भावप्रकाशBhāvaprakāśa

BhPr, 1, 3

2 of 5 · 263 verses

Select a line for its word-by-word analysis.

1.1१.१

पुंसि क्लीबे च कर्पूरः सिताभ्रो हिमवालुकः । (१।१)

puṃsi klībe ca karpūraḥ sitābhro himavālukaḥ |

1.2१.२

घनसारश् चन्द्रसंज्ञो हिमनामापि स स्मृतः ॥ (१।२)

ghanasāraś candrasaṃjño himanāmāpi sa smṛtaḥ ||

2.1२.१

कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः । (२।१)

karpūraḥ śītalo vṛṣyaścakṣuṣyo lekhano laghuḥ |

2.2२.२

सुरभिर् मधुरस् तिक्तः कफपित्तविषापहः ॥ (२।२)

surabhir madhuras tiktaḥ kaphapittaviṣāpahaḥ ||

3.1३.१

तृष्णास्यवैरस्यमेदोदौर्गन्ध्यनाशनः । (३।१)

tṛṣṇāsyavairasyamedodaurgandhyanāśanaḥ |

3.2३.२

कर्पूरो द्विविधः प्रोक्तः पक्वापक्वप्रभेदतः । (३।२)

karpūro dvividhaḥ proktaḥ pakvāpakvaprabhedataḥ |

3.3३.३

पक्वात् कर्पूरतः प्राहुरपक्वं गुणवत्तरम् ॥ (३।३)

pakvāt karpūrataḥ prāhurapakvaṃ guṇavattaram ||

4.1४.१

चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः । (४।१)

cīnākasaṃjñaḥ karpūraḥ kaphakṣayakaraḥ smṛtaḥ |

4.2४.२

कुष्ठकण्डूवमिहरस् तथा तिक्तरसश्च सः ॥ (४।२)

kuṣṭhakaṇḍūvamiharas tathā tiktarasaśca saḥ ||

5.1५.१

मृगनाभिर् मृगमदः कथितस्तु सहस्रभित् । (५।१)

mṛganābhir mṛgamadaḥ kathitastu sahasrabhit |

5.2५.२

कस्तूरिका च कस्तूरी वेधमुख्या च सा स्मृता ॥ (५।२)

kastūrikā ca kastūrī vedhamukhyā ca sā smṛtā ||

6.1६.१

कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक् । (६।१)

kāmarūpodbhavā kṛṣṇā naipālī nīlavarṇayuk |

6.2६.२

काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा स्मृता ॥ (६।२)

kāśmīrī kapilacchāyā kastūrī trividhā smṛtā ||

7.1७.१

कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत् । (७।१)

kāmarūpodbhavā śreṣṭhā naipālī madhyamā bhavet |

7.2७.२

काश्मीरदेशसम्भूता कस्तूरी ह्य् अधमा मता ॥ (७।२)

kāśmīradeśasambhūtā kastūrī hy adhamā matā ||

8.1८.१

कस्तूरिका कटुस् तिक्ता क्षारोष्णा शुक्रला गुरुः । (८।१)

kastūrikā kaṭus tiktā kṣāroṣṇā śukralā guruḥ |

8.2८.२

कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत् ॥ (८।२)

kaphavātaviṣacchardiśītadaurgandhyaśoṣahṛt ||

9.1९.१

लता कस्तूरिका तिक्ता स्वाद्वी वृष्या हिमा लघुः । (९।१)

latā kastūrikā tiktā svādvī vṛṣyā himā laghuḥ |

9.2९.२

चक्षुष्या छेदिनी श्लेष्मतृष्णावस्त्यास्यरोगहृत् ॥ (९।२)

cakṣuṣyā chedinī śleṣmatṛṣṇāvastyāsyarogahṛt ||

10.1१०.१

गन्धमार्जारवीर्यं तु वीर्यकृत् कफवातहृत् । (१०।१)

gandhamārjāravīryaṃ tu vīryakṛt kaphavātahṛt |

10.2१०.२

कण्डूकुष्ठहरं नेत्र्यं सुगन्धं स्वेदगन्धनुत् ॥ (१०।२)

kaṇḍūkuṣṭhaharaṃ netryaṃ sugandhaṃ svedagandhanut ||

11.1११.१

श्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलपर्णिकः । (११।१)

śrīkhaṇḍaṃ candanaṃ na strī bhadraśrīstailaparṇikaḥ |

11.2११.२

गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः ॥ (११।२)

gandhasāro malayajastathā candradyutiśca saḥ ||

12.1१२.१

स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम् । (१२।१)

svāde tiktaṃ kaṣe pītaṃ chede raktaṃ tanau sitam |

12.2१२.२

ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठम् उच्यते ॥ (१२।२)

granthikoṭarasaṃyuktaṃ candanaṃ śreṣṭham ucyate ||

13.1१३.१

चन्दनं शीतलं रूक्षं तिक्तम् आह्लादनं लघु । (१३।१)

candanaṃ śītalaṃ rūkṣaṃ tiktam āhlādanaṃ laghu |

13.2१३.२

श्रमशोषविषश्लेष्मतृष्णापित्तास्रदाहनुत् ॥ (१३।२)

śramaśoṣaviṣaśleṣmatṛṣṇāpittāsradāhanut ||

14.0१४.०

कालीयकं तु कालीयं पीताभं हरिचन्दनम् ॥ (१४।०)

kālīyakaṃ tu kālīyaṃ pītābhaṃ haricandanam ||

15.1१५.१

हरिप्रियं कालसारं तथा कालानुसार्यकम् । (१५।१)

haripriyaṃ kālasāraṃ tathā kālānusāryakam |

15.2१५.२

कालीयकं रक्तगुणं विशेषाद् व्यङ्गनाशनम् ॥ (१५।२)

kālīyakaṃ raktaguṇaṃ viśeṣād vyaṅganāśanam ||

16.1१६.१

रक्तचन्दनम् आख्यातं रक्ताङ्गं क्षुद्रचन्दनम् । (१६।१)

raktacandanam ākhyātaṃ raktāṅgaṃ kṣudracandanam |

16.2१६.२

तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतम् ॥ (१६।२)

tilaparṇaṃ raktasāraṃ tatpravālaphalaṃ smṛtam ||

17.1१७.१

रक्तं शीतं गुरु स्वादु छर्दितृष्णास्रपित्तहृत् । (१७।१)

raktaṃ śītaṃ guru svādu charditṛṣṇāsrapittahṛt |

17.2१७.२

तिक्तं नेत्राहतं वृष्यं ज्वरव्रणविषापहम् ॥ (१७।२)

tiktaṃ netrāhataṃ vṛṣyaṃ jvaravraṇaviṣāpaham ||

18.1१८.१

पतंगं रक्तसारं च सुरङ्गं रञ्जनं तथा । (१८।१)

pataṃgaṃ raktasāraṃ ca suraṅgaṃ rañjanaṃ tathā |

18.2१८.२

पट्टरञ्जकमाख्यातं पत्तूरं च कुचन्दनम् ॥ (१८।२)

paṭṭarañjakamākhyātaṃ pattūraṃ ca kucandanam ||

19.1१९.१

पतंगं मधुरं शीतं पित्तश्लेष्मव्रणास्रनुत् । (१९।१)

pataṃgaṃ madhuraṃ śītaṃ pittaśleṣmavraṇāsranut |

19.2१९.२

हरिचन्दनवद् वेद्यं विशेषाद्दाहनाशनम् ॥ (१९।२)

haricandanavad vedyaṃ viśeṣāddāhanāśanam ||

20.1२०.१

चन्दनानि तु सर्वाणि सदृशानि रसादिभिः । (२०।१)

candanāni tu sarvāṇi sadṛśāni rasādibhiḥ |

20.2२०.२

गन्धेन तु विशेषोऽस्ति पूर्वः श्रेष्ठतमो गुणैः ॥ (२०।२)

gandhena tu viśeṣo'sti pūrvaḥ śreṣṭhatamo guṇaiḥ ||

21.1२१.१

अगुरु प्रवरं लोहं राजार्हं योगजं तथा । (२१।१)

aguru pravaraṃ lohaṃ rājārhaṃ yogajaṃ tathā |

21.2२१.२

वंशिकं कृमिजं वापि कृमिजग्धम् अनार्यकम् ॥ (२१।२)

vaṃśikaṃ kṛmijaṃ vāpi kṛmijagdham anāryakam ||

22.1२२.१

अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णं च पित्तलम् । (२२।१)

agurūṣṇaṃ kaṭu tvacyaṃ tiktaṃ tīkṣṇaṃ ca pittalam |

22.2२२.२

लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् ॥ (२२।२)

laghu karṇākṣirogaghnaṃ śītavātakaphapraṇut ||

23.1२३.१

कृष्णं गुणाधिकं तत्तु लोहवद्वारि मज्जति । (२३।१)

kṛṣṇaṃ guṇādhikaṃ tattu lohavadvāri majjati |

23.2२३.२

अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः ॥ (२३।२)

aguruprabhavaḥ snehaḥ kṛṣṇāgurusamaḥ smṛtaḥ ||

24.1२४.१

देवदारु स्मृतं दारुभद्रं दार्व् इन्द्रदारु च । (२४।१)

devadāru smṛtaṃ dārubhadraṃ dārv indradāru ca |

24.2२४.२

मस्तदारु द्रुकिलिमं किलिमं सुरभूरुहः ॥ (२४।२)

mastadāru drukilimaṃ kilimaṃ surabhūruhaḥ ||

25.1२५.१

देवदारु लघु स्निग्धं तिक्तोष्णं कटुपाकि च । (२५।१)

devadāru laghu snigdhaṃ tiktoṣṇaṃ kaṭupāki ca |

25.2२५.२

विबन्धाध्मानशोथामतन्द्राहिक्काज्वरास्रजित् । (२५।२)

vibandhādhmānaśothāmatandrāhikkājvarāsrajit |

25.3२५.३

प्रमेहपीनसश्लेष्मकासकण्डूसमीरनुत् ॥ (२५।३)

pramehapīnasaśleṣmakāsakaṇḍūsamīranut ||

26.1२६.१

सरलः पीतवृक्षः स्यात्तथा सुरभिदारुकः । (२६।१)

saralaḥ pītavṛkṣaḥ syāttathā surabhidārukaḥ |

26.2२६.२

सरलो मधुरस् तिक्तः कटुपाकरसो लघुः ॥ (२६।२)

saralo madhuras tiktaḥ kaṭupākaraso laghuḥ ||

27.1२७.१

स्निग्धोष्णः कर्णकण्ठाक्षिरोगरक्षोहरः स्मृतः । (२७।१)

snigdhoṣṇaḥ karṇakaṇṭhākṣirogarakṣoharaḥ smṛtaḥ |

27.2२७.२

कफानिलस्वेददाहकासमूर्छाव्रणापहः ॥ (२७।२)

kaphānilasvedadāhakāsamūrchāvraṇāpahaḥ ||

28.1२८.१

कालानुसार्यं तगरं कुटिलं नहुषं नतम् । (२८।१)

kālānusāryaṃ tagaraṃ kuṭilaṃ nahuṣaṃ natam |

28.2२८.२

अपरं पिण्डतगरं दण्डहस्ती च बर्हिणम् ॥ (२८।२)

aparaṃ piṇḍatagaraṃ daṇḍahastī ca barhiṇam ||

29.1२९.१

तगरद्वयमुष्णं स्यात्स्वादु स्निग्धं लघु स्मृतम् । (२९।१)

tagaradvayamuṣṇaṃ syātsvādu snigdhaṃ laghu smṛtam |

29.2२९.२

विषापस्मारशूलाक्षिरोगदोषत्रयापहम् ॥ (२९।२)

viṣāpasmāraśūlākṣirogadoṣatrayāpaham ||

30.1३०.१

पद्मकं पद्मगन्धि स्यात्तथा पद्माह्वयं स्मृतम् । (३०।१)

padmakaṃ padmagandhi syāttathā padmāhvayaṃ smṛtam |

30.2३०.२

पद्मकं तुवरं तिक्तं शीतलं वातलं लघु ॥ (३०।२)

padmakaṃ tuvaraṃ tiktaṃ śītalaṃ vātalaṃ laghu ||

31.1३१.१

वीसर्पदाहविस्फोटकुष्ठश्लेष्मास्रपित्तनुत् । (३१।१)

vīsarpadāhavisphoṭakuṣṭhaśleṣmāsrapittanut |

31.2३१.२

गर्भसंस्थापनं रुच्यं वमिव्रणतृषाप्रणुत् ॥ (३१।२)

garbhasaṃsthāpanaṃ rucyaṃ vamivraṇatṛṣāpraṇut ||

32.1३२.१

गुग्गुलुर् देवधूपश् च जटायुः कौशिकः पुरः । (३२।१)

guggulur devadhūpaś ca jaṭāyuḥ kauśikaḥ puraḥ |

32.2३२.२

कुम्भोलूखलकं क्लीबे महिषाक्षः पलंकषः ॥ (३२।२)

kumbholūkhalakaṃ klībe mahiṣākṣaḥ palaṃkaṣaḥ ||

33.1३३.१

महिषाक्षो महानीलः कुमुदः पद्म इत्यपि । (३३।१)

mahiṣākṣo mahānīlaḥ kumudaḥ padma ityapi |

33.2३३.२

हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः ॥ (३३।२)

hiraṇyaḥ pañcamo jñeyo gugguloḥ pañca jātayaḥ ||

34.1३४.१

भृङ्गाञ्जनसवर्णस्तु महिषाक्ष इति स्मृतः । (३४।१)

bhṛṅgāñjanasavarṇastu mahiṣākṣa iti smṛtaḥ |

34.2३४.२

महानीलस् तु विज्ञेयः स्वनामसमलक्षणः ॥ (३४।२)

mahānīlas tu vijñeyaḥ svanāmasamalakṣaṇaḥ ||

35.1३५.१

कुमुदः कुमुदाभः स्यात्पद्मो माणिक्यसंनिभः । (३५।१)

kumudaḥ kumudābhaḥ syātpadmo māṇikyasaṃnibhaḥ |

35.2३५.२

हिरण्याक्षस् तु हेमाभः पञ्चानां लिङ्गमीरितम् ॥ (३५।२)

hiraṇyākṣas tu hemābhaḥ pañcānāṃ liṅgamīritam ||

36.1३६.१

महिषाक्षो महानीलो गजेन्द्राणां हिताव् उभौ । (३६।१)

mahiṣākṣo mahānīlo gajendrāṇāṃ hitāv ubhau |

36.2३६.२

हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ ॥ (३६।२)

hayānāṃ kumudaḥ padmaḥ svastyārogyakarau parau ||

37.1३७.१

विशेषेण मनुष्याणां कनकः परिकीर्तितः । (३७।१)

viśeṣeṇa manuṣyāṇāṃ kanakaḥ parikīrtitaḥ |

37.2३७.२

कदाचिन्महिषाक्षश्च मतः कैश्चिन्नृणामपि ॥ (३७।२)

kadācinmahiṣākṣaśca mataḥ kaiścinnṛṇāmapi ||

38.1३८.१

गुग्गुलुर् विशदस् तिक्तो वीर्योष्णः पित्तलः सरः । (३८।१)

guggulur viśadas tikto vīryoṣṇaḥ pittalaḥ saraḥ |

38.2३८.२

कषायः कटुकः पाके कटू रूक्षो लघुः परः ॥ (३८।२)

kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ ||

39.1३९.१

भग्नसंधानकृद् वृष्यः सूक्ष्मः स्वर्यो रसायनः । (३९।१)

bhagnasaṃdhānakṛd vṛṣyaḥ sūkṣmaḥ svaryo rasāyanaḥ |

39.2३९.२

दीपनः पिच्छिलो बल्यः कफवातव्रणापचीः ॥ (३९।२)

dīpanaḥ picchilo balyaḥ kaphavātavraṇāpacīḥ ||

40.1४०.१

मेदोमेहाश्मवातांश् च क्लेदकुष्ठाममारुतान् । (४०।१)

medomehāśmavātāṃś ca kledakuṣṭhāmamārutān |

40.2४०.२

पिटिकाग्रन्थिशोफार्शोगण्डमालाकृमीञ् जयेत् ॥ (४०।२)

piṭikāgranthiśophārśogaṇḍamālākṛmīñ jayet ||

41.1४१.१

माधुर्याच्छमयेद्वातं कषायत्वाच्च पित्तहा । (४१।१)

mādhuryācchamayedvātaṃ kaṣāyatvācca pittahā |

41.2४१.२

तिक्तत्वात्कफजित्तेन गुग्गुलुः सर्वदोषहा ॥ (४१।२)

tiktatvātkaphajittena gugguluḥ sarvadoṣahā ||

42.0४२.०

स नवो बृंहणो वृष्यः पुराणस् त्व् अतिलेखनः ॥ (४२।०)

sa navo bṛṃhaṇo vṛṣyaḥ purāṇas tv atilekhanaḥ ||

43.1४३.१

स्निग्धः काञ्चनसंकाशः पक्वजम्बूफलोपमः । (४३।१)

snigdhaḥ kāñcanasaṃkāśaḥ pakvajambūphalopamaḥ |

43.2४३.२

नूतनो गुग्गुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः ॥ (४३।२)

nūtano gugguluḥ proktaḥ sugandhiryastu picchilaḥ ||

44.1४४.१

शुष्को दुर्गन्धकश् चैव त्यक्तप्रकृतिवर्णकः । (४४।१)

śuṣko durgandhakaś caiva tyaktaprakṛtivarṇakaḥ |

44.2४४.२

पुराणः स तु विज्ञेयो गुग्गुलुर् वीर्यवर्जितः ॥ (४४।२)

purāṇaḥ sa tu vijñeyo guggulur vīryavarjitaḥ ||

45.1४५.१

अम्लं तीक्ष्णमजीर्णं च व्यवायं श्रममातपम् । (४५।१)

amlaṃ tīkṣṇamajīrṇaṃ ca vyavāyaṃ śramamātapam |

45.2४५.२

मद्यं रोषं त्यजेत्सम्यग् गुणार्थी पुरसेवकः ॥ (४५।२)

madyaṃ roṣaṃ tyajetsamyag guṇārthī purasevakaḥ ||

46.1४६.१

श्रीवासः सरलस्रावः श्रीवेष्टो वृक्षधूपकः । (४६।१)

śrīvāsaḥ saralasrāvaḥ śrīveṣṭo vṛkṣadhūpakaḥ |

46.2४६.२

श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः ॥ (४६।२)

śrīvāso madhurastiktaḥ snigdhoṣṇastuvaraḥ saraḥ ||

47.1४७.१

पित्तलो वातमूर्धाक्षिस्वरोगकफापहः । (४७।१)

pittalo vātamūrdhākṣisvarogakaphāpahaḥ |

47.2४७.२

रक्षोघ्नः स्वेददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत् ॥ (४७।२)

rakṣoghnaḥ svedadaurgandhyayūkākaṇḍūvraṇapraṇut ||

48.1४८.१

रालस्तु शालनिर्यासस्तथा सर्जरसः स्मृतः । (४८।१)

rālastu śālaniryāsastathā sarjarasaḥ smṛtaḥ |

48.2४८.२

देवधूपो यक्षधूपस्तथा सर्वरसश्च सः ॥ (४८।२)

devadhūpo yakṣadhūpastathā sarvarasaśca saḥ ||

49.1४९.१

रालो हिमो गुरुस् तिक्तः कषायो ग्राहको हरेत् । (४९।१)

rālo himo gurus tiktaḥ kaṣāyo grāhako haret |

49.2४९.२

दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः । (४९।२)

doṣāsrasvedavīsarpajvaravraṇavipādikāḥ |

49.3४९.३

ग्रहभग्नाग्निदग्धांश्च शूलातीसारनाशनः ॥ (४९।३)

grahabhagnāgnidagdhāṃśca śūlātīsāranāśanaḥ ||

50.0५०.०

कुन्दुरुस्तु मुकुन्दः स्यात्सुगन्धः कुन्द इत्यपि ॥ (५०।०)

kundurustu mukundaḥ syātsugandhaḥ kunda ityapi ||

51.1५१.१

कुन्दुरुर् मधुरस्तिक्तस् तीक्ष्णस् त्वच्यः कटुर्हरेत् । (५१।१)

kundurur madhurastiktas tīkṣṇas tvacyaḥ kaṭurharet |

51.2५१.२

ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान् ॥ (५१।२)

jvarasvedagrahālakṣmīmukharogakaphānilān ||

52.1५२.१

सिह्लकस्तु तुरुष्कः स्याद्यतो यवनदेशजः । (५२।१)

sihlakastu turuṣkaḥ syādyato yavanadeśajaḥ |

52.2५२.२

कपितैलं च संख्यातस्तथा च कपिनामकः ॥ (५२।२)

kapitailaṃ ca saṃkhyātastathā ca kapināmakaḥ ||

53.1५३.१

सिह्लकः कटुकः स्वादुः स्निग्धोष्णः शुक्रकान्तिकृत् । (५३।१)

sihlakaḥ kaṭukaḥ svāduḥ snigdhoṣṇaḥ śukrakāntikṛt |

53.2५३.२

वृष्यः कण्ठ्यः स्वेदकुष्ठज्वरदाहग्रहापहः ॥ (५३।२)

vṛṣyaḥ kaṇṭhyaḥ svedakuṣṭhajvaradāhagrahāpahaḥ ||

54.1५४.१

जातीफलं जातिकोशं मालतीफलमित्यपि । (५४।१)

jātīphalaṃ jātikośaṃ mālatīphalamityapi |

54.2५४.२

जातीफलं रसे तिक्तं तीक्ष्णोष्णं रोचनं लघु । (५४।२)

jātīphalaṃ rase tiktaṃ tīkṣṇoṣṇaṃ rocanaṃ laghu |

54.3५४.३

कटुकं दीपनं ग्राहि स्वर्यं श्लेष्मानिलापहम् ॥ (५४।३)

kaṭukaṃ dīpanaṃ grāhi svaryaṃ śleṣmānilāpaham ||

55.1५५.१

निहन्ति मुखवैरस्यं मलदौर्गन्ध्यकृष्णताः । (५५।१)

nihanti mukhavairasyaṃ maladaurgandhyakṛṣṇatāḥ |

55.2५५.२

कृमिकासवमिश्वासशोषपीनसहृद्रुजः ॥ (५५।२)

kṛmikāsavamiśvāsaśoṣapīnasahṛdrujaḥ ||

56.0५६.०

जातीफलस्य त्वक् प्रोक्ता जातीपत्त्री भिषग्वरैः ॥ (५६।०)

jātīphalasya tvak proktā jātīpattrī bhiṣagvaraiḥ ||

57.1५७.१

जातीपत्त्री लघुः स्वादुः कटूष्णा रुचिवर्णकृत् । (५७।१)

jātīpattrī laghuḥ svāduḥ kaṭūṣṇā rucivarṇakṛt |

57.2५७.२

कफकासवमिश्वासतृष्णाकृमिविषापहा ॥ (५७।२)

kaphakāsavamiśvāsatṛṣṇākṛmiviṣāpahā ||

58.1५८.१

लवंगं देवकुसुमं श्रीसंज्ञं श्रीप्रसूनकम् । (५८।१)

lavaṃgaṃ devakusumaṃ śrīsaṃjñaṃ śrīprasūnakam |

58.2५८.२

लवंगं कटुकं तिक्तं लघु नेत्रहितं हिमम् ॥ (५८।२)

lavaṃgaṃ kaṭukaṃ tiktaṃ laghu netrahitaṃ himam ||

59.1५९.१

दीपनं पाचनं रुच्यं कफपित्तास्रनाशकृत् । (५९।१)

dīpanaṃ pācanaṃ rucyaṃ kaphapittāsranāśakṛt |

59.2५९.२

तृष्णां छर्दिं तथाध्मानं शूलमाशु विनाशयेत् । (५९।२)

tṛṣṇāṃ chardiṃ tathādhmānaṃ śūlamāśu vināśayet |

59.3५९.३

कासं श्वासं च हिक्कां च क्षयं क्षपयति ध्रुवम् ॥ (५९।३)

kāsaṃ śvāsaṃ ca hikkāṃ ca kṣayaṃ kṣapayati dhruvam ||

60.0६०.०

एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च ॥ (६०।०)

elā sthūlā ca bahulā pṛthvīkā tripuṭāpi ca ||

61.1६१.१

भद्रैला बृहदेला च चन्द्रबाला च निष्कुटिः । (६१।१)

bhadrailā bṛhadelā ca candrabālā ca niṣkuṭiḥ |

61.2६१.२

स्थूलैला कटुका पाके रसे चानलकृल्लघुः ॥ (६१।२)

sthūlailā kaṭukā pāke rase cānalakṛllaghuḥ ||

62.1६२.१

रूक्षोष्णा श्लेष्मपित्तास्रकण्डूश्वासतृषापहा । (६२।१)

rūkṣoṣṇā śleṣmapittāsrakaṇḍūśvāsatṛṣāpahā |

63.1६३.१

सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी द्राविडी त्रुटिः । (६३।१)

sūkṣmopakuñcikā tutthā koraṅgī drāviḍī truṭiḥ |

63.2६३.२

एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत् । (६३।२)

elā sūkṣmā kaphaśvāsakāsārśomūtrakṛcchrahṛt |

63.3६३.३

रसे तु कटुका शीता लघ्वी वातहरी मता ॥ (६३।३)

rase tu kaṭukā śītā laghvī vātaharī matā ||

64.1६४.१

त्वक्पत्त्रं च वराङ्गं स्यद् भृङ्गं चोचं तथोत्कटम् । (६४।१)

tvakpattraṃ ca varāṅgaṃ syad bhṛṅgaṃ cocaṃ tathotkaṭam |

64.2६४.२

त्वचं लघूष्णं कटुकं स्वादु तिक्तं च रूक्षकम् ॥ (६४।२)

tvacaṃ laghūṣṇaṃ kaṭukaṃ svādu tiktaṃ ca rūkṣakam ||

65.1६५.१

पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम् । (६५।१)

pittalaṃ kaphavātaghnaṃ kaṇḍvāmārucināśanam |

65.2६५.२

हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृत् ॥ (६५।२)

hṛdvastirogavātārśaḥkṛmipīnasaśukrahṛt ||

66.0६६.०

त्वक्स्वाद्वी तु तनुत्वक्स्यात्तथा दारुसिता मता ॥ (६६।०)

tvaksvādvī tu tanutvaksyāttathā dārusitā matā ||

67.1६७.१

उक्ता दारुसिता स्वाद्वी तिक्ता चानिलपित्तहृत् । (६७।१)

uktā dārusitā svādvī tiktā cānilapittahṛt |

67.2६७.२

सुरभिः शुक्रला वर्ण्या मुखशोषतृषापहा ॥ (६७।२)

surabhiḥ śukralā varṇyā mukhaśoṣatṛṣāpahā ||

68.1६८.१

पत्त्रकं तमालपत्त्रं च तथा स्यात् पत्त्रनामकम् । (६८।१)

pattrakaṃ tamālapattraṃ ca tathā syāt pattranāmakam |

68.2६८.२

पत्त्रकं मधुरं किंचित् तीक्ष्णोष्णं पिच्छिलं लघु । (६८।२)

pattrakaṃ madhuraṃ kiṃcit tīkṣṇoṣṇaṃ picchilaṃ laghu |

68.3६८.३

निहन्ति कफवातार्शोहृल्लासारुचिपीनसान् ॥ (६८।३)

nihanti kaphavātārśohṛllāsārucipīnasān ||

69.1६९.१

नागपुष्पः स्मृतो नागः केसरो नागकेसरः । (६९।१)

nāgapuṣpaḥ smṛto nāgaḥ kesaro nāgakesaraḥ |

69.2६९.२

चाम्पेयो नागकिञ्जल्कः कथितः काञ्चनाह्वयः ॥ (६९।२)

cāmpeyo nāgakiñjalkaḥ kathitaḥ kāñcanāhvayaḥ ||

70.0७०.०

नागपुष्पं कषायोष्णं रूक्षं लघ्वामपावनम् ॥ (७०।०)

nāgapuṣpaṃ kaṣāyoṣṇaṃ rūkṣaṃ laghvāmapāvanam ||

71.1७१.१

ज्वरकण्डूतृषास्वेदच्छर्दिहृल्लासनाशनम् । (७१।१)

jvarakaṇḍūtṛṣāsvedacchardihṛllāsanāśanam |

71.2७१.२

दौर्गन्ध्यकुष्ठवीसर्पकफपित्तविषापहम् ॥ (७१।२)

daurgandhyakuṣṭhavīsarpakaphapittaviṣāpaham ||

72.1७२.१

त्वगेलापत्त्रकैस् तुल्यैस् त्रिसुगन्धि त्रिजातकम् । (७२।१)

tvagelāpattrakais tulyais trisugandhi trijātakam |

72.2७२.२

नागकेसरसंयुक्तं चातुर्जातकम् उच्यते ॥ (७२।२)

nāgakesarasaṃyuktaṃ cāturjātakam ucyate ||

73.1७३.१

तद्द्वयं रोचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् । (७३।१)

taddvayaṃ rocanaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt |

73.2७३.२

लघु पित्ताग्निकृद् वर्ण्यं कफवातविषापहम् ॥ (७३।२)

laghu pittāgnikṛd varṇyaṃ kaphavātaviṣāpaham ||

74.1७४.१

कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् । (७४।१)

kuṅkumaṃ ghusṛṇaṃ raktaṃ kāśmīraṃ pītakaṃ varam |

74.2७४.२

संकोचं पिशुनं धीरं वाह्लीकं शोणिताभिधम् ॥ (७४।२)

saṃkocaṃ piśunaṃ dhīraṃ vāhlīkaṃ śoṇitābhidham ||

75.1७५.१

काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धि तत् । (७५।१)

kāśmīradeśaje kṣetre kuṅkumaṃ yadbhaveddhi tat |

75.2७५.२

सूक्ष्मकेसरम् आरक्तं पद्मगन्धि तदुत्तमम् ॥ (७५।२)

sūkṣmakesaram āraktaṃ padmagandhi taduttamam ||

76.1७६.१

वाह्लीकदेशसंजातं कुङ्कुमं पाण्डुरं स्मृतम् । (७६।१)

vāhlīkadeśasaṃjātaṃ kuṅkumaṃ pāṇḍuraṃ smṛtam |

76.2७६.२

केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेसरम् ॥ (७६।२)

ketakīgandhayuktaṃ tanmadhyamaṃ sūkṣmakesaram ||

77.1७७.१

कुङ्कुमं पारसीकं तन्मधुगन्धि तदीरितम् । (७७।१)

kuṅkumaṃ pārasīkaṃ tanmadhugandhi tadīritam |

77.2७७.२

ईषत् पाण्डुरवर्णं तदधमं स्थूलकेसरम् ॥ (७७।२)

īṣat pāṇḍuravarṇaṃ tadadhamaṃ sthūlakesaram ||

78.1७८.१

कुङ्कुमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित् । (७८।१)

kuṅkumaṃ kaṭukaṃ snigdhaṃ śirorugvraṇajantujit |

78.2७८.२

तिक्तं वमिहरं वर्ण्यं व्यङ्गदोषत्रयापहम् ॥ (७८।२)

tiktaṃ vamiharaṃ varṇyaṃ vyaṅgadoṣatrayāpaham ||

79.1७९.१

गोरोचना तु मङ्गल्या वन्द्या गौरी च रोचना । (७९।१)

gorocanā tu maṅgalyā vandyā gaurī ca rocanā |

79.2७९.२

गोरोचना हिमा तिक्ता वर्ण्या मङ्गलकान्तिदा । (७९।२)

gorocanā himā tiktā varṇyā maṅgalakāntidā |

79.3७९.३

विषालक्ष्मीग्रहोन्मादगर्भस्रावक्षतास्रहृत् ॥ (७९।३)

viṣālakṣmīgrahonmādagarbhasrāvakṣatāsrahṛt ||

80.0८०.०

नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम् ॥ (८०।०)

nakhaṃ vyāghranakhaṃ vyāghrāyudhaṃ taccakrakārakam ||

81.1८१.१

नखं स्वल्पं नखी प्रोक्ता हनुहट्टविलासिनी । (८१।१)

nakhaṃ svalpaṃ nakhī proktā hanuhaṭṭavilāsinī |

81.2८१.२

नखद्रव्यं ग्रहश्लेष्मावातास्रज्वरकुष्ठहृत् ॥ (८१।२)

nakhadravyaṃ grahaśleṣmāvātāsrajvarakuṣṭhahṛt ||

82.1८२.१

लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम् । (८२।१)

laghūṣṇaṃ śukralaṃ varṇyaṃ svādu vraṇaviṣāpaham |

82.2८२.२

अलक्ष्मीमुखदौर्गन्ध्यहृत् पाकरसयोः कटु ॥ (८२।२)

alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu ||

83.1८३.१

बालं ह्रीवेरबर्हिष्ठोदीच्यं केशाम्बुनाम च । (८३।१)

bālaṃ hrīverabarhiṣṭhodīcyaṃ keśāmbunāma ca |

83.2८३.२

बालकं शीतलं रूक्षं लघु दीपनपाचनम् । (८३।२)

bālakaṃ śītalaṃ rūkṣaṃ laghu dīpanapācanam |

83.3८३.३

हृल्लासारुचिवीसर्पहृद्रोगामातिसारजित् ॥ (८३।३)

hṛllāsārucivīsarpahṛdrogāmātisārajit ||

84.1८४.१

स्याद्वीरणं वीरतरुर् वीरं च बहुमूलकम् । (८४।१)

syādvīraṇaṃ vīratarur vīraṃ ca bahumūlakam |

84.2८४.२

वीरणं पाचनं शीतं वान्तिहृल्लघु तिक्तकम् ॥ (८४।२)

vīraṇaṃ pācanaṃ śītaṃ vāntihṛllaghu tiktakam ||

85.1८५.१

स्तम्भनं ज्वरनुद् भ्रान्तिमदजित् कफपित्तहृत् । (८५।१)

stambhanaṃ jvaranud bhrāntimadajit kaphapittahṛt |

85.2८५.२

तृष्णास्रविषवीसर्पकृच्छ्रदाहव्रणापहम् ॥ (८५।२)

tṛṣṇāsraviṣavīsarpakṛcchradāhavraṇāpaham ||

86.1८६.१

वीरणस्य तु मूलं स्यादुशीरं नलदं च तत् । (८६।१)

vīraṇasya tu mūlaṃ syāduśīraṃ naladaṃ ca tat |

86.2८६.२

अमृणालं च सेव्यं च समगन्धिकम् इत्यपि ॥ (८६।२)

amṛṇālaṃ ca sevyaṃ ca samagandhikam ityapi ||

87.0८७.०

उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम् ॥ (८७।०)

uśīraṃ pācanaṃ śītaṃ stambhanaṃ laghu tiktakam ||

88.1८८.१

मधुरं ज्वरहृद् वान्तिमदनुत् कफपित्तहृत् । (८८।१)

madhuraṃ jvarahṛd vāntimadanut kaphapittahṛt |

88.2८८.२

तृष्णास्रविषवीसर्पदाहकृच्छ्रव्रणापहम् ॥ (८८।२)

tṛṣṇāsraviṣavīsarpadāhakṛcchravraṇāpaham ||

89.1८९.१

जटामांसी भूतजटा जटिला च तपस्विनी । (८९।१)

jaṭāmāṃsī bhūtajaṭā jaṭilā ca tapasvinī |

89.2८९.२

मांसी तिक्ता कषाया च मेध्या कान्तिबलप्रदा । (८९।२)

māṃsī tiktā kaṣāyā ca medhyā kāntibalapradā |

89.3८९.३

स्वाद्वी हिमा त्रिदोषास्रदाहवीसर्पकुष्ठनुत् ॥ (८९।३)

svādvī himā tridoṣāsradāhavīsarpakuṣṭhanut ||

90.0९०.०

शैलेयं तु शिलापुष्पं वृद्धं कालानुसार्यकम् ॥ (९०।०)

śaileyaṃ tu śilāpuṣpaṃ vṛddhaṃ kālānusāryakam ||

91.1९१.१

शैलेयं शीतलं हृद्यं कफपित्तहरं लघु । (९१।१)

śaileyaṃ śītalaṃ hṛdyaṃ kaphapittaharaṃ laghu |

91.2९१.२

कण्डूकुष्ठाश्मरीदाहविषहृद् गुदरक्तहृत् ॥ (९१।२)

kaṇḍūkuṣṭhāśmarīdāhaviṣahṛd gudaraktahṛt ||

92.1९२.१

मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् । (९२।१)

mustakaṃ na striyāṃ mustaṃ triṣu vāridanāmakam |

92.2९२.२

कुरुविन्दश्च संख्यातो ऽपरः क्रोडकसेरुकः ॥ (९२।२)

kuruvindaśca saṃkhyāto 'paraḥ kroḍakaserukaḥ ||

93.1९३.१

भद्रमुस्तं च गुन्द्रा च तथा नागरमुस्तकः । (९३।१)

bhadramustaṃ ca gundrā ca tathā nāgaramustakaḥ |

93.2९३.२

मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम् ॥ (९३।२)

mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam ||

94.1९४.१

कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् । (९४।१)

kaṣāyaṃ kaphapittāsratṛḍjvarārucijantuhṛt |

94.2९४.२

अनूपदेशे यज्जातं मुस्तकं तत्प्रशस्यते । (९४।२)

anūpadeśe yajjātaṃ mustakaṃ tatpraśasyate |

94.3९४.३

तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम् ॥ (९४।३)

tatrāpi munibhiḥ proktaṃ varaṃ nāgaramustakam ||

95.1९५.१

कर्चूरो वेधमुख्यश्च द्राविडः कल्पकः शटी । (९५।१)

karcūro vedhamukhyaśca drāviḍaḥ kalpakaḥ śaṭī |

95.2९५.२

कर्चूरो दीपनो रुच्यः कटुकस्तिक्त एव च ॥ (९५।२)

karcūro dīpano rucyaḥ kaṭukastikta eva ca ||

96.1९६.१

सुगन्धिः कटुपाकः स्यात् कुष्ठार्शोव्रणकासनुत् । (९६।१)

sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut |

96.2९६.२

उष्णो लघुर् हरेच्छ्वासं गुल्मवातकफक्रिमीन् ॥ (९६।२)

uṣṇo laghur harecchvāsaṃ gulmavātakaphakrimīn ||

97.0९७.०

मुरा गन्धकुटी दैत्या सुरभिः शालपर्णिका ॥ (९७।०)

murā gandhakuṭī daityā surabhiḥ śālaparṇikā ||

98.1९८.१

मुरा तिक्ता हिमा स्वाद्वी लघ्वी पित्तानिलापहा । (९८।१)

murā tiktā himā svādvī laghvī pittānilāpahā |

98.2९८.२

ज्वरासृग्भूतरक्षोघ्नी कुष्ठकासविनाशिनी ॥ (९८।२)

jvarāsṛgbhūtarakṣoghnī kuṣṭhakāsavināśinī ||

99.1९९.१

शठी पलाशी षड्ग्रन्था सुव्रता गन्धमूलिका । (९९।१)

śaṭhī palāśī ṣaḍgranthā suvratā gandhamūlikā |

99.2९९.२

गान्धारिका गन्धवधूर् वधूः पलाशिका ॥ (९९।२)

gāndhārikā gandhavadhūr vadhūḥ palāśikā ||

100.1१००.१

भवेद्गन्धपलाशी तु कषाया ग्राहिणी लघुः । (१००।१)

bhavedgandhapalāśī tu kaṣāyā grāhiṇī laghuḥ |

100.2१००.२

तिक्ता तीक्ष्णा च कटुकानुष्णास्यमलनाशिनी । (१००।२)

tiktā tīkṣṇā ca kaṭukānuṣṇāsyamalanāśinī |

100.3१००.३

शोथकासव्रणश्वासशूलसिध्मग्रहापहा ॥ (१००।३)

śothakāsavraṇaśvāsaśūlasidhmagrahāpahā ||

101.0१०१.०

प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया ॥ (१०१।०)

priyaṅguḥ phalinī kāntā latā ca mahilāhvayā ||

102.1१०२.१

गुन्द्रा गन्धफला श्यामा विष्वक्सेनाङ्गनाप्रिया । (१०२।१)

gundrā gandhaphalā śyāmā viṣvaksenāṅganāpriyā |

102.2१०२.२

प्रियङ्गुः शीतला तिक्ता तुवरानिलपित्तहृत् ॥ (१०२।२)

priyaṅguḥ śītalā tiktā tuvarānilapittahṛt ||

103.1१०३.१

रक्तातियोगदौर्गन्ध्यस्वेददाहज्वरापहा । (१०३।१)

raktātiyogadaurgandhyasvedadāhajvarāpahā |

103.2१०३.२

गुल्मतृड्विषमोहघ्नी तद्वद् गन्धप्रियङ्गुका ॥ (१०३।२)

gulmatṛḍviṣamohaghnī tadvad gandhapriyaṅgukā ||

104.1१०४.१

तत्फलं मधु रूक्षं कषायं शीतलं गुरु । (१०४।१)

tatphalaṃ madhu rūkṣaṃ kaṣāyaṃ śītalaṃ guru |

104.2१०४.२

विबन्धाध्मानबलकृत् संग्राहि कफपित्तजित् ॥ (१०४।२)

vibandhādhmānabalakṛt saṃgrāhi kaphapittajit ||

105.1१०५.१

रेणुका राजपुत्री च नन्दिनी कपिला द्विजा । (१०५।१)

reṇukā rājaputrī ca nandinī kapilā dvijā |

105.2१०५.२

भस्मगन्धा पाण्डुपुत्री स्मृता कौन्ती हरेणुका ॥ (१०५।२)

bhasmagandhā pāṇḍuputrī smṛtā kauntī hareṇukā ||

106.1१०६.१

रेणुका कटुका पाके तिक्तानुष्णा कटुर् लघुः । (१०६।१)

reṇukā kaṭukā pāke tiktānuṣṇā kaṭur laghuḥ |

106.2१०६.२

पित्तला दीपनी मेध्या पाचिनी गर्भपातिनी । (१०६।२)

pittalā dīpanī medhyā pācinī garbhapātinī |

106.3१०६.३

बलासवातकृच्चैव तृट्कण्डूविषदाहनुत् ॥ (१०६।३)

balāsavātakṛccaiva tṛṭkaṇḍūviṣadāhanut ||

107.1१०७.१

ग्रन्थिपर्णं ग्रन्थिकं च काकपुच्छं च गुच्छकम् । (१०७।१)

granthiparṇaṃ granthikaṃ ca kākapucchaṃ ca gucchakam |

107.2१०७.२

नीलपुष्पं सुगन्धं च कथितं तैलपर्णकम् ॥ (१०७।२)

nīlapuṣpaṃ sugandhaṃ ca kathitaṃ tailaparṇakam ||

108.1१०८.१

ग्रन्थिपर्णं तिक्ततीक्ष्णं कटूष्णं दीपनं लघु । (१०८।१)

granthiparṇaṃ tiktatīkṣṇaṃ kaṭūṣṇaṃ dīpanaṃ laghu |

108.2१०८.२

कफवातविषश्वासकण्डूदौर्गन्ध्यनाशनम् ॥ (१०८।२)

kaphavātaviṣaśvāsakaṇḍūdaurgandhyanāśanam ||

109.1१०९.१

स्थौणेयकं बर्हिबर्हं शुकबर्हं च कुक्कुरम् । (१०९।१)

sthauṇeyakaṃ barhibarhaṃ śukabarhaṃ ca kukkuram |

109.2१०९.२

शीर्णरोमशुकं चापि शुकपुष्पं शुकच्छदम् ॥ (१०९।२)

śīrṇaromaśukaṃ cāpi śukapuṣpaṃ śukacchadam ||

110.0११०.०

स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत् ॥ (११०।०)

sthauṇeyakaṃ kaṭu svādu tiktaṃ snigdhaṃ tridoṣanut ||

111.1१११.१

मेधाशुक्रकरं रुच्यं रक्षोघ्नं ज्वरजन्तुजित् । (१११।१)

medhāśukrakaraṃ rucyaṃ rakṣoghnaṃ jvarajantujit |

111.2१११.२

हन्ति कुष्ठास्रतृड्दाहदौर्गन्ध्यतिलकालकान् ॥ (१११।२)

hanti kuṣṭhāsratṛḍdāhadaurgandhyatilakālakān ||

112.1११२.१

निशाचरो धनहरः कितवो गणहासः । (११२।१)

niśācaro dhanaharaḥ kitavo gaṇahāsaḥ |

112.2११२.२

चोरकः शङ्कितश् चण्डो दुष्पत्त्रः क्षेमको रिपुः । (११२।२)

corakaḥ śaṅkitaś caṇḍo duṣpattraḥ kṣemako ripuḥ |

112.3११२.३

रोचको मधुरस्तिक्तः कटुः पाके कटुर् लघुः ॥ (११२।३)

rocako madhurastiktaḥ kaṭuḥ pāke kaṭur laghuḥ ||

113.1११३.१

तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफानिलान् । (११३।१)

tīkṣṇo hṛdyo himo hanti kuṣṭhakaṇḍūkaphānilān |

113.2११३.२

रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् ॥ (११३।२)

rakṣo'śrīsvedamedo'srajvaragandhaviṣavraṇān ||

114.1११४.१

तालीशम् उक्तं पत्त्राढ्यं धात्रीपत्त्रं च तत्स्मृतम् । (११४।१)

tālīśam uktaṃ pattrāḍhyaṃ dhātrīpattraṃ ca tatsmṛtam |

114.2११४.२

तालीशं लघु तीक्ष्णोष्णं श्वासकासकफानिलान् । (११४।२)

tālīśaṃ laghu tīkṣṇoṣṇaṃ śvāsakāsakaphānilān |

114.3११४.३

निहन्त्य् अरुचिगुल्मामवह्निमान्द्यक्षयामयान् ॥ (११४।३)

nihanty arucigulmāmavahnimāndyakṣayāmayān ||

115.0११५.०

कङ्कोलं कोलं प्रोक्तं चाथ कोशफलं स्मृतम् ॥ (११५।०)

kaṅkolaṃ kolaṃ proktaṃ cātha kośaphalaṃ smṛtam ||

116.1११६.१

कङ्कोलं लघु तीक्ष्णोष्णं तिक्तं हृद्यं रुचिप्रदम् । (११६।१)

kaṅkolaṃ laghu tīkṣṇoṣṇaṃ tiktaṃ hṛdyaṃ rucipradam |

116.2११६.२

आस्यदौर्गन्ध्यहृद्रोगकफवातामयान्ध्यहृत् ॥ (११६।२)

āsyadaurgandhyahṛdrogakaphavātāmayāndhyahṛt ||

117.1११७.१

स्निग्धोष्णा कफहृत् तिक्ता सुगन्धा गन्धकोकिला । (११७।१)

snigdhoṣṇā kaphahṛt tiktā sugandhā gandhakokilā |

117.2११७.२

गन्धकोकिलया तुल्या विज्ञेया गन्धमालती ॥ (११७।२)

gandhakokilayā tulyā vijñeyā gandhamālatī ||

118.1११८.१

लामज्जकं सुनालं स्यादमृणालं लवं लघु । (११८।१)

lāmajjakaṃ sunālaṃ syādamṛṇālaṃ lavaṃ laghu |

118.2११८.२

इष्टकापथकं सव्यं नलदं च विदातकम् ॥ (११८।२)

iṣṭakāpathakaṃ savyaṃ naladaṃ ca vidātakam ||

119.1११९.१

लामज्जकं हिमं तिक्तं लघु दोषत्रयास्रजित् । (११९।१)

lāmajjakaṃ himaṃ tiktaṃ laghu doṣatrayāsrajit |

119.2११९.२

त्वगामयस्वेदकृच्छ्रदाहपित्तास्ररोगनुत् ॥ (११९।२)

tvagāmayasvedakṛcchradāhapittāsraroganut ||

120.1१२०.१

एलवालुकम् ऐलेयं सुगन्धि हरिवालुकम् । (१२०।१)

elavālukam aileyaṃ sugandhi harivālukam |

120.2१२०.२

ऐलवालुकम् एलालु कपित्थं पत्त्रम् ईरितम् ॥ (१२०।२)

ailavālukam elālu kapitthaṃ pattram īritam ||

121.1१२१.१

एलालु कटुकं पाके कषायं शीतलं लघु । (१२१।१)

elālu kaṭukaṃ pāke kaṣāyaṃ śītalaṃ laghu |

121.2१२१.२

हन्ति कण्डूव्रणच्छर्दितृट्कासारुचिहृद्रुजः । (१२१।२)

hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ |

121.3१२१.३

बलासविषपित्तास्रकुष्ठमूत्रगदक्रिमीन् ॥ (१२१।३)

balāsaviṣapittāsrakuṣṭhamūtragadakrimīn ||

122.1१२२.१

कुटन्नटं दासपुरं बालेयं परिपेलवम् । (१२२।१)

kuṭannaṭaṃ dāsapuraṃ bāleyaṃ paripelavam |

122.2१२२.२

प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च ॥ (१२२।२)

plavagopuragonardakaivartīmustakāni ca ||

123.0१२३.०

मुस्तावत् पेलवपुटं शुकाभं स्याद् वितुन्नकम् ॥ (१२३।०)

mustāvat pelavapuṭaṃ śukābhaṃ syād vitunnakam ||

124.1१२४.१

वितुन्नकं हिमं तिक्तं कषायं कटु कान्तिदम् । (१२४।१)

vitunnakaṃ himaṃ tiktaṃ kaṣāyaṃ kaṭu kāntidam |

124.2१२४.२

कफपित्तास्रवीसर्पकुष्ठकण्डूविषप्रणुत् ॥ (१२४।२)

kaphapittāsravīsarpakuṣṭhakaṇḍūviṣapraṇut ||

125.1१२५.१

स्पृक्कासृग् ब्राह्मणो देवो मरुन्माला लता लघुः । (१२५।१)

spṛkkāsṛg brāhmaṇo devo marunmālā latā laghuḥ |

125.2१२५.२

समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ (१२५।२)

samudrāntā vadhūḥ koṭivarṣā laṅkopiketyapi ||

126.1१२६.१

स्पृक्का स्वाद्वी हिमा वृष्या तिक्ता निखिलदोषनुत् । (१२६।१)

spṛkkā svādvī himā vṛṣyā tiktā nikhiladoṣanut |

126.2१२६.२

कुष्ठकण्डूविषस्वेददाहाश्रीज्वररक्तहृत् ॥ (१२६।२)

kuṣṭhakaṇḍūviṣasvedadāhāśrījvararaktahṛt ||

127.1१२७.१

पर्पटी रञ्जनी कृष्णा जतुका जननी जनी । (१२७।१)

parpaṭī rañjanī kṛṣṇā jatukā jananī janī |

127.2१२७.२

जतुकृष्णाग्निसंस्पर्शा जतुकृच्चक्रवर्तिनी ॥ (१२७।२)

jatukṛṣṇāgnisaṃsparśā jatukṛccakravartinī ||

128.1१२८.१

पर्पटी तुवरा तिक्ता शिशिरा वर्णकृल्लघुः । (१२८।१)

parpaṭī tuvarā tiktā śiśirā varṇakṛllaghuḥ |

128.2१२८.२

विषव्रणहरा कण्डूकफपित्तास्रकुष्ठनुत् ॥ (१२८।२)

viṣavraṇaharā kaṇḍūkaphapittāsrakuṣṭhanut ||

129.1१२९.१

नलिका विद्रुमलता कपोतचरणा नटी । (१२९।१)

nalikā vidrumalatā kapotacaraṇā naṭī |

129.2१२९.२

धमन्यञ्जनकेशी च निर्मेध्या सुषिरा नली ॥ (१२९।२)

dhamanyañjanakeśī ca nirmedhyā suṣirā nalī ||

130.1१३०.१

नलिका शीतला लघ्वी चक्षुष्या कफपित्तहृत् । (१३०।१)

nalikā śītalā laghvī cakṣuṣyā kaphapittahṛt |

130.2१३०.२

कृच्छ्राश्मवाततृष्णास्रकुष्ठकण्डूज्वरापहा ॥ (१३०।२)

kṛcchrāśmavātatṛṣṇāsrakuṣṭhakaṇḍūjvarāpahā ||

131.1१३१.१

प्रपौण्डरीकं पौण्डर्यं चक्षुष्यं पौण्डरीयकम् । (१३१।१)

prapauṇḍarīkaṃ pauṇḍaryaṃ cakṣuṣyaṃ pauṇḍarīyakam |

131.2१३१.२

पौण्डर्यं मधुरं तिक्तं कषायं शुक्रलं हिमम् । (१३१।२)

pauṇḍaryaṃ madhuraṃ tiktaṃ kaṣāyaṃ śukralaṃ himam |

131.3१३१.३

चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफप्रणुत् ॥ (१३१।३)

cakṣuṣyaṃ madhuraṃ pāke varṇyaṃ pittakaphapraṇut ||

Data courtesy of The Digital Corpus of Sanskrit.

BhPr, 1, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit