रत्नदीपिकाRatnadīpikā

Chapter 4

4 of 4 · 31 verses

Select a line for its word-by-word analysis.

1.1१.१

चतुर्धा नीलमाख्यातं वर्णभेदेन सूरिभिः । (१।१)

caturdhā nīlamākhyātaṃ varṇabhedena sūribhiḥ |

1.2१.२

उत्पत्तिर्विविधा तस्य त्वाकरे दैवयोगतः ॥ (१।२)

utpattirvividhā tasya tvākare daivayogataḥ ||

2.1२.१

श्वेतनीलं पीतनीलं रक्तनीलम् अथापि वा । (२।१)

śvetanīlaṃ pītanīlaṃ raktanīlam athāpi vā |

2.2२.२

कृष्णनीलं तथा ज्ञेयं ब्राह्मणादिक्रमेण च ॥ (२।२)

kṛṣṇanīlaṃ tathā jñeyaṃ brāhmaṇādikrameṇa ca ||

3.1३.१

सिंहले च कलिङ्गे च नीलानामाकरं विदुः । (३।१)

siṃhale ca kaliṅge ca nīlānāmākaraṃ viduḥ |

3.2३.२

उत्तमं सिंहलोद्भूतं मध्यमं च कलिङ्गजम् ॥ (३।२)

uttamaṃ siṃhalodbhūtaṃ madhyamaṃ ca kaliṅgajam ||

4.1४.१

नीलस्य षड्विधा दोषा गुणाः पञ्चविधास्तथा । (४।१)

nīlasya ṣaḍvidhā doṣā guṇāḥ pañcavidhāstathā |

4.2४.२

शूद्रकं पाटलच्छायं कर्कराभासछिद्रकम् ॥ (४।२)

śūdrakaṃ pāṭalacchāyaṃ karkarābhāsachidrakam ||

5.1५.१

मूल्यं षोडशकं प्रोक्तं छायाभद्रगुणैर्भवेत् । (५।१)

mūlyaṃ ṣoḍaśakaṃ proktaṃ chāyābhadraguṇairbhavet |

5.2५.२

मृदुपाषाणरौप्यं च महानीलश्च दूषणम् ॥ (५।२)

mṛdupāṣāṇaraupyaṃ ca mahānīlaśca dūṣaṇam ||

6.1६.१

शूद्रके च दरिद्रत्वं पाटले शत्रुविग्रहः । (६।१)

śūdrake ca daridratvaṃ pāṭale śatruvigrahaḥ |

6.2६.२

छायया कान्तिहानिश्च पैशुन्यं त्रिषु जायते ॥ (६।२)

chāyayā kāntihāniśca paiśunyaṃ triṣu jāyate ||

7.1७.१

देशत्यागं दरिद्रत्वं कर्करायाः फलं महत् । (७।१)

deśatyāgaṃ daridratvaṃ karkarāyāḥ phalaṃ mahat |

7.2७.२

त्र्यश्रं शत्रुभयं दत्ते चित्रकृष्णं विनिर्दिशेत् ॥ (७।२)

tryaśraṃ śatrubhayaṃ datte citrakṛṣṇaṃ vinirdiśet ||

8.1८.१

एवं बहुविधा दोषास्त्याज्या रत्नस्य सूरिभिः । (८।१)

evaṃ bahuvidhā doṣāstyājyā ratnasya sūribhiḥ |

8.2८.२

गुणांश्चैषां प्रवक्ष्यामि यथादृष्टं पुरातनैः ॥ (८।२)

guṇāṃścaiṣāṃ pravakṣyāmi yathādṛṣṭaṃ purātanaiḥ ||

9.1९.१

गुरुः स्निग्धश्च वर्णाढ्यः पार्श्ववर्त्यभिरञ्जनः । (९।१)

guruḥ snigdhaśca varṇāḍhyaḥ pārśvavartyabhirañjanaḥ |

9.2९.२

इन्द्रनीलः समाख्यातः चतुर्भिश्च महागुणैः ॥ (९।२)

indranīlaḥ samākhyātaḥ caturbhiśca mahāguṇaiḥ ||

10.1१०.१

छायां चैषां प्रवक्ष्यामि यथाप्युक्ता पुरातनैः । (१०।१)

chāyāṃ caiṣāṃ pravakṣyāmi yathāpyuktā purātanaiḥ |

10.2१०.२

चतुर्जातिविभागेन उत्तमाधममध्यमाः ॥ (१०।२)

caturjātivibhāgena uttamādhamamadhyamāḥ ||

11.1११.१

नीला च शुककण्ठाभा अतसीकुसुमप्रभा । (११।१)

nīlā ca śukakaṇṭhābhā atasīkusumaprabhā |

11.2११.२

कोकिलाकण्ठसङ्काशा बर्हिकण्ठसमप्रभा ॥ (११।२)

kokilākaṇṭhasaṅkāśā barhikaṇṭhasamaprabhā ||

12.1१२.१

काकपक्षसमा कान्तिर्विविधा तस्य दृश्यते । (१२।१)

kākapakṣasamā kāntirvividhā tasya dṛśyate |

12.2१२.२

दोषहीने गुणाढ्ये च उत्तमाकरसम्भवे ॥ (१२।२)

doṣahīne guṇāḍhye ca uttamākarasambhave ||

13.1१३.१

नीलमूल्यं प्रवक्ष्यामि मणेर् मत्यनुसारतः । (१३।१)

nīlamūlyaṃ pravakṣyāmi maṇer matyanusārataḥ |

13.2१३.२

यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्तितम् ॥ (१३।२)

yanmūlyaṃ padmarāgasya saguṇasya prakīrtitam ||

14.1१४.१

तन्मूल्यं शक्रनीलस्य मुनिभिः परिकीर्तितम् । (१४।१)

tanmūlyaṃ śakranīlasya munibhiḥ parikīrtitam |

14.2१४.२

पयोमध्ये क्षिपेन्नीलं सुनीलं तत्पयो भवेत् ॥ (१४।२)

payomadhye kṣipennīlaṃ sunīlaṃ tatpayo bhavet ||

15.1१५.१

इन्द्रनीलः स विज्ञेयो रत्नशास्त्रविशारदैः । (१५।१)

indranīlaḥ sa vijñeyo ratnaśāstraviśāradaiḥ |

15.2१५.२

एतद्गुणविशिष्टो यो लोकानां हितकारकः । (१५।२)

etadguṇaviśiṣṭo yo lokānāṃ hitakārakaḥ |

15.3१५.३

परीक्षा शक्रनीलस्य सूरिभिः कीर्तिता ॥ (१५।३)

parīkṣā śakranīlasya sūribhiḥ kīrtitā ||

Data courtesy of The Digital Corpus of Sanskrit.

Ratnadīpikā, 4

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit