Chapter 2
Select a line for its word-by-word analysis.
शुक्त्युद्भवाश्च विज्ञेया अष्टौ मौक्तिकजातयः ॥ (१।२)
śuktyudbhavāśca vijñeyā aṣṭau mauktikajātayaḥ ||
तेषामेकं सुलभ्यं च शुक्तिजं लोकविश्रुतम् । (२।१)
teṣāmekaṃ sulabhyaṃ ca śuktijaṃ lokaviśrutam |
कदाचिद्बहुभिः कालैः दृश्यते मौक्तिकं फलम् ॥ (२।२)
kadācidbahubhiḥ kālaiḥ dṛśyate mauktikaṃ phalam ||
मत्स्यं श्वेतं तु तद्वच्च फणीन्द्रे नीलभास्वरम् ॥ (३।२)
matsyaṃ śvetaṃ tu tadvacca phaṇīndre nīlabhāsvaram ||
शङ्खशुक्तिभवं श्वेतं मुक्तारत्नमनुत्तमम् ॥ (४।२)
śaṅkhaśuktibhavaṃ śvetaṃ muktāratnamanuttamam ||
सुवृत्तं सुप्रभं तुङ्गं मुक्तारत्नं प्रशस्यते ॥ (५।२)
suvṛttaṃ suprabhaṃ tuṅgaṃ muktāratnaṃ praśasyate ||
शीतलं प्राणदं शुक्लं गुरु स्वच्छं सुनिर्मलम् । (६।१)
śītalaṃ prāṇadaṃ śuklaṃ guru svacchaṃ sunirmalam |
तेजोऽधिकं सुवृत्तं च मौक्तिकं गुणवत्तरम् ॥ (६।२)
tejo'dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavattaram ||
Data courtesy of The Digital Corpus of Sanskrit.