हरिभक्तिविलासHaribhaktivilāsa

HBhVil, 2

2 of 5 · 580 verses

Select a line for its word-by-word analysis.

1.1१.१

तं श्रीमत्कृष्णचैतन्यं वन्दे जगद्गुरुम् । (१।१)

taṃ śrīmatkṛṣṇacaitanyaṃ vande jagadgurum |

1.2१.२

यस्यानुकम्पया श्वापि महाब्धिं संतरेत् सुखम् ॥ (१।२)

yasyānukampayā śvāpi mahābdhiṃ saṃtaret sukham ||

2.1२.१

अथ दीक्षाविधिः । (२।१)

atha dīkṣāvidhiḥ |

2.2२.२

दीक्षाविधिर् लिख्यतेऽत्रानुसृत्य क्रमदीपिकाम् । (२।२)

dīkṣāvidhir likhyate'trānusṛtya kramadīpikām |

2.3२.३

विना दीक्षां हि पूजायां नाधिकारो ऽस्ति कर्हिचित् ॥ (२।३)

vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit ||

3.1३.१

आगमे । (३।१)

āgame |

3.2३.२

द्विजानाम् अनुपेतानां स्वकर्माध्ययनादिषु । (३।२)

dvijānām anupetānāṃ svakarmādhyayanādiṣu |

3.3३.३

यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ॥ (३।३)

yathādhikāro nāstīha syāc copanayanād anu ||

4.1४.१

तथात्रादीक्षितानां तु मन्त्रदेवार्चनादिषु । (४।१)

tathātrādīkṣitānāṃ tu mantradevārcanādiṣu |

4.2४.२

नाधिकारो ऽस्त्य् अतः कुर्याद् आत्मानं शिवसंस्तुतम् ॥ (४।२)

nādhikāro 'sty ataḥ kuryād ātmānaṃ śivasaṃstutam ||

5.1५.१

स्कान्दे कार्त्तिकप्रसङ्गे श्रीब्रह्मनारदसंवादे । (५।१)

skānde kārttikaprasaṅge śrībrahmanāradasaṃvāde |

5.2५.२

ते नराः पशवो लोके किं तेषां जीवने फलम् । (५।२)

te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam |

5.3५.३

यैर् न लब्धा हरेर् दीक्षा नार्चितो वा जनार्दनः ॥ (५।३)

yair na labdhā harer dīkṣā nārcito vā janārdanaḥ ||

6.1६.१

तत्रैव श्रीरुक्माङ्गदमोहिनीसंवादे विष्णुयामले च । (६।१)

tatraiva śrīrukmāṅgadamohinīsaṃvāde viṣṇuyāmale ca |

6.2६.२

अदीक्षितस्य वामोरु कृतं सर्वं निरर्थकम् । (६।२)

adīkṣitasya vāmoru kṛtaṃ sarvaṃ nirarthakam |

6.3६.३

पशुयोनिम् अवाप्नोति दीक्षाविरहितो जनः ॥ (६।३)

paśuyonim avāpnoti dīkṣāvirahito janaḥ ||

7.1७.१

विशेषतो विष्णुयामले । (७।१)

viśeṣato viṣṇuyāmale |

7.2७.२

स्नेहाद् वा लोभतो वापि यो गृह्णीयाद् अदीक्षया । (७।२)

snehād vā lobhato vāpi yo gṛhṇīyād adīkṣayā |

7.3७.३

तस्मिन् गुरौ सशिष्ये तु देवताशाप आपतेत् ॥ (७।३)

tasmin gurau saśiṣye tu devatāśāpa āpatet ||

8.1८.१

विष्णुरहस्ये च । (८।१)

viṣṇurahasye ca |

8.2८.२

अविज्ञाय विधानोक्तं हरिपूजाविधिक्रियाम् । (८।२)

avijñāya vidhānoktaṃ haripūjāvidhikriyām |

8.3८.३

कुर्वन् भक्त्या समाप्नोति शतभागं विधानतः ॥ (८।३)

kurvan bhaktyā samāpnoti śatabhāgaṃ vidhānataḥ ||

9.1९.१

दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य सङ्क्षयम् । (९।१)

divyaṃ jñānaṃ yato dadyāt kuryāt pāpasya saṅkṣayam |

9.2९.२

तस्माद् दीक्षेति सा प्रोक्ता देशिकैस् तत्त्वकोविदैः ॥ (९।२)

tasmād dīkṣeti sā proktā deśikais tattvakovidaiḥ ||

10.1१०.१

अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च । (१०।१)

ato guruṃ praṇamyaivaṃ sarvasvaṃ vinivedya ca |

10.2१०.२

गृह्णीयाद् वैष्णवं मन्त्रं दीक्षापूर्वं विधानतः ॥ (१०।२)

gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣāpūrvaṃ vidhānataḥ ||

11.1११.१

स्कान्दे तत्रैव श्रीब्रह्मनारदसंवादे । (११।१)

skānde tatraiva śrībrahmanāradasaṃvāde |

11.2११.२

तपस्विनः कर्मनिष्ठाः श्रेष्ठास् ते वै नरा भुवि । (११।२)

tapasvinaḥ karmaniṣṭhāḥ śreṣṭhās te vai narā bhuvi |

11.3११.३

प्राप्ता यैस् तु हरेर् दीक्षा सर्वदुःखविमोचिनी ॥ (११।३)

prāptā yais tu harer dīkṣā sarvaduḥkhavimocinī ||

12.1१२.१

तन्त्रसागरे च । (१२।१)

tantrasāgare ca |

12.2१२.२

यथा काञ्चनतां याति कांस्यं रसविधानतः । (१२।२)

yathā kāñcanatāṃ yāti kāṃsyaṃ rasavidhānataḥ |

12.3१२.३

तथा दीक्षाविधानेन द्विजत्वं जायते नृणाम् ॥ (१२।३)

tathā dīkṣāvidhānena dvijatvaṃ jāyate nṛṇām ||

13.1१३.१

अथ दीक्षाकालः तत्र मासशुद्धिःआगमे । (१३।१)

atha dīkṣākālaḥ tatra māsaśuddhiḥāgame |

13.2१३.२

मन्त्रस्वीकरणं चैत्रे बहुदुःखफलप्रदम् । (१३।२)

mantrasvīkaraṇaṃ caitre bahuduḥkhaphalapradam |

13.3१३.३

वैशाखे रत्नलाभः स्याज् ज्यैष्ठे तु मरणं ध्रुवम् ॥ (१३।३)

vaiśākhe ratnalābhaḥ syāj jyaiṣṭhe tu maraṇaṃ dhruvam ||

14.1१४.१

आषाढे बन्धुनाशाय श्रावणे तु भयावहम् । (१४।१)

āṣāḍhe bandhunāśāya śrāvaṇe tu bhayāvaham |

14.2१४.२

प्रजाहानिर् भाद्रपदे सर्वत्र शुभम् आश्विने ॥ (१४।२)

prajāhānir bhādrapade sarvatra śubham āśvine ||

15.1१५.१

कार्त्तिके धनवृद्धिः स्यान् मार्गशीर्षे शुभप्रदम् । (१५।१)

kārttike dhanavṛddhiḥ syān mārgaśīrṣe śubhapradam |

15.2१५.२

पौषे तु ज्ञानहानिः स्यान् माघे मेधाविवर्धनम् । (१५।२)

pauṣe tu jñānahāniḥ syān māghe medhāvivardhanam |

15.3१५.३

फाल्गुने सर्ववश्यत्वम् आचार्यैः परिकीर्तितम् ॥ (१५।३)

phālgune sarvavaśyatvam ācāryaiḥ parikīrtitam ||

16.1१६.१

क्वचिच्च । (१६।१)

kvacicca |

16.2१६.२

समृद्धिः श्रावणे नूनं ज्ञानं स्यात् कार्त्तिके तथा । (१६।२)

samṛddhiḥ śrāvaṇe nūnaṃ jñānaṃ syāt kārttike tathā |

16.3१६.३

फाल्गुनेऽपि समृद्धिः स्यान् मलमासं परित्यजेत् ॥ (१६।३)

phālgune'pi samṛddhiḥ syān malamāsaṃ parityajet ||

17.1१७.१

गौतमीये । (१७।१)

gautamīye |

17.2१७.२

मन्त्रारम्भस् तु चैत्रे स्यात् समस्तपुरुषार्थदः । (१७।२)

mantrārambhas tu caitre syāt samastapuruṣārthadaḥ |

17.3१७.३

वैशाखे रत्नलाभः स्यात् ज्यैष्ठे तु मरणं ध्रुवम् ॥ (१७।३)

vaiśākhe ratnalābhaḥ syāt jyaiṣṭhe tu maraṇaṃ dhruvam ||

18.1१८.१

आषाढे बन्धुनाशः स्यात् पूर्णायुः श्रावणे भवेत् । (१८।१)

āṣāḍhe bandhunāśaḥ syāt pūrṇāyuḥ śrāvaṇe bhavet |

18.2१८.२

प्रजानाशो भवेद् भाद्रे आश्विने रत्नसञ्चयः ॥ (१८।२)

prajānāśo bhaved bhādre āśvine ratnasañcayaḥ ||

19.1१९.१

कार्त्तिके मन्त्रसिद्धिः स्यात् मार्गशीर्षे तथा भवेत् । (१९।१)

kārttike mantrasiddhiḥ syāt mārgaśīrṣe tathā bhavet |

19.2१९.२

पौषे तु शत्रुपीडा स्यात् माघे मेधाविवर्धनम् । (१९।२)

pauṣe tu śatrupīḍā syāt māghe medhāvivardhanam |

19.3१९.३

फाल्गुने सर्वकामाः स्युर् मलमासं परित्यजेत् ॥ (१९।३)

phālgune sarvakāmāḥ syur malamāsaṃ parityajet ||

20.1२०.१

स्कान्दे तत्रैव श्रीरुक्माङ्गदमोहिनीसंवादे । (२०।१)

skānde tatraiva śrīrukmāṅgadamohinīsaṃvāde |

20.2२०.२

कार्त्तिके तु कृता दीक्षा नॄणां जन्मनिकृन्तनी । (२०।२)

kārttike tu kṛtā dīkṣā nṝṇāṃ janmanikṛntanī |

20.3२०.३

तस्मात् सर्वप्रयत्नेन दीक्षां कुर्वीत कार्त्तिके ॥ (२०।३)

tasmāt sarvaprayatnena dīkṣāṃ kurvīta kārttike ||

21.1२१.१

श्रीमद्गोपालमन्त्राणां दीक्षायां तु न दुष्यति । (२१।१)

śrīmadgopālamantrāṇāṃ dīkṣāyāṃ tu na duṣyati |

21.2२१.२

चैत्रमासे यद् उक्ता तद् दीक्षा तत्रैव देशिकैः ॥ (२१।२)

caitramāse yad uktā tad dīkṣā tatraiva deśikaiḥ ||

22.1२२.१

अथ बारशुद्धिःरवौ गुरौ तथा सोमे कर्तव्यं बुधशुक्रयोः ॥ (२२।१)

atha bāraśuddhiḥravau gurau tathā some kartavyaṃ budhaśukrayoḥ ||

23.1२३.१

अथ नक्षत्रशुद्धिःनारदतन्त्रे । (२३।१)

atha nakṣatraśuddhiḥnāradatantre |

23.2२३.२

रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरात्रयः । (२३।२)

rohiṇī śravaṇārdrā ca dhaniṣṭhā cottarātrayaḥ |

23.3२३.३

पुष्यं शतभिषश् चैव दीक्षानक्षत्रम् उच्यते ॥ (२३।३)

puṣyaṃ śatabhiṣaś caiva dīkṣānakṣatram ucyate ||

24.1२४.१

क्वचिच्च । (२४।१)

kvacicca |

24.2२४.२

अश्विनीरोहिणीस्वातिविशाखाहस्तभेषु च । (२४।२)

aśvinīrohiṇīsvātiviśākhāhastabheṣu ca |

24.3२४.३

ज्येष्ठोत्तरात्रयेष्व् एव कुर्यान् मन्त्राभिषेचनम् ॥ (२४।३)

jyeṣṭhottarātrayeṣv eva kuryān mantrābhiṣecanam ||

25.1२५.१

अथ तिथिशुद्धिःसारसङ्ग्रहे । (२५।१)

atha tithiśuddhiḥsārasaṅgrahe |

25.2२५.२

द्वितीया पञ्चमी चैव षष्ठी चैव विशेषतः । (२५।२)

dvitīyā pañcamī caiva ṣaṣṭhī caiva viśeṣataḥ |

25.3२५.३

द्वादश्याम् अपि कर्तव्यं त्रयोदश्याम् अथापि च ॥ (२५।३)

dvādaśyām api kartavyaṃ trayodaśyām athāpi ca ||

26.1२६.१

क्वचिच् च । (२६।१)

kvacic ca |

26.2२६.२

पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा । (२६।२)

pūrṇimā pañcamī caiva dvitīyā saptamī tathā |

26.3२६.३

त्रयोदशी च दशमी प्रशस्ता सर्वकामदा ॥ (२६।३)

trayodaśī ca daśamī praśastā sarvakāmadā ||

27.1२७.१

एवं शुद्धे दिने शुक्लपक्षे शुक्रगुरूदये । (२७।१)

evaṃ śuddhe dine śuklapakṣe śukragurūdaye |

27.2२७.२

सल्लग्ने चन्द्रतारानुकूले दीक्षा प्रशस्यते ॥ (२७।२)

sallagne candratārānukūle dīkṣā praśasyate ||

28.1२८.१

अथात्रापवादः (विशेषविधिः)रुद्रयामले । (२८।१)

athātrāpavādaḥ (viśeṣavidhiḥ)rudrayāmale |

28.2२८.२

सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः । (२८।२)

sattīrthe'rkavidhugrāse tantudāmanaparvaṇoḥ |

28.3२८.३

मन्त्रदीक्षां प्रकुर्वीत मासर्क्षादि न शोधयेत् ॥ (२८।३)

mantradīkṣāṃ prakurvīta māsarkṣādi na śodhayet ||

29.1२९.१

सुलग्नचन्द्रतारादिबलम् अत्र सदैव हि । (२९।१)

sulagnacandratārādibalam atra sadaiva hi |

29.2२९.२

लब्धो ऽत्र मन्त्रो दीर्घायुःसम्पत्सन्ततिवर्धनः ॥ (२९।२)

labdho 'tra mantro dīrghāyuḥsampatsantativardhanaḥ ||

30.1३०.१

सूर्यग्रहणकालेन समानो नास्ति कश्चन । (३०।१)

sūryagrahaṇakālena samāno nāsti kaścana |

30.2३०.२

यत्र यद् यत् कृतं सर्वम् अनन्तफलदं भवेत् । (३०।२)

yatra yad yat kṛtaṃ sarvam anantaphaladaṃ bhavet |

30.3३०.३

न मासतिथिवारादिशोधनं सूर्यपर्वणि ॥ (३०।३)

na māsatithivārādiśodhanaṃ sūryaparvaṇi ||

31.1३१.१

तत्त्वसागरे च । (३१।१)

tattvasāgare ca |

31.2३१.२

दुर्लभे सद्गुरूणां च सकृत् सङ्ग उपस्थिते । (३१।२)

durlabhe sadgurūṇāṃ ca sakṛt saṅga upasthite |

31.3३१.३

तदनुज्ञा यदा लब्धा स दीक्षावसरो महान् ॥ (३१।३)

tadanujñā yadā labdhā sa dīkṣāvasaro mahān ||

32.1३२.१

ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि । (३२।१)

grāme vā yadi vāraṇye kṣetre vā divase niśi |

32.2३२.२

आगच्छति गुरुर् दैवाद् यदा दीक्षा तदाज्ञया ॥ (३२।२)

āgacchati gurur daivād yadā dīkṣā tadājñayā ||

33.1३३.१

यदैवेच्छा तदा दीक्षा गुरोर् आज्ञानुरूपतः । (३३।१)

yadaivecchā tadā dīkṣā guror ājñānurūpataḥ |

33.2३३.२

न तीर्थं न व्रतं होमो न स्नानं न जपक्रिया । (३३।२)

na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā |

33.3३३.३

दीक्षायाः करणं किन्तु स्वेच्छाप्राप्ते तु सद्गुरौ ॥ (३३।३)

dīkṣāyāḥ karaṇaṃ kintu svecchāprāpte tu sadgurau ||

34.1३४.१

अथ मण्डपनिर्माणविधिःक्रियावत्यादिभेदेन भवेद् दीक्षा चतुर्विधा । (३४।१)

atha maṇḍapanirmāṇavidhiḥkriyāvatyādibhedena bhaved dīkṣā caturvidhā |

34.2३४.२

तत्र क्रियावती दीक्षा सङ्क्षेपेणैव लिख्यते ॥ (३४।२)

tatra kriyāvatī dīkṣā saṅkṣepeṇaiva likhyate ||

35.1३५.१

भूमिं संस्कृत्य तस्यां चार्चयित्वा वास्तुदेवताः । (३५।१)

bhūmiṃ saṃskṛtya tasyāṃ cārcayitvā vāstudevatāḥ |

35.2३५.२

सप्तहस्तमितं कुर्यान् मण्डपं रम्यवेदिकम् ॥ (३५।२)

saptahastamitaṃ kuryān maṇḍapaṃ ramyavedikam ||

36.1३६.१

अष्टध्वजं चतुर्धारं क्षीरपादपतोरणम् । (३६।१)

aṣṭadhvajaṃ caturdhāraṃ kṣīrapādapatoraṇam |

36.2३६.२

त्रिगुणीकृतसूत्राढ्यं कुशमालाभिवेष्टितम् ॥ (३६।२)

triguṇīkṛtasūtrāḍhyaṃ kuśamālābhiveṣṭitam ||

37.1३७.१

अथ कुण्डनिर्माणविधिःतस्मिंश् च दिशि कौवेर्यां चतुष्कोणं त्रिमेखलम् । (३७।१)

atha kuṇḍanirmāṇavidhiḥtasmiṃś ca diśi kauveryāṃ catuṣkoṇaṃ trimekhalam |

37.2३७.२

कुण्डे कुर्याच् चतुर्विंशत्यङ्गुलिप्रमितं बुधः ॥ (३७।२)

kuṇḍe kuryāc caturviṃśatyaṅgulipramitaṃ budhaḥ ||

38.1३८.१

खातं त्रिमेखलोच्छ्रायसहितं तावद् आचरेत् । (३८।१)

khātaṃ trimekhalocchrāyasahitaṃ tāvad ācaret |

38.2३८.२

तस्मात् खाताद् बहिः कुर्यात् कण्ठम् एकाङ्गुलं ध्रुवम् ॥ (३८।२)

tasmāt khātād bahiḥ kuryāt kaṇṭham ekāṅgulaṃ dhruvam ||

39.1३९.१

तत्राद्य्मेखलोच्छ्रायविस्तारौ चतुरङ्गुलौ । (३९।१)

tatrādymekhalocchrāyavistārau caturaṅgulau |

39.2३९.२

त्र्यङ्गुलौ तौ द्वितीयायास् तृतीयाया युगाङ्गुलौ ॥ (३९।२)

tryaṅgulau tau dvitīyāyās tṛtīyāyā yugāṅgulau ||

40.1४०.१

योनिं च पश्चिमे भागे मेखलात्रितयोपरि । (४०।१)

yoniṃ ca paścime bhāge mekhalātritayopari |

40.2४०.२

षडङ्गुलां च विस्तारे दैर्घ्ये च द्वादशाङ्गुलाम् ॥ (४०।२)

ṣaḍaṅgulāṃ ca vistāre dairghye ca dvādaśāṅgulām ||

41.1४१.१

एकाङ्गुलां तथोच्छ्राये मध्ये छिद्रसमन्विताम् । (४१।१)

ekāṅgulāṃ tathocchrāye madhye chidrasamanvitām |

41.2४१.२

गदाधराकृतिं कुर्याद् विधिवन् मेखलान्विताम् ॥ (४१।२)

gadādharākṛtiṃ kuryād vidhivan mekhalānvitām ||

42.1४२.१

शतार्धहोमे कुण्डं स्याद् ऊर्ध्वमुष्टिकरोन्मितम् ॥ (४२।१)

śatārdhahome kuṇḍaṃ syād ūrdhvamuṣṭikaronmitam ||

43.1४३.१

शतहोमेऽरत्निमात्रम् सहस्रे पाणिना मितम् । (४३।१)

śatahome'ratnimātram sahasre pāṇinā mitam |

43.2४३.२

लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् । (४३।२)

lakṣe caturbhir hastaiś ca koṭau tair aṣṭabhir mitam |

43.3४३.३

चतुरस्रं कुण्डखातं कुर्वीताधश् च तादृशम् ॥ (४३।३)

caturasraṃ kuṇḍakhātaṃ kurvītādhaś ca tādṛśam ||

44.1४४.१

होमस् त्व् अधिकसङ्ख्याकः कुण्डे वै न्यूनसङ्ख्यया । (४४।१)

homas tv adhikasaṅkhyākaḥ kuṇḍe vai nyūnasaṅkhyayā |

44.2४४.२

कृते कार्यो न च् अन्यूनसङ्ख्याकः सङ्ख्याधिके ॥ (४४।२)

kṛte kāryo na c anyūnasaṅkhyākaḥ saṅkhyādhike ||

45.1४५.१

यथाविध्य् एव कर्तव्यं कुण्डं यत्नेन धीमता । (४५।१)

yathāvidhy eva kartavyaṃ kuṇḍaṃ yatnena dhīmatā |

45.2४५.२

अन्यथा बहवो दोषा भवेयुर् बहुदुःखदाः ॥ (४५।२)

anyathā bahavo doṣā bhaveyur bahuduḥkhadāḥ ||

46.1४६.१

तद् उक्तं तान्त्रिकैः । (४६।१)

tad uktaṃ tāntrikaiḥ |

46.2४६.२

एवं लक्षणसंयुक्तं कुण्डम् इष्टफलप्रदम् । (४६।२)

evaṃ lakṣaṇasaṃyuktaṃ kuṇḍam iṣṭaphalapradam |

46.3४६.३

अनेकदोषदं कुण्डं यत्र न्यूनाधिकाम् भवेत् ॥ (४६।३)

anekadoṣadaṃ kuṇḍaṃ yatra nyūnādhikām bhavet ||

47.1४७.१

तस्मात् सम्यक् परीक्ष्यैव कर्तव्यं शुभम् इच्छता । (४७।१)

tasmāt samyak parīkṣyaiva kartavyaṃ śubham icchatā |

47.2४७.२

हस्तमात्रं स्थण्डिलं वा संक्षिप्ते होमकर्मणि ॥ (४७।२)

hastamātraṃ sthaṇḍilaṃ vā saṃkṣipte homakarmaṇi ||

48.1४८.१

हारीतेनापि । (४८।१)

hārītenāpi |

48.2४८.२

विस्ताराधिक्यहीनत्वे अल्पायुर् जायते ध्रुवम् । (४८।२)

vistārādhikyahīnatve alpāyur jāyate dhruvam |

48.3४८.३

खाताधिक्ये भवेद् योगी हीने तु धनसंक्षयः । (४८।३)

khātādhikye bhaved yogī hīne tu dhanasaṃkṣayaḥ |

48.4४८.४

कुण्डे वक्रे च सन्तापो मरणं छिन्नमेखले ॥ (४८।४)

kuṇḍe vakre ca santāpo maraṇaṃ chinnamekhale ||

49.1४९.१

शोकस् तु मेखलोनत्वे तदाधिक्ये पशुक्षयः । (४९।१)

śokas tu mekhalonatve tadādhikye paśukṣayaḥ |

49.2४९.२

भार्यानाशो योनिहीने कण्ठहीने शुभक्षयः ॥ (४९।२)

bhāryānāśo yonihīne kaṇṭhahīne śubhakṣayaḥ ||

50.1५०.१

अङ्गुलिपरिमाणं चोक्तम् । (५०।१)

aṅguliparimāṇaṃ coktam |

50.2५०.२

तिर्यग्यवोदराण्यष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः । (५०।२)

tiryagyavodarāṇyaṣṭāv ūrdhvā vā vrīhayas trayaḥ |

50.3५०.३

ज्ञेयम् अङ्गुलिमानं तु मध्यमा मध्यपर्वणा ॥ (५०।३)

jñeyam aṅgulimānaṃ tu madhyamā madhyaparvaṇā ||

51.1५१.१

विशेषो ऽपेक्षितो ऽन्यत्र स्रक्स्रुवप्रक्रियादिकः । (५१।१)

viśeṣo 'pekṣito 'nyatra sraksruvaprakriyādikaḥ |

51.2५१.२

ज्ञेयो ग्रन्थान्तरात् सो ऽत्राधिक्यभीत्या न लिख्यते ॥ (५१।२)

jñeyo granthāntarāt so 'trādhikyabhītyā na likhyate ||

52.1५२.१

अथ दीक्षामण्डलविधिःअथोक्षिते पञ्चगव्यैर् गन्धाम्भोभिश् च मण्डपे । (५२।१)

atha dīkṣāmaṇḍalavidhiḥathokṣite pañcagavyair gandhāmbhobhiś ca maṇḍape |

52.2५२.२

यथाविधि लिखेद् दीक्षामण्डलं वेदिकोपरि ॥ (५२।२)

yathāvidhi likhed dīkṣāmaṇḍalaṃ vedikopari ||

53.1५३.१

तन्मध्ये चाष्टपत्राब्जं बहिर् वृत्तत्रयं ततः । (५३।१)

tanmadhye cāṣṭapatrābjaṃ bahir vṛttatrayaṃ tataḥ |

53.2५३.२

ततो राशींस् ततः पीठं चतुष्पादसमन्वितम् ॥ (५३।२)

tato rāśīṃs tataḥ pīṭhaṃ catuṣpādasamanvitam ||

54.1५४.१

तस्माद् बहिश् चतुर्दिक्षु लिखेद् वीथीचतुष्टयम् । (५४।१)

tasmād bahiś caturdikṣu likhed vīthīcatuṣṭayam |

54.2५४.२

शोभापशोभाकोणाढ्यं ततो द्वारचतुष्टयम् ॥ (५४।२)

śobhāpaśobhākoṇāḍhyaṃ tato dvāracatuṣṭayam ||

55.1५५.१

अथ दीक्षाङ्गपूजाप्रातःकृत्यं गुरुः कृत्वा यथास्थानं न्यसेत् ततः । (५५।१)

atha dīkṣāṅgapūjāprātaḥkṛtyaṃ guruḥ kṛtvā yathāsthānaṃ nyaset tataḥ |

55.2५५.२

शङ्खं पूजोपचारांश् च पुरोलेख्यप्रकारतः ॥ (५५।२)

śaṅkhaṃ pūjopacārāṃś ca purolekhyaprakārataḥ ||

56.1५६.१

तत्रादौ कुम्भस्थापनविधिःगुरून् गणेशं चाभ्यर्च्य पीठपूजां विधाय च । (५६।१)

tatrādau kumbhasthāpanavidhiḥgurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca |

56.2५६.२

पद्ममध्ये न्यसेत् शालींस् तण्डुलांश् च कुशांस् तथा ॥ (५६।२)

padmamadhye nyaset śālīṃs taṇḍulāṃś ca kuśāṃs tathā ||

57.1५७.१

वह्नेर् दशकला यादिवर्णाद्याश् च कुशोपरि । (५७।१)

vahner daśakalā yādivarṇādyāś ca kuśopari |

57.2५७.२

न्यस्याभ्यर्च्य जपंस् तारं न्यसेत् कुम्भं यथोदितम् ॥ (५७।२)

nyasyābhyarcya japaṃs tāraṃ nyaset kumbhaṃ yathoditam ||

58.1५८.१

ताश् चोक्ताः । (५८।१)

tāś coktāḥ |

58.2५८.२

धूम्रार्चिर् उष्मा ज्वलनी ज्वालिनी विस्फुलिङ्गिनी । (५८।२)

dhūmrārcir uṣmā jvalanī jvālinī visphuliṅginī |

58.3५८.३

सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ॥ (५८।३)

suśrīḥ surūpā kapilā havyakavyavahe api ||

59.1५९.१

काद्यष्ठान्तैर् युता भाद्यैर् डान्तैश् चार्णैर् विलोमगैः । (५९।१)

kādyaṣṭhāntair yutā bhādyair ḍāntaiś cārṇair vilomagaiḥ |

59.2५९.२

सूर्यस्य च कलाः कुम्भे द्वादश न्यस्य पूजयेत् ॥ (५९।२)

sūryasya ca kalāḥ kumbhe dvādaśa nyasya pūjayet ||

60.1६०.१

अधुना तस्मिन् कुण्डे सूर्यकलानां न्यासादिकं लिखति काद्यैर् इति । (६०।१)

adhunā tasmin kuṇḍe sūryakalānāṃ nyāsādikaṃ likhati kādyair iti |

60.2६०.२

ककाराद्यैष् ठकारान्तैर् अर्णैर् वर्णैर् युता द्वादशापि कलाः । (६०।२)

kakārādyaiṣ ṭhakārāntair arṇair varṇair yutā dvādaśāpi kalāḥ |

60.3६०.३

चकारः समुच्चये । (६०।३)

cakāraḥ samuccaye |

60.4६०.४

भकाराद्यैर् डकारान्तैर् वर्णैर् अपि युताः । (६०।४)

bhakārādyair ḍakārāntair varṇair api yutāḥ |

60.5६०.५

ननु भकारादीनां द्वादशवर्णानां डकारान्तता कथं स्यात् क्रमेण क्षकारान्तताप्राप्तेस् तत्राहविलोमगैः व्युत्क्रमप्राप्तैः । (६०।५)

nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ |

60.6६०.६

अयम् अर्थः अनुलोमपठितककाराद्यैकैकम् अक्षरं प्रतिलोमपठितभकाराद्येकैकाक्षरेण सहितम् आदौ सूर्यकलासु संयोज्य न्यासादिकं कुर्याद् इति । (६०।६)

ayam arthaḥ anulomapaṭhitakakārādyaikaikam akṣaraṃ pratilomapaṭhitabhakārādyekaikākṣareṇa sahitam ādau sūryakalāsu saṃyojya nyāsādikaṃ kuryād iti |

60.7६०.७

प्रयोगश् च कं भं तपन्यै नम इत्यादि ॥ (६०।७)

prayogaś ca kaṃ bhaṃ tapanyai nama ityādi ||

61.1६१.१

ताश् चोक्ताः । (६१।१)

tāś coktāḥ |

61.2६१.२

तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः । (६१।२)

tapanī tāpanī dhūmrā bhrāmarī jvālinī ruciḥ |

61.3६१.३

सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ (६१।३)

suṣumṇā bhogadā viśvā bodhinī dhāriṇī kṣamā ||

62.1६२.१

कुम्भान्तर् निक्षिपेन् मूलमन्त्रेण कुसुमं सितम् । (६२।१)

kumbhāntar nikṣipen mūlamantreṇa kusumaṃ sitam |

62.2६२.२

साक्षतं ससितं स्वर्णं सरत्नं च कुशांस् तथा ॥ (६२।२)

sākṣataṃ sasitaṃ svarṇaṃ saratnaṃ ca kuśāṃs tathā ||

63.1६३.१

ततश् चोक्तप्रकारेणाधाररूपम् अग्निं कुम्भरूपं सूर्यं च विचिन्त्य कुम्भस्य तस्य अन्तर् मध्ये शुक्लकुसुमादिकं क्षिपेत् । (६३।१)

tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet |

63.2६३.२

ससितं सशर्करम् । (६३।२)

sasitaṃ saśarkaram |

63.3६३.३

तद् उक्तम् । (६३।३)

tad uktam |

63.4६३.४

प्रोत्तोलयित्वा तन्मध्ये शुक्लपुष्पं सितायुतम् । (६३।४)

prottolayitvā tanmadhye śuklapuṣpaṃ sitāyutam |

63.5६३.५

स्वर्णं रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥ (६३।५)

svarṇaṃ ratnaṃ ca kūrcaṃ ca mūlenaiva vinikṣipet ||

64.1६४.१

यच् च मूलग्रन्थार्थाद् अधिकं किंचिल् लिखते तत् पूर्वगतस्य यथोदितम् इत्य् अस्यानुवर्तनाद् इति ज्ञेयम् ॥ (६४।१)

yac ca mūlagranthārthād adhikaṃ kiṃcil likhate tat pūrvagatasya yathoditam ity asyānuvartanād iti jñeyam ||

65.1६५.१

कुम्भं च विधिना तीर्थाम्बुना शुद्धेन पूरयेत् । (६५।१)

kumbhaṃ ca vidhinā tīrthāmbunā śuddhena pūrayet |

65.2६५.२

जले चेन्दुकुला न्यस्य सस्वराः षोडशार्चयेत् ॥ (६५।२)

jale cendukulā nyasya sasvarāḥ ṣoḍaśārcayet ||

66.1६६.१

ताश् चोक्ताः । (६६।१)

tāś coktāḥ |

66.2६६.२

अमृता मानदा पूषा तुष्टिः पुष्टी रतिर् धृतिः । (६६।२)

amṛtā mānadā pūṣā tuṣṭiḥ puṣṭī ratir dhṛtiḥ |

66.3६६.३

शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्गदा । (६६।३)

śaśinī candrikā kāntir jyotsnā śrīḥ prītir aṅgadā |

66.4६६.४

पूर्णा पूर्णामृता च ॥ (६६।४)

pūrṇā pūrṇāmṛtā ca ||

67.1६७.१

शुद्धाम्बुपूरिते शङ्खे क्षिप्त्वा गन्धाष्टकं कलाः । (६७।१)

śuddhāmbupūrite śaṅkhe kṣiptvā gandhāṣṭakaṃ kalāḥ |

67.2६७.२

आवाह्य सर्वास् ताः प्राणप्रतिष्ठाम् आचरेत् क्रमात् ॥ (६७।२)

āvāhya sarvās tāḥ prāṇapratiṣṭhām ācaret kramāt ||

68.1६८.१

गन्धाष्टकं चोक्तम् । (६८।१)

gandhāṣṭakaṃ coktam |

68.2६८.२

उशीरं कुङ्कुमं कुष्ठं बालकं चागुरुर् मुरा । (६८।२)

uśīraṃ kuṅkumaṃ kuṣṭhaṃ bālakaṃ cāgurur murā |

68.3६८.३

जटामांसी चन्दनं चेतीष्टं गन्धाष्टकं हरेः ॥ (६८।३)

jaṭāmāṃsī candanaṃ cetīṣṭaṃ gandhāṣṭakaṃ hareḥ ||

69.1६९.१

कैश्चिच् चन्दनकर्पूरागुरुकुङ्कुमरोचनाः । (६९।१)

kaiścic candanakarpūrāgurukuṅkumarocanāḥ |

69.2६९.२

कक्कोलकपिमांस्यश् च गन्धाष्टकम् इदं मतम् ॥ (६९।२)

kakkolakapimāṃsyaś ca gandhāṣṭakam idaṃ matam ||

70.1७०.१

तथैवाकारजा वर्णैः कादिभिर् दशभिर् दश । (७०।१)

tathaivākārajā varṇaiḥ kādibhir daśabhir daśa |

70.2७०.२

उकारजाष्टकाराद्यैः पकाराद्यैर् मकारजाः ॥ (७०।२)

ukārajāṣṭakārādyaiḥ pakārādyair makārajāḥ ||

71.1७१.१

चतस्रो बिन्दुजाः षाद्यैश् चतुर्भिर् नादजाः कलाः । (७१।१)

catasro bindujāḥ ṣādyaiś caturbhir nādajāḥ kalāḥ |

71.2७१.२

स्वरैः षोडशभिर् युक्ता न्यसेच्छङ्खे च षोडश ॥ (७१।२)

svaraiḥ ṣoḍaśabhir yuktā nyasecchaṅkhe ca ṣoḍaśa ||

72.1७२.१

ताश् चोक्ताः । (७२।१)

tāś coktāḥ |

72.2७२.२

सृष्टिर् ऋद्धिः स्मृतिर् मेधा कान्तिर् लक्ष्मीर् धृतिः स्थिरा । (७२।२)

sṛṣṭir ṛddhiḥ smṛtir medhā kāntir lakṣmīr dhṛtiḥ sthirā |

72.3७२.३

स्थितिः सिद्धिर् अकारोत्थाः कला दश समीरितः ॥ (७२।३)

sthitiḥ siddhir akārotthāḥ kalā daśa samīritaḥ ||

73.1७३.१

जरा च पालिनी शान्तिर् ऐश्वरी रतिकामिके । (७३।१)

jarā ca pālinī śāntir aiśvarī ratikāmike |

73.2७३.२

वरदा ह्लादिनी प्रीतिर् दीर्घा चोकारजाः कलाः ॥ (७३।२)

varadā hlādinī prītir dīrghā cokārajāḥ kalāḥ ||

74.1७४.१

तीक्ष्णा रौद्रा भया निद्रा तन्तीः क्षुत् क्रोधनी क्रिया । (७४।१)

tīkṣṇā raudrā bhayā nidrā tantīḥ kṣut krodhanī kriyā |

74.2७४.२

उत्कारी चैव मृत्युश् च मकाराक्षरजाः कलाः ॥ (७४।२)

utkārī caiva mṛtyuś ca makārākṣarajāḥ kalāḥ ||

75.1७५.१

निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च । (७५।१)

nivṛttiś ca pratiṣṭhā ca vidyā śāntis tathaiva ca |

75.2७५.२

इन्धिका दीपिका चैव रेचिका मोचिका परा ॥ (७५।२)

indhikā dīpikā caiva recikā mocikā parā ||

76.1७६.१

सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्य् आयनी तथा । (७६।१)

sūkṣmā sūkṣmāmṛtā jñānājñānā cāpy āyanī tathā |

76.2७६.२

व्यापिनी व्योमरूपा च अनन्ता नादसम्भवाः ॥ (७६।२)

vyāpinī vyomarūpā ca anantā nādasambhavāḥ ||

77.1७७.१

न्यासं कलानां सर्वासां कुर्याद् एकैकशः क्रमात् । (७७।१)

nyāsaṃ kalānāṃ sarvāsāṃ kuryād ekaikaśaḥ kramāt |

77.2७७.२

नामोच्चार्य चतुर्थान्तं तत्तद्वर्णैर् नमोऽन्तकम् ॥ (७७।२)

nāmoccārya caturthāntaṃ tattadvarṇair namo'ntakam ||

78.1७८.१

पूर्वं प्राणप्रतिष्ठायास् तासाम् आवाहनात् परम् । (७८।१)

pūrvaṃ prāṇapratiṣṭhāyās tāsām āvāhanāt param |

78.2७८.२

ऋचः पञ्च यथास्थानं पठेत् ताश् चार्चयेत् कलाः ॥ (७८।२)

ṛcaḥ pañca yathāsthānaṃ paṭhet tāś cārcayet kalāḥ ||

79.1७९.१

हंशः शुचिषद् इत्यादौ प्रतद् विष्णुस् ततः परम् । (७९।१)

haṃśaḥ śuciṣad ityādau pratad viṣṇus tataḥ param |

79.2७९.२

त्र्यम्बकं तत् सवितुर् विष्णुर् योनिम् इति क्रमात् ॥ (७९।२)

tryambakaṃ tat savitur viṣṇur yonim iti kramāt ||

80.1८०.१

तच् च शङ्खोदकं कुम्भे मूलमन्त्रेण निक्षिपेत् । (८०।१)

tac ca śaṅkhodakaṃ kumbhe mūlamantreṇa nikṣipet |

80.2८०.२

पिदध्यात् तन्मुखं शक्रवल्लीचूतादिपल्लवैः ॥ (८०।२)

pidadhyāt tanmukhaṃ śakravallīcūtādipallavaiḥ ||

81.1८१.१

शरावेनाथ पुष्पादियुक्तेनाच्छाद्य तत् पुनः । (८१।१)

śarāvenātha puṣpādiyuktenācchādya tat punaḥ |

81.2८१.२

संवेष्ट्य वस्त्रयुग्मेन ततः कुम्भं च मण्डयेत् ॥ (८१।२)

saṃveṣṭya vastrayugmena tataḥ kumbhaṃ ca maṇḍayet ||

82.1८२.१

अथ कुम्भे श्रीभगवत्पूजाविधिःतस्मिन्न् आवाह्य कलसे परं तेजो यथाविधि । (८२।१)

atha kumbhe śrībhagavatpūjāvidhiḥtasminn āvāhya kalase paraṃ tejo yathāvidhi |

82.2८२.२

सकलीकृत्य चाचार्यः पूजयेद् आसनादिभिः ॥ (८२।२)

sakalīkṛtya cācāryaḥ pūjayed āsanādibhiḥ ||

83.1८३.१

सकलीकरणं चोक्तम् । (८३।१)

sakalīkaraṇaṃ coktam |

83.2८३.२

देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः ॥ (८३।२)

devatāṅge ṣaḍaṅgānāṃ nyāsaḥ syāt sakalīkṛtiḥ ||

84.1८४.१

केचिच् चाहुः करन्यासौ विनाखिलैः । (८४।१)

kecic cāhuḥ karanyāsau vinākhilaiḥ |

84.2८४.२

न्यासैस् तत्तेजसः साङ्गीकरणं सकलीकृतः ॥ (८४।२)

nyāsais tattejasaḥ sāṅgīkaraṇaṃ sakalīkṛtaḥ ||

85.1८५.१

एवं च कुम्भे तं साङ्गोपाङ्गं सावरणं प्रभुम् । (८५।१)

evaṃ ca kumbhe taṃ sāṅgopāṅgaṃ sāvaraṇaṃ prabhum |

85.2८५.२

अग्रतो लेख्यविधिनार्चयेद् भोज्यार्पणावधि ॥ (८५।२)

agrato lekhyavidhinārcayed bhojyārpaṇāvadhi ||

86.1८६.१

नैवेद्यार्पणतः पश्चान् मण्डलस्य च सर्वतः । (८६।१)

naivedyārpaṇataḥ paścān maṇḍalasya ca sarvataḥ |

86.2८६.२

सदीपान् पैष्टिकान् न्यस्येत् सबीजाङ्कुरभाजनात् ॥ (८६।२)

sadīpān paiṣṭikān nyasyet sabījāṅkurabhājanāt ||

87.1८७.१

अथ दीक्षाहोमविधिःततो दीक्षाङ्गहोमार्थं कुण्डलस्य च सर्वतः । (८७।१)

atha dīkṣāhomavidhiḥtato dīkṣāṅgahomārthaṃ kuṇḍalasya ca sarvataḥ |

87.2८७.२

संमार्ज्य दर्भमार्जन्या यथाविध्य् उपलेपयेत् ॥ (८७।२)

saṃmārjya darbhamārjanyā yathāvidhy upalepayet ||

88.1८८.१

विकीर्य सर्षपांस् तत्र गव्यैः सम्प्रोक्ष्य पञ्चभिः । (८८।१)

vikīrya sarṣapāṃs tatra gavyaiḥ samprokṣya pañcabhiḥ |

88.2८८.२

मध्ये सम्पूजयेद् वास्तुपुरुषं दिक्षु तत्पतीन् ॥ (८८।२)

madhye sampūjayed vāstupuruṣaṃ dikṣu tatpatīn ||

89.1८९.१

शोषणादीनि कुण्डस्य कृत्वा प्रोक्ष्य कुशाम्बुभिः । (८९।१)

śoṣaṇādīni kuṇḍasya kṛtvā prokṣya kuśāmbubhiḥ |

89.2८९.२

उल्लिख्य चास्मिन् योन्यादिसहितं मण्डलं लिखेत् ॥ (८९।२)

ullikhya cāsmin yonyādisahitaṃ maṇḍalaṃ likhet ||

90.1९०.१

श्रीबीजं मध्ययोनौ च विलिख्याभ्युक्ष्य पूजयेत् । (९०।१)

śrībījaṃ madhyayonau ca vilikhyābhyukṣya pūjayet |

90.2९०.२

निधाय तत्र पुष्पादिविष्टरं साधु कल्पयेत् ॥ (९०।२)

nidhāya tatra puṣpādiviṣṭaraṃ sādhu kalpayet ||

91.1९१.१

तत्र लक्ष्मीमृत्युस्नानां विष्णुं चावाह्य पूजयेत् । (९१।१)

tatra lakṣmīmṛtyusnānāṃ viṣṇuṃ cāvāhya pūjayet |

91.2९१.२

ताम्रादिपात्रेणानीयाग्रतो ऽग्निं स्थापयेच्छुभ्रम् ॥ (९१।२)

tāmrādipātreṇānīyāgrato 'gniṃ sthāpayecchubhram ||

92.1९२.१

गन्धादिनाग्निम् अभ्यर्च्य विष्णोः सक्रीडतः श्रिया । (९२।१)

gandhādināgnim abhyarcya viṣṇoḥ sakrīḍataḥ śriyā |

92.2९२.२

रेतोरूपं विचिन्त्यामुं कुण्डं तारेण चार्चयेत् ॥ (९२।२)

retorūpaṃ vicintyāmuṃ kuṇḍaṃ tāreṇa cārcayet ||

93.1९३.१

वैश्वानरेति मन्त्रेणाच्छाद्याग्निं तं सदिन्धनैः । (९३।१)

vaiśvānareti mantreṇācchādyāgniṃ taṃ sadindhanaiḥ |

93.2९३.२

चित्पिङ्गलेति प्रज्वाल्योपतिष्ठेद् अग्निम् इत्य् अमुम् ॥ (९३।२)

citpiṅgaleti prajvālyopatiṣṭhed agnim ity amum ||

94.1९४.१

जिह्वा न्यस्येत् सप्त तस्मिन्न् अप्य् अङ्गेष्व् अङ्गदेवताः । (९४।१)

jihvā nyasyet sapta tasminn apy aṅgeṣv aṅgadevatāḥ |

94.2९४.२

षट्सु षट् न्यस्य मूर्तीश् च न्यस्याष्टाभ्यर्चयेच् च ताः ॥ (९४।२)

ṣaṭsu ṣaṭ nyasya mūrtīś ca nyasyāṣṭābhyarcayec ca tāḥ ||

95.1९५.१

सप्तजिह्वाश् चोक्ताः । (९५।१)

saptajihvāś coktāḥ |

95.2९५.२

हिरण्या गगना रक्ता तथा कृष्णा च सुप्रभा । (९५।२)

hiraṇyā gaganā raktā tathā kṛṣṇā ca suprabhā |

95.3९५.३

बहुरूपातिरूपा च सप्त जिह्वा वसोर् इमाः ॥ (९५।३)

bahurūpātirūpā ca sapta jihvā vasor imāḥ ||

96.1९६.१

अथाङ्गदेवताःसहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषस् तथा । (९६।१)

athāṅgadevatāḥsahasrārciḥ svastipūrṇa uttiṣṭhapuruṣas tathā |

96.2९६.२

धूमव्यापी सप्तजिह्वो धनुर्धर इति स्मृतः ॥ (९६।२)

dhūmavyāpī saptajihvo dhanurdhara iti smṛtaḥ ||

97.1९७.१

अष्टमूर्तयश् चजातवेदाः सप्तजिह्वो हव्यवाहन एव च । (९७।१)

aṣṭamūrtayaś cajātavedāḥ saptajihvo havyavāhana eva ca |

97.2९७.२

अश्वोदरजसंज्ञश् च तथा वैश्वानरो ऽपरः । (९७।२)

aśvodarajasaṃjñaś ca tathā vaiśvānaro 'paraḥ |

97.3९७.३

कौमारतेजाश् च तथा विश्वदेवमुखाह्वयौ ॥ (९७।३)

kaumāratejāś ca tathā viśvadevamukhāhvayau ||

98.1९८.१

ततो वह्निं परिस्तीर्य संस्कृताज्यं यथाविधि । (९८।१)

tato vahniṃ paristīrya saṃskṛtājyaṃ yathāvidhi |

98.2९८.२

हुत्वा च व्याहृतीः पश्चात् त्रीन् वारान् जुहुयात् पुनः ॥ (९८।२)

hutvā ca vyāhṛtīḥ paścāt trīn vārān juhuyāt punaḥ ||

99.1९९.१

ततो ऽस्य गर्भधानादीन् विव्हान्तान् यथाक्रमम् । (९९।१)

tato 'sya garbhadhānādīn vivhāntān yathākramam |

99.2९९.२

संस्कारान् आचरेद् उक्तमन्त्रेणाष्टाहुतैस् तथा ॥ (९९।२)

saṃskārān ācared uktamantreṇāṣṭāhutais tathā ||

100.1१००.१

इत्थं हि संस्कृते वह्नौ पीठम् अभ्यर्च्य तत्र च । (१००।१)

itthaṃ hi saṃskṛte vahnau pīṭham abhyarcya tatra ca |

100.2१००.२

देवम् आवाह्य गन्धादिदीपान्तविधिनार्चयेत् ॥ (१००।२)

devam āvāhya gandhādidīpāntavidhinārcayet ||

101.1१०१.१

तं चाग्निं देवरसनां संकल्प्याष्टोत्तरं बुधः । (१०१।१)

taṃ cāgniṃ devarasanāṃ saṃkalpyāṣṭottaraṃ budhaḥ |

101.2१०१.२

सहस्रं जुहुयात् सर्पिःशर्करापायसैर् युतैः ॥ (१०१।२)

sahasraṃ juhuyāt sarpiḥśarkarāpāyasair yutaiḥ ||

102.1१०२.१

हुत्वाज्येनाथ महतीव्याहृतीर् विधिना कृती । (१०२।१)

hutvājyenātha mahatīvyāhṛtīr vidhinā kṛtī |

102.2१०२.२

ग्रहर्क्षकरणादिभ्यो बलिं दद्याद् यथोदितम् ॥ (१०२।२)

graharkṣakaraṇādibhyo baliṃ dadyād yathoditam ||

103.1१०३.१

अथ होमद्रव्यादिपरिमाणम्कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् । (१०३।१)

atha homadravyādiparimāṇamkarṣamātraṃ ghṛtaṃ home śuktimātraṃ payaḥ smṛtam |

103.2१०३.२

उक्तानि पञ्चगव्यानि तत्समानि मनीषिभिः ॥ (१०३।२)

uktāni pañcagavyāni tatsamāni manīṣibhiḥ ||

104.1१०४.१

तत्समं मधुदुग्धान्नम् अक्षमात्रम् उदाहृतम् । (१०४।१)

tatsamaṃ madhudugdhānnam akṣamātram udāhṛtam |

104.2१०४.२

दधि प्रसृतिमात्रं स्यात् लाजाः स्युः मुष्टिसंमिताः ॥ (१०४।२)

dadhi prasṛtimātraṃ syāt lājāḥ syuḥ muṣṭisaṃmitāḥ ||

105.1१०५.१

अथ नत्वाम्बुपानार्थं प्रदायाचमनानि च । (१०५।१)

atha natvāmbupānārthaṃ pradāyācamanāni ca |

105.2१०५.२

आत्मार्पणान्तम् अभ्यर्च्य लेख्येन विधिनाचरेत् ॥ (१०५।२)

ātmārpaṇāntam abhyarcya lekhyena vidhinācaret ||

106.1१०६.१

अथ गुरुशिष्यनियमादिःव्रतस्थं वाग्यतं शिष्यं प्रवेश्याथ यथाविधि । (१०६।१)

atha guruśiṣyaniyamādiḥvratasthaṃ vāgyataṃ śiṣyaṃ praveśyātha yathāvidhi |

106.2१०६.२

तद्देहे मातृकां साङ्गां न्यस्याथोपदिशेच् च ताम् ॥ (१०६।२)

taddehe mātṛkāṃ sāṅgāṃ nyasyāthopadiśec ca tām ||

107.1१०७.१

देवं सावरणं कुम्भगतं चानुस्मरन् गुरुः । (१०७।१)

devaṃ sāvaraṇaṃ kumbhagataṃ cānusmaran guruḥ |

107.2१०७.२

जप्त्वाष्टोत्तरसाहस्रं शयीत प्राश्य किंचन ॥ (१०७।२)

japtvāṣṭottarasāhasraṃ śayīta prāśya kiṃcana ||

108.1१०८.१

दर्भोपर्यजिने त्वैणे निविष्टो मातृकां स्मरन् । (१०८।१)

darbhoparyajine tvaiṇe niviṣṭo mātṛkāṃ smaran |

108.2१०८.२

गुरुं च शिष्यो निद्राणं तां शयीत जपन् व्रती ॥ (१०८।२)

guruṃ ca śiṣyo nidrāṇaṃ tāṃ śayīta japan vratī ||

109.1१०९.१

इति पूर्वदिनकृत्यम् अथ तद्दिनकृत्यानिप्रातःकृत्यं गुरुः कृत्वा कुम्भं चाभ्यर्च्य पूर्ववत् । (१०९।१)

iti pūrvadinakṛtyam atha taddinakṛtyāniprātaḥkṛtyaṃ guruḥ kṛtvā kumbhaṃ cābhyarcya pūrvavat |

109.2१०९.२

हुत्वा दत्त्वा बलिं कर्मान्यत् कुर्यात् स्वार्पणावधि ॥ (१०९।२)

hutvā dattvā baliṃ karmānyat kuryāt svārpaṇāvadhi ||

110.1११०.१

संहारमुद्रया कृष्णे संयोज्यावृत्तिदेवताः । (११०।१)

saṃhāramudrayā kṛṣṇe saṃyojyāvṛttidevatāḥ |

110.2११०.२

तम् चामृतमयं ध्यात्वा स्वस्मिंश् चाग्निं विलापयेत् ॥ (११०।२)

tam cāmṛtamayaṃ dhyātvā svasmiṃś cāgniṃ vilāpayet ||

111.1१११.१

ध्वजतोरणदिक्कुम्भमण्डपाद्यधिदेवताः । (१११।१)

dhvajatoraṇadikkumbhamaṇḍapādyadhidevatāḥ |

111.2१११.२

सर्वा विभाव्य चिद्रूपाः कुम्भे संयोज्य पूजयेत् ॥ (१११।२)

sarvā vibhāvya cidrūpāḥ kumbhe saṃyojya pūjayet ||

112.1११२.१

अतो गुरुं गणेशं च विष्वक्सेनं च पूजयेत् । (११२।१)

ato guruṃ gaṇeśaṃ ca viṣvaksenaṃ ca pūjayet |

112.2११२.२

उद्वास्य कलसं स्पृष्ट्वा शतम् अष्टोत्तरं जपेत् ॥ (११२।२)

udvāsya kalasaṃ spṛṣṭvā śatam aṣṭottaraṃ japet ||

113.1११३.१

कृतोपवासः शिष्यो ऽथत् प्रातःकृत्यं विधाय सः । (११३।१)

kṛtopavāsaḥ śiṣyo 'that prātaḥkṛtyaṃ vidhāya saḥ |

113.2११३.२

शुक्लवस्त्रः सुवेशः सन् विप्रान् द्रव्येण तोषयेत् ॥ (११३।२)

śuklavastraḥ suveśaḥ san viprān dravyeṇa toṣayet ||

114.1११४.१

गुरुं च भगवद्दृष्ट्या परिक्रम्य प्रणम्य च । (११४।१)

guruṃ ca bhagavaddṛṣṭyā parikramya praṇamya ca |

114.2११४.२

दत्त्वोक्तां दक्षिणां तस्मै स्वशरीरं समर्पयेत् ॥ (११४।२)

dattvoktāṃ dakṣiṇāṃ tasmai svaśarīraṃ samarpayet ||

115.1११५.१

अथ दीक्षाङ्गपूजातथा च दशमस्कन्धे । (११५।१)

atha dīkṣāṅgapūjātathā ca daśamaskandhe |

115.2११५.२

इयद् एव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् । (११५।२)

iyad eva hi sacchiṣyaiḥ kartavyaṃ guruniṣkṛtam |

115.3११५.३

यद् वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ (११५।३)

yad vai viśuddhabhāvena sarvārthātmārpaṇaṃ gurau ||

116.1११६.१

अथाभिषेचनविधिःयागालयाद् उत्तरस्याम् आशायां स्नानमण्डपे । (११६।१)

athābhiṣecanavidhiḥyāgālayād uttarasyām āśāyāṃ snānamaṇḍape |

116.2११६.२

पीठे निवेश्य तं शिष्यं कारयेच्छोषणादिकम् ॥ (११६।२)

pīṭhe niveśya taṃ śiṣyaṃ kārayecchoṣaṇādikam ||

117.1११७.१

पीठन्यासान्तम् अखिलं मातृकान्यासपूर्वकम् । (११७।१)

pīṭhanyāsāntam akhilaṃ mātṛkānyāsapūrvakam |

117.2११७.२

न्यासं शिष्यतनौ कृत्वा पीठमन्त्रेण पूजयेत् ॥ (११७।२)

nyāsaṃ śiṣyatanau kṛtvā pīṭhamantreṇa pūjayet ||

118.1११८.१

सदूर्वाक्षतपुष्पां च मूर्ध्नि शिष्यस्य रोचनाम् । (११८।१)

sadūrvākṣatapuṣpāṃ ca mūrdhni śiṣyasya rocanām |

118.2११८.२

निधाय कलसं तस्यान्तिके वाद्यादिना नयेत् ॥ (११८।२)

nidhāya kalasaṃ tasyāntike vādyādinā nayet ||

119.1११९.१

श्रीकृष्णम् अथ संप्रार्थ्य गुरुः कुम्भस्य वाससा । (११९।१)

śrīkṛṣṇam atha saṃprārthya guruḥ kumbhasya vāsasā |

119.2११९.२

नीराज्य शिष्यं तन्मूर्ध्नि न्यसेत् तत्पल्लवादिकम् ॥ (११९।२)

nīrājya śiṣyaṃ tanmūrdhni nyaset tatpallavādikam ||

120.1१२०.१

तद् उक्तम् । (१२०।१)

tad uktam |

120.2१२०.२

विधिवत् कुम्भम् उद्धृत्य तन्मुखस्थान् सुरद्रुमान् । (१२०।२)

vidhivat kumbham uddhṛtya tanmukhasthān suradrumān |

120.3१२०.३

शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ॥ (१२०।३)

śiśoḥ śirasi vinyasya mātṛkāṃ manasā japet ||

121.1१२१.१

ततः कुम्भाम्भसा शिष्यं प्रोक्ष्य त्रिर् मूलमन्त्रतः । (१२१।१)

tataḥ kumbhāmbhasā śiṣyaṃ prokṣya trir mūlamantrataḥ |

121.2१२१.२

विप्राशीर् मङ्गलोद्घोषैर् अभिषिञ्चेन् मनून् पठन् ॥ (१२१।२)

viprāśīr maṅgalodghoṣair abhiṣiñcen manūn paṭhan ||

122.1१२२.१

अथाभिषेकमन्त्राःवशिष्ठसंहितायाम् । (१२२।१)

athābhiṣekamantrāḥvaśiṣṭhasaṃhitāyām |

122.2१२२.२

सुरास् त्वाम् अभिषिञ्च्यं तु ब्रह्मविष्णुमहेश्वराः । (१२२।२)

surās tvām abhiṣiñcyaṃ tu brahmaviṣṇumaheśvarāḥ |

122.3१२२.३

वासुदेवो जगन्नाथस् तथा सङ्कर्षणो विभुः ॥ (१२२।३)

vāsudevo jagannāthas tathā saṅkarṣaṇo vibhuḥ ||

123.1१२३.१

प्रद्युम्नश् चानिरुद्धश् च भवन्तु विभवाय ते । (१२३।१)

pradyumnaś cāniruddhaś ca bhavantu vibhavāya te |

123.2१२३.२

आखण्डलो ऽग्निर् भगवान् यमो वै निरृतिस् तथा ॥ (१२३।२)

ākhaṇḍalo 'gnir bhagavān yamo vai nirṛtis tathā ||

124.1१२४.१

वरुणः पवनश् चैव धनाध्यक्षस् तथा शिवः । (१२४।१)

varuṇaḥ pavanaś caiva dhanādhyakṣas tathā śivaḥ |

124.2१२४.२

ब्रह्मणा सहिता ह्य् एते दिक्पालाः पान्तु वः सदा ॥ (१२४।२)

brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā ||

125.1१२५.१

कीर्तिर् लक्ष्मीर् धृतिर् मेधा पुष्टिः श्रद्धा क्रिया गतिः । (१२५।१)

kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā gatiḥ |

125.2१२५.२

बुद्धिर् लज्जा वपुः शान्तिर् माया निद्रा च भावना ॥ (१२५।२)

buddhir lajjā vapuḥ śāntir māyā nidrā ca bhāvanā ||

126.1१२६.१

एतास् त्वाम् अभिषिञ्चन्तु राहुः केतुश् च पूजिताः । (१२६।१)

etās tvām abhiṣiñcantu rāhuḥ ketuś ca pūjitāḥ |

126.2१२६.२

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ (१२६।२)

devadānavagandharvā yakṣarākṣasapannagāḥ ||

127.1१२७.१

ऋषयो मुनयो गावो देवमातर एव च । (१२७।१)

ṛṣayo munayo gāvo devamātara eva ca |

127.2१२७.२

देवपत्न्यो ध्रुवा नागा दैत्या अप्सरसां गणाः ॥ (१२७।२)

devapatnyo dhruvā nāgā daityā apsarasāṃ gaṇāḥ ||

128.1१२८.१

अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । (१२८।१)

astrāṇi sarvaśastrāṇi rājāno vāhanāni ca |

128.2१२८.२

औषधानि च रत्नानि कालस्यावयवाश् च ये ॥ (१२८।२)

auṣadhāni ca ratnāni kālasyāvayavāś ca ye ||

129.1१२९.१

सरितः सागराः शैलास् तीर्थानि जलदा नदाः । (१२९।१)

saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ |

129.2१२९.२

एते त्वाम् अभिषिञ्चन्तु धर्मकामार्थसिद्धये ॥ (१२९।२)

ete tvām abhiṣiñcantu dharmakāmārthasiddhaye ||

130.1१३०.१

परिधायांशुके शिष्य आचान्तो यागमण्डपे । (१३०।१)

paridhāyāṃśuke śiṣya ācānto yāgamaṇḍape |

130.2१३०.२

गत्वा भक्त्या गुरुं नत्वा गुरोर् आसीत दक्षिणे ॥ (१३०।२)

gatvā bhaktyā guruṃ natvā guror āsīta dakṣiṇe ||

131.1१३१.१

गुरुः समर्प्य गन्धादीन् पुरुषाहारसंमितम् । (१३१।१)

guruḥ samarpya gandhādīn puruṣāhārasaṃmitam |

131.2१३१.२

निवेद्य पायसं कृष्णे कुर्यात् पुष्पाञ्जलिं ततः ॥ (१३१।२)

nivedya pāyasaṃ kṛṣṇe kuryāt puṣpāñjaliṃ tataḥ ||

132.1१३२.१

साम्प्रदायिकमुद्रादिभूषितं तं कृताञ्जलिम् । (१३२।१)

sāmpradāyikamudrādibhūṣitaṃ taṃ kṛtāñjalim |

132.2१३२.२

पञ्चाङ्गप्रमुखैर् न्यासैः कुर्यात् श्रीकृष्णसाच्छिशुम् ॥ (१३२।२)

pañcāṅgapramukhair nyāsaiḥ kuryāt śrīkṛṣṇasācchiśum ||

133.1१३३.१

न्यस्य पाणितलं मूर्ध्नि तस्य कर्णे च दक्षिणे । (१३३।१)

nyasya pāṇitalaṃ mūrdhni tasya karṇe ca dakṣiṇe |

133.2१३३.२

ऋष्यादियुक्तं विधिवन् मन्त्रं वारत्रयं वदेत् ॥ (१३३।२)

ṛṣyādiyuktaṃ vidhivan mantraṃ vāratrayaṃ vadet ||

134.1१३४.१

दीर्घमन्त्रं च शिष्यस्य यावद् आग्रहणं पठेत् । (१३४।१)

dīrghamantraṃ ca śiṣyasya yāvad āgrahaṇaṃ paṭhet |

134.2१३४.२

गुरुदैवतमन्त्रैक्यं शिष्यस् तं भावयन् पठेत् ॥ (१३४।२)

gurudaivatamantraikyaṃ śiṣyas taṃ bhāvayan paṭhet ||

135.1१३५.१

साक्षतं गुरुर् आदाय वारि शिष्यस्य दक्षिणे । (१३५।१)

sākṣataṃ gurur ādāya vāri śiṣyasya dakṣiṇe |

135.2१३५.२

करेऽर्पयेद् वदन् मन्त्रो ऽयं समो ऽस्त्व् आवयोर् इति ॥ (१३५।२)

kare'rpayed vadan mantro 'yaṃ samo 'stv āvayor iti ||

136.1१३६.१

स्वस्माज् ज्योतिर्मयीं विद्यां गच्छन्तीं भावयेद् गुरुः । (१३६।१)

svasmāj jyotirmayīṃ vidyāṃ gacchantīṃ bhāvayed guruḥ |

136.2१३६.२

आगतां भावयेच्छिष्यो धन्यो ऽस्मीति विशेषतः ॥ (१३६।२)

āgatāṃ bhāvayecchiṣyo dhanyo 'smīti viśeṣataḥ ||

137.1१३७.१

महाप्रसादं शिष्याय दत्त्वा तत्पायसं गुरुः । (१३७।१)

mahāprasādaṃ śiṣyāya dattvā tatpāyasaṃ guruḥ |

137.2१३७.२

निदध्याद् अक्षतान् मूर्ध्नि तस्य यच्छन् शुभाशिषम् ॥ (१३७।२)

nidadhyād akṣatān mūrdhni tasya yacchan śubhāśiṣam ||

138.1१३८.१

गुरुणा कृपया दत्तं शिष्यश् चावाप्य तं मनुम् । (१३८।१)

guruṇā kṛpayā dattaṃ śiṣyaś cāvāpya taṃ manum |

138.2१३८.२

अष्टोत्तरशतं जप्त्वा समयान् शृणुयात् ततः ॥ (१३८।२)

aṣṭottaraśataṃ japtvā samayān śṛṇuyāt tataḥ ||

139.1१३९.१

अथ समयाःश्रीनारदपञ्चरात्रे । (१३९।१)

atha samayāḥśrīnāradapañcarātre |

139.2१३९.२

स्वमन्त्रो नोपदेष्टव्यो वक्तव्यश् च न संसदि । (१३९।२)

svamantro nopadeṣṭavyo vaktavyaś ca na saṃsadi |

139.3१३९.३

गोपनीयं तथा शास्त्रं रक्षणीयं शरीरवत् ॥ (१३९।३)

gopanīyaṃ tathā śāstraṃ rakṣaṇīyaṃ śarīravat ||

140.1१४०.१

वैष्णवानां परा भक्तिर् आचार्याणां विशेषतः । (१४०।१)

vaiṣṇavānāṃ parā bhaktir ācāryāṇāṃ viśeṣataḥ |

140.2१४०.२

पूजनं च यथाशक्ति तान् आपन्नांश् च पालयेत् ॥ (१४०।२)

pūjanaṃ ca yathāśakti tān āpannāṃś ca pālayet ||

141.1१४१.१

प्राप्तम् आयतनाद् विष्णोः शिरसां प्रणतो वहेत् । (१४१।१)

prāptam āyatanād viṣṇoḥ śirasāṃ praṇato vahet |

141.2१४१.२

निक्षिपेद् अम्भसि ततो न पतेद् अवनौ यथा ॥ (१४१।२)

nikṣiped ambhasi tato na pated avanau yathā ||

142.1१४२.१

सोमसूर्यान्तरस्थं च गवाश्वत्थाग्निमध्यगम् । (१४२।१)

somasūryāntarasthaṃ ca gavāśvatthāgnimadhyagam |

142.2१४२.२

भावयेद् दैवतं विष्णुं गुरुविप्रशरीरगम् ॥ (१४२।२)

bhāvayed daivataṃ viṣṇuṃ guruvipraśarīragam ||

143.1१४३.१

यत्र यत्र परिवादो मात्सर्याच्छ्रूयते गुरोः । (१४३।१)

yatra yatra parivādo mātsaryācchrūyate guroḥ |

143.2१४३.२

तत्र तत्र न वस्तव्यं निर्यायात् संस्मरन् हरिम् ॥ (१४३।२)

tatra tatra na vastavyaṃ niryāyāt saṃsmaran harim ||

144.1१४४.१

यैः कृता च गुरोर् निन्दा विभोः शास्त्रस्य नारद । (१४४।१)

yaiḥ kṛtā ca guror nindā vibhoḥ śāstrasya nārada |

144.2१४४.२

नापि तैः सह वस्तव्यं वक्तव्यं वा कथञ्चन ॥ (१४४।२)

nāpi taiḥ saha vastavyaṃ vaktavyaṃ vā kathañcana ||

145.1१४५.१

प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः । (१४५।१)

pradakṣiṇe prayāṇe ca pradāne ca viśeṣataḥ |

145.2१४५.२

प्रभाते च प्रवासे च स्वमन्त्रं बहुशः स्मरेत् ॥ (१४५।२)

prabhāte ca pravāse ca svamantraṃ bahuśaḥ smaret ||

146.1१४६.१

स्वप्ने वाक्षिसमक्षं वा आश्चर्यम् अतिहर्षदम् । (१४६।१)

svapne vākṣisamakṣaṃ vā āścaryam atiharṣadam |

146.2१४६.२

अकस्माद् यदि जायेत न ख्यातव्यं गुरोर् विना ॥ (१४६।२)

akasmād yadi jāyeta na khyātavyaṃ guror vinā ||

147.1१४७.१

पञ्चरात्रान्तरे । (१४७।१)

pañcarātrāntare |

147.2१४७.२

समयांश् च प्रवक्ष्यामि संक्षेपात् पञ्चरात्रकात् । (१४७।२)

samayāṃś ca pravakṣyāmi saṃkṣepāt pañcarātrakāt |

147.3१४७.३

न भक्षयेन् मत्स्यमांसं कूर्मशूकरकांस् तथा ॥ (१४७।३)

na bhakṣayen matsyamāṃsaṃ kūrmaśūkarakāṃs tathā ||

148.1१४८.१

कांस्यपात्रे न भुञ्जीत न प्लक्षवटपत्रयोः । (१४८।१)

kāṃsyapātre na bhuñjīta na plakṣavaṭapatrayoḥ |

148.2१४८.२

देवागारे न निष्ठीवेत् क्षुतं चात्र विवर्जयेत् । (१४८।२)

devāgāre na niṣṭhīvet kṣutaṃ cātra vivarjayet |

148.3१४८.३

न सोपानत्कचरणः प्रविशेद् अन्तरं क्वचित् ॥ (१४८।३)

na sopānatkacaraṇaḥ praviśed antaraṃ kvacit ||

149.1१४९.१

एकादश्यां न चाश्नीयात् पक्षयोर् उभयोर् अपि । (१४९।१)

ekādaśyāṃ na cāśnīyāt pakṣayor ubhayor api |

149.2१४९.२

जागरं निशि कुर्वीत विशेषाच् चार्चयेद् विभुम् ॥ (१४९।२)

jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum ||

150.1१५०.१

सम्मोहनतन्त्रे च । (१५०।१)

sammohanatantre ca |

150.2१५०.२

गोपयेद् देवताम् इष्टां गोपयेद् गुरुम् आत्मनः । (१५०।२)

gopayed devatām iṣṭāṃ gopayed gurum ātmanaḥ |

150.3१५०.३

गोपयेच् च निजं मन्त्रं गोपयेन् निजमालिकाम् ॥ (१५०।३)

gopayec ca nijaṃ mantraṃ gopayen nijamālikām ||

151.1१५१.१

चतुर्युक्शतसङ्ख्येषु प्राग् गुरोः समयेषु च । (१५१।१)

caturyukśatasaṅkhyeṣu prāg guroḥ samayeṣu ca |

151.2१५१.२

शिष्येणाङ्गीकृतेष्व् एव दीक्षा कैश्चन मन्यते ॥ (१५१।२)

śiṣyeṇāṅgīkṛteṣv eva dīkṣā kaiścana manyate ||

152.1१५२.१

तथा च विष्णुयामले । (१५२।१)

tathā ca viṣṇuyāmale |

152.2१५२.२

गुरुः परीक्षयेच्छिष्यं संवत्सरम् अतन्द्रितः । (१५२।२)

guruḥ parīkṣayecchiṣyaṃ saṃvatsaram atandritaḥ |

152.3१५२.३

नियमान् विहितान् वर्ज्यान् श्रावयेच् च चतुःशतम् ॥ (१५२।३)

niyamān vihitān varjyān śrāvayec ca catuḥśatam ||

153.1१५३.१

ब्राह्मे मुहूर्त उत्थानं महाविष्णोः प्रबोधनम् । (१५३।१)

brāhme muhūrta utthānaṃ mahāviṣṇoḥ prabodhanam |

153.2१५३.२

नीराजनं च वाद्येन प्रातःस्नानं विधानतः ॥ (१५३।२)

nīrājanaṃ ca vādyena prātaḥsnānaṃ vidhānataḥ ||

154.1१५४.१

विशुद्धाहतयुग्वस्त्रधारणं देवतार्चनम् । (१५४।१)

viśuddhāhatayugvastradhāraṇaṃ devatārcanam |

154.2१५४.२

गोपीचन्दनमृत्स्नायाः सर्वदा चोर्द्ध्वपुण्ड्रकम् ॥ (१५४।२)

gopīcandanamṛtsnāyāḥ sarvadā corddhvapuṇḍrakam ||

155.1१५५.१

पञ्चायुधानां विधृतिश् चरणामृतसेवनम् । (१५५।१)

pañcāyudhānāṃ vidhṛtiś caraṇāmṛtasevanam |

155.2१५५.२

तुलसीमणिमालादिभूषाधारणम् अन्वहम् ॥ (१५५।२)

tulasīmaṇimālādibhūṣādhāraṇam anvaham ||

156.1१५६.१

शालग्रामशिलापूजा प्रतिमासु च भक्तितः । (१५६।१)

śālagrāmaśilāpūjā pratimāsu ca bhaktitaḥ |

156.2१५६.२

निर्माल्यतुलसीभक्षस् तुलस्यवचयो विधेः ॥ (१५६।२)

nirmālyatulasībhakṣas tulasyavacayo vidheḥ ||

157.1१५७.१

विधिना तान्त्रिकी सन्ध्या शिखाबन्धो हि कर्मणि । (१५७।१)

vidhinā tāntrikī sandhyā śikhābandho hi karmaṇi |

157.2१५७.२

विष्णुपादोदकेनैव पितॄणां तर्पणक्रिया । (१५७।२)

viṣṇupādodakenaiva pitṝṇāṃ tarpaṇakriyā |

157.3१५७.३

महाराजोपचारैश् च शक्त्यां सम्पूजनं हरेः ॥ (१५७।३)

mahārājopacāraiś ca śaktyāṃ sampūjanaṃ hareḥ ||

158.1१५८.१

विष्णुभक्त्यविरोधेन नित्यनैमित्तिकी क्रिया । (१५८।१)

viṣṇubhaktyavirodhena nityanaimittikī kriyā |

158.2१५८.२

भूतशुद्ध्यादिकरणं न्यासाः सर्वे यथाविधि ॥ (१५८।२)

bhūtaśuddhyādikaraṇaṃ nyāsāḥ sarve yathāvidhi ||

159.1१५९.१

नवीनफलपुष्पादेर् भक्तितः संनिवेदनम् । (१५९।१)

navīnaphalapuṣpāder bhaktitaḥ saṃnivedanam |

159.2१५९.२

तुलसीपूजनं नित्यं श्रीभागवतपूजनम् ॥ (१५९।२)

tulasīpūjanaṃ nityaṃ śrībhāgavatapūjanam ||

160.1१६०.१

त्रिकालं विष्णुपूजा च पुराणश्रुतिर् अन्वहम् । (१६०।१)

trikālaṃ viṣṇupūjā ca purāṇaśrutir anvaham |

160.2१६०.२

विष्णोर् निवेदितानां वै वस्त्रादीनां च धारणम् ॥ (१६०।२)

viṣṇor niveditānāṃ vai vastrādīnāṃ ca dhāraṇam ||

161.1१६१.१

सर्वेषां पुण्यकार्याणां स्वामिदृष्ट्या प्रवर्तनम् । (१६१।१)

sarveṣāṃ puṇyakāryāṇāṃ svāmidṛṣṭyā pravartanam |

161.2१६१.२

गुर्वाज्ञाग्रहणं तत्र विश्वासो गुरुणोदिते ॥ (१६१।२)

gurvājñāgrahaṇaṃ tatra viśvāso guruṇodite ||

162.1१६२.१

यथास्वमुद्रारचनं गीतनृत्यादि भक्तितः । (१६२।१)

yathāsvamudrāracanaṃ gītanṛtyādi bhaktitaḥ |

162.2१६२.२

शङ्खादिध्वनिमाङ्गल्यलीलाद्यभिनयो हरेः । (१६२।२)

śaṅkhādidhvanimāṅgalyalīlādyabhinayo hareḥ |

162.3१६२.३

नित्यहोमविधानं च बलिदानं यथाविधि ॥ (१६२।३)

nityahomavidhānaṃ ca balidānaṃ yathāvidhi ||

163.1१६३.१

साधूनां स्वागतं पूजा शेषनैवेद्यभोजनम् । (१६३।१)

sādhūnāṃ svāgataṃ pūjā śeṣanaivedyabhojanam |

163.2१६३.२

ताम्बूलशेषग्रहणं वैष्णवैः सह सङ्गमः ॥ (१६३।२)

tāmbūlaśeṣagrahaṇaṃ vaiṣṇavaiḥ saha saṅgamaḥ ||

164.1१६४.१

विशिष्टधर्मजिज्ञासा दशम्यादिदिनत्रये । (१६४।१)

viśiṣṭadharmajijñāsā daśamyādidinatraye |

164.2१६४.२

व्रते नियमतः स्वास्थ्यं सन्तोषो येन केन वै ॥ (१६४।२)

vrate niyamataḥ svāsthyaṃ santoṣo yena kena vai ||

165.1१६५.१

पर्वयात्रादिकरणं वासराष्टकसद्विधिः । (१६५।१)

parvayātrādikaraṇaṃ vāsarāṣṭakasadvidhiḥ |

165.2१६५.२

विष्णोः सर्वर्तुचर्या च महाराजोपचारतः ॥ (१६५।२)

viṣṇoḥ sarvartucaryā ca mahārājopacārataḥ ||

166.1१६६.१

सर्वेषां वैष्णवानां च व्रतानां परिपालनम् । (१६६।१)

sarveṣāṃ vaiṣṇavānāṃ ca vratānāṃ paripālanam |

166.2१६६.२

गुराव् ईश्वरभावश् च तुलसीसङ्ग्रहः सदा ॥ (१६६।२)

gurāv īśvarabhāvaś ca tulasīsaṅgrahaḥ sadā ||

167.1१६७.१

शयनाद्युपचारश् च रामादीनां च चिन्तनम् ॥ (१६७।१)

śayanādyupacāraś ca rāmādīnāṃ ca cintanam ||

168.1१६८.१

सन्ध्ययोः शयनं नैव न शौचं मृत्तिकां विना । (१६८।१)

sandhyayoḥ śayanaṃ naiva na śaucaṃ mṛttikāṃ vinā |

168.2१६८.२

तिष्ठताचमनं नैव तथा गुर्वासनासनम् ॥ (१६८।२)

tiṣṭhatācamanaṃ naiva tathā gurvāsanāsanam ||

169.1१६९.१

गुर्वग्रे पादविस्तारच्छायाया लङ्घनं गुरोः । (१६९।१)

gurvagre pādavistāracchāyāyā laṅghanaṃ guroḥ |

169.2१६९.२

शक्तौ स्नानक्रियाहानिर् देवतार्चनलोपनम् ॥ (१६९।२)

śaktau snānakriyāhānir devatārcanalopanam ||

170.1१७०.१

देवतानां गुरूणां च प्रत्युत्थानाद्यभावनम् । (१७०।१)

devatānāṃ gurūṇāṃ ca pratyutthānādyabhāvanam |

170.2१७०.२

गुरोः पुरस्तात् पाण्डित्यं प्रौढपादक्रिया तथा ॥ (१७०।२)

guroḥ purastāt pāṇḍityaṃ prauḍhapādakriyā tathā ||

171.1१७१.१

अमन्त्रतिलकाचामो नीलीवस्त्रविधारणम् । (१७१।१)

amantratilakācāmo nīlīvastravidhāraṇam |

171.2१७१.२

अभक्तैः सह मैत्र्यादि असच्छास्त्रपरिग्रहः । (१७१।२)

abhaktaiḥ saha maitryādi asacchāstraparigrahaḥ |

171.3१७१.३

तुच्छसङ्गसुखासक्तिर् मद्यमांसनिषेवणम् ॥ (१७१।३)

tucchasaṅgasukhāsaktir madyamāṃsaniṣevaṇam ||

172.1१७२.१

मादकौषधसेवा च मसुराद्यन्नभोजनम् । (१७२।१)

mādakauṣadhasevā ca masurādyannabhojanam |

172.2१७२.२

शाकं तुम्बी कलञ्जादि तथाभक्तान्नसङ्ग्रहः । (१७२।२)

śākaṃ tumbī kalañjādi tathābhaktānnasaṅgrahaḥ |

172.3१७२.३

अवैष्णवव्रतारम्भस् तथा जप्यम् अवैष्णवम् ॥ (१७२।३)

avaiṣṇavavratārambhas tathā japyam avaiṣṇavam ||

173.1१७३.१

अभिचारादिकरणं शक्त्या गौणोपचारकम् । (१७३।१)

abhicārādikaraṇaṃ śaktyā gauṇopacārakam |

173.2१७३.२

शोकादिपारवश्यं च दिग्विद्धैकादशीव्रतम् ॥ (१७३।२)

śokādipāravaśyaṃ ca digviddhaikādaśīvratam ||

174.1१७४.१

शुक्लाकृष्णाविभेदश् चासद्व्यापारो व्रते तथा । (१७४।१)

śuklākṛṣṇāvibhedaś cāsadvyāpāro vrate tathā |

174.2१७४.२

शक्तौ फलादिभुक्तिश् च श्राद्धं चैकादशीदिने ॥ (१७४।२)

śaktau phalādibhuktiś ca śrāddhaṃ caikādaśīdine ||

175.1१७५.१

द्वादश्यां च दिवास्वापस् तुलस्यावचयस् तथा । (१७५।१)

dvādaśyāṃ ca divāsvāpas tulasyāvacayas tathā |

175.2१७५.२

तत्र विष्णोर् दिवास्नानं श्राद्धं हर्यनिवेदितैः ॥ (१७५।२)

tatra viṣṇor divāsnānaṃ śrāddhaṃ haryaniveditaiḥ ||

176.1१७६.१

वृद्धाव् अतुलसीश्राद्धं तथा श्राद्धम् अवैष्णवम् । (१७६।१)

vṛddhāv atulasīśrāddhaṃ tathā śrāddham avaiṣṇavam |

176.2१७६.२

चरणामृतपानेऽपि शुद्ध्यर्थाचमनक्रिया ॥ (१७६।२)

caraṇāmṛtapāne'pi śuddhyarthācamanakriyā ||

177.1१७७.१

काष्ठासनोपविष्टेन वासुदेवस्य पूजनम् । (१७७।१)

kāṣṭhāsanopaviṣṭena vāsudevasya pūjanam |

177.2१७७.२

पूजाकालेऽसदालापः करवीरादिपूजनम् ॥ (१७७।२)

pūjākāle'sadālāpaḥ karavīrādipūjanam ||

178.1१७८.१

आयसं धूपपात्रादि तिर्यक्पुण्ड्रं प्रमादतः । (१७८।१)

āyasaṃ dhūpapātrādi tiryakpuṇḍraṃ pramādataḥ |

178.2१७८.२

पूजा चासंस्कृतैर् द्रव्यैस् तथा चञ्चलचित्ततः ॥ (१७८।२)

pūjā cāsaṃskṛtair dravyais tathā cañcalacittataḥ ||

179.1१७९.१

एकहस्तप्रणामादि अकाले स्वामिदर्शनम् । (१७९।१)

ekahastapraṇāmādi akāle svāmidarśanam |

179.2१७९.२

पर्युषितादिदुष्टानाम् अन्नादीनां निवेदनम् ॥ (१७९।२)

paryuṣitādiduṣṭānām annādīnāṃ nivedanam ||

180.1१८०.१

सङ्ख्यां विना मन्त्रजपस् तथा मन्त्रप्रकाशनम् । (१८०।१)

saṅkhyāṃ vinā mantrajapas tathā mantraprakāśanam |

180.2१८०.२

सदा शक्त्यां मुख्यलोपो गौणकालपरिग्रहः ॥ (१८०।२)

sadā śaktyāṃ mukhyalopo gauṇakālaparigrahaḥ ||

181.1१८१.१

प्रसादाग्रहणं विष्णोर् वर्जयेद् वैष्णवः सदा । (१८१।१)

prasādāgrahaṇaṃ viṣṇor varjayed vaiṣṇavaḥ sadā |

181.2१८१.२

चतुःशतं विधीन् एतान् निषेधान् श्रावयेद् गुरुः ॥ (१८१।२)

catuḥśataṃ vidhīn etān niṣedhān śrāvayed guruḥ ||

182.1१८२.१

अङ्गीकारे कृते बाढं तन्नीराजनपूर्वकम् । (१८२।१)

aṅgīkāre kṛte bāḍhaṃ tannīrājanapūrvakam |

182.2१८२.२

देवपूजां कारयित्वा दक्षकर्णे मन्त्रं जपेत् ॥ (१८२।२)

devapūjāṃ kārayitvā dakṣakarṇe mantraṃ japet ||

183.1१८३.१

ततश् चोत्थाय पूर्णात्मा दण्डवत् प्रणमेद् गुरुम् । (१८३।१)

tataś cotthāya pūrṇātmā daṇḍavat praṇamed gurum |

183.2१८३.२

तत्पादपङ्कजं शिष्यः प्रतिष्ठाप्य स्वमूर्धनि ॥ (१८३।२)

tatpādapaṅkajaṃ śiṣyaḥ pratiṣṭhāpya svamūrdhani ||

184.1१८४.१

अथ न्यासान् गुरुः स्वस्मिन् कृत्वान्तर्यजनं तथा । (१८४।१)

atha nyāsān guruḥ svasmin kṛtvāntaryajanaṃ tathā |

184.2१८४.२

साष्टं सहस्रं तन्मन्त्रं स्वशक्त्यक्षतये जपेत् ॥ (१८४।२)

sāṣṭaṃ sahasraṃ tanmantraṃ svaśaktyakṣataye japet ||

185.1१८५.१

शिष्यः कुम्भादि तत् सर्वं द्रवम् अन्यच् च शक्तितः । (१८५।१)

śiṣyaḥ kumbhādi tat sarvaṃ dravam anyac ca śaktitaḥ |

185.2१८५.२

दत्त्वाभ्यर्च्य गुरुं नत्वा विप्रान् सम्पूज्य भोजयेत् ॥ (१८५।२)

dattvābhyarcya guruṃ natvā viprān sampūjya bhojayet ||

186.1१८६.१

श्रीगुरोर् ब्राह्मणानां च शुभाशीर्भिः समेधितः । (१८६।१)

śrīguror brāhmaṇānāṃ ca śubhāśīrbhiḥ samedhitaḥ |

186.2१८६.२

तान् अनुज्ञाप्य गुर्वादीन् भुञ्जीत सह बन्धुभिः ॥ (१८६।२)

tān anujñāpya gurvādīn bhuñjīta saha bandhubhiḥ ||

187.1१८७.१

इति दीक्षाविधानेन यो मन्त्रं लभते गुरोः । (१८७।१)

iti dīkṣāvidhānena yo mantraṃ labhate guroḥ |

187.2१८७.२

स भाग्यवान् चिरञ्जीवी कृतकृत्यश् च जायते ॥ (१८७।२)

sa bhāgyavān cirañjīvī kṛtakṛtyaś ca jāyate ||

188.1१८८.१

तथा च संमोहनतन्त्रे श्रीशिवोमासंवादे । (१८८।१)

tathā ca saṃmohanatantre śrīśivomāsaṃvāde |

188.2१८८.२

एवं यः कुरुते मर्त्यः करे तस्य विभूतयः । (१८८।२)

evaṃ yaḥ kurute martyaḥ kare tasya vibhūtayaḥ |

188.3१८८.३

अतः परं महाभागे नान्यत् कर्मास्ति भूतले । (१८८।३)

ataḥ paraṃ mahābhāge nānyat karmāsti bhūtale |

188.4१८८.४

यस्याचरणमात्रेण साक्षात् कृष्णः प्रसीदति ॥ (१८८।४)

yasyācaraṇamātreṇa sākṣāt kṛṣṇaḥ prasīdati ||

189.1१८९.१

प्रायः प्रपञ्चसारादाव् उक्तो ऽयं तान्त्रिको विधिः । (१८९।१)

prāyaḥ prapañcasārādāv ukto 'yaṃ tāntriko vidhiḥ |

189.2१८९.२

दीक्षाया लिख्यते दिव्यो विधिः पौराणिको ऽधुना ॥ (१८९।२)

dīkṣāyā likhyate divyo vidhiḥ paurāṇiko 'dhunā ||

190.1१९०.१

अथ वराहपुराणोक्तदीक्षाविधिःइदानीं शृणु मे देवि पञ्चपातकनाशनम् । (१९०।१)

atha varāhapurāṇoktadīkṣāvidhiḥidānīṃ śṛṇu me devi pañcapātakanāśanam |

190.2१९०.२

यजनं देवदेवस्य विष्णोः पुत्रवसुप्रदम् ॥ (१९०।२)

yajanaṃ devadevasya viṣṇoḥ putravasupradam ||

191.1१९१.१

इह जन्मनि दारिद्र्यव्याधिकुष्ठादिपीडितः । (१९१।१)

iha janmani dāridryavyādhikuṣṭhādipīḍitaḥ |

191.2१९१.२

अलक्ष्मीवान् अपुत्रस् तु यो भवेत् पुरुषो भुवि । (१९१।२)

alakṣmīvān aputras tu yo bhavet puruṣo bhuvi |

191.3१९१.३

तस्य सद्यो भवेल् लक्ष्मीर् आयुर् वित्तं सुताः सुखम् ॥ (१९१।३)

tasya sadyo bhavel lakṣmīr āyur vittaṃ sutāḥ sukham ||

192.1१९२.१

दृष्ट्वा तु मण्डले देवि देवं देव्या समन्वितम् । (१९२।१)

dṛṣṭvā tu maṇḍale devi devaṃ devyā samanvitam |

192.2१९२.२

नारायणं परं देवं यः पश्यति विधानतः ॥ (१९२।२)

nārāyaṇaṃ paraṃ devaṃ yaḥ paśyati vidhānataḥ ||

193.1१९३.१

पूजितं नवनाभे तु षोडशाब्जदले तथा । (१९३।१)

pūjitaṃ navanābhe tu ṣoḍaśābjadale tathā |

193.2१९३.२

आचार्यदर्शितं देवं मन्त्रमूर्तिम् अयोनिजम् ॥ (१९३।२)

ācāryadarśitaṃ devaṃ mantramūrtim ayonijam ||

194.1१९४.१

कार्त्तिके मासि शुद्धायां द्वादश्यां तु विशेषतः । (१९४।१)

kārttike māsi śuddhāyāṃ dvādaśyāṃ tu viśeṣataḥ |

194.2१९४.२

सर्वासु च यजेद् देवं द्वादशीषु विधानतः ॥ (१९४।२)

sarvāsu ca yajed devaṃ dvādaśīṣu vidhānataḥ ||

195.1१९५.१

सङ्क्रान्तौ च महाभागे चन्द्रसूर्यग्रहेऽपि वा । (१९५।१)

saṅkrāntau ca mahābhāge candrasūryagrahe'pi vā |

195.2१९५.२

यः पश्यति हरिं देवं पूजितं गुरुणा शुभे । (१९५।२)

yaḥ paśyati hariṃ devaṃ pūjitaṃ guruṇā śubhe |

195.3१९५.३

तस्य सद्यो भवेत् तुष्टिः पापध्वंसो ऽप्य् अशेषतः ॥ (१९५।३)

tasya sadyo bhavet tuṣṭiḥ pāpadhvaṃso 'py aśeṣataḥ ||

196.1१९६.१

स सामान्यो हि देवानां भवतीति न संशयः ॥ (१९६।१)

sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ ||

197.1१९७.१

ब्राह्मणक्षत्रियविशां शूद्राणां च परीक्षणम् । (१९७।१)

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parīkṣaṇam |

197.2१९७.२

संवत्सरं गुरुः कुर्याज् जातिशौचक्रियादिभिः ॥ (१९७।२)

saṃvatsaraṃ guruḥ kuryāj jātiśaucakriyādibhiḥ ||

198.1१९८.१

उपसन्नांस् ततो ज्ञात्वा हृदयेनावधारयेत् । (१९८।१)

upasannāṃs tato jñātvā hṛdayenāvadhārayet |

198.2१९८.२

तेऽपि भक्तिमतो ज्ञात्वा आत्मनः परमेश्वरम् । (१९८।२)

te'pi bhaktimato jñātvā ātmanaḥ parameśvaram |

198.3१९८.३

संवत्सरं गुरोर् भक्तिं कुर्युर् विष्णाव् इवाचलाम् ॥ (१९८।३)

saṃvatsaraṃ guror bhaktiṃ kuryur viṣṇāv ivācalām ||

199.1१९९.१

संवत्सरं ततः पूर्णे गुरुं चैव प्रसादयेत् ॥ (१९९।१)

saṃvatsaraṃ tataḥ pūrṇe guruṃ caiva prasādayet ||

200.1२००.१

भगवंस् त्वत्प्रसादेन संसारार्णवतारणम् । (२००।१)

bhagavaṃs tvatprasādena saṃsārārṇavatāraṇam |

200.2२००.२

इच्छामस् त्व् ऐहिकीं लक्ष्मीं विशेषेण तपोधन ॥ (२००।२)

icchāmas tv aihikīṃ lakṣmīṃ viśeṣeṇa tapodhana ||

201.1२०१.१

एवम् अभ्यर्थ्य मेधावी गुरुं विष्णुम् इवाग्रतः । (२०१।१)

evam abhyarthya medhāvī guruṃ viṣṇum ivāgrataḥ |

201.2२०१.२

अभ्यर्च्य तदनुज्ञातो दशम्यां कार्त्तिकस्य तु ॥ (२०१।२)

abhyarcya tadanujñāto daśamyāṃ kārttikasya tu ||

202.1२०२.१

क्षीरवृक्षसमुद्भूतं मन्त्रितं परमेष्ठिना । (२०२।१)

kṣīravṛkṣasamudbhūtaṃ mantritaṃ parameṣṭhinā |

202.2२०२.२

भक्षयित्वा शयीतोर्व्यां देवदेवस्य सन्निधौ ॥ (२०२।२)

bhakṣayitvā śayītorvyāṃ devadevasya sannidhau ||

203.1२०३.१

स्वप्नान् दृष्ट्वा गुरोर् अग्रे श्रावयेत विचक्षणः । (२०३।१)

svapnān dṛṣṭvā guror agre śrāvayeta vicakṣaṇaḥ |

203.2२०३.२

ततः शुभाशुभं तद्वद् आलपेत् परमो गुरुः । (२०३।२)

tataḥ śubhāśubhaṃ tadvad ālapet paramo guruḥ |

203.3२०३.३

एकादश्याम् उपोष्याथ स्नात्वा देवालयं व्रजेत् ॥ (२०३।३)

ekādaśyām upoṣyātha snātvā devālayaṃ vrajet ||

204.1२०४.१

गुरुश् च मण्डलं भूमौ कल्पितायां तु वर्तयेत् । (२०४।१)

guruś ca maṇḍalaṃ bhūmau kalpitāyāṃ tu vartayet |

204.2२०४.२

लक्षणैर् विविधैर् भूमिं लक्षयित्वा विधानतः ॥ (२०४।२)

lakṣaṇair vividhair bhūmiṃ lakṣayitvā vidhānataḥ ||

205.1२०५.१

षोडशारं लिखेच् चक्रं नवनाभम् अथापि वा । (२०५।१)

ṣoḍaśāraṃ likhec cakraṃ navanābham athāpi vā |

205.2२०५.२

अष्टपत्रम् अथो वापि लिखित्वा दर्शयेद् बुधः ॥ (२०५।२)

aṣṭapatram atho vāpi likhitvā darśayed budhaḥ ||

206.1२०६.१

नेत्रबन्धं प्रकुर्वीत सितवस्त्रेण यत्नतः । (२०६।१)

netrabandhaṃ prakurvīta sitavastreṇa yatnataḥ |

206.2२०६.२

वर्णानुक्रमतः शिष्यान् पुष्पहस्तान् प्रवेशयेत् ॥ (२०६।२)

varṇānukramataḥ śiṣyān puṣpahastān praveśayet ||

207.1२०७.१

नवनाभं यदा कुर्यान् मण्डलं वर्णकैर् बुधः । (२०७।१)

navanābhaṃ yadā kuryān maṇḍalaṃ varṇakair budhaḥ |

207.2२०७.२

तदानीं पूर्वतो देवम् इन्द्रम् ऐन्द्र्यां तु पूजयेत् ॥ (२०७।२)

tadānīṃ pūrvato devam indram aindryāṃ tu pūjayet ||

208.1२०८.१

लोकपालम् अथाग्नेय्याम् अग्निं सम्पूजयेद् द्विजः । (२०८।१)

lokapālam athāgneyyām agniṃ sampūjayed dvijaḥ |

208.2२०८.२

यमं तद् अनु याम्यायां नैरृत्यां निरृतिं न्यसेत् । (२०८।२)

yamaṃ tad anu yāmyāyāṃ nairṛtyāṃ nirṛtiṃ nyaset |

208.3२०८.३

वारुण्यां वरुणं चैव वायव्यां पवनं यजेत् ॥ (२०८।३)

vāruṇyāṃ varuṇaṃ caiva vāyavyāṃ pavanaṃ yajet ||

209.1२०९.१

धनदं चोत्तरे न्यस्य रुद्रम् ऐशानगोचरे । (२०९।१)

dhanadaṃ cottare nyasya rudram aiśānagocare |

209.2२०९.२

सम्पूज्यैवं विधानेन दिक्पत्रेषु विशेषतः । (२०९।२)

sampūjyaivaṃ vidhānena dikpatreṣu viśeṣataḥ |

209.3२०९.३

अधःपत्रे तथा विष्णुम् अर्चयेत् परमेश्वरम् ॥ (२०९।३)

adhaḥpatre tathā viṣṇum arcayet parameśvaram ||

210.1२१०.१

पूर्वपत्रे बलं पूज्य प्रद्युम्नं दक्षिणे तथा । (२१०।१)

pūrvapatre balaṃ pūjya pradyumnaṃ dakṣiṇe tathā |

210.2२१०.२

अनिरुद्धं तथा पूज्य पश्चिमे चोत्तरे तथा । (२१०।२)

aniruddhaṃ tathā pūjya paścime cottare tathā |

210.3२१०.३

पूजयेद् वासुदेवं तु सर्वपातकशान्तिदम् ॥ (२१०।३)

pūjayed vāsudevaṃ tu sarvapātakaśāntidam ||

211.1२११.१

ऐशान्यां विन्यसेच्छङ्खम् आग्नेय्यां चक्रम् एव च । (२११।१)

aiśānyāṃ vinyasecchaṅkham āgneyyāṃ cakram eva ca |

211.2२११.२

सौम्यायां तु गदा पूज्या वायव्यां पद्मम् एव च ॥ (२११।२)

saumyāyāṃ tu gadā pūjyā vāyavyāṃ padmam eva ca ||

212.1२१२.१

नैरृत्यां मुषलं पूज्यं दक्षिणे गरुडं तथा । (२१२।१)

nairṛtyāṃ muṣalaṃ pūjyaṃ dakṣiṇe garuḍaṃ tathā |

212.2२१२.२

वामतो विन्यसेल् लक्ष्मीं देवदेवस्य बुद्धिमान् ॥ (२१२।२)

vāmato vinyasel lakṣmīṃ devadevasya buddhimān ||

213.1२१३.१

धनुश् चैव च खड्गं च देवस्य पुरतो न्यसेत् । (२१३।१)

dhanuś caiva ca khaḍgaṃ ca devasya purato nyaset |

213.2२१३.२

श्रीवत्सं कौस्तुभं चैव देवस्य पुरतो ऽर्चयेत् ॥ (२१३।२)

śrīvatsaṃ kaustubhaṃ caiva devasya purato 'rcayet ||

214.1२१४.१

एवं पूज्य यथान्यायं देवदेवं जनार्दनम् । (२१४।१)

evaṃ pūjya yathānyāyaṃ devadevaṃ janārdanam |

214.2२१४.२

दिङ्मण्डले च विन्यस्य चाष्टौ कुम्भान् विधानतः । (२१४।२)

diṅmaṇḍale ca vinyasya cāṣṭau kumbhān vidhānataḥ |

214.3२१४.३

वैष्णवं कलसं चैव नवमं तत्र कल्पयेत् ॥ (२१४।३)

vaiṣṇavaṃ kalasaṃ caiva navamaṃ tatra kalpayet ||

215.1२१५.१

स्नापयेन् मुक्तिकामांस् तु वैष्णवेन घटेन तु । (२१५।१)

snāpayen muktikāmāṃs tu vaiṣṇavena ghaṭena tu |

215.2२१५.२

श्रीकामान् स्नापयेत् तद्वद् ऐन्द्रेणाथ घटेन तु ॥ (२१५।२)

śrīkāmān snāpayet tadvad aindreṇātha ghaṭena tu ||

216.1२१६.१

जयप्रतापकामांस् तु आग्नेयेनाभिषेचयेत् । (२१६।१)

jayapratāpakāmāṃs tu āgneyenābhiṣecayet |

216.2२१६.२

मृत्युञ्जयविधानेन याम्येन स्नापनं तथा ॥ (२१६।२)

mṛtyuñjayavidhānena yāmyena snāpanaṃ tathā ||

217.1२१७.१

दुष्टप्रध्वंसायालं नैरृतेन विधीयते । (२१७।१)

duṣṭapradhvaṃsāyālaṃ nairṛtena vidhīyate |

217.2२१७.२

शान्तये वारुण्येनाथ पापनाशाय वायवम् ॥ (२१७।२)

śāntaye vāruṇyenātha pāpanāśāya vāyavam ||

218.1२१८.१

द्रव्यसम्पत्तिकामस्य कौबेरेण विधीयते । (२१८।१)

dravyasampattikāmasya kaubereṇa vidhīyate |

218.2२१८.२

रौद्रेण ज्ञानहेतुस् तु लोकपालघटास् त्व् इमे ॥ (२१८।२)

raudreṇa jñānahetus tu lokapālaghaṭās tv ime ||

219.1२१९.१

एकैकेन नरः स्नातः सर्वपापवर्जितः । (२१९।१)

ekaikena naraḥ snātaḥ sarvapāpavarjitaḥ |

219.2२१९.२

भवेद् अव्याहतज्ञानः श्रीमांश् च पुरुषः सदा ॥ (२१९।२)

bhaved avyāhatajñānaḥ śrīmāṃś ca puruṣaḥ sadā ||

220.1२२०.१

किं पुनर् नवभिः स्नातो नरः पातकवर्जितः । (२२०।१)

kiṃ punar navabhiḥ snāto naraḥ pātakavarjitaḥ |

220.2२२०.२

जायते विष्णुसदृशः सद्यो राजाथवा पुनः ॥ (२२०।२)

jāyate viṣṇusadṛśaḥ sadyo rājāthavā punaḥ ||

221.1२२१.१

अथवा दिक्षु सर्वासु यथासङ्ख्येन लोकपान् । (२२१।१)

athavā dikṣu sarvāsu yathāsaṅkhyena lokapān |

221.2२२१.२

पूजयेत् स्वस्वनाम्ना तु षड्भिन्नेन विधानतः ॥ (२२१।२)

pūjayet svasvanāmnā tu ṣaḍbhinnena vidhānataḥ ||

222.1२२२.१

एवं सम्पूज्य देवांस् तु लोकपालान् प्रसन्नधीः । (२२२।१)

evaṃ sampūjya devāṃs tu lokapālān prasannadhīḥ |

222.2२२२.२

पश्चात् परीक्षितान् शिष्यान् बद्धनेत्रान् प्रवेशयेत् ॥ (२२२।२)

paścāt parīkṣitān śiṣyān baddhanetrān praveśayet ||

223.1२२३.१

आग्नेयधारणादग्धान् वायुना विधूतांस् ततः । (२२३।१)

āgneyadhāraṇādagdhān vāyunā vidhūtāṃs tataḥ |

223.2२२३.२

सोमेनाप्य् आयितान् पश्चाच्छ्रावयेन् नियमान् बुधः ॥ (२२३।२)

somenāpy āyitān paścācchrāvayen niyamān budhaḥ ||

224.1२२४.१

न निन्देद् अब्राह्मणान् देवान् विष्णुं ब्राह्मणम् एव च । (२२४।१)

na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca |

224.2२२४.२

रुद्रम् आदियम् अग्निं च लोकपालान् ग्रहांस् तथा । (२२४।२)

rudram ādiyam agniṃ ca lokapālān grahāṃs tathā |

224.3२२४.३

वन्देत वैष्णवं चापि पुरुषं पूर्वदीक्षितम् ॥ (२२४।३)

vandeta vaiṣṇavaṃ cāpi puruṣaṃ pūrvadīkṣitam ||

225.1२२५.१

एवं तु समयान् श्राव्य पश्चाद्धोमं तु कारयेत् । (२२५।१)

evaṃ tu samayān śrāvya paścāddhomaṃ tu kārayet |

225.2२२५.२

तत्त्वानि शिष्यदेहेषु विन्यस्य च विशोधयेत् ॥ (२२५।२)

tattvāni śiṣyadeheṣu vinyasya ca viśodhayet ||

226.1२२६.१

ॐ नमो भगवते विष्णवे सर्वरूपिणे हुं स्वाहा ॥ (२२६।१)

oṃ namo bhagavate viṣṇave sarvarūpiṇe huṃ svāhā ||

227.1२२७.१

षोडशाक्षरमन्त्रेण होमयेज् ज्वलितानलः । (२२७।१)

ṣoḍaśākṣaramantreṇa homayej jvalitānalaḥ |

227.2२२७.२

गर्भाधानादिकाश् चैव क्रियाः सर्वाश् च कारयेत् ॥ (२२७।२)

garbhādhānādikāś caiva kriyāḥ sarvāś ca kārayet ||

228.1२२८.१

त्रिभिस् त्रिभिर् आहुतिभिर् देवदेवस्य सन्निधौ । (२२८।१)

tribhis tribhir āhutibhir devadevasya sannidhau |

228.2२२८.२

ततो ऽपनीय दृग्बन्धं पुरः शिष्यं निवेश्य च । (२२८।२)

tato 'panīya dṛgbandhaṃ puraḥ śiṣyaṃ niveśya ca |

228.3२२८.३

प्रायः पूर्वोक्तविधिना मन्त्रं तस्मै गुरुर् दिशेत् ॥ (२२८।३)

prāyaḥ pūrvoktavidhinā mantraṃ tasmai gurur diśet ||

229.1२२९.१

होमान्ते दीक्षितः पश्चाद् दापयेद् गुरुदक्षिणाम् । (२२९।१)

homānte dīkṣitaḥ paścād dāpayed gurudakṣiṇām |

229.2२२९.२

हस्त्यश्वरत्नकटकं हेमग्रामादिकं नृपः ॥ (२२९।२)

hastyaśvaratnakaṭakaṃ hemagrāmādikaṃ nṛpaḥ ||

230.1२३०.१

दापयेद् गुरवे प्राज्ञो मध्यमो मध्यमां तथा । (२३०।१)

dāpayed gurave prājño madhyamo madhyamāṃ tathā |

230.2२३०.२

दापयेद् इतरो युग्मं सहिरण्यं यथाविधि ॥ (२३०।२)

dāpayed itaro yugmaṃ sahiraṇyaṃ yathāvidhi ||

231.1२३१.१

एवं कृते तु यत् पुण्यं माहात्म्यं जायते धरे । (२३१।१)

evaṃ kṛte tu yat puṇyaṃ māhātmyaṃ jāyate dhare |

231.2२३१.२

तद् अशक्यं तु गदितुम् अपि वर्षशतैर् अपि ॥ (२३१।२)

tad aśakyaṃ tu gaditum api varṣaśatair api ||

232.1२३२.१

दीक्षितात्मा गुरोर् भूत्वा वाराहं शृणुयाद् यदि । (२३२।१)

dīkṣitātmā guror bhūtvā vārāhaṃ śṛṇuyād yadi |

232.2२३२.२

तेन वेदाः पुराणानि सर्वे मन्त्राः सुसङ्ग्रहाः ॥ (२३२।२)

tena vedāḥ purāṇāni sarve mantrāḥ susaṅgrahāḥ ||

233.1२३३.१

जप्ताः स्युः पुष्करे तीर्थे प्रयागे सिन्धुसागरे । (२३३।१)

japtāḥ syuḥ puṣkare tīrthe prayāge sindhusāgare |

233.2२३३.२

देवहूते कुरुक्षेत्रे वाराणस्यां विशेषतः ॥ (२३३।२)

devahūte kurukṣetre vārāṇasyāṃ viśeṣataḥ ||

234.1२३४.१

ग्रहेण विषुवे चैव यत् फलं जपतां भवेत् । (२३४।१)

graheṇa viṣuve caiva yat phalaṃ japatāṃ bhavet |

234.2२३४.२

तत् फलं द्विगुणं तस्य दीक्षितो यः शृणोति च ॥ (२३४।२)

tat phalaṃ dviguṇaṃ tasya dīkṣito yaḥ śṛṇoti ca ||

235.1२३५.१

देवा अपि तपः कृत्वा ध्यायन्ति च वदन्ति च । (२३५।१)

devā api tapaḥ kṛtvā dhyāyanti ca vadanti ca |

235.2२३५.२

कदा मे भारते वर्षे जन्म स्याद् भूतधारिणि ॥ (२३५।२)

kadā me bhārate varṣe janma syād bhūtadhāriṇi ||

236.1२३६.१

दीक्षिताश् च भविष्यामो वाराहं शृणुमः कदा । (२३६।१)

dīkṣitāś ca bhaviṣyāmo vārāhaṃ śṛṇumaḥ kadā |

236.2२३६.२

वाराहं षोडशात्मानं युक्ता देहे कदाचन । (२३६।२)

vārāhaṃ ṣoḍaśātmānaṃ yuktā dehe kadācana |

236.3२३६.३

पश्यामः परमं स्थानं यद् गत्वा न पुनर् भवेत् ॥ (२३६।३)

paśyāmaḥ paramaṃ sthānaṃ yad gatvā na punar bhavet ||

237.1२३७.१

एवं जल्पन्ति विबुधा मनसा चिन्तयन्ति च । (२३७।१)

evaṃ jalpanti vibudhā manasā cintayanti ca |

237.2२३७.२

वाराहयागं कार्त्तिक्यां कदा द्रक्ष्यामहे धरे ॥ (२३७।२)

vārāhayāgaṃ kārttikyāṃ kadā drakṣyāmahe dhare ||

238.1२३८.१

एष ते विधिर् उद्दिष्टो मया ते भूतधारिणि । (२३८।१)

eṣa te vidhir uddiṣṭo mayā te bhūtadhāriṇi |

238.2२३८.२

देवगन्धर्वयक्षाणां सर्वथा दुर्लभो ह्य् असौ ॥ (२३८।२)

devagandharvayakṣāṇāṃ sarvathā durlabho hy asau ||

239.1२३९.१

एवं यो वेत्ति तत्त्वेन यश् च पश्यति मण्डलम् । (२३९।१)

evaṃ yo vetti tattvena yaś ca paśyati maṇḍalam |

239.2२३९.२

यश् चेमं शृणुयाद् देवि सर्वे मुक्ता इति श्रुतिः ॥ (२३९।२)

yaś cemaṃ śṛṇuyād devi sarve muktā iti śrutiḥ ||

240.1२४०.१

अथ सङ्क्षिप्तदीक्षासंक्षिप्तश् चाथ दीक्षाया विधिर् एष विलिख्यते । (२४०।१)

atha saṅkṣiptadīkṣāsaṃkṣiptaś cātha dīkṣāyā vidhir eṣa vilikhyate |

240.2२४०.२

मुख्यकल्पे ह्य् अशक्तस्य जनस्य स्याद्धिताय च ॥ (२४०।२)

mukhyakalpe hy aśaktasya janasya syāddhitāya ca ||

241.1२४१.१

सुमुहूर्तेऽथ सम्प्राप्ते सर्वतोभद्रमण्डले । (२४१।१)

sumuhūrte'tha samprāpte sarvatobhadramaṇḍale |

241.2२४१.२

नूतनं गन्धपुष्पादिमण्डितं कलसं न्यसेत् ॥ (२४१।२)

nūtanaṃ gandhapuṣpādimaṇḍitaṃ kalasaṃ nyaset ||

242.1२४२.१

वस्त्रावृतं पयःपूर्णं पञ्चपल्लवसंयुतम् । (२४२।१)

vastrāvṛtaṃ payaḥpūrṇaṃ pañcapallavasaṃyutam |

242.2२४२.२

सर्वौषधिपञ्चरत्नमृत्स्नासप्तकगर्भितम् ॥ (२४२।२)

sarvauṣadhipañcaratnamṛtsnāsaptakagarbhitam ||

243.1२४३.१

मृत्तिकाश् च सप्तोक्ताः । (२४३।१)

mṛttikāś ca saptoktāḥ |

243.2२४३.२

अश्वस्थानाद् गजस्थानाद् वल्मीकाच् च चतुष्पथात् । (२४३।२)

aśvasthānād gajasthānād valmīkāc ca catuṣpathāt |

243.3२४३.३

राजद्वाराच् च गोष्ठाच् च नद्याः कूलान् मृदः स्मृताः ॥ (२४३।३)

rājadvārāc ca goṣṭhāc ca nadyāḥ kūlān mṛdaḥ smṛtāḥ ||

244.1२४४.१

कृष्णम् अभ्यर्च्य तं कुम्भं कुशकूर्चेन देशिकः । (२४४।१)

kṛṣṇam abhyarcya taṃ kumbhaṃ kuśakūrcena deśikaḥ |

244.2२४४.२

देयमन्त्रेण साष्टं तु सहस्रम् अभिमन्त्रयेत् ॥ (२४४।२)

deyamantreṇa sāṣṭaṃ tu sahasram abhimantrayet ||

245.1२४५.१

तदद्भिः पूर्ववच्छिष्यम् अभिषिच्य दिशेन् मनुम् । (२४५।१)

tadadbhiḥ pūrvavacchiṣyam abhiṣicya diśen manum |

245.2२४५.२

शिष्यो ऽर्चयेद् गुरुं भक्त्या यथाशक्ति द्विजान् अपि ॥ (२४५।२)

śiṣyo 'rcayed guruṃ bhaktyā yathāśakti dvijān api ||

246.1२४६.१

अथोपदेशस् तत्त्वसागरे । (२४६।१)

athopadeśas tattvasāgare |

246.2२४६.२

अत्राप्य् अशक्तः कश्चिच् चेद् अब्जम् अभ्यर्च्य साक्षतम् । (२४६।२)

atrāpy aśaktaḥ kaścic ced abjam abhyarcya sākṣatam |

246.3२४६.३

तदम्भसाभिषिच्याष्ट वारान् मूलेन के करम् ॥ (२४६।३)

tadambhasābhiṣicyāṣṭa vārān mūlena ke karam ||

247.1२४७.१

निधायामुं जपेत् कर्णे उपदेशेष्व् अयं विधिः । (२४७।१)

nidhāyāmuṃ japet karṇe upadeśeṣv ayaṃ vidhiḥ |

247.2२४७.२

चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । (२४७।२)

candrasūryagrahe tīrthe siddhakṣetre śivālaye |

247.3२४७.३

मन्त्रमात्रप्रकथनम् उपदेशः स उच्यते ॥ (२४७।३)

mantramātraprakathanam upadeśaḥ sa ucyate ||

248.1२४८.१

तत्र तत्रैव विशेषः श्रीनारदपञ्चरात्रे । (२४८।१)

tatra tatraiva viśeṣaḥ śrīnāradapañcarātre |

248.2२४८.२

वित्तलोभाद् विमुक्तस्य स्वल्पवित्तस्य देहिनः । (२४८।२)

vittalobhād vimuktasya svalpavittasya dehinaḥ |

248.3२४८.३

संसारभयभीतस्य विष्णुभक्तस्य तत्त्वतः ॥ (२४८।३)

saṃsārabhayabhītasya viṣṇubhaktasya tattvataḥ ||

249.1२४९.१

अग्नाव् आज्यान्विते बीजैः सलिलैः केवलैश् च वा । (२४९।१)

agnāv ājyānvite bījaiḥ salilaiḥ kevalaiś ca vā |

249.2२४९.२

द्रव्यहीनस्य कुर्वीत वचसानुग्रहं गुरुः ॥ (२४९।२)

dravyahīnasya kurvīta vacasānugrahaṃ guruḥ ||

250.1२५०.१

यः समः सर्वभूतेषु विरागो वीतमत्सरः । (२५०।१)

yaḥ samaḥ sarvabhūteṣu virāgo vītamatsaraḥ |

250.2२५०.२

जितेन्द्रियः शुचिर् दक्षः सर्वाङ्गावयवान्वितः ॥ (२५०।२)

jitendriyaḥ śucir dakṣaḥ sarvāṅgāvayavānvitaḥ ||

251.1२५१.१

कर्मणा मनसा वाचा भीते चाभयदः सदा । (२५१।१)

karmaṇā manasā vācā bhīte cābhayadaḥ sadā |

251.2२५१.२

समबुद्धिपदं प्राप्तस् तत्रापि भगवन्मयः ॥ (२५१।२)

samabuddhipadaṃ prāptas tatrāpi bhagavanmayaḥ ||

252.1२५२.१

पञ्चकालपरश् चैव पञ्चरात्रार्थवित् तथा । (२५२।१)

pañcakālaparaś caiva pañcarātrārthavit tathā |

252.2२५२.२

विष्णुतत्त्वं परिज्ञाय एकं चानेकभेदगम् । (२५२।२)

viṣṇutattvaṃ parijñāya ekaṃ cānekabhedagam |

252.3२५२.३

वीक्षयेन् मेदिनीं सर्वां किं पुनश् चोपसन्नतान् ॥ (२५२।३)

vīkṣayen medinīṃ sarvāṃ kiṃ punaś copasannatān ||

253.1२५३.१

अथ मन्त्रदानमाहात्म्यम्स्कान्दे ब्रह्मनारदसंवादे । (२५३।१)

atha mantradānamāhātmyamskānde brahmanāradasaṃvāde |

253.2२५३.२

इह कीर्तिं वदान्यत्वं प्रजावृद्धिं धनं सुखम् । (२५३।२)

iha kīrtiṃ vadānyatvaṃ prajāvṛddhiṃ dhanaṃ sukham |

253.3२५३.३

विद्यादानेन लभते सात्त्विको नात्र संशयः ॥ (२५३।३)

vidyādānena labhate sāttviko nātra saṃśayaḥ ||

254.1२५४.१

यथा सुराणां सर्वेषां परमः परमेश्वरः । (२५४।१)

yathā surāṇāṃ sarveṣāṃ paramaḥ parameśvaraḥ |

254.2२५४.२

तथैव सर्वदानानां विद्यादानं परं स्मृतम् ॥ (२५४।२)

tathaiva sarvadānānāṃ vidyādānaṃ paraṃ smṛtam ||

255.1२५५.१

यावच् च पातकं तेन कृतं जन्मशतैर् अपि । (२५५।१)

yāvac ca pātakaṃ tena kṛtaṃ janmaśatair api |

255.2२५५.२

तत् सर्वं नाशम् आप्नोति विद्यादानेन देहिनाम् ॥ (२५५।२)

tat sarvaṃ nāśam āpnoti vidyādānena dehinām ||

256.1२५६.१

विद्यादानात् परं दानं न भूतं न भविष्यति । (२५६।१)

vidyādānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati |

256.2२५६.२

येन दत्तेन चाप्नोति शिवं परमकारणम् ॥ (२५६।२)

yena dattena cāpnoti śivaṃ paramakāraṇam ||

257.1२५७.१

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे दैक्षिको नाम द्वितीयो विलासः ॥ (२५७।१)

iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse daikṣiko nāma dvitīyo vilāsaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

HBhVil, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit