हरिभक्तिविलासHaribhaktivilāsa

HBhVil, 4

4 of 5 · 928 verses

Select a line for its word-by-word analysis.

1.1१.१

स्नात्वा श्रीकृष्णचैतन्यनामतीर्थोत्तमे सकृत् । (१।१)

snātvā śrīkṛṣṇacaitanyanāmatīrthottame sakṛt |

1.2१.२

नित्याशुचिः शुचीन्द्रः सन् स्वधर्मं वक्तुम् अर्हति ॥ (१।२)

nityāśuciḥ śucīndraḥ san svadharmaṃ vaktum arhati ||

2.1२.१

अथ स्वगृहम् आगच्छेद् आदौ नत्वेष्टदेवताम् । (२।१)

atha svagṛham āgacched ādau natveṣṭadevatām |

2.2२.२

गुरून् ज्येष्ठांश् च पुष्पैधःकुशाम्भोधारकेतरान् ॥ (२।२)

gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān ||

3.1३.१

तथा च श्रीनृसिंहपुराणे । (३।१)

tathā ca śrīnṛsiṃhapurāṇe |

3.2३.२

जले देवं नमस्कृत्य ततो गच्छेद् गृहं पुमान् । (३।२)

jale devaṃ namaskṛtya tato gacched gṛhaṃ pumān |

3.3३.३

पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत् ॥ (३।३)

pauruṣeṇa tu sūktena tato viṣṇuṃ samarcayet ||

4.1४.१

अथ श्रीभगवन्मन्दिरसंस्कारःमन्दिरं मार्जयेद् विष्णोर् विधायाचमनादिकम् । (४।१)

atha śrībhagavanmandirasaṃskāraḥmandiraṃ mārjayed viṣṇor vidhāyācamanādikam |

4.2४.२

कृष्णं पश्यन् कीर्तयंश् च दास्येनात्मानम् अर्पयेत् ॥ (४।२)

kṛṣṇaṃ paśyan kīrtayaṃś ca dāsyenātmānam arpayet ||

5.1५.१

शुद्धं गोमयम् आदाय ततो मृत्स्नां जलं तथा । (५।१)

śuddhaṃ gomayam ādāya tato mṛtsnāṃ jalaṃ tathā |

5.2५.२

भक्त्या तत् परितो लिम्पेद् अभ्युक्षेच् च तदङ्गनम् ॥ (५।२)

bhaktyā tat parito limped abhyukṣec ca tadaṅganam ||

6.1६.१

तथा च नवमस्कन्धे श्रीमदम्बरीषोपाख्याने । (६।१)

tathā ca navamaskandhe śrīmadambarīṣopākhyāne |

6.2६.२

स वै मनः कृष्णपदारविन्दयोर् वचांसि वैकुण्ठगुणानुवर्णने करौ हरेर् मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥ (६।२)

sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye ||

7.1७.१

एकादशस्कन्धे श्रीभगवदुद्धवसंवादे भगवद्धर्मकथने । (७।१)

ekādaśaskandhe śrībhagavaduddhavasaṃvāde bhagavaddharmakathane |

7.2७.२

सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः । (७।२)

sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ |

7.3७.३

गृहशुश्रूषणं मह्यं दासवद् यद् अमायया ॥ (७।३)

gṛhaśuśrūṣaṇaṃ mahyaṃ dāsavad yad amāyayā ||

8.1८.१

अथ तत्र संमार्जनमाहात्म्यम्श्रीनृसिंहपुराणे । (८।१)

atha tatra saṃmārjanamāhātmyamśrīnṛsiṃhapurāṇe |

8.2८.२

नरसिंहगृहे नित्यं यं सम्मार्जनम् आचरेत् । (८।२)

narasiṃhagṛhe nityaṃ yaṃ sammārjanam ācaret |

8.3८.३

समस्तपापनिर्मुक्तो विष्णुलोके स मोदते ॥ (८।३)

samastapāpanirmukto viṣṇuloke sa modate ||

9.1९.१

श्रीविष्णुधर्मोत्तरे । (९।१)

śrīviṣṇudharmottare |

9.2९.२

संमार्जनं तु यः कुर्यात् पुरुषः केशवालये । (९।२)

saṃmārjanaṃ tu yaḥ kuryāt puruṣaḥ keśavālaye |

9.3९.३

रजस्तमोभ्यां निर्मुक्तः स भवेन् नात्र संशयः ॥ (९।३)

rajastamobhyāṃ nirmuktaḥ sa bhaven nātra saṃśayaḥ ||

10.1१०.१

पांशूनां यावतां राजन् कुर्यात् संमार्जनं नरः । (१०।१)

pāṃśūnāṃ yāvatāṃ rājan kuryāt saṃmārjanaṃ naraḥ |

10.2१०.२

तावन्त्य् अब्दानि स सुखी नाकम् आसाद्य मोदते ॥ (१०।२)

tāvanty abdāni sa sukhī nākam āsādya modate ||

11.1११.१

श्रीवाराहे । (११।१)

śrīvārāhe |

11.2११.२

यावत्कानि प्रहाराणि भूमिसंमार्जने ददुः । (११।२)

yāvatkāni prahārāṇi bhūmisaṃmārjane daduḥ |

11.3११.३

तावद्वर्षसहस्राणि शाकद्वीपे महीयते ॥ (११।३)

tāvadvarṣasahasrāṇi śākadvīpe mahīyate ||

12.1१२.१

जायते मम भक्तश् च सर्वधर्मसमन्वितः । (१२।१)

jāyate mama bhaktaś ca sarvadharmasamanvitaḥ |

12.2१२.२

शुचिर् भागवतः शुद्धो ह्य् अपराधविवर्जितः ॥ (१२।२)

śucir bhāgavataḥ śuddho hy aparādhavivarjitaḥ ||

13.1१३.१

ततो भुक्त्वा सर्वभोगान् तीर्त्वा संसारसागरम् । (१३।१)

tato bhuktvā sarvabhogān tīrtvā saṃsārasāgaram |

13.2१३.२

शाकद्वीपात् परिभ्रष्टः स्वर्गलोकं स गच्छति ॥ (१३।२)

śākadvīpāt paribhraṣṭaḥ svargalokaṃ sa gacchati ||

14.1१४.१

नन्दनं वनम् आश्रित्य मोदते चाप्सरैः सह । (१४।१)

nandanaṃ vanam āśritya modate cāpsaraiḥ saha |

14.2१४.२

नन्दनाच् च परिभ्रष्टो मम कर्मव्यवस्थितः । (१४।२)

nandanāc ca paribhraṣṭo mama karmavyavasthitaḥ |

14.3१४.३

सर्वसङ्गात् परित्यज्य मम लोकं तु गच्छति ॥ (१४।३)

sarvasaṅgāt parityajya mama lokaṃ tu gacchati ||

15.1१५.१

अथोपलेपनमाहात्म्यम्तत्रैव । (१५।१)

athopalepanamāhātmyamtatraiva |

15.2१५.२

गोमयं गृह्य वै भूमिं मम वेश्मोपलेपयेत् । (१५।२)

gomayaṃ gṛhya vai bhūmiṃ mama veśmopalepayet |

15.3१५.३

यावतस् तु पदांस् तत्र समन्ताद् उपलेपयेत् । (१५।३)

yāvatas tu padāṃs tatra samantād upalepayet |

15.4१५.४

तावद्वर्षसहस्राणि मद्भक्तो जायते तथा ॥ (१५।४)

tāvadvarṣasahasrāṇi madbhakto jāyate tathā ||

16.1१६.१

समीपे यदि वा दूरे यश् चालयति गोमयम् । (१६।१)

samīpe yadi vā dūre yaś cālayati gomayam |

16.2१६.२

यावत् तस्य पदाग्राणि तावत् स्वर्गे महीयते ॥ (१६।२)

yāvat tasya padāgrāṇi tāvat svarge mahīyate ||

17.1१७.१

शाल्मलौ तत्परिभ्रष्टो राजा भवति धार्मिकः । (१७।१)

śālmalau tatparibhraṣṭo rājā bhavati dhārmikaḥ |

17.2१७.२

मद्भक्तश् चैव जायते सर्वशास्त्रविशारदः ॥ (१७।२)

madbhaktaś caiva jāyate sarvaśāstraviśāradaḥ ||

18.1१८.१

यश् चालेपयते भूमिं गोमयेन दृढव्रतः । (१८।१)

yaś cālepayate bhūmiṃ gomayena dṛḍhavrataḥ |

18.2१८.२

तस्य दृष्ट्वानुलेपं तु मम तुष्टिः प्रजायते ॥ (१८।२)

tasya dṛṣṭvānulepaṃ tu mama tuṣṭiḥ prajāyate ||

19.1१९.१

गोश् च यस्याः पुरीषेण क्रियते भूमिलेपनम् । (१९।१)

goś ca yasyāḥ purīṣeṇa kriyate bhūmilepanam |

19.2१९.२

एकेनैव तु लेपेन गोयोन्या विप्रमुच्यते ॥ (१९।२)

ekenaiva tu lepena goyonyā vipramucyate ||

20.1२०.१

स्थानोपलेपने भूमे सलिलं यो ददाति मे । (२०।१)

sthānopalepane bhūme salilaṃ yo dadāti me |

20.2२०.२

तस्य पुण्यं महाभागे शृणु तत्त्वेन निष्कलम् ॥ (२०।२)

tasya puṇyaṃ mahābhāge śṛṇu tattvena niṣkalam ||

21.1२१.१

यावन्ति जलबिन्दूनि लिप्यमानस्य सुन्दरि । (२१।१)

yāvanti jalabindūni lipyamānasya sundari |

21.2२१.२

तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ (२१।२)

tāvadvarṣasahasrāṇi svargaloke mahīyate ||

22.1२२.१

यावन्तो बिन्दवः केचित् पानीयस्य वसुन्धरे । (२२।१)

yāvanto bindavaḥ kecit pānīyasya vasundhare |

22.2२२.२

तावद्वर्षसहस्राणि क्रौञ्चद्वीपे महीयते ॥ (२२।२)

tāvadvarṣasahasrāṇi krauñcadvīpe mahīyate ||

23.1२३.१

क्रौञ्चद्वीपात् परिभ्रष्टः सर्वधर्मपरायणः । (२३।१)

krauñcadvīpāt paribhraṣṭaḥ sarvadharmaparāyaṇaḥ |

23.2२३.२

सर्वसङ्गान् परित्यज्य मम लोकं च गच्छति ॥ (२३।२)

sarvasaṅgān parityajya mama lokaṃ ca gacchati ||

24.1२४.१

श्रीविष्णुधर्मोत्तरे । (२४।१)

śrīviṣṇudharmottare |

24.2२४.२

कृत्वोपलेपनं विष्णोर् नरस् त्व् आयतने सदा । (२४।२)

kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā |

24.3२४.३

गोमयेन शुभान् लोकान् अयत्नाद् एव गच्छति ॥ (२४।३)

gomayena śubhān lokān ayatnād eva gacchati ||

25.1२५.१

हस्तप्रमाणं भूभागम् उपलिप्य नराधिप । (२५।१)

hastapramāṇaṃ bhūbhāgam upalipya narādhipa |

25.2२५.२

देवरामाशतं नाके लभते सततं नरः ॥ (२५।२)

devarāmāśataṃ nāke labhate satataṃ naraḥ ||

26.1२६.१

नारसिंहे । (२६।१)

nārasiṃhe |

26.2२६.२

गोमयेन मृदा तोयैर् यः कुर्याद् उपलेपनम् । (२६।२)

gomayena mṛdā toyair yaḥ kuryād upalepanam |

26.3२६.३

चान्द्रायणफलं प्राप्य विष्णुलोके महीयते ॥ (२६।३)

cāndrāyaṇaphalaṃ prāpya viṣṇuloke mahīyate ||

27.1२७.१

तत्रैव श्रीधर्मराजस्य दूतानुशासने । (२७।१)

tatraiva śrīdharmarājasya dūtānuśāsane |

27.2२७.२

संमार्जनं यः कुरुते गोमयेनोपलेपनम् । (२७।२)

saṃmārjanaṃ yaḥ kurute gomayenopalepanam |

27.3२७.३

करोति भवने विष्णोस् त्याज्यं तेषां कुलत्रयम् ॥ (२७।३)

karoti bhavane viṣṇos tyājyaṃ teṣāṃ kulatrayam ||

28.1२८.१

अथाभुक्षणमाहात्म्यम्श्रीविष्णुधर्मोत्तरे । (२८।१)

athābhukṣaṇamāhātmyamśrīviṣṇudharmottare |

28.2२८.२

अभ्युक्षणं तु यः कुर्यात् पानीयेन सुरालये । (२८।२)

abhyukṣaṇaṃ tu yaḥ kuryāt pānīyena surālaye |

28.3२८.३

स शान्ततापो भवति नात्र कार्या विचारणा ॥ (२८।३)

sa śāntatāpo bhavati nātra kāryā vicāraṇā ||

29.1२९.१

अभ्युक्षणं तु यः कुर्याद् देवदेवाजिरे नरः । (२९।१)

abhyukṣaṇaṃ tu yaḥ kuryād devadevājire naraḥ |

29.2२९.२

सर्वपापविनिर्मुक्तो वारुणं लोकम् अश्नुते ॥ (२९।२)

sarvapāpavinirmukto vāruṇaṃ lokam aśnute ||

30.1३०.१

सर्वतोभद्रपद्मादीन् अभिज्ञः स्वस्तिकानि च । (३०।१)

sarvatobhadrapadmādīn abhijñaḥ svastikāni ca |

30.2३०.२

विरचय्य विचित्राणि मण्डयेद्धरिमन्दिरम् ॥ (३०।२)

viracayya vicitrāṇi maṇḍayeddharimandiram ||

31.1३१.१

तथा च नारसिंहे । (३१।१)

tathā ca nārasiṃhe |

31.2३१.२

संमार्जनोपलेपाभ्यां रङ्गपद्मादिशोभनम् । (३१।२)

saṃmārjanopalepābhyāṃ raṅgapadmādiśobhanam |

31.3३१.३

कुर्यात् स्थानं महाविष्णोः सोज्ज्वलाङ्गं मुदान्वितः ॥ (३१।३)

kuryāt sthānaṃ mahāviṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ ||

32.1३२.१

अथ मण्डलमाहात्म्यम्स्कन्दपुराणे कार्त्तिकप्रसङ्गे । (३२।१)

atha maṇḍalamāhātmyamskandapurāṇe kārttikaprasaṅge |

32.2३२.२

अगम्यगमने पापम् अभक्ष्यस्य च भक्षणे । (३२।२)

agamyagamane pāpam abhakṣyasya ca bhakṣaṇe |

32.3३२.३

सर्वं तन्नाशम् आप्नोति मण्डयित्वा हरेर् गृहम् ॥ (३२।३)

sarvaṃ tannāśam āpnoti maṇḍayitvā harer gṛham ||

33.1३३.१

अणुमात्रं तु यः कुर्यान् मण्डलं केशवाग्रतः । (३३।१)

aṇumātraṃ tu yaḥ kuryān maṇḍalaṃ keśavāgrataḥ |

33.2३३.२

मृदा धातुविकारैश् च दिवि कल्पशतं वसेत् ॥ (३३।२)

mṛdā dhātuvikāraiś ca divi kalpaśataṃ vaset ||

34.1३४.१

शालग्रामशिलाग्रे तु यः कुर्यात् स्वस्तिकं शुभम् । (३४।१)

śālagrāmaśilāgre tu yaḥ kuryāt svastikaṃ śubham |

34.2३४.२

कार्त्तिके तु विशेषेण पुनात्य् आ सप्तमं कुलम् ॥ (३४।२)

kārttike tu viśeṣeṇa punāty ā saptamaṃ kulam ||

35.1३५.१

मण्डलं कुरुते नित्यं या नारी केशवाग्रतः । (३५।१)

maṇḍalaṃ kurute nityaṃ yā nārī keśavāgrataḥ |

35.2३५.२

सप्तजन्मानि वैधव्यं न प्राप्नोति कदाचन ॥ (३५।२)

saptajanmāni vaidhavyaṃ na prāpnoti kadācana ||

36.1३६.१

गृहीत्वा गोमयं या तु मण्डलं केशवाग्रतः । (३६।१)

gṛhītvā gomayaṃ yā tu maṇḍalaṃ keśavāgrataḥ |

36.2३६.२

भर्तुर् वियोगं नाप्नोति सन्ततेश् च धनस्य च ॥ (३६।२)

bhartur viyogaṃ nāpnoti santateś ca dhanasya ca ||

37.1३७.१

प्राङ्गणं वर्णकोपेतं स्वस्तिकैश् च समन्वितम् । (३७।१)

prāṅgaṇaṃ varṇakopetaṃ svastikaiś ca samanvitam |

37.2३७.२

देवस्य कुरुते यस् तु क्रीडते भुवनत्रये ॥ (३७।२)

devasya kurute yas tu krīḍate bhuvanatraye ||

38.1३८.१

नारदीये । (३८।१)

nāradīye |

38.2३८.२

मृदा धातुविकारैर् वा वर्णकैर् गोमयेन वा । (३८।२)

mṛdā dhātuvikārair vā varṇakair gomayena vā |

38.3३८.३

विष्णुलोकेऽथ तत्र रथैः सस्पृहं वीक्ष्यते सुखी ॥ (३८।३)

viṣṇuloke'tha tatra rathaiḥ saspṛhaṃ vīkṣyate sukhī ||

39.1३९.१

हरिभक्तिसुधोदये । (३९।१)

haribhaktisudhodaye |

39.2३९.२

उपलिप्यालयं विष्णोश् चित्रयित्वाथ वर्णकैः । (३९।२)

upalipyālayaṃ viṣṇoś citrayitvātha varṇakaiḥ |

39.3३९.३

विष्णुलोकेऽथ तत्रस्थैः सस्पृहं वीक्ष्यते सुखी ॥ (३९।३)

viṣṇuloke'tha tatrasthaiḥ saspṛhaṃ vīkṣyate sukhī ||

40.1४०.१

अथ स्वस्तिकलक्षणमागमे । (४०।१)

atha svastikalakṣaṇamāgame |

40.2४०.२

विदिग्गतचतुष्काणि भित्त्वा षोडशधा सुधीः । (४०।२)

vidiggatacatuṣkāṇi bhittvā ṣoḍaśadhā sudhīḥ |

40.3४०.३

मार्जयेत् स्वस्तिकाकारं श्वेतपीतारुणासितैः ॥ (४०।३)

mārjayet svastikākāraṃ śvetapītāruṇāsitaiḥ ||

41.1४१.१

तत्र च पञ्चरात्रवचनम् । (४१।१)

tatra ca pañcarātravacanam |

41.2४१.२

रजांसि पञ्चवर्णानि मण्डलार्थं हि कारयेत् । (४१।२)

rajāṃsi pañcavarṇāni maṇḍalārthaṃ hi kārayet |

41.3४१.३

शालितण्डुलचूर्णेन शुक्लं वा यवसम्भवम् ॥ (४१।३)

śālitaṇḍulacūrṇena śuklaṃ vā yavasambhavam ||

42.1४२.१

रक्तकुङ्कुमसिन्दूरगैरिकादिसमुद्भवम् । (४२।१)

raktakuṅkumasindūragairikādisamudbhavam |

42.2४२.२

हरितालोद्भवं पीतं रजनीसम्भवं क्वचित् । (४२।२)

haritālodbhavaṃ pītaṃ rajanīsambhavaṃ kvacit |

42.3४२.३

कृष्णं दग्धैर् हरिद्यवैर् हरित्पीतैर् विमिश्रितम् ॥ (४२।३)

kṛṣṇaṃ dagdhair haridyavair haritpītair vimiśritam ||

43.1४३.१

अथ तत्र ध्वजपताकाद्यारोपणम्ततो ध्वजपताकादि विन्यस्य हरिमन्दिरे । (४३।१)

atha tatra dhvajapatākādyāropaṇamtato dhvajapatākādi vinyasya harimandire |

43.2४३.२

विचित्रं भूषयेत् तच् च भगवद्भक्तिमान् नरः ॥ (४३।२)

vicitraṃ bhūṣayet tac ca bhagavadbhaktimān naraḥ ||

44.1४४.१

अथ ध्वरारोपणमाहात्म्यम्ध्वजम् आरोपयेद् यस् तु प्रासादोपरि भक्तितः । (४४।१)

atha dhvarāropaṇamāhātmyamdhvajam āropayed yas tu prāsādopari bhaktitaḥ |

44.2४४.२

तस्य ब्रह्मपदे वासः क्रीडते ब्रह्मणा सह ॥ (४४।२)

tasya brahmapade vāsaḥ krīḍate brahmaṇā saha ||

45.1४५.१

बृहन्नारदीये । (४५।१)

bṛhannāradīye |

45.2४५.२

यः कुर्याद् विष्णुभवने ध्वजारोपणम् उत्तमम् । (४५।२)

yaḥ kuryād viṣṇubhavane dhvajāropaṇam uttamam |

45.3४५.३

सम्पूज्यते विरिञ्च्याद्यैः किम् अन्यैर् बहुभाषितैः ॥ (४५।३)

sampūjyate viriñcyādyaiḥ kim anyair bahubhāṣitaiḥ ||

46.1४६.१

तत्रैवाग्रे च । (४६।१)

tatraivāgre ca |

46.2४६.२

पटो ध्वजस्य विप्रेन्द्र यावच् चलति वायुना । (४६।२)

paṭo dhvajasya viprendra yāvac calati vāyunā |

46.3४६.३

तावन्ति पापजालानि नश्यन्त्य् एव न संशयः ॥ (४६।३)

tāvanti pāpajālāni naśyanty eva na saṃśayaḥ ||

47.1४७.१

महापातकयुक्तो वा युक्तो वा सर्वपातकैः । (४७।१)

mahāpātakayukto vā yukto vā sarvapātakaiḥ |

47.2४७.२

ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपातकैः ॥ (४७।२)

dhvajaṃ viṣṇugṛhe kṛtvā mucyate sarvapātakaiḥ ||

48.1४८.१

आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः । (४८।१)

āropitaṃ dhvajaṃ dṛṣṭvā ye'bhinandanti dhārmikāḥ |

48.2४८.२

तेऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः ॥ (४८।२)

te'pi sarve pramucyante mahāpātakakoṭibhiḥ ||

49.1४९.१

एवं बृहन्नारदीये ख्यातं यच् चान्यद् अद्भुतम् । (४९।१)

evaṃ bṛhannāradīye khyātaṃ yac cānyad adbhutam |

49.2४९.२

ध्वजारोपणमाहात्म्यं तद् द्रष्टव्यम् इहाखिलम् ॥ (४९।२)

dhvajāropaṇamāhātmyaṃ tad draṣṭavyam ihākhilam ||

50.1५०.१

अथ पतादारोपणमाहात्म्यम्द्वारकामाहात्म्ये । (५०।१)

atha patādāropaṇamāhātmyamdvārakāmāhātmye |

50.2५०.२

कृष्णालयं यः कुरुते पताकाभिश् च शोभितम् । (५०।२)

kṛṣṇālayaṃ yaḥ kurute patākābhiś ca śobhitam |

50.3५०.३

सदैव तस्य लोके तु वासस् तस्य न चान्यतः ॥ (५०।३)

sadaiva tasya loke tu vāsas tasya na cānyataḥ ||

51.1५१.१

विष्णुधर्मोत्तरे । (५१।१)

viṣṇudharmottare |

51.2५१.२

पताकां च शुभां दत्त्वा तथा केशववेश्मनि । (५१।२)

patākāṃ ca śubhāṃ dattvā tathā keśavaveśmani |

51.3५१.३

वायुलोकम् अवाप्नोति बहून् अब्दगणान् द्विजः ॥ (५१।३)

vāyulokam avāpnoti bahūn abdagaṇān dvijaḥ ||

52.1५२.१

दोधूयते यथा सा तु वायुना केशवालये । (५२।१)

dodhūyate yathā sā tu vāyunā keśavālaye |

52.2५२.२

तथा तस्यापि सकलं देहात् पापं विधूयते ॥ (५२।२)

tathā tasyāpi sakalaṃ dehāt pāpaṃ vidhūyate ||

53.1५३.१

अथ वन्दनमालाकदलीस्तम्भारोपणमाहात्म्यम्द्वारकामाहात्म्ये तत्रैव । (५३।१)

atha vandanamālākadalīstambhāropaṇamāhātmyamdvārakāmāhātmye tatraiva |

53.2५३.२

भूप वन्दनमालां तु कुरुते कृष्णवेश्मनि । (५३।२)

bhūpa vandanamālāṃ tu kurute kṛṣṇaveśmani |

53.3५३.३

देवकन्यावृतैर् लक्षैः सेव्यते सुरनायकैः ॥ (५३।३)

devakanyāvṛtair lakṣaiḥ sevyate suranāyakaiḥ ||

54.1५४.१

यः कुर्यात् कृष्णभवनं कदलीस्तम्भशोभितम् । (५४।१)

yaḥ kuryāt kṛṣṇabhavanaṃ kadalīstambhaśobhitam |

54.2५४.२

नन्दते चाप्सरोयुक्तः स्वागतं तस्य देवराट् ॥ (५४।२)

nandate cāpsaroyuktaḥ svāgataṃ tasya devarāṭ ||

55.1५५.१

अथ पीठपात्रवस्त्रादिसंस्कारःतत्र ताम्रादिपात्रं यत् प्रभोर् वस्त्रादिकं च यत् । (५५।१)

atha pīṭhapātravastrādisaṃskāraḥtatra tāmrādipātraṃ yat prabhor vastrādikaṃ ca yat |

55.2५५.२

पीठादिकं च तत् सर्वं यथोक्तं च विशोधयेत् ॥ (५५।२)

pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet ||

56.1५६.१

तत्र पीठस्य संस्कारःनारसिंहे । (५६।१)

tatra pīṭhasya saṃskāraḥnārasiṃhe |

56.2५६.२

पादपीठं च कृष्णस्य बिल्वपत्रेण धर्षयेत् । (५६।२)

pādapīṭhaṃ ca kṛṣṇasya bilvapatreṇa dharṣayet |

56.3५६.३

उष्णाम्बुना च प्रक्षाल्य सर्वपापैः प्रमुच्यते ॥ (५६।३)

uṣṇāmbunā ca prakṣālya sarvapāpaiḥ pramucyate ||

57.1५७.१

अथ तैजसादिपात्राणां संस्कारःमार्कण्डेयपुराणे । (५७।१)

atha taijasādipātrāṇāṃ saṃskāraḥmārkaṇḍeyapurāṇe |

57.2५७.२

उडुम्बराणाम् अम्लेन क्षारेण त्रपुसीसयोः । (५७।२)

uḍumbarāṇām amlena kṣāreṇa trapusīsayoḥ |

57.3५७.३

भस्माम्बुभिश् च कांस्यानां शुद्धिः प्लावो द्रवस्य च ॥ (५७।३)

bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca ||

58.1५८.१

वायुपुराणे च । (५८।१)

vāyupurāṇe ca |

58.2५८.२

मणिवज्रप्रवालानां मुक्ताशङ्खोपलस्य च । (५८।२)

maṇivajrapravālānāṃ muktāśaṅkhopalasya ca |

58.3५८.३

सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ॥ (५८।३)

siddhārthakānāṃ kalkena tilakalkena vā punaḥ ||

59.1५९.१

ब्राह्मे । (५९।१)

brāhme |

59.2५९.२

सुवर्णरूप्यशङ्खाश्मशुक्तिरत्नमयानि च । (५९।२)

suvarṇarūpyaśaṅkhāśmaśuktiratnamayāni ca |

59.3५९.३

कांस्यायस्ताम्ररैत्यानि त्रपुसीसमयानि च ॥ (५९।३)

kāṃsyāyastāmraraityāni trapusīsamayāni ca ||

60.1६०.१

निर्लेपानि तु शुध्यन्ति केवलेनोदकेन तु । (६०।१)

nirlepāni tu śudhyanti kevalenodakena tu |

60.2६०.२

शूद्रोच्छिष्टानि शोध्यानि त्रिधा क्षाराम्लवारिभिः ॥ (६०।२)

śūdrocchiṣṭāni śodhyāni tridhā kṣārāmlavāribhiḥ ||

61.1६१.१

अतिदुष्टं तु पात्रादि विशोध्यातिथ्यकर्मणे । (६१।१)

atiduṣṭaṃ tu pātrādi viśodhyātithyakarmaṇe |

61.2६१.२

युञ्ज्यात् तत्परिवर्ताय प्रभुकर्मान्तराय वा ॥ (६१।२)

yuñjyāt tatparivartāya prabhukarmāntarāya vā ||

62.1६२.१

एतस्य परिवर्तेन प्रभवेऽन्यत् समर्पयेत् । (६२।१)

etasya parivartena prabhave'nyat samarpayet |

62.2६२.२

इत्य् अयं सर्वतो लोके सदाचारो विराजते ॥ (६२।२)

ity ayaṃ sarvato loke sadācāro virājate ||

63.1६३.१

मनुः । (६३।१)

manuḥ |

63.2६३.२

ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च । (६३।२)

tāmrāyaḥkāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca |

63.3६३.३

शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ (६३।३)

śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ ||

64.1६४.१

शङ्खः । (६४।१)

śaṅkhaḥ |

64.2६४.२

अम्लोदकेन ताम्रस्य सीसस्य त्रपुणस् तथा । (६४।२)

amlodakena tāmrasya sīsasya trapuṇas tathā |

64.3६४.३

क्षारेण शुद्धिं कांस्यस्य लौहस्य च विनिर्दिशेत् ॥ (६४।३)

kṣāreṇa śuddhiṃ kāṃsyasya lauhasya ca vinirdiśet ||

65.1६५.१

किंच । (६५।१)

kiṃca |

65.2६५.२

सूतिकोच्छिष्टभाण्डस्य सुराद्युपहतस्य च । (६५।२)

sūtikocchiṣṭabhāṇḍasya surādyupahatasya ca |

65.3६५.३

त्रिःसप्तमार्जनाच्छुद्धिर् न तु कांस्यस्य तापनम् ॥ (६५।३)

triḥsaptamārjanācchuddhir na tu kāṃsyasya tāpanam ||

66.1६६.१

अन्यत्र च । (६६।१)

anyatra ca |

66.2६६.२

ताम्रम् अम्लेन शुध्येन न चेदामिषलेपनम् । (६६।२)

tāmram amlena śudhyena na cedāmiṣalepanam |

66.3६६.३

आमिषेण तु यल् लिप्तं पुनर् दाहेन शुध्यन्ति ॥ (६६।३)

āmiṣeṇa tu yal liptaṃ punar dāhena śudhyanti ||

67.1६७.१

ब्राह्मे । (६७।१)

brāhme |

67.2६७.२

सूतिकाशवविण्मूत्ररजस्वलहतानि च । (६७।२)

sūtikāśavaviṇmūtrarajasvalahatāni ca |

67.3६७.३

प्रक्षेप्तव्यानि तान्य् अग्नौ यच् च यावत् सहेद् अपि ॥ (६७।३)

prakṣeptavyāni tāny agnau yac ca yāvat sahed api ||

68.1६८.१

अत एव देवलः । (६८।१)

ata eva devalaḥ |

68.2६८.२

लोहानां दहनाच्छुद्धिर् भस्मना गोमयेन वा । (६८।२)

lohānāṃ dahanācchuddhir bhasmanā gomayena vā |

68.3६८.३

दहनात् खननाद् वापि शैलानाम् अम्भसापि वा ॥ (६८।३)

dahanāt khananād vāpi śailānām ambhasāpi vā ||

69.1६९.१

काष्ठानां तक्षणाच्छुद्धिर् मृद्गोमयजलैर् अपि । (६९।१)

kāṣṭhānāṃ takṣaṇācchuddhir mṛdgomayajalair api |

69.2६९.२

मृण्मयानां तु पात्राणां दहनाच्छुद्धिर् इष्यते ॥ (६९।२)

mṛṇmayānāṃ tu pātrāṇāṃ dahanācchuddhir iṣyate ||

70.1७०.१

मनुः । (७०।१)

manuḥ |

70.2७०.२

मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैः पूयशोणितैः । (७०।२)

madyair mūtraiḥ purīṣair vā ṣṭhīvanaiḥ pūyaśoṇitaiḥ |

70.3७०.३

संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ (७०।३)

saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam ||

71.1७१.१

वृद्धशातातपः । (७१।१)

vṛddhaśātātapaḥ |

71.2७१.२

संहतानां तु पात्राणां यद् एकम् उपहन्यते । (७१।२)

saṃhatānāṃ tu pātrāṇāṃ yad ekam upahanyate |

71.3७१.३

तस्यैवं शोधनं प्रोक्तं सामान्यद्रव्यशुद्धिकृत् ॥ (७१।३)

tasyaivaṃ śodhanaṃ proktaṃ sāmānyadravyaśuddhikṛt ||

72.1७२.१

अथ वस्त्रादीनां संस्कारःतत्र शङ्खः । (७२।१)

atha vastrādīnāṃ saṃskāraḥtatra śaṅkhaḥ |

72.2७२.२

तान्तवं मलिनं पूर्वम् अद्भिः क्षारैश् च शोधयेत् । (७२।२)

tāntavaṃ malinaṃ pūrvam adbhiḥ kṣāraiś ca śodhayet |

72.3७२.३

अंशुभिः शोषयित्वा वा वायुना वा समाहरेत् ॥ (७२।३)

aṃśubhiḥ śoṣayitvā vā vāyunā vā samāharet ||

73.1७३.१

ऊर्णापट्टांशुकक्षौमदुकूलाविकचर्मणाम् । (७३।१)

ūrṇāpaṭṭāṃśukakṣaumadukūlāvikacarmaṇām |

73.2७३.२

अल्पाशौचे भवेच्छुद्धिः शोषणप्रोक्षणादिभिः ॥ (७३।२)

alpāśauce bhavecchuddhiḥ śoṣaṇaprokṣaṇādibhiḥ ||

74.1७४.१

तान्य् एवामेध्यलिप्तानि नेनिज्याद् गौरसर्षपैः । (७४।१)

tāny evāmedhyaliptāni nenijyād gaurasarṣapaiḥ |

74.2७४.२

धान्यकल्कैः पर्णकल्कैः रसैश् च फलवल्कलैः ॥ (७४।२)

dhānyakalkaiḥ parṇakalkaiḥ rasaiś ca phalavalkalaiḥ ||

75.1७५.१

तुलिकाद्युपधानानि पुष्परत्नाम्बराणि च । (७५।१)

tulikādyupadhānāni puṣparatnāmbarāṇi ca |

75.2७५.२

शोधयित्वातपे किंचित् करैर् उन्मार्जयेन् मुहुः ॥ (७५।२)

śodhayitvātape kiṃcit karair unmārjayen muhuḥ ||

76.1७६.१

पश्चाच् च वारिणा प्रोक्ष्य शुचीत्य् एवम् उदाहरेत् । (७६।१)

paścāc ca vāriṇā prokṣya śucīty evam udāharet |

76.2७६.२

तान्य् अप्य् अतिमलाक्तानि यथावत् परिशोधयेत् ॥ (७६।२)

tāny apy atimalāktāni yathāvat pariśodhayet ||

77.1७७.१

शातातपः । (७७।१)

śātātapaḥ |

77.2७७.२

कुसुम्भकुङ्कुमारक्तास् तथा लाक्षारसेन च । (७७।२)

kusumbhakuṅkumāraktās tathā lākṣārasena ca |

77.3७७.३

प्रक्षालनेन शुध्यन्ति चण्डालस्पर्शने तथा ॥ (७७।३)

prakṣālanena śudhyanti caṇḍālasparśane tathā ||

78.1७८.१

यमः । (७८।१)

yamaḥ |

78.2७८.२

कृष्णाजिनानां वातैश् च बालानां मृद्भिर् अम्भसा । (७८।२)

kṛṣṇājinānāṃ vātaiś ca bālānāṃ mṛdbhir ambhasā |

78.3७८.३

गोमूत्रेणास्थिदन्तानां क्षौमाणां गौरसर्षपैः ॥ (७८।३)

gomūtreṇāsthidantānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ ||

79.1७९.१

शङ्खः । (७९।१)

śaṅkhaḥ |

79.2७९.२

सिद्धार्थकानां कल्केन दन्तशृङ्गमयस्य च । (७९।२)

siddhārthakānāṃ kalkena dantaśṛṅgamayasya ca |

79.3७९.३

गोवालैः फलपात्राणाम् अस्थ्नां स्याच्छृङ्गवत् तथा ॥ (७९।३)

govālaiḥ phalapātrāṇām asthnāṃ syācchṛṅgavat tathā ||

80.1८०.१

किंच । (८०।१)

kiṃca |

80.2८०.२

निर्यासानां गुडानां च लवणानां तथैव च । (८०।२)

niryāsānāṃ guḍānāṃ ca lavaṇānāṃ tathaiva ca |

80.3८०.३

कुसुम्भकुसुमानां च ऊर्णाकार्पासयोस् तथा । (८०।३)

kusumbhakusumānāṃ ca ūrṇākārpāsayos tathā |

80.4८०.४

प्रोक्षणात् कथिता शुद्धिर् इत्य् आह भगवान् यमः ॥ (८०।४)

prokṣaṇāt kathitā śuddhir ity āha bhagavān yamaḥ ||

81.1८१.१

मनुः । (८१।१)

manuḥ |

81.2८१.२

अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । (८१।२)

adbhis tu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām |

81.3८१.३

प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥ (८१।३)

prakṣālanena tv alpānām adbhiḥ śaucaṃ vidhīyate ||

82.1८२.१

चैलवत्चर्मणां शुद्धिर् वैदलानां तथैव च । (८२।१)

cailavatcarmaṇāṃ śuddhir vaidalānāṃ tathaiva ca |

82.2८२.२

शाकमूलफलानां च धान्यवत्शुद्धिर् इष्यते ॥ (८२।२)

śākamūlaphalānāṃ ca dhānyavatśuddhir iṣyate ||

83.1८३.१

प्रोक्षणात् तृणकाष्ठं च पलालं चैव शुध्यति । (८३।१)

prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati |

83.2८३.२

मार्जनोपाञ्जनैर् वेश्म पुनःपाकेन मृन्मयम् ॥ (८३।२)

mārjanopāñjanair veśma punaḥpākena mṛnmayam ||

84.1८४.१

किंच । (८४।१)

kiṃca |

84.2८४.२

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः । (८४।२)

yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ |

84.3८४.३

तावन् मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ (८४।३)

tāvan mṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu ||

85.1८५.१

बृहस्पतिः । (८५।१)

bṛhaspatiḥ |

85.2८५.२

वस्त्रवैदलचर्मादेः शुद्धिः प्रक्षालनं स्मृतम् । (८५।२)

vastravaidalacarmādeḥ śuddhiḥ prakṣālanaṃ smṛtam |

85.3८५.३

अतिदुष्टस्य तन्मात्रं त्यजेच्छित्त्वा तु शुद्धये ॥ (८५।३)

atiduṣṭasya tanmātraṃ tyajecchittvā tu śuddhaye ||

86.1८६.१

विष्णुः । (८६।१)

viṣṇuḥ |

86.2८६.२

मृत्पर्णतृणकाष्ठानां श्वास्थिचाण्डालवायसैः । (८६।२)

mṛtparṇatṛṇakāṣṭhānāṃ śvāsthicāṇḍālavāyasaiḥ |

86.3८६.३

स्पर्शने विहितं शौचं सोमसूर्यांशुमारुतैः ॥ (८६।३)

sparśane vihitaṃ śaucaṃ somasūryāṃśumārutaiḥ ||

87.1८७.१

बौधायनः । (८७।१)

baudhāyanaḥ |

87.2८७.२

आसनं शयनं यानं नावः पन्थास् तृणानि च । (८७।२)

āsanaṃ śayanaṃ yānaṃ nāvaḥ panthās tṛṇāni ca |

87.3८७.३

मारुतार्केण शुध्यन्ति पक्वेष्टरचितानि च ॥ (८७।३)

mārutārkeṇa śudhyanti pakveṣṭaracitāni ca ||

88.1८८.१

अथ धान्यादीनां संस्कारःतत्र बौधायनः । (८८।१)

atha dhānyādīnāṃ saṃskāraḥtatra baudhāyanaḥ |

88.2८८.२

व्रीहयः प्रोक्षणाद् अद्भिः शाकमूलफलानि च । (८८।२)

vrīhayaḥ prokṣaṇād adbhiḥ śākamūlaphalāni ca |

88.3८८.३

तन्मात्रस्यापहाराद् वा निस्तुषीकरणेन च ॥ (८८।३)

tanmātrasyāpahārād vā nistuṣīkaraṇena ca ||

89.1८९.१

शङ्खः । (८९।१)

śaṅkhaḥ |

89.2८९.२

श्रपणं घृततैलानां प्लावनं गोरसस्य च । (८९।२)

śrapaṇaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca |

89.3८९.३

भाण्डानि प्लावयेद् अद्भिः शाकमूलफलानि च ॥ (८९।३)

bhāṇḍāni plāvayed adbhiḥ śākamūlaphalāni ca ||

90.1९०.१

ब्राह्मे । (९०।१)

brāhme |

90.2९०.२

द्रवद्रव्याणि भूरीणि परिप्लाव्यानि चाम्भसा ॥ (९०।२)

dravadravyāṇi bhūrīṇi pariplāvyāni cāmbhasā ||

91.1९१.१

शस्यानि व्रीहयश् चैव शाकमूलफलानि च । (९१।१)

śasyāni vrīhayaś caiva śākamūlaphalāni ca |

91.2९१.२

त्यक्त्वा तु दूषितं भागं प्लाव्यान्य् अथ जलेन तु ॥ (९१।२)

tyaktvā tu dūṣitaṃ bhāgaṃ plāvyāny atha jalena tu ||

92.1९२.१

बृहस्पतिः । (९२।१)

bṛhaspatiḥ |

92.2९२.२

तापनं घृततैलानां प्लावनं गोरसस्य च । (९२।२)

tāpanaṃ ghṛtatailānāṃ plāvanaṃ gorasasya ca |

92.3९२.३

तन्मात्रम् उद्धृतं शुध्येत् कठिनं तु पयोदधि ॥ (९२।३)

tanmātram uddhṛtaṃ śudhyet kaṭhinaṃ tu payodadhi ||

93.1९३.१

अविलीनं तथा सर्पिर् विलीनं श्रपणेन तु । (९३।१)

avilīnaṃ tathā sarpir vilīnaṃ śrapaṇena tu |

93.2९३.२

आधारदोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम् ॥ (९३।२)

ādhāradoṣe tu nayet pātrāt pātrāntaraṃ dravam ||

94.1९४.१

घृतं च पायसं क्षीरं तथैक्षवरसो गुडः । (९४।१)

ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣavaraso guḍaḥ |

94.2९४.२

शूद्रभाण्डस्थितं तक्रं तथा मधु न दुष्यति ॥ (९४।२)

śūdrabhāṇḍasthitaṃ takraṃ tathā madhu na duṣyati ||

95.1९५.१

किंच मनुः । (९५।१)

kiṃca manuḥ |

95.2९५.२

उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन । (९५।२)

ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana |

95.3९५.३

अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥ (९५।३)

anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt ||

96.1९६.१

अन्येऽपि शुद्धिविधयो द्रव्याणां स्मृतिशास्त्रतः । (९६।१)

anye'pi śuddhividhayo dravyāṇāṃ smṛtiśāstrataḥ |

96.2९६.२

अपेक्ष्या वैष्णवैर् ज्ञेयास् तत्तद्विस्तारणैर् अलम् ॥ (९६।२)

apekṣyā vaiṣṇavair jñeyās tattadvistāraṇair alam ||

97.1९७.१

अथ पूजार्थतुलसीपुष्पाद्याहरणम्प्रणम्याथ महाविष्णुं प्रार्थ्यानुज्ञां तु वैष्णवः । (९७।१)

atha pūjārthatulasīpuṣpādyāharaṇampraṇamyātha mahāviṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ |

97.2९७.२

समाहरेत् श्रीतुलसीं पुष्पादि च यथोदितम् ॥ (९७।२)

samāharet śrītulasīṃ puṣpādi ca yathoditam ||

98.1९८.१

यच् च हारीतवचनम् । (९८।१)

yac ca hārītavacanam |

98.2९८.२

स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विजाः । (९८।२)

snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ |

98.3९८.३

देवतास् तन् न गृह्णन्ति भस्मीभवति काष्ठवत् ॥ (९८।३)

devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat ||

99.1९९.१

तच् च मध्याह्नस्नानविषयं यत उक्तं पाद्मे वैशाखमाहात्म्ये । (९९।१)

tac ca madhyāhnasnānaviṣayaṃ yata uktaṃ pādme vaiśākhamāhātmye |

99.2९९.२

अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृकर्मणि । (९९।२)

asnātvā tulasīṃ chittvā devārthaṃ pitṛkarmaṇi |

99.3९९.३

तत् सर्वं निष्फलं याति पञ्चगव्येन शुध्यति ॥ (९९।३)

tat sarvaṃ niṣphalaṃ yāti pañcagavyena śudhyati ||

100.1१००.१

अथ गृहस्नानविधिःस्वगृहे वाचरन् स्नानं प्रक्षाल्याङ्घ्री करौ तथा । (१००।१)

atha gṛhasnānavidhiḥsvagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā |

100.2१००.२

आचम्यायम्य च प्राणान् कृतन्यासो हरिं स्मरेत् ॥ (१००।२)

ācamyāyamya ca prāṇān kṛtanyāso hariṃ smaret ||

101.1१०१.१

ततो गणादिकं स्मृत्वा तुलसीमिश्रितैर् जलैः । (१०१।१)

tato gaṇādikaṃ smṛtvā tulasīmiśritair jalaiḥ |

101.2१०१.२

पूर्णे पात्रे समस्तानि तीर्थान्य् आवाहयेत् कृती ॥ (१०१।२)

pūrṇe pātre samastāni tīrthāny āvāhayet kṛtī ||

102.1१०२.१

आवाहनमन्त्रश् चायम् । (१०२।१)

āvāhanamantraś cāyam |

102.2१०२.२

गङ्गे च यमुने चैव गोदावरि सरस्वति । (१०२।२)

gaṅge ca yamune caiva godāvari sarasvati |

102.3१०२.३

नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ (१०२।३)

narmade sindhukāveri jale'smin sannidhiṃ kuru ||

103.1१०३.१

अथवा जाह्नवीम् एव सर्वतीर्थमयीं बुधः । (१०३।१)

athavā jāhnavīm eva sarvatīrthamayīṃ budhaḥ |

103.2१०३.२

आवाहयेद् द्वादशभिर् नामभिर् जलभाजने ॥ (१०३।२)

āvāhayed dvādaśabhir nāmabhir jalabhājane ||

104.1१०४.१

द्वादशनामानि । (१०४।१)

dvādaśanāmāni |

104.2१०४.२

नलिनी नन्दिनी सीता मालिनी च महापगा । (१०४।२)

nalinī nandinī sītā mālinī ca mahāpagā |

104.3१०४.३

विष्णुपादार्घ्यसम्भूता गङ्गा त्रिपथगामिनी । (१०४।३)

viṣṇupādārghyasambhūtā gaṅgā tripathagāminī |

104.4१०४.४

भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी ॥ (१०४।४)

bhāgīrathī bhogavatī jāhnavī tridaśeśvarī ||

105.1१०५.१

पद्मपुराणे च वैशाखमाहात्म्ये । (१०५।१)

padmapurāṇe ca vaiśākhamāhātmye |

105.2१०५.२

नन्दिनीत्य् एव ते नाम वेदेषु नलिनीति च । (१०५।२)

nandinīty eva te nāma vedeṣu nalinīti ca |

105.3१०५.३

दक्षा पृथ्वी च विहगा विश्वगाथा शिवप्रिया ॥ (१०५।३)

dakṣā pṛthvī ca vihagā viśvagāthā śivapriyā ||

106.1१०६.१

विद्याधरी महादेवी तथा लोकप्रसादिनी । (१०६।१)

vidyādharī mahādevī tathā lokaprasādinī |

106.2१०६.२

क्षेमंकरी जाह्नवी च शान्ता शान्तिप्रदायिनी ॥ (१०६।२)

kṣemaṃkarī jāhnavī ca śāntā śāntipradāyinī ||

107.1१०७.१

अथाचम्य गुरुं स्मृतानुज्ञां प्रार्थ्य च पूर्ववत् । (१०७।१)

athācamya guruṃ smṛtānujñāṃ prārthya ca pūrvavat |

107.2१०७.२

कृष्णपादाब्जतो गङ्गां पतन्तीं मूर्ध्नि चिन्तयेत् ॥ (१०७।२)

kṛṣṇapādābjato gaṅgāṃ patantīṃ mūrdhni cintayet ||

108.1१०८.१

तथा चोक्तं श्रीनारदपञ्चरात्रे । (१०८।१)

tathā coktaṃ śrīnāradapañcarātre |

108.2१०८.२

स्वस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं प्रभुं स्मरेत् । (१०८।२)

svasthitaṃ puṇḍarīkākṣaṃ mantramūrtiṃ prabhuṃ smaret |

108.3१०८.३

अनन्तादित्यसङ्काशं वासुदेवं चतुर्भुजम् ॥ (१०८।३)

anantādityasaṅkāśaṃ vāsudevaṃ caturbhujam ||

109.1१०९.१

शङ्खचक्रगदापद्मधरं पीताम्बरावृतम् । (१०९।१)

śaṅkhacakragadāpadmadharaṃ pītāmbarāvṛtam |

109.2१०९.२

श्यामलं शान्तवदनं प्रसन्नं वरदेक्षणम् ॥ (१०९।२)

śyāmalaṃ śāntavadanaṃ prasannaṃ varadekṣaṇam ||

110.1११०.१

दिव्यचन्दनलिप्ताङ्गं चारहासमुखाम्बुजम् । (११०।१)

divyacandanaliptāṅgaṃ cārahāsamukhāmbujam |

110.2११०.२

अनेकरत्नसंछन्नज्वलन्मकरकुण्डलम् ॥ (११०।२)

anekaratnasaṃchannajvalanmakarakuṇḍalam ||

111.1१११.१

वनमालापरिवृतं नारदादिभिर् अर्चितम् । (१११।१)

vanamālāparivṛtaṃ nāradādibhir arcitam |

111.2१११.२

केयूरवलयोपेतं सुवर्णमुकुटोज्ज्वलम् । (१११।२)

keyūravalayopetaṃ suvarṇamukuṭojjvalam |

111.3१११.३

सर्वाङ्गसुन्दरं देवं सर्वाभरणभूषितम् ॥ (१११।३)

sarvāṅgasundaraṃ devaṃ sarvābharaṇabhūṣitam ||

112.1११२.१

तत्पादपङ्कजाद् धारां निपतन्तीं स्वमूर्धनि । (११२।१)

tatpādapaṅkajād dhārāṃ nipatantīṃ svamūrdhani |

112.2११२.२

चिन्तयेद् ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् । (११२।२)

cintayed brahmarandhreṇa praviśantīṃ svakāṃ tanum |

112.3११२.३

तया संक्षालयेत् सर्वम् अन्तर्देहगतं मलम् ॥ (११२।३)

tayā saṃkṣālayet sarvam antardehagataṃ malam ||

113.1११३.१

तत्क्षणाद् विरजा मन्त्री जायते स्फटिकोपमः । (११३।१)

tatkṣaṇād virajā mantrī jāyate sphaṭikopamaḥ |

113.2११३.२

इदं स्नानान्तरं मान्त्रात् सहस्रम् अधिकं स्मृतम् ॥ (११३।२)

idaṃ snānāntaraṃ māntrāt sahasram adhikaṃ smṛtam ||

114.1११४.१

सकृन् नारायणेत्यादि वचनं तत्र कीर्तयेत् । (११४।१)

sakṛn nārāyaṇetyādi vacanaṃ tatra kīrtayet |

114.2११४.२

स्नानकाले तु तन्नाम संस्मरेच् च महाप्रभुम् ॥ (११४।२)

snānakāle tu tannāma saṃsmarec ca mahāprabhum ||

115.1११५.१

तथा च कूर्मपुराणे । (११५।१)

tathā ca kūrmapurāṇe |

115.2११५.२

आपो नारायणोद्भूतास् ता एवास्यायनं यथः । (११५।२)

āpo nārāyaṇodbhūtās tā evāsyāyanaṃ yathaḥ |

115.3११५.३

तस्मान् नारायणं देवं स्नानकाले स्मरेद् बुधः ॥ (११५।३)

tasmān nārāyaṇaṃ devaṃ snānakāle smared budhaḥ ||

116.1११६.१

स्नायाद् उष्णोदकेनापि शक्तो ऽप्य् आमलकैस् तथा । (११६।१)

snāyād uṣṇodakenāpi śakto 'py āmalakais tathā |

116.2११६.२

तिलैस् तैलैश् च संवर्ज्य प्रतिषिद्धदिनानि तु ॥ (११६।२)

tilais tailaiś ca saṃvarjya pratiṣiddhadināni tu ||

117.1११७.१

अथोष्णोदकस्नानम्षट्त्रिंशन्मते । (११७।१)

athoṣṇodakasnānamṣaṭtriṃśanmate |

117.2११७.२

आपः स्वभावतो मेध्या विशेषाद् अग्नियोगतः । (११७।२)

āpaḥ svabhāvato medhyā viśeṣād agniyogataḥ |

117.3११७.३

तेन सन्तः प्रशंसन्ति स्नानम् उष्णेन वारिणा ॥ (११७।३)

tena santaḥ praśaṃsanti snānam uṣṇena vāriṇā ||

118.1११८.१

यमश् च । (११८।१)

yamaś ca |

118.2११८.२

आपः स्वयं सदा पूता वह्नितप्ता विशेषतः । (११८।२)

āpaḥ svayaṃ sadā pūtā vahnitaptā viśeṣataḥ |

118.3११८.३

तस्मात् सर्वेषु कालेषु उष्णाम्भः पावनं स्मृतम् ॥ (११८।३)

tasmāt sarveṣu kāleṣu uṣṇāmbhaḥ pāvanaṃ smṛtam ||

119.1११९.१

यच् चोक्तं शङ्खेन । (११९।१)

yac coktaṃ śaṅkhena |

119.2११९.२

स्नातस्य वह्नितप्तेन तथैवातपवारिणा । (११९।२)

snātasya vahnitaptena tathaivātapavāriṇā |

119.3११९.३

शरीरशुद्धिर् विज्ञेया न तु स्नानफलं भवेत् ॥ (११९।३)

śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet ||

120.1१२०.१

तत् तु काम्यनैमित्तिकविषयम् । (१२०।१)

tat tu kāmyanaimittikaviṣayam |

120.2१२०.२

कुर्यान् नैमित्तिकं स्नानं शीताद्भिः काम्यम् एव च । (१२०।२)

kuryān naimittikaṃ snānaṃ śītādbhiḥ kāmyam eva ca |

120.3१२०.३

नित्यं यादृच्छिकं चैव यथारुचि समाचरेत् ॥ (१२०।३)

nityaṃ yādṛcchikaṃ caiva yathāruci samācaret ||

121.1१२१.१

अथ तत्र निषिद्धदिनानितत्र यमः । (१२१।१)

atha tatra niṣiddhadinānitatra yamaḥ |

121.2१२१.२

पुत्रजन्मनि सङ्क्रान्तौ ग्रहणे चन्द्रसूर्ययोः । (१२१।२)

putrajanmani saṅkrāntau grahaṇe candrasūryayoḥ |

121.3१२१.३

अस्पृश्यस्पर्शने चैव न स्नायाद् उष्णवारिणा ॥ (१२१।३)

aspṛśyasparśane caiva na snāyād uṣṇavāriṇā ||

122.1१२२.१

वृद्धमनुः । (१२२।१)

vṛddhamanuḥ |

122.2१२२.२

पौर्णमास्यां तथा दर्शे यः स्नायाद् उष्णवारिणा । (१२२।२)

paurṇamāsyāṃ tathā darśe yaḥ snāyād uṣṇavāriṇā |

122.3१२२.३

स गोहत्याकृतं पापं प्राप्नोतीह न संशयः ॥ (१२२।३)

sa gohatyākṛtaṃ pāpaṃ prāpnotīha na saṃśayaḥ ||

123.1१२३.१

अथामलकस्नानम्तत्र मार्कण्डेयः । (१२३।१)

athāmalakasnānamtatra mārkaṇḍeyaḥ |

123.2१२३.२

तुष्यत्य् आमलकैर् विष्णुर् एकादश्यां विशेषतः । (१२३।२)

tuṣyaty āmalakair viṣṇur ekādaśyāṃ viśeṣataḥ |

123.3१२३.३

श्रीकामः सर्वदा स्नानं कुर्वीतामलकैर् नरः ॥ (१२३।३)

śrīkāmaḥ sarvadā snānaṃ kurvītāmalakair naraḥ ||

124.1१२४.१

सप्तम्यां न स्पृशेत् तैलं नीलीवस्त्रं न धारयेत् । (१२४।१)

saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet |

124.2१२४.२

न चाप्य् आमलकं स्नायान् न कुर्यात् कलहं नरः ॥ (१२४।२)

na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ ||

125.1१२५.१

भृगुः । (१२५।१)

bhṛguḥ |

125.2१२५.२

अमां षष्ठीं सप्तमीं च नवमीं च त्रयोदशीम् । (१२५।२)

amāṃ ṣaṣṭhīṃ saptamīṃ ca navamīṃ ca trayodaśīm |

125.3१२५.३

सङ्क्रान्तौ रविवारे च स्नानमालकैस् त्यजेत् ॥ (१२५।३)

saṅkrāntau ravivāre ca snānamālakais tyajet ||

126.1१२६.१

याज्ञवल्क्यः । (१२६।१)

yājñavalkyaḥ |

126.2१२६.२

धात्रीफलैर् अमावस्यासप्तमीनवमीषु च । (१२६।२)

dhātrīphalair amāvasyāsaptamīnavamīṣu ca |

126.3१२६.३

यः स्नायात् तस्य हीयन्ते तेजश् चायुर्धनं सुताः ॥ (१२६।३)

yaḥ snāyāt tasya hīyante tejaś cāyurdhanaṃ sutāḥ ||

127.1१२७.१

अथ तिलस्नानम्तत्र बृहस्पतिः । (१२७।१)

atha tilasnānamtatra bṛhaspatiḥ |

127.2१२७.२

सर्वकालं तिलैः स्नानं पुनर् व्यासो ऽब्रवीन् मुनिः ॥ (१२७।२)

sarvakālaṃ tilaiḥ snānaṃ punar vyāso 'bravīn muniḥ ||

128.1१२८.१

षट्त्रिंशन्मते । (१२८।१)

ṣaṭtriṃśanmate |

128.2१२८.२

तथा सप्तम्यमावस्यासङ्क्रान्तिग्रहणेषु च । (१२८।२)

tathā saptamyamāvasyāsaṅkrāntigrahaṇeṣu ca |

128.3१२८.३

धनपुत्रकलत्रार्थी तिलस्पृष्टं न संस्पृशेत् ॥ (१२८।३)

dhanaputrakalatrārthī tilaspṛṣṭaṃ na saṃspṛśet ||

129.1१२९.१

अथ तैलस्नानम्तत्रैव । (१२९।१)

atha tailasnānamtatraiva |

129.2१२९.२

षष्ठ्यां तैलम् अनायुष्यं चतुर्थीष्व् अपि च पर्वसु ॥ (१२९।२)

ṣaṣṭhyāṃ tailam anāyuṣyaṃ caturthīṣv api ca parvasu ||

130.1१३०.१

योगी याज्ञवल्क्यः । (१३०।१)

yogī yājñavalkyaḥ |

130.2१३०.२

दशम्यां तैलम् अपृष्ट्वा यः स्नायाद् अविचक्षणः । (१३०।२)

daśamyāṃ tailam apṛṣṭvā yaḥ snāyād avicakṣaṇaḥ |

130.3१३०.३

चत्वारि तस्य नश्यन्ति आयुः प्रज्ञा यशोधनम् ॥ (१३०।३)

catvāri tasya naśyanti āyuḥ prajñā yaśodhanam ||

131.1१३१.१

मोहात् प्रतिपदं षष्ठीं कुहूं रिक्तातिथिं तथा । (१३१।१)

mohāt pratipadaṃ ṣaṣṭhīṃ kuhūṃ riktātithiṃ tathā |

131.2१३१.२

तैलेनाभ्यञ्जयेद् यस् तु चतुर्भिः परिहीयते ॥ (१३१।२)

tailenābhyañjayed yas tu caturbhiḥ parihīyate ||

132.1१३२.१

पञ्चदश्यां चतुर्दश्यां सप्तम्यां रविसङ्क्रमे । (१३२।१)

pañcadaśyāṃ caturdaśyāṃ saptamyāṃ ravisaṅkrame |

132.2१३२.२

द्वादश्यां सप्तमीं षष्ठीं तैलस्पर्शं विवर्जयेत् ॥ (१३२।२)

dvādaśyāṃ saptamīṃ ṣaṣṭhīṃ tailasparśaṃ vivarjayet ||

133.1१३३.१

अन्यच् च । (१३३।१)

anyac ca |

133.2१३३.२

सप्तम्यां न स्पृशेत् तैलं नवम्यां प्रतिपद्य् अपि । (१३३।२)

saptamyāṃ na spṛśet tailaṃ navamyāṃ pratipady api |

133.3१३३.३

अष्टम्यां च चतुर्दश्याम् अमावस्यां विशेषतः ॥ (१३३।३)

aṣṭamyāṃ ca caturdaśyām amāvasyāṃ viśeṣataḥ ||

134.1१३४.१

किंच । (१३४।१)

kiṃca |

134.2१३४.२

स्नाने वा यदि वास्नाने पक्कतैलं न दुष्यति ॥ (१३४।२)

snāne vā yadi vāsnāne pakkatailaṃ na duṣyati ||

135.1१३५.१

किंच अत्रिस्मृतौ । (१३५।१)

kiṃca atrismṛtau |

135.2१३५.२

तैलाभ्यक्तो घृताभ्यक्तो विण्मूत्रे कुरुते द्विजः । (१३५।२)

tailābhyakto ghṛtābhyakto viṇmūtre kurute dvijaḥ |

135.3१३५.३

अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ (१३५।३)

ahorātroṣito bhūtvā pañcagavyena śudhyati ||

136.1१३६.१

अथाङ्गमलम् उत्तार्य स्नात्वा विधिवद् आचरेत् । (१३६।१)

athāṅgamalam uttārya snātvā vidhivad ācaret |

136.2१३६.२

नासालग्नेन चुलुकोदकेनैवाघमर्षणम् ॥ (१३६।२)

nāsālagnena culukodakenaivāghamarṣaṇam ||

137.1१३७.१

ततो गुर्वादिपादोदैः प्राग्वत् कृत्वाभिषेचनम् । (१३७।१)

tato gurvādipādodaiḥ prāgvat kṛtvābhiṣecanam |

137.2१३७.२

कार्यो ऽभिषेकः शङ्खेन तुलसीमिश्रितैर् जलैः ॥ (१३७।२)

kāryo 'bhiṣekaḥ śaṅkhena tulasīmiśritair jalaiḥ ||

138.1१३८.१

अथ तुलसीजलाभिषेकमाहत्म्यम्गारुडे । (१३८।१)

atha tulasījalābhiṣekamāhatmyamgāruḍe |

138.2१३८.२

मार्जयत्य् अभिषेके तु तुलस्या वैष्णवो नरः । (१३८।२)

mārjayaty abhiṣeke tu tulasyā vaiṣṇavo naraḥ |

138.3१३८.३

सर्वतीर्थमयं देहं तत्क्षणात् द्विज जायते ॥ (१३८।३)

sarvatīrthamayaṃ dehaṃ tatkṣaṇāt dvija jāyate ||

139.1१३९.१

तुलसीदलजस्नाने एकादश्यां विशेषतः । (१३९।१)

tulasīdalajasnāne ekādaśyāṃ viśeṣataḥ |

139.2१३९.२

मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्महा भवेत् ॥ (१३९।२)

mucyate sarvapāpebhyo yadyapi brahmahā bhavet ||

140.1१४०.१

तन्मूलमृत्तिकाभ्यङ्गं कृत्वा स्नाति दिने दिने । (१४०।१)

tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine |

140.2१४०.२

दशाश्वमेधावभृतं लभते स्नानजं फलम् ॥ (१४०।२)

daśāśvamedhāvabhṛtaṃ labhate snānajaṃ phalam ||

141.1१४१.१

तुलसीदलसंमिश्रं तोयं गङ्गासमं विदुः । (१४१।१)

tulasīdalasaṃmiśraṃ toyaṃ gaṅgāsamaṃ viduḥ |

141.2१४१.२

यो वहेच्छिरसा नित्यं धृता भवति जाह्नवी ॥ (१४१।२)

yo vahecchirasā nityaṃ dhṛtā bhavati jāhnavī ||

142.1१४२.१

पादोदकं ताम्रपात्रे कृत्वा सतुलसीदलम् । (१४२।१)

pādodakaṃ tāmrapātre kṛtvā satulasīdalam |

142.2१४२.२

शङ्खं कृत्वाभिषिञ्चेत मूलेनैव स्वमूर्धनि ॥ (१४२।२)

śaṅkhaṃ kṛtvābhiṣiñceta mūlenaiva svamūrdhani ||

143.1१४३.१

तन्माहात्म्ये चोक्तं पाद्मे कार्त्तिकमाहात्म्ये । (१४३।१)

tanmāhātmye coktaṃ pādme kārttikamāhātmye |

143.2१४३.२

द्वारकाचक्रसंयुक्तशालग्रामशिलाजलम् । (१४३।२)

dvārakācakrasaṃyuktaśālagrāmaśilājalam |

143.3१४३.३

शङ्खे कृत्वा तु निक्षिप्तं स्नानार्थं ताम्रभाजने । (१४३।३)

śaṅkhe kṛtvā tu nikṣiptaṃ snānārthaṃ tāmrabhājane |

143.4१४३.४

तुलसीदलसंयुक्तं ब्रह्महत्याविनाशनम् ॥ (१४३।४)

tulasīdalasaṃyuktaṃ brahmahatyāvināśanam ||

144.1१४४.१

स्नानशाटीतरेणैव वाससाम्भांसि गात्रतः । (१४४।१)

snānaśāṭītareṇaiva vāsasāmbhāṃsi gātrataḥ |

144.2१४४.२

संमार्ज्य वाससी दध्यात् परिधानोत्तरीयके ॥ (१४४।२)

saṃmārjya vāsasī dadhyāt paridhānottarīyake ||

145.1१४५.१

अथ वस्त्रधारणविधिःतत्रात्रिः । (१४५।१)

atha vastradhāraṇavidhiḥtatrātriḥ |

145.2१४५.२

अधौतं कारुधौतं वा परेद्युधौतम् एव वा । (१४५।२)

adhautaṃ kārudhautaṃ vā paredyudhautam eva vā |

145.3१४५.३

काषायं मलिनं वस्त्रं कौपीनं च परित्यजेत् ॥ (१४५।३)

kāṣāyaṃ malinaṃ vastraṃ kaupīnaṃ ca parityajet ||

146.1१४६.१

न चार्द्रम् एव वसनं परिदध्यात् कदाचन ॥ (१४६।१)

na cārdram eva vasanaṃ paridadhyāt kadācana ||

147.1१४७.१

नग्नो मलिनवस्त्रः स्यात् नग्नश् चार्धपटस् तथा । (१४७।१)

nagno malinavastraḥ syāt nagnaś cārdhapaṭas tathā |

147.2१४७.२

नग्नो द्विगुणवस्त्रः स्यान् नग्नो रक्तपटस् तथा ॥ (१४७।२)

nagno dviguṇavastraḥ syān nagno raktapaṭas tathā ||

148.1१४८.१

नग्नश् च स्यूतवस्त्रः स्यान् नग्नः स्निग्धपटस् तथा । (१४८।१)

nagnaś ca syūtavastraḥ syān nagnaḥ snigdhapaṭas tathā |

148.2१४८.२

द्विकच्छो ऽनुत्तरीयश् च नग्नश् चावस्त्र एव च ॥ (१४८।२)

dvikaccho 'nuttarīyaś ca nagnaś cāvastra eva ca ||

149.1१४९.१

श्रौतं स्मार्तं तथा कर्म न नग्नश् चिन्तयेद् अपि । (१४९।१)

śrautaṃ smārtaṃ tathā karma na nagnaś cintayed api |

149.2१४९.२

मोहात् कुर्वन्न् अधो गच्छेत् तद् भवेद् आसुरं स्मृतम् ॥ (१४९।२)

mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam ||

150.1१५०.१

जपहोमोपवासेषु धौतवस्त्रधरो भवेत् । (१५०।१)

japahomopavāseṣu dhautavastradharo bhavet |

150.2१५०.२

अलंकृतः शुचिर् मौनी श्राद्धादौ च जितेन्द्रियः ॥ (१५०।२)

alaṃkṛtaḥ śucir maunī śrāddhādau ca jitendriyaḥ ||

151.1१५१.१

गोभिलः । (१५१।१)

gobhilaḥ |

151.2१५१.२

एकवस्त्रो न भुञ्जीत न कुर्याद् देवनार्चनम् ॥ (१५१।२)

ekavastro na bhuñjīta na kuryād devanārcanam ||

152.1१५२.१

त्रैलोक्यसम्मोहनपञ्चरात्रे । (१५२।१)

trailokyasammohanapañcarātre |

152.2१५२.२

शुक्लवासो भवेन् नित्यं रक्तं चैव विवर्जयेत् ॥ (१५२।२)

śuklavāso bhaven nityaṃ raktaṃ caiva vivarjayet ||

153.1१५३.१

अङ्गिराः । (१५३।१)

aṅgirāḥ |

153.2१५३.२

शौचं सहस्ररोमाणां वाय्वग्न्यर्केन्दुरश्मिभिः । (१५३।२)

śaucaṃ sahasraromāṇāṃ vāyvagnyarkenduraśmibhiḥ |

153.3१५३.३

रेतःस्पृष्टं शवस्पृष्टम् आविकं नैव दुष्यति ॥ (१५३।३)

retaḥspṛṣṭaṃ śavaspṛṣṭam āvikaṃ naiva duṣyati ||

154.1१५४.१

अन्यत्र च । (१५४।१)

anyatra ca |

154.2१५४.२

छिन्नं वा संधितं दग्धम् आविकं न प्रदुष्यति । (१५४।२)

chinnaṃ vā saṃdhitaṃ dagdham āvikaṃ na praduṣyati |

154.3१५४.३

आविकेन तु वस्त्रेण मानवः श्राद्धम् आचरेत् । (१५४।३)

āvikena tu vastreṇa mānavaḥ śrāddham ācaret |

154.4१५४.४

गयाश्राद्धसमं प्रोक्तं पितृभ्यो दत्तम् अक्षयम् ॥ (१५४।४)

gayāśrāddhasamaṃ proktaṃ pitṛbhyo dattam akṣayam ||

155.1१५५.१

न कुर्यात् संधितं वस्त्रं देवकर्मणि भूमिप । (१५५।१)

na kuryāt saṃdhitaṃ vastraṃ devakarmaṇi bhūmipa |

155.2१५५.२

न दग्धं न च वै छिन्नं पारक्यं न तु धारयेत् ॥ (१५५।२)

na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet ||

156.1१५६.१

काकविष्ठासमं ह्य् उक्तम् अविधौतं च यद् भवेत् । (१५६।१)

kākaviṣṭhāsamaṃ hy uktam avidhautaṃ ca yad bhavet |

156.2१५६.२

रजकाद् आहृतं यच् च न तद् वस्त्रं भवेच्छुचि ॥ (१५६।२)

rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci ||

157.1१५७.१

कीटस्पृष्टं तु यद् वस्त्रं पुरीषं येन कारितम् । (१५७।१)

kīṭaspṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam |

157.2१५७.२

मूत्रं वा मैथुनं वापि तद् वस्त्रं परिवर्जयेत् ॥ (१५७।२)

mūtraṃ vā maithunaṃ vāpi tad vastraṃ parivarjayet ||

158.1१५८.१

आविकं तु सदा वस्त्रं पवित्रं राजसत्तम । (१५८।१)

āvikaṃ tu sadā vastraṃ pavitraṃ rājasattama |

158.2१५८.२

पितृदेवमनुष्याणां क्रियायां च प्रशस्यते ॥ (१५८।२)

pitṛdevamanuṣyāṇāṃ kriyāyāṃ ca praśasyate ||

159.1१५९.१

धौताधौतं तथा दग्धं संधितं रजकाहृतम् । (१५९।१)

dhautādhautaṃ tathā dagdhaṃ saṃdhitaṃ rajakāhṛtam |

159.2१५९.२

शुक्रमूत्ररक्तलिप्तं तथापि परमं शुचि ॥ (१५९।२)

śukramūtraraktaliptaṃ tathāpi paramaṃ śuci ||

160.1१६०.१

अग्निर् आविकवस्त्रं च ब्राह्मणाश् च तथा कुशाः । (१६०।१)

agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ |

160.2१६०.२

चतुर्णां न कृतो दोषो ब्रह्मणा परमेष्ठिना ॥ (१६०।२)

caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā ||

161.1१६१.१

किंचान्यत्र । (१६१।१)

kiṃcānyatra |

161.2१६१.२

धारयेद् वाससी शुद्धे परिधानोत्तरीयके । (१६१।२)

dhārayed vāsasī śuddhe paridhānottarīyake |

161.3१६१.३

अच्छिन्नसुदशे शुक्ले आचामेत् पीठसंस्थितः ॥ (१६१।३)

acchinnasudaśe śukle ācāmet pīṭhasaṃsthitaḥ ||

162.1१६२.१

अथ पीठम्बह्वृचपरिशिष्टे । (१६२।१)

atha pīṭhambahvṛcapariśiṣṭe |

162.2१६२.२

यतीनाम् आसनं शुक्लं कूर्माकारं तु कारयेत् । (१६२।२)

yatīnām āsanaṃ śuklaṃ kūrmākāraṃ tu kārayet |

162.3१६२.३

अन्येषां तु चतुष्पादं चतुरस्रं तु कारयेत् ॥ (१६२।३)

anyeṣāṃ tu catuṣpādaṃ caturasraṃ tu kārayet ||

163.1१६३.१

गोशकृन्मयं भिन्नं तथा पलाशपैप्पलम् । (१६३।१)

gośakṛnmayaṃ bhinnaṃ tathā palāśapaippalam |

163.2१६३.२

लोहबद्धं सदैवार्कं वर्जयेद् आसनं बुधः ॥ (१६३।२)

lohabaddhaṃ sadaivārkaṃ varjayed āsanaṃ budhaḥ ||

164.1१६४.१

अथासनविधिःतत्रैव । (१६४।१)

athāsanavidhiḥtatraiva |

164.2१६४.२

दानम् आचमनं होमं भोजनं देवतार्चनम् । (१६४।२)

dānam ācamanaṃ homaṃ bhojanaṃ devatārcanam |

164.3१६४.३

प्रौढपादो न कुर्वीत स्वाध्यायं चैव तर्पणम् ॥ (१६४।३)

prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam ||

165.1१६५.१

आसनारूढपादस् तु जानुनोर् वाथ जङ्घयोः । (१६५।१)

āsanārūḍhapādas tu jānunor vātha jaṅghayoḥ |

165.2१६५.२

कृतावसक्थिको यस् तु प्रौढपादः स उच्यते ॥ (१६५।२)

kṛtāvasakthiko yas tu prauḍhapādaḥ sa ucyate ||

166.1१६६.१

ततो भूमिगताङ्घ्रिः सन् निविश्याचम्य दर्भभृत् । (१६६।१)

tato bhūmigatāṅghriḥ san niviśyācamya darbhabhṛt |

166.2१६६.२

ऊर्ध्वपुण्ड्रादिकं कुर्यात् श्रीगोपीचन्दनादिना ॥ (१६६।२)

ūrdhvapuṇḍrādikaṃ kuryāt śrīgopīcandanādinā ||

167.1१६७.१

तत्रादाव् अनुलेपेन भगवच्चरणाब्जयोः । (१६७।१)

tatrādāv anulepena bhagavaccaraṇābjayoḥ |

167.2१६७.२

निर्माल्येन प्रसादेन सर्वाण्य् अङ्गानि मार्जयेत् ॥ (१६७।२)

nirmālyena prasādena sarvāṇy aṅgāni mārjayet ||

168.1१६८.१

तद् उक्तं ब्राह्मे श्रीभगवता । (१६८।१)

tad uktaṃ brāhme śrībhagavatā |

168.2१६८.२

शालग्रामशिलालग्नं चन्दनं धारयेत् सदा । (१६८।२)

śālagrāmaśilālagnaṃ candanaṃ dhārayet sadā |

168.3१६८.३

सर्वाङ्गेषु महाशुद्धिसिद्धये कमलासन ॥ (१६८।३)

sarvāṅgeṣu mahāśuddhisiddhaye kamalāsana ||

169.1१६९.१

ततो द्वादशभिः कुर्यान् नामभिः केशवादिभिः । (१६९।१)

tato dvādaśabhiḥ kuryān nāmabhiḥ keśavādibhiḥ |

169.2१६९.२

द्वादशाङ्गेषु विधिवद् ऊर्ध्वपुण्ड्राणि वैष्णवः ॥ (१६९।२)

dvādaśāṅgeṣu vidhivad ūrdhvapuṇḍrāṇi vaiṣṇavaḥ ||

170.1१७०.१

अथ द्वादशतिलकविधिःपद्मपुराणे उत्तरखण्डे । (१७०।१)

atha dvādaśatilakavidhiḥpadmapurāṇe uttarakhaṇḍe |

170.2१७०.२

ललाटे केशवं ध्यायेन् नारायणम् अथोदरे । (१७०।२)

lalāṭe keśavaṃ dhyāyen nārāyaṇam athodare |

170.3१७०.३

वक्षःस्थले माधवं तु गोविन्दं कण्ठकूपके ॥ (१७०।३)

vakṣaḥsthale mādhavaṃ tu govindaṃ kaṇṭhakūpake ||

171.1१७१.१

विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् । (१७१।१)

viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam |

171.2१७१.२

त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके ॥ (१७१।२)

trivikramaṃ kandhare tu vāmanaṃ vāmapārśvake ||

172.1१७२.१

श्रीधरं वामबाहौ तु हृषीकेशं तु कन्धरे । (१७२।१)

śrīdharaṃ vāmabāhau tu hṛṣīkeśaṃ tu kandhare |

172.2१७२.२

पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेत् ॥ (१७२।२)

pṛṣṭhe tu padmanābhaṃ ca kaṭyāṃ dāmodaraṃ nyaset ||

173.1१७३.१

तत्प्रक्षालनतोयं तु वासुदेवेति मूर्धनि ॥ (१७३।१)

tatprakṣālanatoyaṃ tu vāsudeveti mūrdhani ||

174.1१७४.१

किंच । (१७४।१)

kiṃca |

174.2१७४.२

ऊर्ध्वपुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् । (१७४।२)

ūrdhvapuṇḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam |

174.3१७४.३

ललाटादिक्रमेणैव धारणं तु विधीयते ॥ (१७४।३)

lalāṭādikrameṇaiva dhāraṇaṃ tu vidhīyate ||

175.1१७५.१

एवं न्यासं समाचर्य सम्प्रदायानुसारतः । (१७५।१)

evaṃ nyāsaṃ samācarya sampradāyānusārataḥ |

175.2१७५.२

न्यसेत् किरीटमन्त्रं च मूर्ध्नि सर्वार्थसिद्धये ॥ (१७५।२)

nyaset kirīṭamantraṃ ca mūrdhni sarvārthasiddhaye ||

176.1१७६.१

अथ किरीटमन्त्रःॐ श्रीकिरीटकेयूरहारमकरकुण्डलचक्रशङ्खगदापद्महस्तपीताम्बरधर श्रीवत्साङ्कितवक्षःस्थल श्रीभूमिसहितस्वात्मज्योतिर् दीप्तिकराय सहस्रादित्यतेजसे नमो नमः ॥ (१७६।१)

atha kirīṭamantraḥoṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ ||

177.1१७७.१

अथोर्ध्वपुण्ड्रनित्यतापाद्मे श्रीभगवदुक्तौ । (१७७।१)

athordhvapuṇḍranityatāpādme śrībhagavaduktau |

177.2१७७.२

मत्प्रियार्थं शुभार्थं वा रक्षार्थे चतुरानन । (१७७।२)

matpriyārthaṃ śubhārthaṃ vā rakṣārthe caturānana |

177.3१७७.३

मत्पूजाहोमकाले च सायं प्रातः समाहितः । (१७७।३)

matpūjāhomakāle ca sāyaṃ prātaḥ samāhitaḥ |

177.4१७७.४

मद्भक्तो धारयेन् नित्यम् ऊर्ध्वपुण्ड्रं भयापहम् ॥ (१७७।४)

madbhakto dhārayen nityam ūrdhvapuṇḍraṃ bhayāpaham ||

178.1१७८.१

तत्रैव श्रीनारदोक्तौ । (१७८।१)

tatraiva śrīnāradoktau |

178.2१७८.२

यज्ञो दानं तपो होमः स्वाध्यायः पितृतर्पणम् । (१७८।२)

yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam |

178.3१७८.३

व्यर्थं भवति तत् सर्वम् ऊर्ध्वपुण्ड्रं विना कृतम् ॥ (१७८।३)

vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinā kṛtam ||

179.1१७९.१

तत्रैवोत्तरखण्डे । (१७९।१)

tatraivottarakhaṇḍe |

179.2१७९.२

ऊर्ध्वपुण्ड्रैर् विहीनस् तु किंचित् कर्म करोति यः । (१७९।२)

ūrdhvapuṇḍrair vihīnas tu kiṃcit karma karoti yaḥ |

179.3१७९.३

इष्टापूर्तादिकं सर्वं निष्फलं स्यान् न संशयः ॥ (१७९।३)

iṣṭāpūrtādikaṃ sarvaṃ niṣphalaṃ syān na saṃśayaḥ ||

180.1१८०.१

ऊर्ध्वपुण्ड्रैर् विहीनस् तु सन्ध्याकर्मादिकं चरेत् । (१८०।१)

ūrdhvapuṇḍrair vihīnas tu sandhyākarmādikaṃ caret |

180.2१८०.२

तत् सर्वं राक्षसं नित्यं नरकं चाधिगच्छति ॥ (१८०।२)

tat sarvaṃ rākṣasaṃ nityaṃ narakaṃ cādhigacchati ||

181.1१८१.१

अन्यच् च । (१८१।१)

anyac ca |

181.2१८१.२

ऊर्ध्वपुण्ड्रे त्रिपुण्ड्रं यः कुरुते नराधमः । (१८१।२)

ūrdhvapuṇḍre tripuṇḍraṃ yaḥ kurute narādhamaḥ |

181.3१८१.३

भङ्क्त्वा विष्णुगृहं पुण्ड्रं स याति नरकं ध्रुवम् ॥ (१८१।३)

bhaṅktvā viṣṇugṛhaṃ puṇḍraṃ sa yāti narakaṃ dhruvam ||

182.1१८२.१

अत एव पाद्मे श्रीनारदोक्तौ । (१८२।१)

ata eva pādme śrīnāradoktau |

182.2१८२.२

यच्छरीरं मनुष्याणाम् ऊर्ध्वपुण्ड्रं विना कृतम् । (१८२।२)

yaccharīraṃ manuṣyāṇām ūrdhvapuṇḍraṃ vinā kṛtam |

182.3१८२.३

द्रष्टव्यं नैव तत् तावत् श्मशानसदृशं भवेत् ॥ (१८२।३)

draṣṭavyaṃ naiva tat tāvat śmaśānasadṛśaṃ bhavet ||

183.1१८३.१

पद्मपुराणे । (१८३।१)

padmapurāṇe |

183.2१८३.२

ऊर्ध्वपुण्ड्रं मृदा सौम्यं ललाटे यस्य दृश्यते । (१८३।२)

ūrdhvapuṇḍraṃ mṛdā saumyaṃ lalāṭe yasya dṛśyate |

183.3१८३.३

स चाण्डालो ऽपि शुद्धात्मा पूज्य एव न संशयः ॥ (१८३।३)

sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ ||

184.1१८४.१

स्कान्दे । (१८४।१)

skānde |

184.2१८४.२

तिर्यक्पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणेऽपि च । (१८४।२)

tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe'pi ca |

184.3१८४.३

नैवान्यन् नाम च ब्रूयात् पुमान् नारायणाद् ऋते ॥ (१८४।३)

naivānyan nāma ca brūyāt pumān nārāyaṇād ṛte ||

185.1१८५.१

धारयेद् विष्णुनिर्माल्यं धूपशेषं विलेपनम् । (१८५।१)

dhārayed viṣṇunirmālyaṃ dhūpaśeṣaṃ vilepanam |

185.2१८५.२

वैष्णवं कारयेत् पुण्ड्रं गोपीचन्दनसम्भवम् ॥ (१८५।२)

vaiṣṇavaṃ kārayet puṇḍraṃ gopīcandanasambhavam ||

186.1१८६.१

तत्रैव कार्त्तिकप्रसङ्गे । (१८६।१)

tatraiva kārttikaprasaṅge |

186.2१८६.२

यस्योर्ध्वपुण्ड्रं दृश्येत ललाटे नो नरस्य हि । (१८६।२)

yasyordhvapuṇḍraṃ dṛśyeta lalāṭe no narasya hi |

186.3१८६.३

तद्दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् ॥ (१८६।३)

taddarśanaṃ na kartavyaṃ dṛṣṭvā sūryaṃ nirīkṣayet ||

187.1१८७.१

अन्यत्रापि । (१८७।१)

anyatrāpi |

187.2१८७.२

वैष्णवानां ब्राह्मणानाम् ऊर्ध्वपुण्ड्रं विधीयते । (१८७।२)

vaiṣṇavānāṃ brāhmaṇānām ūrdhvapuṇḍraṃ vidhīyate |

187.3१८७.३

अन्येषां तु त्रिपुण्ड्रं स्याद् इति ब्रह्मविदो विदुः ॥ (१८७।३)

anyeṣāṃ tu tripuṇḍraṃ syād iti brahmavido viduḥ ||

188.1१८८.१

त्रिपुण्ड्रं यस्य विप्रस्य ऊर्ध्वपुण्ड्रं न दृश्यते । (१८८।१)

tripuṇḍraṃ yasya viprasya ūrdhvapuṇḍraṃ na dṛśyate |

188.2१८८.२

तं स्पृष्ट्वाप्य् अथवा दृष्ट्वा सचेलं स्नानम् आचरेत् ॥ (१८८।२)

taṃ spṛṣṭvāpy athavā dṛṣṭvā sacelaṃ snānam ācaret ||

189.1१८९.१

ऊर्ध्वपुण्ड्रे न कुर्वीत वैष्णवानां त्रिपुण्ड्रकम् । (१८९।१)

ūrdhvapuṇḍre na kurvīta vaiṣṇavānāṃ tripuṇḍrakam |

189.2१८९.२

कृतत्रिपुण्ड्रमर्त्यस्य क्रिया न प्रीतये हरेः ॥ (१८९।२)

kṛtatripuṇḍramartyasya kriyā na prītaye hareḥ ||

190.1१९०.१

अत एवोत्तरखण्डे । (१९०।१)

ata evottarakhaṇḍe |

190.2१९०.२

अश्वत्थपत्रसङ्काशो वेणुपत्राकृतिस् तथा । (१९०।२)

aśvatthapatrasaṅkāśo veṇupatrākṛtis tathā |

190.3१९०.३

पद्मकुड्मलसङ्काशो मोहनं त्रितयं स्मृतम् ॥ (१९०।३)

padmakuḍmalasaṅkāśo mohanaṃ tritayaṃ smṛtam ||

191.1१९१.१

अथोर्ध्वपुण्ड्रमाहात्म्यम्स्कान्दे कार्त्तिकप्रसङ्गे । (१९१।१)

athordhvapuṇḍramāhātmyamskānde kārttikaprasaṅge |

191.2१९१.२

ऊर्ध्वपुण्ड्रो मृदा शुभ्रो ललाटे यस्य दृश्यते । (१९१।२)

ūrdhvapuṇḍro mṛdā śubhro lalāṭe yasya dṛśyate |

191.3१९१.३

चण्डालो ऽपि विशुद्धात्मा याति ब्रहम् सनातनम् ॥ (१९१।३)

caṇḍālo 'pi viśuddhātmā yāti braham sanātanam ||

192.1१९२.१

ऊर्ध्वपुण्ड्रे स्थिता लक्ष्मीर् ऊर्ध्वपुण्ड्रे स्थितं यशः । (१९२।१)

ūrdhvapuṇḍre sthitā lakṣmīr ūrdhvapuṇḍre sthitaṃ yaśaḥ |

192.2१९२.२

ऊर्ध्वपुण्ड्रे स्थिता मुक्तिर् ऊर्ध्वपुण्ड्रे स्थितो हरिः ॥ (१९२।२)

ūrdhvapuṇḍre sthitā muktir ūrdhvapuṇḍre sthito hariḥ ||

193.1१९३.१

पद्मपुराणे । (१९३।१)

padmapurāṇe |

193.2१९३.२

ऊर्ध्वपुण्ड्रं मुदा सौम्यं ललाटे यस्य दृश्यते । (१९३।२)

ūrdhvapuṇḍraṃ mudā saumyaṃ lalāṭe yasya dṛśyate |

193.3१९३.३

स चाण्डालो ऽपि शुद्धात्मा पूज्य एव न संशयः ॥ (१९३।३)

sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ ||

194.1१९४.१

तत्रैवोत्तरखण्डे शिवोमासंवादे । (१९४।१)

tatraivottarakhaṇḍe śivomāsaṃvāde |

194.2१९४.२

ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे । (१९४।२)

ūrdhvapuṇḍrasya madhye tu viśāle sumanohare |

194.3१९४.३

लक्ष्म्या सार्धं समासीनो देवदेवो जनार्दनः ॥ (१९४।३)

lakṣmyā sārdhaṃ samāsīno devadevo janārdanaḥ ||

195.1१९५.१

तस्माद् यस्य शरीरे तु ऊर्ध्वपुण्ड्रं धृतो भवेत् । (१९५।१)

tasmād yasya śarīre tu ūrdhvapuṇḍraṃ dhṛto bhavet |

195.2१९५.२

तस्य देहं भगवतो विमलं मन्दिरं शुभम् ॥ (१९५।२)

tasya dehaṃ bhagavato vimalaṃ mandiraṃ śubham ||

196.1१९६.१

ऊर्ध्वपुण्ड्रधरो विप्रः सर्वलोकेषु पूजितः । (१९६।१)

ūrdhvapuṇḍradharo vipraḥ sarvalokeṣu pūjitaḥ |

196.2१९६.२

विमानवरम् आरुह्य याति विष्णोः परं पदम् ॥ (१९६।२)

vimānavaram āruhya yāti viṣṇoḥ paraṃ padam ||

197.1१९७.१

ऊर्ध्वपुण्ड्रधरं दृष्ट्वा सर्वपापैः प्रमुच्यते । (१९७।१)

ūrdhvapuṇḍradharaṃ dṛṣṭvā sarvapāpaiḥ pramucyate |

197.2१९७.२

नमस्कृत्वाथवा भक्त्या सर्वदानफलं लभेत् ॥ (१९७।२)

namaskṛtvāthavā bhaktyā sarvadānaphalaṃ labhet ||

198.1१९८.१

ऊर्ध्वपुण्ड्रधरं विप्रं यः श्राद्धे भोजयिष्यति । (१९८।१)

ūrdhvapuṇḍradharaṃ vipraṃ yaḥ śrāddhe bhojayiṣyati |

198.2१९८.२

आ कल्पकोटिपितरस् तस्य तृप्ता न संशयः ॥ (१९८।२)

ā kalpakoṭipitaras tasya tṛptā na saṃśayaḥ ||

199.1१९९.१

ऊर्ध्वपुण्ड्रधरो यस् तु कुर्याच्छ्राद्धं शुभानने । (१९९।१)

ūrdhvapuṇḍradharo yas tu kuryācchrāddhaṃ śubhānane |

199.2१९९.२

कल्पकोटिसहस्राणि गयाश्राद्धफलं लभेत् ॥ (१९९।२)

kalpakoṭisahasrāṇi gayāśrāddhaphalaṃ labhet ||

200.1२००.१

यज्ञदानतपश्चर्याजपहोमादिकं च यत् । (२००।१)

yajñadānatapaścaryājapahomādikaṃ ca yat |

200.2२००.२

ऊर्ध्वपुण्ड्रधरः कुर्यात् तस्य पुण्यम् अनन्तकम् ॥ (२००।२)

ūrdhvapuṇḍradharaḥ kuryāt tasya puṇyam anantakam ||

201.1२०१.१

श्रीब्रह्माण्डपुराणे । (२०१।१)

śrībrahmāṇḍapurāṇe |

201.2२०१.२

अशुचिर् वाप्यनाचारो मनसा पापम् आचरन् । (२०१।२)

aśucir vāpyanācāro manasā pāpam ācaran |

201.3२०१.३

शुचिर् एव भवेन् नित्यम् ऊर्ध्वपुण्ड्राङ्कितो नरः ॥ (२०१।३)

śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ ||

202.1२०२.१

तत्रैव श्रीभगवद्वचनम् । (२०२।१)

tatraiva śrībhagavadvacanam |

202.2२०२.२

ऊर्ध्वपूण्ड्रधरो मर्त्यो म्रियते यत्र कुत्रचित् । (२०२।२)

ūrdhvapūṇḍradharo martyo mriyate yatra kutracit |

202.3२०२.३

श्वपाको ऽपि विमानस्थो मम लोके महीयते ॥ (२०२।३)

śvapāko 'pi vimānastho mama loke mahīyate ||

203.1२०३.१

ऊर्ध्वपूण्ड्रधरो मर्त्यो गृहे यस्यान्नम् अश्नुते । (२०३।१)

ūrdhvapūṇḍradharo martyo gṛhe yasyānnam aśnute |

203.2२०३.२

तदा विंशत्कुलं तस्य नरकाद् उद्धराम्य् अहं ॥ (२०३।२)

tadā viṃśatkulaṃ tasya narakād uddharāmy ahaṃ ||

204.1२०४.१

अथोह्वपूण्ड्रैर्माणविधिःश्रीब्रह्माण्डपुराणे । (२०४।१)

athohvapūṇḍrairmāṇavidhiḥśrībrahmāṇḍapurāṇe |

204.2२०४.२

वीक्ष्यादर्शे जले वापि यो विदध्यात् प्रयत्नतः । (२०४।२)

vīkṣyādarśe jale vāpi yo vidadhyāt prayatnataḥ |

204.3२०४.३

ऊर्ध्वपूण्ड्रं महाभाग स याति परमां गतिम् ॥ (२०४।३)

ūrdhvapūṇḍraṃ mahābhāga sa yāti paramāṃ gatim ||

205.1२०५.१

दशाङ्गुलप्रमाणं तु उत्तमोत्तमम् उच्यते । (२०५।१)

daśāṅgulapramāṇaṃ tu uttamottamam ucyate |

205.2२०५.२

नवाङ्गुलं मध्यमं स्याद् अष्टाङ्गुलम् अतः परम् ॥ (२०५।२)

navāṅgulaṃ madhyamaṃ syād aṣṭāṅgulam ataḥ param ||

206.1२०६.१

एतैर् अङ्गुलिभेदैस् तु कारयेन् न नखैः स्पृशेत् ॥ (२०६।१)

etair aṅgulibhedais tu kārayen na nakhaiḥ spṛśet ||

207.1२०७.१

पद्मपुराणे उत्तरखण्डे तत्रैव । (२०७।१)

padmapurāṇe uttarakhaṇḍe tatraiva |

207.2२०७.२

एकान्तिनो महाभागाः सर्वभूतहिते रताः । (२०७।२)

ekāntino mahābhāgāḥ sarvabhūtahite ratāḥ |

207.3२०७.३

सान्तरालं प्रकुर्वीरन् पुण्ड्रं हरिपदाकृतिम् ॥ (२०७।३)

sāntarālaṃ prakurvīran puṇḍraṃ haripadākṛtim ||

208.1२०८.१

श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं तथा । (२०८।१)

śyāmaṃ śāntikaraṃ proktaṃ raktaṃ vaśyakaraṃ tathā |

208.2२०८.२

श्रीकरं पीतम् इत्य् आहुः श्वेतं मोक्षकरं शुभम् ॥ (२०८।२)

śrīkaraṃ pītam ity āhuḥ śvetaṃ mokṣakaraṃ śubham ||

209.1२०९.१

वर्तुलं तिर्यग् अच्छिद्रं ह्रस्वं दीर्घं ततं तनुम् । (२०९।१)

vartulaṃ tiryag acchidraṃ hrasvaṃ dīrghaṃ tataṃ tanum |

209.2२०९.२

वक्रं विरूपं बद्धाग्रं छिन्नमूलं पदच्युतम् ॥ (२०९।२)

vakraṃ virūpaṃ baddhāgraṃ chinnamūlaṃ padacyutam ||

210.1२१०.१

अशुभं रूक्षम् आसक्तं तथा नाङ्गुलिकल्पितम् । (२१०।१)

aśubhaṃ rūkṣam āsaktaṃ tathā nāṅgulikalpitam |

210.2२१०.२

विगन्धम् अवसह्यं च पुण्ड्रम् आहुर् अनर्थकम् ॥ (२१०।२)

vigandham avasahyaṃ ca puṇḍram āhur anarthakam ||

211.1२११.१

आरभ्य नासिकामूलं ललाटान्तं लिखेन् मृदा । (२११।१)

ārabhya nāsikāmūlaṃ lalāṭāntaṃ likhen mṛdā |

211.2२११.२

नासिकायास् त्रयो भागा नासामूलं प्रचक्ष्यते ॥ (२११।२)

nāsikāyās trayo bhāgā nāsāmūlaṃ pracakṣyate ||

212.1२१२.१

समारभ्य भ्रुवोर् मध्यम् अन्तरालं प्रकल्पयेत् ॥ (२१२।१)

samārabhya bhruvor madhyam antarālaṃ prakalpayet ||

213.1२१३.१

तत्रैव । (२१३।१)

tatraiva |

213.2२१३.२

निरन्तरालं यः कुर्याद् ऊर्ध्वपुण्ड्रं द्विजाधमः । (२१३।२)

nirantarālaṃ yaḥ kuryād ūrdhvapuṇḍraṃ dvijādhamaḥ |

213.3२१३.३

स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥ (२१३।३)

sa hi tatra sthitaṃ viṣṇuṃ śriyaṃ caiva vyapohati ||

214.1२१४.१

अच्छिद्रम् ऊर्ध्वपुण्ड्रं तु ये कुर्वन्ति द्विजाधमाः । (२१४।१)

acchidram ūrdhvapuṇḍraṃ tu ye kurvanti dvijādhamāḥ |

214.2२१४.२

तेषां ललाटे सततं शुनः पादो न संशयः ॥ (२१४।२)

teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ ||

215.1२१५.१

तस्माच्छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनम् । (२१५।१)

tasmācchidrānvitaṃ puṇḍraṃ daṇḍākāraṃ suśobhanam |

215.2२१५.२

विप्राणां सततं कार्यं स्त्रीणां च शुभदर्शने ॥ (२१५।२)

viprāṇāṃ satataṃ kāryaṃ strīṇāṃ ca śubhadarśane ||

216.1२१६.१

हरिमन्दिरलक्षणम्नासादिकेशपर्यन्तम् ऊर्ध्वपुण्ड्रं सुशोभनम् । (२१६।१)

harimandiralakṣaṇamnāsādikeśaparyantam ūrdhvapuṇḍraṃ suśobhanam |

216.2२१६.२

मध्ये छिद्रसमायुक्तं तद् विद्याद्धरिमन्दिरम् ॥ (२१६।२)

madhye chidrasamāyuktaṃ tad vidyāddharimandiram ||

217.1२१७.१

वामपार्श्वे स्थितो ब्रह्मा दक्षिणे च सदाशिवः । (२१७।१)

vāmapārśve sthito brahmā dakṣiṇe ca sadāśivaḥ |

217.2२१७.२

मध्ये विष्णुं विजानीयात् तस्मान् मध्यं न लेपयेत् ॥ (२१७।२)

madhye viṣṇuṃ vijānīyāt tasmān madhyaṃ na lepayet ||

218.1२१८.१

वायुपुराणे सेवापराधे । (२१८।१)

vāyupurāṇe sevāparādhe |

218.2२१८.२

अधृत्वा चोर्ध्वपुण्ड्रं च हरेः पूजां करोति यः । (२१८।२)

adhṛtvā cordhvapuṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ |

218.3२१८.३

तिर्यक्पुण्ड्रधरो यस् तु यजेद् देवं जनार्दनम् ॥ (२१८।३)

tiryakpuṇḍradharo yas tu yajed devaṃ janārdanam ||

219.1२१९.१

अच्छिद्रेणोर्ध्वपुण्ड्रेण भस्मना तिर्यगङ्गिना । (२१९।१)

acchidreṇordhvapuṇḍreṇa bhasmanā tiryagaṅginā |

219.2२१९.२

अधृत्वा शङ्खचक्रे च चेत्यादिना दोष उक्तः ॥ (२१९।२)

adhṛtvā śaṅkhacakre ca cetyādinā doṣa uktaḥ ||

220.1२२०.१

श्रुतिश् च यजुर्वेदस्य हिरण्यकेशौर्यशखायाम् । (२२०।१)

śrutiś ca yajurvedasya hiraṇyakeśauryaśakhāyām |

220.2२२०.२

हरेः पदाक्रान्तिम् आत्मनि धारयति यः । (२२०।२)

hareḥ padākrāntim ātmani dhārayati yaḥ |

220.3२२०.३

स परस्य प्रियो भवति स पुण्यवान् । (२२०।३)

sa parasya priyo bhavati sa puṇyavān |

220.4२२०.४

मध्ये छिद्रम् ऊर्ध्वपुण्ड्रं यो धारयति स मुक्तिभाग् भवति ॥ (२२०।४)

madhye chidram ūrdhvapuṇḍraṃ yo dhārayati sa muktibhāg bhavati ||

221.1२२१.१

तिलकरचनाङ्गुलिनियमःस्मृतिः । (२२१।१)

tilakaracanāṅguliniyamaḥsmṛtiḥ |

221.2२२१.२

अनामिका कामदोक्ता मध्यम् आयुष्करी भवेत् । (२२१।२)

anāmikā kāmadoktā madhyam āyuṣkarī bhavet |

221.3२२१.३

अङ्गुष्ठः पुष्टिदः प्रोक्तस् तर्जनी मोक्षदायिनी ॥ (२२१।३)

aṅguṣṭhaḥ puṣṭidaḥ proktas tarjanī mokṣadāyinī ||

222.1२२२.१

अथोर्ध्वपुण्ड्रमृत्तिकाःपद्मपुराणे तत्रैव । (२२२।१)

athordhvapuṇḍramṛttikāḥpadmapurāṇe tatraiva |

222.2२२२.२

पर्वताग्रे नदीतीरे बिल्वमूले जलाशये । (२२२।२)

parvatāgre nadītīre bilvamūle jalāśaye |

222.3२२२.३

सिन्धुतीरे च वल्मीके हरिक्षेत्रे विशेषतः ॥ (२२२।३)

sindhutīre ca valmīke harikṣetre viśeṣataḥ ||

223.1२२३.१

विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः । (२२३।१)

viṣṇoḥ snānodakaṃ yatra pravāhayati nityaśaḥ |

223.2२२३.२

पुण्ड्राणां धारणार्थाय गृह्णीयात् तत्र मृत्तिकाम् ॥ (२२३।२)

puṇḍrāṇāṃ dhāraṇārthāya gṛhṇīyāt tatra mṛttikām ||

224.1२२४.१

श्रीरङ्गे वेङ्कटाद्रौ च श्रीकूर्मे द्वारके शुभे । (२२४।१)

śrīraṅge veṅkaṭādrau ca śrīkūrme dvārake śubhe |

224.2२२४.२

प्रयागे नारसिंहाद्रौ वाराहे तुलसीवने ॥ (२२४।२)

prayāge nārasiṃhādrau vārāhe tulasīvane ||

225.1२२५.१

गृहीत्वा मृत्तिकां भक्त्या विष्णुपादजलैः सह । (२२५।१)

gṛhītvā mṛttikāṃ bhaktyā viṣṇupādajalaiḥ saha |

225.2२२५.२

धृत्वा पुण्ड्राणि चाङ्गेषु विष्णुसायुज्यम् आप्नुयात् ॥ (२२५।२)

dhṛtvā puṇḍrāṇi cāṅgeṣu viṣṇusāyujyam āpnuyāt ||

226.1२२६.१

तत्रैव । (२२६।१)

tatraiva |

226.2२२६.२

यत् तु दिव्यं हरिक्षेत्रे तस्यैव मृदम् आहरेत् ॥ (२२६।२)

yat tu divyaṃ harikṣetre tasyaiva mṛdam āharet ||

227.1२२७.१

उक्तं च पाद्मे श्रीनारदेन । (२२७।१)

uktaṃ ca pādme śrīnāradena |

227.2२२७.२

ब्रह्मघ्नो वाथ गोघ्नो वा हैतुकः सर्वपापकृत् । (२२७।२)

brahmaghno vātha goghno vā haitukaḥ sarvapāpakṛt |

227.3२२७.३

गोपीचन्दनसम्पर्कात् पूतो भवति तत्क्षणात् ॥ (२२७।३)

gopīcandanasamparkāt pūto bhavati tatkṣaṇāt ||

228.1२२८.१

गोपीचन्दनखण्डं तु यो ददाति हि वैष्णवे । (२२८।१)

gopīcandanakhaṇḍaṃ tu yo dadāti hi vaiṣṇave |

228.2२२८.२

कुलम् एकोत्तरं तेन सम्भवेत् तारितं शतम् ॥ (२२८।२)

kulam ekottaraṃ tena sambhavet tāritaṃ śatam ||

229.1२२९.१

स्कन्दपुराणे । (२२९।१)

skandapurāṇe |

229.2२२९.२

शङ्खचक्राङ्किततनुः शिरसा मञ्जरीधरः । (२२९।२)

śaṅkhacakrāṅkitatanuḥ śirasā mañjarīdharaḥ |

229.3२२९.३

गोपीचन्दनलिप्ताङ्गो दृष्टश् चेत् तद् अघं कृतः ॥ (२२९।३)

gopīcandanaliptāṅgo dṛṣṭaś cet tad aghaṃ kṛtaḥ ||

230.1२३०.१

गोपीमृत्तुलसी शङ्खः शालग्रामः सचक्रकः । (२३०।१)

gopīmṛttulasī śaṅkhaḥ śālagrāmaḥ sacakrakaḥ |

230.2२३०.२

गृहेऽपि यस्य पञ्चैते तस्य पापभयं कुतः ॥ (२३०।२)

gṛhe'pi yasya pañcaite tasya pāpabhayaṃ kutaḥ ||

231.1२३१.१

काशीखण्डे च श्रीयमेन । (२३१।१)

kāśīkhaṇḍe ca śrīyamena |

231.2२३१.२

श्रीखण्डे क्व स आमोदः स्वरोवर्णः क्व तादृशः । (२३१।२)

śrīkhaṇḍe kva sa āmodaḥ svarovarṇaḥ kva tādṛśaḥ |

231.3२३१.३

तत् पावित्र्यं क्व वै तीर्थे श्रीगोपीचन्दने यथा ॥ (२३१।३)

tat pāvitryaṃ kva vai tīrthe śrīgopīcandane yathā ||

232.1२३२.१

अथ गोपीचन्दनोर्ध्वपुण्ड्रमाहात्म्यमुक्तं च गरुडपुराणे नारदेन । (२३२।१)

atha gopīcandanordhvapuṇḍramāhātmyamuktaṃ ca garuḍapurāṇe nāradena |

232.2२३२.२

यो मृत्तिकां द्वारवतीसमुद्भवां करे समादाय ललाटपट्टके । (२३२।२)

yo mṛttikāṃ dvāravatīsamudbhavāṃ kare samādāya lalāṭapaṭṭake |

232.3२३२.३

करोति नित्यं त्व् अथ चोर्ध्वपुण्ड्रं क्रियाफलं कोटिगुणं सदा भवेत् ॥ (२३२।३)

karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet ||

233.1२३३.१

क्रियाविहीनं यदि मन्त्रहीनं श्रद्धाविहीनं यदि कालवर्जितम् । (२३३।१)

kriyāvihīnaṃ yadi mantrahīnaṃ śraddhāvihīnaṃ yadi kālavarjitam |

233.2२३३.२

कृत्वा ललाटे यदि गोपीचन्दनं प्राप्नोति तत् कर्मफलं सदाक्षयम् ॥ (२३३।२)

kṛtvā lalāṭe yadi gopīcandanaṃ prāpnoti tat karmaphalaṃ sadākṣayam ||

234.1२३४.१

गोपीचन्दनसम्भवं सुरुचिरं पुण्ड्रं ललाटे द्विजो नित्यं धारयते यदि द्विजपते रात्रौ दिवा सर्वदा । (२३४।१)

gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā |

234.2२३४.२

यत् पुण्यं कुरुजाङ्गले रविग्रहे माध्यां प्रयागे तथा तत् प्राप्नोति खगेन्द्र विष्णुसदने संतिष्ठते देववत् ॥ (२३४।२)

yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat ||

235.1२३५.१

यस्मिन् गृहे तिष्ठति गोपीचन्दनं भक्त्या ललाटे मनुजो बिभर्ति । (२३५।१)

yasmin gṛhe tiṣṭhati gopīcandanaṃ bhaktyā lalāṭe manujo bibharti |

235.2२३५.२

तस्मिन् गृहे तिष्ठति सर्वदा हरिः श्रद्धान्वितः कंसहा विहङ्गम ॥ (२३५।२)

tasmin gṛhe tiṣṭhati sarvadā hariḥ śraddhānvitaḥ kaṃsahā vihaṅgama ||

236.1२३६.१

यो धारयेत् कृष्णपुरीसमुद्भवां सदा पवित्रां कलिकिल्बिषापहाम् । (२३६।१)

yo dhārayet kṛṣṇapurīsamudbhavāṃ sadā pavitrāṃ kalikilbiṣāpahām |

236.2२३६.२

नित्यं ललाटे हरिमन्त्रसंयुतां यमं न पश्येद् यदि पापसंवृतः ॥ (२३६।२)

nityaṃ lalāṭe harimantrasaṃyutāṃ yamaṃ na paśyed yadi pāpasaṃvṛtaḥ ||

237.1२३७.१

यस्यान्तकाले खग गोपीचन्दनं बाह्वोर् ललाटे हृदि मस्तके च । (२३७।१)

yasyāntakāle khaga gopīcandanaṃ bāhvor lalāṭe hṛdi mastake ca |

237.2२३७.२

प्रयाति लोकं कमलालयं प्रभोर् गोबालघाती यदि ब्रह्महा भवेत् ॥ (२३७।२)

prayāti lokaṃ kamalālayaṃ prabhor gobālaghātī yadi brahmahā bhavet ||

238.1२३८.१

ग्रहा न पीडन्ति न रक्षसां गणाः यक्षाः पिशाचोरगभूतदानवाः । (२३८।१)

grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ |

238.2२३८.२

ललाटपट्टे खग गोपीचन्दनं संतिष्ठते यस्य हरेः प्रसादतः ॥ (२३८।२)

lalāṭapaṭṭe khaga gopīcandanaṃ saṃtiṣṭhate yasya hareḥ prasādataḥ ||

239.1२३९.१

पद्मपुराणे श्रीगोतमेन । (२३९।१)

padmapurāṇe śrīgotamena |

239.2२३९.२

अम्बरीष महाघस्य क्षयार्थे कुरु वीक्षणम् । (२३९।२)

ambarīṣa mahāghasya kṣayārthe kuru vīkṣaṇam |

239.3२३९.३

ललाटे यैः कृतं नित्यं गोपीचन्दनपुण्ड्रकम् ॥ (२३९।३)

lalāṭe yaiḥ kṛtaṃ nityaṃ gopīcandanapuṇḍrakam ||

240.1२४०.१

काशीखण्डे च श्रीयमेन । (२४०।१)

kāśīkhaṇḍe ca śrīyamena |

240.2२४०.२

दूताः शृणुत यद्भालं गोपीचन्दनलाञ्छितम् । (२४०।२)

dūtāḥ śṛṇuta yadbhālaṃ gopīcandanalāñchitam |

240.3२४०.३

ज्वलदिन्धनवत् सो ऽपि त्याज्यो दूरे प्रयत्नतः ॥ (२४०।३)

jvaladindhanavat so 'pi tyājyo dūre prayatnataḥ ||

241.1२४१.१

अथ तस्योपरि श्रीमत्तुलसीमूलमृत्स्नया । (२४१।१)

atha tasyopari śrīmattulasīmūlamṛtsnayā |

241.2२४१.२

तत्रैव वैष्णवैः कार्यम् ऊर्ध्वपुण्ड्रं मनोहरम् ॥ (२४१।२)

tatraiva vaiṣṇavaiḥ kāryam ūrdhvapuṇḍraṃ manoharam ||

242.1२४२.१

अथ श्रीतुलसीमूलमृत्तिकापुण्ड्रमाहात्म्यम्तन्मृदं गृह्य यैः पुण्ड्रं ललाटे धारितं नरैः । (२४२।१)

atha śrītulasīmūlamṛttikāpuṇḍramāhātmyamtanmṛdaṃ gṛhya yaiḥ puṇḍraṃ lalāṭe dhāritaṃ naraiḥ |

242.2२४२.२

प्रमाणकं कृतं तैस् तु मोक्षाय गमनं प्रति ॥ (२४२।२)

pramāṇakaṃ kṛtaṃ tais tu mokṣāya gamanaṃ prati ||

243.1२४३.१

तत्रैव च कार्त्तिकमाहात्म्ये ब्रह्मनारदसंवादे । (२४३।१)

tatraiva ca kārttikamāhātmye brahmanāradasaṃvāde |

243.2२४३.२

तुलसीमृत्तिकापुण्ड्रं ललाटे यस्य दृश्यते । (२४३।२)

tulasīmṛttikāpuṇḍraṃ lalāṭe yasya dṛśyate |

243.3२४३.३

देहं न स्पृशति पापं क्रियमाणस् तु नारद ॥ (२४३।३)

dehaṃ na spṛśati pāpaṃ kriyamāṇas tu nārada ||

244.1२४४.१

गरुडपुराणे । (२४४।१)

garuḍapurāṇe |

244.2२४४.२

तुलसीमृत्तिकापुण्ड्रं यः करोति दिने दिने । (२४४।२)

tulasīmṛttikāpuṇḍraṃ yaḥ karoti dine dine |

244.3२४४.३

तस्यावलोकनात् पापं याति वर्षकृतं नृणाम् ॥ (२४४।३)

tasyāvalokanāt pāpaṃ yāti varṣakṛtaṃ nṛṇām ||

245.1२४५.१

तस्योपरिष्टाद् भगवन्निर्माल्यम् अनुलेपनम् । (२४५।१)

tasyopariṣṭād bhagavannirmālyam anulepanam |

245.2२४५.२

तथैव धार्यम् एवं हि त्रिविधं तिलकं स्मृतम् ॥ (२४५।२)

tathaiva dhāryam evaṃ hi trividhaṃ tilakaṃ smṛtam ||

246.1२४६.१

ततो नारायणीं मुद्रां धारयेत् प्रीतये हरेः । (२४६।१)

tato nārāyaṇīṃ mudrāṃ dhārayet prītaye hareḥ |

246.2२४६.२

मत्स्यकूर्मादिचिह्नानि चक्रादीन्य् आयुधानि च ॥ (२४६।२)

matsyakūrmādicihnāni cakrādīny āyudhāni ca ||

247.1२४७.१

अथ मुद्राधारणनित्यतास्मृतौ । (२४७।१)

atha mudrādhāraṇanityatāsmṛtau |

247.2२४७.२

अङ्कितः शङ्खचक्राभ्याम् उभयोर् बाहुमूलयोः । (२४७।२)

aṅkitaḥ śaṅkhacakrābhyām ubhayor bāhumūlayoḥ |

247.3२४७.३

समर्चयेद्धरिं नित्यं नान्यथा पूजनं भवेत् ॥ (२४७।३)

samarcayeddhariṃ nityaṃ nānyathā pūjanaṃ bhavet ||

248.1२४८.१

आदित्यपुराणे । (२४८।१)

ādityapurāṇe |

248.2२४८.२

शङ्खचक्रोर्ध्वपुण्ड्रादिरहितं ब्राह्मणाधमम् । (२४८।२)

śaṅkhacakrordhvapuṇḍrādirahitaṃ brāhmaṇādhamam |

248.3२४८.३

गर्दभं तु समारोप्य राजा राष्ट्रात् प्रवासयेत् ॥ (२४८।३)

gardabhaṃ tu samāropya rājā rāṣṭrāt pravāsayet ||

249.1२४९.१

गारुडे श्रीभगवदुक्तौ । (२४९।१)

gāruḍe śrībhagavaduktau |

249.2२४९.२

सर्वकर्माधिकारश् च शुचीनाम् एव चोदितः । (२४९।२)

sarvakarmādhikāraś ca śucīnām eva coditaḥ |

249.3२४९.३

शुचित्वं च विजानीयान् मदीयायुधधारणात् ॥ (२४९।३)

śucitvaṃ ca vijānīyān madīyāyudhadhāraṇāt ||

250.1२५०.१

पाद्मे चोत्तरखण्डे । (२५०।१)

pādme cottarakhaṇḍe |

250.2२५०.२

शङ्खचक्रादिभिश् चिह्नैर् विप्रः प्रियतमैर् हरेः । (२५०।२)

śaṅkhacakrādibhiś cihnair vipraḥ priyatamair hareḥ |

250.3२५०.३

रहितः सर्वधर्मेभ्यः प्रच्युतो नरकं व्रजेत् ॥ (२५०।३)

rahitaḥ sarvadharmebhyaḥ pracyuto narakaṃ vrajet ||

251.1२५१.१

श्रुतौ च यजुःकठशाखायाम् । (२५१।१)

śrutau ca yajuḥkaṭhaśākhāyām |

251.2२५१.२

धृतोर्ध्वपुण्ड्रः कुतचक्रधारी विष्णुं परं ध्यायति यो महात्मा । (२५१।२)

dhṛtordhvapuṇḍraḥ kutacakradhārī viṣṇuṃ paraṃ dhyāyati yo mahātmā |

251.3२५१.३

स्वरेण मन्त्रेण सदा हृदि स्थितं परात्परं यन् महतो महान्तम् ॥ (२५१।३)

svareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yan mahato mahāntam ||

252.1२५२.१

अथर्वणि च । (२५२।१)

atharvaṇi ca |

252.2२५२.२

एभिर् वयम् उरुक्रमस्य चिह्नैर् अङ्किता लोके सुभगा भवेम । (२५२।२)

ebhir vayam urukramasya cihnair aṅkitā loke subhagā bhavema |

252.3२५२.३

तद् विष्णोः परमं पदं ये गच्छन्ति लाञ्छिताः ॥ (२५२।३)

tad viṣṇoḥ paramaṃ padaṃ ye gacchanti lāñchitāḥ ||

253.1२५३.१

अत एव ब्रह्मपुराणे । (२५३।१)

ata eva brahmapurāṇe |

253.2२५३.२

कृष्णायुधाङ्कितं दृष्ट्वा सम्मानं न करोति यः । (२५३।२)

kṛṣṇāyudhāṅkitaṃ dṛṣṭvā sammānaṃ na karoti yaḥ |

253.3२५३.३

द्वादशाब्दार्जितं पुण्यं चाफलयोपगच्छति ॥ (२५३।३)

dvādaśābdārjitaṃ puṇyaṃ cāphalayopagacchati ||

254.1२५४.१

अथ मुद्राधारणमाहात्म्यम्स्कान्दे श्रीसनत्कुमारमार्कण्डेयसंवादे । (२५४।१)

atha mudrādhāraṇamāhātmyamskānde śrīsanatkumāramārkaṇḍeyasaṃvāde |

254.2२५४.२

यो विष्णुभक्तो विप्रेन्द्र शङ्खचक्रादिचिह्नितः । (२५४।२)

yo viṣṇubhakto viprendra śaṅkhacakrādicihnitaḥ |

254.3२५४.३

स याति विष्णुलोकं वै दाहप्रलयवर्जितम् ॥ (२५४।३)

sa yāti viṣṇulokaṃ vai dāhapralayavarjitam ||

255.1२५५.१

तत्र वान्यत्र च । (२५५।१)

tatra vānyatra ca |

255.2२५५.२

नारायणायुधैर् नित्यं चिह्नितं यस्य विग्रहम् । (२५५।२)

nārāyaṇāyudhair nityaṃ cihnitaṃ yasya vigraham |

255.3२५५.३

पापकोटियुक्तस्य तस्य किं कुरुते यमः ॥ (२५५।३)

pāpakoṭiyuktasya tasya kiṃ kurute yamaḥ ||

256.1२५६.१

शङ्खोद्धारे तु यत् प्रोक्तं वसतां वर्षकोटिभिः । (२५६।१)

śaṅkhoddhāre tu yat proktaṃ vasatāṃ varṣakoṭibhiḥ |

256.2२५६.२

तत् फलं लिखिते शङ्खे प्रत्यहं दक्षिणे भुजे ॥ (२५६।२)

tat phalaṃ likhite śaṅkhe pratyahaṃ dakṣiṇe bhuje ||

257.1२५७.१

यत् फलं पुष्करे नित्यं पुण्डरीकाक्षदर्शने । (२५७।१)

yat phalaṃ puṣkare nityaṃ puṇḍarīkākṣadarśane |

257.2२५७.२

शङ्खोपरि कृते पद्मे तत् फलं समवाप्नुयात् ॥ (२५७।२)

śaṅkhopari kṛte padme tat phalaṃ samavāpnuyāt ||

258.1२५८.१

वामे भुजे गदा यस्य लिखिता दृश्यते कलौ । (२५८।१)

vāme bhuje gadā yasya likhitā dṛśyate kalau |

258.2२५८.२

गदाधरो गयापुण्यं प्रत्यहं तस्य यच्छति ॥ (२५८।२)

gadādharo gayāpuṇyaṃ pratyahaṃ tasya yacchati ||

259.1२५९.१

यच् चानन्दपुरे प्रोक्तं चक्रस्वामीसमीपतः । (२५९।१)

yac cānandapure proktaṃ cakrasvāmīsamīpataḥ |

259.2२५९.२

गदाधोल्लिखिते चक्रे तत् फलं कृष्णदर्शने ॥ (२५९।२)

gadādhollikhite cakre tat phalaṃ kṛṣṇadarśane ||

260.1२६०.१

श्रीभगवदुक्तौ । (२६०।१)

śrībhagavaduktau |

260.2२६०.२

यः पुनः कलिकाले तु मत्पुरीसम्भवां मृदम् । (२६०।२)

yaḥ punaḥ kalikāle tu matpurīsambhavāṃ mṛdam |

260.3२६०.३

मत्स्यकूर्मादिकां चिह्नं गृहीत्वा कुरुते नरः ॥ (२६०।३)

matsyakūrmādikāṃ cihnaṃ gṛhītvā kurute naraḥ ||

261.1२६१.१

देहे तस्य प्रविष्टो ऽहं जानन्तु त्रिदशोत्तमाः । (२६१।१)

dehe tasya praviṣṭo 'haṃ jānantu tridaśottamāḥ |

261.2२६१.२

तस्य मे नान्तरं किंचित् कर्तव्यं श्रेय इच्छता ॥ (२६१।२)

tasya me nāntaraṃ kiṃcit kartavyaṃ śreya icchatā ||

262.1२६२.१

ममावतारचिह्नानि दृश्यन्ते यस्य विग्रहे । (२६२।१)

mamāvatāracihnāni dṛśyante yasya vigrahe |

262.2२६२.२

मर्त्यैर् मर्त्यो न विज्ञेयः स नूनं मामकी तनूः ॥ (२६२।२)

martyair martyo na vijñeyaḥ sa nūnaṃ māmakī tanūḥ ||

263.1२६३.१

पापं सुकृतरूपं तु जायते तस्य देहिनः । (२६३।१)

pāpaṃ sukṛtarūpaṃ tu jāyate tasya dehinaḥ |

263.2२६३.२

ममायुधानि तस्याङ्गे लिखितानि कलौ युगे ॥ (२६३।२)

mamāyudhāni tasyāṅge likhitāni kalau yuge ||

264.1२६४.१

उभाभ्याम् अपि चिह्नाभ्यां यो ऽङ्कितो मत्स्यमुद्रया । (२६४।१)

ubhābhyām api cihnābhyāṃ yo 'ṅkito matsyamudrayā |

264.2२६४.२

कूर्मयापि स्वकं तेजो निक्षिप्तं तस्य विग्रहे ॥ (२६४।२)

kūrmayāpi svakaṃ tejo nikṣiptaṃ tasya vigrahe ||

265.1२६५.१

शङ्खं च पद्मं च गदां रथाङ्गं मत्स्यं च कूर्मं रचितं स्वदेहे । (२६५।१)

śaṅkhaṃ ca padmaṃ ca gadāṃ rathāṅgaṃ matsyaṃ ca kūrmaṃ racitaṃ svadehe |

265.2२६५.२

करोति नित्यं सुकृतस्य वृद्धिं पापक्षयं जन्मशतार्जितस्य ॥ (२६५।२)

karoti nityaṃ sukṛtasya vṛddhiṃ pāpakṣayaṃ janmaśatārjitasya ||

266.1२६६.१

तत्रैव श्रीब्रह्मनारदसंवादे । (२६६।१)

tatraiva śrībrahmanāradasaṃvāde |

266.2२६६.२

कृष्णशस्त्राङ्ककवचं दुर्भेद्यं देवदानवैः । (२६६।२)

kṛṣṇaśastrāṅkakavacaṃ durbhedyaṃ devadānavaiḥ |

266.3२६६.३

अदृश्यं सर्वभूतानां शत्रूणां रक्षसाम् अपि ॥ (२६६।३)

adṛśyaṃ sarvabhūtānāṃ śatrūṇāṃ rakṣasām api ||

267.1२६७.१

लक्ष्मीः सरस्वती दुर्गा सावित्री हरिवल्लभा । (२६७।१)

lakṣmīḥ sarasvatī durgā sāvitrī harivallabhā |

267.2२६७.२

नित्यं तस्य वसेद् देहे यस्य शङ्खाङ्किता तनुः ॥ (२६७।२)

nityaṃ tasya vased dehe yasya śaṅkhāṅkitā tanuḥ ||

268.1२६८.१

गङ्गा गया कुरुक्षेत्रं प्रयागं पुष्करादि च । (२६८।१)

gaṅgā gayā kurukṣetraṃ prayāgaṃ puṣkarādi ca |

268.2२६८.२

नित्यं तस्य सदा तिष्ठेद् यस्य पदाङ्कितं वपुः ॥ (२६८।२)

nityaṃ tasya sadā tiṣṭhed yasya padāṅkitaṃ vapuḥ ||

269.1२६९.१

यस्य कौमोदकीचिह्नं भुजे वामे कलिप्रिय । (२६९।१)

yasya kaumodakīcihnaṃ bhuje vāme kalipriya |

269.2२६९.२

प्रत्यहं तत्र द्रष्टव्यो गङ्गासागरसङ्गमः ॥ (२६९।२)

pratyahaṃ tatra draṣṭavyo gaṅgāsāgarasaṅgamaḥ ||

270.1२७०.१

सव्ये करे गदाधस्ताद् रथाङ्गं तिष्ठते यदि । (२७०।१)

savye kare gadādhastād rathāṅgaṃ tiṣṭhate yadi |

270.2२७०.२

कृष्णेन सहितं तत्र त्रैलोक्यं सचराचरम् ॥ (२७०।२)

kṛṣṇena sahitaṃ tatra trailokyaṃ sacarācaram ||

271.1२७१.१

त्रयो ऽग्नयस् त्रयो देवा विष्णोस् त्रीणि पदानि च । (२७१।१)

trayo 'gnayas trayo devā viṣṇos trīṇi padāni ca |

271.2२७१.२

निवसन्ति सदा यस्य यस्य देहे सुदर्शनम् ॥ (२७१।२)

nivasanti sadā yasya yasya dehe sudarśanam ||

272.1२७२.१

किंच । (२७२।१)

kiṃca |

272.2२७२.२

कृष्णायुधाङ्किता मुद्रा यस्य नारायणी करे । (२७२।२)

kṛṣṇāyudhāṅkitā mudrā yasya nārāyaṇī kare |

272.3२७२.३

ऊर्ध्वलोकाधिकारी च स ज्ञेयस् त्रिदशां पतिः ॥ (२७२।३)

ūrdhvalokādhikārī ca sa jñeyas tridaśāṃ patiḥ ||

273.1२७३.१

कृष्णमुद्राप्रयुक्तस् तु दैवं पित्र्यं करोति यः । (२७३।१)

kṛṣṇamudrāprayuktas tu daivaṃ pitryaṃ karoti yaḥ |

273.2२७३.२

नित्यं नैमित्तिकं काम्यं प्रत्यहं चाक्षयं भवेत् ॥ (२७३।२)

nityaṃ naimittikaṃ kāmyaṃ pratyahaṃ cākṣayaṃ bhavet ||

274.1२७४.१

पीडयन्ति न तत्रैव ग्रहा ऋक्षाणि राशयः । (२७४।१)

pīḍayanti na tatraiva grahā ṛkṣāṇi rāśayaḥ |

274.2२७४.२

अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी करे ॥ (२७४।२)

aṣṭākṣarāṅkitā mudrā yasya dhātumayī kare ||

275.1२७५.१

वाराहे श्रीसनत्कुमारोक्तौ । (२७५।१)

vārāhe śrīsanatkumāroktau |

275.2२७५.२

कृष्णायुधाङ्कितं देहं गोपीचन्दनमृत्स्नया । (२७५।२)

kṛṣṇāyudhāṅkitaṃ dehaṃ gopīcandanamṛtsnayā |

275.3२७५.३

प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति ॥ (२७५।३)

prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati ||

276.1२७६.१

यदा यस्य प्रपश्येत देहं शङ्खादिचिह्नितम् । (२७६।१)

yadā yasya prapaśyeta dehaṃ śaṅkhādicihnitam |

276.2२७६.२

तदा तस्य जगत्स्वामी तुष्टो हरति पातकम् ॥ (२७६।२)

tadā tasya jagatsvāmī tuṣṭo harati pātakam ||

277.1२७७.१

भवते यस्य देहे तु अहोरात्रं दिने दिने । (२७७।१)

bhavate yasya dehe tu ahorātraṃ dine dine |

277.2२७७.२

शङ्खचक्रगदापद्मं लिखितं सो ऽच्युतः स्वयम् ॥ (२७७।२)

śaṅkhacakragadāpadmaṃ likhitaṃ so 'cyutaḥ svayam ||

278.1२७८.१

नारायणायुधैर् युक्तं कृत्वात्मानं कलौ युगे । (२७८।१)

nārāyaṇāyudhair yuktaṃ kṛtvātmānaṃ kalau yuge |

278.2२७८.२

कुरुते पुण्यकर्माणि मेरुतुल्यानि तानि वै ॥ (२७८।२)

kurute puṇyakarmāṇi merutulyāni tāni vai ||

279.1२७९.१

शङ्खादिनाङ्कितो भक्त्या श्राद्धं यः कुरुते द्विज । (२७९।१)

śaṅkhādināṅkito bhaktyā śrāddhaṃ yaḥ kurute dvija |

279.2२७९.२

विधिहीनं तु सम्पूर्णं पितॄणां तु गयासमम् ॥ (२७९।२)

vidhihīnaṃ tu sampūrṇaṃ pitṝṇāṃ tu gayāsamam ||

280.1२८०.१

यथाग्निर् दहते काष्ठं वायुना प्रेरितो भृशम् । (२८०।१)

yathāgnir dahate kāṣṭhaṃ vāyunā prerito bhṛśam |

280.2२८०.२

तथा दह्यन्ति पापानि दृष्ट्वा कृष्णायुधानि वै ॥ (२८०।२)

tathā dahyanti pāpāni dṛṣṭvā kṛṣṇāyudhāni vai ||

281.1२८१.१

ब्राह्म्ये श्रीब्रह्मनारदसंवादे । (२८१।१)

brāhmye śrībrahmanāradasaṃvāde |

281.2२८१.२

विष्णुनामाङ्कितां मुद्राम् अष्टाक्षरसमन्विताम् । (२८१।२)

viṣṇunāmāṅkitāṃ mudrām aṣṭākṣarasamanvitām |

281.3२८१.३

शङ्खादिकायुधादिकैर् युक्तां स्वर्णरूप्यमयीम् अपि ॥ (२८१।३)

śaṅkhādikāyudhādikair yuktāṃ svarṇarūpyamayīm api ||

282.1२८२.१

धत्ते भागवतो यस् तु कलिकाले विशेषतः । (२८२।१)

dhatte bhāgavato yas tu kalikāle viśeṣataḥ |

282.2२८२.२

प्रह्लादस्य समोक्षेयो नान्यथा कलवल्लभ ॥ (२८२।२)

prahlādasya samokṣeyo nānyathā kalavallabha ||

283.1२८३.१

किंच । (२८३।१)

kiṃca |

283.2२८३.२

शङ्खाङ्किततनुर् विप्रो भुङ्क्ते यस्य च वेश्मनि । (२८३।२)

śaṅkhāṅkitatanur vipro bhuṅkte yasya ca veśmani |

283.3२८३.३

तदन्नं स्वयम् अश्नाति पितृभिः सह केशवः ॥ (२८३।३)

tadannaṃ svayam aśnāti pitṛbhiḥ saha keśavaḥ ||

284.1२८४.१

कृष्णायुधाङ्कितो यस् तु श्मशाने म्रियते यदि । (२८४।१)

kṛṣṇāyudhāṅkito yas tu śmaśāne mriyate yadi |

284.2२८४.२

प्रयागे या गतिः प्रोक्ता सा गतिस् तस्य नारद ॥ (२८४।२)

prayāge yā gatiḥ proktā sā gatis tasya nārada ||

285.1२८५.१

कृष्णायुधैः कलौ नित्यं मण्डितं यस्य विग्रहम् । (२८५।१)

kṛṣṇāyudhaiḥ kalau nityaṃ maṇḍitaṃ yasya vigraham |

285.2२८५.२

तत्राश्रयं प्रकुर्वन्ति विविधा वासवादयः ॥ (२८५।२)

tatrāśrayaṃ prakurvanti vividhā vāsavādayaḥ ||

286.1२८६.१

यः करोति हरेः पूजां कृष्णशस्त्राङ्कितो नरः । (२८६।१)

yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ |

286.2२८६.२

अपराधसहस्राणि नित्यं हरति केशवः ॥ (२८६।२)

aparādhasahasrāṇi nityaṃ harati keśavaḥ ||

287.1२८७.१

कृत्वा काष्ठमयं बिम्बं कृष्णशस्त्रैस् तु चिह्नितम् । (२८७।१)

kṛtvā kāṣṭhamayaṃ bimbaṃ kṛṣṇaśastrais tu cihnitam |

287.2२८७.२

यो ह्य् अङ्कयति चात्मानं तत्समो नास्ति वैष्णवः ॥ (२८७।२)

yo hy aṅkayati cātmānaṃ tatsamo nāsti vaiṣṇavaḥ ||

288.1२८८.१

पाषण्डपतितव्रात्यैर् नास्तिकालापपातकैः । (२८८।१)

pāṣaṇḍapatitavrātyair nāstikālāpapātakaiḥ |

288.2२८८.२

न लिप्यते कलिकृतैः कृष्णशस्त्राङ्कितो नरः ॥ (२८८।२)

na lipyate kalikṛtaiḥ kṛṣṇaśastrāṅkito naraḥ ||

289.1२८९.१

किंच । (२८९।१)

kiṃca |

289.2२८९.२

अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी भवेत् । (२८९।२)

aṣṭākṣarāṅkitā mudrā yasya dhātumayī bhavet |

289.3२८९.३

शङ्खपद्मादिभिर् युक्ता पूज्यतेऽसौ सुरासुरैः ॥ (२८९।३)

śaṅkhapadmādibhir yuktā pūjyate'sau surāsuraiḥ ||

290.1२९०.१

धृता नारायणी मुद्रा प्रह्लादेन पुरा कृते । (२९०।१)

dhṛtā nārāyaṇī mudrā prahlādena purā kṛte |

290.2२९०.२

विभीषणेन बलिना ध्रुवेण च शुकेन च ॥ (२९०।२)

vibhīṣaṇena balinā dhruveṇa ca śukena ca ||

291.1२९१.१

मान्धातृणाम्बरीषेण मार्कण्डप्रमुखैर् द्विजैः । (२९१।१)

māndhātṛṇāmbarīṣeṇa mārkaṇḍapramukhair dvijaiḥ |

291.2२९१.२

शङ्खादिचिह्नितैः शस्त्रैर् देहे कृत्वा कलिप्रिय । (२९१।२)

śaṅkhādicihnitaiḥ śastrair dehe kṛtvā kalipriya |

291.3२९१.३

आराध्य केशवात् प्राप्तं समीहितफलं महत् ॥ (२९१।३)

ārādhya keśavāt prāptaṃ samīhitaphalaṃ mahat ||

292.1२९२.१

किंच । (२९२।१)

kiṃca |

292.2२९२.२

गोपीचन्दनमृत्स्नाया लिखितं यस्य विग्रहे । (२९२।२)

gopīcandanamṛtsnāyā likhitaṃ yasya vigrahe |

292.3२९२.३

शङ्खपद्मादिचक्रं वा तस्य देहे वसेद्धरिः ॥ (२९२।३)

śaṅkhapadmādicakraṃ vā tasya dehe vaseddhariḥ ||

293.1२९३.१

तत्रैव श्रीसनत्कुमारोक्तौ । (२९३।१)

tatraiva śrīsanatkumāroktau |

293.2२९३.२

यस्य नारायणी मुद्रा देहं शङ्खादिचिह्नितम् । (२९३।२)

yasya nārāyaṇī mudrā dehaṃ śaṅkhādicihnitam |

293.3२९३.३

धात्रीफलकृता माला तुलसीकाष्ठसम्भवा ॥ (२९३।३)

dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā ||

294.1२९४.१

द्वादशाक्षरमन्त्रैस् तु नियुक्तानि कलेवरे । (२९४।१)

dvādaśākṣaramantrais tu niyuktāni kalevare |

294.2२९४.२

आयुधानि च विप्रस्य मत्समः स च वैष्णवः ॥ (२९४।२)

āyudhāni ca viprasya matsamaḥ sa ca vaiṣṇavaḥ ||

295.1२९५.१

किंच । (२९५।१)

kiṃca |

295.2२९५.२

यस्य नारायणी मुद्रा देहे शङ्खादि चिह्निता । (२९५।२)

yasya nārāyaṇī mudrā dehe śaṅkhādi cihnitā |

295.3२९५.३

सर्वाङ्गं चिह्नितं यस्य शस्त्रैर् नारायणोद्भवैः । (२९५।३)

sarvāṅgaṃ cihnitaṃ yasya śastrair nārāyaṇodbhavaiḥ |

295.4२९५.४

प्रवेशो नास्ति पापस्य कवचं तस्य वैष्णवम् ॥ (२९५।४)

praveśo nāsti pāpasya kavacaṃ tasya vaiṣṇavam ||

296.1२९६.१

अन्यत्र च । (२९६।१)

anyatra ca |

296.2२९६.२

एभिर् भागवतैश् चिह्नैः कलिकाले द्विजातयः । (२९६।२)

ebhir bhāgavataiś cihnaiḥ kalikāle dvijātayaḥ |

296.3२९६.३

भवन्ति मर्त्यलोके ते शापानुग्रहकारकाः ॥ (२९६।३)

bhavanti martyaloke te śāpānugrahakārakāḥ ||

297.1२९७.१

अथ मुद्राधारणविधिःगौतमीये । (२९७।१)

atha mudrādhāraṇavidhiḥgautamīye |

297.2२९७.२

चक्रं च दक्षिणे बाहौ शङ्खं वामेऽपि दक्षिणे । (२९७।२)

cakraṃ ca dakṣiṇe bāhau śaṅkhaṃ vāme'pi dakṣiṇe |

297.3२९७.३

गदां वामे गदाधस्तात् पुनश् चक्रं च धारयेत् ॥ (२९७।३)

gadāṃ vāme gadādhastāt punaś cakraṃ ca dhārayet ||

298.1२९८.१

शङ्खोपरि तथा पद्मं पुनः पद्मं च दक्षिणे । (२९८।१)

śaṅkhopari tathā padmaṃ punaḥ padmaṃ ca dakṣiṇe |

298.2२९८.२

खड्गं वक्षसि चापं च सशरं शीर्ष्णि धारयेत् ॥ (२९८।२)

khaḍgaṃ vakṣasi cāpaṃ ca saśaraṃ śīrṣṇi dhārayet ||

299.1२९९.१

इति पञ्चायुधान्य् आदौ धारयेद् वैष्णवो जनः । (२९९।१)

iti pañcāyudhāny ādau dhārayed vaiṣṇavo janaḥ |

299.2२९९.२

मत्स्यं च दक्षिणे हस्ते कूर्मं वामकरे तथा ॥ (२९९।२)

matsyaṃ ca dakṣiṇe haste kūrmaṃ vāmakare tathā ||

300.1३००.१

तथा चोक्तं । (३००।१)

tathā coktaṃ |

300.2३००.२

दक्षिणे तु भुजे विप्रो विभृषाद् वै सुदर्शनम् । (३००।२)

dakṣiṇe tu bhuje vipro vibhṛṣād vai sudarśanam |

300.3३००.३

मत्स्यं पद्मं चापरेऽथ शङ्खं पद्मं गदास् तथा ॥ (३००।३)

matsyaṃ padmaṃ cāpare'tha śaṅkhaṃ padmaṃ gadās tathā ||

301.1३०१.१

साम्प्रदायिकशिष्टानाम् आचाराच् च यथारुचि । (३०१।१)

sāmpradāyikaśiṣṭānām ācārāc ca yathāruci |

301.2३०१.२

शङ्खचक्रादिचिह्नानि सर्वेष्व् अङ्गेषु धारयेत् ॥ (३०१।२)

śaṅkhacakrādicihnāni sarveṣv aṅgeṣu dhārayet ||

302.1३०२.१

भक्त्या निजेष्टदेवस्य धारयेल् लक्षणान्य् अपि ॥ (३०२।१)

bhaktyā nijeṣṭadevasya dhārayel lakṣaṇāny api ||

303.1३०३.१

चक्रशङ्खौ च धार्यते संमिश्राव् एव कैश्चन ॥ (३०३।१)

cakraśaṅkhau ca dhāryate saṃmiśrāv eva kaiścana ||

304.1३०४.१

श्रीगोपीचन्दनेनैवं चक्रादीनि बुधो ऽन्वहम् । (३०४।१)

śrīgopīcandanenaivaṃ cakrādīni budho 'nvaham |

304.2३०४.२

धारयेच्छयनादौ तु तप्तानि किल तानि हि ॥ (३०४।२)

dhārayecchayanādau tu taptāni kila tāni hi ||

305.1३०५.१

अथ चक्रादीनां लक्षणानिद्वादशारं तु षट्कोणं वलयत्रयसंयुतम् । (३०५।१)

atha cakrādīnāṃ lakṣaṇānidvādaśāraṃ tu ṣaṭkoṇaṃ valayatrayasaṃyutam |

305.2३०५.२

चक्रं स्याद् दक्षिणावर्तं शङ्खं च श्रीहरेः स्मृतः ॥ (३०५।२)

cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrīhareḥ smṛtaḥ ||

306.1३०६.१

गदापद्मादिकं लोकसिद्धम् एव मतं बुधैः । (३०६।१)

gadāpadmādikaṃ lokasiddham eva mataṃ budhaiḥ |

306.2३०६.२

मुद्रा वा भगवन्नामाङ्किता वाष्टाक्षरादिभिः ॥ (३०६।२)

mudrā vā bhagavannāmāṅkitā vāṣṭākṣarādibhiḥ ||

307.1३०७.१

अथ मालादिधारणम्ततः कृष्णार्पिता माला धारयेत् तुलसीदलैः । (३०७।१)

atha mālādidhāraṇamtataḥ kṛṣṇārpitā mālā dhārayet tulasīdalaiḥ |

307.2३०७.२

पद्माक्षैस् तुलसीकाष्ठैः फलैर् धात्र्याश् च निर्मिताः ॥ (३०७।२)

padmākṣais tulasīkāṣṭhaiḥ phalair dhātryāś ca nirmitāḥ ||

308.1३०८.१

धारयेत् तुलसीकाष्ठभूषणानि च वैष्णवः । (३०८।१)

dhārayet tulasīkāṣṭhabhūṣaṇāni ca vaiṣṇavaḥ |

308.2३०८.२

मस्तके कर्णयोर् बाह्वोः करयोश् च यथारुचि ॥ (३०८।२)

mastake karṇayor bāhvoḥ karayoś ca yathāruci ||

309.1३०९.१

अथ मालाधारणविधिःस्कान्दे । (३०९।१)

atha mālādhāraṇavidhiḥskānde |

309.2३०९.२

संनिवेद्यैव हरये तुलसीकाष्ठसम्भवाम् । (३०९।२)

saṃnivedyaiva haraye tulasīkāṣṭhasambhavām |

309.3३०९.३

मालां पश्चात् स्वयं धत्ते स वै भागवतोत्तमः ॥ (३०९।३)

mālāṃ paścāt svayaṃ dhatte sa vai bhāgavatottamaḥ ||

310.1३१०.१

हरये नार्पयेद् यस् तु तुलसीकाष्ठसम्भवाम् । (३१०।१)

haraye nārpayed yas tu tulasīkāṣṭhasambhavām |

310.2३१०.२

मालां धत्ते स्वयं मूढः स याति नरकं ध्रुवम् ॥ (३१०।२)

mālāṃ dhatte svayaṃ mūḍhaḥ sa yāti narakaṃ dhruvam ||

311.1३११.१

क्षालितां पञ्चगव्येन मूलमन्त्रेण मन्त्रिताम् । (३११।१)

kṣālitāṃ pañcagavyena mūlamantreṇa mantritām |

311.2३११.२

गायत्र्या चाष्ट कृत्वा वै मन्त्रितां धूपयेच् च ताम् । (३११।२)

gāyatryā cāṣṭa kṛtvā vai mantritāṃ dhūpayec ca tām |

311.3३११.३

विधिवत् परया भक्त्या सद्योजातेन पूजयेत् ॥ (३११।३)

vidhivat parayā bhaktyā sadyojātena pūjayet ||

312.1३१२.१

तुलसीकाष्ठसम्भूते माले कृष्णजनप्रिये । (३१२।१)

tulasīkāṣṭhasambhūte māle kṛṣṇajanapriye |

312.2३१२.२

बिभर्मि त्वाम् अहं कण्ठे कुरु मां कृष्णवल्लभम् ॥ (३१२।२)

bibharmi tvām ahaṃ kaṇṭhe kuru māṃ kṛṣṇavallabham ||

313.1३१३.१

यथा त्वं वल्लभा विष्णोर् नित्यं विष्णुजनप्रिया । (३१३।१)

yathā tvaṃ vallabhā viṣṇor nityaṃ viṣṇujanapriyā |

313.2३१३.२

तथा मां कुरु देवेशि नित्यं विष्णुजनप्रियम् ॥ (३१३।२)

tathā māṃ kuru deveśi nityaṃ viṣṇujanapriyam ||

314.1३१४.१

दाने लाधातुर् उद्दिष्टो लासि मां हरिवल्लभे । (३१४।१)

dāne lādhātur uddiṣṭo lāsi māṃ harivallabhe |

314.2३१४.२

भक्तेभ्यश् च समस्तेभ्यस् तेन माला निगद्यसे ॥ (३१४।२)

bhaktebhyaś ca samastebhyas tena mālā nigadyase ||

315.1३१५.१

एवं सम्प्रार्थ्य विधिवन् मालां कृष्णगलेऽर्पिताम् । (३१५।१)

evaṃ samprārthya vidhivan mālāṃ kṛṣṇagale'rpitām |

315.2३१५.२

धारयेद् वैष्णवो यो वै स गच्छेद् वैष्णवं पदम् ॥ (३१५।२)

dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam ||

316.1३१६.१

तत्रैव कार्त्तिकप्रसङ्गे । (३१६।१)

tatraiva kārttikaprasaṅge |

316.2३१६.२

धात्रीफलकृतां मालां कण्ठस्थां यो वहेन् न हि । (३१६।२)

dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi |

316.3३१६.३

वैष्णवो न स विज्ञेयो विष्णुपूजारतो यदि ॥ (३१६।३)

vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi ||

317.1३१७.१

गारुडे । (३१७।१)

gāruḍe |

317.2३१७.२

धारयन्ति न ये मालां हैतुकाः पापबुद्धयः । (३१७।२)

dhārayanti na ye mālāṃ haitukāḥ pāpabuddhayaḥ |

317.3३१७.३

नरकान् न निवर्तन्ते दग्धाः कोपाग्निना हरेः ॥ (३१७।३)

narakān na nivartante dagdhāḥ kopāgninā hareḥ ||

318.1३१८.१

अत एव स्कान्दे । (३१८।१)

ata eva skānde |

318.2३१८.२

न जह्यात् तुलसीमालां धात्रीमालां विशेषतः । (३१८।२)

na jahyāt tulasīmālāṃ dhātrīmālāṃ viśeṣataḥ |

318.3३१८.३

महापातकसंहन्त्रीं धर्मकामार्थदायिनीम् ॥ (३१८।३)

mahāpātakasaṃhantrīṃ dharmakāmārthadāyinīm ||

319.1३१९.१

अथ मालाधारणमाहात्म्यमगस्त्यसंहितायाम् । (३१९।१)

atha mālādhāraṇamāhātmyamagastyasaṃhitāyām |

319.2३१९.२

निर्माल्यतुलसीमालायुक्तो यश् चार्चयेद्धरिम् । (३१९।२)

nirmālyatulasīmālāyukto yaś cārcayeddharim |

319.3३१९.३

यद् यत् करोति तत् सर्वम् अनन्तफलदं भवेत् ॥ (३१९।३)

yad yat karoti tat sarvam anantaphaladaṃ bhavet ||

320.1३२०.१

नारदीये । (३२०।१)

nāradīye |

320.2३२०.२

ये कण्ठलग्नतुलसीनलिनाक्षमाला ये वा ललाटफल्के लसदूर्ध्वपुण्ड्राः । (३२०।२)

ye kaṇṭhalagnatulasīnalinākṣamālā ye vā lalāṭaphalke lasadūrdhvapuṇḍrāḥ |

320.3३२०.३

ये बाहुमूलपरिचिह्नितशङ्खचक्रास् ते वैष्णवा भुवनम् आशु पवित्रयन्ति ॥ (३२०।३)

ye bāhumūlaparicihnitaśaṅkhacakrās te vaiṣṇavā bhuvanam āśu pavitrayanti ||

321.1३२१.१

किंच । (३२१।१)

kiṃca |

321.2३२१.२

भुजयुगम् अपि चिह्नैर् अङ्कितं यस्य विष्णोः परमपुरुषनाम्नां कीर्तनं यस्य वाचि । (३२१।२)

bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci |

321.3३२१.३

ऋजुतरम् अपि पुण्ड्रं मस्तके यस्य कण्ठे सरसिजमणिमाला यस्य तस्यास्मि दासः ॥ (३२१।३)

ṛjutaram api puṇḍraṃ mastake yasya kaṇṭhe sarasijamaṇimālā yasya tasyāsmi dāsaḥ ||

322.1३२२.१

विष्णुधर्मोत्तरे श्रीभगवदुक्तौ । (३२२।१)

viṣṇudharmottare śrībhagavaduktau |

322.2३२२.२

तुलसीकाष्ठमालां च कण्ठस्थां वहते तु यः । (३२२।२)

tulasīkāṣṭhamālāṃ ca kaṇṭhasthāṃ vahate tu yaḥ |

322.3३२२.३

अप्य् अशौचो ऽप्य् अनाचारो माम् एवैति न संशयः ॥ (३२२।३)

apy aśauco 'py anācāro mām evaiti na saṃśayaḥ ||

323.1३२३.१

स्कान्दे । (३२३।१)

skānde |

323.2३२३.२

धात्रीफलकृता माला तुलसीकाष्ठसम्भवा । (३२३।२)

dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā |

323.3३२३.३

दृश्यते यस्य देहे तु स वै भागवतोत्तमः ॥ (३२३।३)

dṛśyate yasya dehe tu sa vai bhāgavatottamaḥ ||

324.1३२४.१

तुलसीदलजां मालां कण्ठस्थां वहते तु यः । (३२४।१)

tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ |

324.2३२४.२

विष्णूत्तीर्णा विशेषेण स नमस्यो दिवौकसाम् ॥ (३२४।२)

viṣṇūttīrṇā viśeṣeṇa sa namasyo divaukasām ||

325.1३२५.१

तुलसीदलजा माला धात्रीफलकृतापि च । (३२५।१)

tulasīdalajā mālā dhātrīphalakṛtāpi ca |

325.2३२५.२

ददाति पापिनां मुक्तिं किं पुनर् विष्णुसेविनाम् ॥ (३२५।२)

dadāti pāpināṃ muktiṃ kiṃ punar viṣṇusevinām ||

326.1३२६.१

तत्रैव कार्त्तिकप्रसङ्गे । (३२६।१)

tatraiva kārttikaprasaṅge |

326.2३२६.२

यः पुनस् तुलसीमालां कृत्वा कण्ठे जनार्दनम् । (३२६।२)

yaḥ punas tulasīmālāṃ kṛtvā kaṇṭhe janārdanam |

326.3३२६.३

पूजयेत् पुण्यम् आप्नोति प्रतिपुष्पं गवायुतम् ॥ (३२६।३)

pūjayet puṇyam āpnoti pratipuṣpaṃ gavāyutam ||

327.1३२७.१

यावल् लुठति कण्ठस्था धात्रीमाला नरस्य हि । (३२७।१)

yāval luṭhati kaṇṭhasthā dhātrīmālā narasya hi |

327.2३२७.२

तावत् तस्य शरीरे तु प्रीत्या लुठति केशवः ॥ (३२७।२)

tāvat tasya śarīre tu prītyā luṭhati keśavaḥ ||

328.1३२८.१

स्पृशेच् च यानि लोमानि धात्रीमाला कलौ नृणाम् । (३२८।१)

spṛśec ca yāni lomāni dhātrīmālā kalau nṛṇām |

328.2३२८.२

तावद् वर्षसहस्राणि वसते केशवालये ॥ (३२८।२)

tāvad varṣasahasrāṇi vasate keśavālaye ||

329.1३२९.१

यावद् दिनानि वहते धात्रीमालां कलौ नरः । (३२९।१)

yāvad dināni vahate dhātrīmālāṃ kalau naraḥ |

329.2३२९.२

तावद्युगसहस्राणि वैकुण्ठे वसतिर् भवेत् ॥ (३२९।२)

tāvadyugasahasrāṇi vaikuṇṭhe vasatir bhavet ||

330.1३३०.१

मालायुग्मं वहेद् यस् तु धात्रीतुलसिसंभवम् । (३३०।१)

mālāyugmaṃ vahed yas tu dhātrītulasisaṃbhavam |

330.2३३०.२

वहते कण्ठदेशे तु कल्पकोटिं दिवं वसेत् ॥ (३३०।२)

vahate kaṇṭhadeśe tu kalpakoṭiṃ divaṃ vaset ||

331.1३३१.१

गारुडे च मार्कण्डेयोक्तौ । (३३१।१)

gāruḍe ca mārkaṇḍeyoktau |

331.2३३१.२

तुलसीदलजां मालां कृष्णोत्तीर्णा वहेत् तु यः । (३३१।२)

tulasīdalajāṃ mālāṃ kṛṣṇottīrṇā vahet tu yaḥ |

331.3३३१.३

पत्रे पत्रेऽश्वमेधानां दशानां लभते फलम् ॥ (३३१।३)

patre patre'śvamedhānāṃ daśānāṃ labhate phalam ||

332.1३३२.१

तुलसीकाष्ठसम्भूतां यो मालां वहते नरः । (३३२।१)

tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ |

332.2३३२.२

फलं यच्छति दैतारिः प्रत्यहं द्वारकोद्भवम् ॥ (३३२।२)

phalaṃ yacchati daitāriḥ pratyahaṃ dvārakodbhavam ||

333.1३३३.१

निवेद्य विष्णवे मालां तुलसीकाष्ठसम्भवम् । (३३३।१)

nivedya viṣṇave mālāṃ tulasīkāṣṭhasambhavam |

333.2३३३.२

वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् ॥ (३३३।२)

vahate yo naro bhaktyā tasya vai nāsti pātakam ||

334.1३३४.१

सदा प्रीतमनास् तस्य कृष्ण देवकीनन्दनः । (३३४।१)

sadā prītamanās tasya kṛṣṇa devakīnandanaḥ |

334.2३३४.२

तुलसीकाष्ठसम्भूतां यो मालां वहते नरः । (३३४।२)

tulasīkāṣṭhasambhūtāṃ yo mālāṃ vahate naraḥ |

334.3३३४.३

प्रायश्चित्तं न तस्यास्ति नाशौचं तस्य विग्रहे ॥ (३३४।३)

prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe ||

335.1३३५.१

तुलसीकाष्ठसम्भूतां शिरसो यस्य भूषणम् । (३३५।१)

tulasīkāṣṭhasambhūtāṃ śiraso yasya bhūṣaṇam |

335.2३३५.२

बाह्वोः करे च मर्त्यस्य देहे तस्य सदा हरिः ॥ (३३५।२)

bāhvoḥ kare ca martyasya dehe tasya sadā hariḥ ||

336.1३३६.१

तुलसीकाष्ठमालाभिर् भूषितः पुण्यम् आचरेत् । (३३६।१)

tulasīkāṣṭhamālābhir bhūṣitaḥ puṇyam ācaret |

336.2३३६.२

पितॄणां देवतानां च कृतं कोटिगुणं कलौ ॥ (३३६।२)

pitṝṇāṃ devatānāṃ ca kṛtaṃ koṭiguṇaṃ kalau ||

337.1३३७.१

तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः । (३३७।१)

tulasīkāṣṭhamālāṃ tu pretarājasya dūtakāḥ |

337.2३३७.२

दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम् ॥ (३३७।२)

dṛṣṭvā naśyanti dūreṇa vātoddhūtaṃ yathā dalam ||

338.1३३८.१

तुलसीकाष्ठमालाभिर् भूषितो भ्रमते यदि । (३३८।१)

tulasīkāṣṭhamālābhir bhūṣito bhramate yadi |

338.2३३८.२

दुःस्वप्नं दुर्निमित्तं च न भयं शस्त्रजं क्वचित् ॥ (३३८।२)

duḥsvapnaṃ durnimittaṃ ca na bhayaṃ śastrajaṃ kvacit ||

339.1३३९.१

अथ गृहे सन्ध्योपासनविधिःसन्ध्योपास्त्यादिकं कर्म ततः कुर्यात् यथाविधि । (३३९।१)

atha gṛhe sandhyopāsanavidhiḥsandhyopāstyādikaṃ karma tataḥ kuryāt yathāvidhi |

339.2३३९.२

कृष्णपादोदकेनैव तत्र देवादितर्पणम् ॥ (३३९।२)

kṛṣṇapādodakenaiva tatra devāditarpaṇam ||

340.1३४०.१

शिरसा विष्णुनिर्माल्यं पादोदेनापि तर्पणम् । (३४०।१)

śirasā viṣṇunirmālyaṃ pādodenāpi tarpaṇam |

340.2३४०.२

पितॄणां देवतानां च वैष्णवैस् तु समं मतम् ॥ (३४०।२)

pitṝṇāṃ devatānāṃ ca vaiṣṇavais tu samaṃ matam ||

341.1३४१.१

सन्ध्योपास्तौ च वशिष्ठवचनम् । (३४१।१)

sandhyopāstau ca vaśiṣṭhavacanam |

341.2३४१.२

गृहे त्व् एकगुणा सन्ध्या गोष्ठे दशगुणा स्मृता । (३४१।२)

gṛhe tv ekaguṇā sandhyā goṣṭhe daśaguṇā smṛtā |

341.3३४१.३

शतसाहस्रिका नद्याम् अनन्ता विष्णुसन्निधौ ॥ (३४१।३)

śatasāhasrikā nadyām anantā viṣṇusannidhau ||

342.1३४२.१

अथ श्रीगुरुपूजापूजयिष्यंस् ततः कृष्णम् आदौ संनिहितं गुरुम् । (३४२।१)

atha śrīgurupūjāpūjayiṣyaṃs tataḥ kṛṣṇam ādau saṃnihitaṃ gurum |

342.2३४२.२

प्रणम्य पूजयेद् भक्त्या दत्त्वा किंचिद् उपायनम् ॥ (३४२।२)

praṇamya pūjayed bhaktyā dattvā kiṃcid upāyanam ||

343.1३४३.१

स्मृतिमहार्णवे । (३४३।१)

smṛtimahārṇave |

343.2३४३.२

रिक्तपाणिर् न पश्येत राजानं भिषजं गुरुम् । (३४३।२)

riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum |

343.3३४३.३

नोपायनकरः पुत्रं शिष्यं भृत्यं निरीक्षयेत् ॥ (३४३।३)

nopāyanakaraḥ putraṃ śiṣyaṃ bhṛtyaṃ nirīkṣayet ||

344.1३४४.१

किंच श्रीभगवदुक्तौ । (३४४।१)

kiṃca śrībhagavaduktau |

344.2३४४.२

प्रथमं तु गुरुं पूज्य ततश् चैव ममार्चनम् । (३४४।२)

prathamaṃ tu guruṃ pūjya tataś caiva mamārcanam |

344.3३४४.३

कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत् ॥ (३४४।३)

kurvan siddhim avāpnoti hy anyathā niṣphalaṃ bhavet ||

345.1३४५.१

श्रीनारदेन च । (३४५।१)

śrīnāradena ca |

345.2३४५.२

गुरौ संनिहिते यस् तु पूजयेद् अन्यम् अग्रतः । (३४५।२)

gurau saṃnihite yas tu pūjayed anyam agrataḥ |

345.3३४५.३

स दुर्गतिम् अवाप्नोति पूजनं तस्य निष्फलम् ॥ (३४५।३)

sa durgatim avāpnoti pūjanaṃ tasya niṣphalam ||

346.1३४६.१

श्रुतिषु । (३४६।१)

śrutiṣu |

346.2३४६.२

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । (३४६।२)

yasya deve parā bhaktiḥ yathā deve tathā gurau |

346.3३४६.३

तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ (३४६।३)

tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ ||

347.1३४७.१

एकादशस्कन्धे श्रीभगवदुक्तौ । (३४७।१)

ekādaśaskandhe śrībhagavaduktau |

347.2३४७.२

आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् । (३४७।२)

ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit |

347.3३४७.३

न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ (३४७।३)

na martyabuddhyāsūyeta sarvadevamayo guruḥ ||

348.1३४८.१

दशमस्कन्धे च । (३४८।१)

daśamaskandhe ca |

348.2३४८.२

नाहम् इज्याप्रजातिभ्यां तपसोपशमेन च । (३४८।२)

nāham ijyāprajātibhyāṃ tapasopaśamena ca |

348.3३४८.३

तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ (३४८।३)

tuṣyeyaṃ sarvabhūtātmā guruśuśrūṣayā yathā ||

349.1३४९.१

सप्तमस्कन्धे । (३४९।१)

saptamaskandhe |

349.2३४९.२

यस्य साक्षाद् भगवति ज्ञानदीपप्रदे गुरौ । (३४९।२)

yasya sākṣād bhagavati jñānadīpaprade gurau |

349.3३४९.३

मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥ (३४९।३)

martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat ||

350.1३५०.१

अन्यत्रापि । (३५०।१)

anyatrāpi |

350.2३५०.२

साधकस्य गुरौ भक्तिं मन्दीकुर्वन्ति देवताः । (३५०।२)

sādhakasya gurau bhaktiṃ mandīkurvanti devatāḥ |

350.3३५०.३

यन् नो ऽतीत्य व्रजेद् विष्णुं शिष्यो भक्त्या गुरौ ध्रुवन् ॥ (३५०।३)

yan no 'tītya vrajed viṣṇuṃ śiṣyo bhaktyā gurau dhruvan ||

351.1३५१.१

मनुस्मृतौ । (३५१।१)

manusmṛtau |

351.2३५१.२

अज्ञो भवति वै बालः पिता भवति मन्त्रदः । (३५१।२)

ajño bhavati vai bālaḥ pitā bhavati mantradaḥ |

351.3३५१.३

अज्ञं हि बालम् इत्य् आहुः पितेत्य् एव तु मन्त्रदम् ॥ (३५१।३)

ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam ||

352.1३५२.१

किंच । (३५२।१)

kiṃca |

352.2३५२.२

गुरुर् ब्रह्मा गुरुर् विष्णुर् गुरुर् देवो महेश्वरः । (३५२।२)

gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ |

352.3३५२.३

गुरुर् एव परं ब्रह्म तस्मात् सम्पूजयेत् सदा ॥ (३५२।३)

gurur eva paraṃ brahma tasmāt sampūjayet sadā ||

353.1३५३.१

वामनकल्पे । (३५३।१)

vāmanakalpe |

353.2३५३.२

यो मन्त्रः स गुरुः साक्षात् यो गुरुः स हरिः स्मृतः । (३५३।२)

yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ |

353.3३५३.३

गुरुर् यस्य भवेत् तुष्टस् तस्य तुष्टो हरिः स्वयम् । (३५३।३)

gurur yasya bhavet tuṣṭas tasya tuṣṭo hariḥ svayam |

353.4३५३.४

गुरोः समासने नैव न चैवोच्चासने वसेत् ॥ (३५३।४)

guroḥ samāsane naiva na caivoccāsane vaset ||

354.1३५४.१

विष्णुरहस्ये । (३५४।१)

viṣṇurahasye |

354.2३५४.२

तस्मात् सर्वप्रयत्नेन यथाविधि तथा गुरुम् । (३५४।२)

tasmāt sarvaprayatnena yathāvidhi tathā gurum |

354.3३५४.३

अभेदेनार्चयेत् यस् तु स मुक्तिफलम् आप्नुयात् ॥ (३५४।३)

abhedenārcayet yas tu sa muktiphalam āpnuyāt ||

355.1३५५.१

विष्णुधर्मे श्रीभागवते च हरिश्चन्द्रस्य । (३५५।१)

viṣṇudharme śrībhāgavate ca hariścandrasya |

355.2३५५.२

गुरुशुश्रूषणं नाम सर्वधर्मोत्तमोत्तमम् । (३५५।२)

guruśuśrūṣaṇaṃ nāma sarvadharmottamottamam |

355.3३५५.३

तस्माद् धर्मात् परो धर्मः पवित्रं नैव विद्यते ॥ (३५५।३)

tasmād dharmāt paro dharmaḥ pavitraṃ naiva vidyate ||

356.1३५६.१

कामक्रोधादिकं यद् यद् आत्मनो ऽनिष्टकारणम् । (३५६।१)

kāmakrodhādikaṃ yad yad ātmano 'niṣṭakāraṇam |

356.2३५६.२

एतत् सर्वं गुरौ भक्त्या पुरुषो ह्य् अञ्जसा जयेत् ॥ (३५६।२)

etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet ||

357.1३५७.१

पाद्मे । (३५७।१)

pādme |

357.2३५७.२

पितुर् आधिक्यभावेन येऽर्चयन्ति गुरुं सदा । (३५७।२)

pitur ādhikyabhāvena ye'rcayanti guruṃ sadā |

357.3३५७.३

भवन्त्य् अतिथयो लोके ब्रह्मणस् ते विशां वर ॥ (३५७।३)

bhavanty atithayo loke brahmaṇas te viśāṃ vara ||

358.1३५८.१

तत्रैव देवहूतिस्तुतौ । (३५८।१)

tatraiva devahūtistutau |

358.2३५८.२

भक्तिर् यथा हरौ मेऽस्ति तद्वन् निष्ठा गुरौ यदि । (३५८।२)

bhaktir yathā harau me'sti tadvan niṣṭhā gurau yadi |

358.3३५८.३

ममास्ति तेन सत्येन स्वं दर्शयतु मे हरिः ॥ (३५८।३)

mamāsti tena satyena svaṃ darśayatu me hariḥ ||

359.1३५९.१

आदित्यपुराणे । (३५९।१)

ādityapurāṇe |

359.2३५९.२

अविद्यो वा सविद्यो वा गुरुर् एव जनार्दनः । (३५९।२)

avidyo vā savidyo vā gurur eva janārdanaḥ |

359.3३५९.३

मार्गस्थो वाप्य् अमार्गस्थो गुरुर् एव सदा गतिः ॥ (३५९।३)

mārgastho vāpy amārgastho gurur eva sadā gatiḥ ||

360.1३६०.१

अन्यत्र च । (३६०।१)

anyatra ca |

360.2३६०.२

हरौ रुष्टे गुरुस् त्राता गुरौ रुष्टे न कश्चन । (३६०।२)

harau ruṣṭe gurus trātā gurau ruṣṭe na kaścana |

360.3३६०.३

तस्मात् सर्वप्रयत्नेन गुरुम् एव प्रसादयेत् ॥ (३६०।३)

tasmāt sarvaprayatnena gurum eva prasādayet ||

361.1३६१.१

ब्रह्मवैवर्ते । (३६१।१)

brahmavaivarte |

361.2३६१.२

अपि घ्नन्तः शपन्तो वा विरुद्धा अपि ये क्रुद्धाः । (३६१।२)

api ghnantaḥ śapanto vā viruddhā api ye kruddhāḥ |

361.3३६१.३

गुरवः पूजनीयास् ते गृहं नत्वा नयेत तान् ॥ (३६१।३)

guravaḥ pūjanīyās te gṛhaṃ natvā nayeta tān ||

362.1३६२.१

तत् श्लाघ्यं जन्म धन्यं तत् दिनं पुण्याथ नाडिका । (३६२।१)

tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha nāḍikā |

362.2३६२.२

यस्यां गुरुं प्रणमते समुपास्य तु भक्तितः ॥ (३६२।२)

yasyāṃ guruṃ praṇamate samupāsya tu bhaktitaḥ ||

363.1३६३.१

उपदेष्टारम् आम्नायगतं परिहरन्ति ये । (३६३।१)

upadeṣṭāram āmnāyagataṃ pariharanti ye |

363.2३६३.२

तान् मृतान् अपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते ॥ (३६३।२)

tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate ||

364.1३६४.१

बोधः कलुषितस् तेन दौरात्म्यं प्रकटीकृतम् । (३६४।१)

bodhaḥ kaluṣitas tena daurātmyaṃ prakaṭīkṛtam |

364.2३६४.२

गुरुर् येन परित्यक्तस् तेन त्यक्तः पुरा हरिः ॥ (३६४।२)

gurur yena parityaktas tena tyaktaḥ purā hariḥ ||

365.1३६५.१

अन्यत्र च । (३६५।१)

anyatra ca |

365.2३६५.२

प्रतिपद्य गुरुं यस् तु मोहाद् विप्रतिपद्यते । (३६५।२)

pratipadya guruṃ yas tu mohād vipratipadyate |

365.3३६५.३

स कल्पकोटिं नरके पच्यते पुरुषाधमः ॥ (३६५।३)

sa kalpakoṭiṃ narake pacyate puruṣādhamaḥ ||

366.1३६६.१

पञ्चरात्रे । (३६६।१)

pañcarātre |

366.2३६६.२

अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् । (३६६।२)

avaiṣṇavopadiṣṭena mantreṇa nirayaṃ vrajet |

366.3३६६.३

पुनश् च विधिना सम्यग् ग्राहयेद् वैष्णवाद् गुरोः ॥ (३६६।३)

punaś ca vidhinā samyag grāhayed vaiṣṇavād guroḥ ||

367.1३६७.१

अगस्त्यसंहितायां । (३६७।१)

agastyasaṃhitāyāṃ |

367.2३६७.२

ये गुर्वाज्ञां न कुर्वन्ति पापिष्ठाः पुरुषाधमाः । (३६७।२)

ye gurvājñāṃ na kurvanti pāpiṣṭhāḥ puruṣādhamāḥ |

367.3३६७.३

न तेषां नरकक्लेशनिस्तारो मुनिसत्तम ॥ (३६७।३)

na teṣāṃ narakakleśanistāro munisattama ||

368.1३६८.१

यैः शिष्यैः शश्वद् आराध्या गुरवो ह्य् अवमानिताः । (३६८।१)

yaiḥ śiṣyaiḥ śaśvad ārādhyā guravo hy avamānitāḥ |

368.2३६८.२

पुत्रमित्रकलत्रादिसम्पद्भ्यः प्रच्युता हि ते ॥ (३६८।२)

putramitrakalatrādisampadbhyaḥ pracyutā hi te ||

369.1३६९.१

अधिक्षिप्य गुरुं मोहात् परुषं प्रवदन्ति ये । (३६९।१)

adhikṣipya guruṃ mohāt paruṣaṃ pravadanti ye |

369.2३६९.२

शूकरत्वं भवत्य् एव तेषां जन्मशतेष्व् अपि ॥ (३६९।२)

śūkaratvaṃ bhavaty eva teṣāṃ janmaśateṣv api ||

370.1३७०.१

ये गुरुद्रोहिणो मूढाः सततं पापकारिणः । (३७०।१)

ye gurudrohiṇo mūḍhāḥ satataṃ pāpakāriṇaḥ |

370.2३७०.२

तेषां च यावत् सुकृतं दुष्कृतं स्यान् न संशयः ॥ (३७०।२)

teṣāṃ ca yāvat sukṛtaṃ duṣkṛtaṃ syān na saṃśayaḥ ||

371.1३७१.१

अतः प्राग् गुरुम् अभ्यर्च्य कृष्णभावेन बुद्धिमान् । (३७१।१)

ataḥ prāg gurum abhyarcya kṛṣṇabhāvena buddhimān |

371.2३७१.२

त्र्यवरान् असमान् कुर्यात् प्रणामान् दण्डपातवत् ॥ (३७१।२)

tryavarān asamān kuryāt praṇāmān daṇḍapātavat ||

372.1३७२.१

अत एव कौर्मे श्रीव्यासगीतायाम् । (३७२।१)

ata eva kaurme śrīvyāsagītāyām |

372.2३७२.२

व्यत्यस्तपाणिना कार्यम् उपसंग्रहणं गुरोः । (३७२।२)

vyatyastapāṇinā kāryam upasaṃgrahaṇaṃ guroḥ |

372.3३७२.३

सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ (३७२।३)

savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ ||

373.1३७३.१

अथ श्रीगुरुपादानां प्राप्यानुज्ञां च साधकः । (३७३।१)

atha śrīgurupādānāṃ prāpyānujñāṃ ca sādhakaḥ |

373.2३७३.२

प्राक् संस्कृतं हरेर् गेहं प्रवेक्ष्यन् पादुके त्यजेत् ॥ (३७३।२)

prāk saṃskṛtaṃ harer gehaṃ pravekṣyan pāduke tyajet ||

374.1३७४.१

तथा चापस्तम्बे । (३७४।१)

tathā cāpastambe |

374.2३७४.२

अग्न्यागारे गवां गोष्ठे देवब्राह्मणसन्निधौ । (३७४।२)

agnyāgāre gavāṃ goṣṭhe devabrāhmaṇasannidhau |

374.3३७४.३

जपे भोजनकाले च पादुके परिवर्जयेत् ॥ (३७४।३)

jape bhojanakāle ca pāduke parivarjayet ||

375.1३७५.१

ततः श्रीभगवत्पूजामन्दिरस्याङ्गनं गतः । (३७५।१)

tataḥ śrībhagavatpūjāmandirasyāṅganaṃ gataḥ |

375.2३७५.२

प्रक्षाल्य हस्तौ पादौ च द्विराचमनम् आचरेत् ॥ (३७५।२)

prakṣālya hastau pādau ca dvirācamanam ācaret ||

376.1३७६.१

तथा च मार्कण्डेये । (३७६।१)

tathā ca mārkaṇḍeye |

376.2३७६.२

देवार्चनादिकार्याणि तथा गुर्वभिवादनम् । (३७६।२)

devārcanādikāryāṇi tathā gurvabhivādanam |

376.3३७६.३

कुर्वीत सम्यग् आचम्य तद्वद् एव भुजिक्रियाम् ॥ (३७६।३)

kurvīta samyag ācamya tadvad eva bhujikriyām ||

377.1३७७.१

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे श्रीवैष्णवालङ्कारो नाम चतुर्थो विलासः ॥ (३७७।१)

iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śrīvaiṣṇavālaṅkāro nāma caturtho vilāsaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

HBhVil, 4

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit