हरिभक्तिविलासHaribhaktivilāsa

HBhVil, 5

5 of 5 · 1,225 verses

Select a line for its word-by-word analysis.

1.0१.०

श्रीचैतन्यप्रभुं वन्दे बालो ऽपि यदनुग्रहात् । (१।०)

तरेन् नानामतग्राहव्याप्तं पूजाक्रमार्णवम् । (१।०)

सनातनः । (१।०)

श्रीचैतन्याय नमः । (१।०)

बालो ऽज्ञः । (१।०)

पक्षे शिशुः । (१।०)

नानाविधमतान्य् एव ग्राहस् तैर् व्याप्तम् । (१।०)

पूजायाः क्रमो विधिः । (१।०)

विध्यनुक्रमो वा स एवार्णवस् तम् ॥ (१।०)

śrīcaitanyaprabhuṃ vande bālo 'pi yadanugrahāt |

taren nānāmatagrāhavyāptaṃ pūjākramārṇavam |

sanātanaḥ |

śrīcaitanyāya namaḥ |

bālo 'jñaḥ |

pakṣe śiśuḥ |

nānāvidhamatāny eva grāhas tair vyāptam |

pūjāyāḥ kramo vidhiḥ |

vidhyanukramo vā sa evārṇavas tam ||

2.1२.१

श्रीमद्गोपालदेवस्याष्टादशाक्षरयन्त्रतः । (२।१)

śrīmadgopāladevasyāṣṭādaśākṣarayantrataḥ |

2.2२.२

लिख्यतेऽर्चाविधिर् गूढः क्रमदीपिकयेक्षितः । (२।२)

likhyate'rcāvidhir gūḍhaḥ kramadīpikayekṣitaḥ |

2.3२.३

सनातनः । (२।३)

sanātanaḥ |

2.4२.४

अष्टादशाक्षरमन्त्रेण यो ऽर्चाविधिः पूजाप्रकारः स लिख्यते । (२।४)

aṣṭādaśākṣaramantreṇa yo 'rcāvidhiḥ pūjāprakāraḥ sa likhyate |

2.5२.५

यद्यपि दशाक्षरादिनापि पूजाविधौ भेदो नास्ति तथापि न्यासादिभेदापेक्षया तथा लिखितम् । (२।५)

yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam |

2.6२.६

गूढो ऽपि क्रमदीपिकया श्रीकेशवाचार्यविरचितया ईक्षितः दर्शितः सन् । (२।६)

gūḍho 'pi kramadīpikayā śrīkeśavācāryaviracitayā īkṣitaḥ darśitaḥ san |

2.7२.७

अतः क्रमदीपिकोक्तानुसारेण लेख्य इति भावः । (२।७)

ataḥ kramadīpikoktānusāreṇa lekhya iti bhāvaḥ |

2.8२.८

आगमोक्तेन मार्गेण भगवान् ब्राह्मणैर् अपि । (२।८)

āgamoktena mārgeṇa bhagavān brāhmaṇair api |

2.9२.९

सदैव पूज्यो ऽतो लेख्यः प्राय आगमिको विधिः ॥ (२।९)

sadaiva pūjyo 'to lekhyaḥ prāya āgamiko vidhiḥ ||

3.1३.१

तथा च विष्णुयामले । (३।१)

tathā ca viṣṇuyāmale |

3.2३.२

कृते श्रुत्युक्तमार्गः स्यात् त्रेतायां स्मृतिभावितः । (३।२)

kṛte śrutyuktamārgaḥ syāt tretāyāṃ smṛtibhāvitaḥ |

3.3३.३

द्वापरे तु पुराणोक्तः कलाव् आगमसम्भवः ॥ (३।३)

dvāpare tu purāṇoktaḥ kalāv āgamasambhavaḥ ||

4.1४.१

अशुद्धाः शूद्राकल्पा हि ब्राह्मणाः कलिसम्भवाः । (४।१)

aśuddhāḥ śūdrākalpā hi brāhmaṇāḥ kalisambhavāḥ |

4.2४.२

तेषाम् आगममार्गेण शुद्धिर् न श्रौतवर्त्मना ॥ (४।२)

teṣām āgamamārgeṇa śuddhir na śrautavartmanā ||

5.1५.१

सनातनः । (५।१)

sanātanaḥ |

5.2५.२

तेषाम् आगममार्गेण श्रौतवर्त्मनेत्य् अनेन तैर् अपि आगमिकविधिनैव पूजा कार्येति भावः । (५।२)

teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ |

5.3५.३

तथा चैकादशस्कन्धे नानातन्त्रविधानेन कलाव् अपि तथा शृणु इति । (५।३)

tathā caikādaśaskandhe nānātantravidhānena kalāv api tathā śṛṇu iti |

5.4५.४

तत्र श्रीधरस्वामिपादाः । (५।४)

tatra śrīdharasvāmipādāḥ |

5.5५.५

नानातन्त्रविधानेनेति कलौ तन्त्रमार्गस्य प्राधान्यं दर्शयति इति । (५।५)

nānātantravidhāneneti kalau tantramārgasya prādhānyaṃ darśayati iti |

5.6५.६

अथ द्वारपूजाश्रीकृष्णद्वारदेवेभ्यो दत्त्वा पाद्यादिकं ततः । (५।६)

atha dvārapūjāśrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ |

5.7५.७

गन्धपुष्पैर् अर्चयेत् तान् यथास्थानं यथाक्रमम् ॥ (५।७)

gandhapuṣpair arcayet tān yathāsthānaṃ yathākramam ||

6.1६.१

सनातनः । (६।१)

sanātanaḥ |

6.2६.२

तान् श्रीकृष्णद्वारदेवान् प्रणवादिचतुर्थ्यन्तं देवनाम नमोऽन्तकम् इत्य् अग्रे लेख्यत्वाद् अत्रैवं प्रयोगः श्रीकृष्णद्वारदेवताभ्यो नमः । (६।२)

tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ |

6.3६.३

अनेन मन्त्रेण पाद्यार्घ्यादिकं दत्त्वा गन्धादिभिः पुनर् विशेषेण पूजयेद् इत्य् अर्थः । (६।३)

anena mantreṇa pādyārghyādikaṃ dattvā gandhādibhiḥ punar viśeṣeṇa pūjayed ity arthaḥ |

6.4६.४

एवम् अग्रेऽपि सपरिवारेभ्यः श्रीकृष्णपार्षदेभ्यो नमः इत्यादि प्रयोगो द्रष्टव्यः । (६।४)

evam agre'pi saparivārebhyaḥ śrīkṛṣṇapārṣadebhyo namaḥ ityādi prayogo draṣṭavyaḥ |

6.5६.५

द्वाराग्रे सपरीवारान् भूपीठे कृष्णपार्षदान् । (६।५)

dvārāgre saparīvārān bhūpīṭhe kṛṣṇapārṣadān |

6.6६.६

तदग्रे गरुडं द्वारस्योर्ध्वे द्वारश्रियं यजेत् ॥ (६।६)

tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet ||

7.1७.१

प्राग्द्वारोभयपार्श्वे तु यजेच् चण्डप्रचण्डकौ । (७।१)

prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau |

7.2७.२

द्वारे च दक्षिणे धातृविधातारौ च पश्चिमे ॥ (७।२)

dvāre ca dakṣiṇe dhātṛvidhātārau ca paścime ||

8.1८.१

जयं च विजयं चैव बलं प्रबलम् उत्तरे । (८।१)

jayaṃ ca vijayaṃ caiva balaṃ prabalam uttare |

8.2८.२

द्वन्द्वशस्त्व् एवम् अभ्यर्च्य देहल्यां वास्तुपुरुषम् ॥ (८।२)

dvandvaśastv evam abhyarcya dehalyāṃ vāstupuruṣam ||

9.1९.१

सनातनः । (९।१)

sanātanaḥ |

9.2९.२

एवं सामान्येन सर्वेषाम् एव पूजाविधिर् लिखितः । (९।२)

evaṃ sāmānyena sarveṣām eva pūjāvidhir likhitaḥ |

9.3९.३

इदानीं यथास्थानं यथाक्रमम् इति यल् लिखितं तद् एव विविच्य लिखति द्वाराग्र इति द्वाराभ्याम् । (९।३)

idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām |

9.4९.४

तत्राप्य् आदौ द्वारस्याग्रे यत् भूरूपं पीठं तत्र समस्तपरिवारान्वितान् श्रीकृष्णपार्षदान् यजेत् पूजयेत् । (९।४)

tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet |

9.5९.५

अनन्तरं तस्य द्वारस्याग्रे गरुडं । (९।५)

anantaraṃ tasya dvārasyāgre garuḍaṃ |

9.6९.६

यद्यपि द्वारश्रियो ऽर्चनं प्रबलार्चनानन्तरम् एव क्रमदीपिकायाम् उक्तम् तथापि इष्ट्वेति क्ट्वाप्रत्ययेन चण्डादिपूजातः पूर्वकाल एवेति बोधितम् । (९।६)

yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam |

9.7९.७

तथैव सदाचारात् । (९।७)

tathaiva sadācārāt |

9.8९.८

किंच द्वन्द्व इत्य् अग्रे लिखनात् चण्डप्रचण्डाभ्यां नमः इत्य् एवं युग्मत्वेन प्रयोगो ज्ञेयः । (९।८)

kiṃca dvandva ity agre likhanāt caṇḍapracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ |

9.9९.९

द्वारान्तःपार्श्वयोर् गङ्गां यमुनां च ततो ऽर्चयेत् । (९।९)

dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet |

9.10९.१०

तत्पार्श्वयोः शङ्खनिधिं तथा पद्मनिधिं यजेत् ॥ (९।१०)

tatpārśvayoḥ śaṅkhanidhiṃ tathā padmanidhiṃ yajet ||

10.1१०.१

सनातनः । (१०।१)

sanātanaḥ |

10.2१०.२

द्वारस्यान्तः अभ्यन्तरे तत्पार्श्वद्वये तयोर् गङ्गायमुनयोः पार्श्वद्वये । (१०।२)

dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye |

10.3१०.३

गणेशं मन्दिरस्याग्निकोणे दुर्गां च नैरृते । (१०।३)

gaṇeśaṃ mandirasyāgnikoṇe durgāṃ ca nairṛte |

10.4१०.४

वाणीं वायव्य ऐशाने क्षेत्रपालं तथार्चयेत् ॥ (१०।४)

vāṇīṃ vāyavya aiśāne kṣetrapālaṃ tathārcayet ||

11.1११.१

सनातनः । (११।१)

sanātanaḥ |

11.2११.२

आग्नेये कोणे गणेशम् अर्चयेत् । (११।२)

āgneye koṇe gaṇeśam arcayet |

11.3११.३

तथा चोक्तं क्रमदीपिकायाम् । (११।३)

tathā coktaṃ kramadīpikāyām |

11.4११.४

परिवाराराः कृताः सर्वे पुनः श्रीविष्णुपार्षदाः । (११।४)

parivārārāḥ kṛtāḥ sarve punaḥ śrīviṣṇupārṣadāḥ |

11.5११.५

द्वाराग्राबलिपीठे ऽर्च्याः पक्षीन्द्रश् च तदग्रतः । (११।५)

dvārāgrābalipīṭhe 'rcyāḥ pakṣīndraś ca tadagrataḥ |

11.6११.६

चण्डप्रचण्डौ प्राग् धातृविधातारौ च दक्षिणे । (११।६)

caṇḍapracaṇḍau prāg dhātṛvidhātārau ca dakṣiṇe |

11.7११.७

जयः सविजयः पश्चाद् बलः प्रबल उत्तरे । (११।७)

jayaḥ savijayaḥ paścād balaḥ prabala uttare |

11.8११.८

ऊर्ध्वे द्वारश्रियं चेष्ट्वा द्वार्य् एतान् युग्मशो ऽर्चयेत् । (११।८)

ūrdhve dvāraśriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet |

11.9११.९

पूज्यो वास्तुपुमांस् तत्र तत्र द्वाःपीठमध्यतः । (११।९)

pūjyo vāstupumāṃs tatra tatra dvāḥpīṭhamadhyataḥ |

11.10११.१०

द्वारान्तःपार्श्वयोर् अर्च्या गङ्गा च यमुना नदी । (११।१०)

dvārāntaḥpārśvayor arcyā gaṅgā ca yamunā nadī |

11.11११.११

कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रे समर्चयेत् । (११।११)

koṇeṣu vighnaṃ durgāṃ ca vāṇīṃ kṣetre samarcayet |

11.12११.१२

द्वाःशाखाम् आश्रयन् वामां संकोच्याङ्गानि देहलीम् । (११।१२)

dvāḥśākhām āśrayan vāmāṃ saṃkocyāṅgāni dehalīm |

11.13११.१३

अस्पृष्ट्वा प्रविशेद् वेश्म न्यस्यन् प्राग् दक्षिणं पदम् ॥ (११।१३)

aspṛṣṭvā praviśed veśma nyasyan prāg dakṣiṇaṃ padam ||

12.1१२.१

सनातनः । (१२।१)

sanātanaḥ |

12.2१२.२

वामां स्ववामभागवर्तिनीं द्वारशाखां आश्रयन् ईषत् स्पृषद् निजाङ्गानि संकोच्य देहलीम् अस्पृष्ट्वा न लङ्घयित्वेत्य् अर्थः । (१२।२)

vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ |

12.3१२.३

दक्षिणं पदं प्राक् आदौ न्यस्यन् । (१२।३)

dakṣiṇaṃ padaṃ prāk ādau nyasyan |

12.4१२.४

दक्षिणपादन्यासक्रमेणेत्य् अर्थः । (१२।४)

dakṣiṇapādanyāsakrameṇety arthaḥ |

12.5१२.५

वेश्म श्रीभगवन्मन्दिरं हरेर् गेहं प्रवेक्ष्यन्न् इति पूर्वलिखनात् । (१२।५)

veśma śrībhagavanmandiraṃ harer gehaṃ pravekṣyann iti pūrvalikhanāt |

12.6१२.६

प्रविशेत् तन्मध्यं शनैः पूजको गच्छेत् । (१२।६)

praviśet tanmadhyaṃ śanaiḥ pūjako gacchet |

12.7१२.७

तथा च सारदातिलके किंचित् । (१२।७)

tathā ca sāradātilake kiṃcit |

12.8१२.८

स्पृशन् वामशाखां देहलीं लङ्घयन् गुरुः । (१२।८)

spṛśan vāmaśākhāṃ dehalīṃ laṅghayan guruḥ |

12.9१२.९

अङ्गं संकोचयन्न् अन्तः प्रविशेद् दक्षिणाङ्घ्रिणा ॥ (१२।९)

aṅgaṃ saṃkocayann antaḥ praviśed dakṣiṇāṅghriṇā ||

13.1१३.१

सनातनः । (१३।१)

sanātanaḥ |

13.2१३.२

गुरुर् इति दीक्षाविधानोक्तः । (१३।२)

gurur iti dīkṣāvidhānoktaḥ |

13.3१३.३

अथ गृहप्रवेशमाहात्म्यम्तन्माहात्म्यं च हरिभक्तिसुधोदये । (१३।३)

atha gṛhapraveśamāhātmyamtanmāhātmyaṃ ca haribhaktisudhodaye |

13.4१३.४

प्रविशन्न् आलयं विष्णोर् अर्चनार्थं सुभक्तिमान् । (१३।४)

praviśann ālayaṃ viṣṇor arcanārthaṃ subhaktimān |

13.5१३.५

न भूयः प्रविशन् मातुः कुक्षिकारागृहं सुधीः ॥ (१३।५)

na bhūyaḥ praviśan mātuḥ kukṣikārāgṛhaṃ sudhīḥ ||

14.1१४.१

अथ गृहान्तःपूजानैरृते वास्तुपुरुषं ब्रह्माणम् अपि पूजयेत् । (१४।१)

atha gṛhāntaḥpūjānairṛte vāstupuruṣaṃ brahmāṇam api pūjayet |

14.2१४.२

आसनस्थो यजेत् तांस् तान् अन्यत्र भगवद्गृहात् ॥ (१४।२)

āsanastho yajet tāṃs tān anyatra bhagavadgṛhāt ||

15.1१५.१

तत्पूजामन्त्रश् चोक्तः । (१५।१)

tatpūjāmantraś coktaḥ |

15.2१५.२

प्रणवादिचतुर्थ्यन्तं देवनाम नमोऽन्तकम् । (१५।२)

praṇavādicaturthyantaṃ devanāma namo'ntakam |

15.3१५.३

पूजामन्त्रम् इदं प्रोक्तं सर्वत्रार्चनकर्मणि ॥ (१५।३)

pūjāmantram idaṃ proktaṃ sarvatrārcanakarmaṇi ||

16.1१६.१

अथ कृष्णाग्रतस् तिष्ठन् कृत्वा दिग्बन्धनं क्षिपेत् । (१६।१)

atha kṛṣṇāgratas tiṣṭhan kṛtvā digbandhanaṃ kṣipet |

16.2१६.२

पुष्पाक्षतान् समस्तासु दिक्षु तत्रोक्तमन्त्रतः ॥ (१६।२)

puṣpākṣatān samastāsu dikṣu tatroktamantrataḥ ||

17.1१७.१

अथ पूजार्थासनम्ततश् चासनमन्त्रेणाभिमन्त्र्याभ्यर्च्य चासनम् । (१७।१)

atha pūjārthāsanamtataś cāsanamantreṇābhimantryābhyarcya cāsanam |

17.2१७.२

तस्मिन्न् उपविशेत् पद्मासनेन स्वस्तिकेन वा ॥ (१७।२)

tasminn upaviśet padmāsanena svastikena vā ||

18.1१८.१

तत्र कृष्णार्चकः प्रायो दिवसे प्राङ्मुखो भवेत् । (१८।१)

tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet |

18.2१८.२

उदङ्मुखो रजन्यां तु स्थिरमूर्तिश् च सम्मुखः ॥ (१८।२)

udaṅmukho rajanyāṃ tu sthiramūrtiś ca sammukhaḥ ||

19.1१९.१

तत्र च एकादशस्कन्धे । (१९।१)

tatra ca ekādaśaskandhe |

19.2१९.२

आसीनः प्राग् उदग्वार्चेत् स्थिरायां त्व् अथ सम्मुखः ॥ (१९।२)

āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ ||

20.1२०.१

अथासनमन्त्रःआसनमन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः । (२०।१)

athāsanamantraḥāsanamantrasya merupṛṣṭha ṛṣiḥ sutalaṃ chandaḥ |

20.2२०.२

कूर्मो देवता आसनाभिमन्त्रेण विनियोगः ॥ (२०।२)

kūrmo devatā āsanābhimantreṇa viniyogaḥ ||

21.1२१.१

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । (२१।१)

pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā |

21.2२१.२

त्वं च धारय मां नित्यं पवित्रं कुरु चासनम् ॥ (२१।२)

tvaṃ ca dhāraya māṃ nityaṃ pavitraṃ kuru cāsanam ||

22.1२२.१

अथासनविधिःनारदपञ्चरात्रे । (२२।१)

athāsanavidhiḥnāradapañcarātre |

22.2२२.२

वंशाश्मदारुधरणीतृणपल्लवनिर्मितम् । (२२।२)

vaṃśāśmadārudharaṇītṛṇapallavanirmitam |

22.3२२.३

वर्जयेद् आसनं विद्वान् दारिद्र्यव्याधिदुःखदम् । (२२।३)

varjayed āsanaṃ vidvān dāridryavyādhiduḥkhadam |

22.4२२.४

कृष्णाजिनं कम्बलं वा नान्यद् आसनम् इष्यते ॥ (२२।४)

kṛṣṇājinaṃ kambalaṃ vā nānyad āsanam iṣyate ||

23.1२३.१

अन्यत्र च । (२३।१)

anyatra ca |

23.2२३.२

कृष्णाजिनं व्याघ्रचर्म कौशेयं वेत्रनिर्मितम् । (२३।२)

kṛṣṇājinaṃ vyāghracarma kauśeyaṃ vetranirmitam |

23.3२३.३

वस्त्राजिनं कम्बलं वा कल्पयेद् आसनं मृदु ॥ (२३।३)

vastrājinaṃ kambalaṃ vā kalpayed āsanaṃ mṛdu ||

24.1२४.१

अथ विशेषत आसनदोषविधिःनारदपञ्चरात्रे । (२४।१)

atha viśeṣata āsanadoṣavidhiḥnāradapañcarātre |

24.2२४.२

वंशाद् आहुर् दरिद्रत्वं पाषाणे व्याधिसम्भवम् । (२४।२)

vaṃśād āhur daridratvaṃ pāṣāṇe vyādhisambhavam |

24.3२४.३

धरण्यां दुःखसम्भूतिं दौर्भाग्यं दारवासने ॥ (२४।३)

dharaṇyāṃ duḥkhasambhūtiṃ daurbhāgyaṃ dāravāsane ||

25.1२५.१

तृणासने यशोहानिं पल्लवे चित्तविभ्रमम् । (२५।१)

tṛṇāsane yaśohāniṃ pallave cittavibhramam |

25.2२५.२

दर्भासने व्याधिनाशं कम्बलं दुःखमोचनम् ॥ (२५।२)

darbhāsane vyādhināśaṃ kambalaṃ duḥkhamocanam ||

26.1२६.१

किंच श्रीभगवद्गीतासु । (२६।१)

kiṃca śrībhagavadgītāsu |

26.2२६.२

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । (२६।२)

śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ |

26.3२६.३

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ (२६।३)

nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ||

27.1२७.१

यथोक्तम् उपविश्याथ सम्प्रदायानुसारतः । (२७।१)

yathoktam upaviśyātha sampradāyānusārataḥ |

27.2२७.२

शङ्खादिपूजासम्भारान् न्यसेत् तत्तत्पदेषु तान् ॥ (२७।२)

śaṅkhādipūjāsambhārān nyaset tattatpadeṣu tān ||

28.1२८.१

अथ पात्रासादनम्स्वस्य वामाग्रतः शङ्खं साधारं स्थापयेद् बुधः । (२८।१)

atha pātrāsādanamsvasya vāmāgrataḥ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ |

28.2२८.२

तत्रैवार्घ्यादिपात्राणि न्यस्येच् च द्वारि भागशः ॥ (२८।२)

tatraivārghyādipātrāṇi nyasyec ca dvāri bhāgaśaḥ ||

29.1२९.१

तुलसीगन्धपुष्पादिभाजनानि च दक्षिणे । (२९।१)

tulasīgandhapuṣpādibhājanāni ca dakṣiṇe |

29.2२९.२

वामे च स्थापयेत् पार्श्वे कलसं पूर्णम् अम्भसा ॥ (२९।२)

vāme ca sthāpayet pārśve kalasaṃ pūrṇam ambhasā ||

30.1३०.१

दक्षिणे घृतदीपं च तैलदीपं च वामतः । (३०।१)

dakṣiṇe ghṛtadīpaṃ ca tailadīpaṃ ca vāmataḥ |

30.2३०.२

सम्भारानपरान् न्यसेत् स्वदृष्टिविषये पदे । (३०।२)

sambhārānaparān nyaset svadṛṣṭiviṣaye pade |

30.3३०.३

करप्रक्षालनार्थं च पात्रम् एकं स्वपृष्ठतः ॥ (३०।३)

karaprakṣālanārthaṃ ca pātram ekaṃ svapṛṣṭhataḥ ||

31.1३१.१

अथ पात्राणि तन्माहात्म्यं चदेवीपुराणे । (३१।१)

atha pātrāṇi tanmāhātmyaṃ cadevīpurāṇe |

31.2३१.२

नानाविचित्ररूपाणि पुण्डरीकाकृतीनि च । (३१।२)

nānāvicitrarūpāṇi puṇḍarīkākṛtīni ca |

31.3३१.३

शङ्खनीलोत्पलाभानि पात्राणि परिकल्पयेत् ॥ (३१।३)

śaṅkhanīlotpalābhāni pātrāṇi parikalpayet ||

32.1३२.१

रत्नादिरचितान्य् एव काञ्चीमूलयुतानि च । (३२।१)

ratnādiracitāny eva kāñcīmūlayutāni ca |

32.2३२.२

यथाशोभं यथालाभं तथा पात्राणि कारयेत् ॥ (३२।२)

yathāśobhaṃ yathālābhaṃ tathā pātrāṇi kārayet ||

33.1३३.१

किंच । (३३।१)

kiṃca |

33.2३३.२

हंसपात्रेण सर्वाणि चेप्सितानि लभेन् मुने । (३३।२)

haṃsapātreṇa sarvāṇi cepsitāni labhen mune |

33.3३३.३

अर्घ्यं दत्त्वा तथा रौप्येणायुराज्यं शुभं भवेत् । (३३।३)

arghyaṃ dattvā tathā raupyeṇāyurājyaṃ śubhaṃ bhavet |

33.4३३.४

ताम्रपात्रेण सौभाग्यं धर्मं मृण्मयसम्भवम् ॥ (३३।४)

tāmrapātreṇa saubhāgyaṃ dharmaṃ mṛṇmayasambhavam ||

34.1३४.१

वाराहे । (३४।१)

vārāhe |

34.2३४.२

सौवर्णं राजतं कांस्यं येन दीयते भाजनम् । (३४।२)

sauvarṇaṃ rājataṃ kāṃsyaṃ yena dīyate bhājanam |

34.3३४.३

तान् सर्वान् सम्परित्यज्य ताम्रं तु मम रोचते ॥ (३४।३)

tān sarvān samparityajya tāmraṃ tu mama rocate ||

35.1३५.१

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । (३५।१)

pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam |

35.2३५.२

विशुद्धानां शुचिं चैव ताम्रं संसारमोक्षणम् ॥ (३५।२)

viśuddhānāṃ śuciṃ caiva tāmraṃ saṃsāramokṣaṇam ||

36.1३६.१

दीक्षितानां विशुद्धानां मम कर्मपरायणः । (३६।१)

dīkṣitānāṃ viśuddhānāṃ mama karmaparāyaṇaḥ |

36.2३६.२

सदा ताम्रेण कर्तव्यम् एवं भूमि मम प्रियम् ॥ (३६।२)

sadā tāmreṇa kartavyam evaṃ bhūmi mama priyam ||

37.1३७.१

केचिच् च ताम्रपात्रेषु गव्यादेर् योगदोषतः । (३७।१)

kecic ca tāmrapātreṣu gavyāder yogadoṣataḥ |

37.2३७.२

ताम्रातिरिक्तम् इच्छन्ति मधुपर्कस्य भाजनम् ॥ (३७।२)

tāmrātiriktam icchanti madhuparkasya bhājanam ||

38.1३८.१

तथैव शङ्खम् एवार्घ्यपात्रम् इच्छन्ति केचन । (३८।१)

tathaiva śaṅkham evārghyapātram icchanti kecana |

38.2३८.२

शङ्खे कृत्वा तु पानीयं सपुष्पं सलिलाक्षतम् । (३८।२)

śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ salilākṣatam |

38.3३८.३

अर्घ्यं ददाति देवस्येत्य् एवं स्कान्देऽभिधानतः ॥ (३८।३)

arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ ||

39.1३९.१

अथ मङ्गलघटस्थापनम्मङ्गलार्थं च कलसं सजलं करकान्वितम् । (३९।१)

atha maṅgalaghaṭasthāpanammaṅgalārthaṃ ca kalasaṃ sajalaṃ karakānvitam |

39.2३९.२

फलादिसहितं दिव्यं न्यसेद् भगवतो ऽग्रतः ॥ (३९।२)

phalādisahitaṃ divyaṃ nyased bhagavato 'grataḥ ||

40.1४०.१

तथा च स्कान्दे । (४०।१)

tathā ca skānde |

40.2४०.२

कुम्भं सकरकं दिव्यं फलकर्पूरसंयुतम् । (४०।२)

kumbhaṃ sakarakaṃ divyaṃ phalakarpūrasaṃyutam |

40.3४०.३

न्यसेद् अर्चनकाले तु कृष्णस्यातीव वल्लभम् ॥ (४०।३)

nyased arcanakāle tu kṛṣṇasyātīva vallabham ||

41.1४१.१

किंच । (४१।१)

kiṃca |

41.2४१.२

सनीरं च सकर्पूरं कुम्भं कृष्णाय यो न्यसेत् । (४१।२)

sanīraṃ ca sakarpūraṃ kumbhaṃ kṛṣṇāya yo nyaset |

41.3४१.३

कल्पं तस्य न पापेक्षां कुर्वन्ति प्रपितामहाः ॥ (४१।३)

kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ ||

42.1४२.१

अथार्घ्यादिपात्राणिप्रक्षिपेद् अर्घ्यपात्रे तु गन्धपुष्पाक्षतान् यवान् । (४२।१)

athārghyādipātrāṇiprakṣiped arghyapātre tu gandhapuṣpākṣatān yavān |

42.2४२.२

कुशाग्रतिलदूर्वाश् च सिद्धार्थान् अपि साधकः । (४२।२)

kuśāgratiladūrvāś ca siddhārthān api sādhakaḥ |

42.3४२.३

केचिच् चात्र जलादीनि द्रव्याण्य् अष्टौ वदन्ति हि ॥ (४२।३)

kecic cātra jalādīni dravyāṇy aṣṭau vadanti hi ||

43.1४३.१

यत उक्तं भविष्ये । (४३।१)

yata uktaṃ bhaviṣye |

43.2४३.२

आपः क्षीरं कुशाग्राणि दध्यक्षततिलस् तथा । (४३।२)

āpaḥ kṣīraṃ kuśāgrāṇi dadhyakṣatatilas tathā |

43.3४३.३

यवाः सिद्धार्थकाश् चैवम् अर्घ्यो ऽष्टाङ्गः प्रकीर्तितः ॥ (४३।३)

yavāḥ siddhārthakāś caivam arghyo 'ṣṭāṅgaḥ prakīrtitaḥ ||

44.1४४.१

पाद्यपात्रे च कमलं दूर्वा श्यामाकम् एव च । (४४।१)

pādyapātre ca kamalaṃ dūrvā śyāmākam eva ca |

44.2४४.२

निक्षिपेद् विष्णुपत्रीं चेत्य् एवं द्रव्यचतुष्टयम् ॥ (४४।२)

nikṣiped viṣṇupatrīṃ cety evaṃ dravyacatuṣṭayam ||

45.1४५.१

तथैवाचमनीयार्थं पात्रे द्रव्यत्रयं बुधः । (४५।१)

tathaivācamanīyārthaṃ pātre dravyatrayaṃ budhaḥ |

45.2४५.२

जातीफलं लवङ्गं च कक्कोलम् अपि निक्षिपेत् ॥ (४५।२)

jātīphalaṃ lavaṅgaṃ ca kakkolam api nikṣipet ||

46.1४६.१

मधुपर्कीयपात्रे च गव्यं दधि पयो घृतम् । (४६।१)

madhuparkīyapātre ca gavyaṃ dadhi payo ghṛtam |

46.2४६.२

मधुखण्डम् अपीत्य् एवं निक्षिपेद् द्रव्यपञ्चकम् ॥ (४६।२)

madhukhaṇḍam apīty evaṃ nikṣiped dravyapañcakam ||

47.1४७.१

केचित् त्रीण्य् एव पात्रेऽस्मिन् द्रव्याणीच्छन्ति साधवः ॥ (४७।१)

kecit trīṇy eva pātre'smin dravyāṇīcchanti sādhavaḥ ||

48.1४८.१

यत उक्तं श्रीविष्णुधर्मे । (४८।१)

yata uktaṃ śrīviṣṇudharme |

48.2४८.२

घृतं दधि तथा क्षौद्रं मधुपर्को विधीयते ॥ (४८।२)

ghṛtaṃ dadhi tathā kṣaudraṃ madhuparko vidhīyate ||

49.1४९.१

आदिवाराहे च । (४९।१)

ādivārāhe ca |

49.2४९.२

दधिसर्पिर् मधुसमं पात्रे औदुम्बरे मम । (४९।२)

dadhisarpir madhusamaṃ pātre audumbare mama |

49.3४९.३

मधुनस् तु अलाभे तु गुडेन सह मिश्रयेत् ॥ (४९।३)

madhunas tu alābhe tu guḍena saha miśrayet ||

50.1५०.१

घृतस्यालाभे सुश्रोणि लाजैश् च सह मिश्रयेत् । (५०।१)

ghṛtasyālābhe suśroṇi lājaiś ca saha miśrayet |

50.2५०.२

तथा दध्नो ऽप्य् अलाभे तु क्षीरेण सह मिश्रयेत् ॥ (५०।२)

tathā dadhno 'py alābhe tu kṣīreṇa saha miśrayet ||

51.1५१.१

तेषाम् अभावे पुष्पादि तत्तद्भावनया क्षिपेत् । (५१।१)

teṣām abhāve puṣpādi tattadbhāvanayā kṣipet |

51.2५१.२

नारदस् त्व् आह विमलेनोदकेनैव पूर्यते ॥ (५१।२)

nāradas tv āha vimalenodakenaiva pūryate ||

52.1५२.१

मूलेन पात्रेणैकेन अष्टकृत्वो ऽभिमन्त्रयेत् । (५२।१)

mūlena pātreṇaikena aṣṭakṛtvo 'bhimantrayet |

52.2५२.२

कुर्याच् च तेषां पात्राणां रक्षणं चक्रमुद्रया ॥ (५२।२)

kuryāc ca teṣāṃ pātrāṇāṃ rakṣaṇaṃ cakramudrayā ||

53.1५३.१

पूजाम् आरभमाणो हि यथोक्तासनम् आस्थितः । (५३।१)

pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ |

53.2५३.२

पठेन् मङ्गलशान्तिं तां यार्चने संमता सताम् ॥ (५३।२)

paṭhen maṅgalaśāntiṃ tāṃ yārcane saṃmatā satām ||

54.1५४.१

अथ मङ्गलशान्तिःॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर् यजत्रा । (५४।१)

atha maṅgalaśāntiḥoṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrā |

54.2५४.२

स्थिरैर् अङ्गैस् तुष्टुवांसस् तनुभिर् व्यशेम देवहितं यद् आयुः ॥ (५४।२)

sthirair aṅgais tuṣṭuvāṃsas tanubhir vyaśema devahitaṃ yad āyuḥ ||

55.1५५.१

स्वस्ति न इन्द्रो वृद्धश्रवाः । (५५।१)

svasti na indro vṛddhaśravāḥ |

55.2५५.२

स्वस्ति नः पूषा विश्वदेवाः । (५५।२)

svasti naḥ pūṣā viśvadevāḥ |

55.3५५.३

स्वस्ति नस् तार्क्षो ऽरिष्टनेमिः । (५५।३)

svasti nas tārkṣo 'riṣṭanemiḥ |

55.4५५.४

स्वस्ति नो बृहस्पतिर् दधातु ॥ (५५।४)

svasti no bṛhaspatir dadhātu ||

56.1५६.१

पठन् ॐ शान्तिः श्रीकृष्णपादपद्माराधनेषु शान्तिर् भवतु । (५६।१)

paṭhan oṃ śāntiḥ śrīkṛṣṇapādapadmārādhaneṣu śāntir bhavatu |

56.2५६.२

अथ विघ्ननिवारणमपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । (५६।२)

atha vighnanivāraṇamapasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ |

56.3५६.३

ये भूता विघ्नकर्तारस् ते नश्यन्तु शिवाज्ञया ॥ (५६।३)

ye bhūtā vighnakartāras te naśyantu śivājñayā ||

57.1५७.१

इत्य् उदीर्यास्त्रमन्त्रेण वामपादस्य पार्ष्णिना । (५७।१)

ity udīryāstramantreṇa vāmapādasya pārṣṇinā |

57.2५७.२

घातैस् त्रिभिर् बुधो विघ्नान् भौमान् सर्वान् निवारयेत् ॥ (५७।२)

ghātais tribhir budho vighnān bhaumān sarvān nivārayet ||

58.1५८.१

आन्तरीक्षांश् च तेनैवोर्ध्वोर्ध्वतालत्रयेण हि । (५८।१)

āntarīkṣāṃś ca tenaivordhvordhvatālatrayeṇa hi |

58.2५८.२

निरस्योत्सारयेद् दिव्यान् मान्त्रिको दिव्यदृष्टितः ॥ (५८।२)

nirasyotsārayed divyān māntriko divyadṛṣṭitaḥ ||

59.1५९.१

श्रीगुर्वादिनतिःततः कृताञ्जलिर् वामे श्रीगुरुं परमं गुरुम् । (५९।१)

śrīgurvādinatiḥtataḥ kṛtāñjalir vāme śrīguruṃ paramaṃ gurum |

59.2५९.२

परमेष्ठिगुरुं चेति नमेद् गुरुपरम्पराम् ॥ (५९।२)

parameṣṭhiguruṃ ceti named guruparamparām ||

60.1६०.१

गणेशं दक्षिणे भागे दुर्गाम् अग्रेऽथ पृष्ठतः । (६०।१)

gaṇeśaṃ dakṣiṇe bhāge durgām agre'tha pṛṣṭhataḥ |

60.2६०.२

क्षेत्रपालं नमेद् भक्त्या मध्ये चात्मेष्टदैवतम् ॥ (६०।२)

kṣetrapālaṃ named bhaktyā madhye cātmeṣṭadaivatam ||

61.1६१.१

ततश् चास्त्रेण संशोध्य करौ कुर्वीत तेन हि । (६१।१)

tataś cāstreṇa saṃśodhya karau kurvīta tena hi |

61.2६१.२

तालत्रयं दिशां बन्धम् अग्निप्राकारम् एव च ॥ (६१।२)

tālatrayaṃ diśāṃ bandham agniprākāram eva ca ||

62.1६२.१

अथ भूतशुद्धिःशरीराकारभूतानां भूतानां यद् विशोधनम् । (६२।१)

atha bhūtaśuddhiḥśarīrākārabhūtānāṃ bhūtānāṃ yad viśodhanam |

62.2६२.२

अव्ययब्रह्मसम्पर्काद् भूतशुद्धिर् इयं मता ॥ (६२।२)

avyayabrahmasamparkād bhūtaśuddhir iyaṃ matā ||

63.1६३.१

भूतशुद्धिं विना कर्तुर् जपहोमादिकाः क्रियाः । (६३।१)

bhūtaśuddhiṃ vinā kartur japahomādikāḥ kriyāḥ |

63.2६३.२

भवन्ति निष्फलाः सर्वा यथाविध्य् अप्य् अनिष्ठिताः ॥ (६३।२)

bhavanti niṣphalāḥ sarvā yathāvidhy apy aniṣṭhitāḥ ||

64.1६४.१

तत्प्रकारश् चकरकच्छपिकां कृत्वात्मानं बुद्ध्या हृदब्जतः । (६४।१)

tatprakāraś cakarakacchapikāṃ kṛtvātmānaṃ buddhyā hṛdabjataḥ |

64.2६४.२

शिरःसहस्रपत्राब्जे परमात्मनि योजयेत् । (६४।२)

śiraḥsahasrapatrābje paramātmani yojayet |

64.3६४.३

पृथिव्यादीनि तत्त्वानि तस्मिन् लीनानि भावयेत् ॥ (६४।३)

pṛthivyādīni tattvāni tasmin līnāni bhāvayet ||

65.1६५.१

वामहस्तं तथोत्तानम् अधो दक्षिणबन्धितम् । (६५।१)

vāmahastaṃ tathottānam adho dakṣiṇabandhitam |

65.2६५.२

करकच्छपिका मुद्रा भूतशुद्धौ प्रकीर्तिता ॥ (६५।२)

karakacchapikā mudrā bhūtaśuddhau prakīrtitā ||

66.1६६.१

देहं संशोष्य दग्ध्वेदम् आप्लाव्यामृतवर्षतः । (६६।१)

dehaṃ saṃśoṣya dagdhvedam āplāvyāmṛtavarṣataḥ |

66.2६६.२

उत्पाद्य द्रढयित्वा सुप्रतिष्ठां विधिनाचरेत् ॥ (६६।२)

utpādya draḍhayitvā supratiṣṭhāṃ vidhinācaret ||

67.1६७.१

आत्मानम् एवं संशोध्य नीत्वा कृष्णार्चनार्हताम् । (६७।१)

ātmānam evaṃ saṃśodhya nītvā kṛṣṇārcanārhatām |

67.2६७.२

वात्सल्याद्धृद्गतं कृष्णं यष्टुं हृत् पुनर् आनयेत् ॥ (६७।२)

vātsalyāddhṛdgataṃ kṛṣṇaṃ yaṣṭuṃ hṛt punar ānayet ||

68.1६८.१

तथा च त्रैलोक्यसंमोहनतन्त्रे । (६८।१)

tathā ca trailokyasaṃmohanatantre |

68.2६८.२

नाभिस्थवायुना देहं सपापं शोधयेद् बुधः । (६८।२)

nābhisthavāyunā dehaṃ sapāpaṃ śodhayed budhaḥ |

68.3६८.३

वह्निना हृदयस्थेन दहेत् तच् च कलेवरम् ॥ (६८।३)

vahninā hṛdayasthena dahet tac ca kalevaram ||

69.1६९.१

सहस्रारे महापद्मे ललाटस्थे स्थितं विधुम् । (६९।१)

sahasrāre mahāpadme lalāṭasthe sthitaṃ vidhum |

69.2६९.२

सम्पूर्णमण्डलं शुद्धं चिन्तयेद् अमृतात्मकम् ॥ (६९।२)

sampūrṇamaṇḍalaṃ śuddhaṃ cintayed amṛtātmakam ||

70.1७०.१

तस्माद् गलितधाराभिः प्लावयेद् भस्मसाद् बुधः । (७०।१)

tasmād galitadhārābhiḥ plāvayed bhasmasād budhaḥ |

70.2७०.२

आभिर् वर्णमयीभिश् च पञ्चभूतात्मकं वपुः । (७०।२)

ābhir varṇamayībhiś ca pañcabhūtātmakaṃ vapuḥ |

70.3७०.३

पूर्ववद् भावयेद् देवीम् ॥ (७०।३)

pūrvavad bhāvayed devīm ||

71.1७१.१

किंचाग्रे । (७१।१)

kiṃcāgre |

71.2७१.२

ततस् तस्मात् समाकृष्य प्रणवेन तु मन्त्रवित् । (७१।२)

tatas tasmāt samākṛṣya praṇavena tu mantravit |

71.3७१.३

तत् तेजो हृदये न्यस्य चिन्तयेद् विष्णुम् अव्ययम् ॥ (७१।३)

tat tejo hṛdaye nyasya cintayed viṣṇum avyayam ||

72.1७२.१

किं वा चिन्तनमात्रेण भूतशुद्धिं विधाय ताम् । (७२।१)

kiṃ vā cintanamātreṇa bhūtaśuddhiṃ vidhāya tām |

72.2७२.२

प्राणायामांस् ततः कुर्यात् सम्प्रदायानुसरतः ॥ (७२।२)

prāṇāyāmāṃs tataḥ kuryāt sampradāyānusarataḥ ||

73.1७३.१

अथ प्राणायामःरेचः षोडशमात्राभिः पूरो द्वात्रिंशता भवेत् । (७३।१)

atha prāṇāyāmaḥrecaḥ ṣoḍaśamātrābhiḥ pūro dvātriṃśatā bhavet |

73.2७३.२

चतुःषष्ट्या भवेत् कुम्भ एवं स्यात् प्राणसंयमः ॥ (७३।२)

catuḥṣaṣṭyā bhavet kumbha evaṃ syāt prāṇasaṃyamaḥ ||

74.1७४.१

विरेच्य पवनं पूर्वं संकोच्य गुदमण्डलम् । (७४।१)

virecya pavanaṃ pūrvaṃ saṃkocya gudamaṇḍalam |

74.2७४.२

पूरयित्वा विधानेन स्वशक्त्या कुम्भके स्थितः ॥ (७४।२)

pūrayitvā vidhānena svaśaktyā kumbhake sthitaḥ ||

75.1७५.१

तत्र प्रणवम् अभ्यस्यन् बीजं वा मन्त्रम् ऊर्ध्वगम् । (७५।१)

tatra praṇavam abhyasyan bījaṃ vā mantram ūrdhvagam |

75.2७५.२

ऋष्यादिस्मरणं कृत्वा कुर्याद् ध्यानम् अतन्द्रितः ॥ (७५।२)

ṛṣyādismaraṇaṃ kṛtvā kuryād dhyānam atandritaḥ ||

76.1७६.१

तद् ध्यानं चोक्तम् । (७६।१)

tad dhyānaṃ coktam |

76.2७६.२

विष्णुं भास्वत्किरीटाङ्गदवलयकलाकल्पहारोदराङ्घ्रिश्रोणीभूषं सवक्षोमणिमकरमहाकुण्डलामृष्टगण्डम् । (७६।२)

viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam |

76.3७६.३

हस्तोद्यच्छङ्खचक्राम्बुजगदम् अमलं पीतकौशेयवासं विद्योतद्भासम् उद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ (७६।३)

hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi ||

77.1७७.१

क्वचिच् च । (७७।१)

kvacic ca |

77.2७७.२

रुद्रस् तु रेचके ब्रह्मा पूरके ध्येयदेवता । (७७।२)

rudras tu recake brahmā pūrake dhyeyadevatā |

77.3७७.३

श्रीविष्णुः कुम्भके ज्ञेयो ध्यानस्थानं गुरोर् मुखात् ॥ (७७।३)

śrīviṣṇuḥ kumbhake jñeyo dhyānasthānaṃ guror mukhāt ||

78.1७८.१

तथा हि । (७८।१)

tathā hi |

78.2७८.२

नाभिस्थाने पूरकेण चिन्तयेत् कमलासनम् । (७८।२)

nābhisthāne pūrakeṇa cintayet kamalāsanam |

78.3७८.३

ब्रह्माणं रक्तगौराङ्गं चतुर्वक्त्रं पितामहम् ॥ (७८।३)

brahmāṇaṃ raktagaurāṅgaṃ caturvaktraṃ pitāmaham ||

79.1७९.१

नीलोत्पलदलश्यामं हृदि मध्ये प्रतिष्ठितम् । (७९।१)

nīlotpaladalaśyāmaṃ hṛdi madhye pratiṣṭhitam |

79.2७९.२

चतुर्भुजं महात्मानं कुम्भकेन तु चिन्तयेत् ॥ (७९।२)

caturbhujaṃ mahātmānaṃ kumbhakena tu cintayet ||

80.1८०.१

रेचकेनैश्वरं ध्यानं ललाटे सर्वपापहम् । (८०।१)

recakenaiśvaraṃ dhyānaṃ lalāṭe sarvapāpaham |

80.2८०.२

शुद्धस्फटिकसङ्काशं कुर्याद् वै निर्मलं बुधः ॥ (८०।२)

śuddhasphaṭikasaṅkāśaṃ kuryād vai nirmalaṃ budhaḥ ||

81.1८१.१

एकान्तिभिश् च भगवान् सर्वदेवमयः प्रभुः । (८१।१)

ekāntibhiś ca bhagavān sarvadevamayaḥ prabhuḥ |

81.2८१.२

कृष्णः प्रियजनोपेतश् चिन्तनीयो हि सर्वतः ॥ (८१।२)

kṛṣṇaḥ priyajanopetaś cintanīyo hi sarvataḥ ||

82.1८२.१

अथ प्राणायाममाहात्म्यम्पाद्मे देवहूतिविकुण्डलसंवादे । (८२।१)

atha prāṇāyāmamāhātmyampādme devahūtivikuṇḍalasaṃvāde |

82.2८२.२

यमलोकं न पश्यन्ति प्राणायामपरायणाः । (८२।२)

yamalokaṃ na paśyanti prāṇāyāmaparāyaṇāḥ |

82.3८२.३

अपि दुष्कृतकर्माणस् तैर् एव हतकिल्बिषाः ॥ (८२।३)

api duṣkṛtakarmāṇas tair eva hatakilbiṣāḥ ||

83.1८३.१

दिवसे दिवसे वैश्य प्राणायामास् तु षोडश । (८३।१)

divase divase vaiśya prāṇāyāmās tu ṣoḍaśa |

83.2८३.२

अपि ब्रह्महणं साक्षात् पुनन्त्य् अहरहः कृताः ॥ (८३।२)

api brahmahaṇaṃ sākṣāt punanty aharahaḥ kṛtāḥ ||

84.1८४.१

तपांसि यानि तप्यन्ते व्रतानि नियमाश् च ये । (८४।१)

tapāṃsi yāni tapyante vratāni niyamāś ca ye |

84.2८४.२

गोसहस्रप्रदानं च प्राणायामस् तु तत्समः ॥ (८४।२)

gosahasrapradānaṃ ca prāṇāyāmas tu tatsamaḥ ||

85.1८५.१

अम्बुबिन्दुं यः कुशाग्रेण मासे मासे नरः पिबेत् । (८५।१)

ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet |

85.2८५.२

संवत्सरशतं साग्रं प्राणायामस् तु तत्समः ॥ (८५।२)

saṃvatsaraśataṃ sāgraṃ prāṇāyāmas tu tatsamaḥ ||

86.1८६.१

पातकं तु महद् यच् च तथा क्षुद्रोपपातकम् । (८६।१)

pātakaṃ tu mahad yac ca tathā kṣudropapātakam |

86.2८६.२

प्राणायामैः क्षणात् सर्वं भस्मसात् कुरुते नरः ॥ (८६।२)

prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ ||

87.1८७.१

न्यासान् विना जपं प्राहुर् आसुरं विफलं बुधाः । (८७।१)

nyāsān vinā japaṃ prāhur āsuraṃ viphalaṃ budhāḥ |

87.2८७.२

अतो यथासम्प्रदायं न्यासान् कुर्याद् यथाविधि ॥ (८७।२)

ato yathāsampradāyaṃ nyāsān kuryād yathāvidhi ||

88.1८८.१

तत्रादौ मातृकान्यासःऋषिच्छन्दोदेवतादि स्मृत्वादौ मातृकामनोः । (८८।१)

tatrādau mātṛkānyāsaḥṛṣicchandodevatādi smṛtvādau mātṛkāmanoḥ |

88.2८८.२

शिरोवक्त्रहृदादौ च न्यस्य तद्ध्यानम् आचरेत् ॥ (८८।२)

śirovaktrahṛdādau ca nyasya taddhyānam ācaret ||

89.1८९.१

तच् चोक्तम् । (८९।१)

tac coktam |

89.2८९.२

पञ्चाशल्लिपिभिर् विभक्तमुखदोःपन्मध्यवक्षःस्थलीं भावन्मौलिनिबद्धचन्द्रशकलाम् आपीनतुङ्गस्तनीम् । (८९।२)

pañcāśallipibhir vibhaktamukhadoḥpanmadhyavakṣaḥsthalīṃ bhāvanmaulinibaddhacandraśakalām āpīnatuṅgastanīm |

89.3८९.३

मुद्राम् अक्षगुणं सुधाढ्यकलसं विद्यां च हस्ताम्बुजैर् बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवताम् आश्रये ॥ (८९।३)

mudrām akṣaguṇaṃ sudhāḍhyakalasaṃ vidyāṃ ca hastāmbujair bibhrāṇāṃ viśadaprabhāṃ trinayanāṃ vāgdevatām āśraye ||

90.1९०.१

अकारादीन् क्षकारान्तान् वर्णानादौ तु केवलान् । (९०।१)

akārādīn kṣakārāntān varṇānādau tu kevalān |

90.2९०.२

ललाटादिषु चाङ्गेषु न्यसेद् विद्वान् यथाक्रमम् ॥ (९०।२)

lalāṭādiṣu cāṅgeṣu nyased vidvān yathākramam ||

91.1९१.१

तच् च विविच्योक्तम् । (९१।१)

tac ca vivicyoktam |

91.2९१.२

ललाटमुखबिम्बाक्षिश्रुतिघ्राणेषु गण्डयोः । (९१।२)

lalāṭamukhabimbākṣiśrutighrāṇeṣu gaṇḍayoḥ |

91.3९१.३

ओष्ठदन्तोत्तमाङ्गास्ये दोःपत्सन्ध्यग्रकेषु च ॥ (९१।३)

oṣṭhadantottamāṅgāsye doḥpatsandhyagrakeṣu ca ||

92.1९२.१

पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेऽंसके । (९२।१)

pārśvayoḥ pṛṣṭhato nābhau jaṭhare hṛdaye'ṃsake |

92.2९२.२

ककुद्यसे च हृत्पूर्वं पाणिपादयुगे ततः । (९२।२)

kakudyase ca hṛtpūrvaṃ pāṇipādayuge tataḥ |

92.3९२.३

जठराननयोर् न्यसेन् मातृकार्णान् यथाक्रमम् ॥ (९२।३)

jaṭharānanayor nyasen mātṛkārṇān yathākramam ||

93.1९३.१

सानुस्वारान् विसर्गाढ्यान् सानुस्वारविसर्गकान् । (९३।१)

sānusvārān visargāḍhyān sānusvāravisargakān |

93.2९३.२

न्यसेद् भूयो ऽपि तान् विद्वान् एवं वारचतुष्टयम् ॥ (९३।२)

nyased bhūyo 'pi tān vidvān evaṃ vāracatuṣṭayam ||

94.1९४.१

अथ मातृकान्यासःकण्ठहृन्नाभिगुह्येषु पायुभ्रूमध्ययोस् तथा । (९४।१)

atha mātṛkānyāsaḥkaṇṭhahṛnnābhiguhyeṣu pāyubhrūmadhyayos tathā |

94.2९४.२

स्थिते षोडशपत्राब्जे क्रमेण द्वादशच्छदे ॥ (९४।२)

sthite ṣoḍaśapatrābje krameṇa dvādaśacchade ||

95.1९५.१

दशपत्रे च षट्पत्रे चतुष्पत्त्रे द्विपत्रके । (९५।१)

daśapatre ca ṣaṭpatre catuṣpattre dvipatrake |

95.2९५.२

न्यसेद् एकैकपत्रान्ते सबिन्द्वेकैकम् अक्षरम् ॥ (९५।२)

nyased ekaikapatrānte sabindvekaikam akṣaram ||

96.1९६.१

अथ केशवादिन्यासःस्मृत्वा ऋष्यादिकां वर्णान् मूर्तिभिः केशवादिभिः । (९६।१)

atha keśavādinyāsaḥsmṛtvā ṛṣyādikāṃ varṇān mūrtibhiḥ keśavādibhiḥ |

96.2९६.२

कीर्त्यादिभिः शक्तिभिश् च न्यसेत् तान् पूर्ववत् क्रमात् ॥ (९६।२)

kīrtyādibhiḥ śaktibhiś ca nyaset tān pūrvavat kramāt ||

97.1९७.१

न्यसेच् चतुर्थीन् अत्यन्ता मूर्तीः शक्तीश् च यादिभिः । (९७।१)

nyasec caturthīn atyantā mūrtīḥ śaktīś ca yādibhiḥ |

97.2९७.२

सप्तधातून् प्राणजीवौ क्रोधम् अप्य् आत्मनेऽन्तकान् ॥ (९७।२)

saptadhātūn prāṇajīvau krodham apy ātmane'ntakān ||

98.1९८.१

तत्र ध्यानमुद्यत्प्रद्योतनशतरुचिं तप्तहेमावदानं पार्श्वद्वन्द्वे जलधिसुतया विश्वधात्र्या च जुष्टम् । (९८।१)

tatra dhyānamudyatpradyotanaśataruciṃ taptahemāvadānaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam |

98.2९८.२

नानारत्नोल्लसितविविधाकल्पम् आपीतवस्त्रं विष्णुं वन्दे दरकमलकौमोदकीचक्रपाणिम् ॥ (९८।२)

nānāratnollasitavividhākalpam āpītavastraṃ viṣṇuṃ vande darakamalakaumodakīcakrapāṇim ||

99.1९९.१

अथ श्रीमूर्तयःप्रथमं केशवो नारायणः पश्चाच् च माधवः । (९९।१)

atha śrīmūrtayaḥprathamaṃ keśavo nārāyaṇaḥ paścāc ca mādhavaḥ |

99.2९९.२

गोविन्दश् च तथा विष्णुर् मधुसूदन एव च ॥ (९९।२)

govindaś ca tathā viṣṇur madhusūdana eva ca ||

100.1१००.१

त्रिविक्रमो वामनो ऽथ श्रीधरश् च ततः परम् । (१००।१)

trivikramo vāmano 'tha śrīdharaś ca tataḥ param |

100.2१००.२

ऋषीकेशः पद्मनाभस् ततो दामोदरस् तथा ॥ (१००।२)

ṛṣīkeśaḥ padmanābhas tato dāmodaras tathā ||

101.1१०१.१

वासुदेवः सङ्कर्षणः प्रद्युम्नो ऽथानिरुद्धकः । (१०१।१)

vāsudevaḥ saṅkarṣaṇaḥ pradyumno 'thāniruddhakaḥ |

101.2१०१.२

चक्री गदी तथा शार्ङ्गी खड्गी शङ्खी हली तथा ॥ (१०१।२)

cakrī gadī tathā śārṅgī khaḍgī śaṅkhī halī tathā ||

102.1१०२.१

मुसली च तथा शूली पाशी चैवाङ्कुशी तथा । (१०२।१)

musalī ca tathā śūlī pāśī caivāṅkuśī tathā |

102.2१०२.२

मुकुन्दो नन्दजश् चैव तथा नन्दी नरस् तथा ॥ (१०२।२)

mukundo nandajaś caiva tathā nandī naras tathā ||

103.1१०३.१

नरकजिद्धरिः कृष्णः सत्यः सात्वत एव च । (१०३।१)

narakajiddhariḥ kṛṣṇaḥ satyaḥ sātvata eva ca |

103.2१०३.२

ततः शौरिस् तथा शूरस् ततः पश्चाज् जनार्दनः ॥ (१०३।२)

tataḥ śauris tathā śūras tataḥ paścāj janārdanaḥ ||

104.1१०४.१

भूधरो विश्वमूर्तिश् च वैकुण्ठः पुरुषोत्तमः । (१०४।१)

bhūdharo viśvamūrtiś ca vaikuṇṭhaḥ puruṣottamaḥ |

104.2१०४.२

बलो बलानुजो बालो वृषघ्नो वृष एव च ॥ (१०४।२)

balo balānujo bālo vṛṣaghno vṛṣa eva ca ||

105.1१०५.१

हंसो वराहो विमलो नृसिंहश् चेति मूर्तयः ॥ (१०५।१)

haṃso varāho vimalo nṛsiṃhaś ceti mūrtayaḥ ||

106.1१०६.१

अथ शक्तयःकीर्तिः कान्तिस् तुष्टिपुष्टी धृतिः शान्तिः क्रिया दया । (१०६।१)

atha śaktayaḥkīrtiḥ kāntis tuṣṭipuṣṭī dhṛtiḥ śāntiḥ kriyā dayā |

106.2१०६.२

मेधा हर्षा तथा श्रद्धा लज्जा लक्ष्मीः सरस्वती ॥ (१०६।२)

medhā harṣā tathā śraddhā lajjā lakṣmīḥ sarasvatī ||

107.1१०७.१

प्रीती रतिर् जया दुर्गा प्रभा सत्या च चण्डिका । (१०७।१)

prītī ratir jayā durgā prabhā satyā ca caṇḍikā |

107.2१०७.२

वाणी विलासिनी चैव विजया विरजा तथा ॥ (१०७।२)

vāṇī vilāsinī caiva vijayā virajā tathā ||

108.1१०८.१

विश्वा च विनदा चैव सुनन्दा च स्मृतिस् तथा । (१०८।१)

viśvā ca vinadā caiva sunandā ca smṛtis tathā |

108.2१०८.२

ऋद्धिः समृद्धिः शुद्धिश् च बुद्धिर् मूर्तिर् नतिः क्षमा ॥ (१०८।२)

ṛddhiḥ samṛddhiḥ śuddhiś ca buddhir mūrtir natiḥ kṣamā ||

109.1१०९.१

रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा । (१०९।१)

ramomā kledinī klinnā vasudā vasudhā parā |

109.2१०९.२

परायणा च सूक्ष्मा च सन्ध्या प्रज्ञा प्रभा निशा ॥ (१०९।२)

parāyaṇā ca sūkṣmā ca sandhyā prajñā prabhā niśā ||

110.1११०.१

अमोघा विद्युतेत्य् एकपञ्चाशत् शक्तयो मताः । (११०।१)

amoghā vidyutety ekapañcāśat śaktayo matāḥ |

110.2११०.२

ददात्य् अयं केशवादिन्यासो ऽत्राखिलसम्पदम् ॥ (११०।२)

dadāty ayaṃ keśavādinyāso 'trākhilasampadam ||

111.1१११.१

अमुत्राच्युतसारूप्यं नयति न्यासमात्रतः ॥ (१११।१)

amutrācyutasārūpyaṃ nayati nyāsamātrataḥ ||

112.1११२.१

तद् उक्तं । (११२।१)

tad uktaṃ |

112.2११२.२

ध्यात्वैवं परमपुमांसम् अक्षरैर् यो विन्यसेद् दिनम् अनु केशवादियुक्तैः । (११२।२)

dhyātvaivaṃ paramapumāṃsam akṣarair yo vinyased dinam anu keśavādiyuktaiḥ |

112.3११२.३

मेधायुःस्मृतिधृतिकीर्तिकान्तिलक्ष्मीसौभाग्यैश् चिरम् उपबृंहितो भवेत् सः ॥ (११२।३)

medhāyuḥsmṛtidhṛtikīrtikāntilakṣmīsaubhāgyaiś ciram upabṛṃhito bhavet saḥ ||

113.1११३.१

अन्यत्र च । (११३।१)

anyatra ca |

113.2११३.२

केशवादिर् अयं न्यासो न्यासमात्रेण देहिनः । (११३।२)

keśavādir ayaṃ nyāso nyāsamātreṇa dehinaḥ |

113.3११३.३

अच्युतत्वं ददात्य् एव सत्यं सत्यं न संशयः ॥ (११३।३)

acyutatvaṃ dadāty eva satyaṃ satyaṃ na saṃśayaḥ ||

114.1११४.१

यश् च कुर्याद् इमं न्यासं लक्ष्मीबीजपुरःसरम् । (११४।१)

yaś ca kuryād imaṃ nyāsaṃ lakṣmībījapuraḥsaram |

114.2११४.२

भक्तिं मुक्तिं च भुक्तिं च कृष्णं च लभतेऽचिरात् ॥ (११४।२)

bhaktiṃ muktiṃ ca bhuktiṃ ca kṛṣṇaṃ ca labhate'cirāt ||

115.1११५.१

तथा चोक्तम् । (११५।१)

tathā coktam |

115.2११५.२

अमुम् एव रमापुरःसरं प्रभजेद् यो मनुजो विधिं बुधः । (११५।२)

amum eva ramāpuraḥsaraṃ prabhajed yo manujo vidhiṃ budhaḥ |

115.3११५.३

समुपेत्य रमां प्रथीयसीं पुनर् अन्ते हरितां व्रजत्य् असौ ॥ (११५।३)

samupetya ramāṃ prathīyasīṃ punar ante haritāṃ vrajaty asau ||

116.1११६.१

अथ तत्त्वन्यासःमकारादिककारान्तवर्णैर् युक्तं सबिन्दुकैः । (११६।१)

atha tattvanyāsaḥmakārādikakārāntavarṇair yuktaṃ sabindukaiḥ |

116.2११६.२

नमः परायेति पूर्वम् आत्मने नम इत्य् अनु ॥ (११६।२)

namaḥ parāyeti pūrvam ātmane nama ity anu ||

117.1११७.१

नाम जीवादितत्त्वानां न्यसेत् तत्तत्पदे क्रमात् । (११७।१)

nāma jīvāditattvānāṃ nyaset tattatpade kramāt |

117.2११७.२

न्यासेनानेन लोको हि भवेत् पूजाधिकारवान् ॥ (११७।२)

nyāsenānena loko hi bhavet pūjādhikāravān ||

118.1११८.१

तत्रादौ सकले न्यसेज् जीवप्राणौ कलेवरे । (११८।१)

tatrādau sakale nyasej jīvaprāṇau kalevare |

118.2११८.२

हृदये मत्यहङ्कारमनांसीति त्रयं ततः ॥ (११८।२)

hṛdaye matyahaṅkāramanāṃsīti trayaṃ tataḥ ||

119.1११९.१

शब्दं स्पर्शं ततो रूपं रसं गन्धं च मस्तके । (११९।१)

śabdaṃ sparśaṃ tato rūpaṃ rasaṃ gandhaṃ ca mastake |

119.2११९.२

मुखे हृदि च गुह्ये च पादयोश् च यथाक्रमम् ॥ (११९।२)

mukhe hṛdi ca guhye ca pādayoś ca yathākramam ||

120.1१२०.१

श्रोत्रं त्वचं दृशं जिह्वां घ्राणं स्वस्वपदे ततः । (१२०।१)

śrotraṃ tvacaṃ dṛśaṃ jihvāṃ ghrāṇaṃ svasvapade tataḥ |

120.2१२०.२

वाक्पाणिपायूपस्थानि स्वस्वपदे तथा ॥ (१२०।२)

vākpāṇipāyūpasthāni svasvapade tathā ||

121.1१२१.१

आकाशवायुतेजांसि जलं पृथ्वीं च मूर्धनि । (१२१।१)

ākāśavāyutejāṃsi jalaṃ pṛthvīṃ ca mūrdhani |

121.2१२१.२

वदने हृदये लिङ्गे पादयोश् च यथाक्रमम् ॥ (१२१।२)

vadane hṛdaye liṅge pādayoś ca yathākramam ||

122.1१२२.१

हृदि हृत्पुण्डरीकं च द्विषट्द्व्यष्टदशादिकम् । (१२२।१)

hṛdi hṛtpuṇḍarīkaṃ ca dviṣaṭdvyaṣṭadaśādikam |

122.2१२२.२

कलाव्याप्तेति पूर्वं च सूर्यचन्द्राग्निमण्डलम् । (१२२।२)

kalāvyāpteti pūrvaṃ ca sūryacandrāgnimaṇḍalam |

122.3१२२.३

वर्णैः सह सरेफैश् च क्रमान् न्यसेत् सबिन्दुकैः ॥ (१२२।३)

varṇaiḥ saha sarephaiś ca kramān nyaset sabindukaiḥ ||

123.1१२३.१

वासुदेवं षकारेण परमेष्ठियुतं च के । (१२३।१)

vāsudevaṃ ṣakāreṇa parameṣṭhiyutaṃ ca ke |

123.2१२३.२

यकारेण मुखे सङ्कर्षणं न्यसेत् पुमन्वितम् ॥ (१२३।२)

yakāreṇa mukhe saṅkarṣaṇaṃ nyaset pumanvitam ||

124.1१२४.१

हृदि न्यसेल् लकारेण प्रद्युम्नं विश्वसंयुतम् । (१२४।१)

hṛdi nyasel lakāreṇa pradyumnaṃ viśvasaṃyutam |

124.2१२४.२

अनिरुद्धं निवृत्त्याढ्यं वकारेण च गुह्यके । (१२४।२)

aniruddhaṃ nivṛttyāḍhyaṃ vakāreṇa ca guhyake |

124.3१२४.३

नारायणं च सर्वाढ्यं लकारेणैव पादयोः ॥ (१२४।३)

nārāyaṇaṃ ca sarvāḍhyaṃ lakāreṇaiva pādayoḥ ||

125.1१२५.१

नृसिंहं कोपसंयुक्तं तद्बीजेनाखिलात्मनि । (१२५।१)

nṛsiṃhaṃ kopasaṃyuktaṃ tadbījenākhilātmani |

125.2१२५.२

तत्त्वन्यासो ऽयम् अचिरात् कृष्णसान्निध्यकारकः ॥ (१२५।२)

tattvanyāso 'yam acirāt kṛṣṇasānnidhyakārakaḥ ||

126.1१२६.१

तथा चोक्तम् । (१२६।१)

tathā coktam |

126.2१२६.२

अतत्त्वव्याप्त्यरूपस्य तत्प्राप्तेर् हेतुना पुनः । (१२६।२)

atattvavyāptyarūpasya tatprāpter hetunā punaḥ |

126.3१२६.३

तत्त्वन्यासम् इति प्राहुर् न्यासतत्त्वविदो बुधाः ॥ (१२६।३)

tattvanyāsam iti prāhur nyāsatattvavido budhāḥ ||

127.1१२७.१

यः कुर्यात् तत्त्वविन्यासं स पूतो भवति ध्रुवम् । (१२७।१)

yaḥ kuryāt tattvavinyāsaṃ sa pūto bhavati dhruvam |

127.2१२७.२

तदात्मनानुप्रविश्य भगवान् इह तिष्ठति । (१२७।२)

tadātmanānupraviśya bhagavān iha tiṣṭhati |

127.3१२७.३

यतः स एव तत्त्वानि सर्वं तस्मिन् प्रतिष्ठितम् ॥ (१२७।३)

yataḥ sa eva tattvāni sarvaṃ tasmin pratiṣṭhitam ||

128.1१२८.१

अथ पुनः प्राणायांअविशेषःप्राणायामांस् ततः कुर्यान् मूलमन्त्रं जपन् क्रमात् । (१२८।१)

atha punaḥ prāṇāyāṃaviśeṣaḥprāṇāyāmāṃs tataḥ kuryān mūlamantraṃ japan kramāt |

128.2१२८.२

वारौ द्वौ चतुरः षट् च रेचपूरककुम्भकः ॥ (१२८।२)

vārau dvau caturaḥ ṣaṭ ca recapūrakakumbhakaḥ ||

129.1१२९.१

अथवा रेचकादींस् तान् कुर्याद् वारांस् तु षोडश । (१२९।१)

athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa |

129.2१२९.२

द्वात्रिंशच् च चतुःषष्ठिं कामबीजं जपन् क्रमात् ॥ (१२९।२)

dvātriṃśac ca catuḥṣaṣṭhiṃ kāmabījaṃ japan kramāt ||

130.1१३०.१

तथा च क्रमदीपिकायाम् । (१३०।१)

tathā ca kramadīpikāyām |

130.2१३०.२

रेचयेन् मारुतं दक्षया दक्षिणः पूरयेद् वामया मध्यनाड्या पुनः । (१३०।२)

recayen mārutaṃ dakṣayā dakṣiṇaḥ pūrayed vāmayā madhyanāḍyā punaḥ |

130.3१३०.३

धारयेद् ईरितं रेचकादित्रयं स्यात् कलादन्तविद्याख्यमात्राच्युकम् ॥ (१३०।३)

dhārayed īritaṃ recakāditrayaṃ syāt kalādantavidyākhyamātrācyukam ||

131.1१३१.१

सनातनः । (१३१।१)

sanātanaḥ |

131.2१३१.२

तद् एव क्रमदीपिकोक्त्या संवादयन् तत्रैव किंचिद् विशेषं च दर्शयति रेचयेद् इति । (१३१।२)

tad eva kramadīpikoktyā saṃvādayan tatraiva kiṃcid viśeṣaṃ ca darśayati recayed iti |

131.3१३१.३

दक्षया दक्षिणनाड्या दक्षिणः विद्वान् जनः । (१३१।३)

dakṣayā dakṣiṇanāḍyā dakṣiṇaḥ vidvān janaḥ |

131.4१३१.४

मध्यनाड्या सुषुम्णया धारयेत् । (१३१।४)

madhyanāḍyā suṣumṇayā dhārayet |

131.5१३१.५

एवं रेचकपूरककुम्भकाख्यं त्रयं स्यात् । (१३१।५)

evaṃ recakapūrakakumbhakākhyaṃ trayaṃ syāt |

131.6१३१.६

रेचकादिषु त्रिषु क्रमेणावधिकालम् आह कलाः षोडश । (१३१।६)

recakādiṣu triṣu krameṇāvadhikālam āha kalāḥ ṣoḍaśa |

131.7१३१.७

दन्ता द्वात्रिंशत् । (१३१।७)

dantā dvātriṃśat |

131.8१३१.८

विद्याश् चतुःषष्टिस् तत्तत्संख्यकमात्रात्मकम् इत्य् अर्थः । (१३१।८)

vidyāś catuḥṣaṣṭis tattatsaṃkhyakamātrātmakam ity arthaḥ |

131.9१३१.९

मात्रा चवामाङ्गुष्ठेन वामकनिष्ठाद्यङ्गुलीनां प्रत्येकं पर्वत्रयसम्पर्ककालः । (१३१।९)

mātrā cavāmāṅguṣṭhena vāmakaniṣṭhādyaṅgulīnāṃ pratyekaṃ parvatrayasamparkakālaḥ |

131.10१३१.१०

वामहस्तेन वामजानुमण्डलस्य प्रादक्षिण्येन स्पर्शकालो वा । (१३१।१०)

vāmahastena vāmajānumaṇḍalasya prādakṣiṇyena sparśakālo vā |

131.11१३१.११

तत्राप्य् अङ्गुलिनियमो ऽप्य् उक्तः । (१३१।११)

tatrāpy aṅguliniyamo 'py uktaḥ |

131.12१३१.१२

कनिष्ठानामिकाङ्गुष्ठैर् यन् नासापुटधारणम् । (१३१।१२)

kaniṣṭhānāmikāṅguṣṭhair yan nāsāpuṭadhāraṇam |

131.13१३१.१३

प्राणायामः स विज्ञेयस् तर्जनीमध्यमे विना । (१३१।१३)

prāṇāyāmaḥ sa vijñeyas tarjanīmadhyame vinā |

131.14१३१.१४

तत्र तेषु प्राणायामेषु पूर्वं रेचकादिषु सङ्ख्योक्ता । (१३१।१४)

tatra teṣu prāṇāyāmeṣu pūrvaṃ recakādiṣu saṅkhyoktā |

131.15१३१.१५

अत्र च प्राणायामेष्व् इति भेदः । (१३१।१५)

atra ca prāṇāyāmeṣv iti bhedaḥ |

131.16१३१.१६

तत्र कालः सङ्ख्यादिकं चतत्रैव । (१३१।१६)

tatra kālaḥ saṅkhyādikaṃ catatraiva |

131.17१३१.१७

पुरतो जपस्य परतो ऽपि विहितम् अथ तत्त्रयं बुधैः । (१३१।१७)

purato japasya parato 'pi vihitam atha tattrayaṃ budhaiḥ |

131.18१३१.१८

षोडश य इह समाचरेद् दिनेशः परिपूयते स खलु मासतो ऽंहसः ॥ (१३१।१८)

ṣoḍaśa ya iha samācared dineśaḥ paripūyate sa khalu māsato 'ṃhasaḥ ||

132.1१३२.१

सनातनः । (१३२।१)

sanātanaḥ |

132.2१३२.२

जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु कालः । (१३२।२)

japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ |

132.3१३२.३

तत् त्रयं प्राणायामत्रयम् इति सङ्ख्या । (१३२।३)

tat trayaṃ prāṇāyāmatrayam iti saṅkhyā |

132.4१३२.४

यो जनो दिनशः प्रत्यहं षोडशप्राणायामान् आचरेत् स मासतः मासेनैकेन अंहसः पापात् परिपूयते शुद्धो भवतीति सामान्यतः फलम् । (१३२।४)

yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam |

132.5१३२.५

परं च सर्वं पुर्वं लिखितम् एव । (१३२।५)

paraṃ ca sarvaṃ purvaṃ likhitam eva |

132.6१३२.६

अथ पीठन्यासःततो निजतनूम् एव पूजापीठं प्रकल्पयेत् । (१३२।६)

atha pīṭhanyāsaḥtato nijatanūm eva pūjāpīṭhaṃ prakalpayet |

132.7१३२.७

पीठस्याधारशक्त्यादीन् न्यसेत् स्वाङ्गेषु तारवत् ॥ (१३२।७)

pīṭhasyādhāraśaktyādīn nyaset svāṅgeṣu tāravat ||

133.1१३३.१

आधारशक्तिं प्रकृतिं कूर्मानन्तौ च तत्र तु । (१३३।१)

ādhāraśaktiṃ prakṛtiṃ kūrmānantau ca tatra tu |

133.2१३३.२

पृथिवीं क्षीरसिन्धुं च श्वेतद्वीपं च भास्वरम् ॥ (१३३।२)

pṛthivīṃ kṣīrasindhuṃ ca śvetadvīpaṃ ca bhāsvaram ||

134.1१३४.१

श्रीरत्नमण्डपं चैव कल्पवृक्षं तथा हृदि । (१३४।१)

śrīratnamaṇḍapaṃ caiva kalpavṛkṣaṃ tathā hṛdi |

134.2१३४.२

न्यसेत् प्रदक्षिणत्वेन धर्मज्ञाने ततो ऽंसयोः ॥ (१३४।२)

nyaset pradakṣiṇatvena dharmajñāne tato 'ṃsayoḥ ||

135.1१३५.१

ऊर्वोर् वैराग्यम् ऐश्वर्यं तथैवाधर्मम् आनने । (१३५।१)

ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane |

135.2१३५.२

त्रिकेऽज्ञानम् अवैराग्यम् अनैश्वर्यं च पार्श्वयोः ॥ (१३५।२)

trike'jñānam avairāgyam anaiśvaryaṃ ca pārśvayoḥ ||

136.1१३६.१

हृदब्जेऽनन्तपद्मं च सूर्येन्दुशिखिनान् तथा । (१३६।१)

hṛdabje'nantapadmaṃ ca sūryenduśikhinān tathā |

136.2१३६.२

मण्डलानि क्रमाद् वर्णैः प्रणवांशैः सबिन्दुकैः ॥ (१३६।२)

maṇḍalāni kramād varṇaiḥ praṇavāṃśaiḥ sabindukaiḥ ||

137.1१३७.१

सत्त्वरजस्तमश् चात्मान्तरात्मानौ च तत्र हि । (१३७।१)

sattvarajastamaś cātmāntarātmānau ca tatra hi |

137.2१३७.२

परमात्मानम् अप्य् आत्माद्याद्यवर्णैः सबिन्दुकैः ॥ (१३७।२)

paramātmānam apy ātmādyādyavarṇaiḥ sabindukaiḥ ||

138.1१३८.१

ज्ञानात्मानं च भुवनेश्वरीबीजेन संयुतम् । (१३८।१)

jñānātmānaṃ ca bhuvaneśvarībījena saṃyutam |

138.2१३८.२

तस्याष्टदिक्षु मध्येऽपि नवशक्तीश् च दिक्क्रमात् ॥ (१३८।२)

tasyāṣṭadikṣu madhye'pi navaśaktīś ca dikkramāt ||

139.1१३९.१

ताश् चोक्ताः । (१३९।१)

tāś coktāḥ |

139.2१३९.२

विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः । (१३९।२)

vimalotkarṣiṇī jñānā kriyā yogeti śaktayaḥ |

139.3१३९.३

प्रह्वी सत्या तथेशानानुग्रहा नवम् स्मृता ॥ (१३९।३)

prahvī satyā tatheśānānugrahā navam smṛtā ||

140.1१४०.१

न्यसेत् तदुपरिष्टाच् च पीठमन्त्रं यथोदितम् । (१४०।१)

nyaset tadupariṣṭāc ca pīṭhamantraṃ yathoditam |

140.2१४०.२

ऋष्यादिकं स्मरेद् अस्याष्टादशार्णमनोस् ततः ॥ (१४०।२)

ṛṣyādikaṃ smared asyāṣṭādaśārṇamanos tataḥ ||

141.1१४१.१

ज्ञेयाश् चैकान्तिभिः क्षीरसमुद्रादिचतुष्टयम् । (१४१।१)

jñeyāś caikāntibhiḥ kṣīrasamudrādicatuṣṭayam |

141.2१४१.२

क्रमाच्छ्रीमथुरावृन्दावनं तत्कुञ्जनीपकाः ॥ (१४१।२)

kramācchrīmathurāvṛndāvanaṃ tatkuñjanīpakāḥ ||

142.1१४२.१

ततो पीठन्यासःतथा च ब्रह्मसंहितायाम् आदिपुरुषरहस्यस्तोत्रे । (१४२।१)

tato pīṭhanyāsaḥtathā ca brahmasaṃhitāyām ādipuruṣarahasyastotre |

142.2१४२.२

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः । (१४२।२)

sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ |

142.3१४२.३

भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं विदन्तस् ते सन्तः क्षितिविरलचाराः कतिपये ॥ (१४२।३)

bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣitiviralacārāḥ katipaye ||

143.1१४३.१

क्रमदीपिकायां । (१४३।१)

kramadīpikāyāṃ |

143.2१४३.२

एवं हृदयं भगवान् विष्णुः सर्वान्वितश् च भूतात्मा । (१४३।२)

evaṃ hṛdayaṃ bhagavān viṣṇuḥ sarvānvitaś ca bhūtātmā |

143.3१४३.३

ङेऽन्ताः सवासुदेवाः सर्वात्मयुतं च संयोगं ॥ (१४३।३)

ṅe'ntāḥ savāsudevāḥ sarvātmayutaṃ ca saṃyogaṃ ||

144.1१४४.१

योगावधश् च पद्मं पीठात् ङेयुतो नतिश् चान्ते । (१४४।१)

yogāvadhaś ca padmaṃ pīṭhāt ṅeyuto natiś cānte |

144.2१४४.२

पीठमहामनुर् व्यक्तः पर्याप्तो ऽयं सपर्यासु ॥ (१४४।२)

pīṭhamahāmanur vyaktaḥ paryāpto 'yaṃ saparyāsu ||

145.1१४५.१

सनातनः । (१४५।१)

sanātanaḥ |

145.2१४५.२

तारः प्रणवः । (१४५।२)

tāraḥ praṇavaḥ |

145.3१४५.३

ततो हृदयं नम इति पदम् । (१४५।३)

tato hṛdayaṃ nama iti padam |

145.4१४५.४

ततश् च भगवान् इति विष्णुर् इति च । (१४५।४)

tataś ca bhagavān iti viṣṇur iti ca |

145.5१४५.५

सर्वान्वितः सर्वशब्दयुक्तो भूतात्मा सर्वभूतात्मेति । (१४५।५)

sarvānvitaḥ sarvaśabdayukto bhūtātmā sarvabhūtātmeti |

145.6१४५.६

एते त्रयः सवासुदेवा वासुदेवसहिताः प्रत्येकं ङेऽन्ताश् चतुर्थ्यन्ताः । (१४५।६)

ete trayaḥ savāsudevā vāsudevasahitāḥ pratyekaṃ ṅe'ntāś caturthyantāḥ |

145.7१४५.७

ततश् च सर्वात्मना युतं संयोगं सर्वात्मसंयोगम् इति नपुंसकत्वम् आर्षम् । (१४५।७)

tataś ca sarvātmanā yutaṃ saṃyogaṃ sarvātmasaṃyogam iti napuṃsakatvam ārṣam |

145.8१४५.८

ततश् च योगस्यावधौ अन्ते पद्मं योगपद्मम् इति । (१४५।८)

tataś ca yogasyāvadhau ante padmaṃ yogapadmam iti |

145.9१४५.९

तदन्ते ङेयुक्तश् चतुर्थ्यन्तः पीठात्मा । (१४५।९)

tadante ṅeyuktaś caturthyantaḥ pīṭhātmā |

145.10१४५.१०

तदन्ते च नतिः नमःशब्दः । (१४५।१०)

tadante ca natiḥ namaḥśabdaḥ |

145.11१४५.११

एवं ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोगयोगपद्मपीठात्मने नम इति सिद्धम् । (१४५।११)

evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham |

145.12१४५.१२

तथा च शारदातिलके । (१४५।१२)

tathā ca śāradātilake |

145.13१४५.१३

नमो भगवते ब्रूयाद् विष्णवे च पदं वदेत् । (१४५।१३)

namo bhagavate brūyād viṣṇave ca padaṃ vadet |

145.14१४५.१४

सर्वभूतात्मने वासुदेवायेति वदेत् ततः । (१४५।१४)

sarvabhūtātmane vāsudevāyeti vadet tataḥ |

145.15१४५.१५

सर्वात्मसंयोगपदाद् योगपद्मपदं पुनः । (१४५।१५)

sarvātmasaṃyogapadād yogapadmapadaṃ punaḥ |

145.16१४५.१६

पीठात्मने हृदन्तो ऽयं मन्त्रस् तारादिर् ईरितः । (१४५।१६)

pīṭhātmane hṛdanto 'yaṃ mantras tārādir īritaḥ |

145.17१४५.१७

सनत्कुमारकल्पे च । (१४५।१७)

sanatkumārakalpe ca |

145.18१४५.१८

ॐ नमः पदम् आभाष्य तथा भगवते पदम् । (१४५।१८)

oṃ namaḥ padam ābhāṣya tathā bhagavate padam |

145.19१४५.१९

वासुदेवाय इत्य् उक्त्वा सर्वात्मेति पदं तथा ॥ (१४५।१९)

vāsudevāya ity uktvā sarvātmeti padaṃ tathā ||

146.1१४६.१

संयोगयोगेत्य् उक्त्वा च तथा पीठात्मने पदम् । (१४६।१)

saṃyogayogety uktvā ca tathā pīṭhātmane padam |

146.2१४६.२

वह्निपत्नीसमायुक्तः पीठमन्त्र इतीरितः ॥ (१४६।२)

vahnipatnīsamāyuktaḥ pīṭhamantra itīritaḥ ||

147.1१४७.१

अथ ऋष्यादिस्मरणम्ॐ अष्टादशाक्षरमन्त्रस्य श्रीनारद ऋषिर् गायत्रीछन्दः सकललोकमङ्गलो नन्दतनयो देवता ह्रीं बीजं स्वाहा शक्तिः कृष्णः प्रकृतिर् दुर्गाधिष्ठात्री देवता अभिमतार्थे विनियोगः ॥ (१४७।१)

atha ṛṣyādismaraṇamoṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ ||

148.1१४८.१

तथा च संमोहनतन्त्रे शिवोमासंवादे । (१४८।१)

tathā ca saṃmohanatantre śivomāsaṃvāde |

148.2१४८.२

ऋषिर् नारद इत्य् उक्तो गायत्रीछन्द उच्यते । (१४८।२)

ṛṣir nārada ity ukto gāyatrīchanda ucyate |

148.3१४८.३

गोपवेशधरः कृष्णो देवता परिकीर्तितः ॥ (१४८।३)

gopaveśadharaḥ kṛṣṇo devatā parikīrtitaḥ ||

149.1१४९.१

बीजं मन्मथसंज्ञं तु प्रिया शक्तिर् हविर् भुजः । (१४९।१)

bījaṃ manmathasaṃjñaṃ tu priyā śaktir havir bhujaḥ |

149.2१४९.२

त्वम् एव परमेशानि अस्याधिष्ठातृदेवता । (१४९।२)

tvam eva parameśāni asyādhiṣṭhātṛdevatā |

149.3१४९.३

चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः ॥ (१४९।३)

caturvargaphalāvāptyai viniyogaḥ prakīrtitaḥ ||

150.1१५०.१

अथाङ्गन्यासःचतुश् चतुर्भिर् वर्णैश् च चत्वार्य् अङ्गानि कल्पयेत् । (१५०।१)

athāṅganyāsaḥcatuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet |

150.2१५०.२

द्वाभ्याम् अस्त्राख्यम् अङ्गं च तस्येत्य् अङ्गानि पञ्च वै ॥ (१५०।२)

dvābhyām astrākhyam aṅgaṃ ca tasyety aṅgāni pañca vai ||

151.1१५१.१

न्यस्येच् च व्यापकत्वेन तान्य् अङ्गानि करद्वये । (१५१।१)

nyasyec ca vyāpakatvena tāny aṅgāni karadvaye |

151.2१५१.२

तान्य् अङ्गुलीषु पञ्चाथ केचिद् वर्णान् स्वरान् अपि ॥ (१५१।२)

tāny aṅgulīṣu pañcātha kecid varṇān svarān api ||

152.1१५२.१

ते चोक्ताः । (१५२।१)

te coktāḥ |

152.2१५२.२

द्रावणक्षोभणाकर्षवशीकृत्स्रावणास् तथा । (१५२।२)

drāvaṇakṣobhaṇākarṣavaśīkṛtsrāvaṇās tathā |

152.3१५२.३

शोषणो मोहनः सन्दीपनस् तापनमादनौ ॥ (१५२।३)

śoṣaṇo mohanaḥ sandīpanas tāpanamādanau ||

153.1१५३.१

किंच । (१५३।१)

kiṃca |

153.2१५३.२

नमोऽन्तं हृदयं चाङ्गैः शिरः स्वाहान्वितं शिखाम् । (१५३।२)

namo'ntaṃ hṛdayaṃ cāṅgaiḥ śiraḥ svāhānvitaṃ śikhām |

153.3१५३.३

वषड्युतं च कवचं हुंयुगस्त्रं च फड्युतम् ॥ (१५३।३)

vaṣaḍyutaṃ ca kavacaṃ huṃyugastraṃ ca phaḍyutam ||

154.1१५४.१

न्यस्यन्ति पुनर् अङ्गुष्ठौ तर्जन्यौ मध्यमे तथा । (१५४।१)

nyasyanti punar aṅguṣṭhau tarjanyau madhyame tathā |

154.2१५४.२

अनामिके कनिष्ठे च क्रमाद् अङ्गैश् च पञ्चभिः ॥ (१५४।२)

anāmike kaniṣṭhe ca kramād aṅgaiś ca pañcabhiḥ ||

155.1१५५.१

पुनश् च हृदयादीनि तथाङ्गुष्ठादिकानि च । (१५५।१)

punaś ca hṛdayādīni tathāṅguṣṭhādikāni ca |

155.2१५५.२

न्यस्यन्ति युगपत् सर्वाण्य् अङ्गैस् तैः पञ्चभिः क्रमात् ॥ (१५५।२)

nyasyanti yugapat sarvāṇy aṅgais taiḥ pañcabhiḥ kramāt ||

156.1१५६.१

न्यस्यन्ति च षडङ्गानि हृदयादीनि तन्मनोः । (१५६।१)

nyasyanti ca ṣaḍaṅgāni hṛdayādīni tanmanoḥ |

156.2१५६.२

हृदयादिषु चैतेषां पञ्चैकं दिक्षु च क्रमात् ॥ (१५६।२)

hṛdayādiṣu caiteṣāṃ pañcaikaṃ dikṣu ca kramāt ||

157.1१५७.१

षडङ्गानि चोक्तानि सम्मोहनतन्त्रे सनत्कुमारकल्पे । (१५७।१)

ṣaḍaṅgāni coktāni sammohanatantre sanatkumārakalpe |

157.2१५७.२

वर्णेनैकेन हृदयं त्रिभिर् एव शिरो मतम् । (१५७।२)

varṇenaikena hṛdayaṃ tribhir eva śiro matam |

157.3१५७.३

चतुर्भिश् च शिखा प्रोक्ता तथैव कवचं मतम् । (१५७।३)

caturbhiś ca śikhā proktā tathaiva kavacaṃ matam |

157.4१५७.४

नेत्रं तथा चतुर्वर्णैर् अस्त्रं द्वाभ्यां तथा मतम् ॥ (१५७।४)

netraṃ tathā caturvarṇair astraṃ dvābhyāṃ tathā matam ||

158.1१५८.१

ततश् चापादम् आ केशान् न्यसेद् दोर्भ्याम् इमं मनुम् । (१५८।१)

tataś cāpādam ā keśān nyased dorbhyām imaṃ manum |

158.2१५८.२

वारांस् त्रीन् व्यापकत्वेन न्यसेच् च प्रणवं सकृत् ॥ (१५८।२)

vārāṃs trīn vyāpakatvena nyasec ca praṇavaṃ sakṛt ||

159.1१५९.१

अथाक्षरन्यासःततो ऽष्टादशवर्णांश् च मन्त्रस्यास्य यथाक्रमम् । (१५९।१)

athākṣaranyāsaḥtato 'ṣṭādaśavarṇāṃś ca mantrasyāsya yathākramam |

159.2१५९.२

दन्ते ललाटे भ्रूमध्ये कर्णयोर् नेत्रयोर् द्वयोः ॥ (१५९।२)

dante lalāṭe bhrūmadhye karṇayor netrayor dvayoḥ ||

160.1१६०.१

नासयोर् वदने कण्ठे हृदि नाभौ कटिद्वये । (१६०।१)

nāsayor vadane kaṇṭhe hṛdi nābhau kaṭidvaye |

160.2१६०.२

गुह्ये जानुद्वये चैकं न्यसेद् एकं च पादयोः ॥ (१६०।२)

guhye jānudvaye caikaṃ nyased ekaṃ ca pādayoḥ ||

161.1१६१.१

सन्तो न्यस्यन्ति तारादिनमो ऽनन्तांस् तान् सबिन्दुकान् । (१६१।१)

santo nyasyanti tārādinamo 'nantāṃs tān sabindukān |

161.2१६१.२

श्रीशक्तिकामबीजैश् च सृष्ट्यादिक्रमतो ऽपरे ॥ (१६१।२)

śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare ||

162.1१६२.१

अथ पदन्यासःतारं शिरसि विन्यस्य पञ्च मन्त्रपदानि च । (१६२।१)

atha padanyāsaḥtāraṃ śirasi vinyasya pañca mantrapadāni ca |

162.2१६२.२

न्यसेन् नेत्रद्वये वक्त्रे हृद्गुह्याङ्घ्रिषु च क्रमात् ॥ (१६२।२)

nyasen netradvaye vaktre hṛdguhyāṅghriṣu ca kramāt ||

163.1१६३.१

देहे च व्यापकत्वेन न्यसेत् तान्य् अखिले पुनः । (१६३।१)

dehe ca vyāpakatvena nyaset tāny akhile punaḥ |

163.2१६३.२

केचित् तानि नमोऽन्तानि न्यस्यन्त्य् आद्याक्षरैः सह ॥ (१६३।२)

kecit tāni namo'ntāni nyasyanty ādyākṣaraiḥ saha ||

164.1१६४.१

स्वाहान्तानि तथा त्रीणि संमिश्राण्य् उत्तरोत्तरैः । (१६४।१)

svāhāntāni tathā trīṇi saṃmiśrāṇy uttarottaraiḥ |

164.2१६४.२

गुह्याद् गलान् मस्तकाच् च व्यापय्य चरणावधि ॥ (१६४।२)

guhyād galān mastakāc ca vyāpayya caraṇāvadhi ||

165.1१६५.१

न्यासो ऽत्र ज्ञाननिष्ठानां गुह्यादिविषयस् तु यः । (१६५।१)

nyāso 'tra jñānaniṣṭhānāṃ guhyādiviṣayas tu yaḥ |

165.2१६५.२

स्वस्ववर्णतनोः कार्यस् तत्तद्वर्णेषु वैष्णवैः ॥ (१६५।२)

svasvavarṇatanoḥ kāryas tattadvarṇeṣu vaiṣṇavaiḥ ||

166.1१६६.१

अथ ऋष्यादिन्यासःऋष्यादीन् सप्तभागांश् च न्यसेद् अस्य मनोः क्रमात् । (१६६।१)

atha ṛṣyādinyāsaḥṛṣyādīn saptabhāgāṃś ca nyased asya manoḥ kramāt |

166.2१६६.२

मूर्धास्यहृत्सु कुचयोः पुनर् हृदि पुनर् हृदि ॥ (१६६।२)

mūrdhāsyahṛtsu kucayoḥ punar hṛdi punar hṛdi ||

167.1१६७.१

अथ मुद्रापञ्चकम्वेण्वाख्यां वनमालाख्यां मुद्रां संदर्शयेत् ततः । (१६७।१)

atha mudrāpañcakamveṇvākhyāṃ vanamālākhyāṃ mudrāṃ saṃdarśayet tataḥ |

167.2१६७.२

श्रीवत्साख्यां कौस्तुभाख्यां बिल्वाख्यां च मनोरमाम् ॥ (१६७।२)

śrīvatsākhyāṃ kaustubhākhyāṃ bilvākhyāṃ ca manoramām ||

168.1१६८.१

इत्थं न्यस्तशरीरः सन् कृत्वा दिग्बन्धनं पुनः । (१६८।१)

itthaṃ nyastaśarīraḥ san kṛtvā digbandhanaṃ punaḥ |

168.2१६८.२

करकच्छपिकां कृत्वा ध्यायेच्छ्रीनन्दनन्दनम् ॥ (१६८।२)

karakacchapikāṃ kṛtvā dhyāyecchrīnandanandanam ||

169.1१६९.१

अथ श्रीनन्दन्दनभगवद्ध्यानविधिःअथ प्रकटसौरभोद्गलितमाध्विकोत्फुल्लसत्प्रसूननवपल्लवप्रकरनम्रशाखैर् द्रुमैः । (१६९।१)

atha śrīnandandanabhagavaddhyānavidhiḥatha prakaṭasaurabhodgalitamādhvikotphullasatprasūnanavapallavaprakaranamraśākhair drumaiḥ |

169.2१६९.२

प्रफुल्लनवमञ्जरीललितवल्लरीवेष्टितैः स्मरेच्छिशिरितं शिवं सितमतिस् तु वृन्दावनम् ॥ (१६९।२)

praphullanavamañjarīlalitavallarīveṣṭitaiḥ smarecchiśiritaṃ śivaṃ sitamatis tu vṛndāvanam ||

170.1१७०.१

अथानन्तरं सितमतिः शुद्धमनाः सन् वृन्दावनं चिन्तयेत् । (१७०।१)

athānantaraṃ sitamatiḥ śuddhamanāḥ san vṛndāvanaṃ cintayet |

170.2१७०.२

कीदृशं द्रुमैः शिशिरितं शीतलीकृतम् । (१७०।२)

kīdṛśaṃ drumaiḥ śiśiritaṃ śītalīkṛtam |

170.3१७०.३

कीदृशैः प्रकटम् उद्भटं सौरभं यस्य तच् च । (१७०।३)

kīdṛśaiḥ prakaṭam udbhaṭaṃ saurabhaṃ yasya tac ca |

170.4१७०.४

तद् उद्गलितमाध्वीकं च प्रच्युतमधु । (१७०।४)

tad udgalitamādhvīkaṃ ca pracyutamadhu |

170.5१७०.५

उत्फुल्लं च विकसितं । (१७०।५)

utphullaṃ ca vikasitaṃ |

170.6१७०.६

सच् च उत्तमं यत् प्रसूनं पुष्पं नवपल्लवं च । (१७०।६)

sac ca uttamaṃ yat prasūnaṃ puṣpaṃ navapallavaṃ ca |

170.7१७०.७

तयोः प्रकरः समूहः । (१७०।७)

tayoḥ prakaraḥ samūhaḥ |

170.8१७०.८

तेन नम्राः शाखा येषां तैः । (१७०।८)

tena namrāḥ śākhā yeṣāṃ taiḥ |

170.9१७०.९

माध्विकेतिह्रस्वत्वं महाकविनिबद्धत्वात् सोढव्यम् । (१७०।९)

mādhviketihrasvatvaṃ mahākavinibaddhatvāt soḍhavyam |

170.10१७०.१०

प्रकटसौरभाकुलितमत्तभृङ्गोल्लसद् इति पाठस् तु सुगम एव । (१७०।१०)

prakaṭasaurabhākulitamattabhṛṅgollasad iti pāṭhas tu sugama eva |

170.11१७०.११

पुनः कीदृशैः प्रफुल्लाभिर् नवमञ्जरीभिर् ललिता मनोहरा या वल्लर्यः अग्रशाखा लता वा ताभिर् वेष्टितैः । (१७०।११)

punaḥ kīdṛśaiḥ praphullābhir navamañjarībhir lalitā manoharā yā vallaryaḥ agraśākhā latā vā tābhir veṣṭitaiḥ |

170.12१७०.१२

शिवं मङ्गलरूपं निर्बाधत्वात् परमकल्याणकरत्वाच् च । (१७०।१२)

śivaṃ maṅgalarūpaṃ nirbādhatvāt paramakalyāṇakaratvāc ca |

170.13१७०.१३

विकासिसुमनोरसास्वादनमञ्जुलैः संचरच्छिलीमुखमुखोद्गतैर् मुखरितान्तरं झङ्कृतैः । (१७०।१३)

vikāsisumanorasāsvādanamañjulaiḥ saṃcaracchilīmukhamukhodgatair mukharitāntaraṃ jhaṅkṛtaiḥ |

170.14१७०.१४

कपोतशुकशारिकापरभृतादिभिः पत्रिभिर् विराणितम् इतस् ततो भुजगशत्रुनृत्याकुलम् ॥ (१७०।१४)

kapotaśukaśārikāparabhṛtādibhiḥ patribhir virāṇitam itas tato bhujagaśatrunṛtyākulam ||

171.1१७१.१

कलिन्ददुहितुश् चलल्लहरिविप्रुषां वाहिभिर् विनिद्रसरसीरुहोदररजश्चयोद्धूसरैः । (१७१।१)

kalindaduhituś calallaharivipruṣāṃ vāhibhir vinidrasarasīruhodararajaścayoddhūsaraiḥ |

171.2१७१.२

प्रदीपितमनोभवव्रजविलासिनीवाससां विलोलनविहारिभिः सततसेवितं मारुतैः ॥ (१७१।२)

pradīpitamanobhavavrajavilāsinīvāsasāṃ vilolanavihāribhiḥ satatasevitaṃ mārutaiḥ ||

172.1१७२.१

प्रवालनवपल्लवं मरकतच्छदं वज्रमौक्तिकप्रकरकोरकं कमलरागनानाफलम् । (१७२।१)

pravālanavapallavaṃ marakatacchadaṃ vajramauktikaprakarakorakaṃ kamalarāganānāphalam |

172.2१७२.२

स्थविष्ठम् अखिलर्तुभिः सततसेवितं कामदं तदन्तर् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥ (१७२।२)

sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet ||

173.1१७३.१

सुहेमशिखरावलेर् उदितभानुवद् भास्वरम् अधो ऽस्य कनकस्थलीम् अमृतशीकरासारिणः । (१७३।१)

suhemaśikharāvaler uditabhānuvad bhāsvaram adho 'sya kanakasthalīm amṛtaśīkarāsāriṇaḥ |

173.2१७३.२

प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वलां स्मरेत् पुनर् अतन्द्रितो विगतषट्तरङ्गां बुधः ॥ (१७३।२)

pradīptamaṇikuṭṭimāṃ kusumareṇupuñjojjvalāṃ smaret punar atandrito vigataṣaṭtaraṅgāṃ budhaḥ ||

174.1१७४.१

तद्रत्नकुट्टिमनिविष्टमहिष्ठयोगपीठे ऽष्टपत्रम् अरणं कमलं विचिन्त्य । (१७४।१)

tadratnakuṭṭimaniviṣṭamahiṣṭhayogapīṭhe 'ṣṭapatram araṇaṃ kamalaṃ vicintya |

174.2१७४.२

उद्यद्विरोचनसरोचिर् अमुष्य मध्ये संचिन्तयेत् सुखनिविष्टम् अथो मुकुन्दम् ॥ (१७४।२)

udyadvirocanasarocir amuṣya madhye saṃcintayet sukhaniviṣṭam atho mukundam ||

175.1१७५.१

सूत्रामरत्नदलिताञ्जनमेघपुञ्जप्रत्यग्रनीलजलजन्मसमानभासम् । (१७५।१)

sūtrāmaratnadalitāñjanameghapuñjapratyagranīlajalajanmasamānabhāsam |

175.2१७५.२

सुस्निग्धनीलघनकुञ्चितकेशजालं राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् ॥ (१७५।२)

susnigdhanīlaghanakuñcitakeśajālaṃ rājanmanojñaśitikaṇṭhaśikhaṇḍacūḍam ||

176.1१७६.१

रोलम्बलालितसुरद्रुमसूनकल्पितोत्तंसम् उत्कचनवोत्पलकर्णपूरम् । (१७६।१)

rolambalālitasuradrumasūnakalpitottaṃsam utkacanavotpalakarṇapūram |

176.2१७६.२

लोलालकस्फुरितभालतलप्रदीप्तगोरोचनातिलकम् उच्चलचिल्लिमालम् ॥ (१७६।२)

lolālakasphuritabhālatalapradīptagorocanātilakam uccalacillimālam ||

177.1१७७.१

आपूर्णशारदगताङ्कशशाङ्कबिम्बकान्ताननं कमलपत्रविशालनेत्रम् । (१७७।१)

āpūrṇaśāradagatāṅkaśaśāṅkabimbakāntānanaṃ kamalapatraviśālanetram |

177.2१७७.२

रत्नस्फुरन्मकरकुण्डलरश्मिदीप्तगण्डस्थलीमुकुरम् उन्नतचारुनासम् ॥ (१७७।२)

ratnasphuranmakarakuṇḍalaraśmidīptagaṇḍasthalīmukuram unnatacārunāsam ||

178.1१७८.१

सिन्दूरसुन्दरतराधरम् इन्दुकुन्दमन्दारमन्दहसितद्युतिदीपिताङ्गम् । (१७८।१)

sindūrasundaratarādharam indukundamandāramandahasitadyutidīpitāṅgam |

179.1१७९.१

मत्तभ्रमद्भ्रमरजुष्टविलम्बमानसंतानकप्रसवदामपरिष्कृतांसम् । (१७९।१)

mattabhramadbhramarajuṣṭavilambamānasaṃtānakaprasavadāmapariṣkṛtāṃsam |

179.2१७९.२

हारावलीभगणराजितपीवरोरोव्योमस्थलीललितकौस्तुभभानुमन्तम् ॥ (१७९।२)

hārāvalībhagaṇarājitapīvarorovyomasthalīlalitakaustubhabhānumantam ||

180.1१८०.१

श्रीवत्सलक्षणसुलक्षितम् उन्नतांसआजानुपीनपरिवृत्तसुजातबाहुम् । (१८०।१)

śrīvatsalakṣaṇasulakṣitam unnatāṃsaājānupīnaparivṛttasujātabāhum |

180.2१८०.२

आबन्धुरोदरम् उदारगभीरनाभिं भृङ्गाङ्गनानिकरवञ्जुलरोमराजिम् ॥ (१८०।२)

ābandhurodaram udāragabhīranābhiṃ bhṛṅgāṅganānikaravañjularomarājim ||

181.2१८१.२

दिव्याङ्गरागपरिपिञ्जरिताङ्गयष्टिम् आपीतवस्त्रपरिवीतनितम्बबिम्बम् ॥ (१८१।२)

divyāṅgarāgaparipiñjaritāṅgayaṣṭim āpītavastraparivītanitambabimbam ||

182.1१८२.१

चारूरुजानुमनुवृत्तमनोज्ञजङ्घं कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिम् । (१८२।१)

cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim |

183.1१८३.१

मत्स्याङ्कुशारदरकेतुयवाब्जवज्रसंलक्षितारुणकराङ्घ्रितलाभिरामम् । (१८३।१)

matsyāṅkuśāradaraketuyavābjavajrasaṃlakṣitāruṇakarāṅghritalābhirāmam |

183.2१८३.२

लावण्यसारसमुदायविनिर्मिताङ्गसौन्दर्यनिर्जितमनोभवदेहकान्तिम् ॥ (१८३।२)

lāvaṇyasārasamudāyavinirmitāṅgasaundaryanirjitamanobhavadehakāntim ||

184.1१८४.१

आस्यारविन्दपरिपूरितवेणुरन्ध्रलोलत्कराङ्गुलिसमीरितदिव्यरागैः । (१८४।१)

āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ |

184.2१८४.२

शश्वद्द्द्रवीकृतविकृष्टसमस्तजन्तुसंतानसंततिम् अनन्तसुखाम्बुराशिम् ॥ (१८४।२)

śaśvadddravīkṛtavikṛṣṭasamastajantusaṃtānasaṃtatim anantasukhāmburāśim ||

185.1१८५.१

गोभिर् मुखाम्बुजविलीनविलोचनाभिर् ऊधोभरस्खलितमन्थरमन्दगाभिः । (१८५।१)

gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ |

185.2१८५.२

दन्ताग्रदष्टपरिशिष्टतृणाङ्कुराभिर् आलम्ब्वालधिलताभिवीतम् ॥ (१८५।२)

dantāgradaṣṭapariśiṣṭatṛṇāṅkurābhir ālambvāladhilatābhivītam ||

186.1१८६.१

सप्रस्रवस्तनविचूषणपूर्णनिश्चलास्यावटक्षरितफेनिलदुग्धमुग्धैः । (१८६।१)

saprasravastanavicūṣaṇapūrṇaniścalāsyāvaṭakṣaritapheniladugdhamugdhaiḥ |

186.2१८६.२

वेणुप्रवर्तितमनोहरमन्द्रगीतदत्तोच्चकर्णयुगलैर् अपि तर्णकैश् च ॥ (१८६।२)

veṇupravartitamanoharamandragītadattoccakarṇayugalair api tarṇakaiś ca ||

187.1१८७.१

प्रत्यग्रशृङ्गमृदुमस्तकसम्प्रहारसंरम्भवल्गनविलोलखुराग्रपातैः । (१८७।१)

pratyagraśṛṅgamṛdumastakasamprahārasaṃrambhavalganavilolakhurāgrapātaiḥ |

187.2१८७.२

आमेदुरैर् बहुलसास्नगलैर् उदग्रपुच्छैश् च वत्सतरवत्सतरीनिकायैः ॥ (१८७।२)

āmedurair bahulasāsnagalair udagrapucchaiś ca vatsataravatsatarīnikāyaiḥ ||

188.1१८८.१

हम्बारवक्षुभितदिग्वलयैर् महद्भिरप्य् उक्षभिः पृथुककुद्भरभारखिन्नैः । (१८८।१)

hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ |

188.2१८८.२

उत्तम्भितश्रुतिपुटीपरिवीतवंशध्वानामृतोद्धतविकाशिविशालघोणैः ॥ (१८८।२)

uttambhitaśrutipuṭīparivītavaṃśadhvānāmṛtoddhatavikāśiviśālaghoṇaiḥ ||

189.1१८९.१

गोपैः समानगुणशीलवयोविलासवेशैश् च मूर्छितकलस्वनवेणुवीणैः । (१८९।१)

gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ |

189.2१८९.२

मन्द्रोच्चतारपटगानपरैर् विलोलदोर्वल्लरीललितलास्यविधानदक्षैः ॥ (१८९।२)

mandroccatārapaṭagānaparair viloladorvallarīlalitalāsyavidhānadakṣaiḥ ||

190.1१९०.१

जङ्घान्तपीवरकटीरतटीनिबद्धव्यालोलकिङ्किणिघटारटितैर् अटद्भिः । (१९०।१)

jaṅghāntapīvarakaṭīrataṭīnibaddhavyālolakiṅkiṇighaṭāraṭitair aṭadbhiḥ |

190.2१९०.२

मुग्धैस् तरक्षुनखकल्पितकण्ठभूषैर् अव्यक्तमञ्जुवचनैः पृथुकैः परीतम् ॥ (१९०।२)

mugdhais tarakṣunakhakalpitakaṇṭhabhūṣair avyaktamañjuvacanaiḥ pṛthukaiḥ parītam ||

191.1१९१.१

अथ सुललितगोपसुन्दरीणां पृथुनिविवीषनितम्बमन्थराणाम् । (१९१।१)

atha sulalitagopasundarīṇāṃ pṛthunivivīṣanitambamantharāṇām |

191.2१९१.२

गुरुकुचभरभङ्गुरावलग्नत्रिवलिविजृम्भितरोमराजिभाजाम् ॥ (१९१।२)

gurukucabharabhaṅgurāvalagnatrivalivijṛmbhitaromarājibhājām ||

192.1१९२.१

तदतिमधुरचारुवेणुवाद्यामृतरसपल्लविताङ्गजाङ्घ्रिपाणाम् । (१९२।१)

tadatimadhuracāruveṇuvādyāmṛtarasapallavitāṅgajāṅghripāṇām |

192.2१९२.२

मुकुलविसररम्यरूढरोमोद्गमसमलंकृतगानवल्लरीणाम् ॥ (१९२।२)

mukulavisararamyarūḍharomodgamasamalaṃkṛtagānavallarīṇām ||

193.1१९३.१

तदतिरुचिरमन्दहासचन्द्रातपपरिजृम्भितरागवारिराशेः । (१९३।१)

tadatiruciramandahāsacandrātapaparijṛmbhitarāgavārirāśeḥ |

193.2१९३.२

तरलतरतरङ्गभङ्गविप्रुट्प्रकरसमश्रमबिन्दुसंततानाम् ॥ (१९३।२)

taralatarataraṅgabhaṅgavipruṭprakarasamaśramabindusaṃtatānām ||

194.1१९४.१

तदतिललितमन्दचिल्लिचापच्युतनिशितेक्षणमारबाणवृष्ट्या । (१९४।१)

tadatilalitamandacillicāpacyutaniśitekṣaṇamārabāṇavṛṣṭyā |

194.2१९४.२

दलितसकलमर्मविह्वलाङ्गप्रविसृतदुःसहवेपथुव्यथानाम् ॥ (१९४।२)

dalitasakalamarmavihvalāṅgapravisṛtaduḥsahavepathuvyathānām ||

195.1१९५.१

तदतिसुभगकम्ररूपशोभामृतरसपानविधानलालसाभ्याम् । (१९५।१)

tadatisubhagakamrarūpaśobhāmṛtarasapānavidhānalālasābhyām |

195.2१९५.२

प्रणयसलिलपूरवाहिनीनाम् अलसविलोलविलोचनाम्बुजाभ्याम् ॥ (१९५।२)

praṇayasalilapūravāhinīnām alasavilolavilocanāmbujābhyām ||

196.1१९६.१

विस्रंसत्कवरीकलापविगलत्फुल्लप्रसूनस्रवन्माध्वीलम्पटचञ्चरीकघटया संसेवितानां मुहुः । (१९६।१)

visraṃsatkavarīkalāpavigalatphullaprasūnasravanmādhvīlampaṭacañcarīkaghaṭayā saṃsevitānāṃ muhuḥ |

196.2१९६.२

मारोन्मादमदस्खलन्मृदुगिराम् आलोलकाञ्च्युच्छ्वसन्नीवीविश्लथमानचीनहिचयान्ताविर्नितम्बत्विषाम् ॥ (१९६।२)

māronmādamadaskhalanmṛdugirām ālolakāñcyucchvasannīvīviślathamānacīnahicayāntāvirnitambatviṣām ||

197.1१९७.१

स्खलितललितपादाम्भोजमन्दाभिधानक्वणितमणितुलाकोट्याकुलाशामुखानाम् । (१९७।१)

skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām |

197.2१९७.२

चलदधरदलानां कुट्नलपक्ष्मलाक्षिद्वयसरसिरुहाणाम् उल्लसत्कुण्डलानाम् । (१९७।२)

caladadharadalānāṃ kuṭnalapakṣmalākṣidvayasarasiruhāṇām ullasatkuṇḍalānām |

197.3१९७.३

स्खलितस्य स्खलनयुक्तस्य ललितस्य च पादाम्भोजस्य मन्दाभिघातेन ईषद् भूभागप्रहारेण क्वणितः कृतशब्दो मणिमयो यस् तुलाकोटिर् नूपुरं तेनाकुलं शब्दव्याप्तम् आशानां दिशां मुखं याभ्यस् तासाम् । (१९७।३)

skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām |

197.4१९७.४

कुड्मलत् मुकुलायमानं पक्ष्मलं च उत्कृष्टपक्ष्मयुक्तम् अक्षिद्वयसरसिरुहं यासाम् ॥ (१९७।४)

kuḍmalat mukulāyamānaṃ pakṣmalaṃ ca utkṛṣṭapakṣmayuktam akṣidvayasarasiruhaṃ yāsām ||

198.1१९८.१

द्राघिष्ठश्वसनसमीरणाभितापप्रम्लानीभवदरुणोष्ठपल्लवानाम् । (१९८।१)

drāghiṣṭhaśvasanasamīraṇābhitāpapramlānībhavadaruṇoṣṭhapallavānām |

198.2१९८.२

नानोपायनविलसत्कराम्बुजानाम् आलीभिः सततनिषेवितं समन्तात् ॥ (१९८।२)

nānopāyanavilasatkarāmbujānām ālībhiḥ satataniṣevitaṃ samantāt ||

199.1१९९.१

द्राघिष्ठो ऽतिदीर्घः श्वासनसमीरणः श्वासवायुस् तेन अभितापः सन्तापस् तेन प्रम्लानीभवन् अरुणोष्ठपल्लवो यासाम् । (१९९।१)

drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām |

199.2१९९.२

तासाम् आयतलोलनीलनयनव्याकोषनीलाम्बुजस्रग्भिः सम्परिपूजिताखिलतनुं नानाविनोदास्पदम् । (१९९।२)

tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam |

199.3१९९.३

तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादिनीं बिभ्राणं प्रणयोन्मदाक्षिमधुकृन्मालां मनोहारिणीम् ॥ (१९९।३)

tanmugdhānanapaṅkajapravigalanmādhvīrasāsvādinīṃ bibhrāṇaṃ praṇayonmadākṣimadhukṛnmālāṃ manohāriṇīm ||

200.1२००.१

व्याकोशं विकसितं प्रणयाद् उन्मदे उद्गतमदे अक्षिणी एव मधुकृन्माला भ्रमरपङ्क्तिः । (२००।१)

vyākośaṃ vikasitaṃ praṇayād unmade udgatamade akṣiṇī eva madhukṛnmālā bhramarapaṅktiḥ |

200.2२००.२

तां बिभ्राणम् प्रकटयन्तम् । (२००।२)

tāṃ bibhrāṇam prakaṭayantam |

200.3२००.३

श्रीलोचनयोर् इतस् ततो बहुधा निपतनेन सर्वतो दर्शनान् मालेत्य् उक्तम् । (२००।३)

śrīlocanayor itas tato bahudhā nipatanena sarvato darśanān mālety uktam |

200.4२००.४

कीदृशीम् तासां यन् मुग्धं मनोहरम् आननपङ्कजं । (२००।४)

kīdṛśīm tāsāṃ yan mugdhaṃ manoharam ānanapaṅkajaṃ |

200.5२००.५

तस्मात् प्रविगलितो माध्वीरसस्य मकरन्दस्य आस्वादनशीलाम् । (२००।५)

tasmāt pravigalito mādhvīrasasya makarandasya āsvādanaśīlām |

200.6२००.६

अत एव मनोहारिणीं । (२००।६)

ata eva manohāriṇīṃ |

200.7२००.७

गोपगोपीपशूनां बहिः स्मरेद् अग्रतो ऽस्य गीर्वाणघटाम् । (२००।७)

gopagopīpaśūnāṃ bahiḥ smared agrato 'sya gīrvāṇaghaṭām |

200.8२००.८

वित्तार्थिनीं विरिञ्चित्रिनयनशतमन्युपूर्विकां स्तोत्रपराम् ॥ (२००।८)

vittārthinīṃ viriñcitrinayanaśatamanyupūrvikāṃ stotraparām ||

201.1२०१.१

इदानीं क्रमेण वित्तधर्ममोक्षकामाख्यपुरुषार्थचतुष्टयस्य तथा सर्वतः श्रेष्ठस्य पञ्चमपुरुषार्थरूपाया भक्तेश् च वाञ्छायाः प्रदानां देवादीनां ध्यानम् आह गोपेति पञ्चभिः । (२०१।१)

idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ |

201.2२०१.२

अस्य कृष्णस्य अग्रतः सम्मुखे । (२०१।२)

asya kṛṣṇasya agrataḥ sammukhe |

201.3२०१.३

तद्दक्षिणतो मुनिनिकरं दृढधर्मवाञ्छम् आनायपरम् । (२०१।३)

taddakṣiṇato muninikaraṃ dṛḍhadharmavāñcham ānāyaparam |

201.4२०१.४

योगीन्द्रान् अथ पृष्ठे मुमुक्षमाणान् समाधिना सनकाद्यान् ॥ (२०१।४)

yogīndrān atha pṛṣṭhe mumukṣamāṇān samādhinā sanakādyān ||

202.1२०२.१

दक्षिणे चास्य मुनिनिकरं स्मरेत् । (२०२।१)

dakṣiṇe cāsya muninikaraṃ smaret |

202.2२०२.२

दृढा धर्मे वाञ्छा यस्य तम् । (२०२।२)

dṛḍhā dharme vāñchā yasya tam |

202.3२०२.३

सव्ये सकान्तान् अथ यक्षसिद्धगन्धर्वविद्याधरचारणांश् च । (२०२।३)

savye sakāntān atha yakṣasiddhagandharvavidyādharacāraṇāṃś ca |

202.4२०२.४

सकिन्नरान् अप्सरसश् च मुख्याः कामार्थिनो नर्तनगीतवाद्यैः ॥ (२०२।४)

sakinnarān apsarasaś ca mukhyāḥ kāmārthino nartanagītavādyaiḥ ||

203.1२०३.१

सकान्तान् पत्नीसहितान् यक्षादींश् च स्मरेत् । (२०३।१)

sakāntān patnīsahitān yakṣādīṃś ca smaret |

203.2२०३.२

कथम्भूतान् नर्तनाद्यैः कामार्थिनो निजनिजाभीष्टप्रार्थकान् । (२०३।२)

kathambhūtān nartanādyaiḥ kāmārthino nijanijābhīṣṭaprārthakān |

203.3२०३.३

मुख्याः श्रेष्ठाः उर्वश्याद्या अप्सरसश् च स्मरेत् । (२०३।३)

mukhyāḥ śreṣṭhāḥ urvaśyādyā apsarasaś ca smaret |

203.4२०३.४

शङ्खेन्दुकुन्दधवलं सकलागमज्ञं सौदामनीततिपिङ्गजटाकलापम् । (२०३।४)

śaṅkhendukundadhavalaṃ sakalāgamajñaṃ saudāmanītatipiṅgajaṭākalāpam |

203.5२०३.५

तत्पादपङ्कजगताम् अचलां च भक्तिं वाञ्छन्तम् उज्झिततरान्यसमस्तसङ्गम् ॥ (२०३।५)

tatpādapaṅkajagatām acalāṃ ca bhaktiṃ vāñchantam ujjhitatarānyasamastasaṅgam ||

204.1२०४.१

तस्य श्रीकृष्णस्य पादपङ्कजगतां तद्विषयिणीम् इत्य् अर्थः । (२०४।१)

tasya śrīkṛṣṇasya pādapaṅkajagatāṃ tadviṣayiṇīm ity arthaḥ |

204.2२०४.२

उज्झिततरो नितरां परित्यक्तो ऽन्यस्मिन् भक्तिव्यतिरिक्ते समस्ते सङ्ग आसक्तिर् येन तम् । (२०४।२)

ujjhitataro nitarāṃ parityakto 'nyasmin bhaktivyatirikte samaste saṅga āsaktir yena tam |

204.3२०४.३

नानाविधश्रुतिगणान्वितसप्तरागग्रामत्रयीगतमनोहरमूर्छनाभिः । (२०४।३)

nānāvidhaśrutigaṇānvitasaptarāgagrāmatrayīgatamanoharamūrchanābhiḥ |

204.4२०४.४

संप्रीणयन्तम् उदिताभिर् अमुं महत्या संचिन्तयेन् नभसि धातृसुतं मुनीन्द्रम् ॥ (२०४।४)

saṃprīṇayantam uditābhir amuṃ mahatyā saṃcintayen nabhasi dhātṛsutaṃ munīndram ||

205.1२०५.१

अत एव अमुं श्रीकृष्णं महत्याख्यया कच्छपिकया स्वकीयवीणया प्रीणयन्तम् । (२०५।१)

ata eva amuṃ śrīkṛṣṇaṃ mahatyākhyayā kacchapikayā svakīyavīṇayā prīṇayantam |

205.2२०५.२

काभिः नानाविधः षट्त्रिंशद्भेदात्मको यः श्रुतिगणो नादसमूहस् तेनान्विता ये सप्त रागाः निषादादिस्वरा मेघनादवसन्तादिरागा वा तेषु वा ग्रामत्रयी तत्र ग्रामाणां त्रयाणां समाहारस् तस्यां गताः प्राप्ता या मनोहरा मूर्छनास् ताभिः । (२०५।२)

kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ |

205.3२०५.३

किम्भूताभिः उदिताभिः स्वयम् एव प्राकट्यं प्राप्ताभिः । (२०५।३)

kimbhūtābhiḥ uditābhiḥ svayam eva prākaṭyaṃ prāptābhiḥ |

205.4२०५.४

महत्योदिताभिर् इति वा सम्बन्धः । (२०५।४)

mahatyoditābhir iti vā sambandhaḥ |

205.5२०५.५

अत एव मुनीन्द्रं मुनिगणश्रेष्ठं धातृसुतं श्रीनारदं नभसि सम्यक् चिन्तयेत् । (२०५।५)

ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet |

205.6२०५.६

श्रीगौतमीयतन्त्रे । (२०५।६)

śrīgautamīyatantre |

205.7२०५.७

अथ ध्यानं प्रवक्ष्यामि सर्वपापप्रणाशनम् । (२०५।७)

atha dhyānaṃ pravakṣyāmi sarvapāpapraṇāśanam |

205.8२०५.८

पीताम्बरधरं कृष्णं पुण्डरीकनिभेक्षणम् ॥ (२०५।८)

pītāmbaradharaṃ kṛṣṇaṃ puṇḍarīkanibhekṣaṇam ||

206.1२०६.१

रक्तनेत्राधरं रक्तपाणपादनखं शुभम् । (२०६।१)

raktanetrādharaṃ raktapāṇapādanakhaṃ śubham |

206.2२०६.२

कौस्तुभोद्भासितोरस्कं नानारत्नविभूषितम् ॥ (२०६।२)

kaustubhodbhāsitoraskaṃ nānāratnavibhūṣitam ||

207.1२०७.१

तद्धामविलसन्मुक्ताबद्धहारोपशोभितम् । (२०७।१)

taddhāmavilasanmuktābaddhahāropaśobhitam |

207.2२०७.२

नानारत्नप्रभोद्भासिमुकुटं दिव्यतेजसम् ॥ (२०७।२)

nānāratnaprabhodbhāsimukuṭaṃ divyatejasam ||

208.1२०८.१

हरकेयूरकटककुण्डलैः परिमण्डितम् । (२०८।१)

harakeyūrakaṭakakuṇḍalaiḥ parimaṇḍitam |

208.2२०८.२

श्रीवत्सवक्षसं चारुनूपुराद्युपशोभितम् ॥ (२०८।२)

śrīvatsavakṣasaṃ cārunūpurādyupaśobhitam ||

209.1२०९.१

नानारत्नविचित्रैश् च कटिसूत्राङ्गुलीयकैः । (२०९।१)

nānāratnavicitraiś ca kaṭisūtrāṅgulīyakaiḥ |

209.2२०९.२

बर्हिपत्रकृतापीडं वन्यपुष्पैर् अलंकृतम् ॥ (२०९।२)

barhipatrakṛtāpīḍaṃ vanyapuṣpair alaṃkṛtam ||

210.1२१०.१

कदम्बकुसुमोद्बद्धवनमालाविभूषितम् । (२१०।१)

kadambakusumodbaddhavanamālāvibhūṣitam |

210.2२१०.२

सचन्द्रतारकानन्दिविमलाम्बरसन्निभम् ॥ (२१०।२)

sacandratārakānandivimalāmbarasannibham ||

211.1२११.१

वेणुं गृहीत्वा हस्ताभ्यां मुखे संयोज्य संस्थितम् । (२११।१)

veṇuṃ gṛhītvā hastābhyāṃ mukhe saṃyojya saṃsthitam |

211.2२११.२

गायन्तं दिव्यगानैश् च गोष्ठमध्यगतं हरिम् ॥ (२११।२)

gāyantaṃ divyagānaiś ca goṣṭhamadhyagataṃ harim ||

212.1२१२.१

स्वर्गाद् इव परिभ्रष्टकन्यकाशतवेष्टितम् । (२१२।१)

svargād iva paribhraṣṭakanyakāśataveṣṭitam |

212.2२१२.२

सर्वलक्षणसम्पन्नं सौन्दर्येणाभिशोभितम् ॥ (२१२।२)

sarvalakṣaṇasampannaṃ saundaryeṇābhiśobhitam ||

213.1२१३.१

शुभं जगन्मङ्गलरूपं तस्य कौस्तुभस्य धाम्ना तेजसा विलसन्तीभिर् मुक्ताभिर् आच्छन्नेन संवेष्टितेन हारेण उपशोभितम् । (२१३।१)

śubhaṃ jaganmaṅgalarūpaṃ tasya kaustubhasya dhāmnā tejasā vilasantībhir muktābhir ācchannena saṃveṣṭitena hāreṇa upaśobhitam |

213.2२१३.२

मुक्ताबद्धेति वा पाठः । (२१३।२)

muktābaddheti vā pāṭhaḥ |

213.3२१३.३

कटिसूत्रेणाङ्गुलीयकैश् चालंकृतम् । (२१३।३)

kaṭisūtreṇāṅgulīyakaiś cālaṃkṛtam |

213.4२१३.४

सचन्द्राभिस् ताराभिर् आनन्दं सुखकरं यद् विमलम् अम्बरं व्योम तत्सदृशम् । (२१३।४)

sacandrābhis tārābhir ānandaṃ sukhakaraṃ yad vimalam ambaraṃ vyoma tatsadṛśam |

213.5२१३.५

अत्र चन्द्रस्थाने कौस्तुभः । (२१३।५)

atra candrasthāne kaustubhaḥ |

213.6२१३.६

तारास्थाने कदम्बमाला । (२१३।६)

tārāsthāne kadambamālā |

213.7२१३.७

अम्बरस्थाने श्रीमद्वक्षःस्थलम् ऊह्यम् । (२१३।७)

ambarasthāne śrīmadvakṣaḥsthalam ūhyam |

213.8२१३.८

स्वर्गाद् इव परिभ्रष्टानां परमसुन्दरीणाम् इत्य् अर्थः । (२१३।८)

svargād iva paribhraṣṭānāṃ paramasundarīṇām ity arthaḥ |

213.9२१३.९

तादृशीनां कन्यानां श्रीगोपकुमारीणां शतेन वेष्टितम् । (२१३।९)

tādṛśīnāṃ kanyānāṃ śrīgopakumārīṇāṃ śatena veṣṭitam |

213.10२१३.१०

शतशब्दो ऽत्रासङ्ख्यत्वे । (२१३।१०)

śataśabdo 'trāsaṅkhyatve |

213.11२१३.११

मोहनं सर्वगोपीनां सर्वासां च गवाम् अपि । (२१३।११)

mohanaṃ sarvagopīnāṃ sarvāsāṃ ca gavām api |

213.12२१३.१२

लेलिह्यमानं वत्सैश् च धेनुभिश् च समन्ततः ॥ (२१३।१२)

lelihyamānaṃ vatsaiś ca dhenubhiś ca samantataḥ ||

214.1२१४.१

सिद्धगन्धर्वयक्षैश् च अप्सरोभिर् विहङ्गमैः । (२१४।१)

siddhagandharvayakṣaiś ca apsarobhir vihaṅgamaiḥ |

214.2२१४.२

सुरासुरमनुष्यैश् च स्थावरैः पन्नगैर् अपि ॥ (२१४।२)

surāsuramanuṣyaiś ca sthāvaraiḥ pannagair api ||

215.1२१५.१

मृगैर् विद्याधरैश् चैव वीक्ष्यमाणं सुविस्मितैः । (२१५।१)

mṛgair vidyādharaiś caiva vīkṣyamāṇaṃ suvismitaiḥ |

215.2२१५.२

नारदेन वशिष्ठेन विश्वामित्रेण धीमता ॥ (२१५।२)

nāradena vaśiṣṭhena viśvāmitreṇa dhīmatā ||

216.1२१६.१

पराशरेण व्यासेन भृगुणाङ्गिरसा तथा । (२१६।१)

parāśareṇa vyāsena bhṛguṇāṅgirasā tathā |

216.2२१६.२

दक्षेण शौनकात्रिभ्यां सिद्धेन कपिलेन च ॥ (२१६।२)

dakṣeṇa śaunakātribhyāṃ siddhena kapilena ca ||

217.1२१७.१

सनकाद्यैर् मुनीन्द्रैश् च ब्रह्मलोकगतैर् अपि । (२१७।१)

sanakādyair munīndraiś ca brahmalokagatair api |

217.2२१७.२

अन्यैर् अपि च संयुक्तं कृष्णं ध्यायेद् अहर्निशम् ॥ (२१७।२)

anyair api ca saṃyuktaṃ kṛṣṇaṃ dhyāyed aharniśam ||

218.1२१८.१

सङ्क्षेपेण श्रीसनत्कुमारकल्पेऽपि । (२१८।१)

saṅkṣepeṇa śrīsanatkumārakalpe'pi |

218.2२१८.२

अव्यान् मीलत्कलायद्युतिर् अहिरिपुपिच्छोल्लसत्केशजालो गोपीनेत्रोत्सवाराधितललितवपुर् गोपगोवृन्दवीतः । (२१८।२)

avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ |

218.3२१८.३

श्रीमद्वक्त्रारविन्दप्रतिसहितशशाङ्काकृतिः पीतवासा देवो ऽसौ वेणुनादक्षपितजनधृतिर् देवकीनन्दनो नः ॥ (२१८।३)

śrīmadvaktrāravindapratisahitaśaśāṅkākṛtiḥ pītavāsā devo 'sau veṇunādakṣapitajanadhṛtir devakīnandano naḥ ||

219.1२१९.१

असौ अनिर्वचनीयमाहात्म्यः श्रीदेवकीनन्दनो देवो नः अस्मान् अव्यात् रक्षतु । (२१९।१)

asau anirvacanīyamāhātmyaḥ śrīdevakīnandano devo naḥ asmān avyāt rakṣatu |

219.2२१९.२

कलायस्य तत्पुष्पस्येव द्युतिः श्यामा कान्तिर् यस्य सः । (२१९।२)

kalāyasya tatpuṣpasyeva dyutiḥ śyāmā kāntir yasya saḥ |

219.3२१९.३

अथान्तर्यागःध्यात्वैवं भगवन्तं तं संप्रार्थ्य च यथासुखम् । (२१९।३)

athāntaryāgaḥdhyātvaivaṃ bhagavantaṃ taṃ saṃprārthya ca yathāsukham |

219.4२१९.४

आदौ सम्पूजयेत् सर्वैर् उपचारैश् च मानसैः ॥ (२१९।४)

ādau sampūjayet sarvair upacāraiś ca mānasaiḥ ||

220.1२२०.१

लेख्या ये बहिरर्चायाम् उपचारा विभागशः । (२२०।१)

lekhyā ye bahirarcāyām upacārā vibhāgaśaḥ |

220.2२२०.२

ते सर्वेऽप्य् अन्तरर्चायां कल्पनीया यथारुचि ॥ (२२०।२)

te sarve'py antararcāyāṃ kalpanīyā yathāruci ||

221.1२२१.१

अथ प्रार्थनाविधिःश्रीनारदपञ्चरात्रे । (२२१।१)

atha prārthanāvidhiḥśrīnāradapañcarātre |

221.2२२१.२

स्वागतं देवदेवेश सन्निधौ भव केशव । (२२१।२)

svāgataṃ devadeveśa sannidhau bhava keśava |

221.3२२१.३

गृहाण मानसीं पूजां यथार्थपरिभाविनाम् ॥ (२२१।३)

gṛhāṇa mānasīṃ pūjāṃ yathārthaparibhāvinām ||

222.1२२२.१

अथोपचारैर् बाह्यैश् च स्वात्मन्य् एव स्थितं प्रभुम् । (२२२।१)

athopacārair bāhyaiś ca svātmany eva sthitaṃ prabhum |

222.2२२२.२

पूजयन् स्थापयेद् आदौ शङ्खं सत्सम्प्रदायतः ॥ (२२२।२)

pūjayan sthāpayed ādau śaṅkhaṃ satsampradāyataḥ ||

223.1२२३.१

अथ शङ्खप्रतिष्ठास्वस्य वामाग्रतो भूमाव् उल्लिख्य त्र्यस्रमण्डलम् । (२२३।१)

atha śaṅkhapratiṣṭhāsvasya vāmāgrato bhūmāv ullikhya tryasramaṇḍalam |

223.2२२३.२

ततास्त्रक्षालितं शङ्खं साधारं स्थापयेद् बुधः ॥ (२२३।२)

tatāstrakṣālitaṃ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ ||

224.1२२४.१

शङ्खे हृदयमन्त्रेण गन्धपुष्पाक्षतान् क्षिपेत् । (२२४।१)

śaṅkhe hṛdayamantreṇa gandhapuṣpākṣatān kṣipet |

224.2२२४.२

व्युत्क्रान्तैर् मातृकार्णैस् तं शिरोऽन्तैः केन पूरयेत् ॥ (२२४।२)

vyutkrāntair mātṛkārṇais taṃ śiro'ntaiḥ kena pūrayet ||

225.1२२५.१

सबिन्दुना मकारेण तदाधारेऽग्निमण्डलम् । (२२५।१)

sabindunā makāreṇa tadādhāre'gnimaṇḍalam |

225.2२२५.२

सम्पूजयेद् अकारेण शङ्खे चादित्यमण्डलम् ॥ (२२५।२)

sampūjayed akāreṇa śaṅkhe cādityamaṇḍalam ||

226.1२२६.१

उकारेण जले सोममण्डलं च तथार्चयेत् । (२२६।१)

ukāreṇa jale somamaṇḍalaṃ ca tathārcayet |

226.2२२६.२

तीर्थमन्त्रेण तीर्थान्य् आवाहयेच् चार्कमण्डलम् ॥ (२२६।२)

tīrthamantreṇa tīrthāny āvāhayec cārkamaṇḍalam ||

227.1२२७.१

कृष्णं चावाह्य हृत्पद्माद् गालिनीं शिखयेक्षयेत् । (२२७।१)

kṛṣṇaṃ cāvāhya hṛtpadmād gālinīṃ śikhayekṣayet |

227.2२२७.२

नेत्रमन्त्रेण वीक्ष्यान्तः कवचेनावगुण्ठयेत् ॥ (२२७।२)

netramantreṇa vīkṣyāntaḥ kavacenāvaguṇṭhayet ||

228.1२२८.१

कुर्यान् न्यासं जले मूलमन्त्राङ्गानां ततो दिशः । (२२८।१)

kuryān nyāsaṃ jale mūlamantrāṅgānāṃ tato diśaḥ |

228.2२२८.२

बद्ध्वास्त्रेणामृतीकुर्याद् अथ तद्धेनुमुद्रया ॥ (२२८।२)

baddhvāstreṇāmṛtīkuryād atha taddhenumudrayā ||

229.1२२९.१

तच् चक्रमुद्रया रक्ष्य सलिलं मत्स्यमुद्रया । (२२९।१)

tac cakramudrayā rakṣya salilaṃ matsyamudrayā |

229.2२२९.२

आच्छाद्य संस्पृशन् शङ्खं जपेन् मूलं ततो ऽष्टशः ॥ (२२९।२)

ācchādya saṃspṛśan śaṅkhaṃ japen mūlaṃ tato 'ṣṭaśaḥ ||

230.1२३०.१

तज् जलं प्रोक्षणीपात्रे किंचित् क्षिप्त्वा त्रिर् उक्षयेत् । (२३०।१)

taj jalaṃ prokṣaṇīpātre kiṃcit kṣiptvā trir ukṣayet |

230.2२३०.२

तच्छेषेणार्चनद्रव्यजातानि स्वतनूम् अपि ॥ (२३०।२)

taccheṣeṇārcanadravyajātāni svatanūm api ||

231.1२३१.१

कनिष्ठाङ्गुष्ठकौ सक्तौ करयोर् इतरेतरम् । (२३१।१)

kaniṣṭhāṅguṣṭhakau saktau karayor itaretaram |

231.2२३१.२

तर्जनीमध्यमानामाः संहता भुग्नसज्जिताः । (२३१।२)

tarjanīmadhyamānāmāḥ saṃhatā bhugnasajjitāḥ |

231.3२३१.३

मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥ (२३१।३)

mudraiṣā gālinī proktā śaṅkhasyopari cālitā ||

232.1२३२.१

ततो ऽपास्यावशिष्टान्तः शङ्खं वर्धनिकाम्बुना । (२३२।१)

tato 'pāsyāvaśiṣṭāntaḥ śaṅkhaṃ vardhanikāmbunā |

232.2२३२.२

पुनर् आपूर्य कृष्णाग्रे न्यसेद् आचारतः सताम् ॥ (२३२।२)

punar āpūrya kṛṣṇāgre nyased ācārataḥ satām ||

233.1२३३.१

अथ स्वदेहे पीठपूजागुरून् मूर्ध्नि गणेशं च मूलाधारेऽभिपूज्य तम् । (२३३।१)

atha svadehe pīṭhapūjāgurūn mūrdhni gaṇeśaṃ ca mūlādhāre'bhipūjya tam |

233.2२३३.२

पीठन्यासानुसारेण पीठं चात्मनि पूजयेत् ॥ (२३३।२)

pīṭhanyāsānusāreṇa pīṭhaṃ cātmani pūjayet ||

234.1२३४.१

अथ देवाङ्गेषु मन्त्राङ्गादिन्यासःततो जपन् कामबीजं त्रिस्थानस्थं परं महः । (२३४।१)

atha devāṅgeṣu mantrāṅgādinyāsaḥtato japan kāmabījaṃ tristhānasthaṃ paraṃ mahaḥ |

234.2२३४.२

मूलमन्त्रात्मकं बीजेनैकीभूतं विचिन्तयेत् ॥ (२३४।२)

mūlamantrātmakaṃ bījenaikībhūtaṃ vicintayet ||

235.1२३५.१

तच् च पञ्चाङ्गन्यासेन साकारं स्वेष्टदैवतम् । (२३५।१)

tac ca pañcāṅganyāsena sākāraṃ sveṣṭadaivatam |

235.2२३५.२

विचिन्त्य पञ्चाङ्गादीनि न्यस्येत् तस्मिन् यथात्मनि ॥ (२३५।२)

vicintya pañcāṅgādīni nyasyet tasmin yathātmani ||

236.1२३६.१

कुर्युर् भगवति प्रादुर्भूते कृष्णे च वैष्णवाः । (२३६।१)

kuryur bhagavati prādurbhūte kṛṣṇe ca vaiṣṇavāḥ |

236.2२३६.२

तत्तन्न्यासान् अभेदाय मनोर् भगवता सह ॥ (२३६।२)

tattannyāsān abhedāya manor bhagavatā saha ||

237.1२३७.१

केचिन् न्यस्यन्ति तत्त्वादीन्न् अव्यक्तानि यथोदितम् । (२३७।१)

kecin nyasyanti tattvādīnn avyaktāni yathoditam |

237.2२३७.२

मन्त्रार्णैः स्वरहंसाद्यैर् भूषणेषु प्रभोः क्रमात् ॥ (२३७।२)

mantrārṇaiḥ svarahaṃsādyair bhūṣaṇeṣu prabhoḥ kramāt ||

238.1२३८.१

अथ बाह्योपचारैर् अन्तःपूजातस्मिन् पीठे तम् आसीनं भगवन्तं विभावयन् । (२३८।१)

atha bāhyopacārair antaḥpūjātasmin pīṭhe tam āsīnaṃ bhagavantaṃ vibhāvayan |

238.2२३८.२

आसनाद्यैस् तु पुष्पान्तैर् यथाविध्य् अर्चयेद् बुधः ॥ (२३८।२)

āsanādyais tu puṣpāntair yathāvidhy arcayed budhaḥ ||

239.1२३९.१

ततो मुखेऽर्चयेद् वेणुं वनमालां च वक्षसि । (२३९।१)

tato mukhe'rcayed veṇuṃ vanamālāṃ ca vakṣasi |

239.2२३९.२

दक्षस्तनोर्ध्वे श्रीवत्सं सव्ये तत्रैव कौस्तुभम् ॥ (२३९।२)

dakṣastanordhve śrīvatsaṃ savye tatraiva kaustubham ||

240.1२४०.१

वैष्णवश् चन्दनेनामुम् आलिप्योपकनिष्ठया । (२४०।१)

vaiṣṇavaś candanenāmum ālipyopakaniṣṭhayā |

240.2२४०.२

प्राग्वद् दीपशिखाकारतिलकानि द्विषड् लिखेत् ॥ (२४०।२)

prāgvad dīpaśikhākāratilakāni dviṣaḍ likhet ||

241.1२४१.१

यथोक्तं पञ्चभिः पुष्पाञ्जलिभिश् चाभिपूज्य तम् । (२४१।१)

yathoktaṃ pañcabhiḥ puṣpāñjalibhiś cābhipūjya tam |

241.2२४१.२

धूपं दीपं च नैवेद्यं मुखवासादि चार्पयेत् ॥ (२४१।२)

dhūpaṃ dīpaṃ ca naivedyaṃ mukhavāsādi cārpayet ||

242.1२४२.१

गीतादिभिश् च संतोष्य कृष्णम् अस्मै ततो ऽखिलम् । (२४२।१)

gītādibhiś ca saṃtoṣya kṛṣṇam asmai tato 'khilam |

242.2२४२.२

अशक्तो बहिर् अर्चायाम् अर्पयेज् जपम् आचरेत् ॥ (२४२।२)

aśakto bahir arcāyām arpayej japam ācaret ||

243.1२४३.१

अथान्तर्यागमाहात्म्यम्वैष्णवतन्त्रे । (२४३।१)

athāntaryāgamāhātmyamvaiṣṇavatantre |

243.2२४३.२

अश्वमेधसहस्राणि वाजपेयशतानि च । (२४३।२)

aśvamedhasahasrāṇi vājapeyaśatāni ca |

243.3२४३.३

एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥ (२४३।३)

ekasya dhyānayogasya kalāṃ nārhanti ṣoḍaśīm ||

244.1२४४.१

बृहन्नारदीये श्रीवामनप्रादुर्भावे । (२४४।१)

bṛhannāradīye śrīvāmanaprādurbhāve |

244.2२४४.२

यन्नामोच्चारणाद् एव सर्वे नश्यन्त्य् उपद्रवाः । (२४४।२)

yannāmoccāraṇād eva sarve naśyanty upadravāḥ |

244.3२४४.३

स्तोत्रैर् वा अर्हणाभिर् वा किमु ध्यानेन कथ्यते ॥ (२४४।३)

stotrair vā arhaṇābhir vā kimu dhyānena kathyate ||

245.1२४५.१

नारदपञ्चरात्रे श्रीभगवन्नारदसंवादे । (२४५।१)

nāradapañcarātre śrībhagavannāradasaṃvāde |

245.2२४५.२

अयं यो मानसो यागो जराव्याधिभयापहः । (२४५।२)

ayaṃ yo mānaso yāgo jarāvyādhibhayāpahaḥ |

245.3२४५.३

सर्वपापौघशमनो भावाभावकरो द्विज । (२४५।३)

sarvapāpaughaśamano bhāvābhāvakaro dvija |

245.4२४५.४

सतताभ्यासयोगेन देहबन्धाद् विमोचयेत् ॥ (२४५।४)

satatābhyāsayogena dehabandhād vimocayet ||

246.1२४६.१

यश् चैवं परया भक्त्या सकृत् कुर्यान् महामते । (२४६।१)

yaś caivaṃ parayā bhaktyā sakṛt kuryān mahāmate |

246.2२४६.२

क्रमोदितेन विधिना तस्य तुष्याम्य् अहं मुने ॥ (२४६।२)

kramoditena vidhinā tasya tuṣyāmy ahaṃ mune ||

247.1२४७.१

स्मरणध्यानयोः पूर्वं माहात्म्यं लिखितं च यत् । (२४७।१)

smaraṇadhyānayoḥ pūrvaṃ māhātmyaṃ likhitaṃ ca yat |

247.2२४७.२

ज्ञेयं तदधिकं चात्रान्तर्यागाङ्गतया तयोः ॥ (२४७।२)

jñeyaṃ tadadhikaṃ cātrāntaryāgāṅgatayā tayoḥ ||

248.1२४८.१

एवं यथासम्प्रदायं शक्त्या यावन्मनःसुखम् । (२४८।१)

evaṃ yathāsampradāyaṃ śaktyā yāvanmanaḥsukham |

248.2२४८.२

अन्तःपूजां विधायादाव् आरभेत बहिस् ततः ॥ (२४८।२)

antaḥpūjāṃ vidhāyādāv ārabheta bahis tataḥ ||

249.1२४९.१

तथा चोक्तं नारदेन । (२४९।१)

tathā coktaṃ nāradena |

249.2२४९.२

ध्यात्वा षोडशसंख्यातैर् उपचारैश् च मानसैः । (२४९।२)

dhyātvā ṣoḍaśasaṃkhyātair upacāraiś ca mānasaiḥ |

249.3२४९.३

सम्यग् आराधनं कृत्वा बाह्यपूजां समाचरेत् ॥ (२४९।३)

samyag ārādhanaṃ kṛtvā bāhyapūjāṃ samācaret ||

250.1२५०.१

अथ बहिःपूजाअनुज्ञां देहि भगवन् बहिर् योगे मम प्रभो । (२५०।१)

atha bahiḥpūjāanujñāṃ dehi bhagavan bahir yoge mama prabho |

250.2२५०.२

श्रीकृष्णम् इत्य् अनुज्ञाप्य बहिः पूजां समाचरेत् ॥ (२५०।२)

śrīkṛṣṇam ity anujñāpya bahiḥ pūjāṃ samācaret ||

251.1२५१.१

तत्र त्व् अनेकशः सन्ति पूजास्थानानि तत्र च । (२५१।१)

tatra tv anekaśaḥ santi pūjāsthānāni tatra ca |

251.2२५१.२

श्रीमूर्तयो बहुविधाः शालग्रामशिलास् तथा ॥ (२५१।२)

śrīmūrtayo bahuvidhāḥ śālagrāmaśilās tathā ||

252.1२५२.१

अथ पूजास्थानानिसंमोहनतन्त्रे । (२५२।१)

atha pūjāsthānānisaṃmohanatantre |

252.2२५२.२

शालग्रामे मनौ यन्त्रे स्थण्डिले प्रतिमादिषु । (२५२।२)

śālagrāme manau yantre sthaṇḍile pratimādiṣu |

252.3२५२.३

हरेः पूजा तु कर्तव्या केवले भूतले न तु ॥ (२५२।३)

hareḥ pūjā tu kartavyā kevale bhūtale na tu ||

253.1२५३.१

एकादशस्कन्धे श्रीमदुद्धवसंवादे । (२५३।१)

ekādaśaskandhe śrīmaduddhavasaṃvāde |

253.2२५३.२

सूर्यो ऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् । (२५३।२)

sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam |

253.3२५३.३

भूर् आत्मा सर्वभूतानि भद्र पूजापदानि मे ॥ (२५३।३)

bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me ||

254.1२५४.१

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । (२५४।१)

sūrye tu vidyayā trayyā haviṣāgnau yajeta mām |

254.2२५४.२

आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना ॥ (२५४।२)

ātithyena tu viprāgrye goṣv aṅga yavasādinā ||

255.1२५५.१

वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया । (२५५।१)

vaiṣṇave bandhusatkṛtyā hṛdi khe dhyānaniṣṭhayā |

255.2२५५.२

वायौ मुख्यधिया तोये द्रव्यैस् तोयपुरःसरैः ॥ (२५५।२)

vāyau mukhyadhiyā toye dravyais toyapuraḥsaraiḥ ||

256.1२५६.१

स्थण्डिले मन्त्रहृदयैर् भोगैर् आत्मानम् आत्मनि । (२५६।१)

sthaṇḍile mantrahṛdayair bhogair ātmānam ātmani |

256.2२५६.२

क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ (२५६।२)

kṣetrajñaṃ sarvabhūteṣu samatvena yajeta mām ||

257.1२५७.१

धिष्ण्येष्व् इत्य् एषु मद्रूपं शङ्खचक्रगदाम्बुजैः । (२५७।१)

dhiṣṇyeṣv ity eṣu madrūpaṃ śaṅkhacakragadāmbujaiḥ |

257.2२५७.२

युक्तं चतुर्भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः ॥ (२५७।२)

yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ ||

258.1२५८.१

अथ श्रीमूर्तयःतत्रैव । (२५८।१)

atha śrīmūrtayaḥtatraiva |

258.2२५८.२

शैली दारुमयी लौही लेप्या लेख्या च सैकती । (२५८।२)

śailī dārumayī lauhī lepyā lekhyā ca saikatī |

258.3२५८.३

मनोमयी मणिमयी प्रतिमाष्टविधा मता ॥ (२५८।३)

manomayī maṇimayī pratimāṣṭavidhā matā ||

259.1२५९.१

चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् । (२५९।१)

calācaleti dvividhā pratiṣṭhā jīvamandiram |

259.2२५९.२

उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने ॥ (२५९।२)

udvāsāvāhane na staḥ sthirāyām uddhavārcane ||

260.1२६०.१

अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् । (२६०।१)

asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam |

260.2२६०.२

स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥ (२६०।२)

snapanaṃ tv avilepyāyām anyatra parimārjanam ||

261.1२६१.१

गोपालमन्त्रोद्दिष्टत्वात् तच्छ्रीमूर्तिर् अपेक्षिता । (२६१।१)

gopālamantroddiṣṭatvāt tacchrīmūrtir apekṣitā |

261.2२६१.२

तथापि वैष्णवप्रीत्यै लेख्याः श्रीमूर्तयो ऽखिलाः ॥ (२६१।२)

tathāpi vaiṣṇavaprītyai lekhyāḥ śrīmūrtayo 'khilāḥ ||

262.1२६२.१

अथ श्रीमूर्तिलक्षणानिश्रीहयशीर्षपञ्चरात्रे श्रीभगवत्श्रीहयशीर्षब्रह्मसंवादे । (२६२।१)

atha śrīmūrtilakṣaṇāniśrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde |

262.2२६२.२

आदिमूर्तिर् वासुदेवः सङ्कर्षणम् अथासृजत् । (२६२।२)

ādimūrtir vāsudevaḥ saṅkarṣaṇam athāsṛjat |

262.3२६२.३

चतुर्मूर्तिः परं प्रोक्तं एकैको भिद्यते त्रिधा । (२६२।३)

caturmūrtiḥ paraṃ proktaṃ ekaiko bhidyate tridhā |

262.4२६२.४

केशवादिप्रभेदेन मूर्तिद्वादशकं स्मृतम् ॥ (२६२।४)

keśavādiprabhedena mūrtidvādaśakaṃ smṛtam ||

263.1२६३.१

पङ्कजं दक्षिणे दद्यात् पाञ्चजन्यं तथोपरि । (२६३।१)

paṅkajaṃ dakṣiṇe dadyāt pāñcajanyaṃ tathopari |

263.2२६३.२

वामोपरि गदा यस्य चक्रं चाधो व्यवस्थितम् । (२६३।२)

vāmopari gadā yasya cakraṃ cādho vyavasthitam |

263.3२६३.३

आदिमूर्तेस् तु भेदो ऽयं केशवेति प्रकीर्त्यते ॥ (२६३।३)

ādimūrtes tu bhedo 'yaṃ keśaveti prakīrtyate ||

264.1२६४.१

अधरोत्तरभावेन कृतम् एतत् तु यत्र वै । (२६४।१)

adharottarabhāvena kṛtam etat tu yatra vai |

264.2२६४.२

नारायणाख्या सा मूर्तिः स्थापिता भुक्तिमुक्तिदा ॥ (२६४।२)

nārāyaṇākhyā sā mūrtiḥ sthāpitā bhuktimuktidā ||

265.1२६५.१

सव्याधः पङ्कजं यस्य पाञ्चजन्यं तथोपरि । (२६५।१)

savyādhaḥ paṅkajaṃ yasya pāñcajanyaṃ tathopari |

265.2२६५.२

दक्षिणोर्ध्वे गदा यस्य चक्रं चाधो व्यवस्थितम् । (२६५।२)

dakṣiṇordhve gadā yasya cakraṃ cādho vyavasthitam |

265.3२६५.३

आदिमूर्तेस् तु भेदो ऽयं माधवेति प्रकीर्त्यते ॥ (२६५।३)

ādimūrtes tu bhedo 'yaṃ mādhaveti prakīrtyate ||

266.1२६६.१

दक्षिणाधःस्थितं चक्रं गदा यस्योपरि स्थिता । (२६६।१)

dakṣiṇādhaḥsthitaṃ cakraṃ gadā yasyopari sthitā |

266.2२६६.२

वामोर्ध्वसंस्थितं पद्मं शङ्खं चाधो व्यवस्थितम् । (२६६।२)

vāmordhvasaṃsthitaṃ padmaṃ śaṅkhaṃ cādho vyavasthitam |

266.3२६६.३

सङ्कर्षणस्य भेदो ऽयं गोविन्देति प्रकीर्त्यते ॥ (२६६।३)

saṅkarṣaṇasya bhedo 'yaṃ govindeti prakīrtyate ||

267.1२६७.१

दक्षिणोपरि पद्मं तु गदा चाधो व्यवस्थिता । (२६७।१)

dakṣiṇopari padmaṃ tu gadā cādho vyavasthitā |

267.2२६७.२

सङ्कर्षणस्य भेदो ऽयं विष्णुर् इत्य् अभिशब्द्यते ॥ (२६७।२)

saṅkarṣaṇasya bhedo 'yaṃ viṣṇur ity abhiśabdyate ||

268.1२६८.१

दक्षिणोपरि शङ्खं च चक्रं चाधः प्रदर्श्यते । (२६८।१)

dakṣiṇopari śaṅkhaṃ ca cakraṃ cādhaḥ pradarśyate |

268.2२६८.२

वामोपरि तथा पद्मं गदा चाधः प्रदर्श्यते । (२६८।२)

vāmopari tathā padmaṃ gadā cādhaḥ pradarśyate |

268.3२६८.३

मधुसूदननामायं भेदः सङ्कर्षणस्य च ॥ (२६८।३)

madhusūdananāmāyaṃ bhedaḥ saṅkarṣaṇasya ca ||

269.1२६९.१

वामोर्ध्वसंस्थितं चक्रम् अधः शङ्खं प्रदर्श्यते । (२६९।१)

vāmordhvasaṃsthitaṃ cakram adhaḥ śaṅkhaṃ pradarśyate |

269.2२६९.२

ब्रह्माण्डगं वामपादं दक्षिणं शेषपृष्ठगम् ॥ (२६९।२)

brahmāṇḍagaṃ vāmapādaṃ dakṣiṇaṃ śeṣapṛṣṭhagam ||

270.1२७०.१

दक्षिणोर्ध्वं सहस्रारं पाञ्चजन्यम् अधःस्थितम् । (२७०।१)

dakṣiṇordhvaṃ sahasrāraṃ pāñcajanyam adhaḥsthitam |

270.2२७०.२

सप्ततालप्रमाणेन वामनं कारयेत् सदा ॥ (२७०।२)

saptatālapramāṇena vāmanaṃ kārayet sadā ||

271.1२७१.१

ऊर्ध्वं दक्षिणतश् चक्रम् अधः पद्मं व्यवस्थितम् । (२७१।१)

ūrdhvaṃ dakṣiṇataś cakram adhaḥ padmaṃ vyavasthitam |

271.2२७१.२

पद्मा पद्मकरा वामे पार्श्वे यस्य व्यवस्थिता ॥ (२७१।२)

padmā padmakarā vāme pārśve yasya vyavasthitā ||

272.1२७२.१

स्थितो वाप्य् उपविष्टो वा सानुरागो विलासवान् । (२७२।१)

sthito vāpy upaviṣṭo vā sānurāgo vilāsavān |

272.2२७२.२

प्रद्युम्नस्य हि भेदो ऽयं श्रीधरेति प्रकीर्त्यते ॥ (२७२।२)

pradyumnasya hi bhedo 'yaṃ śrīdhareti prakīrtyate ||

273.1२७३.१

दक्षिणोर्ध्वं महाचक्रं कौमुदी तदधःस्थिता । (२७३।१)

dakṣiṇordhvaṃ mahācakraṃ kaumudī tadadhaḥsthitā |

273.2२७३.२

वामोर्ध्वे नलिनं यस्य अधः शङ्खं विराजते । (२७३।२)

vāmordhve nalinaṃ yasya adhaḥ śaṅkhaṃ virājate |

273.3२७३.३

हृषीकेशेति विज्ञेयः स्थापितः सर्वकामदः ॥ (२७३।३)

hṛṣīkeśeti vijñeyaḥ sthāpitaḥ sarvakāmadaḥ ||

274.1२७४.१

दक्षिणोर्ध्वे पुण्डरीकं पाञ्चजन्यम् अधस् तथा । (२७४।१)

dakṣiṇordhve puṇḍarīkaṃ pāñcajanyam adhas tathā |

274.2२७४.२

वामोर्ध्वे संस्थितं चक्रं कौमुदी तदधःस्थिता । (२७४।२)

vāmordhve saṃsthitaṃ cakraṃ kaumudī tadadhaḥsthitā |

274.3२७४.३

पद्मनाभेति सा मूर्तिः स्थापिता मोक्षदायिनी ॥ (२७४।३)

padmanābheti sā mūrtiḥ sthāpitā mokṣadāyinī ||

275.1२७५.१

दक्षिणोर्ध्वे पाञ्चजन्यम् अधस्तात् तु कुशेशयम् । (२७५।१)

dakṣiṇordhve pāñcajanyam adhastāt tu kuśeśayam |

275.2२७५.२

सवोर्ध्वे कौमुदी चैव हेतिराजम् अधःस्थितम् । (२७५।२)

savordhve kaumudī caiva hetirājam adhaḥsthitam |

275.3२७५.३

अनिरुद्धस्य भेदो ऽयं दामोदर इति स्मृतः ॥ (२७५।३)

aniruddhasya bhedo 'yaṃ dāmodara iti smṛtaḥ ||

276.1२७६.१

एतेषां तु स्त्रियौ कार्ये पद्मवीणाधरे शुभे ॥ (२७६।१)

eteṣāṃ tu striyau kārye padmavīṇādhare śubhe ||

277.1२७७.१

इति क्रमेण मार्गाधिमासाधिपाः केशवादयो द्वादश । (२७७।१)

iti krameṇa mārgādhimāsādhipāḥ keśavādayo dvādaśa |

277.2२७७.२

अथ चतुर्विंशतिमूर्तयःसिद्धार्थसंहितायाम् । (२७७।२)

atha caturviṃśatimūrtayaḥsiddhārthasaṃhitāyām |

277.3२७७.३

वासुदेवो गदाशङ्खचक्रपद्मधरो मतः । (२७७।३)

vāsudevo gadāśaṅkhacakrapadmadharo mataḥ |

277.4२७७.४

पद्मं शङ्खं तथा चक्रं गदां वहति केशवः ॥ (२७७।४)

padmaṃ śaṅkhaṃ tathā cakraṃ gadāṃ vahati keśavaḥ ||

278.1२७८.१

शङ्खं पद्मं गदां चक्रं धत्ते नारायणः सदा । (२७८।१)

śaṅkhaṃ padmaṃ gadāṃ cakraṃ dhatte nārāyaṇaḥ sadā |

278.2२७८.२

गदां चक्रं तथा शङ्खं पद्मं वहति माधवः ॥ (२७८।२)

gadāṃ cakraṃ tathā śaṅkhaṃ padmaṃ vahati mādhavaḥ ||

279.1२७९.१

चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः । (२७९।१)

cakraṃ padmaṃ tathā śaṅkhaṃ gadāṃ ca puruṣottamaḥ |

279.2२७९.२

पद्मं कौमोदकीं शङ्खं चक्रं धत्तेऽप्य् अधोक्षजः ॥ (२७९।२)

padmaṃ kaumodakīṃ śaṅkhaṃ cakraṃ dhatte'py adhokṣajaḥ ||

280.1२८०.१

सङ्कर्षणो गदाशङ्खपद्मचक्रधरः स्मृतः । (२८०।१)

saṅkarṣaṇo gadāśaṅkhapadmacakradharaḥ smṛtaḥ |

280.2२८०.२

चक्रं गदां पद्मशङ्खौ गोविन्दो धरते भुजैः ॥ (२८०।२)

cakraṃ gadāṃ padmaśaṅkhau govindo dharate bhujaiḥ ||

281.1२८१.१

गदां पद्मं तथा शङ्खं चक्रं विष्णुर् बिभर्ति यः । (२८१।१)

gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇur bibharti yaḥ |

281.2२८१.२

चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः ॥ (२८१।२)

cakraṃ śaṅkhaṃ tathā padmaṃ gadāṃ ca madhusūdanaḥ ||

282.1२८२.१

गदां सरोजं चक्रं च शङ्खं धत्तेऽच्युतः सदा । (२८२।१)

gadāṃ sarojaṃ cakraṃ ca śaṅkhaṃ dhatte'cyutaḥ sadā |

282.2२८२.२

शङ्खं कौमोदकीं चक्रम् उपेन्द्रः पद्मम् उद्वहेत् ॥ (२८२।२)

śaṅkhaṃ kaumodakīṃ cakram upendraḥ padmam udvahet ||

283.1२८३.१

चक्रशङ्खगदापद्मधरः प्रद्युम्न उच्यते । (२८३।१)

cakraśaṅkhagadāpadmadharaḥ pradyumna ucyate |

283.2२८३.२

पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः ॥ (२८३।२)

padmaṃ kaumodakīṃ cakraṃ śaṅkhaṃ dhatte trivikramaḥ ||

284.1२८४.१

शङ्खं चक्रं गदां पद्मं वामनो वहते सदा । (२८४।१)

śaṅkhaṃ cakraṃ gadāṃ padmaṃ vāmano vahate sadā |

284.2२८४.२

पद्मं चक्रं गदां शङ्खं श्रीधरो वहते भुजैः ॥ (२८४।२)

padmaṃ cakraṃ gadāṃ śaṅkhaṃ śrīdharo vahate bhujaiḥ ||

285.1२८५.१

चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्ति यः । (२८५।१)

cakraṃ padmaṃ gadāṃ śaṅkhaṃ narasiṃho bibharti yaḥ |

285.2२८५.२

पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्दनः ॥ (२८५।२)

padmaṃ sudarśanaṃ śaṅkhaṃ gadāṃ dhatte janārdanaḥ ||

286.1२८६.१

अनिरुद्धश् चक्रगदाशङ्खपद्मलसद्भुजः । (२८६।१)

aniruddhaś cakragadāśaṅkhapadmalasadbhujaḥ |

286.2२८६.२

हृषीकेशो गदां चक्रं पद्मं शङ्खं च धारयेत् ॥ (२८६।२)

hṛṣīkeśo gadāṃ cakraṃ padmaṃ śaṅkhaṃ ca dhārayet ||

287.1२८७.१

पद्मनाभो वहेत् शङ्खं पद्मं चक्रं गदां तथा । (२८७।१)

padmanābho vahet śaṅkhaṃ padmaṃ cakraṃ gadāṃ tathā |

287.2२८७.२

पद्मं चक्रं गदां शङ्खं धत्ते दामोदरः सदा ॥ (२८७।२)

padmaṃ cakraṃ gadāṃ śaṅkhaṃ dhatte dāmodaraḥ sadā ||

288.1२८८.१

शङ्खं चक्रं सरोजं च गदां वहति यो हरिः । (२८८।१)

śaṅkhaṃ cakraṃ sarojaṃ ca gadāṃ vahati yo hariḥ |

288.2२८८.२

शङ्खं कौमोदकीं पद्मं चक्रं विष्णुर् बिभर्ति यः ॥ (२८८।२)

śaṅkhaṃ kaumodakīṃ padmaṃ cakraṃ viṣṇur bibharti yaḥ ||

289.1२८९.१

एताश् च मूर्तयो ज्ञेया दक्षिणाधःकरक्रमात् ॥ (२८९।१)

etāś ca mūrtayo jñeyā dakṣiṇādhaḥkarakramāt ||

290.1२९०.१

मत्स्यपुराणे च । (२९०।१)

matsyapurāṇe ca |

290.2२९०.२

एतदुद्देशतः प्रोक्तं प्रतिमालक्षणं तथा । (२९०।२)

etaduddeśataḥ proktaṃ pratimālakṣaṇaṃ tathā |

290.3२९०.३

विस्तरेण न शक्नोति बृहस्पतिर् अपि द्विजाः ॥ (२९०।३)

vistareṇa na śaknoti bṛhaspatir api dvijāḥ ||

291.1२९१.१

सेवानिष्ठा हरेः श्रीमद्वैष्णवाः पाञ्चरात्रिकाः । (२९१।१)

sevāniṣṭhā hareḥ śrīmadvaiṣṇavāḥ pāñcarātrikāḥ |

291.2२९१.२

प्राकट्याद् अखिलाङ्गानां श्रीमूर्तिं बहु मन्यते ॥ (२९१।२)

prākaṭyād akhilāṅgānāṃ śrīmūrtiṃ bahu manyate ||

292.1२९२.१

सेव्या निजनिजैर् एव मन्त्रैः स्वस्वेष्टमूर्तयः । (२९२।१)

sevyā nijanijair eva mantraiḥ svasveṣṭamūrtayaḥ |

292.2२९२.२

शालग्रामात्मके रूपे नियमो नैव विद्यते ॥ (२९२।२)

śālagrāmātmake rūpe niyamo naiva vidyate ||

293.1२९३.१

द्विभुजा जलदश्यामा त्रिभङ्गी मधुराकृतिः । (२९३।१)

dvibhujā jaladaśyāmā tribhaṅgī madhurākṛtiḥ |

293.2२९३.२

सेव्या ध्यानानुरूपैश् च मूर्तिः कृष्णस्य दैवतैः ॥ (२९३।२)

sevyā dhyānānurūpaiś ca mūrtiḥ kṛṣṇasya daivataiḥ ||

294.1२९४.१

अन्याश् च विविधा श्रीमदवतारादिमूर्तयः । (२९४।१)

anyāś ca vividhā śrīmadavatārādimūrtayaḥ |

294.2२९४.२

प्रादुर्भावविधाव् अग्रे लेख्यास् तत्तद्विशेषतः ॥ (२९४।२)

prādurbhāvavidhāv agre lekhyās tattadviśeṣataḥ ||

295.1२९५.१

नित्यकर्मप्रसङ्गेऽत्र मूर्तिजन्मप्रतिष्ठयोः । (२९५।१)

nityakarmaprasaṅge'tra mūrtijanmapratiṣṭhayoḥ |

295.2२९५.२

विधिर् न लिखितुं योग्यः स तु लेखिष्यतेऽग्रतः ॥ (२९५।२)

vidhir na likhituṃ yogyaḥ sa tu lekhiṣyate'grataḥ ||

296.1२९६.१

अथ शालग्रामशिलाःगौतमीयतन्त्रे । (२९६।१)

atha śālagrāmaśilāḥgautamīyatantre |

296.2२९६.२

गण्डक्याश् चैव देशे च शालग्रामस्थलं महत् । (२९६।२)

gaṇḍakyāś caiva deśe ca śālagrāmasthalaṃ mahat |

296.3२९६.३

पाषाणं तद्भवं यत् तत् शालग्रामम् इति स्मृतम् ॥ (२९६।३)

pāṣāṇaṃ tadbhavaṃ yat tat śālagrāmam iti smṛtam ||

297.1२९७.१

स्कन्दपुराणे । (२९७।१)

skandapurāṇe |

297.2२९७.२

स्निग्धा कृष्णा पाण्डरा वा पीता नीला तथैव च । (२९७।२)

snigdhā kṛṣṇā pāṇḍarā vā pītā nīlā tathaiva ca |

297.3२९७.३

वक्रा रूक्षा च रक्ता च महास्थूला त्व् अलाञ्छिता ॥ (२९७।३)

vakrā rūkṣā ca raktā ca mahāsthūlā tv alāñchitā ||

298.1२९८.१

कपिला दर्दुरा भग्ना बहुचक्रैकचक्रिका । (२९८।१)

kapilā dardurā bhagnā bahucakraikacakrikā |

298.2२९८.२

बृहन्मुखी बृहच्चक्रा लग्नचक्राथवा पुनः । (२९८।२)

bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ |

298.3२९८.३

बद्धचक्राथवा काचिद् भग्नचक्रा त्व् अधोमुखी ॥ (२९८।३)

baddhacakrāthavā kācid bhagnacakrā tv adhomukhī ||

299.1२९९.१

अथ तासां वर्णादिभेदेन गुणदोषौतत्रैव । (२९९।१)

atha tāsāṃ varṇādibhedena guṇadoṣautatraiva |

299.2२९९.२

स्निग्धा सिद्धिकरी मन्त्रे कृष्णा कीर्तिं ददाति च । (२९९।२)

snigdhā siddhikarī mantre kṛṣṇā kīrtiṃ dadāti ca |

299.3२९९.३

पाण्डरा पापदहनी पीता पुत्रफलप्रदा ॥ (२९९।३)

pāṇḍarā pāpadahanī pītā putraphalapradā ||

300.1३००.१

नीला संदिशते लक्ष्मीं रक्ता रोगप्रदायिका । (३००।१)

nīlā saṃdiśate lakṣmīṃ raktā rogapradāyikā |

300.2३००.२

रक्षा चोद्वेगदा नित्यं वक्रा दारिद्र्यदायिका ॥ (३००।२)

rakṣā codvegadā nityaṃ vakrā dāridryadāyikā ||

301.1३०१.१

स्थूला निहन्ति चैवायुर् निष्फला तु अलाञ्छिता । (३०१।१)

sthūlā nihanti caivāyur niṣphalā tu alāñchitā |

301.2३०१.२

कपिला कर्बुरा भग्ना बहुचक्रैकचक्रिका ॥ (३०१।२)

kapilā karburā bhagnā bahucakraikacakrikā ||

302.1३०२.१

बृहन्मुखी बृहच्चक्रा लग्नचक्राथवा पुनः ॥ (३०२।१)

bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ ||

303.1३०३.१

बद्धचक्राथवा या स्याद् भग्नचक्रा त्व् अधोमुखी । (३०३।१)

baddhacakrāthavā yā syād bhagnacakrā tv adhomukhī |

303.2३०३.२

पूजयेद् यः प्रमादेन दुःखम् एव लभेत सः ॥ (३०३।२)

pūjayed yaḥ pramādena duḥkham eva labheta saḥ ||

304.1३०४.१

अग्निपुराणे च । (३०४।१)

agnipurāṇe ca |

304.2३०४.२

तथा व्यालमुखी भग्ना विषया बद्धचक्रिका । (३०४।२)

tathā vyālamukhī bhagnā viṣayā baddhacakrikā |

304.3३०४.३

विकारावर्तनाभिश् च नारसिंही तथैव च ॥ (३०४।३)

vikārāvartanābhiś ca nārasiṃhī tathaiva ca ||

305.1३०५.१

कपिला विभ्रमावर्ता रेखावर्ता च या शिला । (३०५।१)

kapilā vibhramāvartā rekhāvartā ca yā śilā |

305.2३०५.२

दुःखदा सा तु विज्ञेया सुखदा न कदाचन ॥ (३०५।२)

duḥkhadā sā tu vijñeyā sukhadā na kadācana ||

306.1३०६.१

स्निग्धा श्यामा तथा मुक्तामाया वा समचक्रिका । (३०६।१)

snigdhā śyāmā tathā muktāmāyā vā samacakrikā |

306.2३०६.२

घोणिमूर्तिर् अनन्ताख्या गम्भीरा संपुटा तथा ॥ (३०६।२)

ghoṇimūrtir anantākhyā gambhīrā saṃpuṭā tathā ||

307.1३०७.१

सूक्ष्ममूर्तिर् अमूर्तिश् च सम्मुखा सिद्धिदायिका । (३०७।१)

sūkṣmamūrtir amūrtiś ca sammukhā siddhidāyikā |

307.2३०७.२

धात्रीफलप्रमाणा या करेणोभयसम्पुटा । (३०७।२)

dhātrīphalapramāṇā yā kareṇobhayasampuṭā |

307.3३०७.३

पूजनीया प्रयत्नेन शिला चैतादृशी शुभा ॥ (३०७।३)

pūjanīyā prayatnena śilā caitādṛśī śubhā ||

308.1३०८.१

इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् । (३०८।१)

iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet |

308.2३०८.२

पूजिते फलम् आप्नोति इहलोके परत्र च ॥ (३०८।२)

pūjite phalam āpnoti ihaloke paratra ca ||

309.1३०९.१

दोषाश् चैते सकामार्चनविषयाःयत उक्तं श्रीभगवता ब्राह्मे । (३०९।१)

doṣāś caite sakāmārcanaviṣayāḥyata uktaṃ śrībhagavatā brāhme |

309.2३०९.२

खण्डितं स्फुटितं भग्नं पार्श्वभिन्नं विभेदितम् । (३०९।२)

khaṇḍitaṃ sphuṭitaṃ bhagnaṃ pārśvabhinnaṃ vibheditam |

309.3३०९.३

शालग्रामसमुद्भूतं शैलं दोषावहं न हि ॥ (३०९।३)

śālagrāmasamudbhūtaṃ śailaṃ doṣāvahaṃ na hi ||

310.1३१०.१

श्रीरुद्रेण च स्कान्दे । (३१०।१)

śrīrudreṇa ca skānde |

310.2३१०.२

खण्डितं त्रुटितं भग्नं शालग्रामे न दोषभाक् । (३१०।२)

khaṇḍitaṃ truṭitaṃ bhagnaṃ śālagrāme na doṣabhāk |

310.3३१०.३

इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् ॥ (३१०।३)

iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet ||

311.1३११.१

तथा । (३११।१)

tathā |

311.2३११.२

चक्रं वा केवलं तत्र पद्मेन सह संयुतम् । (३११।२)

cakraṃ vā kevalaṃ tatra padmena saha saṃyutam |

311.3३११.३

केवला वनमाला वा हरिर् लक्ष्म्या सह स्थितः ॥ (३११।३)

kevalā vanamālā vā harir lakṣmyā saha sthitaḥ ||

312.1३१२.१

मुख्याः स्निग्धादयस् तत्रामुख्या रक्तादयो मताः । (३१२।१)

mukhyāḥ snigdhādayas tatrāmukhyā raktādayo matāḥ |

312.2३१२.२

मुख्याभावे त्व् अमुख्या हि पूज्या इत्य् उच्यते परैः ॥ (३१२।२)

mukhyābhāve tv amukhyā hi pūjyā ity ucyate paraiḥ ||

313.1३१३.१

अथ तासाम् एव लक्षणविशेषेण संज्ञविशेषःब्राह्मे श्रीभगवद्ब्रह्मसंवादे । (३१३।१)

atha tāsām eva lakṣaṇaviśeṣeṇa saṃjñaviśeṣaḥbrāhme śrībhagavadbrahmasaṃvāde |

313.2३१३.२

निवसामि सदा ब्रह्मन् शालग्रामाख्यवेश्मनि । (३१३।२)

nivasāmi sadā brahman śālagrāmākhyaveśmani |

313.3३१३.३

तत्रैव रथचक्राङ्कभेदनामानि मे शृणु ॥ (३१३।३)

tatraiva rathacakrāṅkabhedanāmāni me śṛṇu ||

314.1३१४.१

द्वारदेशे समे चक्रे दृश्यते नान्तरीयके । (३१४।१)

dvāradeśe same cakre dṛśyate nāntarīyake |

314.2३१४.२

वासुदेवः स विज्ञेयः शुक्लाभश् चातिशोभनः ॥ (३१४।२)

vāsudevaḥ sa vijñeyaḥ śuklābhaś cātiśobhanaḥ ||

315.1३१५.१

द्वे चक्रे एकलग्ने तु पूर्वभागस् तु पुष्कलः । (३१५।१)

dve cakre ekalagne tu pūrvabhāgas tu puṣkalaḥ |

315.2३१५.२

सङ्कर्षणाख्यो विज्ञेयो रक्ताभिश् चातिशोभनः ॥ (३१५।२)

saṅkarṣaṇākhyo vijñeyo raktābhiś cātiśobhanaḥ ||

316.1३१६.१

प्रद्युम्नः सूक्ष्मचक्रस् तु पीतदीप्तिस् तथैव च । (३१६।१)

pradyumnaḥ sūkṣmacakras tu pītadīptis tathaiva ca |

316.2३१६.२

शुषिरं छिद्रबहुलं दीर्घाकारं तु तद् भवेत् ॥ (३१६।२)

śuṣiraṃ chidrabahulaṃ dīrghākāraṃ tu tad bhavet ||

317.1३१७.१

अनिरुद्धस् तु नीलाभो वर्तुलश् चातिशोभनः । (३१७।१)

aniruddhas tu nīlābho vartulaś cātiśobhanaḥ |

317.2३१७.२

रेखात्रयं तु तद् द्वारि पृष्ठं पद्मेन लाञ्छितम् ॥ (३१७।२)

rekhātrayaṃ tu tad dvāri pṛṣṭhaṃ padmena lāñchitam ||

318.1३१८.१

सौभाग्यं केशवो दद्यात् चतुष्कोणो भवेत् तु यः । (३१८।१)

saubhāgyaṃ keśavo dadyāt catuṣkoṇo bhavet tu yaḥ |

318.2३१८.२

श्यामं नारायणं विद्यान् नाभिचक्रं तथोन्नतम् ॥ (३१८।२)

śyāmaṃ nārāyaṇaṃ vidyān nābhicakraṃ tathonnatam ||

319.1३१९.१

दीर्घरेखासमोपेतं दक्षिणे शुषिरं पृथु । (३१९।१)

dīrgharekhāsamopetaṃ dakṣiṇe śuṣiraṃ pṛthu |

319.2३१९.२

ऊर्ध्वं मुखं विजानीयात् द्वारे च हरिरूपिणम् ॥ (३१९।२)

ūrdhvaṃ mukhaṃ vijānīyāt dvāre ca harirūpiṇam ||

320.1३२०.१

कामदं मोक्षदं चैव अर्थदं च विशेषतः । (३२०।१)

kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ |

320.2३२०.२

परमेष्ठी लोहितभः पद्मचक्रसमन्वितः ॥ (३२०।२)

parameṣṭhī lohitabhaḥ padmacakrasamanvitaḥ ||

321.1३२१.१

बिल्वाकृतिस् तथा पृष्ठे शुषिरं चातिपुष्कलम् । (३२१।१)

bilvākṛtis tathā pṛṣṭhe śuṣiraṃ cātipuṣkalam |

321.2३२१.२

कृष्णवर्णस् तथा विष्णुः स्थूले चक्रे सुशोभनः । (३२१।२)

kṛṣṇavarṇas tathā viṣṇuḥ sthūle cakre suśobhanaḥ |

321.3३२१.३

ब्रह्मचर्येण पूज्यो ऽसाव् अन्यथा विघ्नदो भवेत् ॥ (३२१।३)

brahmacaryeṇa pūjyo 'sāv anyathā vighnado bhavet ||

322.1३२२.१

क्वचिच् च । (३२२।१)

kvacic ca |

322.2३२२.२

कपिलो नरसिंहो ऽथ पृथुचक्रे च शोभने । (३२२।२)

kapilo narasiṃho 'tha pṛthucakre ca śobhane |

322.3३२२.३

ब्रह्मचर्याधिकारी स्यान् नान्यथा पूजनं भवेत् ॥ (३२२।३)

brahmacaryādhikārī syān nānyathā pūjanaṃ bhavet ||

323.1३२३.१

नरसिंहस् त्रिबिन्दुः स्यात् कपिलः पञ्चबिन्दुकः । (३२३।१)

narasiṃhas tribinduḥ syāt kapilaḥ pañcabindukaḥ |

323.2३२३.२

ब्रह्मचर्येण पूज्यः स्याद् अन्यथा सर्वविघ्नदः ॥ (३२३।२)

brahmacaryeṇa pūjyaḥ syād anyathā sarvavighnadaḥ ||

324.1३२४.१

स्थूलं चक्रद्वयं मध्ये गुडलाक्षासवर्णकम् । (३२४।१)

sthūlaṃ cakradvayaṃ madhye guḍalākṣāsavarṇakam |

324.2३२४.२

द्वारोपरि तथा रेखा पद्माकारा सुशोभना ॥ (३२४।२)

dvāropari tathā rekhā padmākārā suśobhanā ||

325.1३२५.१

स्फुटितं विषमं चक्रं नारसिंहं तु कापिलम् । (३२५।१)

sphuṭitaṃ viṣamaṃ cakraṃ nārasiṃhaṃ tu kāpilam |

325.2३२५.२

सम्पूज्य मुक्तिम् आप्नोति संग्रामे विजयी भवेत् ॥ (३२५।२)

sampūjya muktim āpnoti saṃgrāme vijayī bhavet ||

326.1३२६.१

पाद्मे कार्त्तिकमाहात्म्ये च । (३२६।१)

pādme kārttikamāhātmye ca |

326.2३२६.२

यस्य दीर्घं मुखं पूर्वकथितैर् लक्षणैर् युतम् । (३२६।२)

yasya dīrghaṃ mukhaṃ pūrvakathitair lakṣaṇair yutam |

326.3३२६.३

रेखाश् च केशराकारा नारसिंहो मतो हि सः ॥ (३२६।३)

rekhāś ca keśarākārā nārasiṃho mato hi saḥ ||

327.1३२७.१

ब्राह्मे । (३२७।१)

brāhme |

327.2३२७.२

वाराहं शक्तिलिङ्गे च चक्रे च विषमे स्मृते । (३२७।२)

vārāhaṃ śaktiliṅge ca cakre ca viṣame smṛte |

327.3३२७.३

इन्द्रनीलनिभं स्थूलं त्रिरेखालाञ्छितं शुभम् ॥ (३२७।३)

indranīlanibhaṃ sthūlaṃ trirekhālāñchitaṃ śubham ||

328.1३२८.१

पाद्मे च तत्रैव । (३२८।१)

pādme ca tatraiva |

328.2३२८.२

वराहाकृतिर् आभुग्नश् चक्ररेखास्व् अलंकृतः । (३२८।२)

varāhākṛtir ābhugnaś cakrarekhāsv alaṃkṛtaḥ |

328.3३२८.३

वाराह इति स प्रोक्तो भुक्तिमुक्तिफलप्रदः ॥ (३२८।३)

vārāha iti sa prokto bhuktimuktiphalapradaḥ ||

329.1३२९.१

ब्राह्म एव । (३२९।१)

brāhma eva |

329.2३२९.२

दीर्घा काञ्चनवर्णा या बिन्दुत्रयविभूषिता । (३२९।२)

dīrghā kāñcanavarṇā yā bindutrayavibhūṣitā |

329.3३२९.३

मत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा ॥ (३२९।३)

matsyākhyā sā śilā jñeyā bhuktimuktiphalapradā ||

330.1३३०.१

क्वचिच् च । (३३०।१)

kvacic ca |

330.2३३०.२

मत्स्यरूपं तु देवेशं दीर्घाकारं तु यद् भवेत् । (३३०।२)

matsyarūpaṃ tu deveśaṃ dīrghākāraṃ tu yad bhavet |

330.3३३०.३

बिन्दुत्रयम् आयुक्तं कांस्यवर्णं विशोभनम् ॥ (३३०।३)

bindutrayam āyuktaṃ kāṃsyavarṇaṃ viśobhanam ||

331.1३३१.१

ब्राह्म एव । (३३१।१)

brāhma eva |

331.2३३१.२

कूर्मस् तथोन्नतः पृष्ठे वर्तुलावर्तपूरितः । (३३१।२)

kūrmas tathonnataḥ pṛṣṭhe vartulāvartapūritaḥ |

331.3३३१.३

हरितं वर्णम् आधत्ते कौस्तुभेन च चिह्नितः ॥ (३३१।३)

haritaṃ varṇam ādhatte kaustubhena ca cihnitaḥ ||

332.1३३२.१

पाद्मे च तत्रैव । (३३२।१)

pādme ca tatraiva |

332.2३३२.२

कूर्माकारा च चक्राङ्का शिला कूर्मः प्रकीर्तितः ॥ (३३२।२)

kūrmākārā ca cakrāṅkā śilā kūrmaḥ prakīrtitaḥ ||

333.1३३३.१

ब्राह्म एव । (३३३।१)

brāhma eva |

333.2३३३.२

हयग्रीवो ऽङ्कुशाकारो रेखा चक्रसमीपगाः । (३३३।२)

hayagrīvo 'ṅkuśākāro rekhā cakrasamīpagāḥ |

333.3३३३.३

बहुचक्रसमायुक्तं पृष्ठे नीरदनीलकम् ॥ (३३३।३)

bahucakrasamāyuktaṃ pṛṣṭhe nīradanīlakam ||

334.1३३४.१

क्वचिच् च । (३३४।१)

kvacic ca |

334.2३३४.२

हयग्रीवाङ्कुशाकारे रेखाः पञ्च भवन्ति हि । (३३४।२)

hayagrīvāṅkuśākāre rekhāḥ pañca bhavanti hi |

334.3३३४.३

बहुबिन्दुसमाकीर्णे दृश्यन्ते नीलरूपकाः ॥ (३३४।३)

bahubindusamākīrṇe dṛśyante nīlarūpakāḥ ||

335.1३३५.१

पाद्मे च तत्रैव । (३३५।१)

pādme ca tatraiva |

335.2३३५.२

हायग्रीवा यथा लम्बा रेखाङ्का या शिला भवेत् । (३३५।२)

hāyagrīvā yathā lambā rekhāṅkā yā śilā bhavet |

335.3३३५.३

तथासौ स्याद्धयग्रीवः पूजितो ज्ञानदो भवेत् ॥ (३३५।३)

tathāsau syāddhayagrīvaḥ pūjito jñānado bhavet ||

336.1३३६.१

किंच । (३३६।१)

kiṃca |

336.2३३६.२

अश्वाकृति मुखं यस्य साक्षमालं शिरस् तथा । (३३६।२)

aśvākṛti mukhaṃ yasya sākṣamālaṃ śiras tathā |

336.3३३६.३

पद्माकृतिर् भवेद् वापि हयशीर्षस् त्व् असौ मतः ॥ (३३६।३)

padmākṛtir bhaved vāpi hayaśīrṣas tv asau mataḥ ||

337.1३३७.१

ब्राह्मे एव । (३३७।१)

brāhme eva |

337.2३३७.२

वैकुण्ठम् मणिवर्णाभं चक्रम् एकं तथा ध्वजम् । (३३७।२)

vaikuṇṭham maṇivarṇābhaṃ cakram ekaṃ tathā dhvajam |

337.3३३७.३

द्वारोपरि तथा रेखा पद्माकारा सुशोभना ॥ (३३७।३)

dvāropari tathā rekhā padmākārā suśobhanā ||

338.1३३८.१

श्रीधरस् तु तथा देवश् चिह्नितो वनमालया । (३३८।१)

śrīdharas tu tathā devaś cihnito vanamālayā |

338.2३३८.२

कदम्बकुसुमाकारो रेखापञ्चकभूषितः ॥ (३३८।२)

kadambakusumākāro rekhāpañcakabhūṣitaḥ ||

339.1३३९.१

वर्तुलश् चातिह्रस्वश् च वामनः परिकीर्तितः । (३३९।१)

vartulaś cātihrasvaś ca vāmanaḥ parikīrtitaḥ |

339.2३३९.२

अतसीकुसुमप्रख्यो बिन्दुना परिशोभितः ॥ (३३९।२)

atasīkusumaprakhyo bindunā pariśobhitaḥ ||

340.1३४०.१

अन्यत्र च । (३४०।१)

anyatra ca |

340.2३४०.२

वामनाख्यो भवेद् देवो ह्रस्वो यः स्यान् महाद्युतिः । (३४०।२)

vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ |

340.3३४०.३

ऊर्ध्वचक्रस् त्व् अधश्चक्रः सो ऽभीष्टार्थप्रदो ऽर्चितः ॥ (३४०।३)

ūrdhvacakras tv adhaścakraḥ so 'bhīṣṭārthaprado 'rcitaḥ ||

341.1३४१.१

ब्राह्मे एव । (३४१।१)

brāhme eva |

341.2३४१.२

सुदर्शनस् तथा देवः श्यामवर्णो महाद्युतिः । (३४१।२)

sudarśanas tathā devaḥ śyāmavarṇo mahādyutiḥ |

341.3३४१.३

वामपार्श्वे गदाचक्रे रेखे चैव तु दक्षिणे ॥ (३४१।३)

vāmapārśve gadācakre rekhe caiva tu dakṣiṇe ||

342.1३४२.१

पाद्मे कार्त्तिकमाहात्म्ये । (३४२।१)

pādme kārttikamāhātmye |

342.2३४२.२

चक्राकारेण पङ्क्तिः सा यत्र रेखामयी भवेत् । (३४२।२)

cakrākāreṇa paṅktiḥ sā yatra rekhāmayī bhavet |

342.3३४२.३

स सुदर्शन इत्य् एवं ख्यातः पूजाफलप्रदः ॥ (३४२।३)

sa sudarśana ity evaṃ khyātaḥ pūjāphalapradaḥ ||

343.1३४३.१

ब्राह्मे । (३४३।१)

brāhme |

343.2३४३.२

दामोदरस् तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् । (३४३।२)

dāmodaras tathā sthūlo madhye cakraṃ pratiṣṭhitam |

343.3३४३.३

दूर्वाभं द्वारसंकीर्णं पीता रेखा तथैव च ॥ (३४३।३)

dūrvābhaṃ dvārasaṃkīrṇaṃ pītā rekhā tathaiva ca ||

344.1३४४.१

पाद्मे च तत्रैव । (३४४।१)

pādme ca tatraiva |

344.2३४४.२

उपर्यधश् च चक्रे द्वे नातिदीर्घं मुखे बिलम् । (३४४।२)

uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam |

344.3३४४.३

चक्रे च रेखा लम्बैका स च दामोदरः स्मृतः ॥ (३४४।३)

cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ ||

345.1३४५.१

अन्यत्र च । (३४५।१)

anyatra ca |

345.2३४५.२

स्थूलो दामोदरो ज्ञेयः सूक्ष्मरन्ध्रो भवेत् तु यः । (३४५।२)

sthūlo dāmodaro jñeyaḥ sūkṣmarandhro bhavet tu yaḥ |

345.3३४५.३

चक्रे च मध्यदेशस्थे पूजितः सुखदः सदा ॥ (३४५।३)

cakre ca madhyadeśasthe pūjitaḥ sukhadaḥ sadā ||

346.1३४६.१

नानावर्णो ह्य् अनन्ताख्यो नागभोगेन चिह्नितः । (३४६।१)

nānāvarṇo hy anantākhyo nāgabhogena cihnitaḥ |

346.2३४६.२

अनन्तः स तु विज्ञेयः सर्वपूजाफलप्रदः ॥ (३४६।२)

anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ ||

347.1३४७.१

पाद्मे च तत्रैव । (३४७।१)

pādme ca tatraiva |

347.2३४७.२

अनन्तचक्रो बहुभिश् चिह्नैर् अप्य् उपलक्षितः । (३४७।२)

anantacakro bahubhiś cihnair apy upalakṣitaḥ |

347.3३४७.३

अनन्तः स तु विज्ञेयः सर्वपूजाफलप्रदः ॥ (३४७।३)

anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ ||

348.1३४८.१

दृश्यते शिखरे लिङ्गं शालग्रामसमुद्भवम् । (३४८।१)

dṛśyate śikhare liṅgaṃ śālagrāmasamudbhavam |

348.2३४८.२

यस्य योगेश्वरो नाम ब्रह्महत्यां व्यपोहति ॥ (३४८।२)

yasya yogeśvaro nāma brahmahatyāṃ vyapohati ||

349.1३४९.१

आरक्तः पद्मनाभाख्यं पङ्कजच्छत्रसंयुतम् । (३४९।१)

āraktaḥ padmanābhākhyaṃ paṅkajacchatrasaṃyutam |

349.2३४९.२

तुलस्या पूजयेन् नित्यं दरिद्रस् त्व् ईश्वरो भवेत् ॥ (३४९।२)

tulasyā pūjayen nityaṃ daridras tv īśvaro bhavet ||

350.1३५०.१

चन्द्राकृतिं हिरण्याख्यं रश्मिजालं विनिर्दिशेत् । (३५०।१)

candrākṛtiṃ hiraṇyākhyaṃ raśmijālaṃ vinirdiśet |

350.2३५०.२

सुवर्णरेखाबहुलं स्फटिकद्युतिशोभितम् ॥ (३५०।२)

suvarṇarekhābahulaṃ sphaṭikadyutiśobhitam ||

351.1३५१.१

किंच । (३५१।१)

kiṃca |

351.2३५१.२

अर्धचन्द्राकृतिर् देवो हृषीकेश उदाहृतः । (३५१।२)

ardhacandrākṛtir devo hṛṣīkeśa udāhṛtaḥ |

351.3३५१.३

तम् अर्च्य लभते स्वर्गं विषयांश् च समीहितान् ॥ (३५१।३)

tam arcya labhate svargaṃ viṣayāṃś ca samīhitān ||

352.1३५२.१

वामपार्श्वे समे चक्रे कृष्णवर्णः स बिन्दुकः । (३५२।१)

vāmapārśve same cakre kṛṣṇavarṇaḥ sa bindukaḥ |

352.2३५२.२

लक्ष्मीनृसिंहो विख्यातो भुक्तिमुक्तिफलप्रदः ॥ (३५२।२)

lakṣmīnṛsiṃho vikhyāto bhuktimuktiphalapradaḥ ||

353.1३५३.१

त्रिविक्रमस् तथा देवः श्यामवर्णो महाद्युतिः । (३५३।१)

trivikramas tathā devaḥ śyāmavarṇo mahādyutiḥ |

353.2३५३.२

वामपार्श्वे तथा चक्रे रेखा चैव तु दक्षिणे ॥ (३५३।२)

vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe ||

354.1३५४.१

प्रदक्षिणावर्तकृतवनमालाविभूषिता । (३५४।१)

pradakṣiṇāvartakṛtavanamālāvibhūṣitā |

354.2३५४.२

या शिला कृष्णसंज्ञा सा धनधान्यसुखप्रदा ॥ (३५४।२)

yā śilā kṛṣṇasaṃjñā sā dhanadhānyasukhapradā ||

355.1३५५.१

गौतमीये । (३५५।१)

gautamīye |

355.2३५५.२

बहुभिर् जन्मभिः पुण्यैर् यदि कृष्णशिलां लभेत् । (३५५।२)

bahubhir janmabhiḥ puṇyair yadi kṛṣṇaśilāṃ labhet |

355.3३५५.३

गोष्पदेन तु चिह्नेन जनुस् तेन समाप्यते ॥ (३५५।३)

goṣpadena tu cihnena janus tena samāpyate ||

356.1३५६.१

चतस्रो यत्र दृश्यन्ते रेखाः पार्श्वसमीपगाः । (३५६।१)

catasro yatra dṛśyante rekhāḥ pārśvasamīpagāḥ |

356.2३५६.२

द्वे चक्रे मध्यदेशे तु सा शिला तु चतुर्मुखा ॥ (३५६।२)

dve cakre madhyadeśe tu sā śilā tu caturmukhā ||

357.1३५७.१

किंच पाद्मे तत्रैव । (३५७।१)

kiṃca pādme tatraiva |

357.2३५७.२

वज्रकीटोद्भवा रेखाः पङ्क्तीभूताश् च यत्र वै । (३५७।२)

vajrakīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai |

357.3३५७.३

शालग्रामशिला या सा विष्णुपञ्जरसंज्ञिता ॥ (३५७।३)

śālagrāmaśilā yā sā viṣṇupañjarasaṃjñitā ||

358.1३५८.१

नागवत् कुण्डलीभूतरेखापङ्क्तिः स शेषकः । (३५८।१)

nāgavat kuṇḍalībhūtarekhāpaṅktiḥ sa śeṣakaḥ |

358.2३५८.२

पद्माकारे च पङ्क्ती द्वे मध्ये लम्बा च रेखिका । (३५८।२)

padmākāre ca paṅktī dve madhye lambā ca rekhikā |

358.3३५८.३

गरुडः स तु विज्ञेयश् चतुश्चक्रो जनार्दनः ॥ (३५८।३)

garuḍaḥ sa tu vijñeyaś catuścakro janārdanaḥ ||

359.1३५९.१

चतुश्चक्रः सूक्ष्मद्वारो वनमालाङ्कितोदरः । (३५९।१)

catuścakraḥ sūkṣmadvāro vanamālāṅkitodaraḥ |

359.2३५९.२

लक्ष्मीनारायणः श्रीमान् भुक्तिमुक्तिफलप्रदः ॥ (३५९।२)

lakṣmīnārāyaṇaḥ śrīmān bhuktimuktiphalapradaḥ ||

360.1३६०.१

एतल्लक्षणयुक्तास् तु शालग्रामशिलाः शुभाः । (३६०।१)

etallakṣaṇayuktās tu śālagrāmaśilāḥ śubhāḥ |

360.2३६०.२

याश् च तास्व् अपि सूक्ष्माः स्युस् ताः प्रशस्तकराः स्मृताः ॥ (३६०।२)

yāś ca tāsv api sūkṣmāḥ syus tāḥ praśastakarāḥ smṛtāḥ ||

361.1३६१.१

तथा च श्रीभगवद्ब्रह्मसंवादे तत्रैव । (३६१।१)

tathā ca śrībhagavadbrahmasaṃvāde tatraiva |

361.2३६१.२

यथा यथा शिला सूक्ष्मा महत् पुण्यं तथा तथा । (३६१।२)

yathā yathā śilā sūkṣmā mahat puṇyaṃ tathā tathā |

361.3३६१.३

तस्मात् तां पूजयेन् नित्यं धर्मकामार्थसिद्धये ॥ (३६१।३)

tasmāt tāṃ pūjayen nityaṃ dharmakāmārthasiddhaye ||

362.1३६२.१

तत्राप्य् आमलकीतुल्या सूक्ष्मा चातीव या भवेत् । (३६२।१)

tatrāpy āmalakītulyā sūkṣmā cātīva yā bhavet |

362.2३६२.२

तस्याम् एव सदा ब्रह्मन् श्रिया सह वसाम्य् अहम् ॥ (३६२।२)

tasyām eva sadā brahman śriyā saha vasāmy aham ||

363.1३६३.१

अथ श्रीशालग्रामशिलामाहात्म्यम्शालग्रामशिलास्पर्शात् कोटिजन्माघनाशनम् । (३६३।१)

atha śrīśālagrāmaśilāmāhātmyamśālagrāmaśilāsparśāt koṭijanmāghanāśanam |

363.2३६३.२

किं पुनर् यजनं तत्र हरिसान्निध्यकारकम् ॥ (३६३।२)

kiṃ punar yajanaṃ tatra harisānnidhyakārakam ||

364.1३६४.१

पाद्मे माघमाहात्म्ये तत्रैव । (३६४।१)

pādme māghamāhātmye tatraiva |

364.2३६४.२

यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे । (३६४।२)

yaḥ pūjayeddhariṃ cakre śālagrāmaśilodbhave |

364.3३६४.३

राजसूयसहस्रेण तेनेष्टं प्रतिवासरम् ॥ (३६४।३)

rājasūyasahasreṇa teneṣṭaṃ prativāsaram ||

365.1३६५.१

यद् आमनन्ति वेदान्ता ब्रह्म निर्गुणम् अच्युतम् । (३६५।१)

yad āmananti vedāntā brahma nirguṇam acyutam |

365.2३६५.२

तत्प्रसादो भवेन् नृणां शालग्रामशिलार्चनात् ॥ (३६५।२)

tatprasādo bhaven nṛṇāṃ śālagrāmaśilārcanāt ||

366.1३६६.१

महाकाष्ठस्थितो वह्निर् मथ्यमानः प्रकाशते । (३६६।१)

mahākāṣṭhasthito vahnir mathyamānaḥ prakāśate |

366.2३६६.२

यथा तथा हरिर् व्यापी शालग्रामे प्रकाशते ॥ (३६६।२)

yathā tathā harir vyāpī śālagrāme prakāśate ||

367.1३६७.१

अपि पापसमाचाराः कर्मण्य् अनधिकारिणः । (३६७।१)

api pāpasamācārāḥ karmaṇy anadhikāriṇaḥ |

367.2३६७.२

शालग्रामार्चका वैश्य नैव यान्ति यमालयम् ॥ (३६७।२)

śālagrāmārcakā vaiśya naiva yānti yamālayam ||

368.1३६८.१

न तथा रमते लक्ष्म्यां न तथा निजमन्दिरे । (३६८।१)

na tathā ramate lakṣmyāṃ na tathā nijamandire |

368.2३६८.२

शालग्रामशिलाचक्रे यथा स रमते सदा ॥ (३६८।२)

śālagrāmaśilācakre yathā sa ramate sadā ||

369.1३६९.१

अग्निहोत्रं हुतं तेन दत्ता पृथ्वी ससागरा । (३६९।१)

agnihotraṃ hutaṃ tena dattā pṛthvī sasāgarā |

369.2३६९.२

येनार्चितो हरिश् चक्रे शालग्रामशिलोद्भवे ॥ (३६९।२)

yenārcito hariś cakre śālagrāmaśilodbhave ||

370.1३७०.१

कामैः क्रोधैः प्रलोभैश् च व्याप्तो यो ऽत्र नराधमः । (३७०।१)

kāmaiḥ krodhaiḥ pralobhaiś ca vyāpto yo 'tra narādhamaḥ |

370.2३७०.२

सो ऽपि याति हरेर् लोकं शालग्रामशिलार्चनात् ॥ (३७०।२)

so 'pi yāti harer lokaṃ śālagrāmaśilārcanāt ||

371.1३७१.१

यः पूजयति गोविन्दं शालग्रामे सदा नरः । (३७१।१)

yaḥ pūjayati govindaṃ śālagrāme sadā naraḥ |

371.2३७१.२

आहूतसम्प्लवं यावत् न स प्रच्यवते दिवः ॥ (३७१।२)

āhūtasamplavaṃ yāvat na sa pracyavate divaḥ ||

372.1३७२.१

विना तीर्थैर् विना दानैर् विना यज्ञैर् विना मतिम् । (३७२।१)

vinā tīrthair vinā dānair vinā yajñair vinā matim |

372.2३७२.२

मुक्तिं याति नरो वैश्य शालग्रामशिलार्चनात् ॥ (३७२।२)

muktiṃ yāti naro vaiśya śālagrāmaśilārcanāt ||

373.1३७३.१

नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम् । (३७३।१)

narakaṃ garbhavāsaṃ ca tiryaktvaṃ kṛmiyonitām |

373.2३७३.२

न याति वैश्य पापो ऽपि शालग्रामेऽच्युतार्चकः ॥ (३७३।२)

na yāti vaiśya pāpo 'pi śālagrāme'cyutārcakaḥ ||

374.1३७४.१

दीक्षाविधानमन्त्रज्ञश् चक्रे यो बलिम् आहरेत् । (३७४।१)

dīkṣāvidhānamantrajñaś cakre yo balim āharet |

374.2३७४.२

स याति वैष्णवं धाम सत्यं सत्यं मयोदितम् ॥ (३७४।२)

sa yāti vaiṣṇavaṃ dhāma satyaṃ satyaṃ mayoditam ||

375.1३७५.१

नैवेद्यैर् विविधैः पुष्पैर् धूपैर् दीपैर् विलेपनैः । (३७५।१)

naivedyair vividhaiḥ puṣpair dhūpair dīpair vilepanaiḥ |

375.2३७५.२

गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम् ॥ (३७५।२)

gītavāditrastotrādyaiḥ śālagrāmaśilārcanam ||

376.1३७६.१

कुरुते मानवो यस् तु कलौ भक्तिपरायणः । (३७६।१)

kurute mānavo yas tu kalau bhaktiparāyaṇaḥ |

376.2३७६.२

कल्पकोटिसहस्राणि रमते सन्निधौ हरेः ॥ (३७६।२)

kalpakoṭisahasrāṇi ramate sannidhau hareḥ ||

377.1३७७.१

लिङ्गैस् तु कोटिभिर् दृष्टैर् यत् फलं पूजितैस् तु तैः । (३७७।१)

liṅgais tu koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ |

377.2३७७.२

शालग्रामशिलायां तु एकेनापीह तत् फलम् ॥ (३७७।२)

śālagrāmaśilāyāṃ tu ekenāpīha tat phalam ||

378.1३७८.१

शालग्रामशिलारूपी यत्र तिष्ठति केशवः । (३७८।१)

śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ |

378.2३७८.२

तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥ (३७८।२)

tatra devāsurā yakṣā bhuvanāni caturdaśa ||

379.1३७९.१

शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः । (३७९।१)

śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ |

379.2३७९.२

पितरस् तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि ॥ (३७९।२)

pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi ||

380.1३८०.१

शालग्रामशिला यत्र तत्तीर्थं योजनत्रयम् । (३८०।१)

śālagrāmaśilā yatra tattīrthaṃ yojanatrayam |

380.2३८०.२

यत्र दानं जपो होमः सर्वं कोटिगुणं भवेत् ॥ (३८०।२)

yatra dānaṃ japo homaḥ sarvaṃ koṭiguṇaṃ bhavet ||

381.1३८१.१

शालग्रामसमीपे तु क्रोशमात्रं समन्ततः । (३८१।१)

śālagrāmasamīpe tu krośamātraṃ samantataḥ |

381.2३८१.२

कीकटो ऽपि मृतो याति वैकुण्ठभवनं नर ॥ (३८१।२)

kīkaṭo 'pi mṛto yāti vaikuṇṭhabhavanaṃ nara ||

382.1३८२.१

शालग्रामशिलाचक्रं यो दद्याद् दानम् उत्तमम् । (३८२।१)

śālagrāmaśilācakraṃ yo dadyād dānam uttamam |

382.2३८२.२

भूचक्रं तेन दत्तं स्यात् सशैलवनकाननम् ॥ (३८२।२)

bhūcakraṃ tena dattaṃ syāt saśailavanakānanam ||

383.1३८३.१

स्कान्दे कार्त्तिकमाहात्म्ये श्रीशिवस्कन्दसंवादे । (३८३।१)

skānde kārttikamāhātmye śrīśivaskandasaṃvāde |

383.2३८३.२

शालग्रामशिलायां तु त्रैलोक्यं सचराचरम् । (३८३।२)

śālagrāmaśilāyāṃ tu trailokyaṃ sacarācaram |

383.3३८३.३

मया सह महासेन लीनं तिष्ठति सर्वदा ॥ (३८३।३)

mayā saha mahāsena līnaṃ tiṣṭhati sarvadā ||

384.1३८४.१

दृषा प्रणमिता येन स्नापिता पूजिता तथा । (३८४।१)

dṛṣā praṇamitā yena snāpitā pūjitā tathā |

384.2३८४.२

यज्ञकोटिसमं पुण्यं गवां कोटिफलं लभेत् ॥ (३८४।२)

yajñakoṭisamaṃ puṇyaṃ gavāṃ koṭiphalaṃ labhet ||

385.1३८५.१

कामासक्तो ऽपि यो नित्यं भक्तिभावविवर्जितः । (३८५।१)

kāmāsakto 'pi yo nityaṃ bhaktibhāvavivarjitaḥ |

385.2३८५.२

शालग्रामशिलां विप्र सम्पूज्यैवाच्युतो भवेत् ॥ (३८५।२)

śālagrāmaśilāṃ vipra sampūjyaivācyuto bhavet ||

386.1३८६.१

शालग्रामशिलाबिम्बं हत्याकोटिविनाशनम् । (३८६।१)

śālagrāmaśilābimbaṃ hatyākoṭivināśanam |

386.2३८६.२

स्मृतं संकीर्तितं ध्यातं पूजितं च नमस्कृतम् ॥ (३८६।२)

smṛtaṃ saṃkīrtitaṃ dhyātaṃ pūjitaṃ ca namaskṛtam ||

387.1३८७.१

शालग्रामशिलां दृष्ट्वा यान्ति पापान्य् अनेकशः । (३८७।१)

śālagrāmaśilāṃ dṛṣṭvā yānti pāpāny anekaśaḥ |

387.2३८७.२

सिंहं दृष्ट्वा यथा यान्ति वने मृगगणा भयात् ॥ (३८७।२)

siṃhaṃ dṛṣṭvā yathā yānti vane mṛgagaṇā bhayāt ||

388.1३८८.१

नमस्करोति मनुजः शालग्रामशिलार्चने । (३८८।१)

namaskaroti manujaḥ śālagrāmaśilārcane |

388.2३८८.२

पापानि विलयं यान्ति तमः सूर्योदये यथा ॥ (३८८।२)

pāpāni vilayaṃ yānti tamaḥ sūryodaye yathā ||

389.1३८९.१

कामासक्तो ऽथवा क्रुद्धः शालग्रामशिलार्चनम् । (३८९।१)

kāmāsakto 'thavā kruddhaḥ śālagrāmaśilārcanam |

389.2३८९.२

भक्त्या वा यदि वाभक्त्या कृत्वा मुक्तिम् अवाप्नुयात् ॥ (३८९।२)

bhaktyā vā yadi vābhaktyā kṛtvā muktim avāpnuyāt ||

390.1३९०.१

वैवस्वतं भयं नास्ति तथा मरणजन्मनोः । (३९०।१)

vaivasvataṃ bhayaṃ nāsti tathā maraṇajanmanoḥ |

390.2३९०.२

यः कथां कुरुते विष्णोः शालग्रामशिलाग्रतः ॥ (३९०।२)

yaḥ kathāṃ kurute viṣṇoḥ śālagrāmaśilāgrataḥ ||

391.1३९१.१

गीतैर् वाद्यैस् तथा स्तोत्रैः शालग्रामशिलार्चनम् । (३९१।१)

gītair vādyais tathā stotraiḥ śālagrāmaśilārcanam |

391.2३९१.२

कुरुते मानवो यस् तु कलौ भक्तिपरायणः । (३९१।२)

kurute mānavo yas tu kalau bhaktiparāyaṇaḥ |

391.3३९१.३

कल्पकोटिसहस्राणि रमते विष्णुसद्मनि ॥ (३९१।३)

kalpakoṭisahasrāṇi ramate viṣṇusadmani ||

392.1३९२.१

शालग्रामनमस्कारेऽभावेनापि नरैः कृते । (३९२।१)

śālagrāmanamaskāre'bhāvenāpi naraiḥ kṛte |

392.2३९२.२

भयं नैव करिष्यन्ति मद्भक्ता ये नरा भुवि ॥ (३९२।२)

bhayaṃ naiva kariṣyanti madbhaktā ye narā bhuvi ||

393.1३९३.१

मद्भक्तिबलदर्पिष्ठा मत्प्रभुं न नमन्ति ये । (३९३।१)

madbhaktibaladarpiṣṭhā matprabhuṃ na namanti ye |

393.2३९३.२

वासुदेवं न ते ज्ञेया मद्भक्ताः पापिनो हि ते ॥ (३९३।२)

vāsudevaṃ na te jñeyā madbhaktāḥ pāpino hi te ||

394.1३९४.१

शालग्रामशिलायां तु सदा पुत्र वसाम्य् अहम् । (३९४।१)

śālagrāmaśilāyāṃ tu sadā putra vasāmy aham |

394.2३९४.२

दत्तं देवेन तुष्टेन स्वस्थानं मम भक्तितः ॥ (३९४।२)

dattaṃ devena tuṣṭena svasthānaṃ mama bhaktitaḥ ||

395.1३९५.१

पद्मकोटिसहस्रैस् तु पूजिते मयि यत् फलम् । (३९५।१)

padmakoṭisahasrais tu pūjite mayi yat phalam |

395.2३९५.२

तत् फलं कोटिगुणितं शालग्रामशिलार्चने ॥ (३९५।२)

tat phalaṃ koṭiguṇitaṃ śālagrāmaśilārcane ||

396.1३९६.१

पूजितो ऽहं न तैर् मर्त्यैर् नमितो ऽहं न तैर् नरैः । (३९६।१)

pūjito 'haṃ na tair martyair namito 'haṃ na tair naraiḥ |

396.2३९६.२

न कृतं मर्त्यलोके यैः शालग्रामशिलार्चनम् ॥ (३९६।२)

na kṛtaṃ martyaloke yaiḥ śālagrāmaśilārcanam ||

397.1३९७.१

शालग्रामशिलाग्रे तु यः करोति ममार्चनम् । (३९७।१)

śālagrāmaśilāgre tu yaḥ karoti mamārcanam |

397.2३९७.२

तेनार्चितो ऽहं सततं युगानाम् एकविंशतिम् ॥ (३९७।२)

tenārcito 'haṃ satataṃ yugānām ekaviṃśatim ||

398.1३९८.१

किम् अर्चितैर् लिङ्गशतैर् विष्णुभक्तिविवर्जितैः । (३९८।१)

kim arcitair liṅgaśatair viṣṇubhaktivivarjitaiḥ |

398.2३९८.२

शालग्रामशिलाबिम्बं नार्चितं यदि पुत्रक ॥ (३९८।२)

śālagrāmaśilābimbaṃ nārcitaṃ yadi putraka ||

399.1३९९.१

अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् । (३९९।१)

anarhaṃ mama naivedyaṃ patraṃ puṣpaṃ phalaṃ jalam |

399.2३९९.२

शालग्रामशिलालग्नं सर्वं याति पवित्रताम् ॥ (३९९।२)

śālagrāmaśilālagnaṃ sarvaṃ yāti pavitratām ||

400.1४००.१

यो हि माहेश्वरो भूत्वा वैष्णवलिङ्गम् उत्तमम् । (४००।१)

yo hi māheśvaro bhūtvā vaiṣṇavaliṅgam uttamam |

400.2४००.२

द्वेष्टि वै याति नरकं यावद् इन्द्राश् चतुर्दश ॥ (४००।२)

dveṣṭi vai yāti narakaṃ yāvad indrāś caturdaśa ||

401.1४०१.१

सकृद् अप्य् अर्चिते बिम्बे शालग्रामशिलोद्भवे । (४०१।१)

sakṛd apy arcite bimbe śālagrāmaśilodbhave |

401.2४०१.२

मुक्तिं प्रयान्ति मनुजा नूनं साङ्ख्येन वर्जिताः ॥ (४०१।२)

muktiṃ prayānti manujā nūnaṃ sāṅkhyena varjitāḥ ||

402.1४०२.१

मल्लिङ्गैः कोटिभिर् दृष्टैर् यत् फलं पूजितैस् तु तैः । (४०२।१)

malliṅgaiḥ koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ |

402.2४०२.२

शालग्रामशिलायां तु एकेनापि हि तद् भवेत् ॥ (४०२।२)

śālagrāmaśilāyāṃ tu ekenāpi hi tad bhavet ||

403.1४०३.१

तस्माद् भक्त्या च मद्भक्तैः प्रीत्यर्थे मम पुत्रक । (४०३।१)

tasmād bhaktyā ca madbhaktaiḥ prītyarthe mama putraka |

403.2४०३.२

कर्तव्यं सततं भक्त्या शालग्रामशिलार्चनम् ॥ (४०३।२)

kartavyaṃ satataṃ bhaktyā śālagrāmaśilārcanam ||

404.1४०४.१

शालग्रामशिलारूपी यत्र तिष्ठति केशवः । (४०४।१)

śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ |

404.2४०४.२

तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥ (४०४।२)

tatra devāsurā yakṣā bhuvanāni caturdaśa ||

405.1४०५.१

शालग्रामशिलाग्रे तु सकृत् पिण्डेन तर्पिताः । (४०५।१)

śālagrāmaśilāgre tu sakṛt piṇḍena tarpitāḥ |

405.2४०५.२

वसन्ति पितरस् तस्य न सङ्ख्या तत्र विद्यते ॥ (४०५।२)

vasanti pitaras tasya na saṅkhyā tatra vidyate ||

406.1४०६.१

प्रमाणम् अस्ति सर्वस्य सुकृतस्य हि पुत्रक । (४०६।१)

pramāṇam asti sarvasya sukṛtasya hi putraka |

406.2४०६.२

फलं प्रमाणहीनं तु शालग्रामशिलार्चने ॥ (४०६।२)

phalaṃ pramāṇahīnaṃ tu śālagrāmaśilārcane ||

407.1४०७.१

यो ददाति शिलां विष्णोः शालग्रामसमुद्भवाम् । (४०७।१)

yo dadāti śilāṃ viṣṇoḥ śālagrāmasamudbhavām |

407.2४०७.२

विप्राय विष्णुभक्ताय तेनेष्टं बहुभिः मखैः ॥ (४०७।२)

viprāya viṣṇubhaktāya teneṣṭaṃ bahubhiḥ makhaiḥ ||

408.1४०८.१

मानुष्ये दुर्लभा लोके शालग्रामोद्भवा शिला । (४०८।१)

mānuṣye durlabhā loke śālagrāmodbhavā śilā |

408.2४०८.२

प्राप्यते न विना पुण्यैः कलिकाले विशेषतः ॥ (४०८।२)

prāpyate na vinā puṇyaiḥ kalikāle viśeṣataḥ ||

409.1४०९.१

स धन्यः पुरुषो लोके सफलं तस्य जीवितम् । (४०९।१)

sa dhanyaḥ puruṣo loke saphalaṃ tasya jīvitam |

409.2४०९.२

शालग्रामशिला शुद्धा गृहे यस्य च पूजिता ॥ (४०९।२)

śālagrāmaśilā śuddhā gṛhe yasya ca pūjitā ||

410.1४१०.१

संनियम्येन्द्रियग्रामं शालग्रामशिलार्चनम् । (४१०।१)

saṃniyamyendriyagrāmaṃ śālagrāmaśilārcanam |

410.2४१०.२

यः कुर्यान् मानवो भक्त्या पुष्पे पुष्पेऽश्वमेधभाक् ॥ (४१०।२)

yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedhabhāk ||

411.1४११.१

काले वा यदि वाकाले शालग्रामशिलार्चनम् । (४११।१)

kāle vā yadi vākāle śālagrāmaśilārcanam |

411.2४११.२

भक्त्या वा यदि वाभक्त्या यः करोति स पुण्यभाक् ॥ (४११।२)

bhaktyā vā yadi vābhaktyā yaḥ karoti sa puṇyabhāk ||

412.1४१२.१

द्वेषेणापि च लोभेन दम्भेन कपटेन वा । (४१२।१)

dveṣeṇāpi ca lobhena dambhena kapaṭena vā |

412.2४१२.२

शालग्रामोद्भवं देवं दृष्ट्वा पापात् प्रमुच्यते ॥ (४१२।२)

śālagrāmodbhavaṃ devaṃ dṛṣṭvā pāpāt pramucyate ||

413.1४१३.१

अशुचिर् वा दुराचारः सत्यशौचविवर्जितः । (४१३।१)

aśucir vā durācāraḥ satyaśaucavivarjitaḥ |

413.2४१३.२

शालग्रामशिलां स्पृष्ट्वा सद्य एव शुचिर् भवेत् ॥ (४१३।२)

śālagrāmaśilāṃ spṛṣṭvā sadya eva śucir bhavet ||

414.1४१४.१

तिलप्रस्थशतं भक्त्या यो ददाति दिने दिने । (४१४।१)

tilaprasthaśataṃ bhaktyā yo dadāti dine dine |

414.2४१४.२

तत् फलं समवाप्नोति शालग्रामशिलार्चने ॥ (४१४।२)

tat phalaṃ samavāpnoti śālagrāmaśilārcane ||

415.1४१५.१

पत्रं पुष्पं फलं मूलं तोयं दूर्वाक्षतं सुत । (४१५।१)

patraṃ puṣpaṃ phalaṃ mūlaṃ toyaṃ dūrvākṣataṃ suta |

415.2४१५.२

जायते मेरुणा तुल्यं शालग्रामशिलार्पितम् ॥ (४१५।२)

jāyate meruṇā tulyaṃ śālagrāmaśilārpitam ||

416.1४१६.१

विधिहीनो ऽपि यः कुर्यात् क्रियामन्त्रविवर्जितः । (४१६।१)

vidhihīno 'pi yaḥ kuryāt kriyāmantravivarjitaḥ |

416.2४१६.२

चक्रपूजाम् अवाप्नोति सम्यक् शास्त्रोदितं फलम् ॥ (४१६।२)

cakrapūjām avāpnoti samyak śāstroditaṃ phalam ||

417.1४१७.१

तत्रैव चान्यत्र । (४१७।१)

tatraiva cānyatra |

417.2४१७.२

स्कन्धे कृत्वा तु यो ऽध्वानं वहते शैलनायकम् । (४१७।२)

skandhe kṛtvā tu yo 'dhvānaṃ vahate śailanāyakam |

417.3४१७.३

तेनोढं तु भवेत् सर्वं त्रैलोक्यं सचराचरम् ॥ (४१७।३)

tenoḍhaṃ tu bhavet sarvaṃ trailokyaṃ sacarācaram ||

418.1४१८.१

ब्रह्महत्यादिकं पापं यत् किंचित् कुरुते नरः । (४१८।१)

brahmahatyādikaṃ pāpaṃ yat kiṃcit kurute naraḥ |

418.2४१८.२

तत् सर्वं निर्दहत्य् आशु शालग्रामशिलार्चनम् ॥ (४१८।२)

tat sarvaṃ nirdahaty āśu śālagrāmaśilārcanam ||

419.1४१९.१

न पूजनं न मन्त्राश् च न जपो न च भावना । (४१९।१)

na pūjanaṃ na mantrāś ca na japo na ca bhāvanā |

419.2४१९.२

न स्तुतिर् नोपचारश् च शालग्रामशिलार्चने ॥ (४१९।२)

na stutir nopacāraś ca śālagrāmaśilārcane ||

420.1४२०.१

शालग्रामशिला यत्र तत् तीर्थं योजनत्रयम् । (४२०।१)

śālagrāmaśilā yatra tat tīrthaṃ yojanatrayam |

420.2४२०.२

तत्र दानं च होमश् च सर्वं कोटिगुणं भवेत् ॥ (४२०।२)

tatra dānaṃ ca homaś ca sarvaṃ koṭiguṇaṃ bhavet ||

421.1४२१.१

शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः । (४२१।१)

śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ |

421.2४२१.२

पितरस् तस्य तिष्ठन्ति तृप्ताः कल्पशतं दिवि ॥ (४२१।२)

pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi ||

422.1४२२.१

शालग्रामसमीपे तु क्रोशमात्रं समन्ततः । (४२२।१)

śālagrāmasamīpe tu krośamātraṃ samantataḥ |

422.2४२२.२

कीकटो ऽपि मृतो याति वैकुण्ठभुवनं नरः ॥ (४२२।२)

kīkaṭo 'pi mṛto yāti vaikuṇṭhabhuvanaṃ naraḥ ||

423.1४२३.१

पाद्मे च । (४२३।१)

pādme ca |

423.2४२३.२

शालग्रामशिलाचक्रं यो दद्याद् दानम् उत्तमम् । (४२३।२)

śālagrāmaśilācakraṃ yo dadyād dānam uttamam |

423.3४२३.३

भूचक्रं तेन दत्तं स्यात् सशैलवनकाननम् ॥ (४२३।३)

bhūcakraṃ tena dattaṃ syāt saśailavanakānanam ||

424.1४२४.१

गरुडपुराणे । (४२४।१)

garuḍapurāṇe |

424.2४२४.२

तिष्ठन्ति नित्यं पितरो मनुष्यास् तीर्थानि गङ्गादिकपुष्कराणि । (४२४।२)

tiṣṭhanti nityaṃ pitaro manuṣyās tīrthāni gaṅgādikapuṣkarāṇi |

424.3४२४.३

यज्ञाश् च मेधा ह्य् अपि पुण्यशैलाश् चक्राङ्किता यस्य वसन्ति गेहे ॥ (४२४।३)

yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe ||

425.1४२५.१

पाद्मे कार्त्तिकमाहात्म्ये श्रीयमधूम्रकेशसंवादे । (४२५।१)

pādme kārttikamāhātmye śrīyamadhūmrakeśasaṃvāde |

425.2४२५.२

शालग्रामशिलायां तु यैर् नरैः पूजितो हरिः । (४२५।२)

śālagrāmaśilāyāṃ tu yair naraiḥ pūjito hariḥ |

425.3४२५.३

संशोध्य तेषां पापानि मुक्तये बुद्धितो भवेत् ॥ (४२५।३)

saṃśodhya teṣāṃ pāpāni muktaye buddhito bhavet ||

426.1४२६.१

कार्त्तिके मथुरायां तु सारूप्यं दिशते हरिः । (४२६।१)

kārttike mathurāyāṃ tu sārūpyaṃ diśate hariḥ |

426.2४२६.२

शालग्रामशिलायां वै पितॄन् उद्दिश्य पूजितः । (४२६।२)

śālagrāmaśilāyāṃ vai pitṝn uddiśya pūjitaḥ |

426.3४२६.३

कृष्णः समुद्धरेत् तस्य पितॄन् एतान् स्वलोकताम् ॥ (४२६।३)

kṛṣṇaḥ samuddharet tasya pitṝn etān svalokatām ||

427.1४२७.१

बृहन्नारदीये च यज्ञध्वजोपाख्यानान्ते । (४२७।१)

bṛhannāradīye ca yajñadhvajopākhyānānte |

427.2४२७.२

शालग्रामशिलारूपी यत्र तिष्ठति केशवः । (४२७।२)

śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ |

427.3४२७.३

न बाधन्तेऽसुरास् तत्र भूतवेतालकादयः ॥ (४२७।३)

na bādhante'surās tatra bhūtavetālakādayaḥ ||

428.1४२८.१

शालग्रामशिला यत्र तत्तीर्थं तत् तपोवनम् । (४२८।१)

śālagrāmaśilā yatra tattīrthaṃ tat tapovanam |

428.2४२८.२

यतः संनिहितस् तत्र भगवान् मधुसूदनः ॥ (४२८।२)

yataḥ saṃnihitas tatra bhagavān madhusūdanaḥ ||

429.1४२९.१

शालग्रामशिलास् ताश् च यदि द्वादश पूजिताः । (४२९।१)

śālagrāmaśilās tāś ca yadi dvādaśa pūjitāḥ |

429.2४२९.२

शतं वा पूजितं भक्त्या तदा स्याद् अधिकं फलम् ॥ (४२९।२)

śataṃ vā pūjitaṃ bhaktyā tadā syād adhikaṃ phalam ||

430.1४३०.१

अथ बाहुल्ये तासां फलविशेषःपाद्मे माघमाहात्म्ये देवदूतविकुण्डलसंवादे । (४३०।१)

atha bāhulye tāsāṃ phalaviśeṣaḥpādme māghamāhātmye devadūtavikuṇḍalasaṃvāde |

430.2४३०.२

शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाः । (४३०।२)

śilā dvādaśa bho vaiśya śālagrāmaśilodbhavāḥ |

430.3४३०.३

विधिवत् पूजिता येन तस्य पुण्यं वदामि ते ॥ (४३०।३)

vidhivat pūjitā yena tasya puṇyaṃ vadāmi te ||

431.1४३१.१

कोटिद्वादशलिङ्गैस् तु पूजितैः स्वर्णपङ्कजैः । (४३१।१)

koṭidvādaśaliṅgais tu pūjitaiḥ svarṇapaṅkajaiḥ |

431.2४३१.२

यत् स्याद् द्वादशकालेषु दिनेनैकेन तद् भवेत् ॥ (४३१।२)

yat syād dvādaśakāleṣu dinenaikena tad bhavet ||

432.1४३२.१

यः पुनः पूजयेद् भक्त्या शालग्रामशिलाशतम् । (४३२।१)

yaḥ punaḥ pūjayed bhaktyā śālagrāmaśilāśatam |

432.2४३२.२

उषित्वा स हरेर् लोके चक्रवर्तीह जायते ॥ (४३२।२)

uṣitvā sa harer loke cakravartīha jāyate ||

433.1४३३.१

स्कान्दे कार्त्तिकमाहात्म्ये श्रीशिवस्कन्दसंवादे । (४३३।१)

skānde kārttikamāhātmye śrīśivaskandasaṃvāde |

433.2४३३.२

द्वादशैव शिला यो वै शालग्रामसमुद्भवाः । (४३३।२)

dvādaśaiva śilā yo vai śālagrāmasamudbhavāḥ |

433.3४३३.३

अर्चयेद् वैष्णवो नित्यं तस्य पुण्यं निबोध मे ॥ (४३३।३)

arcayed vaiṣṇavo nityaṃ tasya puṇyaṃ nibodha me ||

434.1४३४.१

कोटिलिङ्गसहस्रैस् तु पूजितैर् जाह्नवीतटे । (४३४।१)

koṭiliṅgasahasrais tu pūjitair jāhnavītaṭe |

434.2४३४.२

काशीवासे युगान्य् अष्टौ दिनेनैकेन तद् भवेत् ॥ (४३४।२)

kāśīvāse yugāny aṣṭau dinenaikena tad bhavet ||

435.1४३५.१

किं पुनर् बहुना यस् तु पूजयेद् वैष्णवो नरः । (४३५।१)

kiṃ punar bahunā yas tu pūjayed vaiṣṇavo naraḥ |

435.2४३५.२

न हि ब्रह्मादयो देवाः संख्यां कुर्वन्ति पुण्यतः ॥ (४३५।२)

na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ ||

436.1४३६.१

अथ तत्क्रयविक्रयनिषेधःतत्रैव । (४३६।१)

atha tatkrayavikrayaniṣedhaḥtatraiva |

436.2४३६.२

शालग्रामशिलायां यो मूल्यम् उद्घाटयेन् नरः । (४३६।२)

śālagrāmaśilāyāṃ yo mūlyam udghāṭayen naraḥ |

436.3४३६.३

विक्रेता चानुमन्ता च यः परीक्षाम् उदीरयेत् ॥ (४३६।३)

vikretā cānumantā ca yaḥ parīkṣām udīrayet ||

437.1४३७.१

सर्वे ते नरकं यान्ति यावद् आहूतसम्प्लवम् । (४३७।१)

sarve te narakaṃ yānti yāvad āhūtasamplavam |

437.2४३७.२

अतः संवर्जयेद् विप्र चक्रस्य क्रयविक्रयम् ॥ (४३७।२)

ataḥ saṃvarjayed vipra cakrasya krayavikrayam ||

438.1४३८.१

अथ प्रतिष्ठा निषेधःतत्रैव । (४३८।१)

atha pratiṣṭhā niṣedhaḥtatraiva |

438.2४३८.२

शालग्रामशिलायां तु प्रतिष्ठा नैव विद्यते । (४३८।२)

śālagrāmaśilāyāṃ tu pratiṣṭhā naiva vidyate |

438.3४३८.३

महापूजां तु कृत्वादौ पूजयेत् तां ततो बुधः ॥ (४३८।३)

mahāpūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ ||

439.1४३९.१

अतो ऽधिष्ठानवर्गेषु सूर्यादिष्व् इव मूर्तिषु । (४३९।१)

ato 'dhiṣṭhānavargeṣu sūryādiṣv iva mūrtiṣu |

439.2४३९.२

शालग्रामशिलैव स्याद् अधिष्ठानोत्तमं हरेः ॥ (४३९।२)

śālagrāmaśilaiva syād adhiṣṭhānottamaṃ hareḥ ||

440.1४४०.१

अथ सर्वाधिष्ठानश्रैष्ठ्यम्पाद्मे तत्रैव । (४४०।१)

atha sarvādhiṣṭhānaśraiṣṭhyampādme tatraiva |

440.2४४०.२

हृदि सूर्ये जले वाथ प्रतिमास्थण्डिलेषु च । (४४०।२)

hṛdi sūrye jale vātha pratimāsthaṇḍileṣu ca |

440.3४४०.३

समभ्यर्च्य हरिं यान्ति नरास् ते वैष्णवं पदम् ॥ (४४०।३)

samabhyarcya hariṃ yānti narās te vaiṣṇavaṃ padam ||

441.1४४१.१

अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः । (४४१।१)

athavā sarvadā pūjyo vāsudevo mumukṣubhiḥ |

441.2४४१.२

शालग्रामे शिलाचक्रे वज्रकीटविनिर्मिते ॥ (४४१।२)

śālagrāme śilācakre vajrakīṭavinirmite ||

442.1४४२.१

अधिष्ठानं हि तद् विष्णोः सर्वपापप्रणाशनम् । (४४२।१)

adhiṣṭhānaṃ hi tad viṣṇoḥ sarvapāpapraṇāśanam |

442.2४४२.२

सर्वपुण्यप्रदं वैश्य सर्वेषाम् अपि मुक्तिदम् ॥ (४४२।२)

sarvapuṇyapradaṃ vaiśya sarveṣām api muktidam ||

443.1४४३.१

तत्रैव कार्त्तिकमाहात्म्ये यमधूम्रकेशसंवादे । (४४३।१)

tatraiva kārttikamāhātmye yamadhūmrakeśasaṃvāde |

443.2४४३.२

पूजा च विहिता तस्य प्रतिमायां नृपात्मज । (४४३।२)

pūjā ca vihitā tasya pratimāyāṃ nṛpātmaja |

443.3४४३.३

शैली दारुमयी लौही लेप्या लेख्या च सैकता । (४४३।३)

śailī dārumayī lauhī lepyā lekhyā ca saikatā |

443.4४४३.४

मनोमयी मणिमयी श्रीमूर्तिर् अष्टधा स्मृता ॥ (४४३।४)

manomayī maṇimayī śrīmūrtir aṣṭadhā smṛtā ||

444.1४४४.१

शालग्रामशिलायां तु साक्षात् श्रीकृष्णसेवनम् । (४४४।१)

śālagrāmaśilāyāṃ tu sākṣāt śrīkṛṣṇasevanam |

444.2४४४.२

नित्यं संनिहितस् तत्र वासुदेवो जगद्गुरुः ॥ (४४४।२)

nityaṃ saṃnihitas tatra vāsudevo jagadguruḥ ||

445.1४४५.१

स्कान्दे कार्त्तिकमाहात्म्ये श्रीशिवस्कन्दसंवादे । (४४५।१)

skānde kārttikamāhātmye śrīśivaskandasaṃvāde |

445.2४४५.२

सुवर्णार्चा न रत्नार्चा न शिलार्चा सुरोत्तम । (४४५।२)

suvarṇārcā na ratnārcā na śilārcā surottama |

445.3४४५.३

शालग्रामशिलायां तु सर्वदा वसते हरिः ॥ (४४५।३)

śālagrāmaśilāyāṃ tu sarvadā vasate hariḥ ||

446.1४४६.१

अत एवोक्तम् । (४४६।१)

ata evoktam |

446.2४४६.२

हत्यां हन्ति यदङ्घ्रिसङ्गतुलसी स्तेयं च तोयं पदे नैवेद्यं बहुमद्यपानदुरितं गुर्वङ्गनासङ्गजम् । (४४६।२)

hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam |

446.3४४६.३

श्रीशाधीनमतिः स्थितिर् हरिजनैस् तत्सङ्गजं किल्बिषं शालग्रामशिलानृसिंहमहिमा को ऽप्य् एष लोकोत्तरः ॥ (४४६।३)

śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ ||

447.1४४७.१

शालग्रामशिलारूपभगवन्महिमाम्बुधेः । (४४७।१)

śālagrāmaśilārūpabhagavanmahimāmbudheḥ |

447.2४४७.२

ऊर्मीन् गणयितुं शक्यः श्रीचैतन्याश्रितो ऽपि कः ॥ (४४७।२)

ūrmīn gaṇayituṃ śakyaḥ śrīcaitanyāśrito 'pi kaḥ ||

448.1४४८.१

अथ शालग्रामशिलापूजानित्यतापाद्मे । (४४८।१)

atha śālagrāmaśilāpūjānityatāpādme |

448.2४४८.२

शालग्रामशिलापूजा विना यो ऽश्नाति किंचन । (४४८।२)

śālagrāmaśilāpūjā vinā yo 'śnāti kiṃcana |

448.3४४८.३

स चण्डालादिविष्ठायाम् आकल्पं जायते कृमिः ॥ (४४८।३)

sa caṇḍālādiviṣṭhāyām ākalpaṃ jāyate kṛmiḥ ||

449.1४४९.१

स्कान्दे च । (४४९।१)

skānde ca |

449.2४४९.२

गौरवाचलशृङ्गाग्रैर् भिद्यते यस्य वै तनुः । (४४९।२)

gauravācalaśṛṅgāgrair bhidyate yasya vai tanuḥ |

449.3४४९.३

न मतिर् जायते यस्य शालग्रामशिलार्चने ॥ (४४९।३)

na matir jāyate yasya śālagrāmaśilārcane ||

450.1४५०.१

एवं श्रीभगवान् सर्वैः शालग्रामशिलात्मकः । (४५०।१)

evaṃ śrībhagavān sarvaiḥ śālagrāmaśilātmakaḥ |

450.2४५०.२

द्विजैः स्त्रीभिश् च शूद्रैश् च पूज्यो भगवतः परैः ॥ (४५०।२)

dvijaiḥ strībhiś ca śūdraiś ca pūjyo bhagavataḥ paraiḥ ||

451.1४५१.१

तथा स्कान्दे श्रीब्रह्मनारदसंवादे चातुर्मास्यव्रते शालग्रामशिलार्चाप्रसङ्गे । (४५१।१)

tathā skānde śrībrahmanāradasaṃvāde cāturmāsyavrate śālagrāmaśilārcāprasaṅge |

451.2४५१.२

ब्राह्मणक्षत्रियविशां सच्छूद्राणाम् अथापि वा । (४५१।२)

brāhmaṇakṣatriyaviśāṃ sacchūdrāṇām athāpi vā |

451.3४५१.३

शालग्रामेऽधिकारो ऽस्ति न चान्येषां कदाचन ॥ (४५१।३)

śālagrāme'dhikāro 'sti na cānyeṣāṃ kadācana ||

452.1४५२.१

तत्रैवान्यत्र । (४५२।१)

tatraivānyatra |

452.2४५२.२

स्त्रियो वा यदि वा शूद्रा ब्राह्मणाः क्षत्रियादयः । (४५२।२)

striyo vā yadi vā śūdrā brāhmaṇāḥ kṣatriyādayaḥ |

452.3४५२.३

पूजयित्वा शिलाचक्रं लभन्ते शाश्वतं पदम् ॥ (४५२।३)

pūjayitvā śilācakraṃ labhante śāśvataṃ padam ||

453.1४५३.१

अतो निषेधकं यद् यद् वचनं श्रूयते स्फुटम् । (४५३।१)

ato niṣedhakaṃ yad yad vacanaṃ śrūyate sphuṭam |

453.2४५३.२

अवैष्णवपरं तत् तद् विज्ञेयं तत्त्वदर्शिभिः ॥ (४५३।२)

avaiṣṇavaparaṃ tat tad vijñeyaṃ tattvadarśibhiḥ ||

454.1४५४.१

यथा । (४५४।१)

yathā |

454.2४५४.२

ब्राह्मणस्यैव पूज्यो ऽहं शुचेर् अप्य् अशुचेर् अपि । (४५४।२)

brāhmaṇasyaiva pūjyo 'haṃ śucer apy aśucer api |

454.3४५४.३

स्त्रीशूद्रकरसंस्पर्शो वज्राद् अपि सुदुःसहः ॥ (४५४।३)

strīśūdrakarasaṃsparśo vajrād api suduḥsahaḥ ||

455.1४५५.१

प्रणवोच्चारणार्चैव शालग्रामशिलार्चनात् । (४५५।१)

praṇavoccāraṇārcaiva śālagrāmaśilārcanāt |

455.2४५५.२

ब्राह्मणीगमनाच् चैव शूद्रश् चण्डालताम् इयात् ॥ (४५५।२)

brāhmaṇīgamanāc caiva śūdraś caṇḍālatām iyāt ||

456.0४५६.०

संधार्य वैष्णवैर् यत्नाच्छालग्रामशिलासुवत् । (४५६।०)

सा चार्च्या द्वारकाचक्राङ्कितोपेतैव सर्वदा ॥ (४५६।०)

saṃdhārya vaiṣṇavair yatnācchālagrāmaśilāsuvat |

sā cārcyā dvārakācakrāṅkitopetaiva sarvadā ||

457.1४५७.१

ब्राह्मे तत्रैव । (४५७।१)

brāhme tatraiva |

457.2४५७.२

शालग्रामोद्भवो देवो देवो द्वारवतीभवः । (४५७।२)

śālagrāmodbhavo devo devo dvāravatībhavaḥ |

457.3४५७.३

उभयोः सङ्गमो यत्र मुक्तिस् तत्र न संशयः ॥ (४५७।३)

ubhayoḥ saṅgamo yatra muktis tatra na saṃśayaḥ ||

458.1४५८.१

स्कान्दे श्रीब्रह्मनारदसंवादे । (४५८।१)

skānde śrībrahmanāradasaṃvāde |

458.2४५८.२

चक्राङ्किता शिला यत्र शालग्रामशिलाग्रतः । (४५८।२)

cakrāṅkitā śilā yatra śālagrāmaśilāgrataḥ |

458.3४५८.३

तिष्ठते मुनिशार्दूल वर्धन्ते तत्र सम्पदः ॥ (४५८।३)

tiṣṭhate muniśārdūla vardhante tatra sampadaḥ ||

459.1४५९.१

तत्रैवान्यत्र । (४५९।१)

tatraivānyatra |

459.2४५९.२

प्रत्यहं द्वादश शिलाः शालग्रामस्य यो ऽर्चयेत् । (४५९।२)

pratyahaṃ dvādaśa śilāḥ śālagrāmasya yo 'rcayet |

459.3४५९.३

द्वारवत्याः शिलायुक्ताः स वैकुण्ठे महीयते ॥ (४५९।३)

dvāravatyāḥ śilāyuktāḥ sa vaikuṇṭhe mahīyate ||

460.1४६०.१

अथ श्रीद्वारकाचक्राङ्कलक्षणानिश्रीप्रह्लादसंहितायाम् । (४६०।१)

atha śrīdvārakācakrāṅkalakṣaṇāniśrīprahlādasaṃhitāyām |

460.2४६०.२

एकः सुदर्शनो द्वाभ्यां लक्ष्मीनारायणः स्मृतः । (४६०।२)

ekaḥ sudarśano dvābhyāṃ lakṣmīnārāyaṇaḥ smṛtaḥ |

460.3४६०.३

त्रिभिस् त्रिविक्रमो नाम चतुर्भिश् च जनार्दनः ॥ (४६०।३)

tribhis trivikramo nāma caturbhiś ca janārdanaḥ ||

461.1४६१.१

पञ्चभिर् वासुदेवस् तु षड्भिः प्रद्युम्न उच्यते । (४६१।१)

pañcabhir vāsudevas tu ṣaḍbhiḥ pradyumna ucyate |

461.2४६१.२

सप्तभिर् बलदेवस् तु अष्टभिः पुरुषोत्तमः ॥ (४६१।२)

saptabhir baladevas tu aṣṭabhiḥ puruṣottamaḥ ||

462.1४६२.१

नवभिश् च नवव्यूहो दशभिर् दशमूर्तिकः । (४६२।१)

navabhiś ca navavyūho daśabhir daśamūrtikaḥ |

462.2४६२.२

एकादशैश् चानिरुद्धो द्वादशैर् द्वादशात्मकः । (४६२।२)

ekādaśaiś cāniruddho dvādaśair dvādaśātmakaḥ |

462.3४६२.३

अन्येषु बहुचक्रेषु अनन्तः परिकीर्तितः ॥ (४६२।३)

anyeṣu bahucakreṣu anantaḥ parikīrtitaḥ ||

463.1४६३.१

अथ द्वादशचक्राङ्कमाहात्म्यम्वाराहे । (४६३।१)

atha dvādaśacakrāṅkamāhātmyamvārāhe |

463.2४६३.२

ये केचिच् चैव पाषाणा विष्णुचक्रेण मुद्रिताः । (४६३।२)

ye kecic caiva pāṣāṇā viṣṇucakreṇa mudritāḥ |

463.3४६३.३

तेषां स्पर्शनमात्रेण मुच्यते सर्वपातकैः ॥ (४६३।३)

teṣāṃ sparśanamātreṇa mucyate sarvapātakaiḥ ||

464.1४६४.१

गारुडे । (४६४।१)

gāruḍe |

464.2४६४.२

सुदर्शनाद्यास् तु शिलाः पूजिताः सर्वकामदाः ॥ (४६४।२)

sudarśanādyās tu śilāḥ pūjitāḥ sarvakāmadāḥ ||

465.1४६५.१

स्कान्दे च । (४६५।१)

skānde ca |

465.2४६५.२

भक्त्या वा यदि वाभक्त्या चक्राङ्कं पूजयेन् नरः । (४६५।२)

bhaktyā vā yadi vābhaktyā cakrāṅkaṃ pūjayen naraḥ |

465.3४६५.३

अपि चेत् सुदुराचारो मुच्यते नात्र संशयः ॥ (४६५।३)

api cet sudurācāro mucyate nātra saṃśayaḥ ||

466.1४६६.१

द्वारकामाहात्म्ये च द्वारकागतानां श्रीब्रह्मादीनाम् उक्तौ । (४६६।१)

dvārakāmāhātmye ca dvārakāgatānāṃ śrībrahmādīnām uktau |

466.2४६६.२

एतद् वै चक्रतीर्थं तु यच्छिला चक्रचिह्निता । (४६६।२)

etad vai cakratīrthaṃ tu yacchilā cakracihnitā |

466.3४६६.३

मुक्तिदा पापिनां लोके म्लेच्छदेशेऽपि पूजिता ॥ (४६६।३)

muktidā pāpināṃ loke mlecchadeśe'pi pūjitā ||

467.1४६७.१

अथ तेष्व् एव चक्रभेदेन फलभेदःकपिलपञ्चरात्रे । (४६७।१)

atha teṣv eva cakrabhedena phalabhedaḥkapilapañcarātre |

467.2४६७.२

एकचक्रस् तु पाषाणो द्वारवत्याः सुशोभनः । (४६७।२)

ekacakras tu pāṣāṇo dvāravatyāḥ suśobhanaḥ |

467.3४६७.३

सुदर्शनाभिधो यो ऽसौ मोक्षैकफलदायकः ॥ (४६७।३)

sudarśanābhidho yo 'sau mokṣaikaphaladāyakaḥ ||

468.1४६८.१

लक्ष्मीनारायणो द्वाभ्यां भुक्तिमुक्तिफलप्रदः । (४६८।१)

lakṣmīnārāyaṇo dvābhyāṃ bhuktimuktiphalapradaḥ |

468.2४६८.२

एभिश् चाच्युतरूपो ऽसौ फलम् ऐन्द्रं प्रयच्छति ॥ (४६८।२)

ebhiś cācyutarūpo 'sau phalam aindraṃ prayacchati ||

469.1४६९.१

चतुर्भुजश् चतुश्चक्रश् चतुर्वर्गफलप्रदः । (४६९।१)

caturbhujaś catuścakraś caturvargaphalapradaḥ |

469.2४६९.२

पञ्चभिर् वासुदेवश् च जन्ममृत्युभयापहः ॥ (४६९।२)

pañcabhir vāsudevaś ca janmamṛtyubhayāpahaḥ ||

470.1४७०.१

षड्भिः प्रद्युम्न एवासौ लक्ष्मीं कान्तिं ददाति सः । (४७०।१)

ṣaḍbhiḥ pradyumna evāsau lakṣmīṃ kāntiṃ dadāti saḥ |

470.2४७०.२

सप्तभिर् बलभद्रो ऽसौ गोत्रकीर्तिविवर्धनः ॥ (४७०।२)

saptabhir balabhadro 'sau gotrakīrtivivardhanaḥ ||

471.1४७१.१

ददाति वाञ्छितं सर्वम् अष्टभिः पुरुषोत्तमः । (४७१।१)

dadāti vāñchitaṃ sarvam aṣṭabhiḥ puruṣottamaḥ |

471.2४७१.२

नवचक्रो नृसिंहस् तु फलं यच्छत्य् अनुत्तमम् ॥ (४७१।२)

navacakro nṛsiṃhas tu phalaṃ yacchaty anuttamam ||

472.1४७२.१

राज्यप्रदो दशभिस् तु दशावतारकः स्मृतः । (४७२।१)

rājyaprado daśabhis tu daśāvatārakaḥ smṛtaḥ |

472.2४७२.२

एकादशभिर् ऐश्वर्यम् अनिरुद्धः प्रयच्छति ॥ (४७२।२)

ekādaśabhir aiśvaryam aniruddhaḥ prayacchati ||

473.1४७३.१

निर्वाणं द्वादशात्मासौ सौख्यदश् च सुपूजितः ॥ (४७३।१)

nirvāṇaṃ dvādaśātmāsau saukhyadaś ca supūjitaḥ ||

474.1४७४.१

अथ वर्णादिभेदेन दोषगुणाः पूज्यत्वापूज्यत्वे चतत्रैव । (४७४।१)

atha varṇādibhedena doṣaguṇāḥ pūjyatvāpūjyatve catatraiva |

474.2४७४.२

कृष्ण मृत्युप्रदो नित्यं धूम्रश् चैव भयावहः । (४७४।२)

kṛṣṇa mṛtyuprado nityaṃ dhūmraś caiva bhayāvahaḥ |

474.3४७४.३

अस्वास्थ्यं कर्बुरो दद्यान् नीलस् तु धनहानिदः ॥ (४७४।३)

asvāsthyaṃ karburo dadyān nīlas tu dhanahānidaḥ ||

475.1४७५.१

छिद्रो दारिद्र्यदुःखानि दद्यात् सम्पूजितो ध्रुवम् । (४७५।१)

chidro dāridryaduḥkhāni dadyāt sampūjito dhruvam |

475.2४७५.२

पाण्डरस् तु महद् दुःखं भग्नो भार्यावियोगदः ॥ (४७५।२)

pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ ||

476.1४७६.१

पुत्रपौत्रधनैश्वर्यसुखम् अत्यन्तम् उत्तमम् । (४७६।१)

putrapautradhanaiśvaryasukham atyantam uttamam |

476.2४७६.२

ददाति शुक्लवर्णश् च तस्माद् एनं समर्चयेत् ॥ (४७६।२)

dadāti śuklavarṇaś ca tasmād enaṃ samarcayet ||

477.1४७७.१

श्रीप्रह्लादसंहितायाम् । (४७७।१)

śrīprahlādasaṃhitāyām |

477.2४७७.२

कृष्णा मृत्युप्रदा नित्यं कपिला च भयावहा । (४७७।२)

kṛṣṇā mṛtyupradā nityaṃ kapilā ca bhayāvahā |

477.3४७७.३

रोगार्तिं कर्बुरा दद्यात् पीता वित्तविनाशिनी ॥ (४७७।३)

rogārtiṃ karburā dadyāt pītā vittavināśinī ||

478.1४७८.१

धूम्राभा वित्तनाशाय भग्ना भार्याविनाशिका । (४७८।१)

dhūmrābhā vittanāśāya bhagnā bhāryāvināśikā |

478.2४७८.२

सच्छिद्रा च त्रिकोणा च तथा विषमचक्रिका । (४७८।२)

sacchidrā ca trikoṇā ca tathā viṣamacakrikā |

478.3४७८.३

अर्धचन्द्राकृतिर् या च पूज्यास् ता न भवन्ति हि ॥ (४७८।३)

ardhacandrākṛtir yā ca pūjyās tā na bhavanti hi ||

479.1४७९.१

गार्ग्यगालवयोः । (४७९।१)

gārgyagālavayoḥ |

479.2४७९.२

सुखदा समचक्रा तु द्वादशी चोत्तमा शुभा । (४७९।२)

sukhadā samacakrā tu dvādaśī cottamā śubhā |

479.3४७९.३

वर्तुला चतुरस्रा च नराणां च सुखप्रदा ॥ (४७९।३)

vartulā caturasrā ca narāṇāṃ ca sukhapradā ||

480.1४८०.१

त्रिकोणा विषमा चैव छिद्रा भग्ना तथैव च । (४८०।१)

trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca |

480.2४८०.२

अर्धचन्द्राकृतिर् या तु पूजार्हा न भवेत् तु सा । (४८०।२)

ardhacandrākṛtir yā tu pūjārhā na bhavet tu sā |

480.3४८०.३

फलं नोत्पद्यते तत्र पूजितायां कदाचन ॥ (४८०।३)

phalaṃ notpadyate tatra pūjitāyāṃ kadācana ||

481.1४८१.१

इति श्रीगोपालभट्टविलिखिते श्रीभगवद्भक्तिविलासे आधिष्ठानिको नाम पञ्चमो विलासः ॥ (४८१।१)

iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse ādhiṣṭhāniko nāma pañcamo vilāsaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

HBhVil, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit