हितोपदेशHitopadeśa

Hitop, 2

2 of 5 · 901 verses

Select a line for its word-by-word analysis.

1.1१.१

अथ प्रासादपृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्तावक्रमेण पण्डितो ऽब्रवीत् । (१।१)

atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt |

1.2१.२

भो राजपुत्राः शृणुत । (१।२)

bho rājaputrāḥ śṛṇuta |

1.3१.३

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । (१।३)

kāvyaśāstravinodena kālo gacchati dhīmatām |

1.4१.४

व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ (१।४)

vyasanena tu mūrkhāṇāṃ nidrayā kalahena vā ||

2.1२.१

तद् भवतां विनोदाय काककूर्मादीनां विचित्रां कथां कथयिष्यामि । (२।१)

tad bhavatāṃ vinodāya kākakūrmādīnāṃ vicitrāṃ kathāṃ kathayiṣyāmi |

2.2२.२

राजपुत्रैर् उक्तमार्य कथ्यताम् । (२।२)

rājaputrair uktamārya kathyatām |

2.3२.३

विष्णुशर्मोवाच शृणुत यूयम् । (२।३)

viṣṇuśarmovāca śṛṇuta yūyam |

2.4२.४

सम्प्रति मित्रलाभः प्रस्तूयते । (२।४)

samprati mitralābhaḥ prastūyate |

2.5२.५

यस्यायम् आद्यः श्लोकः । (२।५)

yasyāyam ādyaḥ ślokaḥ |

2.6२.६

असाधना वित्तहीना बुद्धिमन्तः सुहृन्मताः । (२।६)

asādhanā vittahīnā buddhimantaḥ suhṛnmatāḥ |

2.7२.७

साधयन्त्य् आशु कार्याणि काककूर्ममृगाखुवत् ॥ (२।७)

sādhayanty āśu kāryāṇi kākakūrmamṛgākhuvat ||

3.1३.१

राजपुत्रा ऊचुः कथम् एतत् । (३।१)

rājaputrā ūcuḥ katham etat |

3.2३.२

सो ऽब्रवीत् । (३।२)

so 'bravīt |

3.3३.३

अस्ति गोदावरीतीरे विशालः शाल्मलीतरुः । (३।३)

asti godāvarītīre viśālaḥ śālmalītaruḥ |

3.4३.४

तत्र नानादिग्देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति । (३।४)

tatra nānādigdeśād āgatya rātrau pakṣiṇo nivasanti |

3.5३.५

अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि । (३।५)

atha kadācid avasannāyāṃ rātrau astācalacūḍāvalambini bhagavati kumudinīnāyake candramasi |

3.6३.६

लघुपतननामा वायसः प्रबुद्धः कृतान्तम् इव द्वितीयम् अटन्तं पाशहस्तं व्याधम् अपश्यत् । (३।६)

laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat |

3.7३.७

तम् आलोक्याचिन्तयत् । (३।७)

tam ālokyācintayat |

3.8३.८

अद्य प्रातर् एवानिष्टदर्शनं जातम् । (३।८)

adya prātar evāniṣṭadarśanaṃ jātam |

3.9३.९

न जाने किम् अनभिमतं दर्शयिष्यति । (३।९)

na jāne kim anabhimataṃ darśayiṣyati |

3.10३.१०

इत्य् उक्त्वा तद् अनुसरणक्रमेण व्याकुलश् चलति । (३।१०)

ity uktvā tad anusaraṇakrameṇa vyākulaś calati |

3.11३.११

यतः । (३।११)

yataḥ |

3.12३.१२

शोकस्थानसहस्राणि भयस्थानशतानि च । (३।१२)

śokasthānasahasrāṇi bhayasthānaśatāni ca |

3.13३.१३

दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् ॥ (३।१३)

divase divase mūḍham āviśanti na paṇḍitam ||

4.1४.१

अन्यच् च । (४।१)

anyac ca |

4.2४.२

विषयिणाम् इदम् अवश्यं कर्तव्यम् । (४।२)

viṣayiṇām idam avaśyaṃ kartavyam |

4.3४.३

उत्थायोत्थाय बोद्धव्यं किम् अद्य सुकृतं कृतम् । (४।३)

utthāyotthāya boddhavyaṃ kim adya sukṛtaṃ kṛtam |

4.4४.४

आयुषः खण्डम् आदाय रविर् अस्तं गमिष्यति ॥ (४।४)

āyuṣaḥ khaṇḍam ādāya ravir astaṃ gamiṣyati ||

5.1५.१

अथ तेन व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम् । (५।१)

atha tena vyādhena taṇḍulakaṇān vikīrya jālaṃ vistīrṇam |

5.2५.२

स च तत्र प्रच्छन्नो भूत्वा स्थितः । (५।२)

sa ca tatra pracchanno bhūtvā sthitaḥ |

5.3५.३

अस्मिन्न् एव काले चित्रग्रीवनामा कपोतराजः सपरिवारो वियति विसर्पंस् तण्डुलकणान् अवलोकयामास । (५।३)

asminn eva kāle citragrīvanāmā kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa |

5.4५.४

ततः कपोतराजस् तण्डुलकणलुब्धान् कपोतान् प्राह । (५।४)

tataḥ kapotarājas taṇḍulakaṇalubdhān kapotān prāha |

5.5५.५

कुतो ऽत्र निर्जने वने तण्डुलकणानां सम्भवः । (५।५)

kuto 'tra nirjane vane taṇḍulakaṇānāṃ sambhavaḥ |

5.6५.६

तन् निरूप्यतां तावत् । (५।६)

tan nirūpyatāṃ tāvat |

5.7५.७

भद्रम् इदं न पश्यामि प्रायेणानेन तण्डुलकणलोभेनास्माभिर् अपि तथा भवितव्यम् । (५।७)

bhadram idaṃ na paśyāmi prāyeṇānena taṇḍulakaṇalobhenāsmābhir api tathā bhavitavyam |

5.8५.८

कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे । (५।८)

kaṅkaṇasya tu lobhena magnaḥ paṅke sudustare |

5.9५.९

वृद्धव्याघ्रेण सम्प्राप्तः पथिकः संमृतः ॥ (५।९)

vṛddhavyāghreṇa samprāptaḥ pathikaḥ saṃmṛtaḥ ||

6.1६.१

कपोता ऊचुः । (६।१)

kapotā ūcuḥ |

6.2६.२

कथम् एतत् । (६।२)

katham etat |

6.3६.३

सो ऽब्रवीत् । (६।३)

so 'bravīt |

6.4६.४

अहम् एकदा दक्षिणारण्ये चरन्न् अपश्यम् एको वृद्धो व्याघ्रः स्नातः कुशहस्तः सरस्तीरे ब्रूते भो भो पान्थाः इदं सुवर्णकङ्कणं गृह्यताम् । (६।४)

aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām |

6.5६.५

ततो लोभाकृष्टेन केनचित् पान्थेन आलोचितं भाग्येन एतत् सम्भवति । (६।५)

tato lobhākṛṣṭena kenacit pānthena ālocitaṃ bhāgyena etat sambhavati |

6.6६.६

किंतु अस्मिन् आत्मसंदेहे प्रवृत्तिर् न विधेया । (६।६)

kiṃtu asmin ātmasaṃdehe pravṛttir na vidheyā |

6.7६.७

यतः । (६।७)

yataḥ |

6.8६.८

अनिष्टाद् इष्टलाभेऽपि न गतिर् जायते शुभा । (६।८)

aniṣṭād iṣṭalābhe'pi na gatir jāyate śubhā |

6.9६.९

यत्रास्ते विषसंसर्गो ऽमृतं तद् अपि मृत्यवे ॥ (६।९)

yatrāste viṣasaṃsargo 'mṛtaṃ tad api mṛtyave ||

7.1७.१

किंतु सर्वत्रार्थार्जनप्रवृत्तौ संदेह एव । (७।१)

kiṃtu sarvatrārthārjanapravṛttau saṃdeha eva |

7.2७.२

तथा चोक्तम् । (७।२)

tathā coktam |

7.3७.३

न संशयम् अनारुह्य नरो भद्राणि पश्यति । (७।३)

na saṃśayam anāruhya naro bhadrāṇi paśyati |

7.4७.४

संशयं पुनर् आरुह्य यदि जीवति पश्यति ॥ (७।४)

saṃśayaṃ punar āruhya yadi jīvati paśyati ||

8.1८.१

तन् निरूपयामि तावत् । (८।१)

tan nirūpayāmi tāvat |

8.2८.२

प्रकाशं ब्रूते । (८।२)

prakāśaṃ brūte |

8.3८.३

कुत्र तव कङ्कणम् व्याघ्रो हस्तं प्रसार्य दर्शयति । (८।३)

kutra tava kaṅkaṇam vyāghro hastaṃ prasārya darśayati |

8.4८.४

पान्थो ऽवदत्कथं मारात्मके त्वयि विश्वासः । (८।४)

pāntho 'vadatkathaṃ mārātmake tvayi viśvāsaḥ |

8.5८.५

व्याघ्र उवाच शृणु रे पान्थ प्राग् एव यौवनदशायाम् अहम् अतीव दुर्वृत्त आसम् । (८।५)

vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam |

8.6८.६

अनेकगोमानुषाणां वधान्मे पुत्रा मृता दाराश् च । (८।६)

anekagomānuṣāṇāṃ vadhānme putrā mṛtā dārāś ca |

8.7८.७

वंशहीनश् चाहम् । (८।७)

vaṃśahīnaś cāham |

8.8८.८

ततः केनचिद् धार्मिकेणाहम् उपदिष्टः । (८।८)

tataḥ kenacid dhārmikeṇāham upadiṣṭaḥ |

8.9८.९

दानधर्मादिकं चरतु भवान् इति । (८।९)

dānadharmādikaṃ caratu bhavān iti |

8.10८.१०

तदुपदेशादिदानीम् अहं स्नानशीलो दाता वृद्धो गलितनखदन्तः न कथं विश्वासभूमिः । (८।१०)

tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ |

8.11८.११

उक्तं च । (८।११)

uktaṃ ca |

8.12८.१२

इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा । (८।१२)

ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā |

8.13८.१३

अलोभ इति मार्गो ऽयं धर्मस्याष्टविधः स्मृतः ॥ (८।१३)

alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ ||

9.1९.१

तत्र पूर्वश् चतुर्वर्गो दम्भार्थम् अपि सेव्यते । (९।१)

tatra pūrvaś caturvargo dambhārtham api sevyate |

9.2९.२

उत्तरस् तु चतुर्वर्गो महात्मन्य् एव तिष्ठति ॥ (९।२)

uttaras tu caturvargo mahātmany eva tiṣṭhati ||

10.1१०.१

मम चैतावान् लोभविरहः । (१०।१)

mama caitāvān lobhavirahaḥ |

10.2१०.२

येन स्वहस्तस्थम् अपि सुवर्णकङ्कणं यस्मै कस्मैचिद् दातुम् इच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । (१०।२)

yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ |

10.3१०.३

यतः । (१०।३)

yataḥ |

10.4१०.४

गतानुगतिको लोकः कुट्टनीम् उपदेशिनीम् । (१०।४)

gatānugatiko lokaḥ kuṭṭanīm upadeśinīm |

10.5१०.५

प्रमाणयति नो धर्मे यथा गोघ्नम् अपि द्विजम् ॥ (१०।५)

pramāṇayati no dharme yathā goghnam api dvijam ||

11.1११.१

मया च धर्मशास्त्राणि अधीतानि । (११।१)

mayā ca dharmaśāstrāṇi adhītāni |

11.2११.२

शृणु । (११।२)

śṛṇu |

11.3११.३

मरुस्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा । (११।३)

marusthalyāṃ yathā vṛṣṭiḥ kṣudhārte bhojanaṃ tathā |

11.4११.४

दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥ (११।४)

daridre dīyate dānaṃ saphalaṃ pāṇḍunandana ||

12.1१२.१

प्राणा यथात्मनो ऽभीष्टा भूतानाम् अपि ते तथा । (१२।१)

prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā |

12.2१२.२

आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥ (१२।२)

ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ ||

13.1१३.१

अपरं च । (१३।१)

aparaṃ ca |

13.2१३.२

प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये । (१३।२)

pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye |

13.3१३.३

आत्मौपम्येन पुरुषः प्रमाणम् अधिगच्छति ॥ (१३।३)

ātmaupamyena puruṣaḥ pramāṇam adhigacchati ||

14.1१४.१

अन्यच् च । (१४।१)

anyac ca |

14.2१४.२

मातृवत् परदारेषु परद्रव्येषु लोष्टवत् । (१४।२)

mātṛvat paradāreṣu paradravyeṣu loṣṭavat |

14.3१४.३

आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥ (१४।३)

ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ ||

15.1१५.१

त्वं च अतीवदुर्गतः । (१५।१)

tvaṃ ca atīvadurgataḥ |

15.2१५.२

तेन तत् तुभ्यं दातुं सयत्नो ऽहम् । (१५।२)

tena tat tubhyaṃ dātuṃ sayatno 'ham |

15.3१५.३

तथा चोक्तम् । (१५।३)

tathā coktam |

15.4१५.४

दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् । (१५।४)

daridrān bhara kaunteya mā prayaccheśvare dhanam |

15.5१५.५

व्याधितस्यौषधं पथ्यं नीरुजस्य किम् औषधैः ॥ (१५।५)

vyādhitasyauṣadhaṃ pathyaṃ nīrujasya kim auṣadhaiḥ ||

16.1१६.१

अन्यत् च । (१६।१)

anyat ca |

16.2१६.२

दातव्यम् इति यद् दानं दीयतेऽनुपकारिणि । (१६।२)

dātavyam iti yad dānaṃ dīyate'nupakāriṇi |

16.3१६.३

देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥ (१६।३)

deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ viduḥ ||

17.1१७.१

तद् अत्र सरसि स्नात्वा सुवर्णकङ्कणम् इदं गृहाण । (१७।१)

tad atra sarasi snātvā suvarṇakaṅkaṇam idaṃ gṛhāṇa |

17.2१७.२

ततो यावद् असौ तद्वचःप्रतीतो लोभात् सरः स्नातुं प्रविष्टः तावन् महापङ्के निमग्नः पलायितुम् अक्षमः । (१७।२)

tato yāvad asau tadvacaḥpratīto lobhāt saraḥ snātuṃ praviṣṭaḥ tāvan mahāpaṅke nimagnaḥ palāyitum akṣamaḥ |

17.3१७.३

तं पङ्के पतितं दृष्ट्वा व्याघ्रो ऽवदत हह महापङ्के पतितो ऽसि । (१७।३)

taṃ paṅke patitaṃ dṛṣṭvā vyāghro 'vadata haha mahāpaṅke patito 'si |

17.4१७.४

अतस् त्वाम् अहम् उत्थापयामि । (१७।४)

atas tvām aham utthāpayāmi |

17.5१७.५

इत्य् उक्त्वा शनैः शनैर् उपगम्य तेन व्याघ्रेण धृतः स पान्थो ऽचिन्तयत् । (१७।५)

ity uktvā śanaiḥ śanair upagamya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat |

17.6१७.६

न धर्मशास्त्रं पठतीति कारणम् । (१७।६)

na dharmaśāstraṃ paṭhatīti kāraṇam |

17.7१७.७

न चापि वेदाध्ययनं दुरात्मनः । (१७।७)

na cāpi vedādhyayanaṃ durātmanaḥ |

17.8१७.८

स्वभाव एवात्र तथातिरिच्यते । (१७।८)

svabhāva evātra tathātiricyate |

17.9१७.९

यथा प्रकृत्या मधुरं गवां पयः ॥ (१७।९)

yathā prakṛtyā madhuraṃ gavāṃ payaḥ ||

18.1१८.१

किं च । (१८।१)

kiṃ ca |

18.2१८.२

अवशेन्द्रियचित्तानां हस्तिस्नानम् इव क्रिया । (१८।२)

avaśendriyacittānāṃ hastisnānam iva kriyā |

18.3१८.३

दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥ (१८।३)

durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā ||

19.1१९.१

तन् मया भद्रं न कृतम् । (१९।१)

tan mayā bhadraṃ na kṛtam |

19.2१९.२

यद् अत्र मारात्मके विश्वासः कृतः । (१९।२)

yad atra mārātmake viśvāsaḥ kṛtaḥ |

19.3१९.३

तथा चोक्तम् । (१९।३)

tathā coktam |

19.4१९.४

नदीनां शस्त्रपाणीनां नखिनां शृङ्गिणां तथा । (१९।४)

nadīnāṃ śastrapāṇīnāṃ nakhināṃ śṛṅgiṇāṃ tathā |

19.5१९.५

विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ (१९।५)

viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca ||

20.1२०.१

अपरं च । (२०।१)

aparaṃ ca |

20.2२०.२

सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । (२०।२)

sarvasya hi parīkṣyante svabhāvā netare guṇāḥ |

20.3२०.३

अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥ (२०।३)

atītya hi guṇān sarvān svabhāvo mūrdhni vartate ||

21.1२१.१

अन्यच् च । (२१।१)

anyac ca |

21.2२१.२

स हि गगनविहारी कल्मषध्वंसकारी दशशतकरधारी ज्योतिषां मध्यचारी । (२१।२)

sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī |

21.3२१.३

विधुर् अपि विधियोगाद् ग्रस्यते राहुणासौ लिखितम् अपि ललाटे प्रोज्झितुं कः समर्थः ॥ (२१।३)

vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ ||

22.1२२.१

इति चिन्तयन्न् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश् च । (२२।१)

iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca |

22.2२२.२

अतो ऽहं ब्रवीमि कङ्कणस्य तु लोभेनेत्यादि । (२२।२)

ato 'haṃ bravīmi kaṅkaṇasya tu lobhenetyādi |

22.3२२.३

अत एव सर्वथाविचारितं कर्म न कर्तव्यम् इति । (२२।३)

ata eva sarvathāvicāritaṃ karma na kartavyam iti |

22.4२२.४

यतः । (२२।४)

yataḥ |

22.5२२.५

सुजीर्णम् अन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । (२२।५)

sujīrṇam annaṃ suvicakṣaṇaḥ sutaḥ suśāsitā strī nṛpatiḥ susevitaḥ |

22.6२२.६

सुचिन्त्य चोक्तं सुविचार्य यत् कृतं सुदीर्घकालेऽपि न याति विक्रियाम् ॥ (२२।६)

sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām ||

23.1२३.१

एतद् वचनं श्रुत्वा कश्चित् कपोतः सदर्पम् आहाः किम् एवम् उच्यते वृद्धस्य वचनं ग्राह्यम् आपत्काले ह्य् उपस्थिते । (२३।१)

etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite |

23.2२३.२

सर्वत्रैवं विचारे च भोजनेऽपि प्रवर्तताम् ॥ (२३।२)

sarvatraivaṃ vicāre ca bhojane'pi pravartatām ||

24.1२४.१

यतः । (२४।१)

yataḥ |

24.2२४.२

शङ्काभिः सर्वम् आक्रान्तम् अन्नं पानं च भूतले । (२४।२)

śaṅkābhiḥ sarvam ākrāntam annaṃ pānaṃ ca bhūtale |

24.3२४.३

प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ॥ (२४।३)

pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na vā ||

25.1२५.१

यथा चोक्तम् । (२५।१)

yathā coktam |

25.2२५.२

ईर्ष्यी घृणी त्व् असंतुष्टः क्रोधनो नित्यशङ्कितः । (२५।२)

īrṣyī ghṛṇī tv asaṃtuṣṭaḥ krodhano nityaśaṅkitaḥ |

25.3२५.३

परभाग्योपजीवी च षड् एते नित्यदुःखिताः ॥ (२५।३)

parabhāgyopajīvī ca ṣaḍ ete nityaduḥkhitāḥ ||

26.1२६.१

एतच् छ्रुत्वा तण्डुलकणलोभेन नभोमण्डलाद् अवतीर्य सर्वे कपोतास् तत्रोपविष्टाः । (२६।१)

etac chrutvā taṇḍulakaṇalobhena nabhomaṇḍalād avatīrya sarve kapotās tatropaviṣṭāḥ |

26.2२६.२

यतः । (२६।२)

yataḥ |

26.3२६.३

सुमहान्त्य् अपि शास्त्राणि धारयन्तो बहुश्रुताः । (२६।३)

sumahānty api śāstrāṇi dhārayanto bahuśrutāḥ |

26.4२६.४

छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः ॥ (२६।४)

chettāraḥ saṃśayānāṃ ca kliśyante lobhamohitāḥ ||

27.1२७.१

अन्यच् च । (२७।१)

anyac ca |

27.2२७.२

लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । (२७।२)

lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate |

27.3२७.३

लोभान् मोहश् च नाशश् च लोभः पापस्य कारणम् ॥ (२७।३)

lobhān mohaś ca nāśaś ca lobhaḥ pāpasya kāraṇam ||

28.1२८.१

अन्यच् च । (२८।१)

anyac ca |

28.2२८.२

असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय । (२८।२)

asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya |

28.3२८.३

प्रायः समापन्नविपत्तिकाले धियो ऽपि पुंसां मलिना भवन्ति ॥ (२८।३)

prāyaḥ samāpannavipattikāle dhiyo 'pi puṃsāṃ malinā bhavanti ||

29.1२९.१

अनन्तरं ते सर्वे जालनिबद्धा बभूवुः ततो यस्य वचनात् तत्रावलम्बितास् तं सर्वे तिरस्कुर्वन्ति स्म । (२९।१)

anantaraṃ te sarve jālanibaddhā babhūvuḥ tato yasya vacanāt tatrāvalambitās taṃ sarve tiraskurvanti sma |

29.2२९.२

यतः । (२९।२)

yataḥ |

29.3२९.३

न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् । (२९।३)

na gaṇasyāgrato gacchet siddhe kārye samaṃ phalam |

29.4२९.४

यदि कार्यविपत्तिः स्यान् मुखरस् तत्र हन्यते ॥ (२९।४)

yadi kāryavipattiḥ syān mukharas tatra hanyate ||

30.1३०.१

तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच नायम् अस्य दोषः । (३०।१)

tasya tiraskāraṃ śrutvā citragrīva uvāca nāyam asya doṣaḥ |

30.2३०.२

यतः । (३०।२)

yataḥ |

30.3३०.३

आपदाम् आपतन्तीनां हितो ऽप्य् आयाति हेतुताम् । (३०।३)

āpadām āpatantīnāṃ hito 'py āyāti hetutām |

30.4३०.४

मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥ (३०।४)

mātṛjaṅghā hi vatsasya stambhībhavati bandhane ||

31.1३१.१

अन्यच् च । (३१।१)

anyac ca |

31.2३१.२

स बन्धुर् यो विपन्नानाम् आपदुद्धरणक्षमः । (३१।२)

sa bandhur yo vipannānām āpaduddharaṇakṣamaḥ |

31.3३१.३

न तु भीतपरित्राणवस्तूपालम्भपण्डितः ॥ (३१।३)

na tu bhītaparitrāṇavastūpālambhapaṇḍitaḥ ||

32.1३२.१

विपत्काले विस्मय एव कापुरुषलक्षणम् । (३२।१)

vipatkāle vismaya eva kāpuruṣalakṣaṇam |

32.2३२.२

तद् अत्र धैर्यम् अवलम्ब्य प्रतीकारश् चिन्त्यताम् । (३२।२)

tad atra dhairyam avalambya pratīkāraś cintyatām |

32.3३२.३

यतः । (३२।३)

yataḥ |

32.4३२.४

विपदि धैर्यम् अथाभ्युदये क्षमा सदसि वाक्यपटुता युधि विक्रमः । (३२।४)

vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ |

32.5३२.५

यशसि चाभिरुचिर् व्यसनं श्रुतौ प्रकृतिसिद्धम् इदं हि महात्मनाम् ॥ (३२।५)

yaśasi cābhirucir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām ||

33.1३३.१

सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । (३३।१)

sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam |

33.2३३.२

तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ (३३।२)

taṃ bhuvanatrayatilakaṃ janayati jananī sutaṃ viralam ||

34.1३४.१

अन्यच् च । (३४।१)

anyac ca |

34.2३४.२

षड्दोषाः पुरुषेणेह हातव्या भूतिम् इच्छता । (३४।२)

ṣaḍdoṣāḥ puruṣeṇeha hātavyā bhūtim icchatā |

34.3३४.३

निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ (३४।३)

nidrā tandrā bhayaṃ krodha ālasyaṃ dīrghasūtratā ||

35.1३५.१

इदानीम् अपि एवं क्रियतां सर्वैर् एकचित्तीभूय जालम् आदाय उड्डीयताम् । (३५।१)

idānīm api evaṃ kriyatāṃ sarvair ekacittībhūya jālam ādāya uḍḍīyatām |

35.2३५.२

यतः । (३५।२)

yataḥ |

35.3३५.३

अल्पानाम् अपि वस्तूनां संहतिः कार्यसाधिका । (३५।३)

alpānām api vastūnāṃ saṃhatiḥ kāryasādhikā |

35.4३५.४

तृणैर् गुणत्वम् आपन्नैर् बध्यन्ते मत्तदन्तिनः ॥ (३५।४)

tṛṇair guṇatvam āpannair badhyante mattadantinaḥ ||

36.1३६.१

संहतिः श्रेयसी पुंसां स्वकुलैर् अल्पकैर् अपि । (३६।१)

saṃhatiḥ śreyasī puṃsāṃ svakulair alpakair api |

36.2३६.२

तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ (३६।२)

tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ ||

37.1३७.१

इति विचित्य पक्षिणः सर्वे जालम् आदाय उत्पतिताः । (३७।१)

iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ |

37.2३७.२

अनन्तरं च व्याधः सुदूराज् जालापहारकांस् तान् अवलोक्य पश्चाद् धावितो ऽचिन्तयत् । (३७।२)

anantaraṃ ca vyādhaḥ sudūrāj jālāpahārakāṃs tān avalokya paścād dhāvito 'cintayat |

37.3३७.३

संहतास् तु हरन्त्य् एते मम जालं विहंगमाः । (३७।३)

saṃhatās tu haranty ete mama jālaṃ vihaṃgamāḥ |

37.4३७.४

यदा तु निपतिष्यन्ति वशम् एष्यन्ति मे तदा ॥ (३७।४)

yadā tu nipatiṣyanti vaśam eṣyanti me tadā ||

38.1३८.१

ततस् तेषु चक्षुर्विषयम् अतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः । (३८।१)

tatas teṣu cakṣurviṣayam atikrānteṣu pakṣiṣu sa vyādho nivṛttaḥ |

38.2३८.२

अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुः स्वामिन् किम् इदानीं कर्तुम् उचितम् । (३८।२)

atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam |

38.3३८.३

चित्रग्रीव उवाच । (३८।३)

citragrīva uvāca

38.4३८.४

माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् । (३८।४)

mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam |

38.5३८.५

कार्यकारणतश् चान्ये भवन्ति हितबुद्धयः ॥ (३८।५)

kāryakāraṇataś cānye bhavanti hitabuddhayaḥ ||

39.1३९.१

तन् मे मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवने निवसति । (३९।१)

tan me mitraṃ hiraṇyako nāma mūṣikarājo gaṇḍakītīre citravane nivasati |

39.2३९.२

सो ऽस्माकं पाशांश् छेत्स्यति इत्य् आलोच्य सर्वे हिरण्यकविवरसमीपं गताः । (३९।२)

so 'smākaṃ pāśāṃś chetsyati ity ālocya sarve hiraṇyakavivarasamīpaṃ gatāḥ |

39.3३९.३

हिरण्यकश् च सर्वदा अपायशङ्कया शतद्वारं विवरं कृत्वा निवसति । (३९।३)

hiraṇyakaś ca sarvadā apāyaśaṅkayā śatadvāraṃ vivaraṃ kṛtvā nivasati |

39.4३९.४

ततो हिरण्यकः कपोतावपातभयाच् चकितः तूष्णीं स्थितः । (३९।४)

tato hiraṇyakaḥ kapotāvapātabhayāc cakitaḥ tūṣṇīṃ sthitaḥ |

39.5३९.५

चित्रग्रीव उवाच सखे हिरण्यक कथम् अस्मान् न सम्भाषसे । (३९।५)

citragrīva uvāca sakhe hiraṇyaka katham asmān na sambhāṣase |

39.6३९.६

ततो हिरण्यकस् तद्वचनं प्रत्यभिज्ञाय ससम्भ्रमं बहिर् निःसृत्य अब्रवीत् पुण्यवान् अस्मि प्रियसुहृन् मे चित्रग्रीवः समायातः । (३९।६)

tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ |

39.7३९.७

यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः । (३९।७)

yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ |

39.8३९.८

यस्य मित्रेण संलापस् ततो नास्तीह पुण्यवान् ॥ (३९।८)

yasya mitreṇa saṃlāpas tato nāstīha puṇyavān ||

40.1४०.१

अथ पाशबद्धांश् चैतान् दृष्ट्वा सविस्मयः क्षणं स्थित्वा उवाच सखे किम् एतत् । (४०।१)

atha pāśabaddhāṃś caitān dṛṣṭvā savismayaḥ kṣaṇaṃ sthitvā uvāca sakhe kim etat |

40.2४०.२

चित्रग्रीव उवाच सखे अस्माकं प्राक्तनजन्मकर्मणः फलम् एतत् । (४०।२)

citragrīva uvāca sakhe asmākaṃ prāktanajanmakarmaṇaḥ phalam etat |

40.3४०.३

यस्माच् च येन च यथा च यदा च यच् च यावच् च यत्र च शुभाशुभम् आत्मकर्म । (४०।३)

yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma |

40.4४०.४

तस्माच् च तेन च तथा च तदा च तच् च तावच् च तत्र च विधातृवशाद् उपैति ॥ (४०।४)

tasmāc ca tena ca tathā ca tadā ca tac ca tāvac ca tatra ca vidhātṛvaśād upaiti ||

41.1४१.१

रागशोकपरीतापबन्धनव्यसनानि च । (४१।१)

rāgaśokaparītāpabandhanavyasanāni ca |

41.2४१.२

आत्मापराधवृक्षाणां फलान्य् एतानि देहिनाम् ॥ (४१।२)

ātmāparādhavṛkṣāṇāṃ phalāny etāni dehinām ||

42.1४२.१

एतच् छ्रुत्वा हिरण्यकश् चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरम् उपसर्पति । (४२।१)

etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati |

42.2४२.२

तत्र चित्रग्रीव उवाच मित्र मा मैवं कुरु । (४२।२)

tatra citragrīva uvāca mitra mā maivaṃ kuru |

42.3४२.३

प्रथमम् अस्मदाश्रितानाम् एतेषां तावत् पाशांश् छिन्द्धि । (४२।३)

prathamam asmadāśritānām eteṣāṃ tāvat pāśāṃś chinddhi |

42.4४२.४

मम पाशं पश्चाच् छेत्स्यसि । (४२।४)

mama pāśaṃ paścāc chetsyasi |

42.5४२.५

हिरण्यको ऽप्य् आहाहम् अल्पशक्तिः । (४२।५)

hiraṇyako 'py āhāham alpaśaktiḥ |

42.6४२.६

दन्ताश् च मे कोमलाः । (४२।६)

dantāś ca me komalāḥ |

42.7४२.७

तद् एतेषां पाशांश् छेत्तुं कथं समर्थो भवामि तत् यावन् मे दन्ता न त्रुट्यन्ति तावत् तव पाशं छिनद्मि । (४२।७)

tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi |

42.8४२.८

तदनन्तरम् अप्य् एतेषां बन्धनं यावत् शक्यं छेत्स्यामि । (४२।८)

tadanantaram apy eteṣāṃ bandhanaṃ yāvat śakyaṃ chetsyāmi |

42.9४२.९

चित्रग्रीव उवाचास्त्व् एवम् । (४२।९)

citragrīva uvācāstv evam |

42.10४२.१०

तथापि यथाशक्ति बन्धनम् एतेषां खण्डय । (४२।१०)

tathāpi yathāśakti bandhanam eteṣāṃ khaṇḍaya |

42.11४२.११

हिरण्यकेनोक्तमात्मपरित्यागेन यदाश्रितानां परिरक्षणं तन् न नीतिवेदिनां संमतम् । (४२।११)

hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam |

42.12४२.१२

यतः । (४२।१२)

yataḥ |

42.13४२.१३

आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि । (४२।१३)

āpadarthe dhanaṃ rakṣed dārān rakṣed dhanair api |

42.14४२.१४

आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥ (४२।१४)

ātmānaṃ satataṃ rakṣed dārair api dhanair api ||

43.1४३.१

अन्यच् च । (४३।१)

anyac ca |

43.2४३.२

धर्मार्थकाममोक्षाणां प्राणाः संस्थितहेतवः । (४३।२)

dharmārthakāmamokṣāṇāṃ prāṇāḥ saṃsthitahetavaḥ |

43.3४३.३

तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ (४३।३)

tān nighnatā kiṃ na hataṃ rakṣatā kiṃ na rakṣitam ||

44.1४४.१

चित्रग्रीव उवाच सखे नीतिस् तावद् ईदृश्य् एव किंत्व् अहम् अस्मदाश्रितानां दुःखं सोढुं सर्वथासमर्थस् तेनेदं ब्रवीमि । (४४।१)

citragrīva uvāca sakhe nītis tāvad īdṛśy eva kiṃtv aham asmadāśritānāṃ duḥkhaṃ soḍhuṃ sarvathāsamarthas tenedaṃ bravīmi |

44.2४४.२

यतः । (४४।२)

yataḥ |

44.3४४.३

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । (४४।३)

dhanāni jīvitaṃ caiva parārthe prājña utsṛjet |

44.4४४.४

सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ (४४।४)

sannimitte varaṃ tyāgo vināśe niyate sati ||

45.1४५.१

अयम् अपरश् चासाधारणो हेतुः । (४५।१)

ayam aparaś cāsādhāraṇo hetuḥ |

45.2४५.२

जातिद्रव्यबलानां च साम्यम् एषां मया सह । (४५।२)

jātidravyabalānāṃ ca sāmyam eṣāṃ mayā saha |

45.3४५.३

मत्प्रभुत्वफलं ब्रूहि कदा किं तद् भविष्यति ॥ (४५।३)

matprabhutvaphalaṃ brūhi kadā kiṃ tad bhaviṣyati ||

46.1४६.१

अन्यच् च । (४६।१)

anyac ca |

46.2४६.२

विना वर्तनम् एवैते न त्यजन्ति ममान्तिकम् । (४६।२)

vinā vartanam evaite na tyajanti mamāntikam |

46.3४६.३

तन् मे प्राणव्ययेनापि जीवयैतान् ममाश्रितान् ॥ (४६।३)

tan me prāṇavyayenāpi jīvayaitān mamāśritān ||

47.1४७.१

किं च । (४७।१)

kiṃ ca |

47.2४७.२

मांसमूत्रपुरीषास्थिपूरितेऽत्र कलेवरे । (४७।२)

māṃsamūtrapurīṣāsthipūrite'tra kalevare |

47.3४७.३

विनश्वरे विहायास्थां यशः पालय मित्र मे ॥ (४७।३)

vinaśvare vihāyāsthāṃ yaśaḥ pālaya mitra me ||

48.1४८.१

अपरं च पश्य । (४८।१)

aparaṃ ca paśya |

48.2४८.२

यदि नित्यम् अनित्येन निर्मलं मलवाहिना । (४८।२)

yadi nityam anityena nirmalaṃ malavāhinā |

48.3४८.३

यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम् ॥ (४८।३)

yaśaḥ kāyena labhyeta tan na labdhaṃ bhaven nu kim ||

49.1४९.१

यतः । (४९।१)

yataḥ |

49.2४९.२

शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् । (४९।२)

śarīrasya guṇānāṃ ca dūram atyantam antaram |

49.3४९.३

शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥ (४९।३)

śarīraṃ kṣaṇavidhvaṃsi kalpāntasthāyino guṇāḥ ||

50.1५०.१

इत्य् आकर्ण्य हिरण्यकः प्रहृष्टमनाः पुलकितः सन् अब्रवीत्साधु मित्र साधु । (५०।१)

ity ākarṇya hiraṇyakaḥ prahṛṣṭamanāḥ pulakitaḥ san abravītsādhu mitra sādhu |

50.2५०.२

अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । (५०।२)

anenāśritavātsalyena trailokyasyāpi prabhutvaṃ tvayi yujyate |

50.3५०.३

एवम् उक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि । (५०।३)

evam uktvā tena sarveṣāṃ kapotānāṃ bandhanāni chinnāni |

50.4५०.४

ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आह सखे चित्रग्रीव सर्वथात्र जालबन्धनविधौ सति दोषम् आशङ्क्य आत्मनि अवज्ञा न कर्तव्या । (५०।४)

tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā |

50.5५०.५

यतः । (५०।५)

yataḥ |

50.6५०.६

यो ऽधिकाद् योजनशतान् पश्यतीहामिषं खगः । (५०।६)

yo 'dhikād yojanaśatān paśyatīhāmiṣaṃ khagaḥ |

50.7५०.७

स एव प्राप्तकालस् तु पाशबन्धं न पश्यति ॥ (५०।७)

sa eva prāptakālas tu pāśabandhaṃ na paśyati ||

51.1५१.१

अपरं च । (५१।१)

aparaṃ ca |

51.2५१.२

शशिदिवाकरयोर् ग्रहपीडनं गजभुजंगमयोर् अपि बन्धनम् । (५१।२)

śaśidivākarayor grahapīḍanaṃ gajabhujaṃgamayor api bandhanam |

51.3५१.३

मतिमतां च विलोक्य दरिद्रतां विधिर् अहो बलवान् इति मे मतिः ॥ (५१।३)

matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ ||

52.1५२.१

अन्यच् च । (५२।१)

anyac ca |

52.2५२.२

व्योमैकान्तविहारिणो ऽपि विहगाः सम्प्राप्नुवन्त्य् आपदं बध्यन्ते निपुणैर् अगाधसलिलान् मत्स्याः समुद्राद् अपि । (५२।२)

vyomaikāntavihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādhasalilān matsyāḥ samudrād api |

52.3५२.३

दुर्नीतं किम् इहास्ति किं सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूराद् अपि ॥ (५२।३)

durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api ||

53.1५३.१

इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन संप्रेषितश् चित्रग्रीवो ऽपि सपरिवारो यथेष्टदेशान् ययौ । (५३।१)

iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena saṃpreṣitaś citragrīvo 'pi saparivāro yatheṣṭadeśān yayau |

53.2५३.२

हिरण्यको ऽपि स्वविवरं प्रविष्टः । (५३।२)

hiraṇyako 'pi svavivaraṃ praviṣṭaḥ |

53.3५३.३

यानि कानि च मित्राणि कर्तव्यानि शतानि च । (५३।३)

yāni kāni ca mitrāṇi kartavyāni śatāni ca |

53.4५३.४

पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः ॥ (५३।४)

paśya mūṣikamitreṇa kapotā muktabandhanāḥ ||

54.1५४.१

अथ लघुपतनकनामा काकः सर्ववृत्तान्तदर्शी साश्चर्यम् इदम् आहाहो हिरण्यक श्लाघ्यो ऽसि अतो ऽहम् अपि त्वया सह मैत्रीं कर्तुम् इच्छामि । (५४।१)

atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi |

54.2५४.२

अतस् त्वं मां मैत्र्येणानुग्रहीतुम् अर्हसि । (५४।२)

atas tvaṃ māṃ maitryeṇānugrahītum arhasi |

54.3५४.३

एतच् छ्रुत्वा हिरण्यको ऽपि विवराभ्यन्तराद् आह कस् त्वम् स ब्रूते लघुपतनकनामा वायसो ऽहम् । (५४।३)

etac chrutvā hiraṇyako 'pi vivarābhyantarād āha kas tvam sa brūte laghupatanakanāmā vāyaso 'ham |

54.4५४.४

हिरण्यको विहस्याह का त्वया सह मैत्री यतः यद् येन युज्यते लोके बुधस् तत् तेन योजयेत् । (५४।४)

hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet |

54.5५४.५

अहम् अन्नं भवान् भोक्ता कथं प्रीतिर् भविष्यति ॥ (५४।५)

aham annaṃ bhavān bhoktā kathaṃ prītir bhaviṣyati ||

55.1५५.१

अपरं च । (५५।१)

aparaṃ ca |

55.2५५.२

भक्ष्यभक्षयोः प्रीतिर् विपत्तेः कारणं मतम् । (५५।२)

bhakṣyabhakṣayoḥ prītir vipatteḥ kāraṇaṃ matam |

55.3५५.३

शृगालात् पाशबद्धो ऽसौ मृगः काकेन रक्षितः ॥ (५५।३)

śṛgālāt pāśabaddho 'sau mṛgaḥ kākena rakṣitaḥ ||

56.1५६.१

वायसो ऽब्रवीत्कथम् एतत् । (५६।१)

vāyaso 'bravītkatham etat |

56.2५६.२

हिरण्यकः कथयति । (५६।२)

hiraṇyakaḥ kathayati |

56.3५६.३

अस्ति मगधदेशे चम्पकवती नाम अरण्यानी । (५६।३)

asti magadhadeśe campakavatī nāma araṇyānī |

56.4५६.४

तस्यां चिरात् महता स्नेहेन मृगकाकौ निवसतः । (५६।४)

tasyāṃ cirāt mahatā snehena mṛgakākau nivasataḥ |

56.5५६.५

स च मृगः स्वेच्छया भ्राम्यन् हृष्टपुष्टाङ्गः केनचित् शृगालेनावलोकितः । (५६।५)

sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭapuṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ |

56.6५६.६

तं दृष्ट्वा शृगालो ऽचिन्तयत् कथम् एतन्मांसं सुललितं भक्षयामि भवतु विश्वासं तावद् उत्पादयामि इत्य् आलोच्य उपसृत्याब्रवीन्मित्र कुशलं ते । (५६।६)

taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te |

56.7५६.७

मृगेणोक्तं कस् त्वम् । (५६।७)

mṛgeṇoktaṃ kas tvam |

56.8५६.८

स ब्रूते क्षुद्रबुद्धिनामा जम्बुको ऽहम् । (५६।८)

sa brūte kṣudrabuddhināmā jambuko 'ham |

56.9५६.९

अत्रारण्ये बन्धुहीनो मृतवत् एकाकी निवसामि । (५६।९)

atrāraṇye bandhuhīno mṛtavat ekākī nivasāmi |

56.10५६.१०

इदानीं त्वां मित्रम् आसाद्य पुनः सबन्धुर् जीवलोकं प्रविष्टो ऽस्मि । (५६।१०)

idānīṃ tvāṃ mitram āsādya punaḥ sabandhur jīvalokaṃ praviṣṭo 'smi |

56.11५६.११

अधुना तवानुचरेण मया सर्वथा भवितव्यम् इति । (५६।११)

adhunā tavānucareṇa mayā sarvathā bhavitavyam iti |

56.12५६.१२

मृगेणोक्तमेवम् अस्तु । (५६।१२)

mṛgeṇoktamevam astu |

56.13५६.१३

ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमिं गतौ । (५६।१३)

tataḥ paścād astaṃ gate savitari bhagavati marīcimālini tau mṛgasya vāsabhūmiṃ gatau |

56.14५६.१४

तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति । (५६।१४)

tatra campakavṛkṣaśākhāyāṃ subuddhināmā kāko mṛgasya ciramitraṃ nivasati |

56.15५६.१५

तौ दृष्ट्वा काको ऽवदत्सखे चित्राङ्ग को ऽयं द्वितीयः । (५६।१५)

tau dṛṣṭvā kāko 'vadatsakhe citrāṅga ko 'yaṃ dvitīyaḥ |

56.16५६.१६

मृगो ब्रूते मित्र अकस्माद् आगन्तुना सह मैत्री न युक्ता । (५६।१६)

mṛgo brūte mitra akasmād āgantunā saha maitrī na yuktā |

56.17५६.१७

तन् न भद्रम् आचरितम् । (५६।१७)

tan na bhadram ācaritam |

56.18५६.१८

तथा चोक्तम् । (५६।१८)

tathā coktam |

56.19५६.१९

अज्ञातकुलशीलस्य वासो देयो न कस्यचित् । (५६।१९)

ajñātakulaśīlasya vāso deyo na kasyacit |

56.20५६.२०

मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः ॥ (५६।२०)

mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ ||

57.1५७.१

तौ आहतुः कथम् एतत् । (५७।१)

tau āhatuḥ katham etat |

57.2५७.२

काकः कथयति । (५७।२)

kākaḥ kathayati |

57.3५७.३

अस्ति भागीरथीतीरे गृध्रकूटनाम्नि पर्वते महान् पर्कटीवृक्षः तस्य कोटरे दैवदुर्विपाकात् गलितनखनयनो जरद्गवनामा गृध्रः प्रतिवसति । (५७।३)

asti bhāgīrathītīre gṛdhrakūṭanāmni parvate mahān parkaṭīvṛkṣaḥ tasya koṭare daivadurvipākāt galitanakhanayano jaradgavanāmā gṛdhraḥ prativasati |

57.4५७.४

अथ कृपया तज्जीवनाय तद्वृक्षवासिनः पक्षिणः स्वाहारात् किंचित् किंचिद् उद्धृत्य तस्मै ददति तेनासौ जीवति तेषां शावकरक्षां च करोति । (५७।४)

atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti |

57.5५७.५

अथ कदाचित् दीर्घकर्णनामा मार्जारः पक्षिशावकान् भक्षयितुं तत्रागतः । (५७।५)

atha kadācit dīrghakarṇanāmā mārjāraḥ pakṣiśāvakān bhakṣayituṃ tatrāgataḥ |

57.6५७.६

ततस् तम् आयान्तं दृष्ट्वा पक्षिशावकैर् भयार्तैः कोलाहलः कृतः । (५७।६)

tatas tam āyāntaṃ dṛṣṭvā pakṣiśāvakair bhayārtaiḥ kolāhalaḥ kṛtaḥ |

57.7५७.७

तच् छ्रुत्वा जरद्गवेन उक्तं को ऽयम् आयाति दीर्घकर्णो गृध्रम् अवलोक्य सभयम् आह हा हतो ऽस्मि यतो ऽयं मां व्यापादयिष्यति । (५७।७)

tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati |

57.8५७.८

अथवा । (५७।८)

athavā |

57.9५७.९

तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् । (५७।९)

tāvad bhayasya bhetavyaṃ yāvad bhayam anāgatam |

57.10५७.१०

आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥ (५७।१०)

āgataṃ tu bhayaṃ vīkṣya naraḥ kuryād yathocitam ||

58.1५८.१

अधुनातिसंनिधाने पलायितुम् अक्षमः । (५८।१)

adhunātisaṃnidhāne palāyitum akṣamaḥ |

58.2५८.२

तद् यथा भवितव्यं तथा भवतु तावत् विश्वासम् उत्पाद्यास्य समीपम् उपगच्छामीत्य् आलोच्य तम् उपसृत्याब्रवीद् आर्य त्वाम् अभिवन्दे । (५८।२)

tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande |

58.3५८.३

गृध्रो ऽवदत्कस् त्वम् । (५८।३)

gṛdhro 'vadatkas tvam |

58.4५८.४

सो ऽवदन्मार्जारो ऽहम् । (५८।४)

so 'vadanmārjāro 'ham |

58.5५८.५

गृध्रो ब्रूते दूरम् अपसर नो चेत् हन्तव्यो ऽसि मया । (५८।५)

gṛdhro brūte dūram apasara no cet hantavyo 'si mayā |

58.6५८.६

मार्जारो ऽवदच्छ्रूयतां तावत् मद्वचनम् । (५८।६)

mārjāro 'vadacchrūyatāṃ tāvat madvacanam |

58.7५८.७

ततो यद्य् अहं वध्यस् तदा हन्तव्यः । (५८।७)

tato yady ahaṃ vadhyas tadā hantavyaḥ |

58.8५८.८

यतः । (५८।८)

yataḥ |

58.9५८.९

जातिमात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । (५८।९)

jātimātreṇa kiṃ kaścid vadhyate pūjyate kvacit |

58.10५८.१०

व्यवहारं परिज्ञाय वध्यः पूज्यो ऽथवा भवेत् ॥ (५८।१०)

vyavahāraṃ parijñāya vadhyaḥ pūjyo 'thavā bhavet ||

59.1५९.१

गृध्रो ब्रूते ब्रूहि किम् अर्थम् आगतो ऽसि । (५९।१)

gṛdhro brūte brūhi kim artham āgato 'si |

59.2५९.२

सो ऽवदद् अहम् अत्र गङ्गातीरे नित्यस्नायी निरामिषाशी ब्रह्मचारी चान्द्रायणव्रतम् आचरंस् तिष्ठामि । (५९।२)

so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi |

59.3५९.३

युष्मान् धर्मज्ञानरताः प्रेमविश्वासभूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति अतो भवद्भ्यो विद्यावयोवृद्धेभ्यो धर्मं श्रोतुम् इहागतः । (५९।३)

yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ |

59.4५९.४

भवन्तश् चैतादृशा धर्मज्ञा यन् माम् अतिथिं हन्तुम् उद्यताः गृहस्थधर्मश् च एषः । (५९।४)

bhavantaś caitādṛśā dharmajñā yan mām atithiṃ hantum udyatāḥ gṛhasthadharmaś ca eṣaḥ |

59.5५९.५

अराव् अप्य् उचितं कार्यम् आतिथ्यं गृहम् आगते । (५९।५)

arāv apy ucitaṃ kāryam ātithyaṃ gṛham āgate |

59.6५९.६

छेत्तुम् अप्य् आगते छायां नोपसंहरते द्रुमः ॥ (५९।६)

chettum apy āgate chāyāṃ nopasaṃharate drumaḥ ||

60.1६०.१

किं च यदि अन्नं नास्ति तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव । (६०।१)

kiṃ ca yadi annaṃ nāsti tadā suprītenāpi vacasā tāvad atithiḥ pūjya eva |

60.2६०.२

तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता । (६०।२)

tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā |

60.3६०.३

एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ (६०।३)

etāny api satāṃ gehe nocchidyante kadācana ||

61.1६१.१

अन्यच् च । (६१।१)

anyac ca |

61.2६१.२

बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः । (६१।२)

bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ |

61.3६१.३

तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ (६१।३)

tasya pūjā vidhātavyā sarvasyābhyāgato guruḥ ||

62.1६२.१

अपरं च । (६२।१)

aparaṃ ca |

62.2६२.२

निर्गुणेष्व् अपि सत्त्वेषु दयां कुर्वन्ति साधवः । (६२।२)

nirguṇeṣv api sattveṣu dayāṃ kurvanti sādhavaḥ |

62.3६२.३

न हि संहरते ज्योत्स्नां चन्द्रश् चाण्डालवेश्मनः ॥ (६२।३)

na hi saṃharate jyotsnāṃ candraś cāṇḍālaveśmanaḥ ||

63.1६३.१

अन्यच् च । (६३।१)

anyac ca |

63.2६३.२

अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते । (६३।२)

atithir yasya bhagnāśo gṛhāt pratinivartate |

63.3६३.३

स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥ (६३।३)

sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati ||

64.1६४.१

अन्यच् च । (६४।१)

anyac ca |

64.2६४.२

उत्तमस्यापि वर्णस्य नीचो ऽपि गृहम् आगतः । (६४।२)

uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ |

64.3६४.३

पूजनीयो यथायोग्यं सर्वदेवमयो ऽतिथिः ॥ (६४।३)

pūjanīyo yathāyogyaṃ sarvadevamayo 'tithiḥ ||

65.1६५.१

गृध्रो ऽवदन्मार्जारो हि मांसरुचिः । (६५।१)

gṛdhro 'vadanmārjāro hi māṃsaruciḥ |

65.2६५.२

पक्षिशावकाश् चात्र निवसन्ति । (६५।२)

pakṣiśāvakāś cātra nivasanti |

65.3६५.३

तेनाहम् एव ब्रवीमि । (६५।३)

tenāham eva bravīmi |

65.4६५.४

तच् छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति । (६५।४)

tac chrutvā mārjāro bhūmiṃ spṛṣṭvā karṇau spṛśati |

65.5६५.५

ब्रूते च मया धर्मशास्त्रं श्रुत्वा वीतरागेनेदं दुष्करं व्रतं चान्द्रायणम् अध्यवसितम् । (६५।५)

brūte ca mayā dharmaśāstraṃ śrutvā vītarāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam |

65.6६५.६

यतः परस्परं विवदमानानाम् अपि धर्मशास्त्राणाम् अहिंसा परमो धर्मः इत्य् अत्रैकमत्यम् । (६५।६)

yataḥ parasparaṃ vivadamānānām api dharmaśāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam |

65.7६५.७

यतः । (६५।७)

yataḥ |

65.8६५.८

सर्वहिंसानिवृत्ता ये नराः सर्वसहाश् च ये । (६५।८)

sarvahiṃsānivṛttā ye narāḥ sarvasahāś ca ye |

65.9६५.९

सर्वस्याश्रयभूताश् च ते नराः स्वर्गगामिनः ॥ (६५।९)

sarvasyāśrayabhūtāś ca te narāḥ svargagāminaḥ ||

66.1६६.१

अन्यच् च । (६६।१)

anyac ca |

66.2६६.२

एक एव सुहृद् धर्मो निधनेऽप्य् अनुयाति यः । (६६।२)

eka eva suhṛd dharmo nidhane'py anuyāti yaḥ |

66.3६६.३

शरीरेण समं नाशं सर्वम् अन्यद्धि गच्छति ॥ (६६।३)

śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati ||

67.1६७.१

किं च । (६७।१)

kiṃ ca |

67.2६७.२

यो ऽत्ति यस्य यदा मांसम् उभयोः पश्यतान्तरम् । (६७।२)

yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram |

67.3६७.३

एकस्य क्षणिका प्रीतिर् अन्यः प्राणैर् विमुच्यते ॥ (६७।३)

ekasya kṣaṇikā prītir anyaḥ prāṇair vimucyate ||

68.1६८.१

अपि च । (६८।१)

api ca |

68.2६८.२

मर्तव्यम् इति यद् दुःखं पुरुषस्योपजायते । (६८।२)

martavyam iti yad duḥkhaṃ puruṣasyopajāyate |

68.3६८.३

शक्यस् तेनानुमानेन परो ऽपि परिरक्षितुम् ॥ (६८।३)

śakyas tenānumānena paro 'pi parirakṣitum ||

69.1६९.१

शृणु पुनः । (६९।१)

śṛṇu punaḥ |

69.2६९.२

स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते । (६९।२)

svacchandavanajātena śākenāpi prapūryate |

69.3६९.३

अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥ (६९।३)

asya dagdhodarasyārthe kaḥ kuryāt pātakaṃ mahat ||

70.1७०.१

एवं विश्वास्य स मार्जारस् तरुकोटरे स्थितः । (७०।१)

evaṃ viśvāsya sa mārjāras tarukoṭare sthitaḥ |

70.2७०.२

ततो दिनेषु गच्छत्सु असौ पक्षिशावकान् आक्रम्य स्वकोटरम् आनीय प्रत्यहं खादति । (७०।२)

tato dineṣu gacchatsu asau pakṣiśāvakān ākramya svakoṭaram ānīya pratyahaṃ khādati |

70.3७०.३

अथ येषाम् अपत्यानि खादितानि तैः शोकार्तैर् विलपद्भिर् इतस् ततो जिज्ञासा समारब्धा । (७०।३)

atha yeṣām apatyāni khāditāni taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā |

70.4७०.४

तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः । (७०।४)

tat parijñāya mārjāraḥ koṭarān niḥsṛtya bahiḥ palāyitaḥ |

70.5७०.५

पश्चात् पक्षिभिर् इतस् ततो निरूपयद्भिस् तत्र तरुकोटरे शावकाः खादिता इति सर्वैः पक्षिभिर् निश्चित्य च गृध्रो व्यापादितः । (७०।५)

paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ |

70.6७०.६

अतो ऽहं ब्रवीम्यज्ञातकुलशीलस्य इत्यादि । (७०।६)

ato 'haṃ bravīmyajñātakulaśīlasya ityādi |

70.7७०.७

इत्य् आकर्ण्य स जम्बुकः सकोपम् आह मृगस्य प्रथमदर्शनदिने भवान् अपि अज्ञातकुलशील एव आसीत् । (७०।७)

ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt |

70.8७०.८

तत् कथं भवता सह एतस्य स्नेहानुवृत्तिर् उत्तरोत्तरं वर्धते अथवा । (७०।८)

tat kathaṃ bhavatā saha etasya snehānuvṛttir uttarottaraṃ vardhate athavā |

70.9७०.९

यत्र विद्वज्जनो नास्ति श्लाघ्यस् तत्राल्पधीर् अपि । (७०।९)

yatra vidvajjano nāsti ślāghyas tatrālpadhīr api |

70.10७०.१०

निरस्तपादपे देशे एरण्डो ऽपि द्रुमायते ॥ (७०।१०)

nirastapādape deśe eraṇḍo 'pi drumāyate ||

71.1७१.१

अन्यच् च । (७१।१)

anyac ca |

71.2७१.२

अयं निजः परो वेति गणना लघुचेतसाम् । (७१।२)

ayaṃ nijaḥ paro veti gaṇanā laghucetasām |

71.3७१.३

उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ (७१।३)

udāracaritānāṃ tu vasudhaiva kuṭumbakam ||

72.1७२.१

यथा चायं मृगो मम बन्धुस् तथा भवान् अपि । (७२।१)

yathā cāyaṃ mṛgo mama bandhus tathā bhavān api |

72.2७२.२

मृगो ऽब्रवीत् कमनेन उत्तरोत्तरेण सर्वैर् एकत्र विश्रम्भालापैः सुखम् अनुभवद्भिः स्थीयताम् । (७२।२)

mṛgo 'bravīt kamanena uttarottareṇa sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām |

72.3७२.३

यतः । (७२।३)

yataḥ |

72.4७२.४

न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः । (७२।४)

na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ |

72.5७२.५

व्यवहारेण मित्राणि जायन्ते रिपवस् तथा ॥ (७२।५)

vyavahāreṇa mitrāṇi jāyante ripavas tathā ||

73.1७३.१

काकेन उक्तमेवम् अस्तु । (७३।१)

kākena uktamevam astu |

73.2७३.२

अथ प्रातः सर्वे यथाभिमतदेशं गताः । (७३।२)

atha prātaḥ sarve yathābhimatadeśaṃ gatāḥ |

73.3७३.३

एकदा निभृतं शृगालो ब्रूते सखे मृग एतस्मिन्न् एव वनैकदेशे सस्यपूर्णं क्षेत्रम् अस्ति । (७३।३)

ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti |

73.4७३.४

तद् अहं त्वां तत्र नीत्वा दर्शयामि । (७३।४)

tad ahaṃ tvāṃ tatra nītvā darśayāmi |

73.5७३.५

तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । (७३।५)

tathā kṛte sati mṛgaḥ pratyahaṃ tatra gatvā sasyaṃ khādati |

73.6७३.६

ततो दिनकतिपयेन क्षेत्रपतिना तद् दृष्ट्वा पाशास् तत्र योजिताः । (७३।६)

tato dinakatipayena kṣetrapatinā tad dṛṣṭvā pāśās tatra yojitāḥ |

73.7७३.७

अनन्तरं पुनर् आगतो मृगः तत्र चरन् पाशैर् बद्धो ऽचिन्तयत्को माम् इतः कालपाशाद् इव व्याधपाशात् त्रातुं मित्राद् अन्यः समर्थः । (७३।७)

anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ |

73.8७३.८

अत्रान्तरे जम्बुकस् तत्रागत्य उपस्थितो ऽचिन्तयत्फलितस् तावद् अस्माकं कपटप्रबन्धः । (७३।८)

atrāntare jambukas tatrāgatya upasthito 'cintayatphalitas tāvad asmākaṃ kapaṭaprabandhaḥ |

73.9७३.९

मनोरथसिद्धिर् अपि बाहुल्यान् मे भविष्यति । (७३।९)

manorathasiddhir api bāhulyān me bhaviṣyati |

73.10७३.१०

यतः एतस्य उत्कृत्यमानस्य मांसासृग्लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । (७३।१०)

yataḥ etasya utkṛtyamānasya māṃsāsṛgliptāni asthīni mayā avaśyaṃ prāptavyāni |

73.11७३.११

तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । (७३।११)

tāni ca bāhulyena mama bhojanāni bhaviṣyanti |

73.12७३.१२

स च मृगस् तं दृष्ट्वा उल्लासितो ब्रूते सखे छिन्द्धि तावन् मम बन्धनम् । (७३।१२)

sa ca mṛgas taṃ dṛṣṭvā ullāsito brūte sakhe chinddhi tāvan mama bandhanam |

73.13७३.१३

सत्वरं त्रायस्व माम् । (७३।१३)

satvaraṃ trāyasva mām |

73.14७३.१४

यतः । (७३।१४)

yataḥ |

73.15७३.१५

आपत्सु मित्रं जानीयाद् रणे शूरम् ऋणे शुचिम् । (७३।१५)

āpatsu mitraṃ jānīyād raṇe śūram ṛṇe śucim |

73.16७३.१६

भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ (७३।१६)

bhāryāṃ kṣīṇeṣu vitteṣu vyasaneṣu ca bāndhavān ||

74.1७४.१

अपरं च । (७४।१)

aparaṃ ca |

74.2७४.२

उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रुसंकटे । (७४।२)

utsave vyasane prāpte durbhikṣe śatrusaṃkaṭe |

74.3७४.३

राजद्वारे श्मशाने च यस् तिष्ठति स बान्धवः ॥ (७४।३)

rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ ||

75.1७५.१

जम्बुकः पाशं मुहुर् मुहुर् विलोक्याचिन्तयद्दृढस् तावद् अयं बन्धः । (७५।१)

jambukaḥ pāśaṃ muhur muhur vilokyācintayaddṛḍhas tāvad ayaṃ bandhaḥ |

75.2७५.२

ब्रूते च सखे स्नायुनिर्मिताः पाशाः । (७५।२)

brūte ca sakhe snāyunirmitāḥ pāśāḥ |

75.3७५.३

तद् अद्य भट्टारकवारे कथम् एतान् दन्तैः स्पृशामि मित्र यदि चित्ते न अन्यथा मन्यसे तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यम् इति । (७५।३)

tad adya bhaṭṭārakavāre katham etān dantaiḥ spṛśāmi mitra yadi citte na anyathā manyase tadā prabhāte yat tvayā vaktavyaṃ tat kartavyam iti |

75.4७५.४

अनन्तरं स काकः प्रदोषकाले मृगमनागतम् अवलोक्य इतस् ततो ऽन्विष्यन् तथाविधं तं दृष्ट्वा उवाच सखे किम् एतत् मृगेणोक्तम् अवधीरितसुहृद्वाक्यस्य फलम् एतत् । (७५।४)

anantaraṃ sa kākaḥ pradoṣakāle mṛgamanāgatam avalokya itas tato 'nviṣyan tathāvidhaṃ taṃ dṛṣṭvā uvāca sakhe kim etat mṛgeṇoktam avadhīritasuhṛdvākyasya phalam etat |

75.5७५.५

तथा चोक्तम् । (७५।५)

tathā coktam |

75.6७५.६

सुहृदां हितकामानां यः शृणोति न भाषितम् । (७५।६)

suhṛdāṃ hitakāmānāṃ yaḥ śṛṇoti na bhāṣitam |

75.7७५.७

विपत् संनिहिता तस्य स नरः शत्रुनन्दनः ॥ (७५।७)

vipat saṃnihitā tasya sa naraḥ śatrunandanaḥ ||

76.1७६.१

काको ब्रूते । (७६।१)

kāko brūte |

76.2७६.२

स वञ्चकः क्वास्ते । (७६।२)

sa vañcakaḥ kvāste |

76.3७६.३

मृगेणोक्तं मन्मांसार्थी तिष्ठत्य् अत्रैव । (७६।३)

mṛgeṇoktaṃ manmāṃsārthī tiṣṭhaty atraiva |

76.4७६.४

काको ब्रूते मित्र उक्तम् एव मया पूर्वम् । (७६।४)

kāko brūte mitra uktam eva mayā pūrvam |

76.5७६.५

अपराधो न मे ऽस्तीति नैतद् विश्वासकारणम् । (७६।५)

aparādho na me 'stīti naitad viśvāsakāraṇam |

76.6७६.६

विद्यते हि नृशंसेभ्यो भयं गुणवताम् अपि ॥ (७६।६)

vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatām api ||

77.1७७.१

दीपनिर्वाणगन्धं च सुहृद्वाक्यम् अरुन्धतीम् । (७७।१)

dīpanirvāṇagandhaṃ ca suhṛdvākyam arundhatīm |

77.2७७.२

न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गतायुषः ॥ (७७।२)

na jighranti na śṛṇvanti na paśyanti gatāyuṣaḥ ||

78.1७८.१

परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । (७८।१)

parokṣe kāryahantāraṃ pratyakṣe priyavādinam |

78.2७८.२

वर्जयेत् तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ (७८।२)

varjayet tādṛśaṃ mitraṃ viṣakumbhaṃ payomukham ||

79.1७९.१

ततः काको दीर्घं निःश्वस्य उवाचारे वञ्चक किं त्वया पापकर्मणा कृतम् । (७९।१)

tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam |

79.2७९.२

यतः । (७९।२)

yataḥ |

79.3७९.३

संलापितानां मधुरैर् वचोभिर् मिथ्योपचारैश् च वशीकृतानाम् । (७९।३)

saṃlāpitānāṃ madhurair vacobhir mithyopacāraiś ca vaśīkṛtānām |

79.4७९.४

आशावतां श्रद्दधतां च लोके किम् अर्थिनां वञ्चयितव्यम् अस्ति ॥ (७९।४)

āśāvatāṃ śraddadhatāṃ ca loke kim arthināṃ vañcayitavyam asti ||

80.1८०.१

अन्यच् च । (८०।१)

anyac ca |

80.2८०.२

उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् । (८०।२)

upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam |

80.3८०.३

तं जनम् असत्यसन्धं भगवति वसुधे कथं वहसि ॥ (८०।३)

taṃ janam asatyasandhaṃ bhagavati vasudhe kathaṃ vahasi ||

81.1८१.१

दुर्जनेन समं सख्यं वैरं चापि न कारयेत् । (८१।१)

durjanena samaṃ sakhyaṃ vairaṃ cāpi na kārayet |

81.2८१.२

उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ (८१।२)

uṣṇo dahati cāṅgāraḥ śītaḥ kṛṣṇāyate karam ||

82.1८२.१

अथवा स्थितिर् इयं दुर्जनानाम् । (८२।१)

athavā sthitir iyaṃ durjanānām |

82.2८२.२

प्राक् पादयोः पतति खादति पृष्ठमांसं कर्णे फलं किम् अपि रौति शनैर् विचित्रम् । (८२।२)

prāk pādayoḥ patati khādati pṛṣṭhamāṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram |

82.3८२.३

छिद्रं निरूप्य सहसा प्रविशत्य् अशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥ (८२।३)

chidraṃ nirūpya sahasā praviśaty aśaṅkaḥ sarvaṃ khalasya caritaṃ maśakaḥ karoti ||

83.1८३.१

तथा च । (८३।१)

tathā ca |

83.2८३.२

दुर्जनः प्रियवादी च नैतद् विश्वासकारणम् । (८३।२)

durjanaḥ priyavādī ca naitad viśvāsakāraṇam |

83.3८३.३

मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ (८३।३)

madhu tiṣṭhati jihvāgre hṛdi hālāhalaṃ viṣam ||

84.1८४.१

अथ प्रभाते स क्षेत्रपतिर् लगुडहस्तस् तं प्रदेशम् आगच्छन् काकेनावलोकितः । (८४।१)

atha prabhāte sa kṣetrapatir laguḍahastas taṃ pradeśam āgacchan kākenāvalokitaḥ |

84.2८४.२

तम् अवलोक्य काकेनोक्तम् । (८४।२)

tam avalokya kākenoktam |

84.3८४.३

सखे मृग त्वम् आत्मानं मृतवत् संदर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । (८४।३)

sakhe mṛga tvam ātmānaṃ mṛtavat saṃdarśya vātenodaraṃ pūrayitvā pādān stabdhīkṛtya tiṣṭha |

84.4८४.४

अहं तव चक्षुषी चञ्च्वा किम् अपि विलिखामि यदाहं शब्दं करोमि तदा त्वम् उत्थाय सत्वरं पलायिष्यसे । (८४।४)

ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase |

84.5८४.५

मृगस् तथैव काकवचनेन स्थितः । (८४।५)

mṛgas tathaiva kākavacanena sthitaḥ |

84.6८४.६

ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेन तथाविधो मृग आलोकितः । (८४।६)

tataḥ kṣetrapatinā harṣotphullalocanena tathāvidho mṛga ālokitaḥ |

84.7८४.७

अथासौ आः स्वयं मृतो ऽसि इत्य् उक्त्वा मृगं बन्धनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । (८४।७)

athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva |

84.8८४.८

ततः कियद् दूरे अन्तरिते क्षेत्रपतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरम् उत्थाय पलायितः । (८४।८)

tataḥ kiyad dūre antarite kṣetrapatau sa mṛgaḥ kākasya śabdaṃ śrutvā satvaram utthāya palāyitaḥ |

84.9८४.९

तम् उद्दिश्य तेन क्षेत्रपतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः । (८४।९)

tam uddiśya tena kṣetrapatinā prakopāt kṣiptena laguḍena śṛgālo vyāpāditaḥ |

84.10८४.१०

तथा चोक्तम् । (८४।१०)

tathā coktam |

84.11८४.११

त्रिभिर् वर्षैस् त्रिभिर् मासैस् त्रिभिः पक्षैस् त्रिभिर् दिनैः । (८४।११)

tribhir varṣais tribhir māsais tribhiḥ pakṣais tribhir dinaiḥ |

84.12८४.१२

अत्युत्कटैः पापपुण्यैर् इहैव फलम् अश्नुते ॥ (८४।१२)

atyutkaṭaiḥ pāpapuṇyair ihaiva phalam aśnute ||

85.1८५.१

अतो ऽहं ब्रवीमि भक्ष्यभक्षकयोः प्रीतिर् इत्यादि । (८५।१)

ato 'haṃ bravīmi bhakṣyabhakṣakayoḥ prītir ityādi |

85.2८५.२

इति मृगवायसशृगालकथा । (८५।२)

iti mṛgavāyasaśṛgālakathā |

85.3८५.३

काकः पुनर् आह । (८५।३)

kākaḥ punar āha |

85.4८५.४

भक्षितेनापि भवता नाहारो मम पुष्कलः । (८५।४)

bhakṣitenāpi bhavatā nāhāro mama puṣkalaḥ |

85.5८५.५

त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥ (८५।५)

tvayi jīvati jīvāmi citragrīva ivānagha ||

86.1८६.१

अन्यच् च । (८६।१)

anyac ca |

86.2८६.२

तिरश्चाम् अपि विश्वासो दृष्टः पुण्यैककर्मणाम् । (८६।२)

tiraścām api viśvāso dṛṣṭaḥ puṇyaikakarmaṇām |

86.3८६.३

सतां हि साधुशीलत्वात् स्वभावो न निवर्तते ॥ (८६।३)

satāṃ hi sādhuśīlatvāt svabhāvo na nivartate ||

87.1८७.१

किं च । (८७।१)

kiṃ ca |

87.2८७.२

साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् । (८७।२)

sādhoḥ prakopitasyāpi mano nāyāti vikriyām |

87.3८७.३

न हि तापयितुं शक्यं सागराम्भस् तृणोल्कया ॥ (८७।३)

na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā ||

88.1८८.१

हिरण्यको ब्रूते चपलस् त्वम् । (८८।१)

hiraṇyako brūte capalas tvam |

88.2८८.२

चपलेन सह स्नेहः सर्वथा न कर्तव्यः । (८८।२)

capalena saha snehaḥ sarvathā na kartavyaḥ |

88.3८८.३

तथा चोक्तम् । (८८।३)

tathā coktam |

88.4८८.४

मार्जारो महिषो मेषः काकः कापुरुषस् तथा । (८८।४)

mārjāro mahiṣo meṣaḥ kākaḥ kāpuruṣas tathā |

88.5८८.५

विश्वासात् प्रभवन्त्य् एते विश्वासस् तत्र नो हितः ॥ (८८।५)

viśvāsāt prabhavanty ete viśvāsas tatra no hitaḥ ||

89.1८९.१

किं चान्यत् । (८९।१)

kiṃ cānyat |

89.2८९.२

शत्रुपक्षो भवान् अस्माकम् । (८९।२)

śatrupakṣo bhavān asmākam |

89.3८९.३

शत्रुणा संधिर् न विधेयम् । (८९।३)

śatruṇā saṃdhir na vidheyam |

89.4८९.४

उक्तं चैतत् । (८९।४)

uktaṃ caitat |

89.5८९.५

शत्रुणा न हि संदध्यात् संश्लिष्टेनापि संधिना । (८९।५)

śatruṇā na hi saṃdadhyāt saṃśliṣṭenāpi saṃdhinā |

89.6८९.६

सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ॥ (८९।६)

sutaptam api pānīyaṃ śamayaty eva pāvakam ||

90.1९०.१

दुर्जनः परिहर्तव्यो विद्ययालंकृतो ऽपि सन् । (९०।१)

durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san |

90.2९०.२

मणिना भूषितः सर्पः किम् असौ न भयंकरः ॥ (९०।२)

maṇinā bhūṣitaḥ sarpaḥ kim asau na bhayaṃkaraḥ ||

91.1९१.१

यद् अशक्यं न तच् छक्यं यच्छक्यं शक्यम् एव तत् । (९१।१)

yad aśakyaṃ na tac chakyaṃ yacchakyaṃ śakyam eva tat |

91.2९१.२

नोदके शकटं याति न च नौर् गच्छति स्थले ॥ (९१।२)

nodake śakaṭaṃ yāti na ca naur gacchati sthale ||

92.1९२.१

अपरं च । (९२।१)

aparaṃ ca |

92.2९२.२

महताप्य् अर्थसारेण यो विश्वसिति शत्रुषु । (९२।२)

mahatāpy arthasāreṇa yo viśvasiti śatruṣu |

92.3९२.३

भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥ (९२।३)

bhāryāsu ca viraktāsu tadantaṃ tasya jīvanam ||

93.1९३.१

लघुपतनको ब्रूते श्रुतं मया सर्वम् । (९३।१)

laghupatanako brūte śrutaṃ mayā sarvam |

93.2९३.२

तथापि ममैतावन् एव संकल्पः । (९३।२)

tathāpi mamaitāvan eva saṃkalpaḥ |

93.3९३.३

यत् त्वया सह सौहृद्यम् अवश्यं करणीयम् इति । (९३।३)

yat tvayā saha sauhṛdyam avaśyaṃ karaṇīyam iti |

93.4९३.४

अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । (९३।४)

anyathā anāhāreṇātmānaṃ tava dvāri vyāpādayiṣyāmīti |

93.5९३.५

तथा हि । (९३।५)

tathā hi |

93.6९३.६

मृद्घटवत् सुखभेद्यो दुःसंधानश्च दुर्जनो भवति । (९३।६)

mṛdghaṭavat sukhabhedyo duḥsaṃdhānaśca durjano bhavati |

93.7९३.७

सुजनस् तु कनकघटवद् दुर्भेद्यश् चाशु संधेयः ॥ (९३।७)

sujanas tu kanakaghaṭavad durbhedyaś cāśu saṃdheyaḥ ||

94.1९४.१

किं च । (९४।१)

kiṃ ca |

94.2९४.२

द्रवत्वात् सर्वलोहानां निमित्तान्मृगपक्षिणाम् । (९४।२)

dravatvāt sarvalohānāṃ nimittānmṛgapakṣiṇām |

94.3९४.३

भयाल् लोभाच् च मूर्खाणां सङ्गतः दर्शनात् सताम् ॥ (९४।३)

bhayāl lobhāc ca mūrkhāṇāṃ saṅgataḥ darśanāt satām ||

95.1९५.१

किं च । (९५।१)

kiṃ ca |

95.2९५.२

नारिकेलसमाकारा दृश्यन्ते हि सुहृज्जनाः । (९५।२)

nārikelasamākārā dṛśyante hi suhṛjjanāḥ |

95.3९५.३

अन्ये बदरिकाकारा बहिर् एव मनोहराः ॥ (९५।३)

anye badarikākārā bahir eva manoharāḥ ||

96.1९६.१

अन्यच् च । (९६।१)

anyac ca |

96.2९६.२

स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् । (९६।२)

snehacchede'pi sādhūnāṃ guṇā nāyānti vikriyām |

96.3९६.३

भङ्गेऽपि हि मृणालानाम् अनुबध्नन्ति तन्तवः ॥ (९६।३)

bhaṅge'pi hi mṛṇālānām anubadhnanti tantavaḥ ||

97.1९७.१

अन्यच् च । (९७।१)

anyac ca |

97.2९७.२

शुचित्वम् त्यागिता शौर्यं सामान्यं सुखदुःखयोः । (९७।२)

śucitvam tyāgitā śauryaṃ sāmānyaṃ sukhaduḥkhayoḥ |

97.3९७.३

दाक्षिण्यं चानुरक्तिश् च सत्यता च सुहृद्गुणाः ॥ (९७।३)

dākṣiṇyaṃ cānuraktiś ca satyatā ca suhṛdguṇāḥ ||

98.1९८.१

एतैर् गुणैर् उपेतो भवदन्यो मया कः सुहृत् प्राप्तव्यः । (९८।१)

etair guṇair upeto bhavadanyo mayā kaḥ suhṛt prāptavyaḥ |

98.2९८.२

इत्यादि तद्वचनम् आकर्ण्य हिरण्यको बहिः निःसृत्याहाप्यायितो ऽहं भवताम् एतेन वचनामृतेन । (९८।२)

ityādi tadvacanam ākarṇya hiraṇyako bahiḥ niḥsṛtyāhāpyāyito 'haṃ bhavatām etena vacanāmṛtena |

98.3९८.३

तथा चोक्तम् । (९८।३)

tathā coktam |

98.4९८.४

घर्मार्तं न तथा सुशीतलजलैः स्नानं न मुक्तावली न श्रीखण्डविलेपनम् सुखयति प्रत्यङ्गम् अप्य् अर्पितम् । (९८।४)

gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam |

98.5९८.५

प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः सद्युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टिमन्त्रोपमम् ॥ (९८।५)

prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam ||

99.1९९.१

अन्यच् च । (९९।१)

anyac ca |

99.2९९.२

रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तता । (९९।२)

rahasyabhedo yācñā ca naiṣṭhuryaṃ calacittatā |

99.3९९.३

क्रोधो निःसत्यता द्यूतम् एतन् मित्रस्य दूषणम् ॥ (९९।३)

krodho niḥsatyatā dyūtam etan mitrasya dūṣaṇam ||

100.1१००.१

अनेन वचनक्रमेण तत् एकम् अपि दूषणं त्वयि न लक्ष्यते । (१००।१)

anena vacanakrameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate |

100.2१००.२

यतः । (१००।२)

yataḥ |

100.3१००.३

पटुत्वं सत्यवादित्वं कथायोगेन बुध्यते । (१००।३)

paṭutvaṃ satyavāditvaṃ kathāyogena budhyate |

100.4१००.४

अस्तब्धत्वम् अचापल्यं प्रत्यक्षेनावगम्यते ॥ (१००।४)

astabdhatvam acāpalyaṃ pratyakṣenāvagamyate ||

101.1१०१.१

अपरं च । (१०१।१)

aparaṃ ca |

101.2१०१.२

अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः । (१०१।२)

anyathaiva hi sauhārdaṃ bhavet svacchāntarātmanaḥ |

101.3१०१.३

प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥ (१०१।३)

pravartate'nyathā vāṇī śāṭhyopahatacetasaḥ ||

102.1१०२.१

मनस्य् अन्यद् वचस्य् अन्यत् कर्मण्य् अन्यद् दुरात्मनाम् । (१०२।१)

manasy anyad vacasy anyat karmaṇy anyad durātmanām |

102.2१०२.२

मनस्य् एकं वचस्य् एकं कर्मण्य् एकं महात्मनाम् ॥ (१०२।२)

manasy ekaṃ vacasy ekaṃ karmaṇy ekaṃ mahātmanām ||

103.1१०३.१

तद् भवतु भवतः अभिमतम् एव । (१०३।१)

tad bhavatu bhavataḥ abhimatam eva |

103.2१०३.२

इत्य् उक्त्वा हिरण्यको मैत्र्यं विधाय भोजनविशेषैर् वायसं संतोष्य विवरं प्रविष्टः । (१०३।२)

ity uktvā hiraṇyako maitryaṃ vidhāya bhojanaviśeṣair vāyasaṃ saṃtoṣya vivaraṃ praviṣṭaḥ |

103.3१०३.३

वायसो ऽपि स्वस्थानं गतः ततःप्रभृति तयोः अन्यो ऽन्याहारप्रदानेन कुशलप्रश्नैः विश्रम्भालापैश् च कियत्कालो ऽतिवर्तते । (१०३।३)

vāyaso 'pi svasthānaṃ gataḥ tataḥprabhṛti tayoḥ anyo 'nyāhārapradānena kuśalapraśnaiḥ viśrambhālāpaiś ca kiyatkālo 'tivartate |

103.4१०३.४

एकदा लघुपतनको हिरण्यकम् आह सखे वायसस्य कष्टतरलभ्याहारम् इदं स्थानम् । (१०३।४)

ekadā laghupatanako hiraṇyakam āha sakhe vāyasasya kaṣṭataralabhyāhāram idaṃ sthānam |

103.5१०३.५

तद् एतत् परित्यज्य स्थानान्तरं गन्तुम् इच्छामि । (१०३।५)

tad etat parityajya sthānāntaraṃ gantum icchāmi |

103.6१०३.६

हिरण्यको ब्रूते । (१०३।६)

hiraṇyako brūte |

103.7१०३.७

स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । (१०३।७)

sthānabhraṣṭā na śobhante dantāḥ keśā nakhā narāḥ |

103.8१०३.८

इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥ (१०३।८)

iti vijñāya matimān svasthānaṃ na parityajet ||

104.1१०४.१

काको ब्रूते मित्र कापुरुषस्य वचनम् एतत् । (१०४।१)

kāko brūte mitra kāpuruṣasya vacanam etat |

104.2१०४.२

यतः । (१०४।२)

yataḥ |

104.3१०४.३

स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । (१०४।३)

sthānam utsṛjya gacchanti siṃhāḥ satpuruṣā gajāḥ |

104.4१०४.४

तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ (१०४।४)

tatraiva nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ ||

105.1१०५.१

अन्यच् च । (१०५।१)

anyac ca |

105.2१०५.२

को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतः यं देशं श्रयते तम् एव कुरुते बाहुप्रतापार्जितम् । (१०५।२)

ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam |

105.3१०५.३

यद् दंष्ट्रानखलाङ्गुलप्रहरणः सिंहो वनं गाहते तस्मिन्न् एव हतद्विपेन्द्ररुधिरैस् तृष्णां छिनत्त्य् आत्मनः ॥ (१०५।३)

yad daṃṣṭrānakhalāṅgulapraharaṇaḥ siṃho vanaṃ gāhate tasminn eva hatadvipendrarudhirais tṛṣṇāṃ chinatty ātmanaḥ ||

106.1१०६.१

हिरण्यको ब्रूते मित्र क्व गन्तव्यम् तथा चोक्तम् । (१०६।१)

hiraṇyako brūte mitra kva gantavyam tathā coktam |

106.2१०६.२

चलत्य् एकेन पादेन तिष्ठत्य् एकेन बुद्धिमान् । (१०६।२)

calaty ekena pādena tiṣṭhaty ekena buddhimān |

106.3१०६.३

नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ॥ (१०६।३)

nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet ||

107.1१०७.१

वायसो ब्रूते मित्र अस्ति सुनिरूपितं स्थानम् । (१०७।१)

vāyaso brūte mitra asti sunirūpitaṃ sthānam |

107.2१०७.२

हिरण्यको ऽवदत्किं तत् । (१०७।२)

hiraṇyako 'vadatkiṃ tat |

107.3१०७.३

वायसः कथयत्यस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः । (१०७।३)

vāyasaḥ kathayatyasti daṇḍakāraṇye karpūragaurābhidhānaṃ saraḥ |

107.4१०७.४

तत्र चिरकालोपार्जितः प्रियसुहृन् मे मन्थराभिधानः कूर्मः सहजधार्मिकः प्रतिवसति । (१०७।४)

tatra cirakālopārjitaḥ priyasuhṛn me mantharābhidhānaḥ kūrmaḥ sahajadhārmikaḥ prativasati |

107.5१०७.५

पश्य मित्र । (१०७।५)

paśya mitra |

107.6१०७.६

परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । (१०७।६)

paropadeśe pāṇḍityaṃ sarveṣāṃ sukaraṃ nṛṇām |

107.7१०७.७

धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥ (१०७।७)

dharme svīyam anuṣṭhānaṃ kasyacit tu mahātmanaḥ ||

108.1१०८.१

स च भोजनविशेषैर् मां संवर्धयिष्यति । (१०८।१)

sa ca bhojanaviśeṣair māṃ saṃvardhayiṣyati |

108.2१०८.२

हिरण्यको ऽप्य् आह तत् किम् अत्रावस्थाय मया कर्तव्यम् । (१०८।२)

hiraṇyako 'py āha tat kim atrāvasthāya mayā kartavyam |

108.3१०८.३

यतः । (१०८।३)

yataḥ |

108.4१०८.४

यस्मिन् देशे न सम्मानो न वृत्तिर् न च बान्धवः । (१०८।४)

yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ |

108.5१०८.५

न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥ (१०८।५)

na ca vidyāgamaḥ kaścit taṃ deśaṃ parivarjayet ||

109.1१०९.१

अपरं च । (१०९।१)

aparaṃ ca |

109.2१०९.२

धनिकः श्रोत्रियो राजा नदी वैद्यस् तु पञ्चमः । (१०९।२)

dhanikaḥ śrotriyo rājā nadī vaidyas tu pañcamaḥ |

109.3१०९.३

पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ (१०९।३)

pañca yatra na vidyante tatra vāsaṃ na kārayet ||

110.1११०.१

अपरं च । (११०।१)

aparaṃ ca |

110.2११०.२

लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता । (११०।२)

lokayātrā bhayaṃ lajjā dākṣiṇyaṃ tyāgaśīlatā |

110.3११०.३

पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥ (११०।३)

pañca yatra na vidyante na kuryāt tatra saṃsthitim ||

111.1१११.१

अन्यच् च । (१११।१)

anyac ca |

111.2१११.२

तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयम् । (१११।२)

tatra mitra na vastavyaṃ yatra nāsti catuṣṭayam |

111.3१११.३

ऋणदाता च वैद्यश् च श्रोत्रियः सजला नदी ॥ (१११।३)

ṛṇadātā ca vaidyaś ca śrotriyaḥ sajalā nadī ||

112.1११२.१

अतो माम् अपि तत्र नय । (११२।१)

ato mām api tatra naya |

112.2११२.२

वायसो ऽवदद् एवम् अस्तु । (११२।२)

vāyaso 'vadad evam astu |

112.3११२.३

अथ वायसस् तेन मित्रेण सह विचित्रालापसुखेन तस्य सरसः समीपं ययौ । (११२।३)

atha vāyasas tena mitreṇa saha vicitrālāpasukhena tasya sarasaḥ samīpaṃ yayau |

112.4११२.४

ततो मन्थरो दूराद् एव लघुपतनकम् अवलोक्य उत्थाय यथोचितम् आतिथ्यं विधाय मूषिकस्याप्य् अतिथिसत्कारं चकार । (११२।४)

tato mantharo dūrād eva laghupatanakam avalokya utthāya yathocitam ātithyaṃ vidhāya mūṣikasyāpy atithisatkāraṃ cakāra |

112.5११२.५

यतः । (११२।५)

yataḥ |

112.6११२.६

बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः । (११२।६)

bālo vā yadi vā vṛddho yuvā vā gṛham āgataḥ |

112.7११२.७

तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥ (११२।७)

tasya pūjā vidhātavyā sarvatrābhyāgato guruḥ ||

113.1११३.१

तथा । (११३।१)

tathā |

113.2११३.२

गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः । (११३।२)

gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ |

113.3११३.३

पतिर् एको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ (११३।३)

patir eko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ ||

114.1११४.१

अपरं च । (११४।१)

aparaṃ ca |

114.2११४.२

उत्तमस्यापि वर्णस्य नीचो ऽपि गृहम् आगतः । (११४।२)

uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ |

114.3११४.३

पूजनीयो यथायोग्यं सर्वदेवमयो ऽतिथिः ॥ (११४।३)

pūjanīyo yathāyogyaṃ sarvadevamayo 'tithiḥ ||

115.1११५.१

वायसो ऽवदत्सखे मन्थर सविशेषपूजाम् असमि विधेहि यतो ऽयं पुण्यकर्मणां धुरीणः कारुण्यरत्नाकरो हिरण्यकनामा मूषिकराजः । (११५।१)

vāyaso 'vadatsakhe manthara saviśeṣapūjām asami vidhehi yato 'yaṃ puṇyakarmaṇāṃ dhurīṇaḥ kāruṇyaratnākaro hiraṇyakanāmā mūṣikarājaḥ |

115.2११५.२

एतस्य गुणस्तुतिं जिह्वासहस्रद्वयेनापि यदि सर्पराजः कदाचित् कर्तुं समर्थः स्यात् इत्य् उक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । (११५।२)

etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān |

115.3११५.३

ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह भद्र आत्मनो निर्जनवनागमनकारणम् आख्यातुम् अर्हसि । (११५।३)

tato mantharaḥ sādaraṃ hiraṇyakaṃ sampūjyāha bhadra ātmano nirjanavanāgamanakāraṇam ākhyātum arhasi |

115.4११५.४

हिरण्यको ऽवदत्कथयामि श्रूयताम् । (११५।४)

hiraṇyako 'vadatkathayāmi śrūyatām |

115.5११५.५

अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकाव् असथः । (११५।५)

asti campakābhidhānāyāṃ nagaryāṃ parivrājakāv asathaḥ |

115.6११५.६

तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । (११५।६)

tatra cūḍākarṇo nāma parivrājakaḥ prativasati |

115.7११५.७

स च भोजनावशिष्टभिक्षान्नसहितं भिक्षापात्रं नागदन्तके ऽवस्थाप्य स्वपिति । (११५।७)

sa ca bhojanāvaśiṣṭabhikṣānnasahitaṃ bhikṣāpātraṃ nāgadantake 'vasthāpya svapiti |

115.8११५.८

अहं च तद् अन्नम् उत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । (११५।८)

ahaṃ ca tad annam utplutya utplutya pratyahaṃ bhakṣayāmi |

115.9११५.९

अनन्तरं तस्य प्रियसुहृद् वीणाकर्णो नाम परिव्राजकः समायातः । (११५।९)

anantaraṃ tasya priyasuhṛd vīṇākarṇo nāma parivrājakaḥ samāyātaḥ |

115.10११५.१०

तेन सह नानाकथाप्रसङ्गावस्थितो मम त्रासार्थं जर्जरवंशखण्डेन चूडाकर्णो भूमिम् अताडयत् । (११५।१०)

tena saha nānākathāprasaṅgāvasthito mama trāsārthaṃ jarjaravaṃśakhaṇḍena cūḍākarṇo bhūmim atāḍayat |

115.11११५.११

तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच सखे किम् इति मम कथाविरक्तो ऽन्यासक्तो भवान् । (११५।११)

taṃ tathāvidhaṃ dṛṣṭvā vīṇākarṇa uvāca sakhe kim iti mama kathāvirakto 'nyāsakto bhavān |

115.12११५.१२

यतः । (११५।१२)

yataḥ |

115.13११५.१३

मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । (११५।१३)

mukhaṃ prasannaṃ vimalā ca dṛṣṭiḥ kathānurāgo madhurā ca vāṇī |

115.14११५.१४

स्नेहो ऽधिकः सम्भ्रमदर्शनं च सदानुरक्तस्य जनस्य लक्ष्म ॥ (११५।१४)

sneho 'dhikaḥ sambhramadarśanaṃ ca sadānuraktasya janasya lakṣma ||

116.1११६.१

अदृष्टिदानं कृतपूर्वनाशनम् आननं दुश्चरितानुकीर्तनम् । (११६।१)

adṛṣṭidānaṃ kṛtapūrvanāśanam ānanaṃ duścaritānukīrtanam |

116.2११६.२

कथाप्रसङ्गेन च नामविस्मृतिर् विरक्तभावस्य जनस्य लक्षणम् ॥ (११६।२)

kathāprasaṅgena ca nāmavismṛtir viraktabhāvasya janasya lakṣaṇam ||

117.1११७.१

चूडाकर्णेनोक्तम् । (११७।१)

cūḍākarṇenoktam |

117.2११७.२

भद्र नाहं विरक्तः किंतु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नम् उत्प्लुत्य भक्षयति । (११७।२)

bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati |

117.3११७.३

वीणाकर्णो नागदन्तम् अवलोक्याह कथम् अयं मूषिकः स्वल्पबलो ऽप्य् एतावद् दूरम् उत्पतति तद् अत्र केनापि कारणेन भवितव्यम् । (११७।३)

vīṇākarṇo nāgadantam avalokyāha katham ayaṃ mūṣikaḥ svalpabalo 'py etāvad dūram utpatati tad atra kenāpi kāraṇena bhavitavyam |

117.4११७.४

क्षणं विचिन्त्य परिव्राजकेनोक्तम् । (११७।४)

kṣaṇaṃ vicintya parivrājakenoktam |

117.5११७.५

कारणं चात्र धनबाहुल्यम् एव प्रतिभाति । (११७।५)

kāraṇaṃ cātra dhanabāhulyam eva pratibhāti |

117.6११७.६

यतः । (११७।६)

yataḥ |

117.7११७.७

धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा । (११७।७)

dhanavān balavān loke sarvaḥ sarvatra sarvadā |

117.8११७.८

प्रभुत्वं धनमूलं हि राज्ञाम् अप्य् उपजायते ॥ (११७।८)

prabhutvaṃ dhanamūlaṃ hi rājñām apy upajāyate ||

118.1११८.१

ततः खनित्रम् आदाय तेन परिव्राजकेन विवरं खनित्वा चिरसंचितं मम धनं गृहीतम् । (११८।१)

tataḥ khanitram ādāya tena parivrājakena vivaraṃ khanitvā cirasaṃcitaṃ mama dhanaṃ gṛhītam |

118.2११८.२

ततः प्रभृति प्रत्यहं निजशक्तिहीनः सत्त्वोत्साहरहितः स्वाहारम् अप्य् उत्पादयितुम् अक्षमः सन्न् आसं मन्दं मन्दम् उपसर्पन् चूडाकर्णेनावलोकितः । (११८।२)

tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ |

118.3११८.३

ततस् तेनोक्तम् । (११८।३)

tatas tenoktam |

118.4११८.४

धनेन बलवान् लोको धनाद् भवति पण्डितः । (११८।४)

dhanena balavān loko dhanād bhavati paṇḍitaḥ |

118.5११८.५

पश्यैनं मूषिकं पापं स्वजातिसमतां गतम् ॥ (११८।५)

paśyainaṃ mūṣikaṃ pāpaṃ svajātisamatāṃ gatam ||

119.1११९.१

किं च । (११९।१)

kiṃ ca |

119.2११९.२

अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः । (११९।२)

arthena tu vihīnasya puruṣasyālpamedhasaḥ |

119.3११९.३

क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ (११९।३)

kriyāḥ sarvā vinaśyanti grīṣme kusarito yathā ||

120.1१२०.१

अपरं च । (१२०।१)

aparaṃ ca |

120.2१२०.२

यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बान्धवाः । (१२०।२)

yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ |

120.3१२०.३

यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ (१२०।३)

yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ ||

121.1१२१.१

अपरं च । (१२१।१)

aparaṃ ca |

121.2१२१.२

अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च । (१२१।२)

aputrasya gṛhaṃ śūnyaṃ sanmitrarahitasya ca |

121.3१२१.३

मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥ (१२१।३)

mūrkhasya ca diśaḥ śūnyāḥ sarvaśūnyā daridratā ||

122.1१२२.१

अपरं च । (१२२।१)

aparaṃ ca |

122.2१२२.२

दारिद्र्यान् मरणाद् वापि दारिद्र्यम् अवरं स्मृतम् । (१२२।२)

dāridryān maraṇād vāpi dāridryam avaraṃ smṛtam |

122.3१२२.३

अल्पक्लेशेन मरणं दारिद्र्यम् अतिदुःसहम् ॥ (१२२।३)

alpakleśena maraṇaṃ dāridryam atiduḥsaham ||

123.1१२३.१

अन्यच् च । (१२३।१)

anyac ca |

123.2१२३.२

तानीन्द्रियाण्य् अविकलानि तद् एव नाम सा बुद्धिर् अप्रतिहता वचनं तद् एव । (१२३।२)

tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva |

123.3१२३.३

अर्थोष्मणा विरहितः पुरुषः स एव अन्यः क्षणेन भवतीति विचित्रम् एतत् ॥ (१२३।३)

arthoṣmaṇā virahitaḥ puruṣaḥ sa eva anyaḥ kṣaṇena bhavatīti vicitram etat ||

124.1१२४.१

एतत् सर्वम् आकर्ण्य मयालोचितं ममान्नावस्थानम् अयुक्तम् इदानीम् । (१२४।१)

etat sarvam ākarṇya mayālocitaṃ mamānnāvasthānam ayuktam idānīm |

124.2१२४.२

तथा चोक्तम् । (१२४।२)

tathā coktam |

124.3१२४.३

अत्यन्तविमुखे दैवे व्यर्थे यत्ने च पौरुषे । (१२४।३)

atyantavimukhe daive vyarthe yatne ca pauruṣe |

124.4१२४.४

मनस्विनो दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥ (१२४।४)

manasvino daridrasya vanād anyat kutaḥ sukham ||

125.1१२५.१

अन्यच् च । (१२५।१)

anyac ca |

125.2१२५.२

मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । (१२५।२)

manasvī mriyate kāmaṃ kārpaṇyaṃ na tu gacchati |

125.3१२५.३

अपि निर्वाणम् आयाति नानलो याति शीतताम् ॥ (१२५।३)

api nirvāṇam āyāti nānalo yāti śītatām ||

126.1१२६.१

किं च । (१२६।१)

kiṃ ca |

126.2१२६.२

कुसुमस्तबकस्येव द्वे वृत्ती तु मनस्विनः । (१२६।२)

kusumastabakasyeva dve vṛttī tu manasvinaḥ |

126.3१२६.३

सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेऽथवा ॥ (१२६।३)

sarveṣāṃ mūrdhni vā tiṣṭhed viśīryeta vane'thavā ||

127.1१२७.१

यच् चान्यस्मै एतद् वृत्तान्तकथनं तद् अप्य् अनुचितम् । (१२७।१)

yac cānyasmai etad vṛttāntakathanaṃ tad apy anucitam |

127.2१२७.२

यतः । (१२७।२)

yataḥ |

127.3१२७.३

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । (१२७।३)

arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca |

127.4१२७.४

वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥ (१२७।४)

vañcanaṃ cāpamānaṃ ca matimān na prakāśayet ||

128.1१२८.१

यच् चात्रैव याच्ञया जीवनं तद् अप्य् अतीवगर्हितम् । (१२८।१)

yac cātraiva yācñayā jīvanaṃ tad apy atīvagarhitam |

128.2१२८.२

यतः । (१२८।२)

yataḥ |

128.3१२८.३

वरं विभवहीनेन प्राणैः संतर्पितो ऽनलः । (१२८।३)

varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ |

128.4१२८.४

नोपचारपरिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥ (१२८।४)

nopacāraparibhraṣṭaḥ kṛpaṇaḥ prārthyate janaḥ ||

129.1१२९.१

अन्यच् च । (१२९।१)

anyac ca |

129.2१२९.२

दारिद्र्याद्ध्रियम् एति ह्रीपरिगतः सत्त्वात् परिभ्रश्यते निःसत्त्वं परिभूयते परिभवान् निर्वेदम् आपद्यते । (१२९।२)

dāridryāddhriyam eti hrīparigataḥ sattvāt paribhraśyate niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate |

129.3१२९.३

निर्विण्णः शुचम् एति शोकनिहितो बुद्ध्या परित्यज्यते । (१२९।३)

nirviṇṇaḥ śucam eti śokanihito buddhyā parityajyate |

129.4१२९.४

निर्बुद्धिः क्षयम् एत्य् अहो निधनता सर्वापदाम् आस्पदम् ॥ (१२९।४)

nirbuddhiḥ kṣayam ety aho nidhanatā sarvāpadām āspadam ||

130.1१३०.१

किं च । (१३०।१)

kiṃ ca |

130.2१३०.२

वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् । (१३०।२)

varaṃ maunaṃ kāryaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ klaibyaṃ puṃsāṃ na ca parakalatrābhigamanam |

130.3१३०.३

वरं प्राणत्यागो न च पिशुनवाक्येष्व् अभिरुचिर् वरं भिक्षाशित्वं न च परधनास्वादनसुखम् ॥ (१३०।३)

varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham ||

131.1१३१.१

वरं शून्या शाला न च खलु वरो दुष्टवृषभो वरं वेश्या पत्नी न पुनर् अविनीता कुलवधूः । (१३१।१)

varaṃ śūnyā śālā na ca khalu varo duṣṭavṛṣabho varaṃ veśyā patnī na punar avinītā kulavadhūḥ |

131.2१३१.२

वरं वासो ऽरण्ये न पुनर् अविवेकाधिपपुरे वरं प्राणत्यागो न पुनर् अधमानाम् उपगमः ॥ (१३१।२)

varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ ||

132.1१३२.१

अपि च । (१३२।१)

api ca |

132.2१३२.२

सेवेव मानम् अखिलं ज्योत्स्नेव तमो जरेव लावण्यम् । (१३२।२)

seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam |

132.3१३२.३

हरिहरकथेव दुरितं गुणशतम् अप्य् अर्थिता हरति ॥ (१३२।३)

hariharakatheva duritaṃ guṇaśatam apy arthitā harati ||

133.1१३३.१

तत् किम् अहं परपिण्डेन आत्मानं पोषयामि कष्टं भोः तद् अपि द्वितीयं मृत्युद्वारम् । (१३३।१)

tat kim ahaṃ parapiṇḍena ātmānaṃ poṣayāmi kaṣṭaṃ bhoḥ tad api dvitīyaṃ mṛtyudvāram |

133.2१३३.२

अन्यच् च । (१३३।२)

anyac ca |

133.3१३३.३

रोगी चिरप्रवासी परान्नभोजी परावसथशायी । (१३३।३)

rogī cirapravāsī parānnabhojī parāvasathaśāyī |

133.4१३३.४

यज् जीवति तन् मरणं यन् मरणं सो ऽस्य विश्रामः ॥ (१३३।४)

yaj jīvati tan maraṇaṃ yan maraṇaṃ so 'sya viśrāmaḥ ||

134.1१३४.१

इत्य् आलोच्यापि लोभात् पुनर् अपि तदीयम् अन्नं ग्रहीतुं ग्रहम् अकरवम् । (१३४।१)

ity ālocyāpi lobhāt punar api tadīyam annaṃ grahītuṃ graham akaravam |

134.2१३४.२

तथा चोक्तम् । (१३४।२)

tathā coktam |

134.3१३४.३

लोभेन बुद्धिश् चलति लोभो जनयते तृषाम् । (१३४।३)

lobhena buddhiś calati lobho janayate tṛṣām |

134.4१३४.४

तृषार्तो दुःखम् आप्नोति परत्रेह च मानवः ॥ (१३४।४)

tṛṣārto duḥkham āpnoti paratreha ca mānavaḥ ||

135.1१३५.१

ततो ऽहं मन्दं मन्दम् उपसर्पंस् तेन वीणाकर्णेन जर्जरवंशखण्डेन ताडितश् चाचिन्तयम् । (१३५।१)

tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjaravaṃśakhaṇḍena tāḍitaś cācintayam |

135.2१३५.२

लुब्धो ह्य् असंतुष्टो नियतम् आत्मद्रोही भवति । (१३५।२)

lubdho hy asaṃtuṣṭo niyatam ātmadrohī bhavati |

135.3१३५.३

तथा च । (१३५।३)

tathā ca |

135.4१३५.४

धनलुब्धो ह्य् असंतुष्टो ऽनियतात्माजितेन्द्रियः । (१३५।४)

dhanalubdho hy asaṃtuṣṭo 'niyatātmājitendriyaḥ |

135.5१३५.५

सर्वा एवापदस् तस्य यस्य तुष्टं न मानसम् ॥ (१३५।५)

sarvā evāpadas tasya yasya tuṣṭaṃ na mānasam ||

136.1१३६.१

सर्वाः सम्पत्तयस् तस्य संतुष्टं यस्य मानसम् । (१३६।१)

sarvāḥ sampattayas tasya saṃtuṣṭaṃ yasya mānasam |

136.2१३६.२

उपानद्गूढपादस्य ननु चर्मावृतेव भूः ॥ (१३६।२)

upānadgūḍhapādasya nanu carmāvṛteva bhūḥ ||

137.1१३७.१

अपरं च । (१३७।१)

aparaṃ ca |

137.2१३७.२

संतोषामृततृप्तानां यत् सुखं शान्तचेतसाम् । (१३७।२)

saṃtoṣāmṛtatṛptānāṃ yat sukhaṃ śāntacetasām |

137.3१३७.३

कुतस् तद्धनलुब्धानाम् इतश् चेतश् च धावताम् ॥ (१३७।३)

kutas taddhanalubdhānām itaś cetaś ca dhāvatām ||

138.1१३८.१

किं च । (१३८।१)

kiṃ ca |

138.2१३८.२

तेनाधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् । (१३८।२)

tenādhītaṃ śrutaṃ tena tena sarvam anuṣṭhitam |

138.3१३८.३

येनाशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितम् ॥ (१३८।३)

yenāśāḥ pṛṣṭhataḥ kṛtvā nairāśyam avalambitam ||

139.1१३९.१

अपि च । (१३९।१)

api ca |

139.2१३९.२

असेवितेश्वरद्वारम् अदृष्टविरहव्यथम् । (१३९।२)

aseviteśvaradvāram adṛṣṭavirahavyatham |

139.3१३९.३

अनुक्तक्लीबवचनं धन्यं कस्यापि जीवनम् ॥ (१३९।३)

anuktaklībavacanaṃ dhanyaṃ kasyāpi jīvanam ||

140.1१४०.१

न योजनशतं दूरं वाह्यमानस्य तृष्णया । (१४०।१)

na yojanaśataṃ dūraṃ vāhyamānasya tṛṣṇayā |

140.2१४०.२

संतुष्टस्य करप्राप्तेऽप्य् अर्थे भवति नादरः ॥ (१४०।२)

saṃtuṣṭasya karaprāpte'py arthe bhavati nādaraḥ ||

141.1१४१.१

तद् अत्र अवस्थोचितकार्यपरिच्छेदः श्रेयान् । (१४१।१)

tad atra avasthocitakāryaparicchedaḥ śreyān |

141.2१४१.२

को धर्मो भूतदया किं सौख्यं नित्यम् अरोगिना जगति । (१४१।२)

ko dharmo bhūtadayā kiṃ saukhyaṃ nityam aroginā jagati |

141.3१४१.३

कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ (१४१।३)

kaḥ snehaḥ sadbhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ ||

142.1१४२.१

तथा च । (१४२।१)

tathā ca |

142.2१४२.२

परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । (१४२।२)

paricchedo hi pāṇḍityaṃ yadāpannā vipattayaḥ |

142.3१४२.३

अपरिच्छेदकर्तॄणां विपदः स्युः पदे पदे ॥ (१४२।३)

aparicchedakartṝṇāṃ vipadaḥ syuḥ pade pade ||

143.1१४३.१

तथा हि । (१४३।१)

tathā hi |

143.2१४३.२

त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । (१४३।२)

tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet |

143.3१४३.३

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ (१४३।३)

grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet ||

144.1१४४.१

अपरं च । (१४४।१)

aparaṃ ca |

144.2१४४.२

पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् । (१४४।२)

pānīyaṃ vā nirāyāsaṃ svādvannaṃ vā bhayottaram |

144.3१४४.३

विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः ॥ (१४४।३)

vicāryaṃ khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ ||

145.1१४५.१

इत्य् आलोच्याहं निर्जनवनम् आगतः । (१४५।१)

ity ālocyāhaṃ nirjanavanam āgataḥ |

145.2१४५.२

यतः । (१४५।२)

yataḥ |

145.3१४५.३

वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयः पत्त्रफलाम्बुभक्षितम् । (१४५।३)

varaṃ vanaṃ vyāghragajendrasevitaṃ drumālayaḥ pattraphalāmbubhakṣitam |

145.4१४५.४

तृणानि शय्या वसनं च वल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥ (१४५।४)

tṛṇāni śayyā vasanaṃ ca valkalaṃ na bandhumadhye dhanahīnajīvanam ||

146.1१४६.१

अतः । (१४६।१)

ataḥ |

146.2१४६.२

संसारविषयवृक्षस्य द्वे एव रसवत्फले । (१४६।२)

saṃsāraviṣayavṛkṣasya dve eva rasavatphale |

146.3१४६.३

काव्यामृतरसास्वादः संगमः सज्जनैः सह ॥ (१४६।३)

kāvyāmṛtarasāsvādaḥ saṃgamaḥ sajjanaiḥ saha ||

147.1१४७.१

अपरं च । (१४७।१)

aparaṃ ca |

147.2१४७.२

सत्सङ्गः केशवे भक्तिर् गङ्गाम्भसि निमज्जनम् । (१४७।२)

satsaṅgaḥ keśave bhaktir gaṅgāmbhasi nimajjanam |

147.3१४७.३

असारे खलु संसारे त्रीणि साराणि भावयेत् ॥ (१४७।३)

asāre khalu saṃsāre trīṇi sārāṇi bhāvayet ||

148.1१४८.१

मन्थर उवाच । (१४८।१)

manthara uvāca

148.2१४८.२

अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम् आयुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवनम् । (१४८।२)

arthāḥ pādarajopamā girinadīvegopamaṃ yauvanam āyuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam |

148.3१४८.३

धर्मं यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं पश्चात्तापहतो जरापरिणतः शोकाग्निना दह्यते ॥ (१४८।३)

dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate ||

149.1१४९.१

युष्माभिर् अतिसंचयः कृतः । (१४९।१)

yuṣmābhir atisaṃcayaḥ kṛtaḥ |

149.2१४९.२

तस्यायं दोषः । (१४९।२)

tasyāyaṃ doṣaḥ |

149.3१४९.३

शृणु । (१४९।३)

śṛṇu |

149.4१४९.४

उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । (१४९।४)

upārjitānāṃ vittānāṃ tyāga eva hi rakṣaṇam |

149.5१४९.५

तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥ (१४९।५)

taḍāgodarasaṃsthānāṃ parīvāha ivāmbhasām ||

150.1१५०.१

अन्यच् च । (१५०।१)

anyac ca |

150.2१५०.२

यद् अधो ऽधः क्षितौ वित्तं निचखान मितम्पचः । (१५०।२)

yad adho 'dhaḥ kṣitau vittaṃ nicakhāna mitampacaḥ |

150.3१५०.३

तदधो निलयं गन्तुं चक्रे पन्थानम् अग्रतः ॥ (१५०।३)

tadadho nilayaṃ gantuṃ cakre panthānam agrataḥ ||

151.1१५१.१

यतः । (१५१।१)

yataḥ |

151.2१५१.२

निजसौख्यं निरुन्धानो यो धनार्जनम् इच्छति । (१५१।२)

nijasaukhyaṃ nirundhāno yo dhanārjanam icchati |

151.3१५१.३

परार्थभारवाहीव स क्लेशस्यैव भाजनम् ॥ (१५१।३)

parārthabhāravāhīva sa kleśasyaiva bhājanam ||

152.1१५२.१

तथा चोक्तम् । (१५२।१)

tathā coktam |

152.2१५२.२

दानोपभोगहीनेन धनेन धनिनो यदि । (१५२।२)

dānopabhogahīnena dhanena dhanino yadi |

152.3१५२.३

भवामः किं न तेनैव धनेन धनिनो वयम् ॥ (१५२।३)

bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayam ||

153.1१५३.१

यतः । (१५३।१)

yataḥ |

153.2१५३.२

धनेन किं यो न ददाति नाश्नुते बलेन किं यश् च रिपून् न याधत्ते । (१५३।२)

dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte |

153.3१५३.३

श्रुतेन किं यो न च धर्मम् आचरेत् किम् आत्मना यो न जितेन्द्रियो भवेत् ॥ (१५३।३)

śrutena kiṃ yo na ca dharmam ācaret kim ātmanā yo na jitendriyo bhavet ||

154.1१५४.१

अन्यच् च । (१५४।१)

anyac ca |

154.2१५४.२

असंभोगेन सामान्यं कृपणस्य धनं परैः । (१५४।२)

asaṃbhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ |

154.3१५४.३

अस्येदम् इति सम्बन्धो हानौ दुःखेन गम्यते ॥ (१५४।३)

asyedam iti sambandho hānau duḥkhena gamyate ||

155.1१५५.१

अपि च । (१५५।१)

api ca |

155.2१५५.२

न देवाय न विप्राय न बन्धुभ्यो न चात्मने । (१५५।२)

na devāya na viprāya na bandhubhyo na cātmane |

155.3१५५.३

कृपणस्य धनं याति वह्नितस्करपार्थिवैः ॥ (१५५।३)

kṛpaṇasya dhanaṃ yāti vahnitaskarapārthivaiḥ ||

156.1१५६.१

तथा चोक्तम् । (१५६।१)

tathā coktam |

156.2१५६.२

दानं प्रियवाक्सहितं ज्ञानम् अगर्वं क्षमान्वितं शौर्यम् । (१५६।२)

dānaṃ priyavāksahitaṃ jñānam agarvaṃ kṣamānvitaṃ śauryam |

156.3१५६.३

त्यागं सहितं च वित्तं दुर्लभम् एतच् चतुर् भद्रम् ॥ (१५६।३)

tyāgaṃ sahitaṃ ca vittaṃ durlabham etac catur bhadram ||

157.1१५७.१

उक्तं च । (१५७।१)

uktaṃ ca |

157.2१५७.२

कर्तव्यः संचयो नित्यं न तु कार्यो ऽतिसंचयः । (१५७।२)

kartavyaḥ saṃcayo nityaṃ na tu kāryo 'tisaṃcayaḥ |

157.3१५७.३

अतिसंचयशीलो ऽयं धनुषा जम्बुको हतः ॥ (१५७।३)

atisaṃcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ ||

158.1१५८.१

ताव् आहतुः कथम् एतत् । (१५८।१)

tāv āhatuḥ katham etat |

158.2१५८.२

मन्थरः कथयति । (१५८।२)

mantharaḥ kathayati |

158.3१५८.३

आसीत् कल्याणकटकवास्तव्यो भैरवो नाम व्याधः । (१५८।३)

āsīt kalyāṇakaṭakavāstavyo bhairavo nāma vyādhaḥ |

158.4१५८.४

स चैकदा मांसलुब्धो धनुर् आदाय मृगम् अन्विष्यन् विन्ध्याटवीमध्यं गतः । (१५८।४)

sa caikadā māṃsalubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavīmadhyaṃ gataḥ |

158.5१५८.५

तत्र तेन मृग एको व्यापादितः । (१५८।५)

tatra tena mṛga eko vyāpāditaḥ |

158.6१५८.६

ततो मृगम् आदाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । (१५८।६)

tato mṛgam ādāya gacchatā tena ghorākṛtiḥ śūkaro dṛṣṭaḥ |

158.7१५८.७

ततस् तेन मृगं भूमौ निधाय शूकरः शरेण हतः । (१५८।७)

tatas tena mṛgaṃ bhūmau nidhāya śūkaraḥ śareṇa hataḥ |

158.8१५८.८

शूकरेणाप्य् आगत्य प्रलयघनघोरगर्जनं कुर्वाणेन स व्याधो मुष्कदेशे हतः छिन्नद्रुम इव पपात । (१५८।८)

śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta |

158.9१५८.९

तथा चोक्तम् । (१५८।९)

tathā coktam |

158.10१५८.१०

जलम् अग्निर् विषं शस्तं क्षुद् व्याधिः पतनं गिरेः । (१५८।१०)

jalam agnir viṣaṃ śastaṃ kṣud vyādhiḥ patanaṃ gireḥ |

158.11१५८.११

निमित्तं किंचिद् आसाद्य देही प्राणैर् विमुच्यते ॥ (१५८।११)

nimittaṃ kiṃcid āsādya dehī prāṇair vimucyate ||

159.1१५९.१

अथ तयोः पादास्फालनेन एकः सर्पो ऽपि मृतः । (१५९।१)

atha tayoḥ pādāsphālanena ekaḥ sarpo 'pi mṛtaḥ |

159.2१५९.२

अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमन्नाहारार्थी तान् मृतान् मृगव्याधसर्पशूकरान् अपश्यत् । (१५९।२)

atrāntare dīrgharāvo nāma jambukaḥ paribhramannāhārārthī tān mṛtān mṛgavyādhasarpaśūkarān apaśyat |

159.3१५९.३

आलोक्याचिन्तयच् चाहो भाग्यम् अद्य महद् भोज्यं मे समुपस्थितम् । (१५९।३)

ālokyācintayac cāho bhāgyam adya mahad bhojyaṃ me samupasthitam |

159.4१५९.४

अथवा । (१५९।४)

athavā |

159.5१५९.५

अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । (१५९।५)

acintitāni duḥkhāni yathaivāyānti dehinām |

159.6१५९.६

सुखान्य् अपि तथा मन्ये दैवम् अत्रातिरिच्यते ॥ (१५९।६)

sukhāny api tathā manye daivam atrātiricyate ||

160.1१६०.१

मासम् एकं नरो याति द्वौ मासौ मृगशूकरौ । (१६०।१)

māsam ekaṃ naro yāti dvau māsau mṛgaśūkarau |

160.2१६०.२

अहिर् एकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥ (१६०।२)

ahir ekaṃ dinaṃ yāti adya bhakṣyo dhanurguṇaḥ ||

161.1१६१.१

ततः प्रथमबुभुक्षायाम् इदं निःस्वादु कोदण्डलग्नं स्नायुबन्धनं खादामि इत्य् उक्त्वा तथाकरोत् । (१६१।१)

tataḥ prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmi ity uktvā tathākarot |

161.2१६१.२

ततश् छिन्ने स्नायुबन्धने द्रुतम् उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः । (१६१।२)

tataś chinne snāyubandhane drutam utpatitena dhanuṣā hṛdi nirbhinnaḥ sa dīrgharāvaḥ pañcatvaṃ gataḥ |

161.3१६१.३

अतो ऽहं ब्रवीमि कर्तव्यः संचयो नित्यम् इत्यादि । (१६१।३)

ato 'haṃ bravīmi kartavyaḥ saṃcayo nityam ityādi |

161.4१६१.४

तथा च । (१६१।४)

tathā ca |

161.5१६१.५

यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् । (१६१।५)

yad dadāti yad aśnāti tad eva dhanino dhanam |

161.6१६१.६

अन्ये मृतस्य क्रीडन्ति दारैर् अपि धनैर् अपि ॥ (१६१।६)

anye mṛtasya krīḍanti dārair api dhanair api ||

162.1१६२.१

किं च । (१६२।१)

kiṃ ca |

162.2१६२.२

यद् ददासि विशिष्टेभ्यो यच् चाश्नासि दिने दिने । (१६२।२)

yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine |

162.3१६२.३

तत् ते वित्तम् अहं मन्ये शेषं कस्यापि रक्षसि ॥ (१६२।३)

tat te vittam ahaṃ manye śeṣaṃ kasyāpi rakṣasi ||

163.1१६३.१

यातु । (१६३।१)

yātu |

163.2१६३.२

किम् इदानीम् अतिक्रान्तोपवर्णनेन । (१६३।२)

kim idānīm atikrāntopavarṇanena |

163.3१६३.३

यतः । (१६३।३)

yataḥ |

163.4१६३.४

नाप्राप्यम् अभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । (१६३।४)

nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum |

163.5१६३.५

आपत्स्व् अपि न मुह्यन्ति नराः पण्डितबुद्धयः ॥ (१६३।५)

āpatsv api na muhyanti narāḥ paṇḍitabuddhayaḥ ||

164.1१६४.१

तत् सखे सर्वदा त्वया सोत्साहेन भवितव्यम् । (१६४।१)

tat sakhe sarvadā tvayā sotsāhena bhavitavyam |

164.2१६४.२

यतः । (१६४।२)

yataḥ |

164.3१६४.३

शास्त्राण्य् अधीत्यापि भवन्ति मूर्खा यस् तु क्रियावान् पुरुषः स विद्वान् । (१६४।३)

śāstrāṇy adhītyāpi bhavanti mūrkhā yas tu kriyāvān puruṣaḥ sa vidvān |

164.4१६४.४

सुचिन्तितं चौषधम् आतुराणां न नाममात्रेण करोत्य् अरोगम् ॥ (१६४।४)

sucintitaṃ cauṣadham āturāṇāṃ na nāmamātreṇa karoty arogam ||

165.1१६५.१

अन्यच् च । (१६५।१)

anyac ca |

165.2१६५.२

न स्वल्पम् अप्य् अध्यवसायभीरोः करोति विज्ञानविधिर् गुणं हि । (१६५।२)

na svalpam apy adhyavasāyabhīroḥ karoti vijñānavidhir guṇaṃ hi |

165.3१६५.३

अन्धस्य किं हस्ततलस्थितो ऽपि प्रकाशयत्य् अर्थम् इह प्रदीपः ॥ (१६५।३)

andhasya kiṃ hastatalasthito 'pi prakāśayaty artham iha pradīpaḥ ||

166.1१६६.१

तद् अत्र सखे दशाविशेषे शान्तिः करणीया । (१६६।१)

tad atra sakhe daśāviśeṣe śāntiḥ karaṇīyā |

166.2१६६.२

एतद् अप्य् अतिकष्टं त्वया न मन्तव्यम् । (१६६।२)

etad apy atikaṣṭaṃ tvayā na mantavyam |

166.3१६६.३

सुखम् आपतितं सेव्यं दुःखम् आपतितं तथा । (१६६।३)

sukham āpatitaṃ sevyaṃ duḥkham āpatitaṃ tathā |

166.4१६६.४

चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ॥ (१६६।४)

cakravat parivartante duḥkhāni ca sukhāni ca ||

167.1१६७.१

अपरं च । (१६७।१)

aparaṃ ca |

167.2१६७.२

निपानम् इव मण्डूकाः सरः पूर्णम् इवाण्डजाः । (१६७।२)

nipānam iva maṇḍūkāḥ saraḥ pūrṇam ivāṇḍajāḥ |

167.3१६७.३

सोद्योगं नरम् आयान्ति विवशाः सर्वसम्पदः ॥ (१६७।३)

sodyogaṃ naram āyānti vivaśāḥ sarvasampadaḥ ||

168.1१६८.१

अपि च । (१६८।१)

api ca |

168.2१६८.२

उत्साहसम्पन्नम् अदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्व् असक्तम् । (१६८।२)

utsāhasampannam adīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣv asaktam |

168.3१६८.३

शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥ (१६८।३)

śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca lakṣmīḥ svayaṃ vāñchati vāsahetoḥ ||

169.1१६९.१

विशेषतश् च । (१६९।१)

viśeṣataś ca |

169.2१६९.२

विनाप्य् अर्थैर् धीरः स्पृशति बहुमानोन्नतिपदं समायुक्तो ऽप्य् अर्थैः परिभवपदं याति कृपणः । (१६९।२)

vināpy arthair dhīraḥ spṛśati bahumānonnatipadaṃ samāyukto 'py arthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ |

169.3१६९.३

स्वभावाद् उद्भूतां गुणसमुदयावाप्तिविषयां द्युतिं सैंहीं श्वा किं धृतकनकमालो ऽपि लभते ॥ (१६९।३)

svabhāvād udbhūtāṃ guṇasamudayāvāptiviṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛtakanakamālo 'pi labhate ||

170.1१७०.१

किं च । (१७०।१)

kiṃ ca |

170.2१७०.२

धनवान् इति हि मदस् ते किं गतविभवो विषादम् उपयासि । (१७०।२)

dhanavān iti hi madas te kiṃ gatavibhavo viṣādam upayāsi |

170.3१७०.३

करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ (१७०।३)

karanihatakandukasamāḥ pātotpātā manuṣyāṇām ||

171.1१७१.१

अन्यच् च । (१७१।१)

anyac ca |

171.2१७१.२

वृत्त्यर्थं नातिचेष्टते सा हि धात्रैव निर्मिता । (१७१।२)

vṛttyarthaṃ nāticeṣṭate sā hi dhātraiva nirmitā |

171.3१७१.३

गर्भाद् उत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ (१७१।३)

garbhād utpatite jantau mātuḥ prasravataḥ stanau ||

172.1१७२.१

अपि च सखे शृणु । (१७२।१)

api ca sakhe śṛṇu |

172.2१७२.२

येन शुक्लीकृता हंसाः शुकाश् च हरितीकृताः । (१७२।२)

yena śuklīkṛtā haṃsāḥ śukāś ca haritīkṛtāḥ |

172.3१७२.३

मयूराश् चित्रिता येन स ते वृत्तिं विधास्यति ॥ (१७२।३)

mayūrāś citritā yena sa te vṛttiṃ vidhāsyati ||

173.1१७३.१

अपरं च सतां रहस्यं शृणु मित्र । (१७३।१)

aparaṃ ca satāṃ rahasyaṃ śṛṇu mitra |

173.2१७३.२

जनयन्त्य् अर्जने दुःखं तापयन्ति विपत्तिषु । (१७३।२)

janayanty arjane duḥkhaṃ tāpayanti vipattiṣu |

173.3१७३.३

मोहयन्ति च सम्पत्तौ कथम् अर्थाः सुखावहाः ॥ (१७३।३)

mohayanti ca sampattau katham arthāḥ sukhāvahāḥ ||

174.1१७४.१

अपरं च । (१७४।१)

aparaṃ ca |

174.2१७४.२

धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता । (१७४।२)

dharmārdhaṃ yasya vittehā varaṃ tasya nirīhatā |

174.3१७४.३

प्रक्षालनाद्धि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥ (१७४।३)

prakṣālanāddhi paṅkasya dūrād asparśanaṃ varam ||

175.1१७५.१

यतः । (१७५।१)

yataḥ |

175.2१७५.२

यथामिषम् आकाशे पक्षिभिः श्वापदैर् भुवि । (१७५।२)

yathāmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi |

175.3१७५.३

भक्ष्यते सलिले मत्स्यैस् तथा सर्वत्र वित्तवान् ॥ (१७५।३)

bhakṣyate salile matsyais tathā sarvatra vittavān ||

176.1१७६.१

अन्यच् च । (१७६।१)

anyac ca |

176.2१७६.२

राजतः सलिलाद् अग्नेश् चोरतः स्वजनाद् अपि । (१७६।२)

rājataḥ salilād agneś corataḥ svajanād api |

176.3१७६.३

भयम् अर्थवतां नित्यं मृत्योः प्राणभृताम् इव ॥ (१७६।३)

bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva ||

177.1१७७.१

तथा हि । (१७७।१)

tathā hi |

177.2१७७.२

जन्मनि क्लेशबहुले किं नु दुःखम् अतः परम् । (१७७।२)

janmani kleśabahule kiṃ nu duḥkham ataḥ param |

177.3१७७.३

इच्छासम्पद् यतो नास्ति यच् चेच्छा न निवर्तते ॥ (१७७।३)

icchāsampad yato nāsti yac cecchā na nivartate ||

178.1१७८.१

अन्यच् च भ्रातः शृणु । (१७८।१)

anyac ca bhrātaḥ śṛṇu |

178.2१७८.२

धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते । (१७८।२)

dhanaṃ tāvad asulabhaṃ labdhaṃ kṛcchreṇa pālyate |

178.3१७८.३

लब्धनाशो यथा मृत्युस् तस्माद् एतन् न चिन्तयेत् ॥ (१७८।३)

labdhanāśo yathā mṛtyus tasmād etan na cintayet ||

179.1१७९.१

सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः । (१७९।१)

sā tṛṣṇā cet parityaktā ko daridraḥ ka īśvaraḥ |

179.2१७९.२

तस्याश् चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥ (१७९।२)

tasyāś cet prasaro datto dāsyaṃ ca śirasi sthitam ||

180.1१८०.१

अपरं च । (१८०।१)

aparaṃ ca |

180.2१८०.२

यद् यद् एव हि वाञ्छेत ततो वाञ्छा प्रवर्तते । (१८०।२)

yad yad eva hi vāñcheta tato vāñchā pravartate |

180.3१८०.३

प्राप्त एवार्थतः सो ऽर्थो यतो वाञ्छा निवर्तते ॥ (१८०।३)

prāpta evārthataḥ so 'rtho yato vāñchā nivartate ||

181.1१८१.१

किं बहुना विश्रम्भालापैर् मयैव सहात्र कालो नीयताम् । (१८१।१)

kiṃ bahunā viśrambhālāpair mayaiva sahātra kālo nīyatām |

181.2१८१.२

यतः । (१८१।२)

yataḥ |

181.3१८१.३

आमरणान्ताः प्रणयाः कोपाश् च क्षणभङ्गुराः । (१८१।३)

āmaraṇāntāḥ praṇayāḥ kopāś ca kṣaṇabhaṅgurāḥ |

181.4१८१.४

परित्यागाश् च निःसङ्गा न भवन्ति महात्मनाम् ॥ (१८१।४)

parityāgāś ca niḥsaṅgā na bhavanti mahātmanām ||

182.1१८२.१

इति श्रुत्वा लघुपतनको ब्रूते धन्यो ऽसि मन्थर सर्वथा आश्रयणीयो ऽसि । (१८२।१)

iti śrutvā laghupatanako brūte dhanyo 'si manthara sarvathā āśrayaṇīyo 'si |

182.2१८२.२

यतः । (१८२।२)

yataḥ |

182.3१८२.३

सन्त एव सतां नित्यम् आपदुद्धरणक्षमाः । (१८२।३)

santa eva satāṃ nityam āpaduddharaṇakṣamāḥ |

182.4१८२.४

गजानां पङ्कमग्नानां गजा एव धुरंधराः ॥ (१८२।४)

gajānāṃ paṅkamagnānāṃ gajā eva dhuraṃdharāḥ ||

183.1१८३.१

अपरं च । (१८३।१)

aparaṃ ca |

183.2१८३.२

श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्पुरुषः स धन्यः । (१८३।२)

ślāghyaḥ sa eko bhuvi mānavānāṃ sa uttamaḥ satpuruṣaḥ sa dhanyaḥ |

183.3१८३.३

यस्यार्थिनो वा शरणागता वा नाशाभिभङ्गाद् विमुखाः प्रयान्ति ॥ (१८३।३)

yasyārthino vā śaraṇāgatā vā nāśābhibhaṅgād vimukhāḥ prayānti ||

184.1१८४.१

तद् एवं ते स्वेच्छाहारविहारं कुर्वाणाः संतुष्टाः सुखं निवसन्ति स्म । (१८४।१)

tad evaṃ te svecchāhāravihāraṃ kurvāṇāḥ saṃtuṣṭāḥ sukhaṃ nivasanti sma |

184.2१८४.२

अथ कदाचित् चित्राङ्गनामा मृगः केनापि त्रासितस् तत्रागत्य मिलितः । (१८४।२)

atha kadācit citrāṅganāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ |

184.3१८४.३

तत्पश्चाद् आयान्तं भयहेतुं संभाव्य मन्थरो जलं प्रविष्टः । (१८४।३)

tatpaścād āyāntaṃ bhayahetuṃ saṃbhāvya mantharo jalaṃ praviṣṭaḥ |

184.4१८४.४

मूषिकश् च विवरं गतः काको ऽपि उड्डीय वृक्षाग्रम् आरूढः । (१८४।४)

mūṣikaś ca vivaraṃ gataḥ kāko 'pi uḍḍīya vṛkṣāgram ārūḍhaḥ |

184.5१८४.५

ततो लघुपतनकेन सुदूरं निरूप्य भयहेतुर् न को ऽप्य् अवलम्बितः । (१८४।५)

tato laghupatanakena sudūraṃ nirūpya bhayahetur na ko 'py avalambitaḥ |

184.6१८४.६

पश्चात् तद्वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । (१८४।६)

paścāt tadvacanād āgatya punaḥ sarve militvā tatraivopaviṣṭāḥ |

184.7१८४.७

मन्थरेणोक्तं भद्र मृग कुशलं ते स्वेच्छया उदकाद्याहारो ऽनुभूयताम् । (१८४।७)

manthareṇoktaṃ bhadra mṛga kuśalaṃ te svecchayā udakādyāhāro 'nubhūyatām |

184.8१८४.८

अत्रावस्थानेन वनम् इदं सनाथीक्रियताम् । (१८४।८)

atrāvasthānena vanam idaṃ sanāthīkriyatām |

184.9१८४.९

चित्राङ्गो ब्रूते लुब्धकत्रासितो ऽहं भवतां शरणम् आगतः । (१८४।९)

citrāṅgo brūte lubdhakatrāsito 'haṃ bhavatāṃ śaraṇam āgataḥ |

184.10१८४.१०

ततश् च । (१८४।१०)

tataś ca |

184.11१८४.११

भवद्भिः सह मित्रत्वम् इच्छामि । (१८४।११)

bhavadbhiḥ saha mitratvam icchāmi |

184.12१८४.१२

भवन्तश् च अनुकम्पयन्तु मैत्र्येण । (१८४।१२)

bhavantaś ca anukampayantu maitryeṇa |

184.13१८४.१३

यतः । (१८४।१३)

yataḥ |

184.14१८४.१४

लोभाद् वाथ भयाद् वापि यस् त्यजेच् छरणागतम् । (१८४।१४)

lobhād vātha bhayād vāpi yas tyajec charaṇāgatam |

184.15१८४.१५

ब्रह्महत्यासमं तस्य पापम् आहुर् मनीषिणः ॥ (१८४।१५)

brahmahatyāsamaṃ tasya pāpam āhur manīṣiṇaḥ ||

185.1१८५.१

हिरण्यको ऽप्य् अवदन् मित्रत्वं तावद् अस्माभिः सह अयत्नेन निष्पन्नं भवतः । (१८५।१)

hiraṇyako 'py avadan mitratvaṃ tāvad asmābhiḥ saha ayatnena niṣpannaṃ bhavataḥ |

185.2१८५.२

यतः । (१८५।२)

yataḥ |

185.3१८५.३

औरसं कृतसम्बन्धं तथा वंशक्रमागतम् । (१८५।३)

aurasaṃ kṛtasambandhaṃ tathā vaṃśakramāgatam |

185.4१८५.४

रक्षकं व्यसनेभ्यश् च मित्रं ज्ञेयं चतुर्विधम् ॥ (१८५।४)

rakṣakaṃ vyasanebhyaś ca mitraṃ jñeyaṃ caturvidham ||

186.1१८६.१

तद् अत्र भवता स्वगृहनिर्विशेषेण स्थीयताम् । (१८६।१)

tad atra bhavatā svagṛhanirviśeṣeṇa sthīyatām |

186.2१८६.२

तच् छ्रुत्वा मृगः सानन्दो भूत्वा कृतस्वेच्छाहारः पानीयं पीत्वा जलासन्नवटतरुच्छायायाम् उपविष्टः । (१८६।२)

tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ |

186.3१८६.३

अथ मन्थरो ब्रूते सखे मृग केन त्रासितो ऽसि अस्मिन् निर्जने वने कदाचित् किं व्याधाः संचरन्ति । (१८६।३)

atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti |

186.4१८६.४

मृगेणोक्तमस्ति कलिङ्गविषये रुक्माङ्गदो नाम नृपतिः । (१८६।४)

mṛgeṇoktamasti kaliṅgaviṣaye rukmāṅgado nāma nṛpatiḥ |

186.5१८६.५

स च दिग्विजयव्यापारक्रमेण आगत्य चन्द्रभागानदीतीरे समावेशितकटको वर्तते । (१८६।५)

sa ca digvijayavyāpārakrameṇa āgatya candrabhāgānadītīre samāveśitakaṭako vartate |

186.6१८६.६

प्रातश् च तेनात्रागत्य कर्पूरसरः समीपे भवितव्यम् इति व्याधानां मुखात् किंवदन्ती श्रूयते । (१८६।६)

prātaś ca tenātrāgatya karpūrasaraḥ samīpe bhavitavyam iti vyādhānāṃ mukhāt kiṃvadantī śrūyate |

186.7१८६.७

तद् अत्रापि प्रातरवस्थानं भयहेतुकम् इत्य् आलोच्य यथा कार्यं तथा आरभ्यताम् । (१८६।७)

tad atrāpi prātaravasthānaṃ bhayahetukam ity ālocya yathā kāryaṃ tathā ārabhyatām |

186.8१८६.८

तच् छ्रुत्वा कूर्मः सभयम् आह मित्र जलाशयान्तरं गच्छामि । (१८६।८)

tac chrutvā kūrmaḥ sabhayam āha mitra jalāśayāntaraṃ gacchāmi |

186.9१८६.९

काकमृगाव् अपि उक्तवन्तौ मित्र एवम् अस्तु । (१८६।९)

kākamṛgāv api uktavantau mitra evam astu |

186.10१८६.१०

हिरण्यको विमृश्याब्रवीत्पुनर् जलाशये प्राप्ते मन्थरस्य कुशलम् । (१८६।१०)

hiraṇyako vimṛśyābravītpunar jalāśaye prāpte mantharasya kuśalam |

186.11१८६.११

स्थले गच्छतो ऽस्य का विधा । (१८६।११)

sthale gacchato 'sya kā vidhā |

186.12१८६.१२

अम्भांसि जलजन्तूनां दुर्गं दुर्गनिवासिनाम् । (१८६।१२)

ambhāṃsi jalajantūnāṃ durgaṃ durganivāsinām |

186.13१८६.१३

स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ (१८६।१३)

svabhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam ||

187.1१८७.१

उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः । (१८७।१)

upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ |

187.2१८७.२

काकी कनकसूत्रेण कृष्णसर्पम् अघातयत् ॥ (१८७।२)

kākī kanakasūtreṇa kṛṣṇasarpam aghātayat ||

188.1१८८.१

तद् यथा । (१८८।१)

tad yathā |

188.2१८८.२

अस्ति ब्रह्मारण्ये कर्पूरतिलको नाम हस्ती । (१८८।२)

asti brahmāraṇye karpūratilako nāma hastī |

188.3१८८.३

तम् अवलोक्य सर्वे शृगालाश् चिन्तयन्ति स्म । (१८८।३)

tam avalokya sarve śṛgālāś cintayanti sma |

188.4१८८.४

यद्य् अयं केनाप्य् उपायेन म्रियते तदास्माकम् एतेन देहेन मासचतुष्टयस्य स्वेच्छाभोजनं भवेत् । (१८८।४)

yady ayaṃ kenāpy upāyena mriyate tadāsmākam etena dehena māsacatuṣṭayasya svecchābhojanaṃ bhavet |

188.5१८८.५

ततस् तन्मध्याद् एकेन वृद्धशृगालेन प्रतिज्ञा कृता । (१८८।५)

tatas tanmadhyād ekena vṛddhaśṛgālena pratijñā kṛtā |

188.6१८८.६

मया बुद्धिप्रभावाद् अस्य मरणं साधयितव्यम् । (१८८।६)

mayā buddhiprabhāvād asya maraṇaṃ sādhayitavyam |

188.7१८८.७

अनन्तरं स वञ्चकः कर्पूरतिलकसमीपं गत्वा साष्टाङ्गपातं प्रणम्योवाच देव दृष्टिप्रसादं कुरु । (१८८।७)

anantaraṃ sa vañcakaḥ karpūratilakasamīpaṃ gatvā sāṣṭāṅgapātaṃ praṇamyovāca deva dṛṣṭiprasādaṃ kuru |

188.8१८८.८

हस्ती ब्रूते कस् त्वम् कुतः समायातः । (१८८।८)

hastī brūte kas tvam kutaḥ samāyātaḥ |

188.9१८८.९

सो ऽवदज्जम्बुको ऽहं सर्वैर् वनवासिभिः पशुभिर् मिलित्वा भवत्सकाशं प्रस्थापितः । (१८८।९)

so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ |

188.10१८८.१०

यद् विना राज्ञा स्थातुं न युक्तम् । (१८८।१०)

yad vinā rājñā sthātuṃ na yuktam |

188.11१८८.११

तद् अत्राटवीराज्येऽभिषेक्तुं भवान् सर्वस्वामिगुणोपेतो निरूपितः । (१८८।११)

tad atrāṭavīrājye'bhiṣektuṃ bhavān sarvasvāmiguṇopeto nirūpitaḥ |

188.12१८८.१२

यतः । (१८८।१२)

yataḥ |

188.13१८८.१३

कुलाचारजनाचारैर् अतिशुद्धः प्रतापवान् । (१८८।१३)

kulācārajanācārair atiśuddhaḥ pratāpavān |

188.14१८८.१४

धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि ॥ (१८८।१४)

dhārmiko nītikuśalaḥ sa svāmī yujyate bhuvi ||

189.1१८९.१

अपरं च पश्य । (१८९।१)

aparaṃ ca paśya |

189.2१८९.२

राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् । (१८९।२)

rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam |

189.3१८९.३

राजन्य् असति लोकेऽस्मिन् कुतो भार्या कुतो धनम् ॥ (१८९।३)

rājany asati loke'smin kuto bhāryā kuto dhanam ||

190.1१९०.१

अन्यच् च । (१९०।१)

anyac ca |

190.2१९०.२

पर्जन्य इव भूतानाम् आधारः पृथिवीपतिः । (१९०।२)

parjanya iva bhūtānām ādhāraḥ pṛthivīpatiḥ |

190.3१९०.३

विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ (१९०।३)

vikale'pi hi parjanye jīvyate na tu bhūpatau ||

191.1१९१.१

किं च । (१९१।१)

kiṃ ca |

191.2१९१.२

नियतविषयवर्ती प्रायशो दण्डयोगाज् जगति परवशेऽस्मिन् दुर्लभः साधुवृत्तेः । (१९१।२)

niyataviṣayavartī prāyaśo daṇḍayogāj jagati paravaśe'smin durlabhaḥ sādhuvṛtteḥ |

191.3१९१.३

कृशम् अपि विकलं वा व्याधितं वाधनं वा पतिम् अपि कुलनारी दण्डभीत्याभ्युपैति ॥ (१९१।३)

kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ vā patim api kulanārī daṇḍabhītyābhyupaiti ||

192.1१९२.१

तद् यथा लग्नवेला न चलति तथा कृत्वा सत्वरम् आगम्यतां देवेन । (१९२।१)

tad yathā lagnavelā na calati tathā kṛtvā satvaram āgamyatāṃ devena |

192.2१९२.२

इत्य् उक्त्वा उत्थाय चलितः । (१९२।२)

ity uktvā utthāya calitaḥ |

192.3१९२.३

ततो ऽसौ राज्यलाभाकृष्टः कर्पूरतिलकः शृगालदर्शितवर्त्मना धावन् महापङ्के निमग्नः । (१९२।३)

tato 'sau rājyalābhākṛṣṭaḥ karpūratilakaḥ śṛgāladarśitavartmanā dhāvan mahāpaṅke nimagnaḥ |

192.4१९२.४

हस्तिनोक्तम् । (१९२।४)

hastinoktam |

192.5१९२.५

सखे शृगाल किम् अधुना विधेयम् महापङ्के पतितो ऽहं म्रिये । (१९२।५)

sakhe śṛgāla kim adhunā vidheyam mahāpaṅke patito 'haṃ mriye |

192.6१९२.६

परावृत्य पश्य । (१९२।६)

parāvṛtya paśya |

192.7१९२.७

शृगालेन विहस्योक्तं देव मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । (१९२।७)

śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha |

192.8१९२.८

यस्मात् मद्विधस्य वचसि त्वया विश्वासः कृतः तस्य फलम् एतत् । (१९२।८)

yasmāt madvidhasya vacasi tvayā viśvāsaḥ kṛtaḥ tasya phalam etat |

192.9१९२.९

तद् अनुभूयताम् अशरणं दुःखम् । (१९२।९)

tad anubhūyatām aśaraṇaṃ duḥkham |

192.10१९२.१०

तथा चोक्तम् । (१९२।१०)

tathā coktam |

192.11१९२.११

यदासत्सङ्गरहितो भविष्यसि भविष्यसि । (१९२।११)

yadāsatsaṅgarahito bhaviṣyasi bhaviṣyasi |

192.12१९२.१२

यदासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥ (१९२।१२)

yadāsajjanagoṣṭhīṣu patiṣyasi patiṣyasi ||

193.1१९३.१

ततो महापङ्के निमग्नो हस्ती शृगालैर् भक्षितः । (१९३।१)

tato mahāpaṅke nimagno hastī śṛgālair bhakṣitaḥ |

193.2१९३.२

अतो ऽहं ब्रवीम्युपायेन हि यच् छक्यम् इत्यादि । (१९३।२)

ato 'haṃ bravīmyupāyena hi yac chakyam ityādi |

193.3१९३.३

ततस् तद्धितवचनम् अवधीर्य महता भयेन विमुग्ध इव मन्थरस् तज्जलाशयम् उत्सृज्य प्रचलितः । (१९३।३)

tatas taddhitavacanam avadhīrya mahatā bhayena vimugdha iva mantharas tajjalāśayam utsṛjya pracalitaḥ |

193.4१९३.४

ते ऽपि हिरण्यकादयः स्नेहाद् अनिष्टं शङ्कमानास् तम् अनुजग्मुः । (१९३।४)

te 'pi hiraṇyakādayaḥ snehād aniṣṭaṃ śaṅkamānās tam anujagmuḥ |

193.5१९३.५

ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः । (१९३।५)

tataḥ sthale gacchan kenāpi vyādhena vane paryaṭatā sa mantharaḥ prāptaḥ |

193.6१९३.६

स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्यो ऽस्मीत्य् अभिधाय भ्रमणक्लेशात् क्षुत्पिपासाकुलः स्वगृहाभिमुखं प्रयातः । (१९३।६)

sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇakleśāt kṣutpipāsākulaḥ svagṛhābhimukhaṃ prayātaḥ |

193.7१९३.७

अथ ते मृगवायसमूषिकाः परं विषादम् उपगताः तम् अनुगच्छन्ति स्म । (१९३।७)

atha te mṛgavāyasamūṣikāḥ paraṃ viṣādam upagatāḥ tam anugacchanti sma |

193.8१९३.८

ततो हिरण्यको विलपति । (१९३।८)

tato hiraṇyako vilapati |

193.9१९३.९

एकस्य दुःखस्य न यावद् अन्तं गच्छाम्य् अहं पारम् इवार्णवस्य । (१९३।९)

ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya |

193.10१९३.१०

तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुलीभवन्ति ॥ (१९३।१०)

tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulībhavanti ||

194.1१९४.१

स्वभावजं तु यन् मित्रं भाग्येनैवाभिजायते । (१९४।१)

svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate |

194.2१९४.२

तदकृत्रिमसौहार्दम् आपत्स्व् अपि न मुञ्चति ॥ (१९४।२)

tadakṛtrimasauhārdam āpatsv api na muñcati ||

195.1१९५.१

अपि च । (१९५।१)

api ca |

195.2१९५.२

न मातरि न दारेषु न सोदर्ये न चात्मजे । (१९५।२)

na mātari na dāreṣu na sodarye na cātmaje |

195.3१९५.३

विश्वासस् तादृशः पुंसां यादृङ् मित्रे स्वभावजे ॥ (१९५।३)

viśvāsas tādṛśaḥ puṃsāṃ yādṛṅ mitre svabhāvaje ||

196.1१९६.१

इति मुहुः विचिन्त्य प्राहाहो मे दुर्दैवम् । (१९६।१)

iti muhuḥ vicintya prāhāho me durdaivam |

196.2१९६.२

यतः । (१९६।२)

yataḥ |

196.3१९६.३

स्वकर्मसंतानविचेष्टितानि कालान्तरावर्तिशुभाशुभानि । (१९६।३)

svakarmasaṃtānaviceṣṭitāni kālāntarāvartiśubhāśubhāni |

196.4१९६.४

इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥ (१९६।४)

ihaiva dṛṣṭāni mayaiva tāni janmāntarāṇīva daśāntarāṇi ||

197.1१९७.१

अथवा इत्थम् एवैतत् । (१९७।१)

athavā ittham evaitat |

197.2१९७.२

कायः संनिहितापायः सम्पदः पदम् आपदाम् । (१९७।२)

kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām |

197.3१९७.३

समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥ (१९७।३)

samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram ||

198.1१९८.१

पुनर् विमृश्याह । (१९८।१)

punar vimṛśyāha |

198.2१९८.२

शोकारातिभयत्राणं प्रीतिविश्रम्भभाजनम् । (१९८।२)

śokārātibhayatrāṇaṃ prītiviśrambhabhājanam |

198.3१९८.३

केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षरद्वयम् ॥ (१९८।३)

kena ratnam idaṃ sṛṣṭaṃ mitram ity akṣaradvayam ||

199.1१९९.१

किं च । (१९९।१)

kiṃ ca |

199.2१९९.२

मित्रं प्रीतिरसायनं नयनयोर् आनन्दनं चेतसः पात्रं यत् सुखदुःखयोः समम् इदं पुण्यात्मना लभ्यते । (१९९।२)

mitraṃ prītirasāyanaṃ nayanayor ānandanaṃ cetasaḥ pātraṃ yat sukhaduḥkhayoḥ samam idaṃ puṇyātmanā labhyate |

199.3१९९.३

ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास् ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥ (१९९।३)

ye cānye suhṛdaḥ samṛddhisamaye dravyābhilāṣākulās te sarvatra milanti tattvanikaṣagrāvā tu teṣāṃ vipat ||

200.1२००.१

इति बहु विलप्य हिरण्यकश् चित्राङ्गलघुपतनकाव् आह यावद् अयं व्याधो वनान् न निःसरति तावन् मन्थरं मोचयितुं यत्नः क्रियताम् । (२००।१)

iti bahu vilapya hiraṇyakaś citrāṅgalaghupatanakāv āha yāvad ayaṃ vyādho vanān na niḥsarati tāvan mantharaṃ mocayituṃ yatnaḥ kriyatām |

200.2२००.२

ताव् ऊचतुः सत्वरं यथाकार्यम् उपदिश । (२००।२)

tāv ūcatuḥ satvaraṃ yathākāryam upadiśa |

200.3२००.३

हिरण्यको ब्रूते चित्राङ्गो जलसमीपं गत्वा मृतम् इवात्मानं निश्चेष्टं दर्शयतु । (२००।३)

hiraṇyako brūte citrāṅgo jalasamīpaṃ gatvā mṛtam ivātmānaṃ niśceṣṭaṃ darśayatu |

200.4२००.४

काकश् च तस्योपरि स्थित्वा चञ्च्वा किम् अपि विलिखतु । (२००।४)

kākaś ca tasyopari sthitvā cañcvā kim api vilikhatu |

200.5२००.५

नूनम् अनेन लुब्धकेन मृगमांसार्थिना तत्र कच्छपं परित्यज्य सत्वरं गन्तव्यम् । (२००।५)

nūnam anena lubdhakena mṛgamāṃsārthinā tatra kacchapaṃ parityajya satvaraṃ gantavyam |

200.6२००.६

ततो ऽहं मन्थरस्य बन्धनं छेत्स्यामि । (२००।६)

tato 'haṃ mantharasya bandhanaṃ chetsyāmi |

200.7२००.७

संनिहिते लुब्धके भवद्भ्यां पलायितव्यम् । (२००।७)

saṃnihite lubdhake bhavadbhyāṃ palāyitavyam |

200.8२००.८

ततश् चित्राङ्गलघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोर् अधस्ताद् उपविष्टः सन् तथाविधं मृगम् अपश्यत् । (२००।८)

tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat |

200.9२००.९

ततः कच्छपं जलसमीपे निधाय कर्तरिकाम् आदाय प्रहृष्टमना मृगान्तिकं चलितः । (२००।९)

tataḥ kacchapaṃ jalasamīpe nidhāya kartarikām ādāya prahṛṣṭamanā mṛgāntikaṃ calitaḥ |

200.10२००.१०

अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् । (२००।१०)

atrāntare hiraṇyakena āgatya mantharasya bandhanaṃ chinnam |

200.11२००.११

छिन्नबन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः । (२००।११)

chinnabandhanaḥ kūrmaḥ satvaraṃ jalāśayaṃ praviṣṭaḥ |

200.12२००.१२

स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः । (२००।१२)

sa ca mṛga āsannaṃ taṃ vyādhaṃ vilokyotthāya drutaṃ palāyitaḥ |

200.13२००.१३

प्रत्यावृत्त्य लुब्धको यावत् तरुतलम् आयाति तावत् कूर्मम् अपश्यन्न् अचिन्तयद् उचितम् एवैतत् । (२००।१३)

pratyāvṛttya lubdhako yāvat tarutalam āyāti tāvat kūrmam apaśyann acintayad ucitam evaitat |

200.14२००.१४

ममासमीक्ष्यकारिणः । (२००।१४)

mamāsamīkṣyakāriṇaḥ |

200.15२००.१५

यतः । (२००।१५)

yataḥ |

200.16२००.१६

यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । (२००।१६)

yo dhruvāṇi parityajya adhruvāṇi niṣevate |

200.17२००.१७

ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टम् एव हि ॥ (२००।१७)

dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva hi ||

201.1२०१.१

ततो ऽसौ स्वकर्मवशान् निराशः कटकं प्रविष्टः । (२०१।१)

tato 'sau svakarmavaśān nirāśaḥ kaṭakaṃ praviṣṭaḥ |

201.2२०१.२

मन्थरादयश् च सर्वे मुक्तापदः स्वस्थानं गत्वा यथासुखम् आस्थिताः । (२०१।२)

mantharādayaś ca sarve muktāpadaḥ svasthānaṃ gatvā yathāsukham āsthitāḥ |

201.3२०१.३

अथ राजपुत्रैः सानन्दम् उक्तं सर्वे श्रुतवन्तः सुखिनो वयम् । (२०१।३)

atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam |

201.4२०१.४

सिद्धं नः समीहितम् । (२०१।४)

siddhaṃ naḥ samīhitam |

201.5२०१.५

विष्णुशर्मोवाच । (२०१।५)

viṣṇuśarmovāca |

201.6२०१.६

एतद् भवताम् अभिलषितम् अपि सम्पन्नम् । (२०१।६)

etad bhavatām abhilaṣitam api sampannam |

201.7२०१.७

अपरम् अपीदम् अस्तु । (२०१।७)

aparam apīdam astu |

201.8२०१.८

मित्रं यान्तु च सज्जना जनपदैर् लक्ष्मीः समालभ्यतां भूपालाः परिपालयन्तु वसुधां शश्वत् स्वधर्मे स्थिताः । (२०१।८)

mitraṃ yāntu ca sajjanā janapadair lakṣmīḥ samālabhyatāṃ bhūpālāḥ paripālayantu vasudhāṃ śaśvat svadharme sthitāḥ |

201.9२०१.९

आस्तां मानसतुष्टये सुकृतिनां नीतिर् नवोढेव वः कल्याणं कुरुतां जनस्य भगवांश् चन्द्रार्धचूडामणिः ॥ (२०१।९)

āstāṃ mānasatuṣṭaye sukṛtināṃ nītir navoḍheva vaḥ kalyāṇaṃ kurutāṃ janasya bhagavāṃś candrārdhacūḍāmaṇiḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Hitop, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit