BhPr, 2, 3
Select a line for its word-by-word analysis.
स्वर्ण:: परीक्षादाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् । (१।१)
svarṇa:: parīkṣādāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham |
तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् ॥ (१।२)
tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat ||
तच्छेदे कठिनं रूक्षं विवर्णं समलं दलम् । (२।१)
tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam |
दाहे छेदे सितं श्वेतं कषे स्फुटं लघु त्यजेत् ॥ (२।२)
dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet ||
स्वर्णशोधनपत्तलीकृतपत्राणि हेम्नो वह्नौ प्रतापयेत् । (३।१)
svarṇaśodhanapattalīkṛtapatrāṇi hemno vahnau pratāpayet |
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ (३।२)
niṣiñcettaptataptāni taile takre ca kāñjike ||
गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा । (४।१)
gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā |
एवं हेम्नः परेषां च धातूनां शोधनं भवेत् ॥ (४।२)
evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet ||
बलं सवीर्यं हरते नराणां रोगव्रजं पोषयतीह काये । (५।१)
balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye |
असौख्यकार्येव सदा सुवर्णमशुद्धम् एतन्मरणं च कुर्यात् ॥ (५।२)
asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt ||
गोल्द्:: मारणस्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत् । (६।१)
gold:: māraṇasvarṇasya dviguṇaṃ sūtamamlena saha mardayet |
त्रिंशद्वनोपलैर् दद्यात् पुटान्येवं चतुर्दश । (७।२)
triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa |
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥ (७।३)
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ ||
गोल्द्:: मारण:: निरुत्थकाञ्चने गलिते नागं षोडशांशेन निक्षिपेत् । (८।१)
gold:: māraṇa:: nirutthakāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet |
चूर्णयित्वा तथाम्लेन घृष्ट्वा कृत्वा तु गोलकम् ॥ (८।२)
cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam ||
गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम् ॥ (९।०)
golakena samaṃ gandhaṃ dattvā caivādharottaram ||
शरावसम्पुटे धृत्वा पुटेत्त्रिंशद्वनोपलैः । (१०।१)
śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ |
एवं सप्तपुटैर् हेम निरुत्थं भस्म जायते ॥ (१०।२)
evaṃ saptapuṭair hema nirutthaṃ bhasma jāyate ||
गोल्द्:: मारण:: निरुत्थकाञ्चनाररसैर् घृष्ट्वा समसूतकगन्धयोः । (११।१)
gold:: māraṇa:: nirutthakāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ |
काञ्चनारत्वचः कल्कैर्मूषायुग्मं प्रकल्पयेत् । (१२।१)
kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet |
धृत्वा सत्संपुटे गोलं मृण्मूषासम्पुटे च तत् ॥ (१२।२)
dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat ||
निधाय सन्धिरोधं च कृत्वा संशोष्य गोलकम् । (१३।१)
nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam |
वह्निं खरतरं कुर्याद् एवं दत्त्वा पुटत्रयम् ॥ (१३।२)
vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam ||
निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् । (१४।१)
nirutthaṃ jāyate bhasma sarvakarmasu yojayet |
काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम् ॥ (१४।२)
kāñcanāraprakāreṇa lāṅgalī hanti kāñcanam ||
ज्वालामुखी तथा हन्याद् यथा हन्ति मनःशिला ॥ (१५।०)
jvālāmukhī tathā hanyād yathā hanti manaḥśilā ||
गोल्द्:: मारणशिलासिन्दूरयोश्चूर्णं समयोरर्कदुग्धकैः । (१६।१)
gold:: māraṇaśilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ |
सप्तधा भावनां दद्याच्छोषयेच्च पुनः पुनः ॥ (१६।२)
saptadhā bhāvanāṃ dadyācchoṣayecca punaḥ punaḥ ||
ततस्तु गलिते हेम्नि कल्कोऽयं दीयते समः । (१७।१)
tatastu galite hemni kalko'yaṃ dīyate samaḥ |
एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत् ॥ (१७।३)
evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet ||
मारितस्वर्णगुणाःसुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम् । (१८।१)
māritasvarṇaguṇāḥsuvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam |
स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम् ॥ (१८।२)
svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam ||
पवित्रं बृंहणं नेत्र्यं मेधास्मृतिमतिप्रदम् । (१९।१)
pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam |
हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत् । (१९।२)
hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt |
स्वर्ण:: असम्यङ्मारितस्वर्णगुणाःअसम्यङ्मारितं स्वर्णं बलं वीर्यं च नाशयेत् । (२०।१)
svarṇa:: asamyaṅmāritasvarṇaguṇāḥasamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet |
करोति रोगान् मृत्युं च तद्धन्याद्यत्नतस्ततः ॥ (२०।२)
karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ ||
पुटपाकप्रशंसालोहादेर् अपुनर्भावस्तद्गुणत्वं गुणाढ्यता । (२१।१)
puṭapākapraśaṃsālohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā |
सलिले तरणं चापि तत्सिद्धिः पुटनाद्भवेत् ॥ (२१।२)
salile taraṇaṃ cāpi tatsiddhiḥ puṭanādbhavet ||
महापुटगम्भीरे विस्तृते कुण्डे द्विहस्ते चतुरस्रके । (२२।१)
mahāpuṭagambhīre vistṛte kuṇḍe dvihaste caturasrake |
कोष्ठे रुद्धं प्रयत्नेन गोविष्ठोपरि धारयेत् । (२३।१)
koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet |
वनोपलसहस्रार्द्धं कोष्ठिकोपरि निक्षिपेत् ॥ (२३।२)
vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet ||
वह्निं विनिक्षिपेत्तत्र महापुटमिति स्मृतम् ॥ (२४।०)
vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam ||
गजपुटप्रकारसपादहस्तमानेन कुण्डे निम्ने तथायते । (२५।१)
gajapuṭaprakārasapādahastamānena kuṇḍe nimne tathāyate |
पुटनद्रव्यसंयुक्तां कोष्ठिकां मुद्रितां मुखे । (२६।१)
puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe |
अधोऽर्धानि करण्डानि अर्धान्युपरि निक्षिपेत् । (२६।२)
adho'rdhāni karaṇḍāni ardhānyupari nikṣipet |
एतद्गजपुटं प्रोक्तं ख्यातं सर्वपुटोत्तमम् ॥ (२६।३)
etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam ||
वराहकौक्कुटपुटानिअरत्निमात्रके कुण्डे पुटं वाराहमुच्यते । (२७।१)
varāhakaukkuṭapuṭāniaratnimātrake kuṇḍe puṭaṃ vārāhamucyate |
कुक्कुटपुटवितस्तिमात्रके खाते कथितं कौक्कुटं पुटम् ॥ (२७।२)
kukkuṭapuṭavitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam ||
षोडशाङ्गुलके खाते कस्यचित् कौक्कुटं पुटम् ॥ (२८।०)
ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam ||
कपोतपुटयत् पुटं दीयते खाते ह्यष्टसङ्ख्यैर् वनोपलैः । (२९।१)
kapotapuṭayat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ |
गोवरगोष्ठान्तर् गोखुरक्षुण्णं शुष्कं चूर्णितगोमयम् । (३०।१)
govaragoṣṭhāntar gokhurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam |
गोवरपुटबृहद्भाण्डस्थितैर्यत्र गोवरैर् दीयते पुटम् । (३१।१)
govarapuṭabṛhadbhāṇḍasthitairyatra govarair dīyate puṭam |
तद्गोवरपुटं प्रोक्तं भिषग्भिः सूतभस्मनि ॥ (३१।२)
tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani ||
भाण्डपुटबृहद्भाण्डे तुषैः पूर्णे मध्ये मूषां विधारयेत् । (३२।१)
bhāṇḍapuṭabṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet |
क्षिप्त्वाग्निं मुद्रयेद्भाण्डं तद्भाण्डपुटमुच्यते ॥ (३२।२)
kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate ||
वालुकायन्त्रभाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके । (३३।१)
vālukāyantrabhāṇḍe vitastigambhīre madhye nihitakūpike |
भेषजं कूपिकासंस्थं वह्निना यत्र पच्यते । (३४।१)
bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate |
वालुकायन्त्रमेतद्धि यन्त्रं तत्र बुधैः स्मृतम् ॥ (३४।२)
vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam ||
दोलायन्त्रनिबद्धम् औषधं सूतं भूर्जे तत्त्रिगुणे वरे । (३५।१)
dolāyantranibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare |
रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ॥ (३५।२)
rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi ||
सन्धानपूर्णकुम्भान्तः स्वावलम्बनसंधितम् । (३६।१)
sandhānapūrṇakumbhāntaḥ svāvalambanasaṃdhitam |
अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि । (३६।२)
adhastājjvālayedagniṃ tattaduktakrameṇa hi |
दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ॥ (३६।३)
dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi ||
स्वेदनयन्त्रसाम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च । (३७।१)
svedanayantrasāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca |
पिधाय पच्यते यत्र तद्यन्त्रं स्वेदनं स्मृतम् ॥ (३७।२)
pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam ||
विद्याधरयन्त्रअधः स्थाल्यां रसं क्षिप्त्वा निदध्यात्तन्मुखोपरि । (३८।१)
vidyādharayantraadhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari |
स्थालीम् ऊर्ध्वमुखीं सम्यङ् निरुध्य मृदुमृत्स्नया ॥ (३८।२)
sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā ||
ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा चुल्ल्यामारोप्य यत्नतः । (३९।१)
ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ |
अधस्ताज्ज्वालयेदग्निं यावत्प्रहरपञ्चकम् ॥ (३९।२)
adhastājjvālayedagniṃ yāvatpraharapañcakam ||
स्वाङ्गशीतं ततो यन्त्राद् गृह्णीयाद्रसमुत्तमम् । (४०।१)
svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam |
विद्याधराभिधं यन्त्रमेतत्तज्ज्ञैरुदाहृतम् ॥ (४०।२)
vidyādharābhidhaṃ yantrametattajjñairudāhṛtam ||
भूधरयन्त्रवालुकाभिः समस्ताङ्गं गर्ते मूषां रसान्विताम् । (४१।१)
bhūdharayantravālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām |
दीप्तोपलैः संवृणुयाद्यन्त्रं भूधरनामकम् ॥ (४१।२)
dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam ||
डमरुयन्त्रयन्त्रं डमरुसंज्ञं स्यात्तत्स्थाल्या मुद्रिते मुखे ॥ (४२।०)
ḍamaruyantrayantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe ||
सिल्वेर्:: परीक्षा::गोओद् क़ुअलित्य्गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनक्षमम् । (४३।१)
silver:: parīkṣā::good qualityguru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam |
वर्णाढ्यं चन्द्रवत्स्वच्छं तारं नवगुणं शुभम् ॥ (४३।२)
varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham ||
सिल्वेर्:: परीक्षा:: बद् क़ुअलित्य्कठिनं कृत्रिमं रूक्षं रक्तं पीतदलं लघु । (४४।१)
silver:: parīkṣā:: bad qualitykaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu |
दाहच्छेदघनैर् नष्टं रूप्यं दुष्टं प्रकीर्तितम् ॥ (४४।२)
dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam ||
सिल्वेर्:: शोधनपत्तलीकृतपत्राणि तारस्याग्नौ प्रतापयेत् । (४५।१)
silver:: śodhanapattalīkṛtapatrāṇi tārasyāgnau pratāpayet |
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ (४५।२)
niṣiñcettaptataptāni taile takre ca kāñjike ||
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा । (४६।१)
gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā |
सिल्वेर्:: अशुद्धरूप्यं त्वशुद्धं प्रकरोति तापं विबन्धकं वीर्यबलक्षयं च । (४७।१)
silver:: aśuddharūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca |
देहस्य पुष्टिं हरते तनोति रोगांस्ततः शोधनमस्य कुर्यात् ॥ (४७।२)
dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt ||
सिल्वेर्:: मारणभागैकं तालकं मर्द्य याममम्लेन केनचित् । (४८।१)
silver:: māraṇabhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit |
धृत्वा मूषापुटे रुद्ध्वा पुटे त्रिंशद्वनोपलैः । (४९।१)
dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ |
समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत् । (४९।२)
samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet |
सिल्वेर्:: मारणस्नुहीक्षीरेण सम्पिष्टं माक्षिकं तेन लेपयेत् ॥ (५०।०)
silver:: māraṇasnuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet ||
सिल्वेर्:: मृत:: मेदिच्। प्रोपेर्तिएस्रौप्यं शीतं कषायं च स्वादुपाकरसं सरम् । (५२।१)
silver:: mṛta:: medic. propertiesraupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram |
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् । (५२।२)
vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit |
प्रमेहादिकरोगांश्च नाशयत्यचिराद् ध्रुवम् ॥ (५२।३)
pramehādikarogāṃśca nāśayatyacirād dhruvam ||
चोप्पेर्:: परीक्षाजपाकुसुमसङ्काशं स्निग्धं गुरु घनक्षमम् । (५३।१)
copper:: parīkṣājapākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam |
चोप्पेर्:: परीक्षा:: बद् क़ुअलित्य्कृष्णं रूक्षमतिस्वच्छं श्वेतं चापि घनासहम् । (५४।१)
copper:: parīkṣā:: bad qualitykṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham |
लोहनागयुतं चेति शुल्वं दुष्टं प्रकीर्तितम् ॥ (५४।२)
lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam ||
चोप्पेर्:: शोधनपत्तलीकृतपत्त्राणि ताम्रस्याग्नौ प्रतापयेत् । (५५।१)
copper:: śodhanapattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet |
निषिञ्चेत् तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ (५५।२)
niṣiñcet taptataptāni taile takre ca kāñjike ||
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा । (५६।१)
gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā |
एवं ताम्रस्य पत्राणां विशुद्धिः सम्प्रजायते ॥ (५६।२)
evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate ||
चोप्पेर्:: एइघ्त् दोषसेको दोषो विषे ताम्रे त्वशुद्धेऽष्टौ भ्रमो वमिः । (५७।१)
copper:: eight doṣaseko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ |
विरेकः स्वेद उत्क्लेदो मूर्छा दाहोऽरुचिस्तथा ॥ (५७।२)
virekaḥ sveda utkledo mūrchā dāho'rucistathā ||
एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्तिताः ॥ (५८।२)
eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ ||
चोप्पेर्:: मारणसूक्ष्माणि ताम्रपत्त्राणि कृत्वा संस्वेदयेद्बुधः । (५९।१)
copper:: māraṇasūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ |
पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत् । (६०।१)
pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet |
गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम् । (६१।१)
gandhakenāmlaghṛṣṭena tasya kuryācca golakam |
ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम् ॥ (६१।२)
tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām ||
तत्कल्केन बहिर् गोलं लेपयेद्ध्यङ्गुलोन्मितम् । (६२।१)
tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam |
धृत्वा तद्गोलकं भाण्डे शरावेण च रोधयेत् ॥ (६२।२)
dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet ||
वालुकाभिः प्रपूर्याथ विभूतिलवणाम्बुभिः । (६३।१)
vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ |
दत्त्वा भाण्डमुखे मुद्रां ततश्चुल्ल्यां विपाचयेत् ॥ (६३।२)
dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet ||
क्रमवृद्ध्याग्निना सम्यग् यावद्यामचतुष्टयम् । (६४।१)
kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam |
स्वाङ्गशीतं समुद्धृत्य मर्दयेच्छूरणद्रवैः ॥ (६४।२)
svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ ||
मृदा लेपस्तु कर्तव्यः सर्वतोऽङ्गुष्ठमात्रकः ॥ (६५।२)
mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ ||
पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम् ॥ (६६।०)
pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam ||
मारितताम्रगुणाःताम्रं कषायं मधुरं सतिक्तमम्लं च पाके कटु सारकं च । (६८।१)
māritatāmraguṇāḥtāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca |
पित्तापहं श्लेष्महरं च शीतं तद्रोपणं स्याल्लघु लेखनं च ॥ (६८।२)
pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca ||
पाण्डूदरार्शोज्वरकुष्ठकासश्वासक्षयान् पीनसम् अम्लपित्तम् । (६९।१)
pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam |
शोथं कृमीञ्शूलमपाकरोति प्राहुर्बुधा बृंहणम् अल्पमेतत् ॥ (६९।२)
śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat ||
एको दोषो विषे ताम्रे त्वसम्यङ्मारिते पुनः । (७०।१)
eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ |
दाहः स्वेदोऽरुचिर् मूर्च्छा क्लेदो रेको वमिर्भ्रमः ॥ (७०।२)
dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ ||
तिन्:: सुब्त्य्पेस्वङ्गं च गिरिजं तच्च खुरकं मिश्रकं द्विधा । (७१।१)
tin:: subtypesvaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā |
तयोस्तु खुरकं श्रेष्ठं मिश्रकं त्वहितं मतम् ॥ (७१।२)
tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam ||
वङ्गं विधत्ते खलु शुद्धिहीनमाक्षेपकम्पौ च किलासगुल्मौ । (७२।१)
vaṅgaṃ vidhatte khalu śuddhihīnamākṣepakampau ca kilāsagulmau |
कुष्ठानि शूलं किल वातशोथं पाण्डुं प्रमेहं च भगन्दरं च ॥ (७२।२)
kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca ||
विषोपमं रक्तविकारवृन्दं क्षयं च कृच्छ्राणि कफज्वरं च । (७३।१)
viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca |
मेहाश्मरीविद्रधिमुष्करोगान् नागो ऽपि कुर्यात्कथितान्विकारान् ॥ (७३।२)
mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān ||
तिन्, लेअद्:: शोधनवङ्गनागौ प्रतप्तौ च गलितौ तौ निषेचयेत् । (७४।१)
tin, lead:: śodhanavaṅganāgau prataptau ca galitau tau niṣecayet |
त्रिधा त्रिधा विशुद्धिः स्याद्रविदुग्धेऽपि च त्रिधा ॥ (७४।२)
tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā ||
तिन्:: मारणमृत्पात्रे द्राविते वङ्गे चिञ्चाश्वत्थत्वचो रजः । (७५।१)
tin:: māraṇamṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ |
पिष्ट्वा वङ्गचतुर्थांशम् अयोदर्व्या प्रचालयेत् ॥ (७५।२)
piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet ||
ततो द्वियाममात्रेण वङ्गं भस्म प्रजायते । (७६।१)
tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate |
अथ भस्मसमं तालं क्षिप्त्वाम्लेन विमर्दयेत् ॥ (७६।२)
atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet ||
एवं दशपुटैः पक्वं वङ्गं भवति मारितम् ॥ (७७।३)
evaṃ daśapuṭaiḥ pakvaṃ vaṅgaṃ bhavati māritam ||
तिन्:: मृत:: मेदिच्। प्रोपेर्तिएस्वङ्गं लघु सरं रूक्षं कुष्ठं मेहकफक्रिमीन् । (७८।१)
tin:: mṛta:: medic. propertiesvaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn |
निहन्ति पाण्डुं सश्वासं नेत्र्यम् ईषत्तु पित्तलम् ॥ (७८।२)
nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam ||
सिंहो गजौघं तु यथा निहन्ति तथैव वङ्गोऽखिलमेहवर्गम् । (७९।१)
siṃho gajaughaṃ tu yathā nihanti tathaiva vaṅgo'khilamehavargam |
देहस्य सौख्यं प्रबलेन्द्रियत्वं नरस्य पुष्टिं विदधाति नूनम् ॥ (७९।२)
dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam ||
ज़िन्च्यशदं गिरिजं तस्य दोषाः शोधनमारणे । (८०।१)
zincyaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe |
वङ्गस्येव हि बोद्धव्या गुणांस्तु गणयाम्यथ ॥ (८०।२)
vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha ||
ज़िन्च्:: मेदिच्। प्रोपेर्तिएस्यशदं च सरं तिक्तं शीतलं कफपित्तहृत् । (८१।१)
zinc:: medic. propertiesyaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt |
चक्षुष्यं परमं मेहान् पाण्डुं श्वासं च नाशयेत् ॥ (८१।२)
cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet ||
शोधनं चापि तस्येव भिषग्भिर् गदितं पुरा ॥ (८२।२)
śodhanaṃ cāpi tasyeva bhiṣagbhir gaditaṃ purā ||
लेअद्:: मारणताम्बूलरससम्पिष्टशिलालेपात् पुनः पुनः । (८३।१)
lead:: māraṇatāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ |
द्वात्रिंशद्भिः पुटैर्नागो निरुत्थं भस्म जायते ॥ (८३।२)
dvātriṃśadbhiḥ puṭairnāgo nirutthaṃ bhasma jāyate ||
लेअद्:: मारणअश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निक्षिपेत् । (८४।१)
lead:: māraṇaaśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet |
मृत्पात्रे विद्रुतो नागो लोहदर्व्या प्रचालितः ॥ (८४।२)
mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ ||
यामैकेन भवेद्भस्म तत्तुल्या स्यान्मनःशिला । (८५।१)
yāmaikena bhavedbhasma tattulyā syānmanaḥśilā |
काञ्चिकेन द्वयं पिष्ट्वा पचेद्गजपुटेन च ॥ (८५।२)
kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca ||
स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च । (८६।१)
svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca |
पुनः पचेच्छरावाभ्याम् एवं षष्टिपुटैर्मृतिः ॥ (८६।२)
punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ ||
लेअद्:: मेदिच्। प्रोपेर्तिएस्सीसं रङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ॥ (८७।०)
lead:: medic. propertiessīsaṃ raṅgaguṇaṃ jñeyaṃ viśeṣānmehanāśanam ||
नागस्तु नागशततुल्यबलं ददाति व्याधिं च नाशयति जीवनमातनोति । (८८।१)
nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti |
वह्निं प्रदीपयति कामबलं करोति मृत्युं च नाशयति संततसेवितः सः ॥ (८८।२)
vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ ||
इरोन्:: मेदिच्। प्रोपेर्तिएस्खञ्जत्वकुष्ठामयमृत्युकारी हृद्रोगशूलौ कुरुते ऽश्मरीं च । (८९।१)
iron:: medic. propertieskhañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca |
नानारुजानां च तथा प्रकोपं कुर्याच्च हृल्लासमशुद्धलौहम् ॥ (८९।२)
nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham ||
इरोन्:: शोधनपत्तलीकृतपत्राणि लोहस्याग्नौ प्रतापयेत् । (९०।१)
iron:: śodhanapattalīkṛtapatrāṇi lohasyāgnau pratāpayet |
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ (९०।२)
niṣiñcettaptataptāni taile takre ca kāñjike ||
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा । (९१।१)
gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā |
एवं लौहस्य पत्राणां विशुद्धिः सम्प्रजायते ॥ (९१।२)
evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate ||
तीक्ष्णलोह:: मारणशुद्धं लौहभवं चूर्णं पातालगरुडीरसैः । (९२।१)
tīkṣṇaloha:: māraṇaśuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ |
मर्दयित्वा पुटेद्वह्नौ दद्याद् एवं पुटत्रयम् ॥ (९२।२)
mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam ||
पुटत्रयं कुमार्याश्च कुठारच्छिन्निकारसैः । (९३।१)
puṭatrayaṃ kumāryāśca kuṭhāracchinnikārasaiḥ |
पुटषट्कं ततो दद्याद् एवं तीक्ष्णमृतिर्भवेत् ॥ (९३।२)
puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet ||
इरोन्:: मारणक्षिपेच्च द्वादशांशेन दरदं तीक्ष्णचूर्णतः । (९४।१)
iron:: māraṇakṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ |
मर्दयेत्कन्यकाद्रवैर् यामयुग्मं ततः पुटेत् । (९४।२)
mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet |
एवं सप्तपुटैर् मृत्युं लौहचूर्णमवाप्नुयात् ॥ (९४।३)
evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt ||
इरोन्:: मारण:: वारितरसत्योऽनुभूतो योगेन्द्रैः क्रमोऽन्यो लोहमारणे ॥ (९५।०)
iron:: māraṇa:: vāritarasatyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe ||
सूतकाद् द्विगुणं गन्धं दत्त्वा कुर्याच्च कज्जलीम् ॥ (९६।२)
sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm ||
द्वयोः समं लौहचूर्णं मर्दयेत्कन्यकाद्रवैः । (९७।१)
dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ |
यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके ॥ (९७।२)
yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake ||
घर्मे धृत्वा रुबूकस्य पत्रैराच्छादयेद् बुधः । (९८।१)
gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ |
यामद्वयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः ॥ (९८।२)
yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ ||
दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् । (९९।१)
dattvopari śarāvaṃ tu tridinānte samuddharet |
पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत् ॥ (९९।२)
piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet ||
इरोन्:: मारणदाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा । (१००।१)
iron:: māraṇadāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā |
तद्रसेनायसं चूर्णं संनीय प्लावयेदिति ॥ (१००।२)
tadrasenāyasaṃ cūrṇaṃ saṃnīya plāvayediti ||
एकविंशतिवारैस् तन्म्रियते नात्र संशयः । (१०१।२)
ekaviṃśativārais tanmriyate nātra saṃśayaḥ |
एवं सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत् ॥ (१०१।३)
evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet ||
इरोन्:: मृत:: मेदिच्। प्रोपेर्तिएस्लौहं तिक्तं सरं शीतं कषायं मधुरं गुरु । (१०२।१)
iron:: mṛta:: medic. propertieslauhaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru |
रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् ॥ (१०२।२)
rūkṣaṃ vayasyaṃ cakṣuṣyaṃ lekhanaṃ vātalaṃ jayet ||
कफं पित्तं गरं शूलं शोफार्शःप्लीहपाण्डुताः । (१०३।१)
kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ |
मेदोमेहकृमीन्कुष्ठं तत्किट्टं तद्वदेव हि ॥ (१०३।२)
medomehakṛmīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi ||
इरोन्:: भक्षणगुञ्जामेकां समारभ्य यावत्स्युर्नवरक्तिकाः । (१०४।१)
iron:: bhakṣaṇaguñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ |
कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा । (१०५।१)
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā |
धातु:: मारणशिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः । (१०६।१)
dhātu:: māraṇaśilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ |
म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥ (१०६।२)
mriyante dvādaśapuṭaiḥ satyaṃ guruvaco yathā ||
मन्दानलत्वं बलहानिमुग्रां विष्टम्भितां नेत्रगदान्सकुष्ठान् । (१०७।१)
mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān |
मालां तथैव व्रणपूर्विकां च कुर्यादशुद्धं खलमाक्षिकं च ॥ (१०७।२)
mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca ||
स्वर्णमाक्षिक:: शोधनमाक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च । (१०८।१)
svarṇamākṣika:: śodhanamākṣikasya trayo bhāgā bhāgaikaṃ saindhavasya ca |
मातुलुङ्गद्रवैर् वाथ जम्बीरस्य द्रवैः पचेत् ॥ (१०८।२)
mātuluṅgadravair vātha jambīrasya dravaiḥ pacet ||
चालयेल्लौहजे पात्रे यावत्पात्रं सुलोहितम् । (१०९।१)
cālayellauhaje pātre yāvatpātraṃ sulohitam |
भवेत्ततस्तु संशुद्धिः स्वर्णमाक्षिकम् ऋच्छति ॥ (१०९।२)
bhavettatastu saṃśuddhiḥ svarṇamākṣikam ṛcchati ||
स्वर्णमाक्षिक:: मारणकुलत्थस्य कषायेण घृष्ट्वा तलेन वा पुटेत् । (११०।१)
svarṇamākṣika:: māraṇakulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet |
तक्रेण वाजमूत्रेण म्रियते स्वर्णमाक्षिकम् ॥ (११०।२)
takreṇa vājamūtreṇa mriyate svarṇamākṣikam ||
स्वर्णमाक्षिकवद्दोषा विज्ञेयास्तारमाक्षिके । (१११।१)
svarṇamākṣikavaddoṣā vijñeyāstāramākṣike |
अतस्तद्दोषशान्त्यर्थं शोधनं तस्य कथ्यते ॥ (१११।२)
atastaddoṣaśāntyarthaṃ śodhanaṃ tasya kathyate ||
तारमाक्षिक:: शोधनकर्कोटीमेषशृङ्ग्युत्थैर् द्रवैर् जम्बीरजैर् दिनम् । (११२।१)
tāramākṣika:: śodhanakarkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam |
भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥ (११२।२)
bhāvayedātape tīvre vimalā śudhyati dhruvam ||
तारमाक्षिक:: मारणकुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत् । (११३।१)
tāramākṣika:: māraṇakulatthasya kaṣāyeṇa ghṛṣṭvā tailena vā puṭet |
माक्षिक:: प्रोपेर्तिएस्न केवलं स्वर्णरूप्यगुणास्तापीजयोर्मताः । (११४।१)
mākṣika:: propertiesna kevalaṃ svarṇarūpyaguṇāstāpījayormatāḥ |
द्रव्यान्तरस्य संसर्गात्सन्त्यन्येऽपि गुणास्तयोः ॥ (११४।२)
dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ ||
माक्षिक:: मेदिच्। प्रोपेर्तिएस्माक्षिकं मधुरं तिक्तं स्वयं वृष्यं रसायनम् ॥ (११५।०)
mākṣika:: medic. propertiesmākṣikaṃ madhuraṃ tiktaṃ svayaṃ vṛṣyaṃ rasāyanam ||
चक्षुष्यं वस्तिरुक्कुष्ठं पाण्डुमेहविषोदरम् । (११६।१)
cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram |
अर्शः शोफं क्षयं कण्डूं त्रिदोषं च नियच्छति ॥ (११६।२)
arśaḥ śophaṃ kṣayaṃ kaṇḍūṃ tridoṣaṃ ca niyacchati ||
तुत्थ:: शोधनविष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः । (११७।१)
tuttha:: śodhanaviṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ |
दशांशं टङ्कणं दत्त्वा पचेल्लघुपुटे ततः । (११७।२)
daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ |
पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ (११७।३)
puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye ||
तुत्थ:: शुद्ध:: मेदिच्। प्रोपेर्तिएस्तुत्थकं कटुकं क्षारं कषायं वामकं लघु ॥ (११८।०)
tuttha:: śuddha:: medic. propertiestutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu ||
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत् । (११९।१)
lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt |
विषाश्मकुष्ठकण्डूघ्नं तद्गुणं खर्परं मतम् ॥ (११९।२)
viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam ||
कांस्य:: शोधनपत्तलीकृतपत्राणि कांस्यस्याग्नौ प्रतापयेत् । (१२०।१)
kāṃsya:: śodhanapattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet |
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ (१२०।२)
niṣiñcettaptataptāni taile takre ca kāñjike ||
गोमूत्रे च कुलत्थानां कषायेऽत्र त्रिधा त्रिधा । (१२१।१)
gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā |
एवं कांस्यस्य रीतेश्च विशुद्धिः सम्प्रजायते ॥ (१२१।२)
evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate ||
कांस्य, रीति:: मारणअर्कक्षीरेण सम्पिष्टो गन्धकस्तेन लेपयेत् । (१२२।१)
kāṃsya, rīti:: māraṇaarkakṣīreṇa sampiṣṭo gandhakastena lepayet |
समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः ॥ (१२२।२)
samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ ||
एवं पुटद्वयात्कांस्यं रीतिश्च म्रियते ध्रुवम् ॥ (१२३।२)
evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam ||
कांस्य:: मेदिच्। प्रोपेर्तिएस्कांस्यं कषायं तीक्ष्णोष्णं लेखनं विशदं सरम् । (१२४।१)
kāṃsya:: medic. propertieskāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram |
गुरु नेत्रहितं रूक्षं कफपित्तहरं परम् ॥ (१२४।२)
guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param ||
रीति:: मेदिच्। प्रोपेर्तिएस्रीतिका तु भवेद् रूक्षा सतिक्ता लवणा रसे । (१२५।१)
rīti:: medic. propertiesrītikā tu bhaved rūkṣā satiktā lavaṇā rase |
शोधिनी पाण्डुरोगघ्नी कृमिहृन्नातिलेखनी ॥ (१२५।२)
śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī ||
सिन्दूर:: शोधनदुग्धाम्लयोगस्तस्य विशुद्धिर् गदिता बुधैः ॥ (१२६।०)
sindūra:: śodhanadugdhāmlayogastasya viśuddhir gaditā budhaiḥ ||
सिन्दूर:: मेदिच्। प्रोपेर्तिएस्सिन्दूर उष्णो वीसर्पकुष्ठकण्डूविषापहः । (१२७।१)
sindūra:: medic. propertiessindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ |
शिलाजतु (!):: परीक्षागोमूत्रगन्धवत्कृष्णं स्निग्धं मृदु तथा गुरु । (१२८।१)
śilājatu (!):: parīkṣāgomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru |
तिक्तं कषायं शीतं च सर्वश्रेष्ठं तदायसम् ॥ (१२८।२)
tiktaṃ kaṣāyaṃ śītaṃ ca sarvaśreṣṭhaṃ tadāyasam ||
तेxत्विन्ध्यादौ बहुलं तत्तु तत्र लोहं यतोऽधिकम् । (१२९।१)
Textvindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam |
शिलाजतु:: शोधनशिलाजतु समानीय सूक्ष्मं खण्डं विधाय च । (१३०।१)
śilājatu:: śodhanaśilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca |
निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः ॥ (१३०।२)
nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ ||
मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम् । (१३१।१)
mardayitvā tato nīraṃ gṛhṇīyādvastragālitam |
स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः ॥ (१३१।२)
sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ ||
उपरिस्थं घनं यत्स्यात्तत्क्षिपेदन्यपात्रके । (१३२।१)
uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake |
एवं पुनःपुनर्नीतं द्विमासाभ्यां शिलाजतु ॥ (१३२।२)
evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu ||
भवेत्कार्यक्षमं वह्नौ क्षिप्तं लिङ्गोपमं भवेत् । (१३३।१)
bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet |
निर्धूमं च ततः शुद्धं सर्वकर्मसु योजयेत् ॥ (१३३।२)
nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet ||
शिलाजतु:: शोधनतत्र प्रथमतस्तस्य बहिर्मलमपाकर्तुं केवलजलेन प्रक्षालनं कर्तव्यं ततस् तदन्तर्गतमृत्तिकासिकतादिदोषदूरीकरणाय वक्ष्यमाणक्वाथेन तत्र भावना देयेत्यत्र वाग्भटस्य मतमाह । (१३४।१)
śilājatu:: śodhanatatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha |
शिलाजतु:: शोधन (?)व्याधिव्याधितसात्म्यं समनुसरन् भावयेदयःपात्रे । (१३४।२)
śilājatu:: śodhana (?)vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre |
प्राक् केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम् ॥ (१३४।३)
prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam ||
तुल्यं गिरिजेन जले वसुगुणिते भावनौषधं क्वाथ्यम् । (१३५।१)
tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam |
तत्क्वाथे पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् ॥ (१३५।२)
tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam ||
तत् समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः । (१३६।१)
tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ |
स्वैः स्वैरेवं क्वाथैर् भाव्यं वारान् भवेत्सप्त ॥ (१३६।२)
svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta ||
अथ स्निग्धस्य शुद्धस्य घृतं तिक्तकसाधितम् । (१३७।१)
atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam |
त्र्यहं युञ्जीत गिरिजमेकैकेन तथा त्र्यहम् ॥ (१३७।२)
tryahaṃ yuñjīta girijamekaikena tathā tryaham ||
लोहस्थितं निम्बगुडूचिसर्पिर्यवैर् यथावत् परिभावयेत्तत् । (१३९।१)
lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat |
संतानिकाकीटपतङ्गदंशदुष्टौषधीदोषनिवारणाय ॥ (१३९।२)
saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya ||
एवं भावनां दत्त्वा संशोष्य केवलेन जलेन शोधनं कर्तव्यं तत्प्रकारमाहाग्निवेशः । (१४०।१)
evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ |
शिलाजतु:: शोधनौष्णे च काले रवितापयुक्ते व्यभ्रे निवाते समभूमिभागे । (१४०।२)
śilājatu:: śodhanauṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge |
चत्वारि पात्राण्यसितायसानि न्यस्यातपे तत्र कृतावधानः ॥ (१४०।३)
catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ ||
शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तस्माद्द्विगुणं च तोयम् । (१४१।१)
śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam |
उष्णं तदर्धं क्वथितं च दत्त्वा विशोधयेत्तन्मृदितं यथावत् ॥ (१४१।२)
uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat ||
ततस्तु यत्कृष्णमुपैति चोर्ध्वं संतानिकावद् रविरश्मितप्तम् । (१४२।१)
tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam |
पात्रे तदन्यत्र ततो निदध्यात्तत्रापरं कोष्णजलं क्षिपेच्च ॥ (१४२।२)
pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca ||
पुनश्च तस्मादपरत्र पात्रे पश्चाच्च पात्रादपरत्र भूयः । (१४३।१)
punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ |
यदा विशुद्धं जलमेवमूर्ध्वं कृष्णं समस्तं मलमेत्यधस्तात् । (१४३।२)
yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt |
तदा त्यजेत्तत्सलिलं मलं च शिलाजतु स्याज्जलशुद्धमेवम् ॥ (१४३।३)
tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam ||
शिलाजतु:: मेदिच्। प्रोपेर्तिएस्शिलाजतु स्मृतं तिक्तं कटूष्णं कटुपाकि च । (१४४।१)
śilājatu:: medic. propertiesśilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca |
मूत्रकृच्छ्रं क्षयं श्वासं शोथम् अर्शांसि पाण्डुताम् । (१४५।१)
mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām |
वातरक्तं तथा कुष्ठम् अपस्मारोदरं हरेत् ॥ (१४५।२)
vātaraktaṃ tathā kuṣṭham apasmārodaraṃ haret ||
काञ्जिक:: प्रोदुच्तिओन्नानाधान्यैर् यथाप्राप्तैस् तुषवर्जैर् जलान्वितैः । (१४६।१)
kāñjika:: productionnānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ |
मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥ (१४६।२)
mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt ||
तन्मध्ये भृङ्गराङ्मुण्डी विष्णुक्रान्ता पुनर्नवा । (१४७।१)
tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā |
त्रिफला गिरिकर्णी च हंसपादी च चित्रकम् । (१४८।१)
triphalā girikarṇī ca haṃsapādī ca citrakam |
समूलं कुट्टयित्वा तु यथालाभं विनिक्षिपेत् ॥ (१४८।२)
samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet ||
पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं स्मृतम् । (१४९।१)
pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam |
मेर्चुर्य्:: स्वेदनत्र्यूषणं लवणं राजी रजनी त्रिफलार्द्रकम् । (१५०।१)
mercury:: svedanatryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam |
मेषशृङ्गी चित्रकं च नवसारं समं समम् । (१५१।१)
meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam |
एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत् ॥ (१५१।२)
etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet ||
प्रलिम्पेत्तेन कल्केन वस्त्रमङ्गुलमात्रकम् ॥ (१५२।०)
pralimpettena kalkena vastramaṅgulamātrakam ||
तन्मध्ये निक्षिपेत् सूतं बद्ध्वा तत्त्रिदिनं पचेत् । (१५३।१)
tanmadhye nikṣipet sūtaṃ baddhvā tattridinaṃ pacet |
दोलायन्त्रेऽम्लसंयुक्ते जायते स्वेदितो रसः ॥ (१५३।२)
dolāyantre'mlasaṃyukte jāyate svedito rasaḥ ||
मेर्चुर्य्:: स्वेदनमूलकानलसिन्धूत्थत्र्यूषणार्द्रकराजिकाः । (१५४।१)
mercury:: svedanamūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ |
रसस्य षोडशांशेन द्रव्यं युञ्ज्यात् पृथक् पृथक् ॥ (१५४।२)
rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak ||
द्रव्येष्वनुक्तमानेषु मतं मानमितं बुधः । (१५५।१)
dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ |
पट्टावृतेषु चैतेषु सूतं प्रक्षिप्य काञ्जिके ॥ (१५५।२)
paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike ||
स्वेदयेद्दिनम् एकं च दोलायन्त्रेण बुद्धिमान् । (१५६।१)
svedayeddinam ekaṃ ca dolāyantreṇa buddhimān |
स्वेदात्तीव्रो भवेत्सूतो मर्दनाच्च सुनिर्मलः ॥ (१५६।२)
svedāttīvro bhavetsūto mardanācca sunirmalaḥ ||
मेर्चुर्य्:: मर्दनैष्टिकाचूर्णचूर्णाभ्याम् आदौ मर्द्यो रसस्ततः । (१५७।१)
mercury:: mardanaiṣṭikācūrṇacūrṇābhyām ādau mardyo rasastataḥ |
दध्ना गुडेन सिन्धूत्थराजिकागृहधूमकैः ॥ (१५७।२)
dadhnā guḍena sindhūttharājikāgṛhadhūmakaiḥ ||
कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर् बृहतीविमिश्रितैः । (१५८।१)
kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ |
फलत्रिकेणापि विमर्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते ॥ (१५८।२)
phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate ||
मेर्चुर्य्:: मूऋछनत्र्यूषणं त्रिफलावन्ध्याकन्दैः क्षुद्राद्वयान्वितैः । (१५९।१)
mercury:: mūṛchanatryūṣaṇaṃ triphalāvandhyākandaiḥ kṣudrādvayānvitaiḥ |
चित्रकोर्णानिशाक्षारकन्यार्ककनकद्रवैः ॥ (१५९।२)
citrakorṇāniśākṣārakanyārkakanakadravaiḥ ||
सूतं कृतेन यूषेण वारान्सप्त विमर्दयेत् । (१६०।१)
sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet |
इत्थं संमूर्छितः सूतस्त्यजेत्सप्तापि कञ्चुकान् ॥ (१६०।२)
itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān ||
मेर्चुर्य्:: ऊर्ध्वपातनमयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतस्य च । (१६१।१)
mercury:: ūrdhvapātanamayūragrīvatāpyābhyāṃ naṣṭapiṣṭīkṛtasya ca |
यन्त्रे विद्याधरे कुर्याद्रसेन्द्रस्योर्ध्वपातनम् ॥ (१६१।२)
yantre vidyādhare kuryādrasendrasyordhvapātanam ||
त्रिफलाशिग्रुशिखिभिर् लवणासुरिसंयुतैः । (१६२।१)
triphalāśigruśikhibhir lavaṇāsurisaṃyutaiḥ |
नष्टपिष्टं रसं कृत्वा लेपयेद् ऊर्ध्वभाजनम् ॥ (१६२।२)
naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam ||
ततो दीप्तैरधः पातमुपलैस्तस्य कारयेत् । (१६३।१)
tato dīptairadhaḥ pātamupalaistasya kārayet |
यन्त्रे भूधरसंज्ञे तु ततः सूतो विशुध्यति ॥ (१६३।२)
yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati ||
स्वेदनादिक्रियाभिस्तु शोधितोऽसौ यदा भवेत् । (१६४।१)
svedanādikriyābhistu śodhito'sau yadā bhavet |
तदा कार्याणि कुरुते प्रयोज्यः सर्वकर्मसु ॥ (१६४।२)
tadā kāryāṇi kurute prayojyaḥ sarvakarmasu ||
मेर्चुर्य्:: मूर्छनगृहकन्या हरति मलं त्रिफलाग्निं चित्रको विषं हन्ति । (१६५।१)
mercury:: mūrchanagṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti |
तस्माद् एभिर् मिश्रैर् वारान् संमूर्छयेत्सप्त ॥ (१६५।२)
tasmād ebhir miśrair vārān saṃmūrchayetsapta ||
मेर्चुर्य्:: शोधनकुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर् बृहतीविमिश्रितैः । (१६६।१)
mercury:: śodhanakumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ |
फलत्रिकेणापि विमर्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते ॥ (१६६।२)
phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate ||
मेर्चुर्य्:: मारण (?)कुमार्या च निशाचूर्णैर्दिनं सूतं विमर्दयेत् । (१६७।१)
mercury:: māraṇa (?)kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet |
एवं कदर्थितः सूतः षण्ढो भवति निश्चितम् ॥ (१६७।२)
evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam ||
बह्वौषधिकषायेण स्वेदितः स बली भवेत् । (१६८।१)
bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet |
सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दैः स्वेदितो बली । (१६८।२)
sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī |
ततः स पावकद्रावैः स्विन्नः स्यादतिदीप्तिमान् ॥ (१६८।३)
tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān ||
मेर्चुर्य्:: मारणधूमसारं रसं तोरीं गन्धकं नवसादरम् । (१६९।१)
mercury:: māraṇadhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram |
यामैकं मर्दयेद् अम्लभागं कृत्वा समं समम् ॥ (१६९।२)
yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam ||
काचकूप्यां विनिक्षिप्य तां च मृद्वस्त्रमुद्रया । (१७०।१)
kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā |
विलिप्य परितो वक्त्रे मुद्रां दत्त्वा विशोषयेत् ॥ (१७०।२)
vilipya parito vaktre mudrāṃ dattvā viśoṣayet ||
अधः सच्छिद्रपिठरीमध्ये कूपीं निवेशयेत् । (१७१।१)
adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet |
पिठरीं वालुकापूरैर् भृत्वा चा कूपिकागलम् ॥ (१७१।२)
piṭharīṃ vālukāpūrair bhṛtvā cā kūpikāgalam ||
निवेश्य चुल्ल्यां तदधो वह्निं कुर्याच्छनैःशनैः । (१७२।१)
niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ |
तस्माद् अत्यधिकं किंचित् पावकं ज्वालयेत्क्रमात् ॥ (१७२।२)
tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt ||
एवं द्वादशभिर्यामैर्म्रियते रस उत्तमः । (१७३।१)
evaṃ dvādaśabhiryāmairmriyate rasa uttamaḥ |
स्फोटयेत्स्वाङ्गशीतं तमूर्ध्वगं गन्धकं त्यजेत् ॥ (१७३।२)
sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet ||
अधस्थं च मृतं सूतं गृह्णीयात्तं तु मात्रया । (१७४।१)
adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā |
मेर्चुर्य्:: मारणअपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत् । (१७५।१)
mercury:: māraṇaapāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet |
तत्सम्पुटे क्षिपेत्सूतं मलयूदुग्धमिश्रितम् ॥ (१७५।२)
tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam ||
एतच्चूर्णमधश्चोर्ध्वं दत्त्वा मुद्रा प्रदीयते ॥ (१७६।२)
etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate ||
तद्गोलं स्थापयेत्सम्यङ् मृन्मूषासम्पुटे पचेत् ॥ (१७७।०)
tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet ||
तत्प्रयोज्यं यथास्थानं यथामात्रं यथाविधि ॥ (१७८।२)
tatprayojyaṃ yathāsthānaṃ yathāmātraṃ yathāvidhi ||
पारदमारण (३)काकोदुम्बरिकादुग्धै रसं किंचिद् विमर्दयेत् । (१७९।१)
pāradamāraṇa (3)kākodumbarikādugdhai rasaṃ kiṃcid vimardayet |
तद्दुग्धघृष्टहिङ्गोश्च मूषायुग्मं प्रकल्पयेत् ॥ (१७९।२)
taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet ||
क्षिप्त्वा तत्सम्पुटे सूतं तत्र मुद्रां प्रदापयेत् । (१८०।१)
kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet |
धृत्वा तद्गोलकं प्राज्ञो मृन्मूषासम्पुटे ऽधिके । (१८०।२)
dhṛtvā tadgolakaṃ prājño mṛnmūṣāsampuṭe 'dhike |
पारदमारण (४)नागवल्लीरसैर्घृष्टः कर्कोटीकन्दगर्भितः । (१८१।१)
pāradamāraṇa (4)nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ |
मृन्मूषासम्पुटे पक्वः सूतो यात्येव भस्मताम् ॥ (१८१।२)
mṛnmūṣāsampuṭe pakvaḥ sūto yātyeva bhasmatām ||
रसकर्पूरशुद्धसूतसमं कुर्यात्प्रत्येकं गैरिकं सुधीः । (१८२।१)
rasakarpūraśuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ |
इष्टिकां खटिकां तद्वत्स्फटिकां सिन्धुजन्म च ॥ (१८२।२)
iṣṭikāṃ khaṭikāṃ tadvatsphaṭikāṃ sindhujanma ca ||
वल्मीकं क्षारलवणं भाण्डरञ्जकमृत्तिकाम् । (१८३।१)
valmīkaṃ kṣāralavaṇaṃ bhāṇḍarañjakamṛttikām |
सर्वाण्येतानि संचूर्ण्य वाससा चापि शोधयेत् ॥ (१८३।२)
sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet ||
एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्दयेत् । (१८४।१)
ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet |
तच्चूर्णसहितं सूतं स्थालीमध्ये परिक्षिपेत् ॥ (१८४।२)
taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet ||
तस्याः स्थाल्या मुखे स्थालीमपरां धारयेत्समाम् । (१८५।१)
tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām |
सवस्त्रकुट्टितमृदा मुद्रयेदनयोर्मुखम् ॥ (१८५।२)
savastrakuṭṭitamṛdā mudrayedanayormukham ||
संशोष्य मुद्रयेद्भूयो भूयःसंशोष्य मुद्रयेत् । (१८६।१)
saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet |
सम्यग्विशोष्य मुद्रां तां स्थालीं चुल्ल्यां विधारयेत् ॥ (१८६।२)
samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet ||
अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् । (१८७।१)
agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam |
अङ्गारोपरि तद्यन्त्रं रक्षेद्यत्नादहर्निशम् ॥ (१८७।२)
aṅgāropari tadyantraṃ rakṣedyatnādaharniśam ||
शनैर् उद्घाटयेद् यन्त्रम् ऊर्ध्वस्थालीगतं रसम् । (१८८।१)
śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam |
कर्पूरवत् सुविमलं गृह्णीयाद् गुणवत्तरम् ॥ (१८८।२)
karpūravat suvimalaṃ gṛhṇīyād guṇavattaram ||
तद्देवकुसुमचन्दनकस्तूरीकुङ्कुमैर् युक्तम् । (१८९।१)
taddevakusumacandanakastūrīkuṅkumair yuktam |
खादन् हरति फिरङ्गं व्याधिं सोपद्रवं सपदि ॥ (१८९।२)
khādan harati phiraṅgaṃ vyādhiṃ sopadravaṃ sapadi ||
विन्दति वह्नेर्दीप्तिं पुष्टिं वीर्यं बलं विपुलम् । (१९०।१)
vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam |
रमयति रमणीशतकं रसकर्पूरस्य सेवकः सततम् ॥ (१९०।२)
ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam ||
सिन्दूररसविधिशुद्धसूतस्य गृह्णीयाद् भिषग्भागचतुष्टयम् । (१९१।१)
sindūrarasavidhiśuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam |
शुद्धगन्धस्य भागैकं तावत्कृत्रिमगन्धकम् ॥ (१९१।२)
śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam ||
तयोः कज्जलिकां कुर्याद्दिनमेकं विमर्दयेत् ॥ (१९२।२)
tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet ||
मृत्तिकां वाससा सार्द्धं कुट्टयेद् अतियत्नतः । (१९३।१)
mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ |
तया वारत्रयं सम्यक् काचकूपीं प्रलेपयेत् ॥ (१९३।२)
tayā vāratrayaṃ samyak kācakūpīṃ pralepayet ||
मृत्तिकां शोषयित्वा तु कूप्यां कज्जलिकां क्षिपेत् । (१९४।१)
mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet |
तां कूपीं वालुकायन्त्रे स्थापयित्वा रसं पचेत् ॥ (१९४।२)
tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet ||
अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् । (१९५।१)
agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam |
गृह्णीयादूर्ध्वसंलग्नं सिन्दूरसदृशं रसम् ॥ (१९५।२)
gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam ||
मारितमूर्छितपारदयोर् गुणाःपारदः कृमिकुष्ठघ्नो जयदो दृष्टिकृत्सरः । (१९६।१)
māritamūrchitapāradayor guṇāḥpāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ |
मृत्युहृच्च महावीर्यो योगवाही ज्वरापहः ॥ (१९६।२)
mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ ||
स्मृत्योजोरूपदो वृष्यो वृद्धिकृद्धातुवर्द्धनः । (१९७।१)
smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ |
षण्ढत्वनाशनः शूरः खेचरः सिद्धिदः परः ॥ (१९७।२)
ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ ||
पारदः सकलरोगहा स्मृतः षड्रसो निखिलयोगवाहकः । (१९८।१)
pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ |
पञ्चभूतमय एष कीर्तितस्तेन तद्गुणगणैर्विराजते ॥ (१९८।२)
pañcabhūtamaya eṣa kīrtitastena tadguṇagaṇairvirājate ||
रसेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम् ॥ (१९९।२)
rasendro hanti taṃ rogaṃ narakuñjaravājinām ||
दरद:: शोधनमेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् । (२००।१)
darada:: śodhanameṣīkṣīreṇa daradamamlavargaiśca bhāvitam |
सप्तवारान्प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ (२००।२)
saptavārānprayatnena śuddhimāyāti niścitam ||
दरद:: शुद्ध:: मेदिच्। प्रोपेर्तिएस्तिक्तं कषायं कटु हिङ्गुलं स्यान्नेत्रामयघ्नं कफपित्तहारि । (२०१।१)
darada:: śuddha:: medic. propertiestiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri |
हृल्लासकण्डूज्वरकामलांश्च प्लीहामवातौ च गरं निहन्ति ॥ (२०१।२)
hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti ||
हिङ्गुलाकृष्टनिम्बूरसनिम्बपत्ररसैर् वा याममात्रकम् । (२०२।१)
hiṅgulākṛṣṭanimbūrasanimbapatrarasair vā yāmamātrakam |
घृष्ट्वा दरदमूर्ध्वं तु पातयेत्सूतयुक्तिवत् ॥ (२०२।२)
ghṛṣṭvā daradamūrdhvaṃ tu pātayetsūtayuktivat ||
तत्रोर्ध्वपिठरीलग्नं गृह्णीयाद्रसमुत्तमम् । (२०३।१)
tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam |
शुद्धमेव हि तं सूतं सर्वकर्मसु योजयेत् ॥ (२०३।२)
śuddhameva hi taṃ sūtaṃ sarvakarmasu yojayet ||
सुल्ड़ुर्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसशुद्धो गन्धकः कुर्यात्कुष्ठं पित्तरुजां भ्रमम् । (२०४।१)
sulfur:: aśuddha:: medic. propertiesaśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam |
हन्ति वीर्य्यं बलं रूपं तस्माच्छुद्धः प्रयुज्यते ॥ (२०४।२)
hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate ||
सुल्ड़ुर्:: शोधनलोहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत् । (२०५।१)
sulfur:: śodhanalohapātre vinikṣipya ghṛtamagnau pratāpayet |
तप्ते घृते तत्समानं क्षिपेद्गन्धकजं रजः ॥ (२०५।२)
tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ ||
विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे विनिक्षिपेत् । (२०६।१)
vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet |
यथा वस्त्राद् विनिःस्रुत्य दुग्धमध्येऽखिलं पतेत् । (२०६।२)
yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet |
एवं स गन्धकः शुद्धः सर्वकर्मोचितो भवेत् ॥ (२०६।३)
evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet ||
शुद्धगन्धगुणाःगन्धकः कटुकस्तिक्तो वीर्योष्णस्तुवरः सरः ॥ (२०७।०)
śuddhagandhaguṇāḥgandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ ||
पित्तलः कटुकः पाके कण्डूवीसर्पजन्तुजित् । (२०८।१)
pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit |
हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनः ॥ (२०८।२)
hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ ||
अभ्र:: अशुद्ध:: मेदिच्। प्रोपेर्तिएस्पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदं च कुर्यात् । (२०९।१)
abhra:: aśuddha:: medic. propertiespīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt |
हृत्पार्श्वपीडां च करोत्यसह्याम् अशुद्धम् अभ्रं गुरु वह्निहृत्स्यात् ॥ (२०९।२)
hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt ||
अभ्र:: शोधनकृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत् । (२१०।१)
abhra:: śodhanakṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet |
भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर् द्रवैः । (२१०।२)
bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ |
अभ्र:: मारणकृत्वा धान्याभ्रकं तच्च शोषयित्वाथ मर्दयेत् । (२११।१)
abhra:: māraṇakṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet |
अर्कक्षीरौदनं खल्वे चक्राकारं च कारयेत् ॥ (२११।२)
arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet ||
वेष्टयेद् अर्कपत्रैश्च सम्यग्गजपुटे पचेत् । (२१२।१)
veṣṭayed arkapatraiśca samyaggajapuṭe pacet |
पुनर् मर्द्यं पुनः पाच्यं सप्तवारान्पुनः पुनः ॥ (२१२।२)
punar mardyaṃ punaḥ pācyaṃ saptavārānpunaḥ punaḥ ||
ततो वटजटाक्वाथैस्तद्वद् देयं पुटत्रयम् । (२१३।१)
tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam |
म्रियते नात्र संदेहः प्रयोज्यं सर्वकर्मसु ॥ (२१३।२)
mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu ||
तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत् । (२१४।१)
tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet |
घृते जीर्णे तदभ्रं तु सर्वयोगेषु योजयेत् ॥ (२१४।२)
ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet ||
धान्याभ्रकरणपादांशशालिसंयुक्तमभ्रं बद्ध्वाथ कम्बले । (२१५।१)
dhānyābhrakaraṇapādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale |
त्रिरात्रं स्थापयेन्नीरे तत्क्लिन्नं मर्दयेत्करैः ॥ (२१५।२)
trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ ||
कम्बलाद्गलितं सूक्ष्मं वालुकारहितं च यत् । (२१६।१)
kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat |
तद्धान्याभ्रमिति प्रोक्तम् अभ्रमारणसिद्धये ॥ (२१६।२)
taddhānyābhramiti proktam abhramāraṇasiddhaye ||
मारिताभ्रगुणाःअभ्रं कषायं मधुरं सुशीतमायुष्करं धातुविवर्द्धनं च । (२१७।१)
māritābhraguṇāḥabhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca |
हन्यात्त्रिदोषं व्रणमेहकुष्ठं प्लीहोदरं ग्रन्थिविषक्रिमींश्च ॥ (२१७।२)
hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca ||
रोगान् हन्ति द्रढयति वपुर्वीर्यवृद्धिं विधत्ते तारुण्याढ्यं रमयति शतं योषितां नित्यमेव । (२१८।१)
rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva |
दीर्घायुष्काञ्जनयति सुतान् सिंहतुल्यप्रभावान्मृत्योर् भीतिं हरति सुतरां सेव्यमानं मृताभ्रम् ॥ (२१८।२)
dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram ||
हरिताल:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसशुद्धं तालमायुर्हृत्कफमारुतमेहकृत् । (२१९।१)
haritāla:: aśuddha:: medic. propertiesaśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt |
तापस्फोटाङ्गसंकोचं कुरुते तेन शोधयेत् ॥ (२१९।२)
tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet ||
हरिताल:: शोधनतालकं कणशः कृत्वा तच्चूर्णं काञ्जिके पचेत् । (२२०।१)
haritāla:: śodhanatālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet |
दोलायन्त्रेण मासैकं ततः कूष्माण्डजद्रवैः ॥ (२२०।२)
dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ ||
एवं यन्त्रे चतुर्यामं पक्वं शुध्यति तालकम् ॥ (२२१।२)
evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam ||
हरिताल:: मारणसदलं तालकं शुद्धं पौनर्नवरसेन तु । (२२२।१)
haritāla:: māraṇasadalaṃ tālakaṃ śuddhaṃ paunarnavarasena tu |
खल्वे विमर्दयेदेकं दिनं पश्चाद्विशोधयेत् ॥ (२२२।२)
khalve vimardayedekaṃ dinaṃ paścādviśodhayet ||
ततः पुनर्नवाक्षारैः स्थाल्याम् अर्धं प्रपूरयेत् । (२२३।१)
tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet |
तत्र तद्गोलकं धृत्वा पुनस्तेनैव पूरयेत् ॥ (२२३।२)
tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet ||
आ कण्ठं पिठरं तस्य पिधानं धारयेन्मुखे । (२२४।१)
ā kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe |
स्थालीं चुल्ल्यां समारोप्य क्रमाद्वह्निं विवर्धयेत् ॥ (२२४।२)
sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet ||
दिनान्यन्तरशून्यानि पञ्च वह्निं प्रदापयेत् ॥ (२२५।०)
dinānyantaraśūnyāni pañca vahniṃ pradāpayet ||
एवं तन्म्रियते तालं मात्रा तस्यैकरक्तिका । (२२६।१)
evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā |
हरिताल:: मृत:: मेदिच्। प्रोपेर्तिएस्हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् । (२२७।१)
haritāla:: mṛta:: medic. propertiesharitālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam |
कण्डूकुष्ठास्यरोगास्रकफपित्तकचव्रणान् ॥ (२२७।२)
kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān ||
तालकं हरते रोगान्कुष्ठमृत्युज्वरापहम् । (२२८।१)
tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham |
शोधितं कुरुते कान्तिं वीर्यवृद्धिं तथायुषम् ॥ (२२८।२)
śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam ||
मनःशिलातालकस्यैव भेदोऽस्ति मनोगुप्तैतदन्तरम् । (२२९।१)
manaḥśilātālakasyaiva bhedo'sti manoguptaitadantaram |
हरिताल, मनःशिला:: चोलोउर्तालकं त्वतिपीतं स्याद्भवेद्रक्ता मनःशिला ॥ (२२९।२)
haritāla, manaḥśilā:: colourtālakaṃ tvatipītaṃ syādbhavedraktā manaḥśilā ||
मनःशिला:: अशुद्ध:: मेदिच्। प्रोपेर्तिएस्मनःशिला मन्दबलं करोति जन्तुं ध्रुवं शोधनम् अन्तरेण । (२३०।१)
manaḥśilā:: aśuddha:: medic. propertiesmanaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa |
मलस्य बन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदं च कुर्यात् ॥ (२३०।२)
malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt ||
मनःशिला:: शोधनपचेत् त्र्यहम् अजामूत्रे दोलायन्त्रे मनःशिलाम् । (२३१।१)
manaḥśilā:: śodhanapacet tryaham ajāmūtre dolāyantre manaḥśilām |
भावयेत्सप्तधा पित्तैरजायाः सा विशुध्यति ॥ (२३१।२)
bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati ||
मनःशिला:: शुद्ध:: मेदिच्। प्रोपेर्तिएस्गुर्वी मनःशिला वर्ण्या सरोष्णा लेखनी कटुः । (२३२।१)
manaḥśilā:: śuddha:: medic. propertiesgurvī manaḥśilā varṇyā saroṣṇā lekhanī kaṭuḥ |
तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत् ॥ (२३२।२)
tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut ||
रसक:: शोधननरमूत्रे च गोमूत्रे सप्ताहं रसकं पचेत् । (२३३।१)
rasaka:: śodhananaramūtre ca gomūtre saptāhaṃ rasakaṃ pacet |
दोलायन्त्रेण शुद्धः स्यात्ततः कार्येषु योजयेत् ॥ (२३३।२)
dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet ||
शुद्धखर्परगुणाःखर्परं कटुकं क्षारं कषायं वामकं लघु । (२३४।१)
śuddhakharparaguṇāḥkharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu |
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत् । (२३४।२)
lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt |
विषाश्मकुष्ठकण्डूनां नाशनं परमं मतम् ॥ (२३४।३)
viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam ||
सर्वोपरससाधारणशोधनसूर्यावर्तो वज्रकन्दः कदली देवदालिका । (२३५।१)
sarvoparasasādhāraṇaśodhanasūryāvarto vajrakandaḥ kadalī devadālikā |
शिग्रुः कोशातकी वन्ध्या काकमाची च बालकम् ॥ (२३५।२)
śigruḥ kośātakī vandhyā kākamācī ca bālakam ||
भावयेदम्लवर्गैश्च दिनमेकं प्रयत्नतः ॥ (२३६।२)
bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ ||
ततः पचेच्च तद्द्रावैर्दोलायन्त्रे दिनं सुधीः । (२३७।१)
tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ |
एवं शुध्यन्ति ते सर्वे प्रोक्ता उपरसा हि ये ॥ (२३७।२)
evaṃ śudhyanti te sarve proktā uparasā hi ye ||
उपरस:: शोधनकङ्कुष्ठं गैरिकं शङ्खः कासीसं टङ्कणं तथा । (२३८।१)
uparasa:: śodhanakaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā |
नीलाञ्जनं शुक्तिभेदाः क्षुल्लकाः सवराटकाः ॥ (२३८।२)
nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ ||
जम्बीरवारिणा स्विन्नाः क्षालिताः कोष्णवारिणा । (२३९।१)
jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā |
शुद्धिमायान्त्यमी योज्या भिषग्भिर्योगसिद्धये ॥ (२३९।२)
śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye ||
वज्र:: अशुद्ध:: मेदिच्। प्रोपेर्तिएसशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा । (२४०।१)
vajra:: aśuddha:: medic. propertiesaśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā |
पाण्डुत्वं पङ्गुलत्वं च तस्मात्संशोध्य मारयेत् ॥ (२४०।२)
pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet ||
वज्र:: शोधनकुलत्थकोद्रवक्वाथे दोलायन्त्रे विपाचयेत् । (२४१।१)
vajra:: śodhanakulatthakodravakvāthe dolāyantre vipācayet |
व्याघ्रीकन्दगतं वज्रं त्रिदिनात्तद्विशुध्यति ॥ (२४१।२)
vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati ||
वज्र:: शोधनगृहीत्वाह्नि शुभे वज्रं व्याघ्रीकन्दोदरे क्षिपेत् । (२४२।१)
vajra:: śodhanagṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet |
महिषीविष्ठया लिप्त्वा कारीषाग्नौ विपाचयेत् ॥ (२४२।२)
mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet ||
त्रियामायां चतुर्यामं यामिन्यन्तेऽश्वमूत्रके । (२४३।१)
triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake |
वज्र:: मारणहिङ्गुसैन्धवसंयुक्ते क्षिपेत्क्वाथे कुलत्थजे । (२४४।१)
vajra:: māraṇahiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje |
तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा ॥ (२४४।२)
taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā ||
वज्र:: मारणमेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठाम्लवेतसान् ॥ (२४५।०)
vajra:: māraṇameṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān ||
शशदन्तं समं पिष्ट्वा वज्रीक्षीरेण गोलकम् । (२४६।१)
śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam |
कृत्वा तन्मध्यगं वज्रं म्रियते ध्मातमेव हि ॥ (२४६।२)
kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi ||
वज्र:: मृत:: मेदिच्। प्रोपेर्तिएसायुः पुष्टिं बलं वीर्यं वर्णं सौख्यं करोति च । (२४७।१)
vajra:: mṛta:: medic. propertiesāyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca |
सेवितं सर्वरोगघ्नं मृतं वज्रं न संशयः ॥ (२४७।२)
sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ ||
रत्न:: शोधनवज्रवत् सर्वरत्नानि शोधयेन्मारयेत्तथा । (२४८।१)
ratna:: śodhanavajravat sarvaratnāni śodhayenmārayettathā |
शुद्धमणिगुणाःशुद्धानां मारितानां च तेषां शृणु गुणानपि ॥ (२४८।२)
śuddhamaṇiguṇāḥśuddhānāṃ māritānāṃ ca teṣāṃ śṛṇu guṇānapi ||
धारणात्ते तु मङ्गल्या ग्रहदृष्टिहरा अपि ॥ (२४९।३)
dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api ||
वत्सनाभस्वरूपसिन्धुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा । (२५०।१)
vatsanābhasvarūpasindhuvārasadṛkpatro vatsanābhyākṛtistathā |
यत्पार्श्वे न तरोर्वृद्धिर्वत्सनाभः स भाषितः ॥ (२५०।२)
yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ ||
वत्सनाभ:: शोधनगोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुध्यति । (२५१।१)
vatsanābha:: śodhanagomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati |
रक्तसर्षपतैलाक्ते तथा धार्यं च वाससि ॥ (२५१।२)
raktasarṣapatailākte tathā dhāryaṃ ca vāsasi ||
ये गुणा गरले प्रोक्तास्ते स्युर्हीना विशोधनात् । (२५२।१)
ye guṇā garale proktāste syurhīnā viśodhanāt |
तस्माद्विषं प्रयोगे तु शोधयित्वा प्रयोजयेत् ॥ (२५२।२)
tasmādviṣaṃ prayoge tu śodhayitvā prayojayet ||
वत्सनाभ:: मेदिच्। प्रोपेर्तिएस्विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च । (२५३।१)
vatsanābha:: medic. propertiesviṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca |
तदेव युक्तियुक्तं तु प्राणदायि रसायनम् । (२५४।१)
tadeva yuktiyuktaṃ tu prāṇadāyi rasāyanam |
योगवाहि परं वातश्लेष्मजित्सन्निपातहृत् ॥ (२५४।२)
yogavāhi paraṃ vātaśleṣmajitsannipātahṛt ||
उपविषनिरूपणमर्कक्षीरं स्नुहीक्षीरं लांगली करवीरकः । (२५५।१)
upaviṣanirūpaṇamarkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ |
एइन्ड़्लुस्स् देर् लगेरुन्ग्स्दौएर् औड़् दिए क़ुअलित्¦त्गुणहीनं भवेद्वर्षाद् ऊर्ध्वं तद्रूपमौषधम् । (२५६।१)
Einfluss der Lagerungsdauer auf die Qualit¦tguṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham |
मासद्वयात्तथा चूर्णं लभते हीनवीर्यताम् ॥ (२५६।२)
māsadvayāttathā cūrṇaṃ labhate hīnavīryatām ||
हीनाः स्युर् घृततैलाद्याश् चतुर्मासाधिकास् तथा ॥ (२५७।२)
hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā ||
घृतमब्दात् परं पक्वं हीनवीर्यत्वम् आप्नुयात् । (२५८।१)
ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt |
तैलं पक्वमपक्वं च चिरस्थायि गुणाधिकम् ॥ (२५८।२)
tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam ||
ओषध्यो लघुपाकाः स्युर्निर्वीर्या वत्सरात्परम् । (२५९।१)
oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam |
पुराणाः स्युर्गुणैर् युक्ता आसवो धातवो रसाः ॥ (२५९।२)
purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ ||
Data courtesy of The Digital Corpus of Sanskrit.