धन्वन्तरिनिघण्टुDhanvantarinighaṇṭu

DhanvNigh, 6

4 of 4 · 122 verses

Select a line for its word-by-word analysis.

1.1१.१

गोल्द्:: स्य्नोन्य्म्स्सुवर्णं कनकं रुक्मं शातकुम्भं च काञ्चनम् । (१।१)

gold:: synonymssuvarṇaṃ kanakaṃ rukmaṃ śātakumbhaṃ ca kāñcanam |

1.2१.२

जाम्बूनदं जातरूपं हिरण्यं हेम हाटकम् ॥ (१।२)

jāmbūnadaṃ jātarūpaṃ hiraṇyaṃ hema hāṭakam ||

2.1२.१

चामीकरं चारुरत्नं तपनीयं च पीतकम् । (२।१)

cāmīkaraṃ cāruratnaṃ tapanīyaṃ ca pītakam |

2.2२.२

श्रीकेतनं भूषणार्हं चारुरूपं च तत्स्मृतम् ॥ (२।२)

śrīketanaṃ bhūṣaṇārhaṃ cārurūpaṃ ca tatsmṛtam ||

3.1३.१

गोल्द्:: मेदिच्। प्रोपेर्तिएस्वीर्यं विधत्ते हरते च रोगान् करोति सौख्यं प्रबलेन्द्रियत्वम् । (३।१)

gold:: medic. propertiesvīryaṃ vidhatte harate ca rogān karoti saukhyaṃ prabalendriyatvam |

3.2३.२

शुक्रस्य शुद्धिं बलवर्णवीर्यमोजश्च पुष्टिं प्रददाति हेम ॥ (३।२)

śukrasya śuddhiṃ balavarṇavīryamojaśca puṣṭiṃ pradadāti hema ||

4.1४.१

गोल्द्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएस्बलं च वीर्यं हरते नराणां रोगव्रजान् पोषयतीह काये । (४।१)

gold:: aśuddha:: medic. propertiesbalaṃ ca vīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye |

4.2४.२

असौख्यदं तच्च सदैवमेवं रुक्मं सदोषं मरणं करोति ॥ (४।२)

asaukhyadaṃ tacca sadaivamevaṃ rukmaṃ sadoṣaṃ maraṇaṃ karoti ||

5.1५.१

सिल्वेर्:: स्य्नोन्य्म्स्रौप्यं सौधं सितं तारं रजतं तप्तरूपम् । (५।१)

silver:: synonymsraupyaṃ saudhaṃ sitaṃ tāraṃ rajataṃ taptarūpam |

5.2५.२

शुभ्रं कुप्यं वसुश्रेष्ठं रुचिरं श्वेतकं मतम् ॥ (५।२)

śubhraṃ kupyaṃ vasuśreṣṭhaṃ ruciraṃ śvetakaṃ matam ||

6.1६.१

चन्द्रहासं चन्द्रवपुश्चन्द्रभूति महावसु । (६।१)

candrahāsaṃ candravapuścandrabhūti mahāvasu |

6.2६.२

वाक्यलं श्रेष्ठमिच्छन्ति रश्मिजालं तथापरम् ॥ (६।२)

vākyalaṃ śreṣṭhamicchanti raśmijālaṃ tathāparam ||

7.1७.१

सिल्वेर्:: मेदिच्। प्रोपेर्तिएस्तारं च तारयति रोगसमुद्रपारं देहस्य सौख्यकरणं पलितं वलिं च । (७।१)

silver:: medic. propertiestāraṃ ca tārayati rogasamudrapāraṃ dehasya saukhyakaraṇaṃ palitaṃ valiṃ ca |

7.2७.२

वर्ण्यं विषघ्नममलं हरति प्रसह्य वृष्यं पुनर्नवकरं कुरुते चिरायुः ॥ (७।२)

varṇyaṃ viṣaghnamamalaṃ harati prasahya vṛṣyaṃ punarnavakaraṃ kurute cirāyuḥ ||

8.1८.१

सिल्वेर्:: अपक्व:: मेदिच्। प्रोपेर्तिएसपक्वतारं प्रकरोति तापं विड्बन्धनं यच्छति शुक्रनाशम् । (८।१)

silver:: apakva:: medic. propertiesapakvatāraṃ prakaroti tāpaṃ viḍbandhanaṃ yacchati śukranāśam |

8.2८.२

अपाटवं वीर्यबलप्रहाणिं महागदान्पोषयति प्रसिद्धम् ॥ (८।२)

apāṭavaṃ vīryabalaprahāṇiṃ mahāgadānpoṣayati prasiddham ||

9.1९.१

चोप्पेर्:: स्य्नोन्य्म्स्ताम्रं म्लेच्छमुखं शुल्वं रक्तकं रक्तधातुकम् । (९।१)

copper:: synonymstāmraṃ mlecchamukhaṃ śulvaṃ raktakaṃ raktadhātukam |

9.2९.२

उदुम्बरं त्र्यम्बकं च विद्यात्त्वाष्ट्रं च नामतः ॥ (९।२)

udumbaraṃ tryambakaṃ ca vidyāttvāṣṭraṃ ca nāmataḥ ||

10.1१०.१

चोप्पेर्:: मृत:: मेदिच्। प्रोपेर्तिएस्गुल्मं च कुष्ठं च गुदामयं च शूलानि शोफोदरपाण्डुरोगान् । (१०।१)

copper:: mṛta:: medic. propertiesgulmaṃ ca kuṣṭhaṃ ca gudāmayaṃ ca śūlāni śophodarapāṇḍurogān |

10.2१०.२

उत्क्लेशभेदभ्रममोहदाहान् निहन्ति सम्यङ्मृतमेव शुल्वम् ॥ (१०।२)

utkleśabhedabhramamohadāhān nihanti samyaṅmṛtameva śulvam ||

11.1११.१

चोप्पेर्:: अमृत:: मेदिच्। प्रोपेर्तिएस्शुल्वं तनौ नयति शेषमशेषधातून् रोगान् करोति विविधांश्च निहन्ति कान्तिम् । (११।१)

copper:: amṛta:: medic. propertiesśulvaṃ tanau nayati śeṣamaśeṣadhātūn rogān karoti vividhāṃśca nihanti kāntim |

11.2११.२

कुष्ठं रुजं च विषमं कुरुते विशेषात् पाकेन हीनमिह वान्तिविरेककारि ॥ (११।२)

kuṣṭhaṃ rujaṃ ca viṣamaṃ kurute viśeṣāt pākena hīnamiha vāntivirekakāri ||

12.1१२.१

चोप्पेर्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएस्हन्त्यायुर् उच्चैः कुरुतेऽतितापं मूर्च्छां विधत्ते हरते च शुक्रम् । (१२।१)

copper:: aśuddha:: medic. propertieshantyāyur uccaiḥ kurute'titāpaṃ mūrcchāṃ vidhatte harate ca śukram |

12.2१२.२

नानागदानां च सहायकर्ताशुद्धश्च शुल्वोऽत्र च जीवहर्ता ॥ (१२।२)

nānāgadānāṃ ca sahāyakartāśuddhaśca śulvo'tra ca jīvahartā ||

13.1१३.१

तिन्:: स्य्नोन्य्म्स्त्रपु त्रपुकमानीलं रङ्गं वङ्गं च पिच्चटम् । (१३।१)

tin:: synonymstrapu trapukamānīlaṃ raṅgaṃ vaṅgaṃ ca piccaṭam |

13.2१३.२

गुरुश्रेष्ठं सलवणं सुरटी नीलिका घनम् ॥ (१३।२)

guruśreṣṭhaṃ salavaṇaṃ suraṭī nīlikā ghanam ||

14.1१४.१

तिन्:: मेदिच्। प्रोपेर्तिएस्त्रपु सतिक्तमुष्णं च रूक्षं श्लेष्मविघातकृत् । (१४।१)

tin:: medic. propertiestrapu satiktamuṣṇaṃ ca rūkṣaṃ śleṣmavighātakṛt |

14.2१४.२

पित्तप्रकोपशमनं विकारं कृमिजं जयेत् ॥ (१४।२)

pittaprakopaśamanaṃ vikāraṃ kṛmijaṃ jayet ||

15.1१५.१

लेअद्, तिन्:: अमृत:: मेदिच्। प्रोपेर्तिएस्पाकेन हीनौ खलु नागवङ्गौ दुष्टानि गुल्मानि तथा विकोष्ठम् । (१५।१)

lead, tin:: amṛta:: medic. propertiespākena hīnau khalu nāgavaṅgau duṣṭāni gulmāni tathā vikoṣṭham |

15.2१५.२

पाण्डुप्रमोहापचिवातशोफभगन्दरश्वित्रकिलासकुष्ठम् ॥ (१५।२)

pāṇḍupramohāpacivātaśophabhagandaraśvitrakilāsakuṣṭham ||

16.1१६.१

मेहाश्मरीविद्रधिमुख्यरोगान् अतीव नित्यं कुरुते बलादौ । (१६।१)

mehāśmarīvidradhimukhyarogān atīva nityaṃ kurute balādau |

16.2१६.२

विषोपमौ रक्तविकारवृन्दं क्षयं च कृच्छ्राणि कफज्वरं च ॥ (१६।२)

viṣopamau raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca ||

17.1१७.१

ब्रस्स्:: सुब्त्य्पेस्रीतिका काकतुण्डी च द्विविधं पित्तलं भवेत् । (१७।१)

brass:: subtypesrītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet |

17.2१७.२

ब्रस्स्:: रीति:: स्य्नोन्य्म्स्रीतिस्तु लोहकः पिङ्गः कपिलोहं सुवर्णकम् ॥ (१७।२)

brass:: rīti:: synonymsrītistu lohakaḥ piṅgaḥ kapilohaṃ suvarṇakam ||

18.1१८.१

आरं सैंहलकश्चैव निष्ठुरो दारुकण्टकः । (१८।१)

āraṃ saiṃhalakaścaiva niṣṭhuro dārukaṇṭakaḥ |

18.2१८.२

ब्रस्स्:: राजरीति:: स्य्नोन्य्म्स्राजरीतिः स्मृता राज्ञी राजपुत्री महेश्वरी ॥ (१८।२)

brass:: rājarīti:: synonymsrājarītiḥ smṛtā rājñī rājaputrī maheśvarī ||

19.1१९.१

ब्रह्माणी ब्रह्मरीतिश्च कपिला पिङ्गलापि च । (१९।१)

brahmāṇī brahmarītiśca kapilā piṅgalāpi ca |

19.2१९.२

ब्रस्स्:: मेदिच्। प्रोपेर्तिएस्रीतिद्वयं सकलपाण्डुसमीरणघ्नं रूक्षं सरं कृमिहरं लवणं विषघ्नम् । (१९।२)

brass:: medic. propertiesrītidvayaṃ sakalapāṇḍusamīraṇaghnaṃ rūkṣaṃ saraṃ kṛmiharaṃ lavaṇaṃ viṣaghnam |

19.3१९.३

वृष्यं वलीपलितनाशनम् उग्रम् आयुर्वृद्धिं करोति सहसा च रसायनाग्र्यम् ॥ (१९।३)

vṛṣyaṃ valīpalitanāśanam ugram āyurvṛddhiṃ karoti sahasā ca rasāyanāgryam ||

20.1२०.१

लेअद्:: स्य्नोन्य्म्स्सीसकं नागमुरगं कृष्णोरगभुजङ्गमाः । (२०।१)

lead:: synonymssīsakaṃ nāgamuragaṃ kṛṣṇoragabhujaṅgamāḥ |

20.2२०.२

यवनेष्टं विशिष्टं च योगीष्टं चीरपिष्टकम् ॥ (२०।२)

yavaneṣṭaṃ viśiṣṭaṃ ca yogīṣṭaṃ cīrapiṣṭakam ||

21.1२१.१

लेअद्:: मेदिच्। प्रोपेर्तिएस्नागो हि नागसममेव बलं ददाति व्याधीन् विनाशयति चायुरलं करोति । (२१।१)

lead:: medic. propertiesnāgo hi nāgasamameva balaṃ dadāti vyādhīn vināśayati cāyuralaṃ karoti |

21.2२१.२

सद्यो विवर्धयति सोऽपि प्रधानधातुं मृत्युं निवारयति चापि भुजङ्गराजः ॥ (२१।२)

sadyo vivardhayati so'pi pradhānadhātuṃ mṛtyuṃ nivārayati cāpi bhujaṅgarājaḥ ||

22.1२२.१

ब्रोन्ज़े:: स्य्नोन्य्म्स्कांस्यं लोहं निजं घोषं प्रकाशं कांस्यकं बलम् । (२२।१)

bronze:: synonymskāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ prakāśaṃ kāṃsyakaṃ balam |

22.2२२.२

घोषपुष्पं च पठितं शब्दैः पर्यायवाचकैः ॥ (२२।२)

ghoṣapuṣpaṃ ca paṭhitaṃ śabdaiḥ paryāyavācakaiḥ ||

23.1२३.१

ब्रोन्ज़े:: मेदिच्। प्रोपेर्तिएस्कांस्यं तिक्तोष्णरूक्षं च लघु लेखि प्रकीर्तितम् । (२३।१)

bronze:: medic. propertieskāṃsyaṃ tiktoṣṇarūkṣaṃ ca laghu lekhi prakīrtitam |

23.2२३.२

अञ्जनादिप्रयुक्तं च दिव्यदृष्टिप्रदायकम् ॥ (२३।२)

añjanādiprayuktaṃ ca divyadṛṣṭipradāyakam ||

24.1२४.१

इरोन्:: स्य्नोन्य्म्स्लोहं शस्त्रं घनं पिण्डं तीक्ष्णं पारशवं शिवम् । (२४।१)

iron:: synonymslohaṃ śastraṃ ghanaṃ piṇḍaṃ tīkṣṇaṃ pāraśavaṃ śivam |

24.2२४.२

अयः कृष्णायसं वीरं भ्रमरं कृष्णलोहकम् ॥ (२४।२)

ayaḥ kṛṣṇāyasaṃ vīraṃ bhramaraṃ kṛṣṇalohakam ||

25.1२५.१

इरोन्:: सुब्त्य्पेस्मुण्डं तीक्ष्णं च कान्तं च त्रिप्रकारमयः स्मृतम् । (२५।१)

iron:: subtypesmuṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triprakāramayaḥ smṛtam |

25.2२५.२

इरोन्:: मुण्ड:: सुब्त्य्पेस्मृदु कण्टं कडारं च त्रिविधं मुण्डमुच्यते ॥ (२५।२)

iron:: muṇḍa:: subtypesmṛdu kaṇṭaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate ||

26.1२६.१

इरोन्:: तीक्ष्णलोह:: सुब्त्य्पेस्खरसारं च हर्तालं तालं बल्लं च वज्जरम् । (२६।१)

iron:: tīkṣṇaloha:: subtypeskharasāraṃ ca hartālaṃ tālaṃ ballaṃ ca vajjaram |

26.2२६.२

काललोहाभिधानं च षड्विधं तीक्ष्णमुच्यते ॥ (२६।२)

kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate ||

27.1२७.१

इरोन्:: कान्त:: सुब्त्य्पेस्भ्रामरं चुम्बकं चैव रञ्जकालोचकं तथा । (२७।१)

iron:: kānta:: subtypesbhrāmaraṃ cumbakaṃ caiva rañjakālocakaṃ tathā |

27.2२७.२

एवं चतुर्विधं कान्तं रोमकान्तं च पञ्चमम् ॥ (२७।२)

evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam ||

28.1२८.१

इरोन्:: मेदिच्। प्रोपेर्तिएस्कषायं शोफशूलार्शःकुष्ठपाण्डुप्रमेहजित् । (२८।१)

iron:: medic. propertieskaṣāyaṃ śophaśūlārśaḥkuṣṭhapāṇḍupramehajit |

28.2२८.२

लोहं तिक्तोष्णरूक्षं स्यात् पाण्डुरोगहरं परम् ॥ (२८।२)

lohaṃ tiktoṣṇarūkṣaṃ syāt pāṇḍurogaharaṃ param ||

29.1२९.१

कफपित्तापहं पुंसां रसायनमनुत्तमम् । (२९।१)

kaphapittāpahaṃ puṃsāṃ rasāyanamanuttamam |

29.2२९.२

इरोन्:: अशुद्ध, अमृत:: मेदिच्। प्रोपेर्तिएस्दोषकारि गदकारि चायसं चेदशुद्धम् असुसंस्कृतं ध्रुवम् । (२९।२)

iron:: aśuddha, amṛta:: medic. propertiesdoṣakāri gadakāri cāyasaṃ cedaśuddham asusaṃskṛtaṃ dhruvam |

29.3२९.३

पाटवं न तनुते शरीरके दारुणां हृदि रुजं करोति च ॥ (२९।३)

pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujaṃ karoti ca ||

30.1३०.१

वर्तलोह:: स्य्नोन्य्म्स्वर्तलोहं वट्टलोहं वर्तकं लोहमेव च । (३०।१)

vartaloha:: synonymsvartalohaṃ vaṭṭalohaṃ vartakaṃ lohameva ca |

30.2३०.२

वर्तुलोहं च विख्यातं पञ्चलोहं च नीलिका ॥ (३०।२)

vartulohaṃ ca vikhyātaṃ pañcalohaṃ ca nīlikā ||

31.1३१.१

वर्तलोह:: मेदिच्। प्रोपेर्तिएस्वर्तलोहं हिमं विद्यादम्लं कटुकमेव च । (३१।१)

vartaloha:: medic. propertiesvartalohaṃ himaṃ vidyādamlaṃ kaṭukameva ca |

31.2३१.२

रूक्षं कफविकारघ्नं हन्यात् पित्तोद्भवा रुजः ॥ (३१।२)

rūkṣaṃ kaphavikāraghnaṃ hanyāt pittodbhavā rujaḥ ||

32.1३२.१

मण्डूर:: स्य्नोन्य्म्स्लोहोच्छिष्टं च मण्डूरं किट्टं चैव मलोद्भवम् । (३२।१)

maṇḍūra:: synonymslohocchiṣṭaṃ ca maṇḍūraṃ kiṭṭaṃ caiva malodbhavam |

32.2३२.२

लोहोत्थं लोहनिर्यासम् अयःशिष्टं च कीर्तितम् ॥ (३२।२)

lohotthaṃ lohaniryāsam ayaḥśiṣṭaṃ ca kīrtitam ||

33.1३३.१

मण्डूर:: मेदिच्। प्रोपेर्तिएसामवातहरणं च शोभनं पाण्डुमेहगदनाशनाग्रजम् । (३३।१)

maṇḍūra:: medic. propertiesāmavātaharaṇaṃ ca śobhanaṃ pāṇḍumehagadanāśanāgrajam |

33.2३३.२

दुष्टकुष्ठपवनास्रवातजित् स्याज्जराकृतवलीविनाशनम् ॥ (३३।२)

duṣṭakuṣṭhapavanāsravātajit syājjarākṛtavalīvināśanam ||

34.1३४.१

मेर्चुर्य्:: स्य्नोन्य्म्स्पारदो रुद्ररेतश्च रसलोहं महारसम् । (३४।१)

mercury:: synonymspārado rudraretaśca rasalohaṃ mahārasam |

34.2३४.२

रसेन्द्रं चपलं सूतं पारदीयं रसोत्तमम् ॥ (३४।२)

rasendraṃ capalaṃ sūtaṃ pāradīyaṃ rasottamam ||

35.1३५.१

मेर्चुर्य्:: मेदिच्। प्रोपेर्तिएस्पारदः कृमिकुष्ठघ्नं आयुष्यो दृष्टिदः परः । (३५।१)

mercury:: medic. propertiespāradaḥ kṛmikuṣṭhaghnaṃ āyuṣyo dṛṣṭidaḥ paraḥ |

35.2३५.२

सुबल्यः सकषायश्च मूर्छितोऽसौ गदापहः ॥ (३५।२)

subalyaḥ sakaṣāyaśca mūrchito'sau gadāpahaḥ ||

36.1३६.१

संस्कारहीनं खलु सूतराजं सेवेत यस्तस्य करोति बाधाम् । (३६।१)

saṃskārahīnaṃ khalu sūtarājaṃ seveta yastasya karoti bādhām |

36.2३६.२

देहस्य नाशं विदधाति नूनं कुष्ठादिदोषाञ्जनयेन्नराणाम् ॥ (३६।२)

dehasya nāśaṃ vidadhāti nūnaṃ kuṣṭhādidoṣāñjanayennarāṇām ||

37.1३७.१

दरद:: स्य्नोन्य्म्स्हिङ्गुलं दरदं म्लेच्छं हिङ्गूलं चूर्णपारदम् । (३७।१)

darada:: synonymshiṅgulaṃ daradaṃ mlecchaṃ hiṅgūlaṃ cūrṇapāradam |

37.2३७.२

मणिरागकरं चान्यन्नाम्ना चर्मानुरञ्जनम् ॥ (३७।२)

maṇirāgakaraṃ cānyannāmnā carmānurañjanam ||

38.1३८.१

दरद:: मेदिच्। प्रोपेर्तिएस्हिङ्गुलं कटुकं पाके वीर्ये चोष्णं प्रकीर्तितम् । (३८।१)

darada:: medic. propertieshiṅgulaṃ kaṭukaṃ pāke vīrye coṣṇaṃ prakīrtitam |

38.2३८.२

विषकुष्ठविसर्पादित्वग्दोषदलनं स्मृतम् ॥ (३८।२)

viṣakuṣṭhavisarpāditvagdoṣadalanaṃ smṛtam ||

39.1३९.१

हिङ्गुलं मधुरं तिक्तम् उष्णं वातकफापहम् । (३९।१)

hiṅgulaṃ madhuraṃ tiktam uṣṇaṃ vātakaphāpaham |

39.2३९.२

त्रिदोषद्वन्द्वदोषोत्थं ज्वरं हरति सेवितम् ॥ (३९।२)

tridoṣadvandvadoṣotthaṃ jvaraṃ harati sevitam ||

40.1४०.१

वैक्रान्त:: स्य्नोन्य्म्स्वैक्रान्तं क्रान्तसंज्ञं स्याद् वज्रो भूमिरजस्तथा । (४०।१)

vaikrānta:: synonymsvaikrāntaṃ krāntasaṃjñaṃ syād vajro bhūmirajastathā |

40.2४०.२

गोनसं क्षुद्रकुलिशं जीर्णवज्रं तु वज्रकम् ॥ (४०।२)

gonasaṃ kṣudrakuliśaṃ jīrṇavajraṃ tu vajrakam ||

41.1४१.१

तत्तु सप्तविधं प्रोक्तम् अनेककर्मकारकम् । (४१।१)

tattu saptavidhaṃ proktam anekakarmakārakam |

41.2४१.२

वैक्रान्त:: परीक्षा।फ्य्स्। प्रोपेर्तिएस्षट्कोणं तीक्ष्णधारं च स्वच्छमिन्द्रधनुश्छवि ॥ (४१।२)

vaikrānta:: parīkṣā|phys. propertiesṣaṭkoṇaṃ tīkṣṇadhāraṃ ca svacchamindradhanuśchavi ||

42.1४२.१

तदुत्तमं तु वैक्रान्तं हितं प्रोक्तं रसायने । (४२।१)

taduttamaṃ tu vaikrāntaṃ hitaṃ proktaṃ rasāyane |

42.2४२.२

वैक्रान्त:: मेदिच्। प्रोपेर्तिएस्मेहषाण्ढ्याशुवार्धक्यक्षयग्रहणिकासजित् । (४२।२)

vaikrānta:: medic. propertiesmehaṣāṇḍhyāśuvārdhakyakṣayagrahaṇikāsajit |

42.3४२.३

वृष्यो रसायनो बल्यो वैक्रान्तो वह्निदीपनः ॥ (४२।३)

vṛṣyo rasāyano balyo vaikrānto vahnidīpanaḥ ||

43.1४३.१

आयुष्प्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषगणापहारी । (४३।१)

āyuṣpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagaṇāpahārī |

43.2४३.२

दीप्ताग्निकृत्पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ॥ (४३।२)

dīptāgnikṛtpavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī ||

44.1४४.१

वैक्रान्त:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसशुद्धवज्रं गुरु पाण्डुतापहृत्पार्श्वपीडारुचिकुष्ठकारि । (४४।१)

vaikrānta:: aśuddha:: medic. propertiesaśuddhavajraṃ guru pāṇḍutāpahṛtpārśvapīḍārucikuṣṭhakāri |

44.2४४.२

वैक्रान्त:: मृत, शुद्ध:: मेदिच्। प्रोपेर्तिएस्शुद्धं मृतं सौख्यबलप्रदं स्याद् वैक्रान्तभस्मापि रसायनं च ॥ (४४।२)

vaikrānta:: mṛta, śuddha:: medic. propertiesśuddhaṃ mṛtaṃ saukhyabalapradaṃ syād vaikrāntabhasmāpi rasāyanaṃ ca ||

45.1४५.१

एमेरल्द्:: स्य्नोन्य्म्स्गारुत्मतं मरकतं रौहिणेयं हरिन्मणि । (४५।१)

emerald:: synonymsgārutmataṃ marakataṃ rauhiṇeyaṃ harinmaṇi |

45.2४५.२

सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजम् ॥ (४५।२)

sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam ||

46.1४६.१

गरलारिर् वायवालं गारुडं रुद्रसंमितम् । (४६।१)

garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam |

46.2४६.२

एमेरल्द्:: मेदिच्। प्रोपेर्तिएस्रौहिणेयं विषघ्नं च शीतलं मधुरं रसे ॥ (४६।२)

emerald:: medic. propertiesrauhiṇeyaṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase ||

47.1४७.१

अम्लपित्तहरं वृष्यं पुष्टिदं भूतनाशनम् । (४७।१)

amlapittaharaṃ vṛṣyaṃ puṣṭidaṃ bhūtanāśanam |

47.2४७.२

वज्र:: स्य्नोन्य्म्स्हीरकं भिदुरं वज्रं सद्रत्नमशनिः पविः । (४७।२)

vajra:: synonymshīrakaṃ bhiduraṃ vajraṃ sadratnamaśaniḥ paviḥ |

47.3४७.३

सूचिवक्त्रं वराहं च कुलिशं भार्गवं स्मृतम् ॥ (४७।३)

sūcivaktraṃ varāhaṃ ca kuliśaṃ bhārgavaṃ smṛtam ||

48.1४८.१

अभेद्यमशिरं रत्नं दृढं भार्गवकं स्मृतम् । (४८।१)

abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam |

48.2४८.२

षट्कोणं बहुधारं च शतकोट्यब्धिभूमिजम् ॥ (४८।२)

ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmijam ||

49.1४९.१

वज्र:: मेदिच्। प्रोपेर्तिएस्रुजां समूहं हरते नराणां बलं सुरूपं विदधाति युक्त्या । (४९।१)

vajra:: medic. propertiesrujāṃ samūhaṃ harate narāṇāṃ balaṃ surūpaṃ vidadhāti yuktyā |

49.2४९.२

देहस्य सौख्यं च सदा करोति चिरं तथायुः पलितं च हन्ति ॥ (४९।२)

dehasya saukhyaṃ ca sadā karoti ciraṃ tathāyuḥ palitaṃ ca hanti ||

50.1५०.१

आयुष्प्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयघ्नम् । (५०।१)

āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam |

50.2५०.२

सूतेन्द्रबन्धवधसद्गुणकृत् प्रदीपं मृत्युञ्जयं तदमृतोपममेव वज्रम् ॥ (५०।२)

sūtendrabandhavadhasadguṇakṛt pradīpaṃ mṛtyuñjayaṃ tadamṛtopamameva vajram ||

51.1५१.१

वज्र:: अशुद्ध:: मेदिच्। प्रोपेर्तिएस्पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदं च दुष्टम् । (५१।१)

vajra:: aśuddha:: medic. propertiespīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca duṣṭam |

51.2५१.२

हृत्पार्श्वपीडां कुरुतेऽतिकृच्छ्राम् अशुद्धवज्रं गुरुतापकारि ॥ (५१।२)

hṛtpārśvapīḍāṃ kurute'tikṛcchrām aśuddhavajraṃ gurutāpakāri ||

52.1५२.१

राजावर्त:: स्य्नोन्य्म्स्राजावर्तश्च राजा च नीलाश्मा तु नृपोपलः । (५२।१)

rājāvarta:: synonymsrājāvartaśca rājā ca nīlāśmā tu nṛpopalaḥ |

52.2५२.२

सुवर्णधातू राजाद्री राजप्रस्तर एव च ॥ (५२।२)

suvarṇadhātū rājādrī rājaprastara eva ca ||

53.1५३.१

राजावर्त:: मेदिच्। प्रोपेर्तिएस्राजावर्तः कटुः स्निग्धः शिशिरः पित्तनाशनः । (५३।१)

rājāvarta:: medic. propertiesrājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ |

53.2५३.२

सौभाग्यं कुरुते नृणां भूषणेषु प्रयोजितः ॥ (५३।२)

saubhāgyaṃ kurute nṛṇāṃ bhūṣaṇeṣu prayojitaḥ ||

54.1५४.१

पेअर्ल्:: स्य्नोन्य्म्स्मौक्तिकं शुक्तिजं स्फोटशुक्तिजं शुक्तिसंभवम् । (५४।१)

pearl:: synonymsmauktikaṃ śuktijaṃ sphoṭaśuktijaṃ śuktisaṃbhavam |

54.2५४.२

भूषणार्हतमं श्रेष्ठं शौक्तिकं भौतिकं तथा ॥ (५४।२)

bhūṣaṇārhatamaṃ śreṣṭhaṃ śauktikaṃ bhautikaṃ tathā ||

55.1५५.१

पेअर्ल्:: मेदिच्। प्रोपेर्तिएस्मौक्तिकं मधुरं शीतं सरं दृष्टिभवं गदम् । (५५।१)

pearl:: medic. propertiesmauktikaṃ madhuraṃ śītaṃ saraṃ dṛṣṭibhavaṃ gadam |

55.2५५.२

उन्मूलयति पित्तं च हारालिङ्गेन दाहहृत् ॥ (५५।२)

unmūlayati pittaṃ ca hārāliṅgena dāhahṛt ||

56.1५६.१

चोरल्:: स्य्नोन्य्म्स्प्रवालं विद्रुमं रक्तं भूषणार्हं सुवल्लिजम् । (५६।१)

coral:: synonymspravālaṃ vidrumaṃ raktaṃ bhūṣaṇārhaṃ suvallijam |

56.2५६.२

समुद्रजं महारक्तं वल्लीपाषाणसम्भवम् ॥ (५६।२)

samudrajaṃ mahāraktaṃ vallīpāṣāṇasambhavam ||

57.1५७.१

चोरल्:: परीक्षा:: गोओद् क़ुअलित्य्पक्वबिम्बीफलच्छायं वृत्तायतम् अवक्रकम् । (५७।१)

coral:: parīkṣā:: good qualitypakvabimbīphalacchāyaṃ vṛttāyatam avakrakam |

57.2५७.२

स्निग्धमव्रणकं स्थूलं प्रवालं सप्तधा शुभम् ॥ (५७।२)

snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham ||

58.1५८.१

चोरल्:: परीक्षा:: बद् क़ुअलित्य्पाण्डुरं धूसरं रूक्षं सव्रणं कण्डरान्वितम् । (५८।१)

coral:: parīkṣā:: bad qualitypāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ kaṇḍarānvitam |

58.2५८.२

निर्भारं शुभ्रवर्णं च नेष्यते सप्तधा त्विदम् ॥ (५८।२)

nirbhāraṃ śubhravarṇaṃ ca neṣyate saptadhā tvidam ||

59.1५९.१

चोरल्:: मेदिच्। प्रोपेर्तिएस्प्रवालकं सरं शीतं कफपित्तादिदोषनुत् । (५९।१)

coral:: medic. propertiespravālakaṃ saraṃ śītaṃ kaphapittādidoṣanut |

59.2५९.२

दृष्टिदोषविघाताय विषनाशाय चेष्यते ॥ (५९।२)

dṛṣṭidoṣavighātāya viṣanāśāya ceṣyate ||

Data courtesy of The Digital Corpus of Sanskrit.

DhanvNigh, 6

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit