धन्वन्तरिनिघण्टुDhanvantarinighaṇṭu
DhanvNigh, 3
Select a line for its word-by-word analysis.
चन्दनचन्दनं गन्धसारं च महार्हं श्वेतचन्दनम् । (१।१)
candanacandanaṃ gandhasāraṃ ca mahārhaṃ śvetacandanam |
चन्दन:: मेदिच्। प्रोपेर्तिएस्श्रीखण्डं शीतलं स्वादु तिक्तं पित्तविनाशनम् । (२।१)
candana:: medic. propertiesśrīkhaṇḍaṃ śītalaṃ svādu tiktaṃ pittavināśanam |
रक्तचन्दनरक्तचन्दनमप्यन्यल्लोहितं हरिचन्दनम् । (४।१)
raktacandanaraktacandanamapyanyallohitaṃ haricandanam |
रक्तसारं ताम्रसारं निर्दिष्टं क्षुद्रचन्दनम् ॥ (४।२)
raktasāraṃ tāmrasāraṃ nirdiṣṭaṃ kṣudracandanam ||
कुचन्दनकुचन्दनं पतङ्गं च रक्तकाष्ठं सुरङ्गकम् । (६।१)
kucandanakucandanaṃ pataṅgaṃ ca raktakāṣṭhaṃ suraṅgakam |
कुचन्दन:: मेदिच्। प्रोपेर्तिएस्स्वादु पाकरसे शीतं श्लेष्मलं नातिपित्तलम् । (७।१)
kucandana:: medic. propertiessvādu pākarase śītaṃ śleṣmalaṃ nātipittalam |
कुचन्दनं तु तिक्तं स्यात्सुगन्धि व्रणरोपणम् ॥ (७।२)
kucandanaṃ tu tiktaṃ syātsugandhi vraṇaropaṇam ||
कालीयककालीयकं तु पीतं स्यात्तथा नारायणप्रियम् । (८।१)
kālīyakakālīyakaṃ tu pītaṃ syāttathā nārāyaṇapriyam |
मलयोत्थं पीतकाष्ठं चतुर्थं हरिचन्दनम् ॥ (८।२)
malayotthaṃ pītakāṣṭhaṃ caturthaṃ haricandanam ||
बर्बरिकअथ बर्बरिकं श्वेतं निर्गन्धं बर्बरोद्भवम् । (९।२)
barbarikaatha barbarikaṃ śvetaṃ nirgandhaṃ barbarodbhavam |
पित्तासृक्कफदाहघ्नं कृमिघ्नं गुरु रूक्षणम् ॥ (९।३)
pittāsṛkkaphadāhaghnaṃ kṛmighnaṃ guru rūkṣaṇam ||
गन्धेन तु विशेषः स्यात् पूर्वं श्रेष्ठतमं गुणैः ॥ (१०।२)
gandhena tu viśeṣaḥ syāt pūrvaṃ śreṣṭhatamaṃ guṇaiḥ ||
कुङ्कुमकुङ्कुमं रुधिरं रक्तमसृगस्रं च पीतकम् । (११।१)
kuṅkumakuṅkumaṃ rudhiraṃ raktamasṛgasraṃ ca pītakam |
काश्मीरं चारु बाह्लीकं संकोचं पिशुनं वरम् ॥ (११।२)
kāśmīraṃ cāru bāhlīkaṃ saṃkocaṃ piśunaṃ varam ||
कुङ्कुमं कटुकं तिक्तमुष्णं श्लेष्मसमीरजित् । (१२।१)
kuṅkumaṃ kaṭukaṃ tiktamuṣṇaṃ śleṣmasamīrajit |
उशीरौशीरं चामृणालं स्यादभयं समगन्धिकम् । (१३।१)
uśīrauśīraṃ cāmṛṇālaṃ syādabhayaṃ samagandhikam |
वातघ्नं ज्वरतृण्मेहनुद्रक्तं हन्ति योगतः ॥ (१४।२)
vātaghnaṃ jvaratṛṇmehanudraktaṃ hanti yogataḥ ||
उशीरं स्वेददौर्गन्ध्यपित्तघ्नं स्निग्धतिक्तकम् । (१५।१)
uśīraṃ svedadaurgandhyapittaghnaṃ snigdhatiktakam |
प्रियङ्गुप्रियङ्गुः प्रियवल्ली च फलिनी कङ्गुनी प्रिया । (१५।२)
priyaṅgupriyaṅguḥ priyavallī ca phalinī kaṅgunī priyā |
वृत्ता गोवन्दनी श्यामा कारम्भा वर्णभेदनी ॥ (१५।३)
vṛttā govandanī śyāmā kārambhā varṇabhedanī ||
ज्वरवान्तिहरा रक्तमुद्रिक्तं च प्रसादयेत् ॥ (१६।२)
jvaravāntiharā raktamudriktaṃ ca prasādayet ||
तूणितूणिस् तूणीकणः पीततूणिकः कनकस्तथा । (१७।१)
tūṇitūṇis tūṇīkaṇaḥ pītatūṇikaḥ kanakastathā |
कुठेरकः कान्तलको नन्दिवृक्षोऽथ नन्दिकः ॥ (१७।२)
kuṭherakaḥ kāntalako nandivṛkṣo'tha nandikaḥ ||
तूणी त्रिदोषहृद्वृष्यः कण्डूकुष्ठव्रणापहः । (१८।१)
tūṇī tridoṣahṛdvṛṣyaḥ kaṇḍūkuṣṭhavraṇāpahaḥ |
रोचनारोचना पिङ्गला पिङ्गा मेध्या गौरी च गोमती । (१९।१)
rocanārocanā piṅgalā piṅgā medhyā gaurī ca gomatī |
माङ्गल्या वन्दनीयाग्र्या पावनी रुचिरा रुचिः ॥ (१९।२)
māṅgalyā vandanīyāgryā pāvanī rucirā ruciḥ ||
गोरोचना:: मेदिच्। प्रोपेर्तिएस्रोचना पाचनी शीता विषनेत्ररुजो जयेत् । (२०।१)
gorocanā:: medic. propertiesrocanā pācanī śītā viṣanetrarujo jayet |
तुरुष्कतुरुष्को यावनः कल्कः पिण्याकः पिण्डितः कपिः । (२१।१)
turuṣkaturuṣko yāvanaḥ kalkaḥ piṇyākaḥ piṇḍitaḥ kapiḥ |
कपिजः कृत्रिमो धूम्रो धूम्रवर्णश्च सिल्हकः ॥ (२१।२)
kapijaḥ kṛtrimo dhūmro dhūmravarṇaśca silhakaḥ ||
सुगन्धिः कृतकश्चैव युक्तियुक्तश्च पिण्डकः । (२२।१)
sugandhiḥ kṛtakaścaiva yuktiyuktaśca piṇḍakaḥ |
तुरुष्कः कटुतिक्तोष्णः स्निग्धो वातबलासजित् । (२३।१)
turuṣkaḥ kaṭutiktoṣṇaḥ snigdho vātabalāsajit |
स्वादुश्च कटुकः पाके सुरभिर्देवताप्रियः ॥ (२३।२)
svāduśca kaṭukaḥ pāke surabhirdevatāpriyaḥ ||
अगरुअगरु प्रवरं लोहं कृमिजग्धमनार्यकम् । (२४।१)
agaruagaru pravaraṃ lohaṃ kṛmijagdhamanāryakam |
श्रुतिनेत्ररुजं हन्ति माङ्गल्यं कुष्ठनुत्परम् ॥ (२५।२)
śrutinetrarujaṃ hanti māṅgalyaṃ kuṣṭhanutparam ||
कालेयककालेयकं ससारं च पीतवर्णं च शब्दतः । (२६।१)
kāleyakakāleyakaṃ sasāraṃ ca pītavarṇaṃ ca śabdataḥ |
कस्तूरिकाकस्तूरिका मृगमदो मृगनाभिर्मृगाण्डजा । (२७।१)
kastūrikākastūrikā mṛgamado mṛganābhirmṛgāṇḍajā |
कस्तूरिका रसे तिक्ता कटुः श्लेष्मानिलापहा । (२८।१)
kastūrikā rase tiktā kaṭuḥ śleṣmānilāpahā |
कर्पूरकर्पूरः शीतलरजः शीताभ्रः स्फटिको हिमः । (२९।१)
karpūrakarpūraḥ śītalarajaḥ śītābhraḥ sphaṭiko himaḥ |
चन्द्रस् तुषारस् तुहिनः शशीन्दुर्हिमवालुकः ॥ (२९।२)
candras tuṣāras tuhinaḥ śaśīndurhimavālukaḥ ||
कर्पूरं कटुतिक्तं च मधुरं शिशिरं विदुः । (३०।१)
karpūraṃ kaṭutiktaṃ ca madhuraṃ śiśiraṃ viduḥ |
जातिपत्त्रीजातिपत्री जातिकोशा सुमनःपत्त्रिकापि च । (३१।१)
jātipattrījātipatrī jātikośā sumanaḥpattrikāpi ca |
मालतीपत्त्रिका चैव प्रोक्ता सा मलनाशिनी ॥ (३१।२)
mālatīpattrikā caiva proktā sā malanāśinī ||
जातिपत्री कटूष्णा स्यात्सुरभिः कफनाशिनी । (३२।१)
jātipatrī kaṭūṣṇā syātsurabhiḥ kaphanāśinī |
वक्त्रदौर्गन्ध्यहृद्वर्ण्या विषहृत् कायशान्तिदा ॥ (३२।२)
vaktradaurgandhyahṛdvarṇyā viṣahṛt kāyaśāntidā ||
जातीफलजातीफलं जातिसस्यं शालूकं मालतीफलम् । (३३।१)
jātīphalajātīphalaṃ jātisasyaṃ śālūkaṃ mālatīphalam |
मदशौण्डं जातिशृङ्गं पुटं सौमनसं फलम् ॥ (३३।२)
madaśauṇḍaṃ jātiśṛṅgaṃ puṭaṃ saumanasaṃ phalam ||
जातीफलं कषायोष्णं कटु कण्ठामयार्तिजित् । (३४।१)
jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit |
कङ्कोलकङ्कोलकं कृतफलं कोलकं कटुकं फलम् । (३५।१)
kaṅkolakaṅkolakaṃ kṛtaphalaṃ kolakaṃ kaṭukaṃ phalam |
चूर्णं कन्दफलं द्वीपमरिचं माधवोचितम् ॥ (३५।२)
cūrṇaṃ kandaphalaṃ dvīpamaricaṃ mādhavocitam ||
कङ्कोलं कटुतिक्तोष्णं वक्त्रवैरस्यनाशनम् । (३६।१)
kaṅkolaṃ kaṭutiktoṣṇaṃ vaktravairasyanāśanam |
मुखजाड्यहरं रुच्यं वातश्लेष्महरं परम् ॥ (३६।२)
mukhajāḍyaharaṃ rucyaṃ vātaśleṣmaharaṃ param ||
पूगस्यात्पूगफलमुद्वेगं स्रंसि घोण्टाफलं स्मृतम् । (३७।१)
pūgasyātpūgaphalamudvegaṃ sraṃsi ghoṇṭāphalaṃ smṛtam |
चिक्कणं चिक्कणा चिक्का गुवाकः खपुरं च तत् ॥ (३७।२)
cikkaṇaṃ cikkaṇā cikkā guvākaḥ khapuraṃ ca tat ||
भेदि संमोहकृत् पूगं कषायं स्वादु रोचनम् । (३८।१)
bhedi saṃmohakṛt pūgaṃ kaṣāyaṃ svādu rocanam |
लवङ्गलवङ्गं देवकुसुमं भृङ्गारं शिखरं लवम् । (३९।१)
lavaṅgalavaṅgaṃ devakusumaṃ bhṛṅgāraṃ śikharaṃ lavam |
दिव्यं चन्दनपुष्पं च श्रीपुष्पं वारिसम्भवम् ॥ (३९।२)
divyaṃ candanapuṣpaṃ ca śrīpuṣpaṃ vārisambhavam ||
चक्षुष्यं विषहृत् वृष्यं माङ्गल्यं मूर्धरोगहृत् ॥ (४०।२)
cakṣuṣyaṃ viṣahṛt vṛṣyaṃ māṅgalyaṃ mūrdharogahṛt ||
सुषिरा धमनी शून्या निर्मथ्या नर्तकी नटा ॥ (४१।२)
suṣirā dhamanī śūnyā nirmathyā nartakī naṭā ||
मांसीमांसी कृष्णजटा हिंस्रा नलदा जटिला मिशी । (४३।१)
māṃsīmāṃsī kṛṣṇajaṭā hiṃsrā naladā jaṭilā miśī |
मांसी स्वादुकषाया स्यात्कफपित्तास्रनाशिनी । (४४।१)
māṃsī svādukaṣāyā syātkaphapittāsranāśinī |
विषमारुतहृद्बल्या त्वच्या कान्तिप्रसादनी ॥ (४४।२)
viṣamārutahṛdbalyā tvacyā kāntiprasādanī ||
गन्धमांसीद्वितीया गन्धमांसी स्यात् केशी भूतजटा स्मृता । (४५।१)
gandhamāṃsīdvitīyā gandhamāṃsī syāt keśī bhūtajaṭā smṛtā |
मांसीद्वयं कषायं च वर्ण्यं पित्तकफापहम् । (४६।१)
māṃsīdvayaṃ kaṣāyaṃ ca varṇyaṃ pittakaphāpaham |
रक्षोघ्नं च सुगन्धि स्याद् वातघ्नं केश्यमुत्तमम् ॥ (४६।२)
rakṣoghnaṃ ca sugandhi syād vātaghnaṃ keśyamuttamam ||
कुष्ठकुष्ठं रोगोऽगदो व्याधिरुत्पलं पाकलं रुजा । (४७।१)
kuṣṭhakuṣṭhaṃ rogo'gado vyādhirutpalaṃ pākalaṃ rujā |
वाप्यं वानीरजं रामं कौबेरं पारिभद्रकम् ॥ (४७।२)
vāpyaṃ vānīrajaṃ rāmaṃ kauberaṃ pāribhadrakam ||
कुष्ठं कटूष्णं तिक्तं स्यात् कफमारुतरक्तजित् । (४८।१)
kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutaraktajit |
त्रिदोषविषकण्डूंश्च कुष्ठरोगांश्च नाशयेत् ॥ (४८।२)
tridoṣaviṣakaṇḍūṃśca kuṣṭharogāṃśca nāśayet ||
रेणुकारेणुका राजपुत्री च नन्दिनी कपिला द्विजा । (४९।१)
reṇukāreṇukā rājaputrī ca nandinī kapilā dvijā |
कपिलोला पाण्डुपुत्री स्मृता कौन्ती हरेणुका ॥ (४९।२)
kapilolā pāṇḍuputrī smṛtā kauntī hareṇukā ||
रेणुका शिशिरात्यन्ता तृष्णां कण्डूंच नाशयेत् । (५०।१)
reṇukā śiśirātyantā tṛṣṇāṃ kaṇḍūṃca nāśayet |
तगरतगरं कुटिलं वक्रं दीनं जिह्मं नतं शठम् । (५१।१)
tagaratagaraṃ kuṭilaṃ vakraṃ dīnaṃ jihmaṃ nataṃ śaṭham |
कालानुसार्यम् अनृजु कुञ्चितं नहुषं नृपम् ॥ (५१।२)
kālānusāryam anṛju kuñcitaṃ nahuṣaṃ nṛpam ||
तगरं स्यात् कषायोष्णं स्निग्धं दोषत्रयप्रणुत् । (५२।१)
tagaraṃ syāt kaṣāyoṣṇaṃ snigdhaṃ doṣatrayapraṇut |
परिप्लवपरिप्लवं प्लवं वन्यं गोपुटं स्यात्कुटन्नटम् । (५३।१)
pariplavapariplavaṃ plavaṃ vanyaṃ gopuṭaṃ syātkuṭannaṭam |
सितपुष्पं दाशपुरं गोनर्दं जीर्णपुष्पकम् ॥ (५३।२)
sitapuṣpaṃ dāśapuraṃ gonardaṃ jīrṇapuṣpakam ||
परिप्लवं सुगन्धि स्यात्प्रस्वेदमलकण्डुजित् । (५४।१)
pariplavaṃ sugandhi syātprasvedamalakaṇḍujit |
जयेद्वातकफौ चापि मेध्यं कान्तिप्रदं भवेत् ॥ (५४।२)
jayedvātakaphau cāpi medhyaṃ kāntipradaṃ bhavet ||
नखनखः कररुहः शिल्पी करजोऽथ खुरः शफः । (५५।१)
nakhanakhaḥ kararuhaḥ śilpī karajo'tha khuraḥ śaphaḥ |
शुक्तिः शङ्खश्चलः कोशी हनुर्नागहनुः सहः ॥ (५५।२)
śuktiḥ śaṅkhaścalaḥ kośī hanurnāgahanuḥ sahaḥ ||
नखं कटुकमुष्णं च विषं हन्ति प्रयोजितम् । (५६।१)
nakhaṃ kaṭukamuṣṇaṃ ca viṣaṃ hanti prayojitam |
कुष्ठानि सादयत्येव कफं खण्डयति क्षणात् ॥ (५६।२)
kuṣṭhāni sādayatyeva kaphaṃ khaṇḍayati kṣaṇāt ||
नख:: व्याघ्रनखनखमन्यद् व्याघ्रनखं पुटं व्याघ्रायुधं मतम् । (५७।१)
nakha:: vyāghranakhanakhamanyad vyāghranakhaṃ puṭaṃ vyāghrāyudhaṃ matam |
अस्रं व्याघ्रतलं पादं कूटस्थं वज्रकारकम् ॥ (५७।२)
asraṃ vyāghratalaṃ pādaṃ kūṭasthaṃ vajrakārakam ||
व्याघ्रनखस्तु तिक्तोष्णः कषायः कफवातजित् । (५८।१)
vyāghranakhastu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit |
कण्डूकुष्ठव्रणघ्नश्च वर्ण्यः सौगन्ध्यदः परः ॥ (५८।२)
kaṇḍūkuṣṭhavraṇaghnaśca varṇyaḥ saugandhyadaḥ paraḥ ||
स्पृक्कास्पृक्कासृग्ब्राह्मणी देवी मालाली कोटिका मता । (५९।१)
spṛkkāspṛkkāsṛgbrāhmaṇī devī mālālī koṭikā matā |
पञ्चमुष्टिर्देवपुत्री निर्माल्या पिशुना वधूः ॥ (५९।२)
pañcamuṣṭirdevaputrī nirmālyā piśunā vadhūḥ ||
स्पृक्का शीता सुगन्धा स्यात् तृष्णां मुष्णाति योजिता । (६०।१)
spṛkkā śītā sugandhā syāt tṛṣṇāṃ muṣṇāti yojitā |
विषं हन्ति हिनस्त्येव दाहं देहसमुद्भवम् ॥ (६०।२)
viṣaṃ hanti hinastyeva dāhaṃ dehasamudbhavam ||
स्पृक्का सुगन्धा कुष्ठघ्नी दौर्गन्ध्यस्वेदनाशिनी । (६१।१)
spṛkkā sugandhā kuṣṭhaghnī daurgandhyasvedanāśinī |
बोलबोलं गन्धरसं पिण्डं निर्लोहं बर्बरं रसम् । (६१।२)
bolabolaṃ gandharasaṃ piṇḍaṃ nirlohaṃ barbaraṃ rasam |
गोपकं नालिकं पौरं विषं गन्धरसं विदुः ॥ (६१।३)
gopakaṃ nālikaṃ pauraṃ viṣaṃ gandharasaṃ viduḥ ||
बोलं तिक्तं हिमं रक्तमुद्रिक्तं हन्ति योगतः । (६२।१)
bolaṃ tiktaṃ himaṃ raktamudriktaṃ hanti yogataḥ |
दमनदमनः पाण्डुरागः स्यात् दान्तः गन्धोत्कटो मुनिः । (६३।१)
damanadamanaḥ pāṇḍurāgaḥ syāt dāntaḥ gandhotkaṭo muniḥ |
दमनः स्याद्रसे तिक्तो विषघ्नो भूतदोषनुत् । (६४।१)
damanaḥ syādrase tikto viṣaghno bhūtadoṣanut |
त्रिदोषशमनो हृद्यः कण्डूकुष्ठापहः स्मृतः ॥ (६४।२)
tridoṣaśamano hṛdyaḥ kaṇḍūkuṣṭhāpahaḥ smṛtaḥ ||
दमन:: दमदमनोऽन्यो दमः शान्तः ऋषिर् दमवशान्वितः । (६५।१)
damana:: damadamano'nyo damaḥ śāntaḥ ṛṣir damavaśānvitaḥ |
क्षमाशान्तिपरः साधुः साधुकः साधुगन्धिकः ॥ (६५।२)
kṣamāśāntiparaḥ sādhuḥ sādhukaḥ sādhugandhikaḥ ||
मुरामुरा गन्धवती दैत्या गन्धाढ्या गन्धमालिनी । (६६।१)
murāmurā gandhavatī daityā gandhāḍhyā gandhamālinī |
सुरभिर् भूरिगन्धा च कुटी गन्धकुटी स्मृता ॥ (६६।२)
surabhir bhūrigandhā ca kuṭī gandhakuṭī smṛtā ||
मुरात्यन्तं भवेच्छीता तिक्ता सुरभिगन्धिनी । (६७।१)
murātyantaṃ bhavecchītā tiktā surabhigandhinī |
क्षिणोति क्षतपुञ्जांश्च पित्तशान्तिं नियच्छति ॥ (६७।२)
kṣiṇoti kṣatapuñjāṃśca pittaśāntiṃ niyacchati ||
स्थौणेयकस्थौणेयकं बर्हिचूडं शुकपुष्पं शुकच्छदम् । (६८।१)
sthauṇeyakasthauṇeyakaṃ barhicūḍaṃ śukapuṣpaṃ śukacchadam |
स्थौणेयं कफवातघ्नं सुगन्धि कटुतिक्तकम् । (६९।१)
sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam |
चोरकचोरकः शङ्कितश्चण्डा दुष्पत्त्रः क्षेमको रिपुः । (७०।१)
corakacorakaḥ śaṅkitaścaṇḍā duṣpattraḥ kṣemako ripuḥ |
कुष्ठकण्डूव्रणान् हन्ति क्षणाद् दोषान् प्रयोगतः ॥ (७१।२)
kuṣṭhakaṇḍūvraṇān hanti kṣaṇād doṣān prayogataḥ ||
शैलेयशैलेयं पलितं वृद्धं जीर्णं कालानुसार्यकम् । (७२।२)
śaileyaśaileyaṃ palitaṃ vṛddhaṃ jīrṇaṃ kālānusāryakam |
स्थविरं च शिलादद्रु शिलापुष्पं शिलोद्भवम् ॥ (७२।३)
sthaviraṃ ca śilādadru śilāpuṣpaṃ śilodbhavam ||
शैलेयकं हिमं प्रोक्तं दाहजिद्विषनाशनम् । (७३।१)
śaileyakaṃ himaṃ proktaṃ dāhajidviṣanāśanam |
रक्तदोषहरं चैव कण्डूनिर्मूलनं स्मृतम् ॥ (७३।२)
raktadoṣaharaṃ caiva kaṇḍūnirmūlanaṃ smṛtam ||
शैलेयं तिक्तकं शीतं सुगन्धि कफपित्तजित् । (७४।१)
śaileyaṃ tiktakaṃ śītaṃ sugandhi kaphapittajit |
एलावालुकएलवालुकम् आलूकं वालुकं हरिवालुकम् । (७५।१)
elāvālukaelavālukam ālūkaṃ vālukaṃ harivālukam |
एल्वालुकं कपित्थं स्याद्दुर्वर्णं प्रसरं दृढम् ॥ (७५।२)
elvālukaṃ kapitthaṃ syāddurvarṇaṃ prasaraṃ dṛḍham ||
एलवालुः सुगन्धिः स्याच्छीतोऽत्यन्तं प्रकीर्तितः । (७६।१)
elavāluḥ sugandhiḥ syācchīto'tyantaṃ prakīrtitaḥ |
विषविध्वंसनो ऽत्युग्रकण्डूकुष्ठव्रणान्तकृत् ॥ (७६।२)
viṣavidhvaṃsano 'tyugrakaṇḍūkuṣṭhavraṇāntakṛt ||
सरलसरलः पूतिकाष्ठं च चीडा पूतिद्रुमो मतः । (७७।१)
saralasaralaḥ pūtikāṣṭhaṃ ca cīḍā pūtidrumo mataḥ |
दीपवृक्षः स्निग्धदारुः प्रोक्तो मारीचपत्त्रकः ॥ (७७।२)
dīpavṛkṣaḥ snigdhadāruḥ prokto mārīcapattrakaḥ ||
वक्त्रस्रावस्वरभ्रंशनेत्ररोगव्रणान्तकृत् ॥ (७८।२)
vaktrasrāvasvarabhraṃśanetrarogavraṇāntakṛt ||
सप्तपर्णसप्तपर्णः शुक्तिपर्णश्छत्त्रपर्णः सुपर्णकः । (७९।१)
saptaparṇasaptaparṇaḥ śuktiparṇaśchattraparṇaḥ suparṇakaḥ |
सप्तच्छदो गूढपुष्पस्तथा शाल्मलिपत्त्रकः ॥ (७९।२)
saptacchado gūḍhapuṣpastathā śālmalipattrakaḥ ||
शूलगुल्मकृमीन् कुष्ठं हन्ति शाल्मलिपत्त्रकः ॥ (८०।२)
śūlagulmakṛmīn kuṣṭhaṃ hanti śālmalipattrakaḥ ||
लाक्षालाक्षा पलङ्कषा रक्ता दीप्तिश्च कृमिजा जतु । (८१।१)
lākṣālākṣā palaṅkaṣā raktā dīptiśca kṛmijā jatu |
लाक्षा तिक्तकषाया स्यात्स्निग्धा शोणितपित्तनुत् । (८२।१)
lākṣā tiktakaṣāyā syātsnigdhā śoṇitapittanut |
कृमिश्लेष्मव्रणान् हन्ति भूतज्वरार्तिनाशिनी ॥ (८२।२)
kṛmiśleṣmavraṇān hanti bhūtajvarārtināśinī ||
तामलकीतामलक्यजटा ताली तमाली तु तमालिनी । (८३।१)
tāmalakītāmalakyajaṭā tālī tamālī tu tamālinī |
वितुन्ना भूम्यामलकी भूधात्री भ्वामलक्यपि ॥ (८३।२)
vitunnā bhūmyāmalakī bhūdhātrī bhvāmalakyapi ||
भूधात्री मधुरा तिक्ता वीर्यतः शिशिरा स्मृता । (८४।१)
bhūdhātrī madhurā tiktā vīryataḥ śiśirā smṛtā |
पित्तं हन्ति कफास्रघ्नी दृष्टिदाहविनाशिनी ॥ (८४।२)
pittaṃ hanti kaphāsraghnī dṛṣṭidāhavināśinī ||
लामज्जकलामज्जकं सुनालं स्यादमृणालं लवं लघु । (८५।१)
lāmajjakalāmajjakaṃ sunālaṃ syādamṛṇālaṃ lavaṃ laghu |
इष्टकापथकं शीघ्रं दीर्घमूलं जलाश्रयम् ॥ (८५।२)
iṣṭakāpathakaṃ śīghraṃ dīrghamūlaṃ jalāśrayam ||
लामज्जकं भवेत्तिक्तं हिमं चात्यन्तमिष्यते । (८६।१)
lāmajjakaṃ bhavettiktaṃ himaṃ cātyantamiṣyate |
पद्मकपद्मको मलयश् चारुः पीतरक्तः सुरोद्भवः । (८७।१)
padmakapadmako malayaś cāruḥ pītaraktaḥ surodbhavaḥ |
पद्मकं शिशिरं स्निग्धं कषायं रक्तपित्तनुत् । (८८।१)
padmakaṃ śiśiraṃ snigdhaṃ kaṣāyaṃ raktapittanut |
गर्भस्थैर्यकरं प्रोक्तं ज्वरच्छर्दिविषापहम् ॥ (८८।२)
garbhasthairyakaraṃ proktaṃ jvaracchardiviṣāpaham ||
मोहदाहज्वरभ्रान्तिकुष्ठविस्फोटशान्तिकृत् । (८९।१)
mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt |
धातकीधातकी ताम्रपुष्पी च कुञ्जरा मद्यवासिनी । (८९।२)
dhātakīdhātakī tāmrapuṣpī ca kuñjarā madyavāsinī |
पार्वतीया सुभिक्षा च वह्निपुष्पा च शब्दिता ॥ (८९।३)
pārvatīyā subhikṣā ca vahnipuṣpā ca śabditā ||
प्रपौण्डरीकप्रपौण्डरीकं चक्षुष्यं पुण्डर्यं पुण्डरीयकम् । (९१।१)
prapauṇḍarīkaprapauṇḍarīkaṃ cakṣuṣyaṃ puṇḍaryaṃ puṇḍarīyakam |
सितपुष्पं सुपुष्पं स्यात् श्रीपुष्पं सानुजानुजम् ॥ (९१।२)
sitapuṣpaṃ supuṣpaṃ syāt śrīpuṣpaṃ sānujānujam ||
कर्चूरकर्चूरो गन्धमूलश्च द्राविडं कार्श एव च । (९३।१)
karcūrakarcūro gandhamūlaśca drāviḍaṃ kārśa eva ca |
वेधमुख्यो दुर्लभश्च कस्यचित् संमतः शटी ॥ (९३।२)
vedhamukhyo durlabhaśca kasyacit saṃmataḥ śaṭī ||
कर्चूरः कटुतिक्तोष्णो रुच्यो वातबलासजित् । (९४।१)
karcūraḥ kaṭutiktoṣṇo rucyo vātabalāsajit |
मनःशिलामनःशिला मनोगुप्ता मनोह्वा कुनटी शिला । (९५।१)
manaḥśilāmanaḥśilā manoguptā manohvā kunaṭī śilā |
मनःशिला:: मेदिच्। प्रोपेर्तिएस्मनःशिला कटुस्तिक्ता तथोष्णा विषनाशनी । (९६।१)
manaḥśilā:: medic. propertiesmanaḥśilā kaṭustiktā tathoṣṇā viṣanāśanī |
सिन्दूर:: स्य्नोन्य्म्स्सिन्दूरं रक्तरेणुश्च नागगर्भं च नागजम् । (९७।१)
sindūra:: synonymssindūraṃ raktareṇuśca nāgagarbhaṃ ca nāgajam |
शृङ्गारभूषणं श्रीमद् वसन्तोत्सवमंडनम् ॥ (९७।२)
śṛṅgārabhūṣaṇaṃ śrīmad vasantotsavamaṃḍanam ||
गिरिसिन्दूर:: ओरिगिन्महागिरिषु चाल्पीयान् पाषाणान्तः स्थितो रसः । (९९।१)
girisindūra:: originmahāgiriṣu cālpīyān pāṣāṇāntaḥ sthito rasaḥ |
शुष्कः शोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञकः ॥ (९९।२)
śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñakaḥ ||
गिरिसिन्दूर:: मेदिच्। प्रोपेर्तिएस्त्रिदोषशमनं भेदि रसबन्धनम् अग्निदम् । (१००।१)
girisindūra:: medic. propertiestridoṣaśamanaṃ bhedi rasabandhanam agnidam |
देहलोहकरं नेत्र्यं गिरिसिन्दूरम् ईरितम् ॥ (१००।२)
dehalohakaraṃ netryaṃ girisindūram īritam ||
सौराष्ट्री:: स्य्नोन्य्म्स्सौराष्ट्री चामृतासङ्गा काङ्क्षी काक्षी सुराष्ट्रजा । (१०१।१)
saurāṣṭrī:: synonymssaurāṣṭrī cāmṛtāsaṅgā kāṅkṣī kākṣī surāṣṭrajā |
अजिता तुवरी स्तुत्या मृत्सा मृत्स्ना मृतालकम् ॥ (१०१।२)
ajitā tuvarī stutyā mṛtsā mṛtsnā mṛtālakam ||
सौराष्ट्री:: मेदिच्। प्रोपेर्तिएस्काङ्क्षी कटुकषाया स्यात् केश्या चैव विषापहा । (१०२।१)
saurāṣṭrī:: medic. propertieskāṅkṣī kaṭukaṣāyā syāt keśyā caiva viṣāpahā |
कण्डूविसर्पश्वित्राणां नाशनी व्रणरोपनी ॥ (१०२।२)
kaṇḍūvisarpaśvitrāṇāṃ nāśanī vraṇaropanī ||
सुल्ड़ुर्:: स्य्नोन्य्म्स्गन्धको गन्धपाषाणो लेलीतो गन्धमादनः । (१०३।१)
sulfur:: synonymsgandhako gandhapāṣāṇo lelīto gandhamādanaḥ |
पूतिगन्धो बलिवत्सा गन्धाश्मा धातुहा बली ॥ (१०३।२)
pūtigandho balivatsā gandhāśmā dhātuhā balī ||
सुल्ड़ुर्:: मेदिच्। प्रोपेर्तिएस्गन्धकः कटुतिक्तोष्णस् तीव्रगन्धो ऽतिगन्धकृत् । (१०४।१)
sulfur:: medic. propertiesgandhakaḥ kaṭutiktoṣṇas tīvragandho 'tigandhakṛt |
विषघ्नः कुष्ठकण्डूतिकच्छूत्वग्दोषनाशनः ॥ (१०४।२)
viṣaghnaḥ kuṣṭhakaṇḍūtikacchūtvagdoṣanāśanaḥ ||
वटसौगन्धिकवटसौगन्धिको गन्धो गन्धको गन्धमादनः । (१०५।१)
vaṭasaugandhikavaṭasaugandhiko gandho gandhako gandhamādanaḥ |
लेलीनो गन्धपाषाणः लेलीतश्च निकृन्तनः ॥ (१०५।२)
lelīno gandhapāṣāṇaḥ lelītaśca nikṛntanaḥ ||
अम्बष्ठामाचिका प्रथिताम्बष्ठा तथाम्बाम्बालिकाम्बिका । (१०७।१)
ambaṣṭhāmācikā prathitāmbaṣṭhā tathāmbāmbālikāmbikā |
अम्बष्ठका कषाया च सा प्रोक्ता मुखवाचिका ॥ (१०७।२)
ambaṣṭhakā kaṣāyā ca sā proktā mukhavācikā ||
अम्बिका तु रसे तिक्ता तथोष्णा कफनाशनी । (१०८।१)
ambikā tu rase tiktā tathoṣṇā kaphanāśanī |
अर्शोघ्नी श्वयथूत्थानपरिपन्थितया स्मृता ॥ (१०८।२)
arśoghnī śvayathūtthānaparipanthitayā smṛtā ||
wअxसिक्थकं मधुकं सिक्थं मधूच्छिष्टं मधूत्थितम् । (१०९।१)
waxsikthakaṃ madhukaṃ sikthaṃ madhūcchiṣṭaṃ madhūtthitam |
मधुशेषं मदनकं मधुजं माक्षिकाश्रयम् ॥ (१०९।२)
madhuśeṣaṃ madanakaṃ madhujaṃ mākṣikāśrayam ||
सिक्थकं स्निग्धमधुरं भूतघ्नं भग्नसंधिकृत् । (११०।१)
sikthakaṃ snigdhamadhuraṃ bhūtaghnaṃ bhagnasaṃdhikṛt |
हन्ति वीसर्पकण्ड्वादीन् व्रणरोपणमुत्तमम् ॥ (११०।२)
hanti vīsarpakaṇḍvādīn vraṇaropaṇamuttamam ||
भेदनं पिच्छिलं स्वादु कुष्ठवातास्रजिन्मृदु । (१११।१)
bhedanaṃ picchilaṃ svādu kuṣṭhavātāsrajinmṛdu |
सर्जरसरालः सर्जरसः शालः क्षणः कलकलोद्भवः । (१११।२)
sarjarasarālaḥ sarjarasaḥ śālaḥ kṣaṇaḥ kalakalodbhavaḥ |
ललनः शालनिर्यासो यक्षधूपोऽग्निवल्लभः ॥ (१११।३)
lalanaḥ śālaniryāso yakṣadhūpo'gnivallabhaḥ ||
रालः स्वादुः कषायोष्णः स्तम्भनो व्रणरोपणः । (११२।१)
rālaḥ svāduḥ kaṣāyoṣṇaḥ stambhano vraṇaropaṇaḥ |
विषादिभूतहन्ता च भग्नसंधानकृत् यतः ॥ (११२।२)
viṣādibhūtahantā ca bhagnasaṃdhānakṛt yataḥ ||
कासीस:: स्य्नोन्य्म्स्कासीसं धातुकासीसं केसरं तप्तलोमशम् । (११३।१)
kāsīsa:: synonymskāsīsaṃ dhātukāsīsaṃ kesaraṃ taptalomaśam |
कासीस:: मेदिच्। प्रोपेर्तिएस्कासीसं तु कषायोष्णमम्लं वातबलासजित् ॥ (११३।२)
kāsīsa:: medic. propertieskāsīsaṃ tu kaṣāyoṣṇamamlaṃ vātabalāsajit ||
विषनेत्ररुजः श्वित्रं हन्ति कुष्ठव्रणानपि । (११४।१)
viṣanetrarujaḥ śvitraṃ hanti kuṣṭhavraṇānapi |
पुष्पकासीसद्वितीयं पुष्पकासीसं वत्सकं च मलीमसम् । (११४।२)
puṣpakāsīsadvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam |
ह्रस्वं नेत्रौषधं योज्यं विषदं नीलमृत्तिका ॥ (११४।३)
hrasvaṃ netrauṣadhaṃ yojyaṃ viṣadaṃ nīlamṛttikā ||
पुष्पकासीस:: मेदिच्। प्रोपेर्तिएस्पुष्पादिकासीसम् अतिप्रशस्तं सोष्णं कषायाम्लमतीव नेत्र्यम् । (११५।१)
puṣpakāsīsa:: medic. propertiespuṣpādikāsīsam atipraśastaṃ soṣṇaṃ kaṣāyāmlamatīva netryam |
विषानलश्लेष्मगदव्रणघ्नं श्वित्रक्षयघ्नं कचरञ्जनं च ॥ (११५।२)
viṣānalaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca ||
गुग्गुलुगुग्गुलुः कालनिर्यासो जटायुः कौशिकः पुरः । (११६।१)
guggulugugguluḥ kālaniryāso jaṭāyuḥ kauśikaḥ puraḥ |
नक्तंचरः शिवा दुर्गा महिषाक्षः पलंकषः ॥ (११६।२)
naktaṃcaraḥ śivā durgā mahiṣākṣaḥ palaṃkaṣaḥ ||
गुग्गुलुः पिच्छिलः प्रोक्तः कटुस्तिक्तः कषायवान् । (११७।१)
gugguluḥ picchilaḥ proktaḥ kaṭustiktaḥ kaṣāyavān |
वर्ण्यः स्वर्यो लघुः सूक्ष्मो रूक्षो वातबलासजित् ॥ (११७।२)
varṇyaḥ svaryo laghuḥ sūkṣmo rūkṣo vātabalāsajit ||
कुन्दुरुकुन्दुरुः स्यात् कुन्दुरुकः शिखरी कुन्द्रगोपुरः । (११८।१)
kundurukunduruḥ syāt kundurukaḥ śikharī kundragopuraḥ |
सुकुन्द्रस् तीक्ष्णगन्धश्च पालिन्दो भीषणो बली ॥ (११८।२)
sukundras tīkṣṇagandhaśca pālindo bhīṣaṇo balī ||
कुन्दुरुः कटुकस् तिक्तो वातश्लेष्ममलापहः । (११९।१)
kunduruḥ kaṭukas tikto vātaśleṣmamalāpahaḥ |
पाने लेपे च शिशिरः प्रदरामयशान्तिकृत् ॥ (११९।२)
pāne lepe ca śiśiraḥ pradarāmayaśāntikṛt ||
श्रीवेष्टकश्रीवेष्टको धूपवृक्षः क्षीरशीर्षः खरद्रुमः । (१२०।१)
śrīveṣṭakaśrīveṣṭako dhūpavṛkṣaḥ kṣīraśīrṣaḥ kharadrumaḥ |
श्रीवासः पायसः श्र्याह्वः क्षीरस्रावस्तथा दधि ॥ (१२०।२)
śrīvāsaḥ pāyasaḥ śryāhvaḥ kṣīrasrāvastathā dadhi ||
श्रीवेष्टः स्वादुतिक्तस्तु कषायो व्रणरोपणः । (१२१।१)
śrīveṣṭaḥ svādutiktastu kaṣāyo vraṇaropaṇaḥ |
कफपित्तास्रजान् हन्ति ग्रहघ्नः शीर्षरोगनुत् ॥ (१२१।२)
kaphapittāsrajān hanti grahaghnaḥ śīrṣaroganut ||
शल्लकीशल्लकी वल्लकी ह्लादा सुरभिः सुस्रवा च सा । (१२२।१)
śallakīśallakī vallakī hlādā surabhiḥ susravā ca sā |
शल्लकी स्यात्कषायातिशीता वीर्ये प्रकीर्तिता । (१२३।१)
śallakī syātkaṣāyātiśītā vīrye prakīrtitā |
कम्पिल्लकम्पिल्लकोऽथ रक्ताङ्गो रेची रेचनकस्तथा । (१२४।१)
kampillakampillako'tha raktāṅgo recī recanakastathā |
रञ्जनो लोहिताङ्गश्च कम्पिल्लो रक्तचूर्णकः ॥ (१२४।२)
rañjano lohitāṅgaśca kampillo raktacūrṇakaḥ ||
कम्पिल्लको विरेची स्यात्कटूष्णो व्रणनाशनः । (१२५।१)
kampillako virecī syātkaṭūṣṇo vraṇanāśanaḥ |
गुल्मोदरविबन्धाध्मानश्लेष्मक्रिमिविनाशनः ॥ (१२५।२)
gulmodaravibandhādhmānaśleṣmakrimivināśanaḥ ||
कङ्कुष्ठकङ्कुष्ठं कालकुष्ठं च विरङ्गं रङ्गनायकम् । (१२६।१)
kaṅkuṣṭhakaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅganāyakam |
रेचकं पुलकं ह्रासं शोधनं कालपालकम् ॥ (१२६।२)
recakaṃ pulakaṃ hrāsaṃ śodhanaṃ kālapālakam ||
कङ्कुष्ठ:: मेदिच्। प्रोपेर्तिएस्कङ्कुष्ठं तिक्तकटुकं वीर्ये चोष्णं प्रकीर्तितम् । (१२७।१)
kaṅkuṣṭha:: medic. propertieskaṅkuṣṭhaṃ tiktakaṭukaṃ vīrye coṣṇaṃ prakīrtitam |
गुल्मोदावर्तशूलघ्नं रसरञ्जं व्रणापहम् ॥ (१२७।२)
gulmodāvartaśūlaghnaṃ rasarañjaṃ vraṇāpaham ||
भल्लातकभल्लातकः स्मृतोऽरुष्को दहनस्तपनोऽग्निकः । (१२८।१)
bhallātakabhallātakaḥ smṛto'ruṣko dahanastapano'gnikaḥ |
अरुष्करो वीरतरुर्भल्लातोऽग्निमुखो धनुः ॥ (१२८।२)
aruṣkaro vīratarurbhallāto'gnimukho dhanuḥ ||
भल्लातः कटुतिक्तोष्णो मधुरः कृमिनाशनः । (१२९।१)
bhallātaḥ kaṭutiktoṣṇo madhuraḥ kṛmināśanaḥ |
गुल्मार्शोग्रहणीकुष्ठान् हन्ति वातकफामयान् ॥ (१२९।२)
gulmārśograhaṇīkuṣṭhān hanti vātakaphāmayān ||
तुत्थ:: स्य्नोन्य्म्स्तुत्थं कर्परिकातुत्थममृतासङ्गमेव च । (१३०।१)
tuttha:: synonymstutthaṃ karparikātutthamamṛtāsaṅgameva ca |
मयूरग्रीवकं चान्यच्छितिकण्ठं च तुत्थकम् ॥ (१३०।२)
mayūragrīvakaṃ cānyacchitikaṇṭhaṃ ca tutthakam ||
द्वितीयं कर्परीतुत्थं कर्परीतुत्थकं तथा । (१३१।१)
dvitīyaṃ karparītutthaṃ karparītutthakaṃ tathā |
नेत्रनैर्मल्यकारि स्यात्तत्तुत्थममृतोपमम् ॥ (१३१।२)
netranairmalyakāri syāttattutthamamṛtopamam ||
तुत्थ:: मेदिच्। प्रोपेर्तिएस्तुत्थकं दृष्टिरोगघ्नं शीतं श्वित्रविनाशनम् । (१३२।१)
tuttha:: medic. propertiestutthakaṃ dṛṣṭirogaghnaṃ śītaṃ śvitravināśanam |
विषवेगप्रशमनं प्रशस्तं कथ्यते बुधैः ॥ (१३२।२)
viṣavegapraśamanaṃ praśastaṃ kathyate budhaiḥ ||
स्वर्णमाक्षिकहेममाक्षिकम् आवर्तं तापीजं धातुमाक्षिकम् । (१३३।१)
svarṇamākṣikahemamākṣikam āvartaṃ tāpījaṃ dhātumākṣikam |
ताप्यं च माक्षिकं धातु मधुधातु विनिर्दिशेत् ॥ (१३३।२)
tāpyaṃ ca mākṣikaṃ dhātu madhudhātu vinirdiśet ||
माक्षिकं कटुतिक्तोष्णं रसायनमनुत्तमम् । (१३४।१)
mākṣikaṃ kaṭutiktoṣṇaṃ rasāyanamanuttamam |
त्रिदोषशमनं वृष्यं चक्षुष्यं च विषापहम् । (१३५।१)
tridoṣaśamanaṃ vṛṣyaṃ cakṣuṣyaṃ ca viṣāpaham |
मन्दानलत्वं बलहानिमुग्रां विष्टम्भतां नेत्ररुजं च कुष्ठम् । (१३५।२)
mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham |
करोति मालां व्रणपूर्विकां च माक्षीकधातुर्गुरुरप्यपक्वः ॥ (१३५।३)
karoti mālāṃ vraṇapūrvikāṃ ca mākṣīkadhāturgururapyapakvaḥ ||
अञ्जन:: स्य्नोन्य्म्सञ्जनं मेचकं कृष्णं सौवीरं च सुवीरजम् । (१३६।१)
añjana:: synonymsañjanaṃ mecakaṃ kṛṣṇaṃ sauvīraṃ ca suvīrajam |
कपोतं यामुनेयं च स्रोतोजं सारितं तथा ॥ (१३६।२)
kapotaṃ yāmuneyaṃ ca srotojaṃ sāritaṃ tathā ||
अञ्जन:: मेदिच्। प्रोपेर्तिएस्सौवीरमञ्जनं प्रोक्तमत्यन्तं शिशिरं बुधैः । (१३७।१)
añjana:: medic. propertiessauvīramañjanaṃ proktamatyantaṃ śiśiraṃ budhaiḥ |
समुद्रफेनसमुद्रफेनं फेनं च शुष्काशुष्कं पयोधिजम् । (१३८।१)
samudraphenasamudraphenaṃ phenaṃ ca śuṣkāśuṣkaṃ payodhijam |
विद्याद् उदधिफेनं च प्रोक्तं सागरजं मलम् ॥ (१३८।२)
vidyād udadhiphenaṃ ca proktaṃ sāgarajaṃ malam ||
चक्षुष्यं रक्तपित्तघ्नं गुल्मप्लीहहरं स्मृतम् । (१४०।१)
cakṣuṣyaṃ raktapittaghnaṃ gulmaplīhaharaṃ smṛtam |
चक्षुष्याचक्षुष्या दृक्प्रसादा च सैव प्रोक्ता कुलत्थिका । (१४०।२)
cakṣuṣyācakṣuṣyā dṛkprasādā ca saiva proktā kulatthikā |
हिमा प्रोक्ता कषाया च विषं स्थावरजङ्गमम् । (१४१।१)
himā proktā kaṣāyā ca viṣaṃ sthāvarajaṅgamam |
निहन्ति योजिता सम्यङ् नेत्रस्रावान् अनेकशः ॥ (१४१।२)
nihanti yojitā samyaṅ netrasrāvān anekaśaḥ ||
सा च विस्फोटकण्ड्वर्तिव्रणदोषनिबर्हणी । (१४२।१)
sā ca visphoṭakaṇḍvartivraṇadoṣanibarhaṇī |
रसाञ्जन:: स्य्नोन्य्म्स्रसाञ्जनं तार्क्ष्यशैलं रसजातं रसोद्भवम् । (१४२।२)
rasāñjana:: synonymsrasāñjanaṃ tārkṣyaśailaṃ rasajātaṃ rasodbhavam |
रसगर्भं रसाग्र्यं च दार्वीक्वाथसमुद्भवम् ॥ (१४२।३)
rasagarbhaṃ rasāgryaṃ ca dārvīkvāthasamudbhavam ||
रसाञ्जन:: मेदिच्। प्रोपेर्तिएस्रसाञ्जनं हिमं तिक्तं रक्तपित्तकफापहम् । (१४३।१)
rasāñjana:: medic. propertiesrasāñjanaṃ himaṃ tiktaṃ raktapittakaphāpaham |
पुष्पाञ्जन:: स्य्नोन्य्म्स्पुष्पाञ्जनं पुष्पकेतुः कौसुमं कुसुमाञ्जनम् । (१४४।१)
puṣpāñjana:: synonymspuṣpāñjanaṃ puṣpaketuḥ kausumaṃ kusumāñjanam |
रीतिजं रीतिकुसुमं रीतिपुष्पं च पौष्पिकम् ॥ (१४४।२)
rītijaṃ rītikusumaṃ rītipuṣpaṃ ca pauṣpikam ||
पुष्पाञ्जन:: मेदिच्। प्रोपेर्तिएस्पुष्पाञ्जनं हिमं हन्ति हिक्काम् अत्यन्तदुस्तराम् । (१४५।१)
puṣpāñjana:: medic. propertiespuṣpāñjanaṃ himaṃ hanti hikkām atyantadustarām |
अक्षिरोगचयं हन्याद्विषं निर्विषतां नयेत् ॥ (१४५।२)
akṣirogacayaṃ hanyādviṣaṃ nirviṣatāṃ nayet ||
शिलाजतु:: स्य्नोन्य्म्स्शिलाजतु स्याद् अतिथि शैलेयं गिरिजाश्मजम् । (१४६।१)
śilājatu:: synonymsśilājatu syād atithi śaileyaṃ girijāśmajam |
जत्वश्मजं चाश्मजतु प्रोक्तं धातुजमद्रिजम् ॥ (१४६।२)
jatvaśmajaṃ cāśmajatu proktaṃ dhātujamadrijam ||
शिलाजतु:: मेदिच्। प्रोपेर्तिएस्शिलाजतु भवेत्तिक्तं कटूष्णं च रसायनम् । (१४७।१)
śilājatu:: medic. propertiesśilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam |
क्षयशोफोदरार्शांसि हन्ति बस्तिरुजो जयेत् । (१४८।१)
kṣayaśophodarārśāṃsi hanti bastirujo jayet |
गैरिक:: स्य्नोन्य्म्स्गैरिकं रक्तधातु स्यात् ताम्रधातु गवेधुकम् । (१४८।२)
gairika:: synonymsgairikaṃ raktadhātu syāt tāmradhātu gavedhukam |
पाषाणगैरिकं चैव द्वितीयं स्वर्णगैरिकम् ॥ (१४८।३)
pāṣāṇagairikaṃ caiva dvitīyaṃ svarṇagairikam ||
पाषाणगैरिक:: फ्य्स्। प्रोपेर्तिएस्पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् । (१४९।१)
pāṣāṇagairika:: phys. propertiespāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam |
पाषाणगैरिक:: मेदिच्। प्रोपेर्तिएस्विशदो गैरिकः स्निग्धः कषायो मधुरो हिमः ॥ (१४९।२)
pāṣāṇagairika:: medic. propertiesviśado gairikaḥ snigdhaḥ kaṣāyo madhuro himaḥ ||
चक्षुष्यो रक्तपित्तघ्नश्छर्दिहिध्माविषापहः । (१५०।१)
cakṣuṣyo raktapittaghnaśchardihidhmāviṣāpahaḥ |
स्वर्णगैरिकसुवर्णगैरिकं चान्यत् ततो रक्तरजो विदुः । (१५०।२)
svarṇagairikasuvarṇagairikaṃ cānyat tato raktarajo viduḥ |
स्वर्णगैरिक:: फ्य्स्। प्रोपेर्तिएसत्यन्तं शोणितं स्निग्धं मसृणं स्वर्णगैरिकम् ॥ (१५०।३)
svarṇagairika:: phys. propertiesatyantaṃ śoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam ||
स्वर्णगैरिक:: मेदिच्। प्रोपेर्तिएस्स्वादु स्निग्धं हिमं नेत्र्यं कषायं रक्तपित्तजित् । (१५१।१)
svarṇagairika:: medic. propertiessvādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittajit |
हिध्मावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् ॥ (१५१।२)
hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam ||
कतककतकं छेदनीयं च कतं कतफलं मतम् । (१५२।१)
katakakatakaṃ chedanīyaṃ ca kataṃ kataphalaṃ matam |
अम्बुप्रसादनफलं श्लक्ष्णं नेत्रविकारजित् ॥ (१५२।२)
ambuprasādanaphalaṃ ślakṣṇaṃ netravikārajit ||
नेत्रोत्थरोगविध्वंसि विधिनाञ्जनयोगतः ॥ (१५३।२)
netrottharogavidhvaṃsi vidhināñjanayogataḥ ||
कतकस्य फलं तिक्तं चक्षुष्यं शीतलं मृदु । (१५४।१)
katakasya phalaṃ tiktaṃ cakṣuṣyaṃ śītalaṃ mṛdu |
वारिप्रसादनं कृच्छ्रशर्करामश्मरीं जयेत् ॥ (१५४।२)
vāriprasādanaṃ kṛcchraśarkarāmaśmarīṃ jayet ||
लोध्रलोध्रो रोध्रः शाबरकस्तिल्वकस्तिलकस्तरुः । (१५५।१)
lodhralodhro rodhraḥ śābarakastilvakastilakastaruḥ |
लोध्रः शीतः कषायश्च हन्ति तृष्णामरोचकम् । (१५६।१)
lodhraḥ śītaḥ kaṣāyaśca hanti tṛṣṇāmarocakam |
विषविध्वंसनः प्रोक्तो रूक्षो ग्राही कफापहः ॥ (१५६।२)
viṣavidhvaṃsanaḥ prokto rūkṣo grāhī kaphāpahaḥ ||
क्रमुकक्रमुकः पट्टिकारोघ्नो वल्कलः स्थूलवल्कलः । (१५७।१)
kramukakramukaḥ paṭṭikāroghno valkalaḥ sthūlavalkalaḥ |
जीर्णपर्णो बृहत्पर्णः पट्टी लाक्षाप्रसादनः ॥ (१५७।२)
jīrṇaparṇo bṛhatparṇaḥ paṭṭī lākṣāprasādanaḥ ||
लोध्रयुग्मं कषायं स्यात् शीतं वातकफास्रजित् । (१५८।१)
lodhrayugmaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsrajit |
चक्षुष्यं विषहृत्तत्र विशिष्टो वल्कलोध्रकः ॥ (१५८।२)
cakṣuṣyaṃ viṣahṛttatra viśiṣṭo valkalodhrakaḥ ||
चोन्छ्:: स्य्नोन्य्म्स्शङ्खो वारिभवः कम्बुर्जलदो दीर्घनिस्वनः । (१५९।१)
conch:: synonymsśaṅkho vāribhavaḥ kamburjalado dīrghanisvanaḥ |
सुस्वरो दीर्घनादश्च धवलः श्रीविभूषणः ॥ (१५९।२)
susvaro dīrghanādaśca dhavalaḥ śrīvibhūṣaṇaḥ ||
चोन्छ्:: मेदिच्। प्रोपेर्तिएस्शङ्खः स्वादुः कटुः पाके वीर्ये चोष्णः प्रकीर्तितः । (१६०।१)
conch:: medic. propertiesśaṅkhaḥ svāduḥ kaṭuḥ pāke vīrye coṣṇaḥ prakīrtitaḥ |
परिणामं जयेच्छूलं चक्षुष्यो रक्तपित्तजित् ॥ (१६०।२)
pariṇāmaṃ jayecchūlaṃ cakṣuṣyo raktapittajit ||
श्रीमतां भोगिनाम् अर्हः प्रायो गन्धगुणाश्रयः ॥ (१६१।२)
śrīmatāṃ bhoginām arhaḥ prāyo gandhaguṇāśrayaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.