रत्नदीपिकाRatnadīpikā

Chapter 3

3 of 4 · 47 verses

Select a line for its word-by-word analysis.

1.1१.१

सिंहले च सुवेले च मलये गन्धमादने । (१।१)

siṃhale ca suvele ca malaye gandhamādane |

1.2१.२

समुद्रस्योदरे कच्छे माणिक्योत्पत्तिभूमयः ॥ (१।२)

samudrasyodare kacche māṇikyotpattibhūmayaḥ ||

2.1२.१

माणिक्यस्य प्रवक्ष्यामि जातिभेदचतुष्टयम् । (२।१)

māṇikyasya pravakṣyāmi jātibhedacatuṣṭayam |

2.2२.२

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति यथाक्रमम् ॥ (२।२)

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti yathākramam ||

3.1३.१

आनीलं लोहितं रत्नं रत्नसौगन्धिकं भवम् । (३।१)

ānīlaṃ lohitaṃ ratnaṃ ratnasaugandhikaṃ bhavam |

3.2३.२

नानाभिर् धातुभिर् बद्धं तद्रत्नं कुरुविन्दकम् ॥ (३।२)

nānābhir dhātubhir baddhaṃ tadratnaṃ kuruvindakam ||

4.1४.१

स्फटिकोत्थं भवेच्छुद्धम् इति वश्येशिका गुणाः । (४।१)

sphaṭikotthaṃ bhavecchuddham iti vaśyeśikā guṇāḥ |

4.2४.२

रत्नं श्वेतं भवेद्विप्रः सुरक्तं क्षत्रियः श्रुतः ॥ (४।२)

ratnaṃ śvetaṃ bhavedvipraḥ suraktaṃ kṣatriyaḥ śrutaḥ ||

5.1५.१

रक्तो ऽपीतो भवेद्वैश्यः रक्तपीतस्तथान्त्यजः । (५।१)

rakto 'pīto bhavedvaiśyaḥ raktapītastathāntyajaḥ |

5.2५.२

शोणपद्मनिभाकारं रक्ताङ्गारसमप्रभम् ॥ (५।२)

śoṇapadmanibhākāraṃ raktāṅgārasamaprabham ||

6.1६.१

पिकनेत्रारुणं वापि सारसाक्षनिभं भवेत् । (६।१)

pikanetrāruṇaṃ vāpi sārasākṣanibhaṃ bhavet |

6.2६.२

कोकखञ्जननेत्राभं दोषा अग्निसमप्रभम् ॥ (६।२)

kokakhañjananetrābhaṃ doṣā agnisamaprabham ||

7.1७.१

दाडिमं किंशुकाभं च क्षत्रियं कुरुविन्दकम् । (७।१)

dāḍimaṃ kiṃśukābhaṃ ca kṣatriyaṃ kuruvindakam |

7.2७.२

हिङ्गुलं शोणपुष्पाभं कृष्णं च लोहितम् ॥ (७।२)

hiṅgulaṃ śoṇapuṣpābhaṃ kṛṣṇaṃ ca lohitam ||

8.1८.१

जपालाक्षारसप्राये वैश्यं सौगन्धिकं मतम् । (८।१)

japālākṣārasaprāye vaiśyaṃ saugandhikaṃ matam |

9.1९.१

मांसखण्डसमाकरश् चान्त्यजः पापकारकः । (९।१)

māṃsakhaṇḍasamākaraś cāntyajaḥ pāpakārakaḥ |

9.2९.२

यन्मूल्यं पद्मरागस्य तन्मूल्यं परिकीर्तितम् ॥ (९।२)

yanmūlyaṃ padmarāgasya tanmūlyaṃ parikīrtitam ||

10.1१०.१

तावन्मूल्यं चतुर्थांशहीनं श्यामलकन्दकम् । (१०।१)

tāvanmūlyaṃ caturthāṃśahīnaṃ śyāmalakandakam |

10.2१०.२

यावन्मूल्यं समाख्यातं वैश्यवर्णेषु सूरिभिः ॥ (१०।२)

yāvanmūlyaṃ samākhyātaṃ vaiśyavarṇeṣu sūribhiḥ ||

11.1११.१

तावन्मूल्यचतुर्थांशो दीयते शूद्रजन्मनि । (११।१)

tāvanmūlyacaturthāṃśo dīyate śūdrajanmani |

11.2११.२

लघुरत्नं प्रशंसन्ति गुरुत्वं पद्मरागकम् ॥ (११।२)

laghuratnaṃ praśaṃsanti gurutvaṃ padmarāgakam ||

12.1१२.१

मुक्ताफलं कोमलं च सुनीलं श्वेतरक्तकम् । (१२।१)

muktāphalaṃ komalaṃ ca sunīlaṃ śvetaraktakam |

12.2१२.२

ऊर्ध्ववर्तित्वधोवर्ति पार्श्ववर्ति तमोमणिः ॥ (१२।२)

ūrdhvavartitvadhovarti pārśvavarti tamomaṇiḥ ||

13.1१३.१

पिण्डगौरवभेदेन उत्तमाधममध्यमाः । (१३।१)

piṇḍagauravabhedena uttamādhamamadhyamāḥ |

13.2१३.२

यो मणिर्दृश्यते दूरात् जलवह्निसमच्छविः ॥ (१३।२)

yo maṇirdṛśyate dūrāt jalavahnisamacchaviḥ ||

14.1१४.१

जलकान्तिः स विज्ञेयो रत्नशास्त्रविशारदैः । (१४।१)

jalakāntiḥ sa vijñeyo ratnaśāstraviśāradaiḥ |

14.2१४.२

बालार्का [॥। औ४ ज़ेइछेन्झ्] कृत्वा दर्पणो धारये [॥। औ४ ज़ेइछेन्झ्] सि ॥ (१४।२)

bālārkā kṛtvā darpaṇo dhāraye si ||

15.1१५.१

तत्र कान्तिविभागेन जातिमूल्यं विनिर्दिशेत् । (१५।१)

tatra kāntivibhāgena jātimūlyaṃ vinirdiśet |

15.2१५.२

एकद्वित्रिचतुःपञ्चसिद्धसिद्धार्थमानतः ॥ (१५।२)

ekadvitricatuḥpañcasiddhasiddhārthamānataḥ ||

16.1१६.१

वृत्तिर्भवति रत्नानां तत्तन्मूल्यं विनिर्दिशेत् । (१६।१)

vṛttirbhavati ratnānāṃ tattanmūlyaṃ vinirdiśet |

16.2१६.२

वति मणेश्चैव जवो प्रमाणतः ॥ (१६।२)

vati maṇeścaiva javo pramāṇataḥ ||

17.1१७.१

दशोत्तरशतत्वं च पद्मरागस्य मूल्यता । (१७।१)

daśottaraśatatvaṃ ca padmarāgasya mūlyatā |

17.2१७.२

सर्षपे पात्रकान्तिश्च एकैकं वर्तते यदि ॥ (१७।२)

sarṣape pātrakāntiśca ekaikaṃ vartate yadi ||

18.1१८.१

शापये द्विगुणं मूल्यं यावद्विंशतिसर्षपाः । (१८।१)

śāpaye dviguṇaṃ mūlyaṃ yāvadviṃśatisarṣapāḥ |

18.2१८.२

सन्देहो जायते कश्चित्कृत्रिमः सहजोऽपि वा ॥ (१८।२)

sandeho jāyate kaścitkṛtrimaḥ sahajo'pi vā ||

19.1१९.१

अन्योन्यं घर्षयेद्रत्नं रेखा तस्माद्विपद्यते । (१९।१)

anyonyaṃ gharṣayedratnaṃ rekhā tasmādvipadyate |

19.2१९.२

नीलं वा पद्मरागं वा रत्नं तेनैव लक्ष्यते ॥ (१९।२)

nīlaṃ vā padmarāgaṃ vā ratnaṃ tenaiva lakṣyate ||

20.1२०.१

वज्रं वज्रतरेणैव नात्र कार्या विचारणा । (२०।१)

vajraṃ vajratareṇaiva nātra kāryā vicāraṇā |

20.2२०.२

शुद्धमाणिक्यजो घृष्टो नैव लोहेन भिद्यते ॥ (२०।२)

śuddhamāṇikyajo ghṛṣṭo naiva lohena bhidyate ||

21.1२१.१

ऊर्धावतिश्रतावेन स मणिर् धनदः शुचिः । (२१।१)

ūrdhāvatiśratāvena sa maṇir dhanadaḥ śuciḥ |

21.2२१.२

तदो सविपवाभिन्नं शर्करा नशुनोद्भवम् ॥ (२१।२)

tado savipavābhinnaṃ śarkarā naśunodbhavam ||

22.1२२.१

कोमलद्रुमयन्त्रश्च स मणिर्दोषदो भवेत् । (२२।१)

komaladrumayantraśca sa maṇirdoṣado bhavet |

22.2२२.२

अङ्कोलफलशङ्खाख्यं पुत्रसौभाग्यनाशनम् ॥ (२२।२)

aṅkolaphalaśaṅkhākhyaṃ putrasaubhāgyanāśanam ||

23.1२३.१

अशोकफलवाडं च दरिद्रत्वं करोति हि । (२३।१)

aśokaphalavāḍaṃ ca daridratvaṃ karoti hi |

23.2२३.२

धनाढ्यं पुत्रसौभाग्यं करोति मधुसन्निभम् ॥ (२३।२)

dhanāḍhyaṃ putrasaubhāgyaṃ karoti madhusannibham ||

24.1२४.१

अङ्कदिनं च यद्रत्नं यस्य वेश्मनि तिष्ठति । (२४।१)

aṅkadinaṃ ca yadratnaṃ yasya veśmani tiṣṭhati |

24.2२४.२

अपवाददरिद्रत्वं चिन्ताशोकभयं भवेत् ॥ (२४।२)

apavādadaridratvaṃ cintāśokabhayaṃ bhavet ||

Data courtesy of The Digital Corpus of Sanskrit.

Ratnadīpikā, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit