट्रः कपिः फलम् । (२१४।१)

mūṣako dhānyahārī syād yānam uṣṭraḥ kapiḥ phalam |

214.2२१४.२

जलं प्लवः पयः काको गृहकारी ह्य् उपस्करम् ॥ (२१४।२)

jalaṃ plavaḥ payaḥ kāko gṛhakārī hy upaskaram ||

215.1२१५.१

मधु दंशः पलं गृध्रो गां गोधाग्निं बकस् तथा । (२१५।१)

madhu daṃśaḥ palaṃ gṛdhro gāṃ godhāgniṃ bakas tathā |

215.2२१५.२

श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥ (२१५।२)

śvitrī vastraṃ śvā rasaṃ tu cīrī lavaṇahārakaḥ ||

216.1२१६.१

प्रदर्शनार्थम् एतत् तु मयोक्तं स्तेयकर्मणि । (२१६।१)

pradarśanārtham etat tu mayoktaṃ steyakarmaṇi |

216.2२१६.२

द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ (२१६।२)

dravyaprakārā hi yathā tathaiva prāṇijātayaḥ ||

217.1२१७.१

यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् । (२१७।१)

yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt |

217.2२१७.२

जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥ (२१७।२)

jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ ||

218.1२१८.१

ततो निष्कल्मषीभूताः कुले महति भोगिनः । (२१८।१)

tato niṣkalmaṣībhūtāḥ kule mahati bhoginaḥ |

218.2२१८.२

जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥ (२१८।२)

jāyante vidyayopetā dhanadhānyasamanvitāḥ ||

219.1२१९.१

विहितस्याननुष्ठानान् निन्दितस्य च सेवनात् । (२१९।१)

vihitasyānanuṣṭhānān ninditasya ca sevanāt |

219.2२१९.२

अनिग्रहाच्चेन्द्रियाणां नरः पतनम् ऋच्छति ॥ (२१९।२)

anigrahāccendriyāṇāṃ naraḥ patanam ṛcchati ||

220.1२२०.१

तस्मात् तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये । (२२०।१)

tasmāt teneha kartavyaṃ prāyaścittaṃ viśuddhaye |

220.2२२०.२

एवम् अस्यान्तरात्मा च लोकश् चैव प्रसीदति ॥ (२२०।२)

evam asyāntarātmā ca lokaś caiva prasīdati ||

221.1२२१.१

प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः । (२२१।१)

prāyaścittam akurvāṇāḥ pāpeṣu niratā narāḥ |

221.2२२१.२

अपश्चात्तापिनः कष्टान् नरकान् यान्ति दारुणान् ॥ (२२१।२)

apaścāttāpinaḥ kaṣṭān narakān yānti dāruṇān ||

222.1२२२.१

तामिस्रं लोहशङ्कुं च महानिरयशाल्मली । (२२२।१)

tāmisraṃ lohaśaṅkuṃ ca mahānirayaśālmalī |

222.2२२२.२

रौरवं कुड्मलं पूतिमृत्तिकं कालसूत्रकम् ॥ (२२२।२)

rauravaṃ kuḍmalaṃ pūtimṛttikaṃ kālasūtrakam ||

223.1२२३.१

संघातं लोहितोदं च सविषं संप्रपातनम् । (२२३।१)

saṃghātaṃ lohitodaṃ ca saviṣaṃ saṃprapātanam |

223.2२२३.२

महानरककाकोलं संजीवनमहापथम् ॥ (२२३।२)

mahānarakakākolaṃ saṃjīvanamahāpatham ||

224.1२२४.१

अवीचिम् अन्धतामिस्रं कुम्भीपाकं तथैव च । (२२४।१)

avīcim andhatāmisraṃ kumbhīpākaṃ tathaiva ca |

224.2२२४.२

असिपत्रवनं चैव तापनं चैकविंशकम् ॥ (२२४।२)

asipatravanaṃ caiva tāpanaṃ caikaviṃśakam ||

225.1२२५.१

महापातकजैर् घोरैर् उपपातकजैस् तथा । (२२५।१)

mahāpātakajair ghorair upapātakajais tathā |

225.2२२५.२

अन्विता यान्त्य् अचरितप्रायश्चित्ता नराधमाः ॥ (२२५।२)

anvitā yānty acaritaprāyaścittā narādhamāḥ ||

226.1२२६.१

प्रायश्चित्तैर् अपैत्य् एनो यद् अज्ञानकृतं भवेत् । (२२६।१)

prāyaścittair apaity eno yad ajñānakṛtaṃ bhavet |

226.2२२६.२

कामतो व्यवहार्यस् तु वचनाद् इह जायते ॥ (२२६।२)

kāmato vyavahāryas tu vacanād iha jāyate ||

227.1२२७.१

ब्रह्महा मद्यपः स्तेनस् तथैव गुरुतल्पगः । (२२७।१)

brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ |

227.2२२७.२

एते महापातकिनो यश् च तैः सह संवसेत् ॥ (२२७।२)

ete mahāpātakino yaś ca taiḥ saha saṃvaset ||

228.1२२८.१

गुरूणाम् अध्यधिक्षेपो वेदनिन्दा सुहृद्वधः । (२२८।१)

gurūṇām adhyadhikṣepo vedanindā suhṛdvadhaḥ |

228.2२२८.२

ब्रह्महत्यासमं ज्ञेयम् अधीतस्य च नाशनम् ॥ (२२८।२)

brahmahatyāsamaṃ jñeyam adhītasya ca nāśanam ||

229.1२२९.१

निषिद्धभक्षणं जैह्म्यम् उत्कर्षे च वचो ऽनृतम् । (२२९।१)

niṣiddhabhakṣaṇaṃ jaihmyam utkarṣe ca vaco 'nṛtam |

229.2२२९.२

रजस्वलामुखास्वादः सुरापानसमानि तु ॥ (२२९।२)

rajasvalāmukhāsvādaḥ surāpānasamāni tu ||

230.1२३०.१

अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा । (२३०।१)

aśvaratnamanuṣyastrībhūdhenuharaṇaṃ tathā |

230.2२३०.२

निक्षेपस्य च सर्वं हि सुवर्णस्तेयसंमितम् ॥ (२३०।२)

nikṣepasya ca sarvaṃ hi suvarṇasteyasaṃmitam ||

231.1२३१.१

सखिभार्याकुमारीषु स्वयोनिष्व् अन्त्यजासु च । (२३१।१)

sakhibhāryākumārīṣu svayoniṣv antyajāsu ca |

231.2२३१.२

सगोत्रासु सुतन्त्रीषु गुरुतल्पसमं स्मृतम् ॥ (२३१।२)

sagotrāsu sutantrīṣu gurutalpasamaṃ smṛtam ||

232.1२३२.१

पितुः स्वसारं मातुश् च मतुलानीं स्नुषाम् अपि । (२३२।१)

pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api |

232.2२३२.२

मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा ॥ (२३२।२)

mātuḥ sapatnīṃ bhaginīm ācāryatanayāṃ tathā ||

233.1२३३.१

आचार्यपत्नीं स्वसुतां गच्छंस् तु गुरुतल्पगः । (२३३।१)

ācāryapatnīṃ svasutāṃ gacchaṃs tu gurutalpagaḥ |

233.2२३३.२

लिङ्गं छित्त्वा वधस् तस्य सकामायाः स्त्रिया अपि ॥ (२३३।२)

liṅgaṃ chittvā vadhas tasya sakāmāyāḥ striyā api ||

234.1२३४.१

गोवधो व्रात्यता स्तेयम् ऋणानां चानपाक्रिया । (२३४।१)

govadho vrātyatā steyam ṛṇānāṃ cānapākriyā |

234.2२३४.२

अनाहिताग्नितापण्यविक्रयः परिदेवनम् ॥ (२३४।२)

anāhitāgnitāpaṇyavikrayaḥ paridevanam ||

235.1२३५.१

भृताद् अध्ययनादानं भृतकाध्यापनं तथा । (२३५।१)

bhṛtād adhyayanādānaṃ bhṛtakādhyāpanaṃ tathā |

235.2२३५.२

पारदार्यं पारिवित्त्यं वार्द्धुष्यं लवणक्रिया ॥ (२३५।२)

pāradāryaṃ pārivittyaṃ vārddhuṣyaṃ lavaṇakriyā ||

236.1२३६.१

स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् । (२३६।१)

strīśūdraviṭkṣatravadho ninditārthopajīvanam |

236.2२३६.२

नास्तिक्यं व्रतलोपश् च सुतानां चैव विक्रयः ॥ (२३६।२)

nāstikyaṃ vratalopaś ca sutānāṃ caiva vikrayaḥ ||

237.1२३७.१

धान्यकुप्यपशुस्तेयम् अयाज्यानां च याजनम् । (२३७।१)

dhānyakupyapaśusteyam ayājyānāṃ ca yājanam |

237.2२३७.२

पितृमातृसुतत्यागस् तडागारामविक्रयः ॥ (२३७।२)

pitṛmātṛsutatyāgas taḍāgārāmavikrayaḥ ||

238.1२३८.१

कन्यासंदूषणं चैव परिविन्दकयाजनम् । (२३८।१)

kanyāsaṃdūṣaṇaṃ caiva parivindakayājanam |

238.2२३८.२

कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥ (२३८।२)

kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam ||

239.1२३९.१

आत्मनो ऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् । (२३९।१)

ātmano 'rthe kriyārambho madyapastrīniṣevaṇam |

239.2२३९.२

स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥ (२३९।२)

svādhyāyāgnisutatyāgo bāndhavatyāga eva ca ||

240.1२४०.१

इन्धनार्थं द्रुमछेदः स्त्रीहिंसौषधजीवनम् । (२४०।१)

indhanārthaṃ drumachedaḥ strīhiṃsauṣadhajīvanam |

240.2२४०.२

हिंस्रयन्त्रविधानं च व्यसनान्य् आत्मविक्रयः ॥ (२४०।२)

hiṃsrayantravidhānaṃ ca vyasanāny ātmavikrayaḥ ||

241.1२४१.१

शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् । (२४१।१)

śūdrapreṣyaṃ hīnasakhyaṃ hīnayoniniṣevaṇam |

241.2२४१.२

तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥ (२४१।२)

tathaivānāśrame vāsaḥ parānnaparipuṣṭatā ||

242.1२४२.१

असच्छास्त्राधिगमनम् आकरेष्व् अधिकारिता । (२४२।१)

asacchāstrādhigamanam ākareṣv adhikāritā |

242.2२४२.२

भार्याया विक्रयश् चैषाम् एकैकम् उपपातकम् ॥ (२४२।२)

bhāryāyā vikrayaś caiṣām ekaikam upapātakam ||

243.1२४३.१

शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् । (२४३।१)

śiraḥkapālī dhvajavān bhikṣāśī karma vedayan |

243.2२४३.२

ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिम् आप्नुयात् ॥ (२४३।२)

brahmahā dvādaśābdāni mitabhuk śuddhim āpnuyāt ||

244.1२४४.१

ब्राह्मणस्य परित्राणाद् गवां द्वादशकस्य च । (२४४।१)

brāhmaṇasya paritrāṇād gavāṃ dvādaśakasya ca |

244.2२४४.२

तथाश्वमेधावभृथस्नानाद् वा शुद्धिम् आप्नुयात् ॥ (२४४।२)

tathāśvamedhāvabhṛthasnānād vā śuddhim āpnuyāt ||

245.1२४५.१

दीर्घतीव्रामयग्रस्तं ब्राह्मणं गाम् अथापि वा । (२४५।१)

dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā |

245.2२४५.२

दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥ (२४५।२)

dṛṣṭvā pathi nirātaṅkaṃ kṛtvā tu brahmahā śuciḥ ||

246.1२४६.१

आनीय विप्रसर्वस्वं हृतं घातित एव वा । (२४६।१)

ānīya viprasarvasvaṃ hṛtaṃ ghātita eva vā |

246.2२४६.२

तन्निमित्तं क्षतः शस्त्रैर् जीवन्न् अपि विशुध्यति ॥ (२४६।२)

tannimittaṃ kṣataḥ śastrair jīvann api viśudhyati ||

247.1२४७.१

लोमभ्यः स्वाहेत्य् एवं हि लोमप्रभृति वै तनुम् । (२४७।१)

lomabhyaḥ svāhety evaṃ hi lomaprabhṛti vai tanum |

247.2२४७.२

मज्जान्तां जुहुयाद् वापि मन्त्रैर् एभिर् यथाक्रमम् ॥ (२४७।२)

majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam ||

248.1२४८.१

संग्रामे वा हतो लक्ष्यभूतः शुद्धिम् अवाप्नुयात् । (२४८।१)

saṃgrāme vā hato lakṣyabhūtaḥ śuddhim avāpnuyāt |

248.2२४८.२

मृतकल्पः प्रहारार्तो जीवन्न् अपि विशुध्यति ॥ (२४८।२)

mṛtakalpaḥ prahārārto jīvann api viśudhyati ||

249.1२४९.१

अरण्ये नियतो जप्त्वा त्रिर् वै वेदस्य संहिताम् । (२४९।१)

araṇye niyato japtvā trir vai vedasya saṃhitām |

249.2२४९.२

शुध्येत वा मिताशित्वात् प्रतिस्रोतः सरस्वतीम् ॥ (२४९।२)

śudhyeta vā mitāśitvāt pratisrotaḥ sarasvatīm ||

250.1२५०.१

पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिम् अवाप्नुयात् । (२५०।१)

pātre dhanaṃ vā paryāptaṃ dattvā śuddhim avāpnuyāt |

250.2२५०.२

आदातुश् च विशुद्ध्यर्थम् इष्टैर् वैश्वानरी स्मृता ॥ (२५०।२)

ādātuś ca viśuddhyartham iṣṭair vaiśvānarī smṛtā ||

251.1२५१.१

यागस्थक्षत्रविड्घाती चरेद् ब्रह्महणि व्रतम् । (२५१।१)

yāgasthakṣatraviḍghātī cared brahmahaṇi vratam |

251.2२५१.२

गर्भहा च यथावर्णं तथात्रेयीनिषूदकः ॥ (२५१।२)

garbhahā ca yathāvarṇaṃ tathātreyīniṣūdakaḥ ||

252.1२५२.१

चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः । (२५२।१)

cared vratam ahatvāpi ghātārthaṃ cet samāgataḥ |

252.2२५२.२

द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत् ॥ (२५२।२)

dviguṇaṃ savanasthe tu brāhmaṇe vratam ādiśet ||

253.1२५३.१

सुराम्बुघृतगोमूत्रपयसाम् अग्निसंनिभम् । (२५३।१)

surāmbughṛtagomūtrapayasām agnisaṃnibham |

253.2२५३.२

सुरापो ऽन्यतमं पीत्वा मरणाच्छुद्धिम् ऋच्छति ॥ (२५३।२)

surāpo 'nyatamaṃ pītvā maraṇācchuddhim ṛcchati ||

254.1२५४.१

वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् । (२५४।१)

vālavāsā jaṭī vāpi brahmahatyāvrataṃ caret |

254.2२५४.२

पिण्याकं वा कणान् वापि भक्षयेत् त्रिसमा निशि ॥ (२५४।२)

piṇyākaṃ vā kaṇān vāpi bhakṣayet trisamā niśi ||

255.1२५५.१

अज्ञानात् तु सुरां पीत्वा रेतो विण्मूत्रम् एव च । (२५५।१)

ajñānāt tu surāṃ pītvā reto viṇmūtram eva ca |

255.2२५५.२

पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥ (२५५।२)

punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ ||

256.1२५६.१

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । (२५६।१)

patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet |

256.2२५६.२

इहैव सा शुनी गृध्री सूकरी चोपजायते ॥ (२५६।२)

ihaiva sā śunī gṛdhrī sūkarī copajāyate ||

257.1२५७.१

ब्राह्मणस्वर्णहारी तु राज्ञे मुसलम् अर्पयेत् । (२५७।१)

brāhmaṇasvarṇahārī tu rājñe musalam arpayet |

257.2२५७.२

स्वकर्म व्याख्यायंस् तेन हतो मुक्तो ऽपि वाशुचिः ॥ (२५७।२)

svakarma vyākhyāyaṃs tena hato mukto 'pi vāśuciḥ ||

258.1२५८.१

अनिवेद्य नृपे शुध्येत् सुरापव्रतम् आचरन् । (२५८।१)

anivedya nṛpe śudhyet surāpavratam ācaran |

258.2२५८.२

आत्मतुल्यं सुवर्णं वा दद्याद् वा विप्रतुष्टिकृत् ॥ (२५८।२)

ātmatulyaṃ suvarṇaṃ vā dadyād vā vipratuṣṭikṛt ||

259.1२५९.१

तप्ते ऽयःशयने सार्धम् आयस्या योषिता स्वपेत् । (२५९।१)

tapte 'yaḥśayane sārdham āyasyā yoṣitā svapet |

259.2२५९.२

गृहीत्वोत्कृत्य वृषणौ नैरृत्यां चोत्सृजेत् तनुम् ॥ (२५९।२)

gṛhītvotkṛtya vṛṣaṇau nairṛtyāṃ cotsṛjet tanum ||

260.1२६०.१

प्राजापत्यं चरेत् कृच्छ्रं समा वा गुरुतल्पगः । (२६०।१)

prājāpatyaṃ caret kṛcchraṃ samā vā gurutalpagaḥ |

260.2२६०.२

चान्द्रायणं वा त्रीन् मासान् अभ्यसेद् वेदसंहिताम् ॥ (२६०।२)

cāndrāyaṇaṃ vā trīn māsān abhyased vedasaṃhitām ||

261.1२६१.१

एभिस् तु संवसेद् यो वै वत्सरं सो ऽपि तत्समः । (२६१।१)

ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ |

261.2२६१.२

कन्यां समुद्वहेद् एषां सोपवासाम् अकिंचनाम् ॥ (२६१।२)

kanyāṃ samudvahed eṣāṃ sopavāsām akiṃcanām ||

262.1२६२.१

चान्द्रायणं चरेत् सर्वान् अवकृष्टान् निहत्य तु । (२६२।१)

cāndrāyaṇaṃ caret sarvān avakṛṣṭān nihatya tu |

262.2२६२.२

शूद्रो ऽधिकारहीनो ऽपि कालेनानेन शुध्यति ॥ (२६२।२)

śūdro 'dhikārahīno 'pi kālenānena śudhyati ||

263.1२६३.१

पञ्चगव्यं पिबेद् गोघ्नो मासम् आसीत संयतः । (२६३।१)

pañcagavyaṃ pibed goghno māsam āsīta saṃyataḥ |

263.2२६३.२

गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति ॥ (२६३।२)

goṣṭheśayo go'nugāmī gopradānena śudhyati ||

264.1२६४.१

कृच्छ्रं चैवातिकृच्छ्रं च चरेद् वापि समाहितः । (२६४।१)

kṛcchraṃ caivātikṛcchraṃ ca cared vāpi samāhitaḥ |

264.2२६४.२

दद्यात् त्रिरात्रं चोपोष्य वृषभैकादशास् तु गाः ॥ (२६४।२)

dadyāt trirātraṃ copoṣya vṛṣabhaikādaśās tu gāḥ ||

265.1२६५.१

उपपातकशुद्धिः स्याद् एवं चान्द्रायणेन वा । (२६५।१)

upapātakaśuddhiḥ syād evaṃ cāndrāyaṇena vā |

265.2२६५.२

पयसा वापि मासेन पराकेणाथवा पुनः ॥ (२६५।२)

payasā vāpi māsena parākeṇāthavā punaḥ ||

266.1२६६.१

ऋषभैकसहस्रा गा दद्यात् क्षत्रवधे पुमान् । (२६६।१)

ṛṣabhaikasahasrā gā dadyāt kṣatravadhe pumān |

266.2२६६.२

ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ (२६६।२)

brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret ||

267.1२६७.१

वैश्यहाब्दं चरेद् एतद् दद्याद् वैकशतं गवाम् । (२६७।१)

vaiśyahābdaṃ cared etad dadyād vaikaśataṃ gavām |

267.2२६७.२

षण्मासाच्छूद्रहाप्य् एतद् धेनुर् दद्याद् दशाथवा ॥ (२६७।२)

ṣaṇmāsācchūdrahāpy etad dhenur dadyād daśāthavā ||

268.1२६८.१

दुर्वृत्तब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु । (२६८।१)

durvṛttabrahmaviṭkṣatraśūdrayoṣāḥ pramāpya tu |

268.2२६८.२

दृतिं धनुर् बस्तम् अविं क्रमाद् दद्याद् विशुद्धये ॥ (२६८।२)

dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye ||

269.1२६९.१

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् । (२६९।१)

apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret |

269.2२६९.२

अस्थिमतां सहस्रं तु तथानस्थिमताम् अनः ॥ (२६९।२)

asthimatāṃ sahasraṃ tu tathānasthimatām anaḥ ||

270.1२७०.१

मार्जारगोधानकुलमण्डूकांश् च पतत्रिणः । (२७०।१)

mārjāragodhānakulamaṇḍūkāṃś ca patatriṇaḥ |

270.2२७०.२

हत्वा त्र्यहं पिबेत् क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥ (२७०।२)

hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret ||

271.1२७१.१

गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः । (२७१।१)

gaje nīlavṛṣāḥ pañca śuke vatso dvihāyanaḥ |

271.2२७१.२

खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥ (२७१।२)

kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyanaḥ ||

272.1२७२.१

हंसश्येनकपिक्रव्याज् जलस्थलशिखण्डिनः । (२७२।१)

haṃsaśyenakapikravyāj jalasthalaśikhaṇḍinaḥ |

272.2२७२.२

भासं च हत्वा दद्याद् गाम् अक्रव्यादस् तु वत्सिकाम् ॥ (२७२।२)

bhāsaṃ ca hatvā dadyād gām akravyādas tu vatsikām ||

273.1२७३.१

उरगेष्व् आयसो दण्डः पण्डके त्रपु सीसकम् । (२७३।१)

urageṣv āyaso daṇḍaḥ paṇḍake trapu sīsakam |

273.2२७३.२

कोले घृतघटो देय उष्ट्रे गुञ्जा हये ऽंशुकम् ॥ (२७३।२)

kole ghṛtaghaṭo deya uṣṭre guñjā haye 'ṃśukam ||

274.1२७४.१

तित्तिरौ तु तिलद्रोणं गजादीनाम् अशक्नुवन् । (२७४।१)

tittirau tu tiladroṇaṃ gajādīnām aśaknuvan |

274.2२७४.२

दानं दातुं चरेत् कृच्छ्रम् एकैकस्य विशुद्धये ॥ (२७४।२)

dānaṃ dātuṃ caret kṛcchram ekaikasya viśuddhaye ||

275.1२७५.१

फलपुष्पान्नरसजसत्त्वघाते घृताशनम् । (२७५।१)

phalapuṣpānnarasajasattvaghāte ghṛtāśanam |

275.2२७५.२

किंचित् सास्थिवधे देयं प्राणायामस् त्व् अनस्थिके ॥ (२७५।२)

kiṃcit sāsthivadhe deyaṃ prāṇāyāmas tv anasthike ||

276.1२७६.१

वृक्षगुल्मलतावीरुच्छेदने जप्यम् ऋक्शतम् । (२७६।१)

vṛkṣagulmalatāvīrucchedane japyam ṛkśatam |

276.2२७६.२

स्याद् ओषधिवृथाछेदे क्षीराशी गोऽनुगो दिनम् ॥ (२७६।२)

syād oṣadhivṛthāchede kṣīrāśī go'nugo dinam ||

277.1२७७.१

पुंश्चलीवानरखरैर् दष्टश्वोष्ट्रादिवायसैः । (२७७।१)

puṃścalīvānarakharair daṣṭaśvoṣṭrādivāyasaiḥ |

277.2२७७.२

प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ (२७७।२)

prāṇāyāmaṃ jale kṛtvā ghṛtaṃ prāśya viśudhyati ||

278.1२७८.१

यन् मे ऽद्य रेत इत्याभ्यां स्कन्नं रेतो ऽभिमन्त्रयेत् । (२७८।१)

yan me 'dya reta ityābhyāṃ skannaṃ reto 'bhimantrayet |

278.2२७८.२

स्तनान्तरं भ्रुवोर् मध्यं तेनानामिकया स्पृशेत् ॥ (२७८।२)

stanāntaraṃ bhruvor madhyaṃ tenānāmikayā spṛśet ||

279.1२७९.१

मयि तेज इति छायां स्वां दृष्ट्वाम्बुगतां जपेत् । (२७९।१)

mayi teja iti chāyāṃ svāṃ dṛṣṭvāmbugatāṃ japet |

279.2२७९.२

सावित्रीम् अशुचौ दृष्टे चापल्ये चानृते ऽपि च ॥ (२७९।२)

sāvitrīm aśucau dṛṣṭe cāpalye cānṛte 'pi ca ||

280.1२८०.१

अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् । (२८०।१)

avakīrṇī bhaved gatvā brahmacārī tu yoṣitam |

280.2२८०.२

गर्दभं पशुम् आलभ्य नैरृतं स विशुध्यति ॥ (२८०।२)

gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati ||

281.1२८१.१

भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रम् अनातुरः । (२८१।१)

bhaikṣāgnikārye tyaktvā tu saptarātram anāturaḥ |

281.2२८१.२

कामावकीर्ण इत्य् आभ्यां जुहुयाद् आहुतिद्वयम् ॥ (२८१।२)

kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam ||

282.1२८२.१

उपस्थानं ततः कुर्यात् सं मा सिञ्चन्त्व् अनेन तु । (२८२।१)

upasthānaṃ tataḥ kuryāt saṃ mā siñcantv anena tu |

282.2२८२.२

मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च ॥ (२८२।२)

madhumāṃsāśane kāryaḥ kṛcchraḥ śeṣavratāni ca ||

283.1२८३.१

प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति । (२८३।१)

pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati |

283.2२८३.२

कृच्छ्रत्रयं गुरुः कुर्यान् म्रियते प्रहितो यदि ॥ (२८३।२)

kṛcchratrayaṃ guruḥ kuryān mriyate prahito yadi ||

284.1२८४.१

क्रियमाणोपकारे तु मृते विप्रे न पातकम् । (२८४।१)

kriyamāṇopakāre tu mṛte vipre na pātakam |

284.2२८४.२

विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥ (२८४।२)

vipāke govṛṣāṇāṃ tu bheṣajāgnikriyāsu ca ||

285.1२८५.१

मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः । (२८५।१)

mithyābhiśaṃsino doṣo dviḥ samo bhūtavādinaḥ |

285.2२८५.२

मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् ॥ (२८५।२)

mithyābhiśastadoṣaṃ ca samādatte mṛṣā vadan ||

286.1२८६.१

महापापोपपापाभ्यां यो ऽभिशंसेन् मृषा परम् । (२८६।१)

mahāpāpopapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param |

286.2२८६.२

अब्भक्षो मासम् आसीत स जापी नियतेन्द्रियः ॥ (२८६।२)

abbhakṣo māsam āsīta sa jāpī niyatendriyaḥ ||

287.1२८७.१

अभिशस्तो मृषा कृच्छ्रं चरेद् आग्नेयम् एव वा । (२८७।१)

abhiśasto mṛṣā kṛcchraṃ cared āgneyam eva vā |

287.2२८७.२

निर्वपेत् तु पुरोडाशं वायव्यं पशुम् एव वा ॥ (२८७।२)

nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā ||

288.1२८८.१

अनियुक्तो भ्रातृजायां गच्छंश् चान्द्रायणं चरेत् । (२८८।१)

aniyukto bhrātṛjāyāṃ gacchaṃś cāndrāyaṇaṃ caret |

288.2२८८.२

त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ (२८८।२)

trirātrānte ghṛtaṃ prāśya gatvodakyāṃ viśudhyati ||

289.1२८९.१

त्रीन् कृच्छ्रान् आचरेद् व्रात्ययाजको ऽभिचरन्न् अपि । (२८९।१)

trīn kṛcchrān ācared vrātyayājako 'bhicarann api |

289.2२८९.२

वेदप्लावी यवाश्य् अब्दं त्यक्त्वा च शरणागतम् ॥ (२८९।२)

vedaplāvī yavāśy abdaṃ tyaktvā ca śaraṇāgatam ||

290.1२९०.१

गोष्ठे वसन् ब्रह्मचारी मासम् एकं पयोव्रतम् । (२९०।१)

goṣṭhe vasan brahmacārī māsam ekaṃ payovratam |

290.2२९०.२

गायत्रीजप्यनिरतः शुध्यते ऽसत्प्रतिग्रहात् ॥ (२९०।२)

gāyatrījapyanirataḥ śudhyate 'satpratigrahāt ||

291.1२९१.१

प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः । (२९१।१)

prāṇāyāmī jale snātvā kharayānoṣṭrayānagaḥ |

291.2२९१.२

नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ (२९१।२)

nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam ||

292.1२९२.१

गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः । (२९२।१)

guruṃ huṃkṛtya tvaṃkṛtya vipraṃ nirjitya vādataḥ |

292.2२९२.२

बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद् दिनम् ॥ (२९२।२)

baddhvā vā vāsasā kṣipraṃ prasādyopavased dinam ||

293.1२९३.१

विप्रदण्डोद्यमे कृच्छ्रस् त्व् अतिकृच्छ्रो निपातने । (२९३।१)

vipradaṇḍodyame kṛcchras tv atikṛcchro nipātane |

293.2२९३.२

कृच्छ्रातिकृच्छ्रो ऽसृक्पाते कृच्छ्रो ऽभ्यन्तरशोणिते ॥ (२९३।२)

kṛcchrātikṛcchro 'sṛkpāte kṛcchro 'bhyantaraśoṇite ||

294.1२९४.१

देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः । (२९४।१)

deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ |

294.2२९४.२

प्रायश्चित्तं प्रकल्प्यं स्याद् यत्र चोक्ता न निष्कृतिः ॥ (२९४।२)

prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ ||

295.1२९५.१

दाषीकुम्भं बहिर्ग्रामान् निनयेरन् स्वबान्धवाः । (२९५।१)

dāṣīkumbhaṃ bahirgrāmān ninayeran svabāndhavāḥ |

295.2२९५.२

पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥ (२९५।२)

patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam ||

296.1२९६.१

चरितव्रत आयाते निनयेरन् नवं घटम् । (२९६।१)

caritavrata āyāte ninayeran navaṃ ghaṭam |

296.2२९६.२

जुगुप्सेरन् न चाप्य् एनं संवसेयुश् च सर्वशः ॥ (२९६।२)

jugupseran na cāpy enaṃ saṃvaseyuś ca sarvaśaḥ ||

297.1२९७.१

पतितानाम् एष एव विधिः स्त्रीणां प्रकीर्तितः । (२९७।१)

patitānām eṣa eva vidhiḥ strīṇāṃ prakīrtitaḥ |

297.2२९७.२

वासो गृहान्तके देयम् अन्नं वासः सरक्षणम् ॥ (२९७।२)

vāso gṛhāntake deyam annaṃ vāsaḥ sarakṣaṇam ||

298.1२९८.१

नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् । (२९८।१)

nīcābhigamanaṃ garbhapātanaṃ bhartṛhiṃsanam |

298.2२९८.२

विशेषपतनीयानि स्त्रीमाम् एतान्य् अपि ध्रुवम् ॥ (२९८।२)

viśeṣapatanīyāni strīmām etāny api dhruvam ||

299.1२९९.१

शरणागतबालस्त्रीहिंसकान् संवसेन् न तु । (२९९।१)

śaraṇāgatabālastrīhiṃsakān saṃvasen na tu |

299.2२९९.२

चीर्णव्रतान् अपि सतः कृतघ्नसहितान् इमान् ॥ (२९९।२)

cīrṇavratān api sataḥ kṛtaghnasahitān imān ||

300.1३००.१

घटे ऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् । (३००।१)

ghaṭe 'pavarjite jñātimadhyastho yavasaṃ gavām |

300.2३००.२

स दद्यात् प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया ॥ (३००।२)

sa dadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā ||

301.1३०१.१

विख्यातदोषः कुर्वीत पर्षदो ऽनुमतं व्रतम् । (३०१।१)

vikhyātadoṣaḥ kurvīta parṣado 'numataṃ vratam |

301.2३०१.२

रहस्यप्रायश्चित्तमनभिख्यातदोषस् तु रहस्यं व्रतम् आचरेत् ॥ (३०१।२)

rahasyaprāyaścittamanabhikhyātadoṣas tu rahasyaṃ vratam ācaret ||

302.1३०२.१

त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्व् अघमर्षणम् । (३०२।१)

trirātropoṣito japtvā brahmahā tv aghamarṣaṇam |

302.2३०२.२

अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् ॥ (३०२।२)

antarjale viśudhyeta dattvā gāṃ ca payasvinām ||

303.1३०३.१

लोमभ्यः स्वाहेत्य् अथवा दिवसं मारुताशनः । (३०३।१)

lomabhyaḥ svāhety athavā divasaṃ mārutāśanaḥ |

303.2३०३.२

जले स्थित्वाभिजुहुयाच्चत्वारिंशद्घृताहुतीः ॥ (३०३।२)

jale sthitvābhijuhuyāccatvāriṃśadghṛtāhutīḥ ||

304.1३०४.१

त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर् घृतं शुचिः । (३०४।१)

trirātropoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ |

304.2३०४.२

ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः ॥ (३०४।२)

brāhmaṇasvarṇahārī tu rudrajāpī jale sthitaḥ ||

305.1३०५.१

सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः । (३०५।१)

sahasraśīrṣājāpī tu mucyate gurutalpagaḥ |

305.2३०५.२

गौर् देया कर्मणो ऽस्यान्ते पृथग् एभिः पयस्विनी ॥ (३०५।२)

gaur deyā karmaṇo 'syānte pṛthag ebhiḥ payasvinī ||

306.1३०६.१

प्राणायामशतं कार्यं सर्वपापापनुत्तये । (३०६।१)

prāṇāyāmaśataṃ kāryaṃ sarvapāpāpanuttaye |

306.2३०६.२

उपपातकजातानाम् अनादिष्टस्य चैव हि ॥ (३०६।२)

upapātakajātānām anādiṣṭasya caiva hi ||

307.1३०७.१

ॐकाराभिष्टुतं सोमसलिलं पावनं पिबेत् । (३०७।१)

oṃkārābhiṣṭutaṃ somasalilaṃ pāvanaṃ pibet |

307.2३०७.२

कृत्वा हि रेतोविण्मूत्रप्राशनं तु द्विजोत्तमः ॥ (३०७।२)

kṛtvā hi retoviṇmūtraprāśanaṃ tu dvijottamaḥ ||

308.1३०८.१

निशायां वा दिवा वापि यद् अज्ञानकृतं भवेत् । (३०८।१)

niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet |

308.2३०८.२

त्रैकाल्यसंध्याकरणात् तत् सर्वं विप्रणश्यति ॥ (३०८।२)

traikālyasaṃdhyākaraṇāt tat sarvaṃ vipraṇaśyati ||

309.1३०९.१

शुक्रियारण्यकजपो गायत्र्याश् च विशेषतः । (३०९।१)

śukriyāraṇyakajapo gāyatryāś ca viśeṣataḥ |

309.2३०९.२

सर्वपापहरा ह्य् एते रुद्रैकादशिनी तथा ॥ (३०९।२)

sarvapāpaharā hy ete rudraikādaśinī tathā ||

310.1३१०.१

यत्र यत्र च संकीर्णम् आत्मानं मन्यते द्विजः । (३१०।१)

yatra yatra ca saṃkīrṇam ātmānaṃ manyate dvijaḥ |

310.2३१०.२

तत्र तत्र तिलैर् होमो गायत्र्या वाचनं तथा ॥ (३१०।२)

tatra tatra tilair homo gāyatryā vācanaṃ tathā ||

311.1३११.१

वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् । (३११।१)

vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam |

311.2३११.२

न स्पृशन्तीह पापानि महापातकजान्य् अपि ॥ (३११।२)

na spṛśantīha pāpāni mahāpātakajāny api ||

312.1३१२.१

वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् । (३१२।१)

vāyubhakṣo divā tiṣṭhan rātriṃ nītvāpsu sūryadṛk |

312.2३१२.२

जप्त्वा सहस्रं गायत्र्याः शुध्येद् ब्रह्मवधाद् ऋते ॥ (३१२।२)

japtvā sahasraṃ gāyatryāḥ śudhyed brahmavadhād ṛte ||

313.1३१३.१

ब्रह्मचर्यं दया क्षान्तिर् दानं सत्यम् अकल्कता । (३१३।१)

brahmacaryaṃ dayā kṣāntir dānaṃ satyam akalkatā |

313.2३१३.२

अहिंसा स्तेयमाधुर्ये दमश् चेति यमाः स्मृताः ॥ (३१३।२)

ahiṃsā steyamādhurye damaś ceti yamāḥ smṛtāḥ ||

314.1३१४.१

स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः । (३१४।१)

snānaṃ maunopavāsejyāsvādhyāyopasthanigrahāḥ |

314.2३१४.२

नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥ (३१४।२)

niyamā guruśuśrūṣā śaucākrodhāpramādatā ||

315.1३१५.१

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । (३१५।१)

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam |

315.2३१५.२

जग्ध्वा परे ऽह्न्य् उपवसेत् कृच्छ्रं सांतपनं चरेत् ॥ (३१५।२)

jagdhvā pare 'hny upavaset kṛcchraṃ sāṃtapanaṃ caret ||

316.1३१६.१

पृथक्सांतपनद्रव्यैः षडहः सोपवासकः । (३१६।१)

pṛthaksāṃtapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ |

316.2३१६.२

सप्ताहेन तु कृच्छ्रो ऽयं महासांतपनः स्मृतः ॥ (३१६।२)

saptāhena tu kṛcchro 'yaṃ mahāsāṃtapanaḥ smṛtaḥ ||

317.1३१७.१

पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः । (३१७।१)

parṇodumbararājīvabilvapatrakuśodakaiḥ |

317.2३१७.२

प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ (३१७।२)

pratyekaṃ pratyahaṃ pītaiḥ parṇakṛcchra udāhṛtaḥ ||

318.1३१८.१

तप्तक्षीरघृताम्बूनाम् एकैकं प्रत्यहं पिबेत् । (३१८।१)

taptakṣīraghṛtāmbūnām ekaikaṃ pratyahaṃ pibet |

318.2३१८.२

एकरात्रोपवासश् च तप्तकृच्छ्र उदाहृतः ॥ (३१८।२)

ekarātropavāsaś ca taptakṛcchra udāhṛtaḥ ||

319.1३१९.१

एकभक्तेन नक्तेन तथैवायाचितेन च । (३१९।१)

ekabhaktena naktena tathaivāyācitena ca |

319.2३१९.२

उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥ (३१९।२)

upavāsena caivāyaṃ pādakṛcchraḥ prakīrtitaḥ ||

320.1३२०.१

यथाकथंचित् त्रिगुणः प्राजापत्यो ऽयम् उच्यते । (३२०।१)

yathākathaṃcit triguṇaḥ prājāpatyo 'yam ucyate |

320.2३२०.२

अयम् एवातिकृच्छ्रः स्यात् पाणिपूरान्नभोजनः ॥ (३२०।२)

ayam evātikṛcchraḥ syāt pāṇipūrānnabhojanaḥ ||

321.1३२१.१

कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् । (३२१।१)

kṛcchrātikṛcchraḥ payasā divasānekaviṃśatim |

321.2३२१.२

द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ (३२१।२)

dvādaśāhopavāsena parākaḥ parikīrtitaḥ ||

322.1३२२.१

पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् । (३२२।१)

piṇyākācāmatakrāmbusaktūnāṃ prativāsaram |

322.2३२२.२

एकरात्रोपवासश् च कृच्छ्रः सौम्यो ऽयम् उच्यते ॥ (३२२।२)

ekarātropavāsaś ca kṛcchraḥ saumyo 'yam ucyate ||

323.1३२३.१

एषां त्रिरात्रम् अभ्यासाद् एकैकस्य यथाक्रमम् । (३२३।१)

eṣāṃ trirātram abhyāsād ekaikasya yathākramam |

323.2३२३.२

तुलापुरुष इत्य् एष ज्ञेयः पञ्चदशाहिकः ॥ (३२३।२)

tulāpuruṣa ity eṣa jñeyaḥ pañcadaśāhikaḥ ||

324.1३२४.१

तिथिवृद्ध्या चरेत् पिण्डान् शुक्ले शिख्यण्डसंमितान् । (३२४।१)

tithivṛddhyā caret piṇḍān śukle śikhyaṇḍasaṃmitān |

324.2३२४.२

एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणं चरन् ॥ (३२४।२)

ekaikaṃ hrāsayet kṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caran ||

325.1३२५.१

यथाकथंचित् पिण्डानां चत्वारिंशच्छतद्वयम् । (३२५।१)

yathākathaṃcit piṇḍānāṃ catvāriṃśacchatadvayam |

325.2३२५.२

मासेनैवोपभुञ्जीत चान्द्रायणम् अथापरम् ॥ (३२५।२)

māsenaivopabhuñjīta cāndrāyaṇam athāparam ||

326.1३२६.१

कुर्यात् त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा । (३२६।१)

kuryāt triṣavaṇasnāyī kṛcchraṃ cāndrāyaṇaṃ tathā |

326.2३२६.२

पवित्राणि जपेत् पिण्डान् गायत्र्या चाभिमन्त्रयेत् ॥ (३२६।२)

pavitrāṇi japet piṇḍān gāyatryā cābhimantrayet ||

327.1३२७.१

अनादिष्टेषु पापेषु शुद्धिश् चान्द्रायणेन च । (३२७।१)

anādiṣṭeṣu pāpeṣu śuddhiś cāndrāyaṇena ca |

327.2३२७.२

धर्मार्थं यश् चरेद् एतच्चन्द्रस्यैति सलोकताम् ॥ (३२७।२)

dharmārthaṃ yaś cared etaccandrasyaiti salokatām ||

328.1३२८.१

कृच्छ्रकृद् धर्मकामस् तु महतीं श्रियम् आप्नुयात् । (३२८।१)

kṛcchrakṛd dharmakāmas tu mahatīṃ śriyam āpnuyāt |

328.2३२८.२

यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः ॥ (३२८।२)

yathā gurukratuphalaṃ prāpnoti susamāhitaḥ ||

329.1३२९.१

श्रुत्वैतान् ऋषयो धर्मान् याज्ञवल्क्येन भाषितान् । (३२९।१)

śrutvaitān ṛṣayo dharmān yājñavalkyena bhāṣitān |

329.2३२९.२

इदम् ऊचुर् महात्मानं योगीन्द्रम् अमितौजसम् ॥ (३२९।२)

idam ūcur mahātmānaṃ yogīndram amitaujasam ||

330.1३३०.१

य इदं धारयिष्यन्ति धर्मशास्त्रम् अतन्द्रिताः । (३३०।१)

ya idaṃ dhārayiṣyanti dharmaśāstram atandritāḥ |

330.2३३०.२

इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ (३३०।२)

iha loke yaśaḥ prāpya te yāsyanti triviṣṭapam ||

331.1३३१.१

विद्यार्थी प्राप्नुयाद् विद्यां धनकामो धनं तथा । (३३१।१)

vidyārthī prāpnuyād vidyāṃ dhanakāmo dhanaṃ tathā |

331.2३३१.२

आयुष्कामस् तथैवायुः श्रीकामो महतीं श्रियम् ॥ (३३१।२)

āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam ||

332.1३३२.१

श्लोकत्रयम् अपि ह्य् अस्माद् यः श्राद्धे श्रावयिष्यति । (३३२।१)

ślokatrayam api hy asmād yaḥ śrāddhe śrāvayiṣyati |

332.2३३२.२

पितॄणां तस्य तृप्तिः स्याद् अक्षय्या नात्र संशयः ॥ (३३२।२)

pitṝṇāṃ tasya tṛptiḥ syād akṣayyā nātra saṃśayaḥ ||

333.1३३३.१

ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् । (३३३।१)

brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet |

333.2३३३.२

वैश्यश् च धान्यधनवान् अस्य शास्त्रस्य धारणात् ॥ (३३३।२)

vaiśyaś ca dhānyadhanavān asya śāstrasya dhāraṇāt ||

334.1३३४.१

य इदं श्रावयेद् विद्वान् द्विजान् पर्वसु पर्वसु । (३३४।१)

ya idaṃ śrāvayed vidvān dvijān parvasu parvasu |

334.2३३४.२

अश्वमेधफलं तस्य तद् भवान् अनुमन्यताम् ॥ (३३४।२)

aśvamedhaphalaṃ tasya tad bhavān anumanyatām ||

335.1३३५.१

श्रुत्वैतद् याज्ञवल्क्यो ऽपि प्रीतात्मा मुनिभाषितम् । (३३५।१)

śrutvaitad yājñavalkyo 'pi prītātmā munibhāṣitam |

335.2३३५.२

एवम् अस्त्विति होवाच नमस्कृत्य स्वयंभुवे ॥ (३३५।२)

evam astviti hovāca namaskṛtya svayaṃbhuve ||

Data courtesy of The Digital Corpus of Sanskrit.

YāSmṛ, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit