रत्नदीपिकाRatnadīpikā

Chapter 1

1 of 4 · 125 verses

Select a line for its word-by-word analysis.

1.1१.१

भक्तेभ्यो भुवनाधिपत्यवरदं देवैर् महेन्द्रादिभिः सिद्धैश्चारणगुह्यकैर् मुनिगणैः प्रोद्दिष्टपादाम्बुजम् । (१।१)

bhaktebhyo bhuvanādhipatyavaradaṃ devair mahendrādibhiḥ siddhaiścāraṇaguhyakair munigaṇaiḥ proddiṣṭapādāmbujam |

1.2१.२

संसारभ्रमभीरुणा च मनसा ध्यायन्ति यं योगिनः तं वन्दे शशिखण्डमण्डितजटाजूटं भवं धूर्जटिम् ॥ (१।२)

saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim ||

2.1२.१

तु य पुरीष दत्वा रत्नधेनुदिदृक्षया । (२।१)

tu ya purīṣa datvā ratnadhenudidṛkṣayā |

2.2२.२

चक्रे चण्डेश्वरः श्रीमान् विचित्रां रत्नदीपिकाम् ॥ (२।२)

cakre caṇḍeśvaraḥ śrīmān vicitrāṃ ratnadīpikām ||

3.1३.१

नवरत्नेषु धातूनामुत्पत्तिगुणजातिभिः । (३।१)

navaratneṣu dhātūnāmutpattiguṇajātibhiḥ |

3.2३.२

गुणो निरीक्ष्यते तेषु शोधनं चात्र कथ्यते ॥ (३।२)

guṇo nirīkṣyate teṣu śodhanaṃ cātra kathyate ||

4.1४.१

व्यासागस्त्यवराहादिमुनयो रत्नसागरे । (४।१)

vyāsāgastyavarāhādimunayo ratnasāgare |

4.2४.२

निर्मथ्य ज्ञानशैलेन नवरत्नसुधा ॥ (४।२)

nirmathya jñānaśailena navaratnasudhā ||

5.1५.१

तत्र रत्नानि महारत्नोपरत्नभेदेन विविधप्रकाराणि भवन्ति । (५।१)

tatra ratnāni mahāratnoparatnabhedena vividhaprakārāṇi bhavanti |

5.2५.२

तत्र पञ्च रत्नानि मुख्यानि तोपरत्नचतुष्टयम् । (५।२)

tatra pañca ratnāni mukhyāni toparatnacatuṣṭayam |

5.3५.३

लिख्यते चात्र संभिद्य यथामूल्यं यथागुणम् । (५।३)

likhyate cātra saṃbhidya yathāmūlyaṃ yathāguṇam |

5.4५.४

महारत्नवज्रं च मौक्तिकं चैव माणिक्यं नीलमेव च ॥ (५।४)

mahāratnavajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca ||

6.1६.१

मरकतं चैव विज्ञेयं महारत्नानि पञ्चधा । (६।१)

marakataṃ caiva vijñeyaṃ mahāratnāni pañcadhā |

6.2६.२

उपरत्नौपरत्नानि चत्वारि कथयामि शृणुष्व तत् ॥ (६।२)

uparatnauparatnāni catvāri kathayāmi śṛṇuṣva tat ||

7.1७.१

गोमेदं पुष्परागं च वैडूर्यं च प्रवालकम् । (७।१)

gomedaṃ puṣparāgaṃ ca vaiḍūryaṃ ca pravālakam |

7.2७.२

वज्रं च मौक्तिकं श्वेतं माणिक्यं रोहितं विदुः ॥ (७।२)

vajraṃ ca mauktikaṃ śvetaṃ māṇikyaṃ rohitaṃ viduḥ ||

8.1८.१

नीलं नीलं समाख्यातं मरकतं हरितं विदुः । (८।१)

nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ viduḥ |

8.2८.२

श्वेतं पीतं च गोमेदं पुष्परागं च पिञ्जरम् ॥ (८।२)

śvetaṃ pītaṃ ca gomedaṃ puṣparāgaṃ ca piñjaram ||

9.1९.१

प्रवालं लोहितं प्रोक्तं वैडूर्यं पाण्डुरं हरित् । (९।१)

pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ pāṇḍuraṃ harit |

9.2९.२

तत्र वज्रपरीक्षासिंहले च कलिङ्गे च मातङ्गे च हिमालये । (९।२)

tatra vajraparīkṣāsiṃhale ca kaliṅge ca mātaṅge ca himālaye |

9.3९.३

पारस्करे च सौराष्ट्रे वज्रस्योत्पत्तिभूमयः ॥ (९।३)

pāraskare ca saurāṣṭre vajrasyotpattibhūmayaḥ ||

10.1१०.१

श्वेतरक्तपीतकृष्णादिवज्रजातयः । (१०।१)

śvetaraktapītakṛṣṇādivajrajātayaḥ |

10.2१०.२

स्त्रीपुंनपुंसकं चेति लक्षणेन तु लक्षये । (१०।२)

strīpuṃnapuṃsakaṃ ceti lakṣaṇena tu lakṣaye |

10.3१०.३

धृतान्यजलसम्पूर्णास्ते भवन्ति बृहत्तरा ॥ (१०।३)

dhṛtānyajalasampūrṇāste bhavanti bṛhattarā ||

11.1११.१

पुरुषास्ते समाख्याताः रेखाबिन्दुविवर्जिताः । (११।१)

puruṣāste samākhyātāḥ rekhābinduvivarjitāḥ |

11.2११.२

रेखाबिन्दुसमायुक्ताः षट्कोणास्ते स्त्रियो मताः ॥ (११।२)

rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ ||

12.1१२.१

त्रिकोणास्तनवोऽदीर्घाः विज्ञेयास्ते नपुंसकाः । (१२।१)

trikoṇāstanavo'dīrghāḥ vijñeyāste napuṃsakāḥ |

12.2१२.२

सर्वेषां पुरुषाः श्रेष्ठाः तेऽधिका रसबन्धकाः ॥ (१२।२)

sarveṣāṃ puruṣāḥ śreṣṭhāḥ te'dhikā rasabandhakāḥ ||

13.1१३.१

स्त्रीवज्रं देहशुद्ध्यर्थं क्लीबसङ्ख्या नपुंसके । (१३।१)

strīvajraṃ dehaśuddhyarthaṃ klībasaṅkhyā napuṃsake |

13.2१३.२

विप्रो रसायने प्रोक्तः क्षत्रियो रोगनाशने ॥ (१३।२)

vipro rasāyane proktaḥ kṣatriyo roganāśane ||

14.1१४.१

गदादौ वैश्यजातीयः वीर्यस्तम्भे तुरीयकः । (१४।१)

gadādau vaiśyajātīyaḥ vīryastambhe turīyakaḥ |

14.2१४.२

स्त्री तु स्त्रीणां प्रदातव्या क्लीबं क्लीबे तथैव च ॥ (१४।२)

strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca ||

15.1१५.१

सर्वेषां सर्वदा योज्याः पुरुषा बलवत्तराः । (१५।१)

sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ |

15.2१५.२

जेपुर्जितानि रत्नानि स्वाङ्गे कुर्वन्ति मानवाः ॥ (१५।२)

jepurjitāni ratnāni svāṅge kurvanti mānavāḥ ||

16.1१६.१

पुत्रदारधनं तेषां भवेन्नित्योत्सवं गृहे । (१६।१)

putradāradhanaṃ teṣāṃ bhavennityotsavaṃ gṛhe |

16.2१६.२

तुङ्गवज्रं प्रशंसन्ति षट्कोणालघुभास्करम् ॥ (१६।२)

tuṅgavajraṃ praśaṃsanti ṣaṭkoṇālaghubhāskaram ||

17.1१७.१

सुतीक्ष्णाधारम् अष्टास्त्रं सर्वतोरश्मिचिक्कणम् । (१७।१)

sutīkṣṇādhāram aṣṭāstraṃ sarvatoraśmicikkaṇam |

17.2१७.२

षट्कोणमष्टपार्ष्णी च धारा द्वादश भास्करैः ॥ (१७।२)

ṣaṭkoṇamaṣṭapārṣṇī ca dhārā dvādaśa bhāskaraiḥ ||

18.1१८.१

उत्तमं मध्यमं तीक्ष्णमित्याकारभवा गुणाः । (१८।१)

uttamaṃ madhyamaṃ tīkṣṇamityākārabhavā guṇāḥ |

18.2१८.२

विद्याद् इन्द्रधनुर्दीप्तं स्वच्छाया श्रेयम् एव च ॥ (१८।२)

vidyād indradhanurdīptaṃ svacchāyā śreyam eva ca ||

19.1१९.१

लघुता वारितरणे दृढाघातसहिष्णुता । (१९।१)

laghutā vāritaraṇe dṛḍhāghātasahiṣṇutā |

19.2१९.२

चिरावस्थानजं शौचं वज्रे व [॥। औ३ ज़ेइछेन्झ्] का गुणाः ॥ (१९।२)

cirāvasthānajaṃ śaucaṃ vajre va kā guṇāḥ ||

20.1२०.१

स्तस्मि [॥। औ२ ज़ेइछेन्झ्] स्वष्टाकप्रभव शशिकलाङ्काशवर्णो द्विजश् चारक्तद्युतिमत्प्रियङ्गुकुसुमच्छायस्तथा क्षत्रियः । (२०।१)

stasmi svaṣṭākaprabhava śaśikalāṅkāśavarṇo dvijaś cāraktadyutimatpriyaṅgukusumacchāyastathā kṣatriyaḥ |

20.2२०.२

वैश्यः श्वेतनिशाप्रसूनसदृशः शीतांशुदीप्तिर्भवेत् शूद्रः कृष्णरुचिस्तथापि शिवस्तेषां चतुर्णां क्रमात् ॥ (२०।२)

vaiśyaḥ śvetaniśāprasūnasadṛśaḥ śītāṃśudīptirbhavet śūdraḥ kṛṣṇarucistathāpi śivasteṣāṃ caturṇāṃ kramāt ||

21.1२१.१

शक्रचापसमज्योतिर् इन्दुकान्तिसमप्रभः । (२१।१)

śakracāpasamajyotir indukāntisamaprabhaḥ |

21.2२१.२

प्रभिन्नरविरश्चिरं व्यक्तं चाश्रयलेखनम् ॥ (२१।२)

prabhinnaraviraściraṃ vyaktaṃ cāśrayalekhanam ||

22.1२२.१

अकालमृत्युसर्पाग्निसर्वव्याधिभयानि च । (२२।१)

akālamṛtyusarpāgnisarvavyādhibhayāni ca |

22.2२२.२

तथाशुभानि नश्यन्ति वज्रं यस्य गृहे स्थितम् ॥ (२२।२)

tathāśubhāni naśyanti vajraṃ yasya gṛhe sthitam ||

23.1२३.१

ऊर्ध्वे निवारयेद् वज्रं वने सिंहांश्च वारयेत् । (२३।१)

ūrdhve nivārayed vajraṃ vane siṃhāṃśca vārayet |

23.2२३.२

रात्रौ निवारयेद्भूतान् नरो हि करधारणात् ॥ (२३।२)

rātrau nivārayedbhūtān naro hi karadhāraṇāt ||

24.1२४.१

षट्कोणं शुद्धतीक्ष्णाग्रं सर्वदोषैर्विवर्जितम् । (२४।१)

ṣaṭkoṇaṃ śuddhatīkṣṇāgraṃ sarvadoṣairvivarjitam |

24.2२४.२

तीक्ष्णधारं च यद् वज्रं लक्षमूल्यं तु तद्भवेत् ॥ (२४।२)

tīkṣṇadhāraṃ ca yad vajraṃ lakṣamūlyaṃ tu tadbhavet ||

25.1२५.१

जलबिन्दुयवरेखा वैश्यानां काकपादवत् । (२५।१)

jalabinduyavarekhā vaiśyānāṃ kākapādavat |

25.2२५.२

एते दोषाः परित्याज्या नानादृश्यफलप्रदाः ॥ (२५।२)

ete doṣāḥ parityājyā nānādṛśyaphalapradāḥ ||

26.1२६.१

तद्वज्रं तुलयायोज्य पश्चान्मूल्यं विनिर्दिशेत् । (२६।१)

tadvajraṃ tulayāyojya paścānmūlyaṃ vinirdiśet |

26.2२६.२

ब्राह्मणानां हितं श्वेतं पीताभं भूभुजां हितम् ॥ (२६।२)

brāhmaṇānāṃ hitaṃ śvetaṃ pītābhaṃ bhūbhujāṃ hitam ||

27.1२७.१

आरक्ताभं तु वैश्यानां शूद्राणाम् असितं हितम् । (२७।१)

āraktābhaṃ tu vaiśyānāṃ śūdrāṇām asitaṃ hitam |

27.2२७.२

अष्टाभिः सितसिद्धार्थैः यवतण्डुलमुच्यते ॥ (२७।२)

aṣṭābhiḥ sitasiddhārthaiḥ yavataṇḍulamucyate ||

28.1२८.१

तस्य पिण्डासारेण वज्रमूल्यं विनिर्दिशेत् । (२८।१)

tasya piṇḍāsāreṇa vajramūlyaṃ vinirdiśet |

28.2२८.२

पात्रेण यवमात्रेण दुरूहं तण्डुलेन तु ॥ (२८।२)

pātreṇa yavamātreṇa durūhaṃ taṇḍulena tu ||

29.1२९.१

निर्दोषं यवमात्रं च कान्तिः सर्वत्र दूष्यते । (२९।१)

nirdoṣaṃ yavamātraṃ ca kāntiḥ sarvatra dūṣyate |

29.2२९.२

मूल्यं पञ्चशतं तस्य रत्नसारेऽप्युदाहृतम् ॥ (२९।२)

mūlyaṃ pañcaśataṃ tasya ratnasāre'pyudāhṛtam ||

30.1३०.१

पिण्डं च द्विगुणं [॥। औ२ ज़ेइछेन्झ्] मूल्ये वज्र [॥। औ२ ज़ेइछेन्झ्] व तथा भवेत् । (३०।१)

piṇḍaṃ ca dviguṇaṃ mūlye vajra va tathā bhavet |

30.2३०.२

चतुर्गुणं भवेन्मूल्यं त्रिगुणो ऽष्टगुणं मतम् ॥ (३०।२)

caturguṇaṃ bhavenmūlyaṃ triguṇo 'ṣṭaguṇaṃ matam ||

31.1३१.१

चतुःपञ्चषडादीनां क्रमवृद्धिर् भवेद्यदि । (३१।१)

catuḥpañcaṣaḍādīnāṃ kramavṛddhir bhavedyadi |

31.2३१.२

तन्मूल्यं द्विगुणं चैव रत्नशास्त्र उदाहृतम् ॥ (३१।२)

tanmūlyaṃ dviguṇaṃ caiva ratnaśāstra udāhṛtam ||

32.1३२.१

गुरुत्वे चाधनामं मूल्यं सामान्ये मध्यमं स्मृतम् । (३२।१)

gurutve cādhanāmaṃ mūlyaṃ sāmānye madhyamaṃ smṛtam |

32.2३२.२

लाघवे उत्तमं मूल्यमुत्तमाधममध्यमाः ॥ (३२।२)

lāghave uttamaṃ mūlyamuttamādhamamadhyamāḥ ||

33.1३३.१

मनसा भावयेत् पिण्डं पश्चान्मूल्यं विनिर्दिशेत् । (३३।१)

manasā bhāvayet piṇḍaṃ paścānmūlyaṃ vinirdiśet |

33.2३३.२

श्वेतपीतं च रक्ताभं कृष्णं वा कुलिशं भवेत् ॥ (३३।२)

śvetapītaṃ ca raktābhaṃ kṛṣṇaṃ vā kuliśaṃ bhavet ||

34.1३४.१

ब्राह्मणादिक्रमेणैव जातिभेदं प्रकल्पयेत् । (३४।१)

brāhmaṇādikrameṇaiva jātibhedaṃ prakalpayet |

34.2३४.२

उत्तमं ब्राह्मणे मूल्यं मध्यमं क्षत्रिये श्रुतम् ॥ (३४।२)

uttamaṃ brāhmaṇe mūlyaṃ madhyamaṃ kṣatriye śrutam ||

35.1३५.१

सामान्यं वैश्यजातीये शूद्रजन्मनि चाधमम् । (३५।१)

sāmānyaṃ vaiśyajātīye śūdrajanmani cādhamam |

35.2३५.२

यन्मूल्यं ब्राह्मणं प्रोक्तं पादाधः क्षत्रिये भवेत् ॥ (३५।२)

yanmūlyaṃ brāhmaṇaṃ proktaṃ pādādhaḥ kṣatriye bhavet ||

36.1३६.१

अनेनैव क्रमेणाह परीक्षाकार एव नः । (३६।१)

anenaiva krameṇāha parīkṣākāra eva naḥ |

36.2३६.२

कृत्रिमत्वं यदा वज्रे शक्यते सूरिभिः क्वचित् ॥ (३६।२)

kṛtrimatvaṃ yadā vajre śakyate sūribhiḥ kvacit ||

37.1३७.१

क्षाराम्लैर् लेपयेद् वज्रं रौद्रे चैव परिक्षिपेत् । (३७।१)

kṣārāmlair lepayed vajraṃ raudre caiva parikṣipet |

37.2३७.२

कृत्रिमजातिवैवर्ण्यं सह पश्चात्तु दृश्यते ॥ (३७।२)

kṛtrimajātivaivarṇyaṃ saha paścāttu dṛśyate ||

38.1३८.१

क्षीयते चातिसंघर्षात् तच्चूर्णं याति चूर्णताम् । (३८।१)

kṣīyate cātisaṃgharṣāt taccūrṇaṃ yāti cūrṇatām |

38.2३८.२

यत्तु वारितरं नाम दूर्वादलसमच्छवि ॥ (३८।२)

yattu vāritaraṃ nāma dūrvādalasamacchavi ||

39.1३९.१

चूर्णमायतनं यत्र तद्रत्नं कोटिभाजनम् । (३९।१)

cūrṇamāyatanaṃ yatra tadratnaṃ koṭibhājanam |

39.2३९.२

माहेन्द्रोऽयं मणिर्धार्यो धनधान्यसमृद्धिदः ॥ (३९।२)

māhendro'yaṃ maṇirdhāryo dhanadhānyasamṛddhidaḥ ||

40.1४०.१

पुत्रदं पावनं पूज्यं शत्रुघ्नं बलपुष्टिदम् । (४०।१)

putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ balapuṣṭidam |

40.2४०.२

अथ जीवितरत्नसारेण उच्यतेपुत्रदं पावनं पूज्यं शत्रुघ्नं समरेऽभयम् ॥ (४०।२)

atha jīvitaratnasāreṇa ucyateputradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ samare'bhayam ||

41.1४१.१

ग [॥। औ४ ज़ेइछेन्झ्] निधातव्यस्तवलाभरयमणिम् । (४१।१)

ga nidhātavyastavalābharayamaṇim |

41.2४१.२

उदरे वज्रसंयोगात् गर्भस्तु शिव लीयते ॥ (४१।२)

udare vajrasaṃyogāt garbhastu śiva līyate ||

42.1४२.१

शूद्राणामपि धर्तव्यः ग्नीवक्षद्रक्षते मणिः । (४२।१)

śūdrāṇāmapi dhartavyaḥ gnīvakṣadrakṣate maṇiḥ |

42.2४२.२

जठरे गर्भसंसर्गात् ज्ञे तदासा बलीयते ॥ (४२।२)

jaṭhare garbhasaṃsargāt jñe tadāsā balīyate ||

43.1४३.१

यदि धारयते पश्चादज्ञाना [॥। औ२ ज़ेइछेन्झ्] स्तु वर्जितः । (४३।१)

yadi dhārayate paścādajñānā stu varjitaḥ |

43.2४३.२

तथैव वज्रं शिरसि वज्र एनाशनि ॥ (४३।२)

tathaiva vajraṃ śirasi vajra enāśani ||

44.1४४.१

अधमस्योत्तमं तुल्यम् उत्तमस्याधमं तथा । (४४।१)

adhamasyottamaṃ tulyam uttamasyādhamaṃ tathā |

44.2४४.२

मध्यमो हि भयात्कुर्यात् सर्वकृष्टं भयोन्मुखे ॥ (४४।२)

madhyamo hi bhayātkuryāt sarvakṛṣṭaṃ bhayonmukhe ||

45.1४५.१

अथ रत्नानां परीक्षाम् आहवज्राणि चिह्नभूतानि वृधा कुर्वन्ति चाधमाः । (४५।१)

atha ratnānāṃ parīkṣām āhavajrāṇi cihnabhūtāni vṛdhā kurvanti cādhamāḥ |

45.2४५.२

परीक्षयेत शास्त्रज्ञैः शाणघर्षणलेखनैः ॥ (४५।२)

parīkṣayeta śāstrajñaiḥ śāṇagharṣaṇalekhanaiḥ ||

46.1४६.१

लौहानि यानि रत्नानि सर्वरत्नानि यानि च । (४६।१)

lauhāni yāni ratnāni sarvaratnāni yāni ca |

46.2४६.२

तानि वज्रेण लेख्यानि तैर् वज्रं च न लिख्यते ॥ (४६।२)

tāni vajreṇa lekhyāni tair vajraṃ ca na likhyate ||

47.1४७.१

रसायने भवेद्विप्रः शुभसिद्ध्यर्थंदायकः । (४७।१)

rasāyane bhavedvipraḥ śubhasiddhyarthaṃdāyakaḥ |

47.2४७.२

क्षत्रियो मृत्युजिद्रक्तो वलीपलितरोगहा ॥ (४७।२)

kṣatriyo mṛtyujidrakto valīpalitarogahā ||

48.1४८.१

भद्रकारी भवेद्वैश्यः पीतदेहो ह्यरोगकृत् । (४८।१)

bhadrakārī bhavedvaiśyaḥ pītadeho hyarogakṛt |

48.2४८.२

कृष्णः शूद्रो रुजं हन्ति वीर्यस्तम्भं करोति च ॥ (४८।२)

kṛṣṇaḥ śūdro rujaṃ hanti vīryastambhaṃ karoti ca ||

49.1४९.१

स्त्रीपुंनपुंसका ये च लक्षणेन तु लक्ष्यते । (४९।१)

strīpuṃnapuṃsakā ye ca lakṣaṇena tu lakṣyate |

49.2४९.२

यथापूर्वमिमे श्रेष्ठाः शुद्धापारदवर्णकाः ॥ (४९।२)

yathāpūrvamime śreṣṭhāḥ śuddhāpāradavarṇakāḥ ||

50.1५०.१

शरीरकान्तिजनका भोगदा बहुयोषितः । (५०।१)

śarīrakāntijanakā bhogadā bahuyoṣitaḥ |

50.2५०.२

नपुंसकाः स्वल्पवीर्याः प्रमदा कामुकाः सत्त्ववर्जिताः ॥ (५०।२)

napuṃsakāḥ svalpavīryāḥ pramadā kāmukāḥ sattvavarjitāḥ ||

51.1५१.१

जलबिन्दुर्यवो रेखा वैश्यस्य काकपादवत् । (५१।१)

jalabinduryavo rekhā vaiśyasya kākapādavat |

51.2५१.२

दोषाः पञ्च समाख्याताश्चाशुभैकफलप्रदाः ॥ (५१।२)

doṣāḥ pañca samākhyātāścāśubhaikaphalapradāḥ ||

52.1५२.१

अङ्के काकपदाकारं रक्तबिन्दुकलाञ्चितम् । (५२।१)

aṅke kākapadākāraṃ raktabindukalāñcitam |

52.2५२.२

संतानं नश्यते वज्रं क्षेमकार्याय न क्वचित् ॥ (५२।२)

saṃtānaṃ naśyate vajraṃ kṣemakāryāya na kvacit ||

53.1५३.१

रेखासु मलिनं स्फोटं रत्नमध्ये भवेद्यदि । (५३।१)

rekhāsu malinaṃ sphoṭaṃ ratnamadhye bhavedyadi |

53.2५३.२

तद्रत्नं निष्फलं प्रोक्तं रत्नशास्त्रविशारदैः ॥ (५३।२)

tadratnaṃ niṣphalaṃ proktaṃ ratnaśāstraviśāradaiḥ ||

54.1५४.१

धागणी पदाराय ऊर्ध्वं चासिप्रहाराय छेदच्छेदाय बिन्दुभिः । (५४।१)

dhāgaṇī padārāya ūrdhvaṃ cāsiprahārāya chedacchedāya bindubhiḥ |

54.2५४.२

गजवाजिजयो रक्तः पीतो वैरक्षयो भवेत् ॥ (५४।२)

gajavājijayo raktaḥ pīto vairakṣayo bhavet ||

55.1५५.१

आयुर् धान्यं धनं लक्ष्मीं कृष्णो नामपदं क्षयेत् । (५५।१)

āyur dhānyaṃ dhanaṃ lakṣmīṃ kṛṣṇo nāmapadaṃ kṣayet |

55.2५५.२

सव्यं स्यादपसव्यं च छेदच्छेदोर्ध्वगो ऽपि च ॥ (५५।२)

savyaṃ syādapasavyaṃ ca chedacchedordhvago 'pi ca ||

56.1५६.१

वज्रे चतुर्विधा रेखा बुधैर्लेखोपलक्षिता । (५६।१)

vajre caturvidhā rekhā budhairlekhopalakṣitā |

56.2५६.२

लघवोऽष्टौ च षट् कोणास् तीक्ष्णधारासुनिर्मला ॥ (५६।२)

laghavo'ṣṭau ca ṣaṭ koṇās tīkṣṇadhārāsunirmalā ||

57.1५७.१

वज्रं काकपदोपेतं ध्रुवं मृत्युं विनिर्दिशेत् । (५७।१)

vajraṃ kākapadopetaṃ dhruvaṃ mṛtyuṃ vinirdiśet |

57.2५७.२

स बह्यभूतसंभिन्नं भग्नं कोणं सुवर्तुलम् ॥ (५७।२)

sa bahyabhūtasaṃbhinnaṃ bhagnaṃ koṇaṃ suvartulam ||

58.1५८.१

न समर्थं भवेत्तस्य शुभाशुभफलोदये । (५८।१)

na samarthaṃ bhavettasya śubhāśubhaphalodaye |

58.2५८.२

रक्तबिन्दुसमायुक्तं भग्नं काकपदान्वितम् ॥ (५८।२)

raktabindusamāyuktaṃ bhagnaṃ kākapadānvitam ||

59.1५९.१

वज्रं न शस्यते पुंसां क्षेमाय विजयाय च । (५९।१)

vajraṃ na śasyate puṃsāṃ kṣemāya vijayāya ca |

59.2५९.२

अशुद्धवज्रं हृत्पार्श्वपीडाकुष्ठरुजाकरम् ॥ (५९।२)

aśuddhavajraṃ hṛtpārśvapīḍākuṣṭharujākaram ||

60.1६०.१

पाण्डुतापगुरुत्वं च तस्मिन् वज्रविशोधने । (६०।१)

pāṇḍutāpagurutvaṃ ca tasmin vajraviśodhane |

60.2६०.२

पाण्डुरोगं पार्श्वपीडां कीलसंदाहसंततिः ॥ (६०।२)

pāṇḍurogaṃ pārśvapīḍāṃ kīlasaṃdāhasaṃtatiḥ ||

61.0६१.०

रोगादिकं गुरुत्वं च धत्ते वज्रम् अशोधितम् ॥ (६१।०)

rogādikaṃ gurutvaṃ ca dhatte vajram aśodhitam ||

Data courtesy of The Digital Corpus of Sanskrit.

Ratnadīpikā, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit