BhPr, 1, 8
Select a line for its word-by-word analysis.
सप्तधातवःस्वर्णं रूप्यं च ताम्रं च रङ्गं यशदमेव च । (१।१)
saptadhātavaḥsvarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca |
सीसं लौहं च सप्तैते धातवो गिरिसम्भवाः ॥ (१।२)
sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ ||
गोल्द्पुरा निजाश्रमस्थानां सप्तर्षीणां जितात्मनाम् । (३।१)
Goldpurā nijāśramasthānāṃ saptarṣīṇāṃ jitātmanām |
पत्नीर् विलोक्य लावण्यलक्ष्मीः सम्पन्नयौवनाः ॥ (३।२)
patnīr vilokya lāvaṇyalakṣmīḥ sampannayauvanāḥ ||
पतितं यद्धरापृष्ठे रेतस्तद्धेमताम् अगात् ॥ (४।२)
patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt ||
कृत्रिमं चापि भवति तद्रसेन्द्रस्य वेधतः । (५।१)
kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ |
गोल्द्:: नमेस्स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् ॥ (५।२)
gold:: namessvarṇaṃ suvarṇaṃ kanakaṃ hiraṇyaṃ hema hāṭakam ||
गोल्द्:: परीक्षा:: गोओद् क़ुअलित्य्दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् । (८।१)
gold:: parīkṣā:: good qualitydāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham |
तारं शुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् ॥ (८।२)
tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat ||
तच्छ्वेतं कठिनं रूक्षं विवर्णं समलं दलम् । (९।१)
tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam |
दाहे छेदेऽसितं श्वेतं कषे त्याज्यं लघु स्फुटम् ॥ (९।२)
dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam ||
गोल्द्:: मेद्। प्रोपेर्तिएस्सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम् । (१०।१)
gold:: med. propertiessuvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam |
स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम् ॥ (१०।२)
svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam ||
हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत् । (११।२)
hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt |
बलं सवीर्यं हरते नराणां रोगव्रजान् पोषयतीह काये । (१२।१)
balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye |
असौख्यकृच्चापि सदा सुवर्णमशुद्धम् एतन्मरणं च कुर्यात् ॥ (१२।२)
asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt ||
असम्यङ्मारितं स्वर्णं बलं वीर्य्यं च नाशयेत् । (१३।१)
asamyaṅmāritaṃ svarṇaṃ balaṃ vīryyaṃ ca nāśayet |
करोति रोगान्मृत्युं च तद्धन्याद्यत्नतस्ततः ॥ (१३।२)
karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ ||
सिल्वेर्::म्य्थिचल् ओरिगिन्त्रिपुरस्य वधार्थाय निर्निमेषैर् विलोचनैः । (१४।१)
silver::mythical origintripurasya vadhārthāya nirnimeṣair vilocanaiḥ |
अग्निस् तत्कालम् अपतत् तस्यैकस्माद् विलोचनात् । (१५।१)
agnis tatkālam apatat tasyaikasmād vilocanāt |
ततो रुद्रः समभवद् वैश्वानर इव ज्वलन् ॥ (१५।२)
tato rudraḥ samabhavad vaiśvānara iva jvalan ||
द्वितीयाद् अपतन्नेत्राद् अश्रुबिन्दुस्तु वामकात् । (१६।१)
dvitīyād apatannetrād aśrubindustu vāmakāt |
सिल्वेर्:: स्य्नोन्य्म्स्रूप्यं तु रजतं तारं चन्द्रकान्ति सितप्रभम् ॥ (१७।२)
silver:: synonymsrūpyaṃ tu rajataṃ tāraṃ candrakānti sitaprabham ||
सिल्वेर्:: परीक्षास्निग्धं मृदु श्वेतं दाहे छेदे घनक्षमम् । (१८।१)
silver:: parīkṣāsnigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam |
वर्णाढ्यं चन्द्रवत् स्वच्छं रूप्यं नवगुणं शुभम् ॥ (१८।२)
varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham ||
कठिनं कृत्रिमं रूक्षं रक्तं पीतदलं लघु । (१९।१)
kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu |
दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्तितम् ॥ (१९।२)
dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam ||
सिल्वेर्:: मेद्। प्रोपेर्तिएस्रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम् । (२०।१)
silver:: med. propertiesrūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram |
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् । (२०।२)
vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit |
प्रमेहादिकरोगांश्च नाशयत्यचिराद्ध्रुवम् ॥ (२०।३)
pramehādikarogāṃśca nāśayatyacirāddhruvam ||
तारं शरीरस्य करोति तापं विध्वंसनं यच्छति शुक्रनाशम् । (२१।१)
tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam |
वीर्यं बलं हन्ति तनोश्च पुष्टिं महागदान्पोषयति ह्यशुद्धम् ॥ (२१।२)
vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham ||
चोप्पेर्:: म्य्थ्। ओरिगिन्शुक्रं यत्कार्त्तिकेयस्य पतितं धरणीतले । (२२।१)
copper:: myth. originśukraṃ yatkārttikeyasya patitaṃ dharaṇītale |
तस्मात्ताम्रं समुत्पन्नम् इदमाहुः पुराविदः ॥ (२२।२)
tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ ||
चोप्पेर्:: स्य्नोन्य्म्स्ताम्रम् औदुम्बरं शुल्बमुदुम्बरमपि स्मृतम् । (२३।१)
copper:: synonymstāmram audumbaraṃ śulbamudumbaramapi smṛtam |
रविप्रियं म्लेच्छमुखं सूर्यपर्यायनामकम् ॥ (२३।२)
ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam ||
चोप्पेर्:: परीक्षाजपाकुसुमसङ्काशं स्निग्धं मृदु घनक्षमम् । (२४।१)
copper:: parīkṣājapākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam |
लौहनागोज्झितं ताम्रं मारणाय प्रशस्यते ॥ (२४।२)
lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate ||
चोप्पेर्:: परीक्षा:: बद् क़ुअलित्य्कृष्णं रूक्षम् अतिस्तब्धं श्वेतं चापि घनासहम् । (२५।१)
copper:: parīkṣā:: bad qualitykṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham |
लौहनागयुतं चेति शुल्बं दुष्टं प्रकीर्तितम् ॥ (२५।२)
lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam ||
चोप्पेर्:: मेद्। प्रोपेर्तिएस्ताम्रं कषायं मधुरं च तिक्तमम्लं च पाके कटु सारकं च । (२६।१)
copper:: med. propertiestāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca |
पित्तापहं श्लेष्महरं च शीतं तद्रोपणं स्याल्लघु लेखनं च ॥ (२६।२)
pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca ||
पाण्डूदरार्शोज्वरकुष्ठकासश्वासक्षयान् पीनसम् अम्लपित्तम् । (२७।१)
pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam |
शोथं कृमिं शूलमपाकरोति प्राहुः परे बृंहणम् अल्पमेतम् ॥ (२७।२)
śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam ||
चोप्पेर्:: ८ दोषसेको दोषो विषे ताम्रे त्वसम्यङ्मारितेऽष्ट ते । (२८।१)
copper:: 8 doṣaseko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te |
दाहः स्वेदोऽरुचिर्मूर्च्छाक्लेदो रेकोवमिर् भ्रमः ॥ (२८।२)
dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ ||
तिन्:: स्य्नोन्य्म्स्रङ्गं वङ्गं त्रपु प्रोक्तं तथा पिच्चटमित्यपि । (२९।१)
tin:: synonymsraṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi |
तिन्:: सुब्त्य्पेस्क्षुरकं मिश्रकं चापि द्विविधं वङ्गमुच्यते ॥ (२९।२)
tin:: subtypeskṣurakaṃ miśrakaṃ cāpi dvividhaṃ vaṅgamucyate ||
उत्तमं क्षुरकं तत्र मिश्रकं त्ववरं मतम् ॥ (३०।०)
uttamaṃ kṣurakaṃ tatra miśrakaṃ tvavaraṃ matam ||
तिन्:: मेदिच्। प्रोपेर्तिएस्रङ्गं लघु सरं रूक्षमुष्णं मेहकफक्रिमीन् । (३१।१)
tin:: medic. propertiesraṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn |
निहन्ति पाण्डुं सश्वासं चक्षुष्यं पित्तलं मनाक् ॥ (३१।२)
nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk ||
सिंहो यथा हस्तिगणं निहन्ति तथैव वङ्गोऽखिलमेहवर्गम् । (३२।१)
siṃho yathā hastigaṇaṃ nihanti tathaiva vaṅgo'khilamehavargam |
देहस्य सौख्यं प्रबलेन्द्रियत्वं नरस्य पुष्टिं विदधाति नूनम् ॥ (३२।२)
dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam ||
यसदयसदं रङ्गसदृशं रीतिहेतुश्च तन्मतम् । (३३।१)
yasadayasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam |
चक्षुष्यं परमं मेहान्पाण्डुं श्वासं च नाशयेत् ॥ (३३।३)
cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet ||
सीसदृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् ॥ (३४।०)
sīsadṛṣṭvā bhogisutāṃ ramyāṃ vāsukistu mumoca yat ||
वीर्यं जातस्ततो नागः सर्वरोगापहो नृणाम् ॥ (३५।०)
vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām ||
लेअद्:: स्य्नोन्य्म्स्सीसं ब्रध्नं च वप्रं च योगेष्टं नागनामकम् । (३६।१)
lead:: synonymssīsaṃ bradhnaṃ ca vapraṃ ca yogeṣṭaṃ nāganāmakam |
लेअद्:: मेदिच्। प्रोपेर्तिएस्सीसं रङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ॥ (३६।२)
lead:: medic. propertiessīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam ||
नागस्तु नागशततुल्यबलं ददाति व्याधिं विनाशयति जीवनमातनोति । (३७।१)
nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti |
वह्निं प्रदीपयति कामबलं करोति मृत्युं च नाशयति संततसेवितः सः ॥ (३७।२)
vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ ||
पाकेन हीनौ किल वङ्गनागौ कुष्ठानि गुल्मांश्च तथातिकष्टान् । (३८।१)
pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān |
कण्डूं प्रमेहानिलसादशोथभगन्दरादीन्कुरुतः प्रयुक्तौ ॥ (३८।२)
kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau ||
इरोन्:: म्य्थ्। ओरिगिन्पुरा लोमिनदैत्यानां निहतानां सुरैर्युधि । (३९।१)
iron:: myth. originpurā lominadaityānāṃ nihatānāṃ surairyudhi |
इरोन्:: स्य्नोन्य्म्स्लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी ॥ (३९।३)
iron:: synonymsloho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī ||
इरोन्:: सप्तदोषाःगुरुता दृढतोत्क्लेदः जम्मलं दाहकारिता । (४०।१)
iron:: saptadoṣāḥgurutā dṛḍhatotkledaḥ jammalaṃ dāhakāritā |
अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु ॥ (४०।२)
aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu ||
इरोन्:: मेदिच्। प्रोपेर्तिएस्लोहं तिक्तं सरं शीतं मधुरं तुवरं गुरु । (४१।१)
iron:: medic. propertieslohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru |
रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् ॥ (४१।२)
rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet ||
कफं पित्तं गरं शूलं शोथार्शःप्लीहपाण्डुताः । (४२।१)
kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ |
मेदोमेहक्रिमीन्कुष्ठं तत्किट्टं तद्वदेव हि ॥ (४२।२)
medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi ||
षण्ढत्वकुष्ठामयमृत्युदं भवेद्धृद्रोगशूलौ कुरुते ऽश्मरींश्च । (४३।१)
ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca |
नानारुजानां च तथा प्रकोपं करोति हृल्लासमशुद्धलोहम् ॥ (४३।२)
nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham ||
जीवहारि मदकारि चायसं चेद् अशुद्धिमदसंस्कृतं ध्रुवम् । (४४।१)
jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam |
पाटवं न तनुते शरीरके दारुणां हृदि रुजां च यच्छति ॥ (४४।२)
pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati ||
कुष्माण्डं तिलतैलं च माषान्नं राजिकां तथा । (४५।१)
kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā |
सारलोह:: प्रोदुच्तिओन्क्षमाभृच्छिखराकाराण्यङ्गान्यम्लेन लेपिते । (४६।१)
sāraloha:: productionkṣamābhṛcchikharākārāṇyaṅgānyamlena lepite |
लौहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते । (४६।२)
lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate |
सारलोह:: मेदिच्। प्रोपेर्तिएस्लोहं साराह्वयं हन्याद् ग्रहणीमतिसारकम् ॥ (४६।३)
sāraloha:: medic. propertieslohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam ||
अर्धं सर्वाङ्गजं वातं शूलं च परिणामजम् । (४७।१)
ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam |
छर्दिं च पीनसं पित्तं श्वासं कासं व्यपोहति ॥ (४७।२)
chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati ||
कान्तलोहयत्पात्रे न प्रसरति जले तैलबिन्दुः प्रतप्ते हिङ्गुर्गन्धं त्यजति च निजं तिक्ततां निम्बवल्कः । (४८।१)
kāntalohayatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ |
तप्तं दुग्धं भवति शिखराकारकं नैति भूमिकृष्णाङ्गः स्यात्सजलचणकः कान्तलोहं तदुक्तम् ॥ (४८।२)
taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam ||
कान्तलोह:: मेदिच्। प्रोपेर्तिएस्गुल्मोदरार्शःशूलामम् आमवातं भगन्दरम् । (४९।१)
kāntaloha:: medic. propertiesgulmodarārśaḥśūlāmam āmavātaṃ bhagandaram |
प्लीहानम् अम्लपित्तं च यकृच्चापि शिरोरुजम् ॥ (५०।०)
plīhānam amlapittaṃ ca yakṛccāpi śirorujam ||
सर्वान् रोगान् विजयते कान्तलोहं न संशयः । (५१।१)
sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ |
बलं वीर्यं वपुःपुष्टिं कुरुतेऽग्निं विवर्धयेत् ॥ (५१।२)
balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet ||
मण्डूरध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते । (५२।१)
maṇḍūradhmāyamānasya lohasya malaṃ maṇḍūramucyate |
मण्डूर:: स्य्नोन्य्म्स्लोहसिंहानिका किट्टी सिंहानं च निगद्यते । (५२।२)
maṇḍūra:: synonymslohasiṃhānikā kiṭṭī siṃhānaṃ ca nigadyate |
यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम् ॥ (५२।३)
yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam ||
उपधातवःसप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकं । (५३।१)
upadhātavaḥsaptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikaṃ |
तुत्थं कांस्यं च रीतिश्च सिन्दूरश्च शिलाजतु ॥ (५३।२)
tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu ||
सन्ति किं त्वेषु ते गौणास्तत्तदंशाल्पभावतः ॥ (५४।२)
santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ ||
स्वर्णमाक्षिकस्वर्णमाक्षिकमाख्यातं तापीजं मधुमाक्षिकम् ॥ (५५।०)
svarṇamākṣikasvarṇamākṣikamākhyātaṃ tāpījaṃ madhumākṣikam ||
ताप्यं माक्षिकधातुश्च मधुधातुश्च स स्मृतः । (५६।१)
tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ |
स्वर्णमाक्षिका:: चोन्चुर्रेन्चे wइथ् गोल्द्किंचित् सुवर्णसाहित्यात् स्वर्णमाक्षिकम् ईरितम् ॥ (५६।२)
svarṇamākṣikā:: concurrence with goldkiṃcit suvarṇasāhityāt svarṇamākṣikam īritam ||
उपधातुः सुवर्णस्य किंचित् स्वर्णगुणान्वितम् । (५७।१)
upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam |
तथा च काञ्चनाभावे दीयते स्वर्णमाक्षिकम् ॥ (५७।२)
tathā ca kāñcanābhāve dīyate svarṇamākṣikam ||
किंतु तस्यानुकल्पत्वात् किंचिदूनगुणास्ततः । (५८।१)
kiṃtu tasyānukalpatvāt kiṃcidūnaguṇāstataḥ |
न केवलं स्वर्णगुणा वर्तन्ते स्वर्णमाक्षिके ॥ (५८।२)
na kevalaṃ svarṇaguṇā vartante svarṇamākṣike ||
द्रव्यान्तरस्य संसर्गात्सन्त्यन्येऽपि गुणा यतः । (५९।१)
dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ |
स्वर्णमाक्षिक:: मेदिच्। प्रोपेर्तिएस्सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यं रसायनम् ॥ (५९।२)
svarṇamākṣika:: medic. propertiessuvarṇamākṣikaṃ svādu tiktaṃ vṛṣyaṃ rasāyanam ||
चक्षुष्यं वस्तिरुक्कुष्ठपाण्डुमेहविषोदरान् । (६०।१)
cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān |
अर्शः शोथं विषं कण्डूंत्रिदोषमपि नाशयेत् ॥ (६०।२)
arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet ||
मन्दानलत्वं बलहानिमुग्रां विष्टम्भितां नेत्रगदान्सकुष्ठान् । (६१।१)
mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān |
तथैव मालां व्रणपूर्विकां च करोति तापीजमशुद्धमेतत् ॥ (६१।२)
tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat ||
तारमाक्षिकतारमाक्षिकमन्यत्तु तद्भवेद्रजतोपमम् । (६२।१)
tāramākṣikatāramākṣikamanyattu tadbhavedrajatopamam |
तारमाक्षिक:: चोन्चुर्रेन्चे wइथ् सिल्वेर्किंचिद् रजतसाहित्यात् तारमाक्षिकमीरितम् ॥ (६२।२)
tāramākṣika:: concurrence with silverkiṃcid rajatasāhityāt tāramākṣikamīritam ||
न केवलं रूप्यगुणा यतः स्यात्तारमाक्षिकम् ॥ (६३।२)
na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam ||
तारमाक्षिक:: मेदिच्। प्रोपेर्तिएस्स्वादु पाके रसे किंचित् तिक्तं वृष्यं रसायनम् । (६४।१)
tāramākṣika:: medic. propertiessvādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam |
चक्षुष्यं वस्तिरुक्कुष्ठपाण्डुमेहविषोदरान् । (६४।२)
cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān |
अर्शः शोथं क्षयं कण्डूं त्रिदोषमपि नाशयेत् ॥ (६४।३)
arśaḥ śothaṃ kṣayaṃ kaṇḍūṃ tridoṣamapi nāśayet ||
मन्दानलत्वं बलहानिमुग्रां विष्टम्भितां नेत्रगदान्सकुष्ठान् । (६५।१)
mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān |
तथैव मालां व्रणपूर्विकां च करोति तापीजमिदं च तद्वत् ॥ (६५।२)
tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat ||
तुत्थतुत्थं वितुन्नकं चापि शिखिग्रीवं मयूरकम् । (६६।१)
tutthatutthaṃ vitunnakaṃ cāpi śikhigrīvaṃ mayūrakam |
तुत्थ:: चोओच्चुर्रेन्चे wइथ् चोप्पेर्तुत्थं ताम्रोपधातुर्हि किंचित् ताम्रेण तद्भवेत् ॥ (६६।२)
tuttha:: cooccurrence with coppertutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet ||
किंचित् ताम्रगुणं तस्माद् वक्ष्यमाणगुणं च तत् । (६७।१)
kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat |
तुत्थ:: मेदिच्। प्रोपेर्तिएस्तुत्थकं कटुकं क्षारं कषायं वामकं लघु ॥ (६७।२)
tuttha:: medic. propertiestutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu ||
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत् । (६८।१)
lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt |
विषाश्मकुष्ठकण्डूघ्नं खर्परं चापि तद्गुणम् ॥ (६८।२)
viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam ||
कांस्यताम्रत्रपुजमाख्यातं कांस्यं घोषं च कंसकम् । (६९।१)
kāṃsyatāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam |
उपधातुर्भवेत्कांस्यं द्वयोस्तरणिरङ्गयोः ॥ (६९।२)
upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ ||
कांस्य:: मेदिच्। प्रोपेर्तिएस्कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशा जनैः । (७०।१)
kāṃsya:: medic. propertieskāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ |
संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः ॥ (७०।२)
saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ ||
कांस्यं कषायं तिक्तोष्णं लेखनं विशदं सरम् । (७१।१)
kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram |
गुरु नेत्रहितं रूक्षं कफपित्तहरं परम् ॥ (७१।२)
guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param ||
पीत्तलपीत्तलं त्वारकूटं स्याद् आरी रीतिश्च कथ्यते । (७२।१)
pīttalapīttalaṃ tvārakūṭaṃ syād ārī rītiśca kathyate |
राजरीतिराजरीतिर्ब्रह्मरीतिः कपिला पिङ्गलापि च ॥ (७२।२)
rājarītirājarītirbrahmarītiḥ kapilā piṅgalāpi ca ||
ब्रस्स्:: प्रोदुच्तिओन्रीतिर् अप्युपधातुः स्यात्ताम्रस्य यसदस्य च । (७३।१)
brass:: productionrītir apyupadhātuḥ syāttāmrasya yasadasya ca |
पित्तलस्य गुणा ज्ञेयाः स्वयोनिसदृशा जनैः ॥ (७३।२)
pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ ||
संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः ॥ (७४।०)
saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ ||
ब्रस्स्:: मेदिच्। प्रोपेर्तिएस्रीतिकायुगलं रूक्षं तिक्तं च लवणं रसे । (७५।१)
brass:: medic. propertiesrītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase |
शोधनं पाण्डुरोगघ्नं कृमिघ्नं नातिलेखनम् ॥ (७५।२)
śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam ||
सिन्दूरसिन्दूरं रक्तरेणुश्च नागगर्भश्च सीसजम् । (७६।१)
sindūrasindūraṃ raktareṇuśca nāgagarbhaśca sīsajam |
सीसोपधातुः सिन्दूरं गुणैस्तत्सीसवन्मतम् ॥ (७६।२)
sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam ||
संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः । (७७।१)
saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ |
सिन्दूर:: मेदिच्। प्रोपेर्तिएस्सिन्दूरमुष्णं वीसर्पकुष्ठकण्डूविषापहम् । (७७।२)
sindūra:: medic. propertiessindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham |
शिलाजतुनिदाघे घर्मसंतप्ता धातुसारं धराधराः । (७८।१)
śilājatunidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ |
निर्यासवत्प्रमुञ्चति तच्छिलाजतु कीर्तितम् ॥ (७८।२)
niryāsavatpramuñcati tacchilājatu kīrtitam ||
सौवर्णं राजतं ताम्रमायसं तच्चतुर्विधम् । (७९।१)
sauvarṇaṃ rājataṃ tāmramāyasaṃ taccaturvidham |
शिलाजतु:: स्य्नोन्य्म्स्शिलाजत्वद्रिजतु च शैलनिर्यास इत्यपि ॥ (७९।२)
śilājatu:: synonymsśilājatvadrijatu ca śailaniryāsa ityapi ||
मेदिज़्। एइगेन्स्छड़्तेन्शिलाजं कटु तिक्तोष्णं कटुपाकं रसायनम् ॥ (८०।२)
mediz. Eigenschaftenśilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam ||
मूत्रकृच्छ्रं क्षयं श्वासं वातार्शांसि च पाण्डुताम् ॥ (८१।२)
mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām ||
अपस्मारं तथोन्मादं शोथकुष्ठोदरक्रिमीन् ॥ (८२।०)
apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn ||
वेर्¦न्देरुन्ग् वेर्स्छ्। मेतल्ले नछ् बेहन्द्लुन्ग् मित् शिलाजतुसौवर्णं तु जपापुष्पवर्णं भवति तद्रसात् । (८३।१)
Ver¦nderung versch. Metalle nach Behandlung mit śilājatusauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt |
राजतं पाण्डुरं शीतं कटुकं स्वादुपाकि च । (८४।१)
rājataṃ pāṇḍuraṃ śītaṃ kaṭukaṃ svādupāki ca |
ताम्रं मयूरकण्ठाभं तीक्ष्णमुष्णं च जायते ॥ (८४।२)
tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate ||
लौहं जटायुपक्षाभं तत्तिक्तं लवणं भवेत् । (८५।१)
lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet |
विपाके कटुकं शीतं सर्वश्रेष्ठमुदाहृतम् ॥ (८५।२)
vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam ||
रसरसायनार्थिभिर् लोकैः पारदो रस्यते यतः । (८६।१)
rasarasāyanārthibhir lokaiḥ pārado rasyate yataḥ |
ततो रस इति प्रोक्तः स च धातुरपि स्मृतः ॥ (८६।२)
tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ ||
शिवाङ्गात् प्रच्युतं रेतः पतितं धरणीतले । (८७।१)
śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale |
तद्देहसारजातत्वाच्छुक्लम् अच्छम् अभूच्च तत् ॥ (८७।२)
taddehasārajātatvācchuklam accham abhūcca tat ||
उन्तेरर्तेन् नछ् ड़र्बेन्।कस्तेन्क्षेत्रभेदेन विज्ञेयं शिववीर्यं चतुर्विधम् । (८८।१)
Unterarten nach Farben|Kastenkṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham |
श्वेतं रक्तं तथा पीतं कृष्णं तत्तु भवेत्क्रमात् ॥ (८८।२)
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt ||
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च खलु जातितः । (८९।१)
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ |
श्वेतं शस्तं रुजां नाशे रक्तं किल रसायने । (८९।२)
śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane |
पारदनामानिपारदो रसधातुश्च रसेन्द्रश्च महारसः ॥ (९०।०)
pāradanāmānipārado rasadhātuśca rasendraśca mahārasaḥ ||
मेर्चुर्य्:: मेदिच्। प्रोपेर्तिएस्पारदः षड्रसः स्निग्धस्त्रिदोषघ्नो रसायनः ॥ (९१।२)
mercury:: medic. propertiespāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ ||
सर्वामयहरः प्रोक्तो विशेषात् सर्वकुष्ठनुत् ॥ (९२।२)
sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut ||
संस्कार-स्तुड़ेन् <> त्रिमूर्तिस्वस्थो रसो भवेद्ब्रह्मा बद्धो ज्ञेयो जनार्दनः । (९३।१)
saṃskāra-Stufen <> trimūrtisvastho raso bhavedbrahmā baddho jñeyo janārdanaḥ |
रञ्जितः क्रामितश्चापि साक्षाद्देवो महेश्वरः ॥ (९३।२)
rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ ||
मूर्छितो हरति रुजं बन्धनमनुभूय खेगतिं कुरुते । (९४।१)
mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute |
अजरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात् ॥ (९४।२)
ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt ||
असाध्यो यो भवेद्रोगो यस्य नास्ति चिकित्सितम् । (९५।१)
asādhyo yo bhavedrogo yasya nāsti cikitsitam |
रसेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम् ॥ (९५।२)
rasendro hanti taṃ rogaṃ narakuñjaravājinām ||
रसदोषाःमलं विषं वह्निगिरित्वचापलं नैसर्गिकं दोषमुशन्ति पारदे । (९६।१)
rasadoṣāḥmalaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade |
उपाधिजौ द्वौ त्रपुनागयोगजौ दोषौ रसेन्द्रे कथितौ मुनीश्वरैः ॥ (९६।२)
upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ ||
मलेन मूर्च्छा मरणं विषेण दाहोऽग्निना कष्टतरः शरीरे । (९७।१)
malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre |
देहस्य जाड्यं गिरिणा सदा स्याच्चाञ्चल्यतो वीर्यहृतिश्च पुंसाम् । (९७।२)
dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām |
वङ्गेन कुष्ठं भुजगेन षण्ढो भवेदतोऽसौ परिशोधनीयः ॥ (९७।३)
vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ ||
वह्निर् विषं मलं चेति मुख्या दोषास्त्रयो रसे । (९८।१)
vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase |
एते कुर्वन्ति सन्तापं मृतिं मूर्छां नृणां क्रमात् ॥ (९८।२)
ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt ||
अन्येऽपि कथिता दोषा भिषग्भिः पारदे यदि । (९९।१)
anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi |
संस्कारहीनं खलु सूतराजं यः सेवते तस्य करोति बाधाम् । (१००।१)
saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām |
देहस्य नाशं विदधाति नूनं कष्टांश्च रोगाञ्जनयेन्नराणाम् ॥ (१००।२)
dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām ||
उपरसाःगन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोऽञ्जनं टङ्कणं राजावर्तकचुम्बकौ स्फटिकया शङ्खः खटीगैरिकम् । (१०१।१)
uparasāḥgandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam |
कासीसं रसकं कपर्दसिकताबोलाश्च कङ्कुष्ठकं सौराष्ट्री च मता अमी उपरसाः सूतस्य किंचिद्गुणैः ॥ (१०१।२)
kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ ||
हिङ्गुलहिङ्गुलं दरदं म्लेच्छं हिङ्गुलिश्चूर्णपारदम् । (१०२।१)
hiṅgulahiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam |
दरदस् त्रिविधः प्रोक्तश्चर्मारः शुकतुण्डकः ॥ (१०२।२)
daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ ||
हंसपादस्तृतीयः स्याद्गुणवानुत्तरोत्तरम् ॥ (१०३।०)
haṃsapādastṛtīyaḥ syādguṇavānuttarottaram ||
चर्मारः शुक्लवर्णः स्यात् सपीतः शुकतुण्डकः । (१०४।१)
carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ |
दरद:: मेदिच्। प्रोपेर्तिएस्तिक्तं कषायं कटु हिङ्गुलं स्यान्नेत्रामयघ्नं कफपित्तहारि । (१०५।१)
darada:: medic. propertiestiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri |
हृल्लासकुष्ठज्वरकामलाश्च प्लीहामवातौ च गरं निहन्ति ॥ (१०५।२)
hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti ||
हेर्स्तेल्लुन्ग् वोन् क़ुएच्क्सिल्बेर् औस् हिङ्गुलऊर्ध्वपातनयुक्त्या तु डमरुयन्त्रपाचितम् । (१०६।१)
Herstellung von Quecksilber aus hiṅgulaūrdhvapātanayuktyā tu ḍamaruyantrapācitam |
हिङ्गुलं तस्य सूतं तु शुद्धमेव न शोधयेत् ॥ (१०६।२)
hiṅgulaṃ tasya sūtaṃ tu śuddhameva na śodhayet ||
गन्धकश्वेतद्वीपे पुरा देव्या क्रीडन्त्या रजसाप्लुतम् । (१०७।१)
gandhakaśvetadvīpe purā devyā krīḍantyā rajasāplutam |
दुकूलं तेन वस्त्रेण स्नातायाः क्षीरनीरधौ ॥ (१०७।२)
dukūlaṃ tena vastreṇa snātāyāḥ kṣīranīradhau ||
प्रसृतं यद्रजस्तस्माद्गन्धकः समभूत्ततः । (१०८।१)
prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ |
सुल्ड़ुर्:: स्य्नोन्य्म्स्गन्धको गन्धिकश्चापि गन्धपाषाण इत्यपि ॥ (१०८।२)
sulfur:: synonymsgandhako gandhikaścāpi gandhapāṣāṇa ityapi ||
सुल्ड़ुर्:: सुब्त्य्पेस्:: चोलोउर्चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः ॥ (१०९।२)
sulfur:: subtypes:: colourcaturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ ||
रक्तो हेमक्रियासूक्तः पीतश्चैव रसायने । (११०।१)
rakto hemakriyāsūktaḥ pītaścaiva rasāyane |
व्रणादिलेपने श्वेतः कृष्णः श्रेष्ठः सुदुर्लभः ॥ (११०।२)
vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ ||
सुल्ड़ुर्:: मेदिच्। प्रोपेर्तिएस्गन्धकः कटुकस्तिक्तो वीर्योष्णस्तुवरः सरः । (१११।१)
sulfur:: medic. propertiesgandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ |
पित्तलः कटुकः पाके जन्तुकण्डूविसर्पजित् । (१११।२)
pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit |
हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनः ॥ (१११।३)
hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ ||
अशोधितो गन्धक एष कुष्ठं करोति तापं विषमं शरीरे । (११२।१)
aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre |
सौख्यं च रूपं च बलं तथौजः शुक्रं निहन्त्येव करोति चास्रम् ॥ (११२।२)
saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram ||
अभ्र:: म्य्थ्। ओरिगिन्पुरा वधाय वृत्रस्य वज्रिणा वज्रम् उद्धृतम् । (११३।१)
abhra:: myth. originpurā vadhāya vṛtrasya vajriṇā vajram uddhṛtam |
विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः ॥ (११३।२)
visphuliṅgāstatastasya gagane parisarpitāḥ ||
ते निपेतुर्घनध्वानाच्छिखरेषु महीभृताम् । (११४।१)
te nipeturghanadhvānācchikhareṣu mahībhṛtām |
तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकम् ॥ (११४।२)
tebhya eva samutpannaṃ tattadgiriṣu cābhrakam ||
अभ्र:: निरुक्तितद्वज्रं वज्रजातत्वाद् अभ्रम् अभ्ररवोद्भवात् । (११५।१)
abhra:: niruktitadvajraṃ vajrajātatvād abhram abhraravodbhavāt |
गगनात्स्खलितं यस्माद् गगनं च ततो मतम् ॥ (११५।२)
gaganātskhalitaṃ yasmād gaganaṃ ca tato matam ||
अभ्र:: सुब्त्य्पेस्:: चस्तेविप्रक्षत्रियविट्शूद्रभेदात् तत्स्याच्चतुर्विधम् । (११६।१)
abhra:: subtypes:: casteviprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham |
अभ्र:: सुब्त्य्पेस्:: चोलोउर्क्रमेणैव सितं रक्तं पीतं कृष्णं च वर्णतः ॥ (११६।२)
abhra:: subtypes:: colourkrameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ ||
प्रशस्यते सितं तारे रक्तं तत्तु रसायने । (११७।१)
praśasyate sitaṃ tāre raktaṃ tattu rasāyane |
पीतं हेमनि कृष्णं तु गदेषु द्रुतयेऽपि च ॥ (११७।२)
pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca ||
पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् । (११८।१)
pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham |
मुञ्चत्यग्नौ विनिक्षिप्तं पिनाकं दलसञ्चयम् ॥ (११८।२)
muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam ||
अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् । (११९।१)
ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam |
दर्दुर:: परीक्षादर्दुरं त्वग्निनिक्षिप्तं कुरुते दर्दुरध्वनिम् ॥ (११९।२)
dardura:: parīkṣādarduraṃ tvagninikṣiptaṃ kurute darduradhvanim ||
दर्दुर:: मेदिच्। प्रोपेर्तिएस्गोलकान् बहुशः कृत्वा स स्यान्मृत्युप्रदायकः । (१२०।१)
dardura:: medic. propertiesgolakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ |
नागाभ्र:: परीक्षानागं तु नागवद्वह्नौ फूत्कारं परिमुञ्चति ॥ (१२०।२)
nāgābhra:: parīkṣānāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati ||
नागाभ्र:: मेदिच्। प्रोपेर्तिएस्तद् भक्षितम् अवश्यं तु विदधाति भगन्दरम् । (१२१।१)
nāgābhra:: medic. propertiestad bhakṣitam avaśyaṃ tu vidadhāti bhagandaram |
वज्रं तु वज्रवत्तिष्ठेत्तन्नाग्नौ विकृतिं व्रजेत् ॥ (१२१।२)
vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet ||
सर्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत् ॥ (१२२।०)
sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt ||
अभ्रोत्पत्तिअभ्रमुत्तरशैलोत्थं बहुसत्त्वं गुणाधिकम् । (१२३।१)
abhrotpattiabhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam |
दक्षिणाद्रिभवं स्वल्पसत्त्वमल्पगुणप्रदम् ॥ (१२३।२)
dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam ||
मृताभ्रगुणाःअभ्रं कषायं मधुरं सुशीतमायुष्करं धातुविवर्द्धनं च । (१२४।१)
mṛtābhraguṇāḥabhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca |
हन्यात् त्रिदोषं व्रणमेदःकुष्ठप्लीहोदरग्रन्थिविषक्रिमींश्च ॥ (१२४।२)
hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca ||
रोगान् हन्ति द्रढयति वपुर् वीर्यवृद्धिं विधत्ते तारुण्याढ्यं रमयति शतं योषितां नित्यमेव । (१२५।१)
rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva |
दीर्घायुष्काञ्जनयति सुतान् विक्रमैः सिंहतुल्यान् मृत्योर्भीतिं हरति सततं सेव्यमानं मृताभ्रम् ॥ (१२५।२)
dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram ||
पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदं च शोथम् । (१२६।१)
pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham |
हृत्पार्श्वपीडां च करोत्यशुद्धमभ्रं त्वशुद्धं गुरु तापदं स्यात् ॥ (१२६।२)
hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt ||
हरितालहरितालं तु तालं स्यादालं तालकमित्यपि । (१२७।१)
haritālaharitālaṃ tu tālaṃ syādālaṃ tālakamityapi |
हरिताल:: सुब्त्य्पेस्हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् ॥ (१२७।२)
haritāla:: subtypesharitālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam ||
तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम् । (१२८।१)
tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param |
स्वर्णवर्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत् ॥ (१२८।२)
svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat ||
पत्राख्यं तालकं विद्याद्गुणाढ्यं तद्रसायनम् । (१२९।१)
patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam |
निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु ॥ (१२९।२)
niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru ||
स्त्रीपुष्पहारकं स्वल्पगुणं तत्पिण्डतालकम् । (१३०।१)
strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam |
हरिताल:: मेदिच्। प्रोपेर्तिएस्हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् । (१३०।२)
haritāla:: medic. propertiesharitālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam |
कण्डूकुष्ठास्यरोगास्रकफपित्तकचव्रणान् ॥ (१३०।३)
kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān ||
हरति च हरितालं चारुतां देहजातां सृजति च बहुतापं चाङ्गसङ्कोचपीडाम् । (१३१।१)
harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām |
वितरति कफवातौ कुष्ठरोगं विदध्यादिदमशितमशुद्धं मारितं चाप्यसम्यक् ॥ (१३१।२)
vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak ||
मनःशिलामनःशिला मनोगुप्ता मनोह्वा नागजिह्विका । (१३२।१)
manaḥśilāmanaḥśilā manoguptā manohvā nāgajihvikā |
नैपाली कुनटी गोला शिला दिव्यौषधिः स्मृता ॥ (१३२।२)
naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā ||
मनःशिला:: मेदिच्। प्रोपेर्तिएस्मनःशिला गुरुर्वर्ण्या सरोष्णा लेखनी कटुः । (१३३।१)
manaḥśilā:: medic. propertiesmanaḥśilā gururvarṇyā saroṣṇā lekhanī kaṭuḥ |
तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत् ॥ (१३३।२)
tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut ||
मनःशिला मन्दबलं करोति जन्तुं ध्रुवं शोधनम् अन्तरेण । (१३४।१)
manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa |
मलानुबन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदं च कुर्यात् ॥ (१३४।२)
malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt ||
सुब्त्य्पेस् ओड़् अञ्जनअञ्जनं यामुनं चापि कापोताञ्जनमित्यपि । (१३५।१)
subtypes of añjanaañjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi |
तत्तु स्रोतोञ्जनं कृष्णं सौवीरं श्वेतमीरितम् ॥ (१३५।२)
tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam ||
घृष्टं तु गौरिकाकारम् एतत् स्रोतोऽञ्जनं स्मृतम् ॥ (१३६।२)
ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam ||
स्रोतोञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम् । (१३७।१)
srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram |
स्रोतोञ्जनं स्मृतं स्वादु चक्षुष्यं कफपित्तनुत् ॥ (१३७।२)
srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut ||
कषायं लेखनं स्निग्धं ग्राहि छर्दिविषापहम् । (१३८।१)
kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham |
सिध्मक्षयास्रहृच्छीतं सेवनीयं सदा बुधैः ॥ (१३८।२)
sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ ||
स्रोतोञ्जनगुणाः सर्वे सौवीरेऽपि मता बुधैः । (१३९।१)
srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ |
किंतु द्वयोरञ्जनयोः श्रेष्ठं स्रोतोञ्जनं स्मृतम् ॥ (१३९।२)
kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam ||
टङ्कणटङ्कणो ऽग्निकरो रूक्षः कफघ्नो वातपित्तकृत् ॥ (१४०।०)
ṭaṅkaṇaṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt ||
स्फटीस्फटी च स्फटिका प्रोक्ता श्वेता शुभ्रा च रङ्गदा । (१४१।१)
sphaṭīsphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā |
दृढरङ्गा रङ्गदृढा रङ्गाङ्गापि च कथ्यते ॥ (१४१।२)
dṛḍharaṅgā raṅgadṛḍhā raṅgāṅgāpi ca kathyate ||
स्फटी:: मेदिच्। प्रोपेर्तिएस्स्फटिका तु कषायोष्णा वातपित्तकफव्रणान् । (१४२।१)
sphaṭī:: medic. propertiessphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān |
निहन्ति श्वित्रवीसर्पान् योनिसङ्कोचकारिणी ॥ (१४२।२)
nihanti śvitravīsarpān yonisaṅkocakāriṇī ||
राजावर्तराजावर्त्तो नृपावर्तो राजन्यावर्त्तकस् तथा । (१४३।१)
rājāvartarājāvartto nṛpāvarto rājanyāvarttakas tathā |
आवर्त्तमणिसंज्ञश्च ह्यावर्त्तोऽपि तथैव च । (१४३।२)
āvarttamaṇisaṃjñaśca hyāvartto'pi tathaiva ca |
राजावर्त:: मेदिच्। प्रोपेर्तिएस्राजावर्त्तः कटुस्तिक्तः शिशिरः पित्तनाशनः । (१४३।३)
rājāvarta:: medic. propertiesrājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ |
राजावर्त्तः प्रमेहघ्नश्छर्दिहिक्कानिवारणः ॥ (१४३।४)
rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ ||
चुम्बकचुम्बकः कान्तपाषाणोऽयस्कान्तो लोहकर्षकः । (१४४।१)
cumbakacumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ |
चुम्बक:: मेदिच्। प्रोपेर्तिएस्चुम्बको लेखनः शीतो मेदोविषगरापहः ॥ (१४४।२)
cumbaka:: medic. propertiescumbako lekhanaḥ śīto medoviṣagarāpahaḥ ||
गैरिकगैरिकं रक्तधातुश्च गैरेयं गिरिजं तथा । (१४५।१)
gairikagairikaṃ raktadhātuśca gaireyaṃ girijaṃ tathā |
सुवर्णगैरिकं त्वन्यत्ततो रक्ततरं हि तत् ॥ (१४५।२)
suvarṇagairikaṃ tvanyattato raktataraṃ hi tat ||
गैरिक:: मेदिच्। प्रोपेर्तिएस्गैरिकद्वितयं स्निग्धं मधुरं तुवरं हिमम् । (१४६।१)
gairika:: medic. propertiesgairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam |
चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम् ॥ (१४६।२)
cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham ||
खटिकाखटिका कठिनी चापि लेखनी च निगद्यते । (१४७।१)
khaṭikākhaṭikā kaṭhinī cāpi lekhanī ca nigadyate |
खटी दाहास्रजिच्छीता मधुरा विषशोथजित् ॥ (१४७।२)
khaṭī dāhāsrajicchītā madhurā viṣaśothajit ||
लेपादेतद्गुणा प्रोक्ता भक्षिता मृत्तिकासमा । (१४८।१)
lepādetadguṇā proktā bhakṣitā mṛttikāsamā |
खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्तिते ॥ (१४८।२)
khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite ||
वालुकावालुका सिकता प्रोक्ता शर्करा रेतजापि च । (१४९।१)
vālukāvālukā sikatā proktā śarkarā retajāpi ca |
वालुका:: मेदिच्। प्रोपेर्तिएस्वालुका लेखनी शीता व्रणोरःक्षतनाशिनी ॥ (१४९।२)
vālukā:: medic. propertiesvālukā lekhanī śītā vraṇoraḥkṣatanāśinī ||
खर्परीखर्परी तुत्थकं तुत्थाद् अन्यत् तद् रसकं स्मृतम् । (१५०।१)
kharparīkharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam |
खर्परीतुत्थ:: मेदिच्। प्रोपेर्तिएस्ये गुणास्तुत्थके प्रोक्तास्ते गुणा रसके स्मृताः ॥ (१५०।२)
kharparītuttha:: medic. propertiesye guṇāstutthake proktāste guṇā rasake smṛtāḥ ||
कासीसकाशीशं धातुकाशीशं पांशुकाशीशम् इत्यपि । (१५१।१)
kāsīsakāśīśaṃ dhātukāśīśaṃ pāṃśukāśīśam ityapi |
तदेव किंचित्पीतं तु पुष्पकाशीशम् उच्यते ॥ (१५१।२)
tadeva kiṃcitpītaṃ tu puṣpakāśīśam ucyate ||
कासीस:: मेदिच्। प्रोपेर्तिएस्काशीशमम्लमुष्णं च तिक्तं च तुवरं तथा । (१५२।१)
kāsīsa:: medic. propertieskāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā |
वातश्लेष्महरं केश्यं नेत्रकण्डूविषप्रणुत् । (१५२।२)
vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut |
मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्तितम् ॥ (१५२।३)
mūtrakṛcchrāśmarīśvitranāśanaṃ parikīrtitam ||
सौराष्ट्रीसौराष्ट्री तुवरी काली मृत्तालकसुराष्ट्रजे ॥ (१५३।०)
saurāṣṭrīsaurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje ||
आढकी चापि सा ख्याता मृत्स्ना च सुरमृत्तिका । (१५४।१)
āḍhakī cāpi sā khyātā mṛtsnā ca suramṛttikā |
सौराष्ट्री:: मेदिच्। प्रोपेर्तिएस्स्फटिकाया गुणाः सर्वे सौराष्ट्र्या अपि कीर्तिताः ॥ (१५४।२)
saurāṣṭrī:: medic. propertiessphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ ||
कृष्णमृत्तिकामृन्मृदामृत्तिका मृत्स्ना क्षेत्रजा कृष्णमृत्तिका । (१५५।१)
kṛṣṇamṛttikāmṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā |
कृष्णमृत् क्षतदाहास्रप्रदरश्लेष्मपित्तनुत् ॥ (१५५।२)
kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut ||
पङ्कपङ्कस्तु जलकल्कश्च चुलुकः कर्दमो मलः । (१५६।१)
paṅkapaṅkastu jalakalkaśca culukaḥ kardamo malaḥ |
मुद्:: मेदिच्। प्रोपेर्तिएस्कर्दमो दाहपित्तास्रशोथघ्नः शीतलः सरः ॥ (१५६।३)
mud:: medic. propertieskardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ ||
कपर्दककपर्दको वराटश्च कपर्दी च वराटिका । (१५७।१)
kapardakakapardako varāṭaśca kapardī ca varāṭikā |
कर्णस्रावाग्निमान्द्यघ्नी पित्तास्रकफनाशिनी ॥ (१५७।३)
karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī ||
शङ्खशङ्खः समुद्रजः कम्बुः सुनादः पावनध्वनिः । (१५८।१)
śaṅkhaśaṅkhaḥ samudrajaḥ kambuḥ sunādaḥ pāvanadhvaniḥ |
शङ्ख:: मेदिच्। प्रोपेर्तिएस्शङ्खो नेत्र्यो हिमः शीतो लघुः पित्तकफास्रजित् ॥ (१५८।२)
śaṅkha:: medic. propertiesśaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit ||
म्य्र्र्ह्:: मेदिच्। प्रोपेर्तिएस्बोलं रक्तहरं शीतं मेध्यं दीपनपाचनम् । (१५९।२)
myrrh:: medic. propertiesbolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam |
मधुरं कटु तिक्तं च दाहस्वेदत्रिदोषजित् । (१५९।३)
madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit |
ज्वरापस्मारकुष्ठघ्नं गर्भाशयविशुद्धिकृत् ॥ (१५९।४)
jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt ||
कङ्कुष्ठहिमवत्पादशिखरे कङ्कुष्ठमुपजायते । (१६०।१)
kaṅkuṣṭhahimavatpādaśikhare kaṅkuṣṭhamupajāyate |
कङ्कुष्ठ:: सुब्त्य्पेस्तत्रैकं रक्तकालं स्यात्तदन्यदण्डकं स्मृतम् ॥ (१६०।२)
kaṅkuṣṭha:: subtypestatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam ||
पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् । (१६१।१)
pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam |
श्यामं पीतं लघु त्यक्तसत्त्वं नेष्टं तथाण्डकम् ॥ (१६१।२)
śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam ||
कङ्कुष्ठ:: स्य्नोन्य्म्स्कङ्कुष्ठं काककुष्ठं च विरङ्गं कोलकाकुलम् ॥ (१६२।०)
kaṅkuṣṭha:: synonymskaṅkuṣṭhaṃ kākakuṣṭhaṃ ca viraṅgaṃ kolakākulam ||
कङ्कुष्ठ:: मेदिच्। प्रोपेर्तिएस्कङ्कुष्ठं रेचनं तिक्तं कटूष्णं वर्णकारकम् । (१६३।१)
kaṅkuṣṭha:: medic. propertieskaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam |
रत्नानिधनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् । (१६४।१)
ratnānidhanārthino janāḥ sarve ramante'sminnatīva yat |
ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥ (१६४।२)
tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ ||
रत्नं क्लीबे मणिः पुंसि स्त्रियामपि निगद्यते । (१६५।१)
ratnaṃ klībe maṇiḥ puṃsi striyāmapi nigadyate |
तत्तु पाषाणभेदोऽस्ति मुक्तादि च तदुच्यते ॥ (१६५।२)
tattu pāṣāṇabhedo'sti muktādi ca taducyate ||
नवरत्नानिरत्नं गारुत्मतं पुष्परागो माणिक्यमेव च । (१६६।१)
navaratnāniratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca |
इन्द्रनीलश्च गोमेदस्तथा वैदूर्यमित्यपि । (१६६।२)
indranīlaśca gomedastathā vaidūryamityapi |
मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव ॥ (१६६।३)
mauktikaṃ vidrumaśceti ratnānyuktāni vai nava ||
नवमहारत्नानिमुक्ताफलं हीरकं च वैदूर्यं पद्मरागम् ॥ (१६७।०)
navamahāratnānimuktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam ||
पुष्परागं च गोमेदं नीलं गारुत्मतं तथा । (१६८।१)
puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā |
प्रवालयुक्तान्येतानि महारत्नानि वै नव ॥ (१६८।२)
pravālayuktānyetāni mahāratnāni vai nava ||
वज्रहीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः । (१६९।१)
vajrahīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ |
वज्र:: चोलोउर्स्स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्त्रियः स्मृतः । (१६९।२)
vajra:: colourssa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ |
वज्र:: चस्तेस्पीतो वैश्योऽसितः शूद्रश्चतुर्वर्णात्मकश्च सः ॥ (१६९।३)
vajra:: castespīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ ||
रसायने मतो विप्रः सर्वसिद्धिप्रदायकः । (१७०।१)
rasāyane mato vipraḥ sarvasiddhipradāyakaḥ |
क्षत्त्रियो व्याधिविध्वंसी जरामृत्युहरः स्मृतः ॥ (१७०।२)
kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ ||
वैश्यो धनप्रदः प्रोक्तस्तथा देहस्य दार्ढ्यकृत् । (१७१।१)
vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt |
शूद्रो नाशयति व्याधीन् वयःस्तम्भं करोति च ॥ (१७१।२)
śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca ||
वज्र:: गेन्देर्स्पुंस्त्रीनपुंसकानीह लक्षणीयानि लक्षणैः । (१७२।१)
vajra:: genderspuṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ |
सुवृत्ताः फलसम्पूर्णास्तेजोयुक्ता बृहत्तराः ॥ (१७२।२)
suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ ||
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः । (१७३।१)
puruṣāste samākhyātā rekhābinduvivarjitāḥ |
रेखाबिन्दुसमायुक्ताः षडस्रास्ते स्त्रियः स्मृताः ॥ (१७३।२)
rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ ||
त्रिकोणाश्च सुदीर्घास्ते विज्ञेयाश्च नपुंसकाः । (१७४।१)
trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ |
तेषु स्युः पुरुषाः श्रेष्ठा रसबन्धनकारिणः ॥ (१७४।२)
teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ ||
स्त्रियः कुर्वन्ति कायस्य कान्तिं स्त्रीणां सुखप्रदाः । (१७५।१)
striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ |
नपुंसकास्त्ववीर्याः स्युरकामाः सत्त्ववर्जिताः ॥ (१७५।२)
napuṃsakāstvavīryāḥ syurakāmāḥ sattvavarjitāḥ ||
स्त्रियः स्त्रीभ्यः प्रदातव्याः क्लीबं क्लीबे प्रयोजयेत् । (१७६।१)
striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet |
सर्वेभ्यः सर्वदा देयाः पुरुषा वीर्यवर्धनाः ॥ (१७६।२)
sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ ||
अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा । (१७७।१)
aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā |
पाण्डुतां पङ्गुलत्वं च तस्मात्संशोध्य मारयेत् ॥ (१७७।२)
pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet ||
वज्र:: मेदिच्। प्रोपेर्तिएसायुः पुष्टिं बलं वीर्यं वर्णं सौख्यं करोति च । (१७८।१)
vajra:: medic. propertiesāyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca |
सेवितं सर्वरोगघ्नं मृतं वज्रं न संशयः ॥ (१७८।२)
sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ ||
गारुत्मतगारुत्मतं मरकतम् अश्मगर्भो हरिन्मणिः ॥ (१७९।०)
gārutmatagārutmataṃ marakatam aśmagarbho harinmaṇiḥ ||
माणिक्यमाणिक्यं पद्मरागः स्याच्छोणरत्नं च लोहितम् ॥ (१८०।०)
māṇikyamāṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam ||
पुष्परागपुष्परागो मञ्जुमणिः स्याद् वाचस्पतिवल्लभः ॥ (१८१।०)
puṣparāgapuṣparāgo mañjumaṇiḥ syād vācaspativallabhaḥ ||
इन्द्रनीलनीलं तथेन्द्रनीलं च गोमेदः पीतरत्नकम् ॥ (१८२।०)
indranīlanīlaṃ tathendranīlaṃ ca gomedaḥ pītaratnakam ||
वैडूर्यवैदूर्यं दूरजं रत्नं स्यात्केतुग्रहवल्लभम् ॥ (१८३।०)
vaiḍūryavaidūryaṃ dūrajaṃ ratnaṃ syātketugrahavallabham ||
मौक्तिकमौक्तिकं शौक्तिकं मुक्ता तथा मुक्ताफलं च तत् । (१८४।१)
mauktikamauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat |
पेअर्ल्:: ओरिगिन्शुक्तिः शङ्खो गजः क्रोडः फणी मत्स्यश्च दर्दुरः । (१८४।२)
pearl:: originśuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ |
वेणुरेते समाख्यातास्तज्ज्ञैर्मौक्तिकयोनयः । (१८४।३)
veṇurete samākhyātāstajjñairmauktikayonayaḥ |
पेअर्ल्:: मेदिच्। प्रोपेर्तिएस्मौक्तिकं शीतलं वृष्यं चक्षुष्यं बलपुष्टिदम् ॥ (१८४।४)
pearl:: medic. propertiesmauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam ||
प्रवालपुंसि क्लीबे प्रवालः स्यात्पुमानेव तु विद्रुमः ॥ (१८५।०)
pravālapuṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ ||
रत्नगुणाःरत्नानि भक्षितानि स्युर्मधुराणि सराणि च । (१८६।१)
ratnaguṇāḥratnāni bhakṣitāni syurmadhurāṇi sarāṇi ca |
चक्षुष्याणि च शीतानि विषघ्नानि धृतानि च । (१८६।२)
cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca |
किं रत्नं कस्य ग्रहस्य प्रीतिकारित्वेन दोषहरं भवतीति प्रश्ने तदुत्तरमाह रत्नमालायाम् । (१८७।१)
kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām |
माणिक्यं तरणेः सुजातममलं मुक्ताफलं शीतगोर् माहेयस्य तु विद्रुमो निगदितः सौम्यस्य गारुत्मतम् । (१८७।२)
māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam |
देवेज्यस्य च पुष्परागमसुराचार्यस्य वज्रं शनेर् नीलं निर्मलम् अन्ययोर् निगदिते गोमेदवैदूर्यके ॥ (१८७।३)
devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake ||
मुक्ताशुक्तिस्तथा शङ्ख इत्यादीनि बहून्यपि ॥ (१८८।२)
muktāśuktistathā śaṅkha ityādīni bahūnyapi ||
किंतु किंचित्ततो हीना विशेषोऽयमुदाहृतः ॥ (१८९।२)
kiṃtu kiṃcittato hīnā viśeṣo'yamudāhṛtaḥ ||
विषविषं तु गरलः क्ष्वेडस्तस्य भेदान् उदाहरे । (१९०।१)
viṣaviṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare |
वत्सनाभः सहारिद्रः सक्तुकश्च प्रदीपनः । (१९०।२)
vatsanābhaḥ sahāridraḥ saktukaśca pradīpanaḥ |
सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च । (१९०।३)
saurāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca |
वत्सनाभसिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस् तथा । (१९१।१)
vatsanābhasinduvārasadṛkpatro vatsanābhyākṛtis tathā |
यत्पार्श्वे न तरोर्वृद्धिर् वत्सनाभः स भाषितः ॥ (१९१।२)
yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ ||
हारिद्रहरिद्रातुल्यमूलो यो हारिद्रः स उदाहृतः ॥ (१९२।०)
hāridraharidrātulyamūlo yo hāridraḥ sa udāhṛtaḥ ||
सक्तुकयद्ग्रन्थिः सक्तुकेनैव पूर्णमध्यः स सक्तुकः ॥ (१९३।०)
saktukayadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ ||
प्रदीपनवर्णतो लोहितो यः स्याद्दीप्तिमान्दहनप्रभः । (१९४।१)
pradīpanavarṇato lohito yaḥ syāddīptimāndahanaprabhaḥ |
सौराष्ट्रिकसुराष्ट्रविषये यः स्यात्स सौराष्ट्रिक उच्यते ॥ (१९५।०)
saurāṣṭrikasurāṣṭraviṣaye yaḥ syātsa saurāṣṭrika ucyate ||
शृङ्गिकयस्मिन्गोशृङ्गके बद्धे दुग्धं भवति लोहितम् । (१९६।१)
śṛṅgikayasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam |
स शृङ्गिक इति प्रोक्तो द्रव्यतत्त्वविशारदैः ॥ (१९६।२)
sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ ||
कालकूटदेवासुररणे देवैर्हतस्य पृथुमालिनः । (१९७।१)
kālakūṭadevāsuraraṇe devairhatasya pṛthumālinaḥ |
दैत्यस्य रुधिराज्जातस्तरुर् अश्वत्थसन्निभः । (१९७।२)
daityasya rudhirājjātastarur aśvatthasannibhaḥ |
निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्तितः । (१९७।३)
niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ |
सो ऽहिक्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत् ॥ (१९७।४)
so 'hikṣetre śṛṅgavere koṅkaṇe malaye bhavet ||
हालाहलगोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा । (१९८।१)
hālāhalagostanābhaphalo gucchastālapatracchadastathā |
तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः । (१९८।२)
tejasā yasya dahyante samīpasthā drumādayaḥ |
असौ हालाहलो ज्ञेयः किष्किन्धायां हिमालये । (१९८।३)
asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālaye |
दक्षिणाब्धितटेदेशे कोङ्कणेऽपि च जायते ॥ (१९८।४)
dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate ||
ब्रह्मपुत्रवर्णतः कपिलो यः स्यात्तथा भवति सारतः । (१९९।१)
brahmaputravarṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ |
ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले ॥ (१९९।२)
brahmaputraḥ sa vijñeyo jāyate malayācale ||
पोइसोन्:: चस्तेस्ब्राह्मणः पाण्डुरस्तेषु क्षत्त्रियो लोहितप्रभः । (२००।१)
poison:: castesbrāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ |
वैश्यः पीतोऽसितः शूद्रो विष उक्तश्चतुर्विधः ॥ (२००।२)
vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ ||
रसायने विषं विप्रं क्षत्त्रियं देहपुष्टये । (२०१।१)
rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye |
वैश्यं कुष्ठविनाशाय शूद्रं दद्याद्वधाय हि ॥ (२०१।२)
vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi ||
विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च । (२०२।१)
viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca |
तदेव युक्तियुक्तं तु प्राणदायि रसायनम् । (२०३।१)
tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam |
योगवाहि त्रिदोषघ्नं बृंहणं वीर्यवर्धनम् ॥ (२०३।२)
yogavāhi tridoṣaghnaṃ bṛṃhaṇaṃ vīryavardhanam ||
ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात् । (२०४।१)
ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt |
तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत् ॥ (२०४।२)
tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet ||
उपविषअर्कक्षीरं स्नुहीक्षीरं लाङ्गली करवीरकः । (२०५।१)
upaviṣaarkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ |
Data courtesy of The Digital Corpus of Sanskrit.