पारस्करगृह्यसूत्रPāraskaragṛhyasūtra
Chapter 1, 5
Select a line for its word-by-word analysis.
पश्चाद् अग्नेस् तेजनीं कटं वा दक्षिणपादेन प्रवृत्योपविशति ॥ (२।१)
paścād agnes tejanīṃ kaṭaṃ vā dakṣiṇapādena pravṛtyopaviśati ||
अन्वारब्ध आघाराव् आज्यभागौ महाव्याहृतयः सर्वप्रायश्चित्तं प्राजापत्यं स्विष्टकृच् च ॥ (३।१)
anvārabdha āghārāv ājyabhāgau mahāvyāhṛtayaḥ sarvaprāyaścittaṃ prājāpatyaṃ sviṣṭakṛc ca ||
प्राङ् महाव्याहृतिभ्यः स्विष्टकृद् अन्यच् चेद् आज्याद्धविः ॥ (५।१)
prāṅ mahāvyāhṛtibhyaḥ sviṣṭakṛd anyac ced ājyāddhaviḥ ||
सर्वप्रायश्चित्तप्राजापत्यान्तरम् एतद् आवापस्थानं विवाहे ॥ (६।१)
sarvaprāyaścittaprājāpatyāntaram etad āvāpasthānaṃ vivāhe ||
चित्तं च चित्तिश् चाकूतं चाकूतिश् च विज्ञातं च विज्ञातिश् च मनश् च शक्वरीश् च दर्शश् च पौर्णमासं च बृहच् च रथन्तरं च । (९।१)
cittaṃ ca cittiś cākūtaṃ cākūtiś ca vijñātaṃ ca vijñātiś ca manaś ca śakvarīś ca darśaś ca paurṇamāsaṃ ca bṛhac ca rathantaraṃ ca |
प्रजापतिर् जयान् इन्द्राय वृष्णे प्रायच्छद् उग्रः पृतना जयेषु । (९।२)
prajāpatir jayān indrāya vṛṣṇe prāyacchad ugraḥ pṛtanā jayeṣu |
इह मावन्त्व् अस्मिन् ब्रह्मण्य् अस्मिन् क्षत्रे ऽस्याम् आशिष्यस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्यां देवहूत्यां स्वाहेति सर्वत्रानुषजति ॥ (१०।२)
iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati ||
Data courtesy of The Digital Corpus of Sanskrit.