हितोपदेशHitopadeśa

Hitop, 5

5 of 5 · 696 verses

Select a line for its word-by-word analysis.

1.1१.१

पुनः कथारम्भकाले राजपुत्रैर् उक्तम् आर्य विग्रहः श्रुतो ऽस्माभिः । (१।१)

punaḥ kathārambhakāle rājaputrair uktam ārya vigrahaḥ śruto 'smābhiḥ |

1.2१.२

सन्धिर् अधुनाभिधीयताम् । (१।२)

sandhir adhunābhidhīyatām |

1.3१.३

विष्णुशर्मेणोक्तम् श्रूयताम् । (१।३)

viṣṇuśarmeṇoktam śrūyatām |

1.4१.४

सन्धिम् अपि कथयामि । (१।४)

sandhim api kathayāmi |

1.5१.५

यस्यायम् आद्यः श्लोकः । (१।५)

yasyāyam ādyaḥ ślokaḥ |

1.6१.६

वृत्ते महति सङ्ग्रामे राज्ञोर् निहतसेनयोः । (१।६)

vṛtte mahati saṅgrāme rājñor nihatasenayoḥ |

1.7१.७

स्थेयाभ्यां गृध्रचक्राभ्यां वाचा सन्धिः कृतं क्षणात् ॥ (१।७)

stheyābhyāṃ gṛdhracakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇāt ||

2.1२.१

राजपुत्रा ऊचुः कथम् एतत् । (२।१)

rājaputrā ūcuḥ katham etat |

2.2२.२

विष्णुशर्मा कथयति ततस् तेन राजहंसेन उक्तम् केनास्मद्दुर्गे निक्षिप्तो ऽग्निः किं पारक्येण किं वास्मद्दुर्गवासिना केनापि विपक्षप्रयुक्तेन । (२।२)

viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena |

2.3२.३

चक्रवाको ब्रूते देव भवतो निष्कारणबन्धुर् असौ मेघवर्णः सपरिवारो न दृश्यते । (२।३)

cakravāko brūte deva bhavato niṣkāraṇabandhur asau meghavarṇaḥ saparivāro na dṛśyate |

2.4२.४

तन् मन्ये तस्यैव विचेष्टितम् इदम् । (२।४)

tan manye tasyaiva viceṣṭitam idam |

2.5२.५

राजा क्षणं विचिन्त्याह अस्ति तावद् एवम् । (२।५)

rājā kṣaṇaṃ vicintyāha asti tāvad evam |

2.6२.६

मम दुर्दैवम् एतत् । (२।६)

mama durdaivam etat |

2.7२.७

तथा चोक्तम् । (२।७)

tathā coktam |

2.8२.८

अपराधः स दैवस्य न पुनर् मन्त्रिणाम् अयम् । (२।८)

aparādhaḥ sa daivasya na punar mantriṇām ayam |

2.9२.९

कार्यं सुचरितं क्वापि दैवयोगाद् विनश्यति ॥ (२।९)

kāryaṃ sucaritaṃ kvāpi daivayogād vinaśyati ||

3.1३.१

विषमां हि दशां प्राप्य दैवं गर्हयते नरः । (३।१)

viṣamāṃ hi daśāṃ prāpya daivaṃ garhayate naraḥ |

3.2३.२

आत्मनः कर्मदोषांश् च नैव जानात्य् अपण्डितः ॥ (३।२)

ātmanaḥ karmadoṣāṃś ca naiva jānāty apaṇḍitaḥ ||

4.1४.१

अपरं च । (४।१)

aparaṃ ca |

4.2४.२

सुहृदां हितकामानां यो वाक्यं नाभिनन्दति । (४।२)

suhṛdāṃ hitakāmānāṃ yo vākyaṃ nābhinandati |

4.3४.३

स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥ (४।३)

sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati ||

5.1५.१

अन्यच् च । (५।१)

anyac ca |

5.2५.२

रक्षितव्यं सदा वाक्यं वाक्याद् भवति नाशनम् । (५।२)

rakṣitavyaṃ sadā vākyaṃ vākyād bhavati nāśanam |

5.3५.३

हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ॥ (५।३)

haṃsābhyāṃ nīyamānasya kūrmasya patanaṃ yathā ||

6.1६.१

राजाह कथम् एतत् । (६।१)

rājāha katham etat |

6.2६.२

मन्त्री कथयति । (६।२)

mantrī kathayati |

6.3६.३

अस्ति मगधदेशे फुल्लोत्पलाभिधानं सरः । (६।३)

asti magadhadeśe phullotpalābhidhānaṃ saraḥ |

6.4६.४

तत्र चिरं सङ्कटविकटनामानौ हंसौ निवसतः । (६।४)

tatra ciraṃ saṅkaṭavikaṭanāmānau haṃsau nivasataḥ |

6.5६.५

तयोर् मित्रं कम्बुग्रीवनामा कूर्मश् च प्रतिवसति । (६।५)

tayor mitraṃ kambugrīvanāmā kūrmaś ca prativasati |

6.6६.६

अथैकदा धीवरैर् आगत्य तथोक्तं यतत्रास्माभिर् अद्योषित्वा प्रातर् मत्स्यकूर्मादयो व्यापादयितव्याः । (६।६)

athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ |

6.7६.७

तद् आकर्ण्य कूर्मो हंसाव् आह सुहृदौ श्रुतो ऽयं धीवरालापः । (६।७)

tad ākarṇya kūrmo haṃsāv āha suhṛdau śruto 'yaṃ dhīvarālāpaḥ |

6.8६.८

अधुना किं मया कर्तव्यम् । (६।८)

adhunā kiṃ mayā kartavyam |

6.9६.९

हंसाव् आहतुः ज्ञायतां तावत् । (६।९)

haṃsāv āhatuḥ jñāyatāṃ tāvat |

6.10६.१०

पुनस् तावत् प्रातर् यद् उचितं तत् कर्तव्यम् । (६।१०)

punas tāvat prātar yad ucitaṃ tat kartavyam |

6.11६.११

कूर्मो ब्रूते मैवम् । (६।११)

kūrmo brūte maivam |

6.12६.१२

यतो दृष्टव्यतिकरो ऽहम् अत्र । (६।१२)

yato dṛṣṭavyatikaro 'ham atra |

6.13६.१३

यथा चोक्तम् । (६।१३)

yathā coktam |

6.14६.१४

अनागतविधाता च प्रत्युत्पन्नमतिस् तथा । (६।१४)

anāgatavidhātā ca pratyutpannamatis tathā |

6.15६.१५

द्वाव् एव सुखम् एधेते यद्भविष्यो विनश्यति ॥ (६।१५)

dvāv eva sukham edhete yadbhaviṣyo vinaśyati ||

7.1७.१

ताव् ऊचतुः कथम् एतत् । (७।१)

tāv ūcatuḥ katham etat |

7.2७.२

कूर्मः कथयति । (७।२)

kūrmaḥ kathayati |

7.3७.३

पुरास्मिन् एव सरस्य् एवंविधेष्व् एव धीवरेषूपस्थितेषु मत्स्यत्रयेणालोचितम् । (७।३)

purāsmin eva sarasy evaṃvidheṣv eva dhīvareṣūpasthiteṣu matsyatrayeṇālocitam |

7.4७.४

तत्रानागतविधाता नामैको मत्स्यः । (७।४)

tatrānāgatavidhātā nāmaiko matsyaḥ |

7.5७.५

तेनोक्तम् अहं तावज्जलाशयान्तरं गच्छामि । (७।५)

tenoktam ahaṃ tāvajjalāśayāntaraṃ gacchāmi |

7.6७.६

इत्य् उक्त्वा स ह्रदान्तरं गतः । (७।६)

ity uktvā sa hradāntaraṃ gataḥ |

7.7७.७

अपरेण प्रत्युत्पन्नमतिनाम्ना मत्स्येनाभिहितं भविष्यदर्थे प्रमाणाभावात् कुत्र मया गन्तव्यम् तद् उत्पन्ने यथाकार्यं तद् अनुष्ठेयम् । (७।७)

apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam |

7.8७.८

तथा चोक्तम् । (७।८)

tathā coktam |

7.9७.९

उत्पन्नाम् आपदं यस् तु समाधत्ते स बुद्धिमान् । (७।९)

utpannām āpadaṃ yas tu samādhatte sa buddhimān |

7.10७.१०

वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥ (७।१०)

vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā ||

8.1८.१

यद्भविष्यः पृच्छति कथम् एतत् । (८।१)

yadbhaviṣyaḥ pṛcchati katham etat |

8.2८.२

प्रत्युत्पन्नमतिः कथयति । (८।२)

pratyutpannamatiḥ kathayati |

8.3८.३

पुरा विक्रमपुरे समुद्रदत्तो नाम वणिग् अस्ति । (८।३)

purā vikramapure samudradatto nāma vaṇig asti |

8.4८.४

तस्य रत्नप्रभा नाम गृहिणी स्वसेवकेन सह सदा रमते । (८।४)

tasya ratnaprabhā nāma gṛhiṇī svasevakena saha sadā ramate |

8.5८.५

यतः । (८।५)

yataḥ |

8.6८.६

न स्त्रीणाम् अप्रियः कश्चित् प्रियो वापि न विद्यते । (८।६)

na strīṇām apriyaḥ kaścit priyo vāpi na vidyate |

8.7८.७

गावस् तृणम् इवारण्ये प्रार्थयन्ते नवं नवम् ॥ (८।७)

gāvas tṛṇam ivāraṇye prārthayante navaṃ navam ||

9.1९.१

अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुम्बनं ददती समुद्रदत्तेन अवलोकिता । (९।१)

athaikadā sā ratnaprabhā tasya sevakasya mukhe cumbanaṃ dadatī samudradattena avalokitā |

9.2९.२

ततः सा बन्धकी सत्वरं भर्तुः समीपं मत्वाह नाथ एतस्य सेवकस्य महती निकृतिः । (९।२)

tataḥ sā bandhakī satvaraṃ bhartuḥ samīpaṃ matvāha nātha etasya sevakasya mahatī nikṛtiḥ |

9.3९.३

यतो ऽयं चौरिकां कृत्वा कर्पूरं खादतीति । (९।३)

yato 'yaṃ caurikāṃ kṛtvā karpūraṃ khādatīti |

9.4९.४

मयास्य मुखम् आघ्राय ज्ञातम् । (९।४)

mayāsya mukham āghrāya jñātam |

9.5९.५

तथा चोक्तम् । (९।५)

tathā coktam |

9.6९.६

आहारो द्विगुणः स्त्रीणां बुद्धिस् तासां चतुर्गुणा । (९।६)

āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā |

9.7९.७

षड्गुणो व्यवसायश् च कामाश् चाष्टगुणः स्मृतः ॥ (९।७)

ṣaḍguṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ ||

10.1१०.१

तच्छ्रुत्वा सेवकेनापि प्रकुप्योक्तं नाथ यस्य स्वामिनो गृहे एतादृशी भार्या तत्र सेवकेन कथं स्थातव्यम् यत्र च प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति । (१०।१)

tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati |

10.2१०.२

ततो ऽसाव् उत्थाय चलितः । (१०।२)

tato 'sāv utthāya calitaḥ |

10.3१०.३

साधुना च यत्नात् प्रबोध्य धृतः । (१०।३)

sādhunā ca yatnāt prabodhya dhṛtaḥ |

10.4१०.४

अतो ऽहं ब्रवीम्युत्पन्नाम् आपदम् इत्यादि । (१०।४)

ato 'haṃ bravīmyutpannām āpadam ityādi |

10.5१०.५

ततो यद्भविष्येणोक्तम् । (१०।५)

tato yadbhaviṣyeṇoktam |

10.6१०.६

यद् अभावि न तद् भावि भावि चेन्न तद् अन्यथा । (१०।६)

yad abhāvi na tad bhāvi bhāvi cenna tad anyathā |

10.7१०.७

इति चिन्ताविषघ्नो ऽयम् अगदः किं न पीयते ॥ (१०।७)

iti cintāviṣaghno 'yam agadaḥ kiṃ na pīyate ||

11.1११.१

ततः प्रातर् जालेन बद्धः प्रत्युत्पन्नमतिर् मृतवद् आत्मानं संदर्श्य स्थितः । (११।१)

tataḥ prātar jālena baddhaḥ pratyutpannamatir mṛtavad ātmānaṃ saṃdarśya sthitaḥ |

11.2११.२

ततो जालाद् अपसारितो यथाशक्त्य् उत्प्लुत्य गभीरं नीरं प्रविष्टः । (११।२)

tato jālād apasārito yathāśakty utplutya gabhīraṃ nīraṃ praviṣṭaḥ |

11.3११.३

यद्भविष्यश् च धीवरैः प्राप्तो व्यापादितः । (११।३)

yadbhaviṣyaś ca dhīvaraiḥ prāpto vyāpāditaḥ |

11.4११.४

अतो ऽहं ब्रवीम्यनागतविधाता च इत्यादि । (११।४)

ato 'haṃ bravīmyanāgatavidhātā ca ityādi |

11.5११.५

तद् यथाहम् अन्यं ह्रदं प्राप्नोमि तथा क्रियताम् । (११।५)

tad yathāham anyaṃ hradaṃ prāpnomi tathā kriyatām |

11.6११.६

हंसाव् आहतुः जलाशयान्तरे प्राप्ते तव कुशलम् । (११।६)

haṃsāv āhatuḥ jalāśayāntare prāpte tava kuśalam |

11.7११.७

स्थले गच्छतस् ते को विधिः । (११।७)

sthale gacchatas te ko vidhiḥ |

11.8११.८

कूर्म आह यथाहं भवद्भ्यां सहाकाशवर्त्मना यामि तथा विधीयताम् । (११।८)

kūrma āha yathāhaṃ bhavadbhyāṃ sahākāśavartmanā yāmi tathā vidhīyatām |

11.9११.९

हंसौ ब्रूतः कथम् उपायः सम्भवति । (११।९)

haṃsau brūtaḥ katham upāyaḥ sambhavati |

11.10११.१०

कच्छपो वदति युवाभ्यां चञ्चुधृतं काष्ठखण्डम् एकं मया मुखेनावलम्बितव्यम् । (११।१०)

kacchapo vadati yuvābhyāṃ cañcudhṛtaṃ kāṣṭhakhaṇḍam ekaṃ mayā mukhenāvalambitavyam |

11.11११.११

ततश् च युवयोः पक्षबलेन मयापि सुखेन गन्तव्यम् । (११।११)

tataś ca yuvayoḥ pakṣabalena mayāpi sukhena gantavyam |

11.12११.१२

हंसौ ब्रूतः सम्भवत्य् एष उपायः । (११।१२)

haṃsau brūtaḥ sambhavaty eṣa upāyaḥ |

11.13११.१३

किन्तु । (११।१३)

kintu |

11.14११.१४

उपायं चिन्तयेत् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् । (११।१४)

upāyaṃ cintayet prājño hy apāyam api cintayet |

11.15११.१५

पश्यतो बकमूर्खस्य नकुलैर् भक्षिताः सुताः ॥ (११।१५)

paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ ||

12.1१२.१

कूर्मः पृच्छति कथम् एतत् । (१२।१)

kūrmaḥ pṛcchati katham etat |

12.2१२.२

तौ कथयतः । (१२।२)

tau kathayataḥ |

12.3१२.३

अस्त्य् उत्तरापथे गृध्रकूटनाम्नि पर्वते महान् पिप्पलवृक्षः । (१२।३)

asty uttarāpathe gṛdhrakūṭanāmni parvate mahān pippalavṛkṣaḥ |

12.4१२.४

तत्रानेके बका निवसन्ति । (१२।४)

tatrāneke bakā nivasanti |

12.5१२.५

तस्य वृक्षस्याधस्ताद् विवरे सर्पस् तिष्ठति । (१२।५)

tasya vṛkṣasyādhastād vivare sarpas tiṣṭhati |

12.6१२.६

स च बकानां बालापत्यानि खादति । (१२।६)

sa ca bakānāṃ bālāpatyāni khādati |

12.7१२.७

अथ शोकार्तानां विलापं श्रुत्वा केनचिद् वृद्धबकेनाभिहितं भो एवं कुरुत यूयं मत्स्यान् उपादाय नकुलविवराद् आरभ्य सर्पविवरं यावत्पङ्क्तिक्रमेण एकैकशो विकिरत । (१२।७)

atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata |

12.8१२.८

ततस् तदाहारलुब्धैर् नकुलैर् आगत्य सर्पो द्रष्टव्यः । (१२।८)

tatas tadāhāralubdhair nakulair āgatya sarpo draṣṭavyaḥ |

12.9१२.९

स्वभावद्वेषाद् व्यापदयितव्यश् च । (१२।९)

svabhāvadveṣād vyāpadayitavyaś ca |

12.10१२.१०

तथानुष्ठिते सति तद् वृत्तम् । (१२।१०)

tathānuṣṭhite sati tad vṛttam |

12.11१२.११

अथ नकुलैर् वृक्षोपरि बकशावकानां रावः श्रुतः । (१२।११)

atha nakulair vṛkṣopari bakaśāvakānāṃ rāvaḥ śrutaḥ |

12.12१२.१२

पश्चात् तद्वृक्षम् आरुह्य बकशावकाः खादिताः । (१२।१२)

paścāt tadvṛkṣam āruhya bakaśāvakāḥ khāditāḥ |

12.13१२.१३

अत आवां ब्रूवः उपायं चिन्तयन् इत्यादि । (१२।१३)

ata āvāṃ brūvaḥ upāyaṃ cintayan ityādi |

12.14१२.१४

आवाभ्यां नीयमानं त्वाम् अवलोक्य लोकैः किंचिद् वक्तव्यम् एव । (१२।१४)

āvābhyāṃ nīyamānaṃ tvām avalokya lokaiḥ kiṃcid vaktavyam eva |

12.15१२.१५

यदि त्वम् उत्तरं दास्यसि तदा त्वन्मरणम् । (१२।१५)

yadi tvam uttaraṃ dāsyasi tadā tvanmaraṇam |

12.16१२.१६

तत् सर्वथैव स्थीयताम् । (१२।१६)

tat sarvathaiva sthīyatām |

12.17१२.१७

कूर्मो वदति किम् अहम् अप्राज्ञः नाहम् उत्तरं दास्यामि । (१२।१७)

kūrmo vadati kim aham aprājñaḥ nāham uttaraṃ dāsyāmi |

12.18१२.१८

न किमपि मया वक्तव्यम् । (१२।१८)

na kimapi mayā vaktavyam |

12.19१२.१९

तथानुष्ठिते तथाविधं कूर्मम् आलोक्य सर्वे गोरक्षकाः पश्चाद् धावन्ति वदन्ति च अहो महद् आश्चर्यम् पक्षिभ्यां कूर्मो नीयते । (१२।१९)

tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate |

12.20१२.२०

कश्चिद् वदति यद्य् अयं कूर्मः पतति तदात्रैव पक्त्वा खादितव्यः । (१२।२०)

kaścid vadati yady ayaṃ kūrmaḥ patati tadātraiva paktvā khāditavyaḥ |

12.21१२.२१

कश्चिद् वदति सरसस् तीरे दग्ध्वा खादितव्यो ऽयम् । (१२।२१)

kaścid vadati sarasas tīre dagdhvā khāditavyo 'yam |

12.22१२.२२

कश्चिद् वदति गृहं नीत्वा भक्षणीयः । (१२।२२)

kaścid vadati gṛhaṃ nītvā bhakṣaṇīyaḥ |

12.23१२.२३

इति । (१२।२३)

iti |

12.24१२.२४

तद्वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृतपूर्वसंस्कारः प्राह युष्माभिर् भस्म भक्षितव्यम् इति वदन्न् एव पतितस् तैर् व्यापादितश् च । (१२।२४)

tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca |

12.25१२.२५

अतो ऽहं ब्रवीमि सुहृदां हितकामानाम् इत्यादि । (१२।२५)

ato 'haṃ bravīmi suhṛdāṃ hitakāmānām ityādi |

12.26१२.२६

अथ प्रणिधिर् बकस् तत्रागत्योवाच देव प्राग् एव मया निगदितं दुर्गशोध हि प्रतिक्षणं कर्तव्यम् इति । (१२।२६)

atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti |

12.27१२.२७

तच् च युष्माभिर् न कृतं तदनवधानस्य फलम् इदम् अनुभूतम् । (१२।२७)

tac ca yuṣmābhir na kṛtaṃ tadanavadhānasya phalam idam anubhūtam |

12.28१२.२८

दुर्गदाहो मेघवर्णेन वायसेन गृध्रप्रत्युक्तेन कृतः । (१२।२८)

durgadāho meghavarṇena vāyasena gṛdhrapratyuktena kṛtaḥ |

12.29१२.२९

राजा निःश्वस्याह । (१२।२९)

rājā niḥśvasyāha |

12.30१२.३०

प्रणयाद् उपकाराद् वा यो विश्वसिति शत्रुषु । (१२।३०)

praṇayād upakārād vā yo viśvasiti śatruṣu |

12.31१२.३१

स सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते ॥ (१२।३१)

sa supta iva vṛkṣāgrāt patitaḥ pratibudhyate ||

13.1१३.१

अथ प्रणिधिर् उवाच इतो दुर्गदाहं विधाय यदा यतो मेघवर्णस् तदा चित्रवर्णेन प्रसादितेनोक्तम् अयं मेघवर्णो ऽत्र कर्पूरद्वीपराज्येऽभिषिच्यताम् । (१३।१)

atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām |

13.2१३.२

तथा चोक्तम् । (१३।२)

tathā coktam |

13.3१३.३

कृतकृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत् । (१३।३)

kṛtakṛtyasya bhṛtyasya kṛtaṃ naiva praṇāśayet |

13.4१३.४

फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ॥ (१३।४)

phalena manasā vācā dṛṣṭyā cainaṃ praharṣayet ||

14.1१४.१

चक्रवाको ब्रूते देव श्रुतं यत् प्रणिधिः कथयति । (१४।१)

cakravāko brūte deva śrutaṃ yat praṇidhiḥ kathayati |

14.2१४.२

राजा प्राह ततस् ततः । (१४।२)

rājā prāha tatas tataḥ |

14.3१४.३

प्रणिधिर् उवाच ततः प्रधानमन्त्रिणा गृध्रेणाभिहितं देव नेदम् उचितम् । (१४।३)

praṇidhir uvāca tataḥ pradhānamantriṇā gṛdhreṇābhihitaṃ deva nedam ucitam |

14.4१४.४

प्रसादान्तरं किमपि क्रियताम् । (१४।४)

prasādāntaraṃ kimapi kriyatām |

14.5१४.५

यतः । (१४।५)

yataḥ |

14.6१४.६

अविचारयतो युक्तिकथनं तुषखण्डनम् । (१४।६)

avicārayato yuktikathanaṃ tuṣakhaṇḍanam |

14.7१४.७

नीचेषूपकृतं राजन् बालुकास्व् इव मूत्रितम् ॥ (१४।७)

nīceṣūpakṛtaṃ rājan bālukāsv iva mūtritam ||

15.1१५.१

महताम् आस्पदे नीचः कदापि न कर्तव्यः । (१५।१)

mahatām āspade nīcaḥ kadāpi na kartavyaḥ |

15.2१५.२

तथा चोक्तम् । (१५।२)

tathā coktam |

15.3१५.३

नीचः श्लाघ्यपदं प्राप्य स्वामिनं हन्तुम् इच्छति । (१५।३)

nīcaḥ ślāghyapadaṃ prāpya svāminaṃ hantum icchati |

15.4१५.४

मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा ॥ (१५।४)

mūṣiko vyāghratāṃ prāpya muniṃ hantuṃ gato yathā ||

16.1१६.१

चित्रवर्णः पृच्छति कथम् एतत् । (१६।१)

citravarṇaḥ pṛcchati katham etat |

16.2१६.२

मन्त्री कथयति । (१६।२)

mantrī kathayati |

16.3१६.३

अस्ति गौतमस्य महर्षेस् तपोवने महातपा नाम मुनिः । (१६।३)

asti gautamasya maharṣes tapovane mahātapā nāma muniḥ |

16.4१६.४

तत्र तेन आश्रमसंनिधाने मूषिकशावकः काकमुखाद् भ्रष्टो दृष्टः । (१६।४)

tatra tena āśramasaṃnidhāne mūṣikaśāvakaḥ kākamukhād bhraṣṭo dṛṣṭaḥ |

16.5१६.५

ततो दयायुक्तेन तेन मुनिना नीवारकणैः संवर्धितः । (१६।५)

tato dayāyuktena tena muninā nīvārakaṇaiḥ saṃvardhitaḥ |

16.6१६.६

ततो बिडालस् तं मूषिकं खादितुम् उपधावति । (१६।६)

tato biḍālas taṃ mūṣikaṃ khāditum upadhāvati |

16.7१६.७

तम् अवलोक्य मूषिकस् तस्य मुनेः क्रोडे प्रविवेश । (१६।७)

tam avalokya mūṣikas tasya muneḥ kroḍe praviveśa |

16.8१६.८

ततो मुनिनोक्तं मूषिक त्वं मार्जारो भव । (१६।८)

tato muninoktaṃ mūṣika tvaṃ mārjāro bhava |

16.9१६.९

ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते । (१६।९)

tataḥ sa biḍālaḥ kukkuraṃ dṛṣṭvā palāyate |

16.10१६.१०

ततो मुनिनोक्तं कुक्कुराद् बिभेषि त्वम् एव कुक्कुरो भव । (१६।१०)

tato muninoktaṃ kukkurād bibheṣi tvam eva kukkuro bhava |

16.11१६.११

स च कुक्कुरो व्याघ्राद् बिभेति ततस् तेन मुनिना कुक्कुरो व्याघ्रः कृतः । (१६।११)

sa ca kukkuro vyāghrād bibheti tatas tena muninā kukkuro vyāghraḥ kṛtaḥ |

16.12१६.१२

अथ तं व्याघ्रं मुनिर् मूषिको ऽयम् इति पश्यति । (१६।१२)

atha taṃ vyāghraṃ munir mūṣiko 'yam iti paśyati |

16.13१६.१३

अथ तं मुनिं व्याघ्रं च दृष्ट्वा सर्वे वदन्त्यनेन मुनिना मूषिको व्याघ्रतां नीतः । (१६।१३)

atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadantyanena muninā mūṣiko vyāghratāṃ nītaḥ |

16.14१६.१४

एतच्छ्रुत्वा सव्यथो व्याघ्रो ऽचिन्तयद् यावद् अनेन मुनिना स्थीयते तावद् इदं मे स्वरूपाख्यानम् अकीर्तिकरं न पलायिष्यते इत्य् आलोच्य मूषिकस् तं मुनिं हन्तुं गतः । (१६।१४)

etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ |

16.15१६.१५

ततो मुनिना तज् ज्ञात्वापुनर् मूषिको भव इत्य् उक्त्वा मूषिक एव कृतः । (१६।१५)

tato muninā taj jñātvāpunar mūṣiko bhava ity uktvā mūṣika eva kṛtaḥ |

16.16१६.१६

अतो ऽहं ब्रवीमि नीचः श्लाघ्यपदं प्राप्येत्यादि ॥ (१६।१६)

ato 'haṃ bravīmi nīcaḥ ślāghyapadaṃ prāpyetyādi ||

17.1१७.१

अपरं च । (१७।१)

aparaṃ ca |

17.2१७.२

देव सुकरम् इदम् इति न मन्तव्यम् । (१७।२)

deva sukaram idam iti na mantavyam |

17.3१७.३

शृणु । (१७।३)

śṛṇu |

17.4१७.४

भक्षयित्वा बहून् मत्स्यान् उत्तमाधममध्यमान् । (१७।४)

bhakṣayitvā bahūn matsyān uttamādhamamadhyamān |

17.5१७.५

अतिलोभाद् बकः पश्चान् मृतः कर्कटकग्रहात् ॥ (१७।५)

atilobhād bakaḥ paścān mṛtaḥ karkaṭakagrahāt ||

18.1१८.१

चित्रवर्णः पृच्छति कथम् एतत् । (१८।१)

citravarṇaḥ pṛcchati katham etat |

18.2१८.२

मन्त्री कथयति । (१८।२)

mantrī kathayati |

18.3१८.३

अस्ति मालवविषये पद्मगर्भाभिधानं सरः । (१८।३)

asti mālavaviṣaye padmagarbhābhidhānaṃ saraḥ |

18.4१८.४

तत्रैको वृद्धो बकः सामर्थ्यहीन उद्विग्नम् इवात्मानं दर्शयित्वा स्थितः । (१८।४)

tatraiko vṛddho bakaḥ sāmarthyahīna udvignam ivātmānaṃ darśayitvā sthitaḥ |

18.5१८.५

स च केनचित् कुलीरणे दूराद् एव दृष्टः । (१८।५)

sa ca kenacit kulīraṇe dūrād eva dṛṣṭaḥ |

18.6१८.६

पृष्टश् च किम् इति भवान् अत्राहारत्यागेन तिष्ठति । (१८।६)

pṛṣṭaś ca kim iti bhavān atrāhāratyāgena tiṣṭhati |

18.7१८.७

बकेनोक्तं मत्स्या मम जीवनहेतवः । (१८।७)

bakenoktaṃ matsyā mama jīvanahetavaḥ |

18.8१८.८

ते कैवर्तैर् आगत्य व्यापादयितव्या इति वार्ता नगरोपान्ते मया श्रुता । (१८।८)

te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā |

18.9१८.९

अतो वर्तनाभावाद् एवास्मन्मरणम् उपस्थितम् इति ज्ञात्वाहारेऽप्य् अनादरः कृतः । (१८।९)

ato vartanābhāvād evāsmanmaraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ |

18.10१८.१०

ततो मत्स्यैर् आलोचितमिह समये तावद् उपकारक एवायं लक्ष्यते । (१८।१०)

tato matsyair ālocitamiha samaye tāvad upakāraka evāyaṃ lakṣyate |

18.11१८.११

तद् अयम् एव यथाकर्तव्यं पृच्छ्यताम् । (१८।११)

tad ayam eva yathākartavyaṃ pṛcchyatām |

18.12१८.१२

तथा चोक्तम् । (१८।१२)

tathā coktam |

18.13१८.१३

उपकर्त्रारिणा सन्धिर् न मित्रेणापकारिणा । (१८।१३)

upakartrāriṇā sandhir na mitreṇāpakāriṇā |

18.14१८.१४

उपकारापकारो हि लक्ष्यं लक्षणम् एतयोः ॥ (१८।१४)

upakārāpakāro hi lakṣyaṃ lakṣaṇam etayoḥ ||

19.1१९.१

मत्स्या ऊचुः भो बक को ऽत्र अस्माकं रक्षणोपायः । (१९।१)

matsyā ūcuḥ bho baka ko 'tra asmākaṃ rakṣaṇopāyaḥ |

19.2१९.२

बको ब्रूते अस्ति रक्षणोपायो जलाशयान्तराश्रयणम् । (१९।२)

bako brūte asti rakṣaṇopāyo jalāśayāntarāśrayaṇam |

19.3१९.३

तत्राहम् एकैकशो युष्मान् नयामि । (१९।३)

tatrāham ekaikaśo yuṣmān nayāmi |

19.4१९.४

मत्स्या आहुः एवम् अस्तु । (१९।४)

matsyā āhuḥ evam astu |

19.5१९.५

ततो ऽसौ दुष्टबकस् तान् मत्स्यान् एकैकशो नीत्वा खादति । (१९।५)

tato 'sau duṣṭabakas tān matsyān ekaikaśo nītvā khādati |

19.6१९.६

अनन्तरं कुलीरस् तम् उवाच भो बक माम् अपि तत्र नय । (१९।६)

anantaraṃ kulīras tam uvāca bho baka mām api tatra naya |

19.7१९.७

ततो बको ऽप्य् अपूर्वकुलीरमांसार्थी सादरं तं नीत्वा स्थले धृतवान् । (१९।७)

tato bako 'py apūrvakulīramāṃsārthī sādaraṃ taṃ nītvā sthale dhṛtavān |

19.8१९.८

कुलीरो ऽपि मत्स्यकण्टकाकीर्णं तं स्थलम् आलोक्याचिन्तयथा हतो ऽस्मि मन्दभाग्यः । (१९।८)

kulīro 'pi matsyakaṇṭakākīrṇaṃ taṃ sthalam ālokyācintayathā hato 'smi mandabhāgyaḥ |

19.9१९.९

भवतु इदानीं समयोचितं व्यवहरिष्यामि । (१९।९)

bhavatu idānīṃ samayocitaṃ vyavahariṣyāmi |

19.10१९.१०

यतः । (१९।१०)

yataḥ |

19.11१९.११

तावद् भयेन भेतव्यं यावद् भयम् अनागतम् । (१९।११)

tāvad bhayena bhetavyaṃ yāvad bhayam anāgatam |

19.12१९.१२

आगतं तु भयं दृष्ट्वा प्रहरत्वयम् अभीतिवत् ॥ (१९।१२)

āgataṃ tu bhayaṃ dṛṣṭvā praharatvayam abhītivat ||

20.1२०.१

किंच । (२०।१)

kiṃca |

20.2२०.२

अभियुक्तो यदा पश्येन् न किंचिद् गतिम् आत्मनः । (२०।२)

abhiyukto yadā paśyen na kiṃcid gatim ātmanaḥ |

20.3२०.३

युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह ॥ (२०।३)

yudhyamānas tadā prājño mriyate ripuṇā saha ||

21.1२१.१

इत्य् आलोच्य स कुलीरकस् तस्य बकस्य ग्रीवां चिछेद । (२१।१)

ity ālocya sa kulīrakas tasya bakasya grīvāṃ cicheda |

21.2२१.२

अथ स बकः पञ्चत्वं गतः । (२१।२)

atha sa bakaḥ pañcatvaṃ gataḥ |

21.3२१.३

अतो ऽहं ब्रवीमि भक्षयित्वा बहून् मत्स्यान् इत्यादि । (२१।३)

ato 'haṃ bravīmi bhakṣayitvā bahūn matsyān ityādi |

21.4२१.४

ततश् चित्रवर्णो ऽवदच्छृणु तावन् मन्त्रिन् मयैतद् आलोचितम् । (२१।४)

tataś citravarṇo 'vadacchṛṇu tāvan mantrin mayaitad ālocitam |

21.5२१.५

अस्ति यद् अत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावन्ति वस्तूनि कर्पूरद्वीपस्योत्तमानि तावन्त्य् अस्माकम् उपनेतव्यानि । (२१।५)

asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūradvīpasyottamāni tāvanty asmākam upanetavyāni |

21.6२१.६

तेनास्माभिर् महासुखेन विन्ध्याचले स्थातव्यम् । (२१।६)

tenāsmābhir mahāsukhena vindhyācale sthātavyam |

21.7२१.७

दूरदर्शी विहस्याह देव । (२१।७)

dūradarśī vihasyāha deva |

21.8२१.८

अनागतवतीं चिन्तां कृत्वा यस् तु प्रहृष्यति । (२१।८)

anāgatavatīṃ cintāṃ kṛtvā yas tu prahṛṣyati |

21.9२१.९

स तिरस्कारम् आप्नोति भग्नभाण्डो द्विजो यथा ॥ (२१।९)

sa tiraskāram āpnoti bhagnabhāṇḍo dvijo yathā ||

22.1२२.१

राजाह कथम् एतत् । (२२।१)

rājāha katham etat |

22.2२२.२

मन्त्री कथयति । (२२।२)

mantrī kathayati |

22.3२२.३

अस्ति देवीकोटनाम्नि नगरे देवशर्मा नाम ब्राह्मणः । (२२।३)

asti devīkoṭanāmni nagare devaśarmā nāma brāhmaṇaḥ |

22.4२२.४

तेन महाविषुवत्सङ्क्रान्त्यां सक्तुपूर्णशराव एकः प्राप्तः । (२२।४)

tena mahāviṣuvatsaṅkrāntyāṃ saktupūrṇaśarāva ekaḥ prāptaḥ |

22.5२२.५

ततस् तम् आदायासौ कुम्भकारस्य भाण्डपूर्णमण्डपैकदेशे रौद्रेणाकुलितः सुप्तः । (२२।५)

tatas tam ādāyāsau kumbhakārasya bhāṇḍapūrṇamaṇḍapaikadeśe raudreṇākulitaḥ suptaḥ |

22.6२२.६

ततः सक्तुरक्षार्थं हस्ते दण्डम् एकम् आदायाचिन्तयद् अद्याहं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि तदात्रैव तैः कपर्दकैर् घटशरावादिकम् उपक्रीयानेकधा वृद्धैस् तद्धनैः पुनः पुनः पूर्गवस्त्रादिम् उपक्रीय विक्रीय लक्षसङ्ख्यानि धनानि कृत्वा विवाहचतुष्टयं करिष्यामि । (२२।६)

tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi |

22.7२२.७

अनन्तरं तासु स्वपत्नीषु या रूपयौवनवती तस्याम् अधिकानुरागं करिष्यामि । (२२।७)

anantaraṃ tāsu svapatnīṣu yā rūpayauvanavatī tasyām adhikānurāgaṃ kariṣyāmi |

22.8२२.८

सपत्न्यो यदा द्वन्द्वं करिष्यामि तदा कोपाकुलो ऽहं ताः सर्वा लगुडेन ताडयिष्यामीत्य् अभिधाय तेन लगुडः प्रक्षिप्तः । (२२।८)

sapatnyo yadā dvandvaṃ kariṣyāmi tadā kopākulo 'haṃ tāḥ sarvā laguḍena tāḍayiṣyāmīty abhidhāya tena laguḍaḥ prakṣiptaḥ |

22.9२२.९

तेन सक्तुशरावश् चूर्णितो भाण्डानि च बहूनि भग्नानि । (२२।९)

tena saktuśarāvaś cūrṇito bhāṇḍāni ca bahūni bhagnāni |

22.10२२.१०

ततस् तेन शब्देनागतेन कुम्भकारेण तथाविधानि भाण्डान्य् अवलोक्य ब्राह्मणस् तिरस्कृतो मण्डपाद् बहिष्कृतश् च । (२२।१०)

tatas tena śabdenāgatena kumbhakāreṇa tathāvidhāni bhāṇḍāny avalokya brāhmaṇas tiraskṛto maṇḍapād bahiṣkṛtaś ca |

22.11२२.११

अतो ऽहं ब्रवीमि अनागतवतीं चिन्ताम् इत्यादि । (२२।११)

ato 'haṃ bravīmi anāgatavatīṃ cintām ityādi |

22.12२२.१२

ततो राजा रहसि गृध्रम् उवाच तात यथा कर्तव्यं तथोपदिश । (२२।१२)

tato rājā rahasi gṛdhram uvāca tāta yathā kartavyaṃ tathopadiśa |

22.13२२.१३

गृध्रो ब्रूते । (२२।१३)

gṛdhro brūte |

22.14२२.१४

मदोद्धतस्य नृपतेः प्रकीर्णस्येव दन्तिनः । (२२।१४)

madoddhatasya nṛpateḥ prakīrṇasyeva dantinaḥ |

22.15२२.१५

गच्छन्त्य् उन्मार्गयातस्य नेतारः खलु वाच्यताम् ॥ (२२।१५)

gacchanty unmārgayātasya netāraḥ khalu vācyatām ||

23.1२३.१

शृणु देव किम् अस्माभिर् बलदर्पाद् दुर्गं भग्नम् उत तव प्रतापाधिष्ठितेनोपायेन । (२३।१)

śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena |

23.2२३.२

राजाह भवताम् उपायेन । (२३।२)

rājāha bhavatām upāyena |

23.3२३.३

गृध्रो ब्रूते यद्य् अस्मद्वचनं क्रियते तदा स्वदेशे गम्यताम् । (२३।३)

gṛdhro brūte yady asmadvacanaṃ kriyate tadā svadeśe gamyatām |

23.4२३.४

अन्यथा वर्षाकाले प्राप्ते पुनस् तुल्यबलेन विग्रहे सत्य् अस्माकं परभूमिष्ठानां स्वदेशगमनम् अपि दुर्लभं भविष्यति । (२३।४)

anyathā varṣākāle prāpte punas tulyabalena vigrahe saty asmākaṃ parabhūmiṣṭhānāṃ svadeśagamanam api durlabhaṃ bhaviṣyati |

23.5२३.५

तत्सुखशोभार्थं संधाय गम्यताम् । (२३।५)

tatsukhaśobhārthaṃ saṃdhāya gamyatām |

23.6२३.६

दुर्गं भग्नं कीर्तिश् च लब्धेव । (२३।६)

durgaṃ bhagnaṃ kīrtiś ca labdheva |

23.7२३.७

मम संमतं तावद् एतत् । (२३।७)

mama saṃmataṃ tāvad etat |

23.8२३.८

यतः । (२३।८)

yataḥ |

23.9२३.९

यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये । (२३।९)

yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye |

23.10२३.१०

अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान् ॥ (२३।१०)

apriyāṇy āha pathyāni tena rājā sahāyavān ||

24.1२४.१

अन्यच् च । (२४।१)

anyac ca |

24.2२४.२

सुहृद्बलं तथा राज्यम् आत्मानं कीर्तिम् एव च । (२४।२)

suhṛdbalaṃ tathā rājyam ātmānaṃ kīrtim eva ca |

24.3२४.३

युधि सन्देहदोलास्थं को हि कुर्याद् अबालिशः ॥ (२४।३)

yudhi sandehadolāsthaṃ ko hi kuryād abāliśaḥ ||

25.1२५.१

अपरं च । (२५।१)

aparaṃ ca |

25.2२५.२

सन्धिम् इच्छेत् समेनापि संदिग्धो विजयो युधि । (२५।२)

sandhim icchet samenāpi saṃdigdho vijayo yudhi |

25.3२५.३

नहि संशयितं कुर्याद् इत्य् उवाच बृहस्पतिः ॥ (२५।३)

nahi saṃśayitaṃ kuryād ity uvāca bṛhaspatiḥ ||

26.1२६.१

अपि च । (२६।१)

api ca |

26.2२६.२

युद्धे विनाशो भवति कदाचिद् उभयोर् अपि । (२६।२)

yuddhe vināśo bhavati kadācid ubhayor api |

26.3२६.३

सुन्दोपसुन्दाव् अन्योन्यं नष्टौ तुल्यबलौ न किम् ॥ (२६।३)

sundopasundāv anyonyaṃ naṣṭau tulyabalau na kim ||

27.1२७.१

राजोवाच कथम् एतत् । (२७।१)

rājovāca katham etat |

27.2२७.२

मन्त्री कथयति । (२७।२)

mantrī kathayati |

27.3२७.३

पुरा दैत्यौ सहोदरौ सुन्दोपसुन्दनामानौ महता कायक्लेशेन त्रैलोक्यराज्यकामनया चिराच् चन्द्रशेखरम् आराधितवन्तौ । (२७।३)

purā daityau sahodarau sundopasundanāmānau mahatā kāyakleśena trailokyarājyakāmanayā cirāc candraśekharam ārādhitavantau |

27.4२७.४

ततस् तयोर् भगवान् परितुष्टः सन् वरं वरयतम् इत्य् उवाच । (२७।४)

tatas tayor bhagavān parituṣṭaḥ san varaṃ varayatam ity uvāca |

27.5२७.५

अनन्तरं तयोः कण्ठाधिष्ठितायाः सरस्वत्याः प्रभावात् ताव् अन्यद् वक्तुकामाव् अन्यदभिहितवन्तौ यद्य् आवयोर् भवान् परितुष्टस् तदा स्वप्रियां पार्वतीं परमेश्वरो ददातु । (२७।५)

anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu |

27.6२७.६

अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया विचारमूढयोः पार्वती प्रदत्ता । (२७।६)

atha bhagavatā kruddhena varadānasyāvaśyakatayā vicāramūḍhayoḥ pārvatī pradattā |

27.7२७.७

ततस् तस्या रूपलावण्यलुब्धाभ्यां जगद्घातिभ्यां मससोत्सुकाभ्यां पापतिमिराभ्याम् ममेत्य् अन्योन्यं कलहायमानाभ्यां प्रमाणपुरुषः कश्चित् पृच्छ्यताम् इति मतौ कृतायां स एव भट्टारको वृद्धद्विजरूपः समागत्य तत्रोपस्थितः । (२७।७)

tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ |

27.8२७.८

अनन्तरम् आवाभ्याम् इयं स्वबललब्धा कस्येयम् आवयोर् भवति इति ब्राह्मणम् अपृच्छताम् । (२७।८)

anantaram āvābhyām iyaṃ svabalalabdhā kasyeyam āvayor bhavati iti brāhmaṇam apṛcchatām |

27.9२७.९

ब्राह्मणो ब्रूते । (२७।९)

brāhmaṇo brūte |

27.10२७.१०

ज्ञानश्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवान् अपि । (२७।१०)

jñānaśreṣṭho dvijaḥ pūjyaḥ kṣatriyo balavān api |

27.11२७.११

धनधान्याधिको वैश्यः शूद्रस् तु द्विजसेवया ॥ (२७।११)

dhanadhānyādhiko vaiśyaḥ śūdras tu dvijasevayā ||

28.1२८.१

तद् युवां क्षात्रधर्मानुगौ । (२८।१)

tad yuvāṃ kṣātradharmānugau |

28.2२८.२

युद्ध एव युवयोर् नियम इत्य् अभिहिते सति साधूक्तम् अनेनेति कृत्वान्योन्यतुल्यवीर्यौ समकालम् अन्योन्यघातेन विनाशम् उपागतौ । (२८।२)

yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau |

28.3२८.३

अतो ऽहं ब्रवीमि सन्धिम् इच्छेत् समेनापि इत्यादि । (२८।३)

ato 'haṃ bravīmi sandhim icchet samenāpi ityādi |

28.4२८.४

राजाह तत् प्राग् एव किं नेदम् उपदिष्टं भवद्भिः । (२८।४)

rājāha tat prāg eva kiṃ nedam upadiṣṭaṃ bhavadbhiḥ |

28.5२८.५

मन्त्री ब्रूते तदा मद्वचनं किम् अवसानपर्यन्तं श्रुतं भवद्भिः तदापि मम संमत्या नायं विग्रहारम्भः । (२८।५)

mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ |

28.6२८.६

यतः साधुगुणयुक्तो ऽयं हिरण्यगर्भो न विग्राह्यः । (२८।६)

yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ |

28.7२८.७

तथा चोक्तम् । (२८।७)

tathā coktam |

28.8२८.८

सत्यार्थौ धार्मिको ऽनार्यो भ्रातृसङ्घातवान् बली । (२८।८)

satyārthau dhārmiko 'nāryo bhrātṛsaṅghātavān balī |

28.9२८.९

अनेकयुद्धविजयी संधेयाः सप्त कीर्तिताः ॥ (२८।९)

anekayuddhavijayī saṃdheyāḥ sapta kīrtitāḥ ||

29.1२९.१

सत्यो ऽनुपालयन् सत्यं संधितो नैति विक्रियाम् । (२९।१)

satyo 'nupālayan satyaṃ saṃdhito naiti vikriyām |

29.2२९.२

प्राणबाधेऽपि सुव्यक्तम् आर्यो नायात्य् अनार्थताम् ॥ (२९।२)

prāṇabādhe'pi suvyaktam āryo nāyāty anārthatām ||

30.1३०.१

धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते । (३०।१)

dhārmikasyābhiyuktasya sarva eva hi yudhyate |

30.2३०.२

प्रजानुरागाद् धर्माच् च दुःखोच्छेद्यो हि धार्मिकः ॥ (३०।२)

prajānurāgād dharmāc ca duḥkhocchedyo hi dhārmikaḥ ||

31.1३१.१

सन्धिः कार्यो ऽप्य् अनार्येण विनाशे समुपस्थिते । (३१।१)

sandhiḥ kāryo 'py anāryeṇa vināśe samupasthite |

31.2३१.२

विना तस्याश्रयेणार्यो न कुर्यात् कालयापनम् ॥ (३१।२)

vinā tasyāśrayeṇāryo na kuryāt kālayāpanam ||

32.1३२.१

संहतत्वाद् यथा वेणुर् निविडैः कण्टकैर् वृतः । (३२।१)

saṃhatatvād yathā veṇur niviḍaiḥ kaṇṭakair vṛtaḥ |

32.2३२.२

न शक्यते समुच्छेत्तुं भ्रातृसङ्घातवांस् तथा ॥ (३२।२)

na śakyate samucchettuṃ bhrātṛsaṅghātavāṃs tathā ||

33.1३३.१

बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् । (३३।१)

balinā saha yoddhavyam iti nāsti nidarśanam |

33.2३३.२

प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥ (३३।२)

prativātaṃ na hi ghanaḥ kadācid upasarpati ||

34.1३४.१

जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा । (३४।१)

jamadagneḥ sutasyeva sarvaḥ sarvatra sarvadā |

34.2३४.२

अनेकयुद्धजयिनः प्रतापाद् एव भज्यते ॥ (३४।२)

anekayuddhajayinaḥ pratāpād eva bhajyate ||

35.1३५.१

अनेकयुद्धविजयी सन्धानं यस्य गच्छति । (३५।१)

anekayuddhavijayī sandhānaṃ yasya gacchati |

35.2३५.२

तत्प्रतापेन तस्याशु वशम् आयान्ति शत्रवः ॥ (३५।२)

tatpratāpena tasyāśu vaśam āyānti śatravaḥ ||

36.1३६.१

तत्र तावद् बहुभिर् गुणैर् उपेतः संधेयो ऽयं राजा । (३६।१)

tatra tāvad bahubhir guṇair upetaḥ saṃdheyo 'yaṃ rājā |

36.2३६.२

चक्रवाको ऽवदत्प्रणिधे सर्वम् अवगतम् । (३६।२)

cakravāko 'vadatpraṇidhe sarvam avagatam |

36.3३६.३

व्रज । (३६।३)

vraja |

36.4३६.४

पुनर् आगमिष्यसि । (३६।४)

punar āgamiṣyasi |

36.5३६.५

अथ राजा हिरण्यगर्भश् चक्रवाकं पृष्टवान् मन्त्रिन् असंधेयाः कति तान् श्रोतुम् इच्छामि । (३६।५)

atha rājā hiraṇyagarbhaś cakravākaṃ pṛṣṭavān mantrin asaṃdheyāḥ kati tān śrotum icchāmi |

36.6३६.६

मन्त्री ब्रूते देव कथयामि । (३६।६)

mantrī brūte deva kathayāmi |

36.7३६.७

शृणु । (३६।७)

śṛṇu |

36.8३६.८

बालो वृद्धो दीर्घरोगी तथाज्ञातिबहिष्कृतः । (३६।८)

bālo vṛddho dīrgharogī tathājñātibahiṣkṛtaḥ |

36.9३६.९

भीरुको भीरुकजनो लुब्धो लुब्धजनस् तथा ॥ (३६।९)

bhīruko bhīrukajano lubdho lubdhajanas tathā ||

37.1३७.१

विरक्तप्रकृतिश् चैव विषयेष्व् अतिसक्तिमान् । (३७।१)

viraktaprakṛtiś caiva viṣayeṣv atisaktimān |

37.2३७.२

अनेकचित्तमन्त्रस् तु देवब्राह्मणनिन्दकः ॥ (३७।२)

anekacittamantras tu devabrāhmaṇanindakaḥ ||

38.1३८.१

दैवोपहतकश् चैव तथा दैवपरायणः । (३८।१)

daivopahatakaś caiva tathā daivaparāyaṇaḥ |

38.2३८.२

दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥ (३८।२)

durbhikṣavyasanopeto balavyasanasaṅkulaḥ ||

39.1३९.१

अदेशस्थो बहुरिपुर् युक्तः कालेन यश् च न । (३९।१)

adeśastho bahuripur yuktaḥ kālena yaś ca na |

39.2३९.२

सत्यधर्मव्यपेतश् च विंशतिः पुरुषा अमी ॥ (३९।२)

satyadharmavyapetaś ca viṃśatiḥ puruṣā amī ||

40.1४०.१

एतैः सन्धिं न कुर्वीत विगृह्णीयात् तु केवलम् । (४०।१)

etaiḥ sandhiṃ na kurvīta vigṛhṇīyāt tu kevalam |

40.2४०.२

एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर् वशम् ॥ (४०।२)

ete vigṛhyamāṇā hi kṣipraṃ yānti ripor vaśam ||

41.1४१.१

बालस्याल्पप्रभावत्वान् न लोको योद्धुम् इच्छति । (४१।१)

bālasyālpaprabhāvatvān na loko yoddhum icchati |

41.2४१.२

युद्धायुद्धफलं यस्माज् ज्ञातुं शक्तो न बालिशः ॥ (४१।२)

yuddhāyuddhaphalaṃ yasmāj jñātuṃ śakto na bāliśaḥ ||

42.1४२.१

उत्साहशक्तिहीनत्वाद् वृद्धो दीर्घामयस् तथा । (४२।१)

utsāhaśaktihīnatvād vṛddho dīrghāmayas tathā |

42.2४२.२

स्वैर् एव परिभूयेते द्वाव् अप्य् एताव् असंशयम् ॥ (४२।२)

svair eva paribhūyete dvāv apy etāv asaṃśayam ||

43.1४३.१

सुखच्छेद्यो हि भवति सर्वज्ञातिबहिष्कृतः । (४३।१)

sukhacchedyo hi bhavati sarvajñātibahiṣkṛtaḥ |

43.2४३.२

त एवैनं विनिघ्नन्ति ज्ञातयस् त्व् आत्मसात्कृताः ॥ (४३।२)

ta evainaṃ vinighnanti jñātayas tv ātmasātkṛtāḥ ||

44.1४४.१

भीरुर् युद्धपरित्यागात् स्वयम् एव प्रणश्यति । (४४।१)

bhīrur yuddhaparityāgāt svayam eva praṇaśyati |

44.2४४.२

तथैव भीरुपुरुषः सङ्ग्रामे तैर् विमुच्यते ॥ (४४।२)

tathaiva bhīrupuruṣaḥ saṅgrāme tair vimucyate ||

45.1४५.१

लुब्धस्यासंविभागित्वान् न युध्यन्तेऽनुजीविनः । (४५।१)

lubdhasyāsaṃvibhāgitvān na yudhyante'nujīvinaḥ |

45.2४५.२

लुब्धानुजीवी तैर् एव दानभिन्नैर् निहन्यते ॥ (४५।२)

lubdhānujīvī tair eva dānabhinnair nihanyate ||

46.1४६.१

संत्यज्यते प्रकृतिभिर् विरक्तप्रकृतिर् युधि । (४६।१)

saṃtyajyate prakṛtibhir viraktaprakṛtir yudhi |

46.2४६.२

सुखाभियोज्यो भवति विषये ऽतिसक्तिमान् ॥ (४६।२)

sukhābhiyojyo bhavati viṣaye 'tisaktimān ||

47.1४७.१

अनेकचित्तमन्त्रस् तु द्वेष्यो भवति मन्त्रिणाम् । (४७।१)

anekacittamantras tu dveṣyo bhavati mantriṇām |

47.2४७.२

अनवस्थितचित्तत्वात् कर्यतः स उपेक्ष्यते ॥ (४७।२)

anavasthitacittatvāt karyataḥ sa upekṣyate ||

48.1४८.१

सदाधर्मबलीयस्त्वाद् देवब्राह्मणनिन्दकः । (४८।१)

sadādharmabalīyastvād devabrāhmaṇanindakaḥ |

48.2४८.२

विशीर्यते स्वयं ह्य् एष दैवोपहतकस् तथा ॥ (४८।२)

viśīryate svayaṃ hy eṣa daivopahatakas tathā ||

49.1४९.१

सम्पत्तेश् च विपत्तेश् च दैवम् एव हि कारणम् । (४९।१)

sampatteś ca vipatteś ca daivam eva hi kāraṇam |

49.2४९.२

इति दैवपरो ध्यायन्न् आत्मना न विचेष्टते ॥ (४९।२)

iti daivaparo dhyāyann ātmanā na viceṣṭate ||

50.1५०.१

दुर्भिक्षव्यसनी चैव स्वयम् एव विषीदति । (५०।१)

durbhikṣavyasanī caiva svayam eva viṣīdati |

50.2५०.२

बलव्यसनसक्तस्य योद्धुं शक्तिर् न जायते ॥ (५०।२)

balavyasanasaktasya yoddhuṃ śaktir na jāyate ||

51.1५१.१

अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते । (५१।१)

adeśastho hi ripuṇā svalpakenāpi hanyate |

51.2५१.२

ग्राहो ऽल्पीयान् अपि जले जलेन्द्रम् अपि कर्षति ॥ (५१।२)

grāho 'lpīyān api jale jalendram api karṣati ||

52.1५२.१

बहुशत्रुस् तु संत्रस्तः श्येनमध्ये कपोतवत् । (५२।१)

bahuśatrus tu saṃtrastaḥ śyenamadhye kapotavat |

52.2५२.२

येनैव गच्छति पथा तेनैवाशु विपद्यते ॥ (५२।२)

yenaiva gacchati pathā tenaivāśu vipadyate ||

53.1५३.१

अकालयुक्तसैन्यस् तु हन्यते कालयोधिना । (५३।१)

akālayuktasainyas tu hanyate kālayodhinā |

53.2५३.२

कौशिकेन हतज्योतिर्निशीथ इव वायसः ॥ (५३।२)

kauśikena hatajyotirniśītha iva vāyasaḥ ||

54.1५४.१

सत्यधर्मव्यपेतेन संदध्यान् न कदाचन । (५४।१)

satyadharmavyapetena saṃdadhyān na kadācana |

54.2५४.२

स संधितो ऽप्य् असाधुत्वाद् अचिराद् याति विक्रियाम् ॥ (५४।२)

sa saṃdhito 'py asādhutvād acirād yāti vikriyām ||

55.1५५.१

अपरम् अपि कथयामि सन्धिविग्रहयानासनसंश्रयद्वैधीभावाः षाड्गुण्यम् । (५५।१)

aparam api kathayāmi sandhivigrahayānāsanasaṃśrayadvaidhībhāvāḥ ṣāḍguṇyam |

55.2५५.२

कर्मणाम् आरम्भोपायः । (५५।२)

karmaṇām ārambhopāyaḥ |

55.3५५.३

पुरुषद्रव्यसम्पत् । (५५।३)

puruṣadravyasampat |

55.4५५.४

देशकाविभागः । (५५।४)

deśakāvibhāgaḥ |

55.5५५.५

विनिपातप्रतीकारः । (५५।५)

vinipātapratīkāraḥ |

55.6५५.६

कार्यसिद्धिश् चेति पञ्चाङ्गो मन्त्रः । (५५।६)

kāryasiddhiś ceti pañcāṅgo mantraḥ |

55.7५५.७

सामदानभेददण्डाश् चत्वार उपायाः । (५५।७)

sāmadānabhedadaṇḍāś catvāra upāyāḥ |

55.8५५.८

उत्साहशक्तिः मन्त्रशक्तिः प्रभुशक्तिश् चेति शक्तित्रयम् । (५५।८)

utsāhaśaktiḥ mantraśaktiḥ prabhuśaktiś ceti śaktitrayam |

55.9५५.९

एतत् सर्वम् आलोच्य नित्यं विजिगीषवो भवन्ति महान्तः । (५५।९)

etat sarvam ālocya nityaṃ vijigīṣavo bhavanti mahāntaḥ |

55.10५५.१०

यतः । (५५।१०)

yataḥ |

55.11५५.११

या हि प्राणपरित्यागमूल्येनापि न लभ्यते । (५५।११)

yā hi prāṇaparityāgamūlyenāpi na labhyate |

55.12५५.१२

सा श्रीर् नीतिविदं पश्य चञ्चलापि प्रधावति ॥ (५५।१२)

sā śrīr nītividaṃ paśya cañcalāpi pradhāvati ||

56.1५६.१

यथा चोक्तम् । (५६।१)

yathā coktam |

56.2५६.२

वित्तं सदा यस्य समं विभक्तं गूढश् चरः संनिभृतश् च मन्त्रः । (५६।२)

vittaṃ sadā yasya samaṃ vibhaktaṃ gūḍhaś caraḥ saṃnibhṛtaś ca mantraḥ |

56.3५६.३

न चाप्रियं प्राणिषु यो ब्रवीति स सागरान्तां पृथिवीं प्रशास्ति ॥ (५६।३)

na cāpriyaṃ prāṇiṣu yo bravīti sa sāgarāntāṃ pṛthivīṃ praśāsti ||

57.1५७.१

किन्तु देव यद्यपि महामन्त्रिणा गृध्रेण सन्धानम् उपन्यस्तं तथापि तेन राज्ञा सम्प्रति भूतजयदर्पान् न मन्तव्यम् । (५७।१)

kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam |

57.2५७.२

देव तद् एवं क्रियतां । (५७।२)

deva tad evaṃ kriyatāṃ |

57.3५७.३

सिंहलद्वीपस्य महाबलो नाम सारसो राजास्मन्मित्रं जम्बुद्वीपे कोपं जनयतु । (५७।३)

siṃhaladvīpasya mahābalo nāma sāraso rājāsmanmitraṃ jambudvīpe kopaṃ janayatu |

57.4५७.४

यतः । (५७।४)

yataḥ |

57.5५७.५

सुगुप्तिम् आधाय सुसंहतेन बलेन वीरो विचरन्न् अरातिम् । (५७।५)

suguptim ādhāya susaṃhatena balena vīro vicarann arātim |

57.6५७.६

संतापयेद् येन समं सुतप्तस्तप्तेन सन्धानम् उपैति तप्तः ॥ (५७।६)

saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ ||

58.1५८.१

राज्ञा एवम् अस्त्व् इति निगद्य विचित्रनामा बकः सुगुप्तलेखं दत्त्वा सिंहलद्वीपं प्रहितः । (५८।१)

rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ |

58.2५८.२

अथ प्रणिधिः पुनर् आगत्योवाच देव श्रूयतां तावत् तत्रत्यप्रस्तावः । (५८।२)

atha praṇidhiḥ punar āgatyovāca deva śrūyatāṃ tāvat tatratyaprastāvaḥ |

58.3५८.३

एवं तत्र गृध्रेणोक्तं देव मेघवर्णस् तत्र चिरम् उषितः । (५८।३)

evaṃ tatra gṛdhreṇoktaṃ deva meghavarṇas tatra ciram uṣitaḥ |

58.4५८.४

स वेत्ति किं संधेयगुणयुक्तो हिरण्यगर्भो राजा न वा इति । (५८।४)

sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na vā iti |

58.5५८.५

ततो ऽसौ मेघवर्णश् चित्रवर्णेन राज्ञा समाहूय पृष्टः वायस कीदृशो हिरण्यगर्भो राजा चक्रवाको मन्त्री वा कीदृशः । (५८।५)

tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ vāyasa kīdṛśo hiraṇyagarbho rājā cakravāko mantrī vā kīdṛśaḥ |

58.6५८.६

वायस उवाच देव स हिरण्यगर्भो राजा युधिष्ठिरसमो महाशयः सत्यवाक् । (५८।६)

vāyasa uvāca deva sa hiraṇyagarbho rājā yudhiṣṭhirasamo mahāśayaḥ satyavāk |

58.7५८.७

चक्रवाकसमो मन्त्री न क्वाप्य् अवलोक्यते । (५८।७)

cakravākasamo mantrī na kvāpy avalokyate |

58.8५८.८

राजाह यद्य् एवं तदा कथम् असौ त्वया वञ्चितः । (५८।८)

rājāha yady evaṃ tadā katham asau tvayā vañcitaḥ |

58.9५८.९

विहस्य मेघवर्णः प्राह देव । (५८।९)

vihasya meghavarṇaḥ prāha deva |

58.10५८.१०

विश्वासप्रतिपन्नानां वञ्चने का विदग्धता । (५८।१०)

viśvāsapratipannānāṃ vañcane kā vidagdhatā |

58.11५८.११

अङ्कम् आरुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ॥ (५८।११)

aṅkam āruhya suptaṃ hi hatvā kiṃ nāma pauruṣam ||

59.1५९.१

शृणु देव तेन मन्त्रिणाहं प्रथमदर्शने एवं विज्ञातः किन्तु महाशयो ऽसौ राजा तेन मया विप्रलब्धः । (५९।१)

śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ |

59.2५९.२

तथा चोक्तम् । (५९।२)

tathā coktam |

59.3५९.३

आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनम् । (५९।३)

ātmaupamyena yo vetti durjanaṃ satyavādinam |

59.4५९.४

स तथा वञ्च्यते धूर्तैर् ब्राह्मणाश् छागतो यथा ॥ (५९।४)

sa tathā vañcyate dhūrtair brāhmaṇāś chāgato yathā ||

60.1६०.१

राजोवाच कथम् एतत् । (६०।१)

rājovāca katham etat |

60.2६०.२

मेघवर्णः कथयति । (६०।२)

meghavarṇaḥ kathayati |

60.3६०.३

अस्ति गौतमस्यारण्ये प्रस्तुतयज्ञः कश्चिद् ब्राह्मणः । (६०।३)

asti gautamasyāraṇye prastutayajñaḥ kaścid brāhmaṇaḥ |

60.4६०.४

स च यज्ञार्थं ग्रामान्तराच्छागम् उपक्रीय स्कन्धे नीत्वा गच्छ धूर्तत्रयेणावलोकितः । (६०।४)

sa ca yajñārthaṃ grāmāntarācchāgam upakrīya skandhe nītvā gaccha dhūrtatrayeṇāvalokitaḥ |

60.5६०.५

ततस् ते धूर्ताः यद्य् एष छागः केनाप्य् उपायेन लभ्यते तदा मतिप्रकर्षो भवतीति समालोच्य वृक्षत्रयतले क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः । (६०।५)

tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ |

60.6६०.६

तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणो ऽभिहितः भो ब्राह्मण किम् इति त्वया कुक्कुरः स्कन्धेनोह्यते । (६०।६)

tatraikena dhūrtena gacchan sa brāhmaṇo 'bhihitaḥ bho brāhmaṇa kim iti tvayā kukkuraḥ skandhenohyate |

60.7६०.७

विप्रेणोक्तं नायं श्वा किन्तु यज्ञच्छागः । (६०।७)

vipreṇoktaṃ nāyaṃ śvā kintu yajñacchāgaḥ |

60.8६०.८

अथान्तरस्थितेनान्येन धूर्तेन तथैवोक्तम् । (६०।८)

athāntarasthitenānyena dhūrtena tathaivoktam |

60.9६०.९

तद् आकर्ण्य ब्राह्मणश् छागं भूमौ निधाय मुहुर् निरीक्ष्य पुनः स्कन्धे कृत्वा दोलायमानमतिश् चलितः । (६०।९)

tad ākarṇya brāhmaṇaś chāgaṃ bhūmau nidhāya muhur nirīkṣya punaḥ skandhe kṛtvā dolāyamānamatiś calitaḥ |

60.10६०.१०

यतः । (६०।१०)

yataḥ |

60.11६०.११

मतिर् दोलायते सत्यं सताम् अपि खलोक्तिभिः । (६०।११)

matir dolāyate satyaṃ satām api khaloktibhiḥ |

60.12६०.१२

ताभिर् विश्वासितश् चासौ म्रियते चित्रकर्णवत् ॥ (६०।१२)

tābhir viśvāsitaś cāsau mriyate citrakarṇavat ||

61.1६१.१

राजाह कथम् एतत् । (६१।१)

rājāha katham etat |

61.2६१.२

स कथयति । (६१।२)

sa kathayati |

61.3६१.३

अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः । (६१।३)

asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ |

61.4६१.४

तस्य सेवकास् त्रयः काको व्याघ्रो जम्बुकश् च । (६१।४)

tasya sevakās trayaḥ kāko vyāghro jambukaś ca |

61.5६१.५

अथ तैर् भ्रमद्भिः सार्थभ्रष्टः कश्चिद् उष्ट्रो दृष्टः । (६१।५)

atha tair bhramadbhiḥ sārthabhraṣṭaḥ kaścid uṣṭro dṛṣṭaḥ |

61.6६१.६

पृष्टश् च कुतो भवान् आगतः सार्थाद् भ्रष्टः । (६१।६)

pṛṣṭaś ca kuto bhavān āgataḥ sārthād bhraṣṭaḥ |

61.7६१.७

स चात्मवृत्तान्तम् अकथयत् । (६१।७)

sa cātmavṛttāntam akathayat |

61.8६१.८

ततस् तैर् नीत्वा सिंहायासौ समर्पितः । (६१।८)

tatas tair nītvā siṃhāyāsau samarpitaḥ |

61.9६१.९

तेन चाभयवाचं दत्त्वा चित्रकर्ण इति नाम कृत्वा स्थापितः । (६१।९)

tena cābhayavācaṃ dattvā citrakarṇa iti nāma kṛtvā sthāpitaḥ |

61.10६१.१०

अथ कदाचित् सिंहस्य शरीरवैकल्याद् भूरिवृष्टिकारणाच् चाहारम् अलभमानास् ते व्यग्रा बभूवुः । (६१।१०)

atha kadācit siṃhasya śarīravaikalyād bhūrivṛṣṭikāraṇāc cāhāram alabhamānās te vyagrā babhūvuḥ |

61.11६१.११

ततस् तैर् आलोचितम् । (६१।११)

tatas tair ālocitam |

61.12६१.१२

चित्रकर्णम् एव यथा स्वामी व्यापादयति तथानुष्ठीयताम् । (६१।१२)

citrakarṇam eva yathā svāmī vyāpādayati tathānuṣṭhīyatām |

61.13६१.१३

किम् अनेन कण्टकभुजास्माकम् । (६१।१३)

kim anena kaṇṭakabhujāsmākam |

61.14६१.१४

व्याघ्र उवाच स्वामिनाभयवाचं दत्त्वानुगृहीतो ऽयं तत् कथम् एवं सम्भवति । (६१।१४)

vyāghra uvāca svāminābhayavācaṃ dattvānugṛhīto 'yaṃ tat katham evaṃ sambhavati |

61.15६१.१५

काको ब्रूते इह समये परिक्षीणः स्वामी पापम् अपि करिष्यति । (६१।१५)

kāko brūte iha samaye parikṣīṇaḥ svāmī pāpam api kariṣyati |

61.16६१.१६

यतः । (६१।१६)

yataḥ |

61.17६१.१७

त्यजेत् क्षुधार्ता महिला स्वपुत्रं खादेत् क्षुधार्ता भुजगी स्वमण्डम् । (६१।१७)

tyajet kṣudhārtā mahilā svaputraṃ khādet kṣudhārtā bhujagī svamaṇḍam |

61.18६१.१८

बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ॥ (६१।१८)

bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti ||

62.1६२.१

अन्यच् च । (६२।१)

anyac ca |

62.2६२.२

मत्तः प्रमत्तश् चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः । (६२।२)

mattaḥ pramattaś conmattaḥ śrāntaḥ kruddho bubhukṣitaḥ |

62.3६२.३

लुब्धो भीरुस् त्वरायुक्तः कामुकश् च न धर्मवित् ॥ (६२।३)

lubdho bhīrus tvarāyuktaḥ kāmukaś ca na dharmavit ||

63.1६३.१

इति संचिन्त्य सर्वे सिंहान्तिकं जग्मुः । (६३।१)

iti saṃcintya sarve siṃhāntikaṃ jagmuḥ |

63.2६३.२

सिंहेनोक्तमाहारार्थं किंचित् प्राप्तम् । (६३।२)

siṃhenoktamāhārārthaṃ kiṃcit prāptam |

63.3६३.३

तैर् उक्तम् देव यत्नाद् अपि प्राप्तं किंचित् । (६३।३)

tair uktam deva yatnād api prāptaṃ kiṃcit |

63.4६३.४

सिंहेनोक्तं को ऽधुना जीवनोपायः । (६३।४)

siṃhenoktaṃ ko 'dhunā jīvanopāyaḥ |

63.5६३.५

काको वदति देव स्वाधीनाहारपरित्यागात् सर्वनाशो ऽयम् उपस्थितः । (६३।५)

kāko vadati deva svādhīnāhāraparityāgāt sarvanāśo 'yam upasthitaḥ |

63.6६३.६

सिंहेनोक्तमत्राहारः कः स्वाधीनः । (६३।६)

siṃhenoktamatrāhāraḥ kaḥ svādhīnaḥ |

63.7६३.७

काकः कर्णे कथयति चित्रकर्ण इति । (६३।७)

kākaḥ karṇe kathayati citrakarṇa iti |

63.8६३.८

सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति । (६३।८)

siṃho bhūmiṃ spṛṣṭvā karṇau spṛśati |

63.9६३.९

अब्रवीच् चाभयवाचं दत्त्वा धृतो ऽयम् अस्माभिः । (६३।९)

abravīc cābhayavācaṃ dattvā dhṛto 'yam asmābhiḥ |

63.10६३.१०

तत् कथम् एवं सम्भवति तथा हि । (६३।१०)

tat katham evaṃ sambhavati tathā hi |

63.11६३.११

न भूतदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् । (६३।११)

na bhūtadānaṃ na suvarṇadānaṃ na gopradānaṃ na tathānnadānam |

63.12६३.१२

यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्व् अभयप्रदानम् ॥ (६३।१२)

yathā vadantīha mahāpradānaṃ sarveṣu dāneṣv abhayapradānam ||

64.1६४.१

अन्यच् च । (६४।१)

anyac ca |

64.2६४.२

सर्वकामसमृद्धस्य अश्वमेधस्य यत् फलम् । (६४।२)

sarvakāmasamṛddhasya aśvamedhasya yat phalam |

64.3६४.३

तत्फलं लभते सम्यग् रक्षिते शरणागते ॥ (६४।३)

tatphalaṃ labhate samyag rakṣite śaraṇāgate ||

65.1६५.१

काको ब्रूते नासौ स्वामिना व्यापादयितव्यः । (६५।१)

kāko brūte nāsau svāminā vyāpādayitavyaḥ |

65.2६५.२

किन्त्व् अस्माभिर् एव तथा कर्तव्यं यथासौ स्वदेहदानम् अङ्गीकरोति । (६५।२)

kintv asmābhir eva tathā kartavyaṃ yathāsau svadehadānam aṅgīkaroti |

65.3६५.३

सिंहस् तच्छ्रुत्वा तूष्णीं स्थितः । (६५।३)

siṃhas tacchrutvā tūṣṇīṃ sthitaḥ |

65.4६५.४

ततो ऽसौ लब्धावकाशः कूटं कृत्वा सर्वान् आदाय सिंहान्तिकं गतः । (६५।४)

tato 'sau labdhāvakāśaḥ kūṭaṃ kṛtvā sarvān ādāya siṃhāntikaṃ gataḥ |

65.5६५.५

अथ काकेनोक्तं देव यत्नाद् अप्य् आहारो न प्राप्तः । (६५।५)

atha kākenoktaṃ deva yatnād apy āhāro na prāptaḥ |

65.6६५.६

अनेकोपवासक्लिष्टश् च स्वामी । (६५।६)

anekopavāsakliṣṭaś ca svāmī |

65.7६५.७

तद् इदानीं मदीयमांसम् उपभुज्यताम् । (६५।७)

tad idānīṃ madīyamāṃsam upabhujyatām |

65.8६५.८

यतः । (६५।८)

yataḥ |

65.9६५.९

स्वामिमूला भवन्त्य् एव सर्वाः प्रकृतयः खलु । (६५।९)

svāmimūlā bhavanty eva sarvāḥ prakṛtayaḥ khalu |

65.10६५.१०

समूलेष्व् अपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥ (६५।१०)

samūleṣv api vṛkṣeṣu prayatnaḥ saphalo nṛṇām ||

66.1६६.१

सिंहेनोक्तं भद्र वरं प्राणपरित्यागो न पुनर् ईदृशे कर्मणि प्रवृत्तिः । (६६।१)

siṃhenoktaṃ bhadra varaṃ prāṇaparityāgo na punar īdṛśe karmaṇi pravṛttiḥ |

66.2६६.२

जम्बुकेनापि तथोक्तम् । (६६।२)

jambukenāpi tathoktam |

66.3६६.३

ततः सिंहेनोक्तं मैवम् । (६६।३)

tataḥ siṃhenoktaṃ maivam |

66.4६६.४

अथ व्याघ्रेणोक्तं मद्देहेन जीवतु स्वामी । (६६।४)

atha vyāghreṇoktaṃ maddehena jīvatu svāmī |

66.5६६.५

सिंहेनोक्तं न कदाचिद् एवम् उचितम् । (६६।५)

siṃhenoktaṃ na kadācid evam ucitam |

66.6६६.६

अथ चित्रकर्णो ऽपि जातविश्वासस् तथैवात्मदेहदानम् आह ततस् तद्वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः । (६६।६)

atha citrakarṇo 'pi jātaviśvāsas tathaivātmadehadānam āha tatas tadvacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ |

66.7६६.७

सर्वैर् भक्षितश् च । (६६।७)

sarvair bhakṣitaś ca |

66.8६६.८

अतो ऽहं ब्रवीमि मतिर् दोलायते सत्यम् इत्यादि । (६६।८)

ato 'haṃ bravīmi matir dolāyate satyam ityādi |

66.9६६.९

ततस् तृतीयधूर्तवचनं श्रुत्वा स्वमतिभ्रमं निश्चित्य छागं त्यक्त्वा ब्राह्मणः स्नात्वा गृहं ययौ । (६६।९)

tatas tṛtīyadhūrtavacanaṃ śrutvā svamatibhramaṃ niścitya chāgaṃ tyaktvā brāhmaṇaḥ snātvā gṛhaṃ yayau |

66.10६६.१०

छागश् च तैर् धूर्तैर् नीत्वा भक्षितः । (६६।१०)

chāgaś ca tair dhūrtair nītvā bhakṣitaḥ |

66.11६६.११

अतो ऽहं ब्रवीम्यात्मौपम्येन यो वेत्तीत्यादि । (६६।११)

ato 'haṃ bravīmyātmaupamyena yo vettītyādi |

66.12६६.१२

राजाह मेघवर्ण कथं शत्रुमध्ये त्वया सुचिरम् उषितम् कथं वा तेषाम् अनुनयः कृतः । (६६।१२)

rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ vā teṣām anunayaḥ kṛtaḥ |

66.13६६.१३

मेघवर्ण उवाच देव स्वामिकार्यार्थितया स्वप्रयोजनवशाद् वा किं किं न क्रियते पश्य । (६६।१३)

meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya |

66.14६६.१४

लोको वहति किं राजन् न मूर्ध्ना दग्धुम् इन्धनम् । (६६।१४)

loko vahati kiṃ rājan na mūrdhnā dagdhum indhanam |

66.15६६.१५

क्षालयन्त्य् अपि वृक्षाङ्घ्रिं नदीवेला निकृन्तति ॥ (६६।१५)

kṣālayanty api vṛkṣāṅghriṃ nadīvelā nikṛntati ||

67.1६७.१

तथा चोक्तम् । (६७।१)

tathā coktam |

67.2६७.२

स्कन्धेनापि वहेच्छत्रून् कार्यम् आसाद्य बुद्धिमान् । (६७।२)

skandhenāpi vahecchatrūn kāryam āsādya buddhimān |

67.3६७.३

यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः ॥ (६७।३)

yathā vṛddhena sarpeṇa maṇḍūkā vinipātitāḥ ||

68.1६८.१

राजाह कथम् एतत् । (६८।१)

rājāha katham etat |

68.2६८.२

मेघवर्णः कथयति । (६८।२)

meghavarṇaḥ kathayati |

68.3६८.३

अस्ति जीर्णोद्याने मन्दविषो नाम सर्पः । (६८।३)

asti jīrṇodyāne mandaviṣo nāma sarpaḥ |

68.4६८.४

सो ऽतिजीर्णतया स्वाहारम् अप्य् अन्वेष्टुम् अक्षमः सरस्तीरे पतित्वा स्थितः । (६८।४)

so 'tijīrṇatayā svāhāram apy anveṣṭum akṣamaḥ sarastīre patitvā sthitaḥ |

68.5६८.५

ततो दूराद् एव केनचिन् मण्डूकेन दृष्टः पृष्टश् च किम् इति त्वाम् आहारं नान्विष्यति । (६८।५)

tato dūrād eva kenacin maṇḍūkena dṛṣṭaḥ pṛṣṭaś ca kim iti tvām āhāraṃ nānviṣyati |

68.6६८.६

सर्पो ऽवदद् गच्छ भद्र किं ते मम मन्दभाग्यस्य वृत्तान्तप्रश्नेन ततः संजातकौतुकः स च भेकः सर्वथा कथ्यताम् इत्य् आह । (६८।६)

sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha |

68.7६८.७

सर्पो ऽप्य् आह भद्र पुरवासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रो विंशतिवर्षदेशीयः सर्वगुणसम्पन्नो दुर्दैवान् मया नृशंसेन दष्टः । (६८।७)

sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ |

68.8६८.८

ततस् तं सुशीलनामानं पुत्रं मृतम् अवलोक्य शोकेन मूर्छितः कौण्डिन्यः पृथिव्यां लुलोठ । (६८।८)

tatas taṃ suśīlanāmānaṃ putraṃ mṛtam avalokya śokena mūrchitaḥ kauṇḍinyaḥ pṛthivyāṃ luloṭha |

68.9६८.९

अनन्तरं ब्रह्मपुरवासिनः सर्वे बान्धवास् तत्रागत्योपविष्टाः । (६८।९)

anantaraṃ brahmapuravāsinaḥ sarve bāndhavās tatrāgatyopaviṣṭāḥ |

68.10६८.१०

तथा चोक्तम् । (६८।१०)

tathā coktam |

68.11६८.११

उत्सवे व्यसने युद्धे दुर्भिक्षे राष्ट्रविप्लवे । (६८।११)

utsave vyasane yuddhe durbhikṣe rāṣṭraviplave |

68.12६८.१२

राजद्वारे श्मशाने च यस् तिष्ठति स बान्धवः ॥ (६८।१२)

rājadvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ ||

69.1६९.१

तत्र कपिलो नाम स्नातको ऽवदद् अरे कौण्डिन्य मूढो ऽसि येनैवं विलपसि । (६९।१)

tatra kapilo nāma snātako 'vadad are kauṇḍinya mūḍho 'si yenaivaṃ vilapasi |

69.2६९.२

शृणु । (६९।२)

śṛṇu |

69.3६९.३

क्रोडीकरोति प्रथमं यदा जातम् अनित्यता । (६९।३)

kroḍīkaroti prathamaṃ yadā jātam anityatā |

69.4६९.४

धात्रीव जननी पश्चात् तदा शोकस्य कः क्रमः ॥ (६९।४)

dhātrīva jananī paścāt tadā śokasya kaḥ kramaḥ ||

70.1७०.१

तथा च । (७०।१)

tathā ca |

70.2७०.२

क्व गताः पृथिवीपालाः ससैन्यबलवाहनाः । (७०।२)

kva gatāḥ pṛthivīpālāḥ sasainyabalavāhanāḥ |

70.3७०.३

वियोगसाक्षिणी येषां भूमिर् अद्यापि तिष्ठति ॥ (७०।३)

viyogasākṣiṇī yeṣāṃ bhūmir adyāpi tiṣṭhati ||

71.1७१.१

तथा च । (७१।१)

tathā ca |

71.2७१.२

जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । (७१।२)

jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca |

71.3७१.३

अद्य वाब्दशतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः ॥ (७१।३)

adya vābdaśatānte vā mṛtyur vai prāṇināṃ dhruvaḥ ||

72.1७२.१

अपरं च । (७२।१)

aparaṃ ca |

72.2७२.२

कायः संनिहितापायः सम्पदः पदम् आपदाम् । (७२।२)

kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām |

72.3७२.३

समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥ (७२।३)

samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram ||

73.1७३.१

प्रतिक्षणम् अयं कायः क्षीयमाणो न लक्ष्यते । (७३।१)

pratikṣaṇam ayaṃ kāyaḥ kṣīyamāṇo na lakṣyate |

73.2७३.२

आमकुम्भ इवाम्भःस्थो विशीर्णः सन् विभाष्यते ॥ (७३।२)

āmakumbha ivāmbhaḥstho viśīrṇaḥ san vibhāṣyate ||

74.1७४.१

आसन्नतरताम् एति मृत्युर् जन्तोर् दिने दिने । (७४।१)

āsannataratām eti mṛtyur jantor dine dine |

74.2७४.२

आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ (७४।२)

āghātaṃ nīyamānasya vadhyasyeva pade pade ||

75.1७५.१

यतः । (७५।१)

yataḥ |

75.2७५.२

अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः । (७५।२)

anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasañcayaḥ |

75.3७५.३

ऐश्वर्यं प्रियसंवासो मुह्येत् तत्र न पण्डितः ॥ (७५।३)

aiśvaryaṃ priyasaṃvāso muhyet tatra na paṇḍitaḥ ||

76.1७६.१

यथा काष्ठं च काष्ठं च समेयातां महोदधौ । (७६।१)

yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau |

76.2७६.२

समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥ (७६।२)

sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ ||

77.1७७.१

यथा हि पथिकः कश्चिच् छायाम् आश्रित्य तिष्ठति । (७७।१)

yathā hi pathikaḥ kaścic chāyām āśritya tiṣṭhati |

77.2७७.२

विश्रम्य च पुनर् गच्छेत् तद्वद् भूतसमागमः ॥ (७७।२)

viśramya ca punar gacchet tadvad bhūtasamāgamaḥ ||

78.1७८.१

अन्यच् च । (७८।१)

anyac ca |

78.2७८.२

पञ्चभिर् निर्मिते देहे पञ्चत्वं च पुनर् गते । (७८।२)

pañcabhir nirmite dehe pañcatvaṃ ca punar gate |

78.3७८.३

स्वां स्वां योनिम् अनुप्राप्ते तत्र का परिदेवना ॥ (७८।३)

svāṃ svāṃ yonim anuprāpte tatra kā paridevanā ||

79.1७९.१

यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् । (७९।१)

yāvataḥ kurute jantuḥ sambandhān manasaḥ priyān |

79.2७९.२

तावन्तो ऽस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ (७९।२)

tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ ||

80.1८०.१

नायम् अत्यन्तसंवासो लभ्यते येन केनचित् । (८०।१)

nāyam atyantasaṃvāso labhyate yena kenacit |

80.2८०.२

अपि स्वेन शरीरेण किम् उतान्येन केनचित् ॥ (८०।२)

api svena śarīreṇa kim utānyena kenacit ||

81.1८१.१

अपि च । (८१।१)

api ca |

81.2८१.२

संयोगो हि वियोगस्य संसूचयति सम्भवम् । (८१।२)

saṃyogo hi viyogasya saṃsūcayati sambhavam |

81.3८१.३

अनतिक्रमणीयस्य जन्म मृत्योर् इवागमम् ॥ (८१।३)

anatikramaṇīyasya janma mṛtyor ivāgamam ||

82.1८२.१

आपातरमणीयानां संयोगानां प्रियैः सह । (८२।१)

āpātaramaṇīyānāṃ saṃyogānāṃ priyaiḥ saha |

82.2८२.२

अपथ्यानाम् इवान्नानां परिणामो हि दारुणः ॥ (८२।२)

apathyānām ivānnānāṃ pariṇāmo hi dāruṇaḥ ||

83.1८३.१

अपरं च । (८३।१)

aparaṃ ca |

83.2८३.२

व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा । (८३।२)

vrajanti na nivartante srotāṃsi saritāṃ yathā |

83.3८३.३

आयुर् आदाय मर्त्यानां तथा रात्र्यहनी सदा ॥ (८३।३)

āyur ādāya martyānāṃ tathā rātryahanī sadā ||

84.1८४.१

सुखास्वादपरो यस् तु संसारे सत्समागमः । (८४।१)

sukhāsvādaparo yas tu saṃsāre satsamāgamaḥ |

84.2८४.२

स वियोगावसानत्वाद् दुःखानां धुरि युज्यते ॥ (८४।२)

sa viyogāvasānatvād duḥkhānāṃ dhuri yujyate ||

85.1८५.१

अत एव हि नेच्छन्ति साधवः सत्समागमम् । (८५।१)

ata eva hi necchanti sādhavaḥ satsamāgamam |

85.2८५.२

यद्वियोगासिलूनस्य मनसो नास्ति भेषजम् ॥ (८५।२)

yadviyogāsilūnasya manaso nāsti bheṣajam ||

86.1८६.१

सुकृतान्य् अपि कर्माणि राजभिः सगरादिभिः । (८६।१)

sukṛtāny api karmāṇi rājabhiḥ sagarādibhiḥ |

86.2८६.२

अथ तान्य् एव कर्माणि ते चापि प्रलयं गताः ॥ (८६।२)

atha tāny eva karmāṇi te cāpi pralayaṃ gatāḥ ||

87.1८७.१

संचिन्त्य संचिन्त्य तम् उग्रदण्डं मृत्युं मनुष्यस्य विचक्षणस्य । (८७।१)

saṃcintya saṃcintya tam ugradaṇḍaṃ mṛtyuṃ manuṣyasya vicakṣaṇasya |

87.2८७.२

वर्षाम्बुसिक्ता इव चर्मबन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति ॥ (८७।२)

varṣāmbusiktā iva carmabandhāḥ sarve prayatnāḥ śithilībhavanti ||

88.1८८.१

याम् एव रात्रिं प्रथमाम् उपैति गर्भे निवासं नरवीर लोकः । (८८।१)

yām eva rātriṃ prathamām upaiti garbhe nivāsaṃ naravīra lokaḥ |

88.2८८.२

ततः प्रभृत्य् अस्खलितप्रयाणः स प्रत्यहं मृत्युसमीपम् एति ॥ (८८।२)

tataḥ prabhṛty askhalitaprayāṇaḥ sa pratyahaṃ mṛtyusamīpam eti ||

89.1८९.१

अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् । (८९।१)

ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam |

89.2८९.२

शोको दिनेषु गच्छत्सु वर्धताम् अपयाति किम् ॥ (८९।२)

śoko dineṣu gacchatsu vardhatām apayāti kim ||

90.1९०.१

तद् भद्र तद् आत्मानम् अनुसंधेहि । (९०।१)

tad bhadra tad ātmānam anusaṃdhehi |

90.2९०.२

शोकचर्चां च परिहर यतः । (९०।२)

śokacarcāṃ ca parihara yataḥ |

90.3९०.३

अकाण्डपातजातानाम् अस्त्राणां मर्मभेदिनाम् । (९०।३)

akāṇḍapātajātānām astrāṇāṃ marmabhedinām |

90.4९०.४

गाढशोकप्रहाराणाम् अचिन्तैव महौषधम् ॥ (९०।४)

gāḍhaśokaprahārāṇām acintaiva mahauṣadham ||

91.1९१.१

ततस् तद्वचनं निशम्य प्रबुद्ध इव कौण्डिन्य उत्थायाब्रवीत् । (९१।१)

tatas tadvacanaṃ niśamya prabuddha iva kauṇḍinya utthāyābravīt |

91.2९१.२

तद् अलम् इदानीं गृहनरकवासेन वनम् एव गच्छामि । (९१।२)

tad alam idānīṃ gṛhanarakavāsena vanam eva gacchāmi |

91.3९१.३

कपिलः पुनर् आह । (९१।३)

kapilaḥ punar āha |

91.4९१.४

वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस् तपः । (९१।४)

vane'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe'pi pañcendriyanigrahas tapaḥ |

91.5९१.५

अकुत्सिते कर्मणि यः प्रवर्तते त्रिवृत्तरागस्य गृहं तपोवनम् ॥ (९१।५)

akutsite karmaṇi yaḥ pravartate trivṛttarāgasya gṛhaṃ tapovanam ||

92.1९२.१

यतः । (९२।१)

yataḥ |

92.2९२.२

दुःखितो ऽपि चरेद् धर्मं यत्र कुत्राश्रमे रतः । (९२।२)

duḥkhito 'pi cared dharmaṃ yatra kutrāśrame rataḥ |

92.3९२.३

समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ (९२।३)

samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam ||

93.1९३.१

उक्तं च । (९३।१)

uktaṃ ca |

93.2९३.२

वृत्त्यर्थं भोजनं येषां सन्तानार्थं च मैथुनम् । (९३।२)

vṛttyarthaṃ bhojanaṃ yeṣāṃ santānārthaṃ ca maithunam |

93.3९३.३

वाक् सत्यवचनार्थाय दुर्गाण्य् अपि तरन्ति ते ॥ (९३।३)

vāk satyavacanārthāya durgāṇy api taranti te ||

94.1९४.१

तथा हि । (९४।१)

tathā hi |

94.2९४.२

आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलतटा दयोर्मिः । (९४।२)

ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlataṭā dayormiḥ |

94.3९४.३

तत्राभिषेकं कुरु पाण्डुपुत्र न वारिणा शुष्यति चान्तरात्मा ॥ (९४।३)

tatrābhiṣekaṃ kuru pāṇḍuputra na vāriṇā śuṣyati cāntarātmā ||

95.1९५.१

विशेषतश् च । (९५।१)

viśeṣataś ca |

95.2९५.२

जन्ममृत्युजराव्याधिवेदनाभिर् उपद्रुतम् । (९५।२)

janmamṛtyujarāvyādhivedanābhir upadrutam |

95.3९५.३

संसारम् इमम् उत्पन्नम् असारं त्यजतः सुखम् ॥ (९५।३)

saṃsāram imam utpannam asāraṃ tyajataḥ sukham ||

96.1९६.१

यतः । (९६।१)

yataḥ |

96.2९६.२

दुःखम् एवास्ति न सुखं यस्मात् तद् उपलक्ष्यते । (९६।२)

duḥkham evāsti na sukhaṃ yasmāt tad upalakṣyate |

96.3९६.३

दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते ॥ (९६।३)

duḥkhārtasya pratīkāre sukhasaṃjñā vidhīyate ||

97.1९७.१

कौण्डिन्यो ब्रूते एवम् एव । (९७।१)

kauṇḍinyo brūte evam eva |

97.2९७.२

ततो ऽहं तेन शोकाकुलेन ब्राह्मणेन शप्तो यद् अद्यारभ्य मण्डूकानां वाहनं भविष्यतीति । (९७।२)

tato 'haṃ tena śokākulena brāhmaṇena śapto yad adyārabhya maṇḍūkānāṃ vāhanaṃ bhaviṣyatīti |

97.3९७.३

कपिलो ब्रूते सम्प्रत्य् उपदेशासहिष्णुर् भवान् । (९७।३)

kapilo brūte sampraty upadeśāsahiṣṇur bhavān |

97.4९७.४

शोकाविष्टं ते हृदयम् । (९७।४)

śokāviṣṭaṃ te hṛdayam |

97.5९७.५

तथापि कार्यं शृणु । (९७।५)

tathāpi kāryaṃ śṛṇu |

97.6९७.६

सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । (९७।६)

saṅgaḥ sarvātmanā tyājyaḥ sa cet tyaktuṃ na śakyate |

97.7९७.७

स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥ (९७।७)

sa sadbhiḥ saha kartavyaḥ satāṃ saṅgo hi bheṣajam ||

98.1९८.१

अन्यच् च । (९८।१)

anyac ca |

98.2९८.२

कामः सर्वात्मना हेयः स चेद्धातुं न शक्यते । (९८।२)

kāmaḥ sarvātmanā heyaḥ sa ceddhātuṃ na śakyate |

98.3९८.३

स्वभार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥ (९८।३)

svabhāryāṃ prati kartavyaḥ saiva tasya hi bheṣajam ||

99.1९९.१

एतच्छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृतप्रशान्तशोकानलो यथाविधि दण्डग्रहणं कृतवान् । (९९।१)

etacchrutvā sa kauṇḍinyaḥ kapilopadeśāmṛtapraśāntaśokānalo yathāvidhi daṇḍagrahaṇaṃ kṛtavān |

99.2९९.२

अतो ब्राह्मणशापान् मण्डूकान् वोढुम् अत्र तिष्ठामि । (९९।२)

ato brāhmaṇaśāpān maṇḍūkān voḍhum atra tiṣṭhāmi |

99.3९९.३

अनन्तरं तेन मण्डूकेन गत्वा मण्डूकनाथस्य जालपादनाम्नो ऽग्रे तत् कथितम् । (९९।३)

anantaraṃ tena maṇḍūkena gatvā maṇḍūkanāthasya jālapādanāmno 'gre tat kathitam |

99.4९९.४

ततो ऽसाव् आगत्य मण्डूकनाथस् तस्य सर्पस्य पृष्ठम् आरूढवान् । (९९।४)

tato 'sāv āgatya maṇḍūkanāthas tasya sarpasya pṛṣṭham ārūḍhavān |

99.5९९.५

स च सर्पस् तं पृष्ठे कृत्वा चित्रपदक्रमं बभ्राम । (९९।५)

sa ca sarpas taṃ pṛṣṭhe kṛtvā citrapadakramaṃ babhrāma |

99.6९९.६

परेद्युश् चलितुम् असमर्थं तं मण्डूकनाथम् अवदत्किम् अद्य भवान् मन्दगतिः । (९९।६)

paredyuś calitum asamarthaṃ taṃ maṇḍūkanātham avadatkim adya bhavān mandagatiḥ |

99.7९९.७

सर्पो ब्रूते देव आहारविरहाद् असमर्थो ऽस्मि । (९९।७)

sarpo brūte deva āhāravirahād asamartho 'smi |

99.8९९.८

मण्डूकनाथो ऽवदद् अस्मदाज्ञया मण्डूकान् भक्षय । (९९।८)

maṇḍūkanātho 'vadad asmadājñayā maṇḍūkān bhakṣaya |

99.9९९.९

ततः गृहीतो ऽयं महाप्रसाद इत्य् उक्त्वा क्रमशो मण्डूकान् खादितवान् । (९९।९)

tataḥ gṛhīto 'yaṃ mahāprasāda ity uktvā kramaśo maṇḍūkān khāditavān |

99.10९९.१०

अथ निर्मण्डूकं सरो विलोक्य मण्डूकनाथो ऽपि तेन खादितः । (९९।१०)

atha nirmaṇḍūkaṃ saro vilokya maṇḍūkanātho 'pi tena khāditaḥ |

99.11९९.११

अतो ऽहं ब्रवीमि स्कन्धेनापि वहेच्छत्रून् इत्यादि । (९९।११)

ato 'haṃ bravīmi skandhenāpi vahecchatrūn ityādi |

99.12९९.१२

देव यात्व् इदानीं पुरावृत्ताख्यानकथनं सर्वथा संधेयो ऽयं हिरण्यगर्भराजा संधीयताम् इति मे मतिः । (९९।१२)

deva yātv idānīṃ purāvṛttākhyānakathanaṃ sarvathā saṃdheyo 'yaṃ hiraṇyagarbharājā saṃdhīyatām iti me matiḥ |

99.13९९.१३

राजोवाच को ऽयं भवतो विचारः यतो जितस् तावद् अयम् अस्माभिः । (९९।१३)

rājovāca ko 'yaṃ bhavato vicāraḥ yato jitas tāvad ayam asmābhiḥ |

99.14९९.१४

ततो यद्य् अस्मत्सेवया वसति तद् आस्ताम् । (९९।१४)

tato yady asmatsevayā vasati tad āstām |

99.15९९.१५

नो चेद् विगृह्यताम् । (९९।१५)

no ced vigṛhyatām |

99.16९९.१६

अत्रान्तरे जम्बूद्वीपाद् आगत्य शुकेनोक्तं देव सिंहलद्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपम् आक्रम्यावतिष्ठते । (९९।१६)

atrāntare jambūdvīpād āgatya śukenoktaṃ deva siṃhaladvīpasya sāraso rājā samprati jambūdvīpam ākramyāvatiṣṭhate |

99.17९९.१७

राजा ससम्भ्रमं ब्रूते किं किम् । (९९।१७)

rājā sasambhramaṃ brūte kiṃ kim |

99.18९९.१८

शुकः पूर्वोक्तं कथयति । (९९।१८)

śukaḥ pūrvoktaṃ kathayati |

99.19९९.१९

गृध्रः स्वगतम् उवाच साधु रे चक्रवाक मन्त्रिन् साधु । (९९।१९)

gṛdhraḥ svagatam uvāca sādhu re cakravāka mantrin sādhu |

99.20९९.२०

राजा सकोपम् आह आस्तां तावद् अयं गत्वा तम् एव समूलम् उन्मूलयामि । (९९।२०)

rājā sakopam āha āstāṃ tāvad ayaṃ gatvā tam eva samūlam unmūlayāmi |

99.21९९.२१

दूरदर्शी विहस्याह । (९९।२१)

dūradarśī vihasyāha |

99.22९९.२२

न शरन्मेघवत् कार्यं वृथैव घनगर्जितम् । (९९।२२)

na śaranmeghavat kāryaṃ vṛthaiva ghanagarjitam |

99.23९९.२३

परस्यार्थम् अनर्थं वा प्रकाशयति नो महान् ॥ (९९।२३)

parasyārtham anarthaṃ vā prakāśayati no mahān ||

100.1१००.१

अपरं च । (१००।१)

aparaṃ ca |

100.2१००.२

एकदा न विगृह्णीयाद् बहून् राजाभिघातिनः । (१००।२)

ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ |

100.3१००.३

सदर्पो ऽप्य् उरगः कीटैर् बहुभिर् नाश्यते ध्रुवम् ॥ (१००।३)

sadarpo 'py uragaḥ kīṭair bahubhir nāśyate dhruvam ||

101.1१०१.१

देव किम् इतो विना सन्धानं गमनम् अस्ति यतस् तदास्माकं पश्चात् प्रकोपो ऽनेन कर्तव्यः । (१०१।१)

deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ |

101.2१०१.२

अपरं च । (१०१।२)

aparaṃ ca |

101.3१०१.३

यो ऽर्थतत्त्वम् अविज्ञाय क्रोधस्यैव वशं गतः । (१०१।३)

yo 'rthatattvam avijñāya krodhasyaiva vaśaṃ gataḥ |

101.4१०१.४

स तथा तप्यते मूढो ब्राह्मणो नकुलाद् यथा ॥ (१०१।४)

sa tathā tapyate mūḍho brāhmaṇo nakulād yathā ||

102.1१०२.१

राजाह कथम् एतत् । (१०२।१)

rājāha katham etat |

102.2१०२.२

दूरदर्शी कथयति । (१०२।२)

dūradarśī kathayati |

102.3१०२.३

अस्त्य् उज्जयिन्यां माधवो नाम विप्रः । (१०२।३)

asty ujjayinyāṃ mādhavo nāma vipraḥ |

102.4१०२.४

तस्य ब्राह्मणी प्रसूता बालापत्यस्य रक्षार्थं ब्राह्मणम् अवस्थाप्य स्थातुं गता । (१०२।४)

tasya brāhmaṇī prasūtā bālāpatyasya rakṣārthaṃ brāhmaṇam avasthāpya sthātuṃ gatā |

102.5१०२.५

अथ ब्राह्मणाय राज्ञः पार्वणश्राद्धं दातुम् आह्वानम् आगतम् । (१०२।५)

atha brāhmaṇāya rājñaḥ pārvaṇaśrāddhaṃ dātum āhvānam āgatam |

102.6१०२.६

तच्छ्रुत्वा ब्राह्मणो ऽपि सहजदारिद्र्याद् अचिन्तयद् यदि सत्वरं न गच्छामि तदान्या कश्चिच्छ्रुत्वा श्राद्धं ग्रहीष्यति । (१०२।६)

tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati |

102.7१०२.७

यतः । (१०२।७)

yataḥ |

102.8१०२.८

आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । (१०२।८)

ādeyasya pradeyasya kartavyasya ca karmaṇaḥ |

102.9१०२.९

क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्रसम् ॥ (१०२।९)

kṣipram akriyamāṇasya kālaḥ pibati tadrasam ||

103.1१०३.१

किन्तु बालकस्यात्र रक्षको नास्ति । (१०३।१)

kintu bālakasyātra rakṣako nāsti |

103.2१०३.२

तत् किं करोमि यातु चिरकालपालितम् इमं नकुलं पुत्रनिर्विशेषं बालकरक्षायां व्यवस्थाप्य गच्छामि । (१०३।२)

tat kiṃ karomi yātu cirakālapālitam imaṃ nakulaṃ putranirviśeṣaṃ bālakarakṣāyāṃ vyavasthāpya gacchāmi |

103.3१०३.३

तथा कृत्वा गतः । (१०३।३)

tathā kṛtvā gataḥ |

103.4१०३.४

ततस् तेन नकुलेन बालकसमीपम् आगच्छन् कृष्णसर्पो दृष्टो व्यापाद्य कोपात् खण्डं खण्डं कृत्वा भक्षितश् च । (१०३।४)

tatas tena nakulena bālakasamīpam āgacchan kṛṣṇasarpo dṛṣṭo vyāpādya kopāt khaṇḍaṃ khaṇḍaṃ kṛtvā bhakṣitaś ca |

103.5१०३.५

ततो ऽसौ नकुलो ब्राह्मणम् आयान्तम् अवलोक्य रक्तविलिप्तमुखपदः सत्वरम् उपगम्य तच्चरणयोर् लुलोठ । (१०३।५)

tato 'sau nakulo brāhmaṇam āyāntam avalokya raktaviliptamukhapadaḥ satvaram upagamya taccaraṇayor luloṭha |

103.6१०३.६

ततः स विप्रस् तथाविधं दृष्ट्वा मम बालको ऽनेन खादित इत्य् अवधार्य नकुलः व्यापादितवान् । (१०३।६)

tataḥ sa vipras tathāvidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān |

103.7१०३.७

अनन्तरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस् तावद् बालकः सुस्थः स्वपिति सर्पश् च व्यापादितस् तिष्ठति । (१०३।७)

anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati |

103.8१०३.८

ततस् तम् उपकारकं नकुलं निरीक्ष्य भावितचेताः स ब्राह्मणः परं विषादम् अगमत् । (१०३।८)

tatas tam upakārakaṃ nakulaṃ nirīkṣya bhāvitacetāḥ sa brāhmaṇaḥ paraṃ viṣādam agamat |

103.9१०३.९

अतो ऽहं ब्रवीमि यो ऽर्थतत्त्वम् अविज्ञाय इत्यादि । (१०३।९)

ato 'haṃ bravīmi yo 'rthatattvam avijñāya ityādi |

103.10१०३.१०

अपरं च । (१०३।१०)

aparaṃ ca |

103.11१०३.११

कामः क्रोधस् तथा लोभो हर्षो मानो मदस् तथा । (१०३।११)

kāmaḥ krodhas tathā lobho harṣo māno madas tathā |

103.12१०३.१२

षड्वर्गम् उत्सृजेद् एनं तस्मिंस् त्यक्ते सुखी नृपः ॥ (१०३।१२)

ṣaḍvargam utsṛjed enaṃ tasmiṃs tyakte sukhī nṛpaḥ ||

104.1१०४.१

राजाह मन्त्रिन् एष ते निश्चयः । (१०४।१)

rājāha mantrin eṣa te niścayaḥ |

104.2१०४.२

मन्त्री ब्रूते एवम् एव । (१०४।२)

mantrī brūte evam eva |

104.3१०४.३

यतः । (१०४।३)

yataḥ |

104.4१०४.४

स्मृतिस् तत्परतार्थेषु वितर्को ज्ञाननिश्चयः । (१०४।४)

smṛtis tatparatārtheṣu vitarko jñānaniścayaḥ |

104.5१०४.५

दृढता मन्त्रगुप्तिश् च मन्त्रिणः परमो गुणः ॥ (१०४।५)

dṛḍhatā mantraguptiś ca mantriṇaḥ paramo guṇaḥ ||

105.1१०५.१

तथा च । (१०५।१)

tathā ca |

105.2१०५.२

सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् । (१०५।२)

sahasā vidadhīta na kriyām avivekaḥ paramāpadāṃ padam |

105.3१०५.३

वृणुते हि विमृश्य कारिणं गुणलुब्धाः स्वयम् एव सम्पदः ॥ (१०५।३)

vṛṇute hi vimṛśya kāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ ||

106.1१०६.१

तद् देव यदीदानीम् अस्मद्वचनं क्रियते तदा संधाय गम्यताम् । (१०६।१)

tad deva yadīdānīm asmadvacanaṃ kriyate tadā saṃdhāya gamyatām |

106.2१०६.२

यतः । (१०६।२)

yataḥ |

106.3१०६.३

यद्यप्य् उपायाश् चत्वारो निर्दिष्टाः साध्यसाधने । (१०६।३)

yadyapy upāyāś catvāro nirdiṣṭāḥ sādhyasādhane |

106.4१०६.४

सङ्ख्यामात्रं फलं तेषां सिद्धिः साम्नि व्यवस्थिता ॥ (१०६।४)

saṅkhyāmātraṃ phalaṃ teṣāṃ siddhiḥ sāmni vyavasthitā ||

107.1१०७.१

राजाह कथम् एवं सत्वरं संभाव्यते । (१०७।१)

rājāha katham evaṃ satvaraṃ saṃbhāvyate |

107.2१०७.२

मन्त्री ब्रूते देव सत्वरं भविष्यति । (१०७।२)

mantrī brūte deva satvaraṃ bhaviṣyati |

107.3१०७.३

यतः । (१०७।३)

yataḥ |

107.4१०७.४

मृद्घटवत् सुखभेद्यो दुःसंधानश् च दुर्जनो भवति । (१०७।४)

mṛdghaṭavat sukhabhedyo duḥsaṃdhānaś ca durjano bhavati |

107.5१०७.५

सुजनस् तु कनकघटवद्दुर्भेद्यश् चाशु संधेयः ॥ (१०७।५)

sujanas tu kanakaghaṭavaddurbhedyaś cāśu saṃdheyaḥ ||

108.1१०८.१

अज्ञः सुखम् आराध्यः सुखतरम् आराध्यते विशेषज्ञः । (१०८।१)

ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ |

108.2१०८.२

ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ (१०८।२)

jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati ||

109.1१०९.१

कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः । (१०९।१)

karmānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ |

109.2१०९.२

तस्मात् परोक्षवृत्तीनां फलैः कर्म विभावयेत् ॥ (१०९।२)

tasmāt parokṣavṛttīnāṃ phalaiḥ karma vibhāvayet ||

110.1११०.१

राजाह अलम् उत्तरोत्तरेण यथाभिप्रेतम् अनुष्ठीयताम् । (११०।१)

rājāha alam uttarottareṇa yathābhipretam anuṣṭhīyatām |

110.2११०.२

एतन् मन्त्रयित्वा गृध्रो महामन्त्रीतत्र यथार्हं कर्तव्यम् इत्य् उक्त्वा दुर्गाभ्यन्तरं चलितः । (११०।२)

etan mantrayitvā gṛdhro mahāmantrītatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ |

110.3११०.३

ततः प्रणिधिबकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितं देव संधिकर्तुं महामन्त्री गृध्रो ऽस्मत्समीपम् आगच्छति । (११०।३)

tataḥ praṇidhibakenāgatya rājñī hiraṇyagarbhasya niveditaṃ deva saṃdhikartuṃ mahāmantrī gṛdhro 'smatsamīpam āgacchati |

110.4११०.४

राजहंसो ब्रूते मन्त्रिन् पुनर् अभिसंधिना केनचिद् अत्रागमनम् । (११०।४)

rājahaṃso brūte mantrin punar abhisaṃdhinā kenacid atrāgamanam |

110.5११०.५

सर्वज्ञो विहस्याह देव न शङ्कास्पदम् एतत् । (११०।५)

sarvajño vihasyāha deva na śaṅkāspadam etat |

110.6११०.६

यतो ऽसौ महाशयो दूरदर्शी । (११०।६)

yato 'sau mahāśayo dūradarśī |

110.7११०.७

अथवा स्थितिर् इयं मन्दमतीनां कदाचिच्छङ्कैव न क्रियते कदाचित् सर्वत्र शङ्का । (११०।७)

athavā sthitir iyaṃ mandamatīnāṃ kadācicchaṅkaiva na kriyate kadācit sarvatra śaṅkā |

110.8११०.८

तथा हि । (११०।८)

tathā hi |

110.9११०.९

सरसि बहुशस् ताराछायेक्षणात् परिवञ्चितः कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः । (११०।९)

sarasi bahuśas tārāchāyekṣaṇāt parivañcitaḥ kumudaviṭapānveṣī haṃso niśāsvavicakṣaṇaḥ |

110.10११०.१०

न दशति पुनस् ताराशङ्की दिवापि सितोत्पलं कुहुकचकितो लोकः सत्येऽप्य् अपायम् अपेक्षते ॥ (११०।१०)

na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhukacakito lokaḥ satye'py apāyam apekṣate ||

111.1१११.१

दुर्जनदूषितमनसः सुजनेष्व् अपि नास्ति विश्वासः । (१११।१)

durjanadūṣitamanasaḥ sujaneṣv api nāsti viśvāsaḥ |

111.2१११.२

बालः पायसदग्धो दध्य् अपि फूत्कृत्य भक्षयति ॥ (१११।२)

bālaḥ pāyasadagdho dadhy api phūtkṛtya bhakṣayati ||

112.1११२.१

तद् देव यथाशक्ति तत्पूजार्थं रत्नोपहारादिसामग्री सुसज्जीक्रियताम् । (११२।१)

tad deva yathāśakti tatpūjārthaṃ ratnopahārādisāmagrī susajjīkriyatām |

112.2११२.२

तथानुष्ठिते सति स गृध्रो दुर्गद्वाराच् चक्रवाकेणोपगम्य सत्कृत्यानीय राजदर्शनं कारितो दत्तासने चोपविष्टः । (११२।२)

tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ |

112.3११२.३

चक्रवाक उवाच मन्त्रिन् युष्मदायत्तं सर्वं स्वेच्छयोपभुज्यताम् इदं राज्यम् । (११२।३)

cakravāka uvāca mantrin yuṣmadāyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam |

112.4११२.४

राजहंसो ब्रूते एवम् एव । (११२।४)

rājahaṃso brūte evam eva |

112.5११२.५

दूरदर्शी कथयत्य् एवम् एवैतत् । (११२।५)

dūradarśī kathayaty evam evaitat |

112.6११२.६

किन्त्व् इदानीं बहुप्रपञ्चवचनं निष्प्रयोजनम् । (११२।६)

kintv idānīṃ bahuprapañcavacanaṃ niṣprayojanam |

112.7११२.७

यतः । (११२।७)

yataḥ |

112.8११२.८

लुब्धम् अर्थेन गृह्णीयात् स्तब्धम् अञ्जलिकर्मणा । (११२।८)

lubdham arthena gṛhṇīyāt stabdham añjalikarmaṇā |

112.9११२.९

मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ॥ (११२।९)

mūrkhaṃ chandānurodhena yāthātathyena paṇḍitam ||

113.1११३.१

अन्यच् च । (११३।१)

anyac ca |

113.2११३.२

सद्भावेन हरेन् मित्रं सम्भ्रमेण तु बान्धवान् । (११३।२)

sadbhāvena haren mitraṃ sambhrameṇa tu bāndhavān |

113.3११३.३

स्त्रीभृत्यौ दानमानाभ्यां दाक्षिण्येनेतरान् जनान् ॥ (११३।३)

strībhṛtyau dānamānābhyāṃ dākṣiṇyenetarān janān ||

114.1११४.१

तद् इदानीं संधातुं गम्यताम् । (११४।१)

tad idānīṃ saṃdhātuṃ gamyatām |

114.2११४.२

महाप्रतापश् चित्रवर्णो राजा । (११४।२)

mahāpratāpaś citravarṇo rājā |

114.3११४.३

चक्रवाको ब्रूते यथा सन्धानं कार्यम् । (११४।३)

cakravāko brūte yathā sandhānaṃ kāryam |

114.4११४.४

तद् अप्य् उच्यताम् । (११४।४)

tad apy ucyatām |

114.5११४.५

राजहंसो ब्रूते कति प्रकाराः सन्धीनां सम्भवन्ति । (११४।५)

rājahaṃso brūte kati prakārāḥ sandhīnāṃ sambhavanti |

114.6११४.६

गृध्रो ब्रूते कथयामि श्रूयताम् । (११४।६)

gṛdhro brūte kathayāmi śrūyatām |

114.7११४.७

बलीयसाभियुक्तस् तु नृपो नान्यप्रतिक्रियः । (११४।७)

balīyasābhiyuktas tu nṛpo nānyapratikriyaḥ |

114.8११४.८

आपन्नः सन्धिम् अन्विच्छेत् कुर्वाणः कालयापनम् ॥ (११४।८)

āpannaḥ sandhim anvicchet kurvāṇaḥ kālayāpanam ||

115.1११५.१

कपाल उपहारश् च संतानः संगतस् तथा । (११५।१)

kapāla upahāraś ca saṃtānaḥ saṃgatas tathā |

115.2११५.२

उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥ (११५।२)

upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ ||

116.1११६.१

अदृष्टनर आदिष्ट आत्मामिष उपग्रहः । (११६।१)

adṛṣṭanara ādiṣṭa ātmāmiṣa upagrahaḥ |

116.2११६.२

परिक्रयस् तथोच्छिन्नस् तथा च परदूषणः ॥ (११६।२)

parikrayas tathocchinnas tathā ca paradūṣaṇaḥ ||

117.1११७.१

स्कन्धोपनेयः सन्धिश् च षोडशः परिकीर्तितः । (११७।१)

skandhopaneyaḥ sandhiś ca ṣoḍaśaḥ parikīrtitaḥ |

117.2११७.२

इति षोडशकं प्राहुः सन्धिं सन्धिविचक्षणाः ॥ (११७।२)

iti ṣoḍaśakaṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ ||

118.1११८.१

कपालसन्धिर् विज्ञेयः केवलं समसन्धिकः । (११८।१)

kapālasandhir vijñeyaḥ kevalaṃ samasandhikaḥ |

118.2११८.२

सम्प्रदानाद् भवति य उपहारः स उच्यते ॥ (११८।२)

sampradānād bhavati ya upahāraḥ sa ucyate ||

119.1११९.१

सन्तानसन्धिर् विज्ञेयो दारिकादानपूर्वकः । (११९।१)

santānasandhir vijñeyo dārikādānapūrvakaḥ |

119.2११९.२

सद्भिस् तु संगतः सन्धिर् मैत्रीपूर्व उदाहृतः ॥ (११९।२)

sadbhis tu saṃgataḥ sandhir maitrīpūrva udāhṛtaḥ ||

120.1१२०.१

यावद् आयुःप्रमाणस् तु समानार्थप्रयोजनः । (१२०।१)

yāvad āyuḥpramāṇas tu samānārthaprayojanaḥ |

120.2१२०.२

सम्पत्तौ वा विपत्तौ वा कारणैर् यो न भिद्यते ॥ (१२०।२)

sampattau vā vipattau vā kāraṇair yo na bhidyate ||

121.1१२१.१

सङ्गतः सन्धिर् एवायं प्रकृष्टत्वात् सुवर्णवत् । (१२१।१)

saṅgataḥ sandhir evāyaṃ prakṛṣṭatvāt suvarṇavat |

121.2१२१.२

तथान्यैः सन्धिकुशलैः काञ्चनः समुदाहृतः ॥ (१२१।२)

tathānyaiḥ sandhikuśalaiḥ kāñcanaḥ samudāhṛtaḥ ||

122.1१२२.१

आत्मकार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः । (१२२।१)

ātmakāryasya siddhiṃ tu samuddiśya kriyeta yaḥ |

122.2१२२.२

स उपन्यासकुशलैर् उपन्यास उदाहृतः ॥ (१२२।२)

sa upanyāsakuśalair upanyāsa udāhṛtaḥ ||

123.1१२३.१

मयास्योपकृतं पूर्वं ममाप्य् एष करिष्यति । (१२३।१)

mayāsyopakṛtaṃ pūrvaṃ mamāpy eṣa kariṣyati |

123.2१२३.२

इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥ (१२३।२)

iti yaḥ kriyate sandhiḥ pratīkāraḥ sa ucyate ||

124.1१२४.१

उपकारं करोम्य् अस्य ममाप्य् एष करिष्यति । (१२४।१)

upakāraṃ karomy asya mamāpy eṣa kariṣyati |

124.2१२४.२

अयं चापि प्रतीकारो रामसुग्रीवयोर् इव ॥ (१२४।२)

ayaṃ cāpi pratīkāro rāmasugrīvayor iva ||

125.1१२५.१

एकार्थां सम्यग् उद्दिश्य यात्रां यत्र हि गच्छतः । (१२५।१)

ekārthāṃ samyag uddiśya yātrāṃ yatra hi gacchataḥ |

125.2१२५.२

सुसंहितप्रयाणस् तु सन्धिः संयोग उच्यते ॥ (१२५।२)

susaṃhitaprayāṇas tu sandhiḥ saṃyoga ucyate ||

126.1१२६.१

आवयोर् योधमुख्याभ्यां मदर्थः साध्यताम् इति । (१२६।१)

āvayor yodhamukhyābhyāṃ madarthaḥ sādhyatām iti |

126.2१२६.२

यस्मिन् पणः प्रक्रियते स सन्धिः पुरुषान्तरः ॥ (१२६।२)

yasmin paṇaḥ prakriyate sa sandhiḥ puruṣāntaraḥ ||

127.1१२७.१

त्वयैकेन मदीयो ऽर्थः सम्प्रसाध्यस् त्व् असाव् इति । (१२७।१)

tvayaikena madīyo 'rthaḥ samprasādhyas tv asāv iti |

127.2१२७.२

यत्र शत्रुः पणं कुर्यात् सो ऽदृष्टपुरुषः स्मृतः ॥ (१२७।२)

yatra śatruḥ paṇaṃ kuryāt so 'dṛṣṭapuruṣaḥ smṛtaḥ ||

128.1१२८.१

यत्र भूम्येकदेशेन पणेन रिपुर् ऊर्जितः । (१२८।१)

yatra bhūmyekadeśena paṇena ripur ūrjitaḥ |

128.2१२८.२

संधीयते सन्धिविद्भिः स चादिष्ट उदाहृतः ॥ (१२८।२)

saṃdhīyate sandhividbhiḥ sa cādiṣṭa udāhṛtaḥ ||

129.1१२९.१

स्वसैन्येन तु सन्धानम् आत्मादिष्ट उदाहृतः । (१२९।१)

svasainyena tu sandhānam ātmādiṣṭa udāhṛtaḥ |

129.2१२९.२

क्रियते प्राणरक्षार्थं सर्वदानाद् उपग्रहः ॥ (१२९।२)

kriyate prāṇarakṣārthaṃ sarvadānād upagrahaḥ ||

130.1१३०.१

कोशांशेनार्धकोशेन सर्वकोशेन वा पुनः । (१३०।१)

kośāṃśenārdhakośena sarvakośena vā punaḥ |

130.2१३०.२

शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥ (१३०।२)

śiṣṭasya pratirakṣārthaṃ parikraya udāhṛtaḥ ||

131.1१३१.१

भुवां सारवतीनां तु दानाद् उच्छिन्न उच्यते । (१३१।१)

bhuvāṃ sāravatīnāṃ tu dānād ucchinna ucyate |

131.2१३१.२

भूम्युत्थफलदानेन सर्वेण परभूषणः ॥ (१३१।२)

bhūmyutthaphaladānena sarveṇa parabhūṣaṇaḥ ||

132.1१३२.१

परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते । (१३२।१)

paricchinnaṃ phalaṃ yatra pratiskandhena dīyate |

132.2१३२.२

स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धिविचक्षणाः ॥ (१३२।२)

skandhopaneyaṃ taṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ ||

133.1१३३.१

परस्परोपकारस् तु मैत्री सम्बन्धकस् तथा । (१३३।१)

parasparopakāras tu maitrī sambandhakas tathā |

133.2१३३.२

उपहारश् च विज्ञेयाश् चत्वारश् चैव सन्धयः ॥ (१३३।२)

upahāraś ca vijñeyāś catvāraś caiva sandhayaḥ ||

134.1१३४.१

एक एवोपहारस् तु सन्धिर् एतन् मतं हि नः । (१३४।१)

eka evopahāras tu sandhir etan mataṃ hi naḥ |

134.2१३४.२

उपहारस्य भेदास् तु सर्वेऽन्ये मैत्रवर्जिताः ॥ (१३४।२)

upahārasya bhedās tu sarve'nye maitravarjitāḥ ||

135.1१३५.१

अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते । (१३५।१)

abhiyoktā balī yasmād alabdhvā na nivartate |

135.2१३५.२

उपहाराद् ऋते तस्मात् संधिर् अन्यो न विद्यते ॥ (१३५।२)

upahārād ṛte tasmāt saṃdhir anyo na vidyate ||

136.1१३६.१

राजाह भवन्तो महान्तः पण्डिताश् च । (१३६।१)

rājāha bhavanto mahāntaḥ paṇḍitāś ca |

136.2१३६.२

तद् अत्रास्माकं यथाकार्यम् उपदिश्यताम् । (१३६।२)

tad atrāsmākaṃ yathākāryam upadiśyatām |

136.3१३६.३

दूरदर्शी ब्रूते आः किम् एवम् उच्यते । (१३६।३)

dūradarśī brūte āḥ kim evam ucyate |

136.4१३६.४

आधिव्याधिपरीतापाद् अद्य श्वो वा विनाशिने । (१३६।४)

ādhivyādhiparītāpād adya śvo vā vināśine |

136.5१३६.५

को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ (१३६।५)

ko hi nāma śarīrāya dharmāpetaṃ samācaret ||

137.1१३७.१

जलान्तश् चन्द्रचपलं जीवितं खलु देहिनाम् । (१३७।१)

jalāntaś candracapalaṃ jīvitaṃ khalu dehinām |

137.2१३७.२

तथाविधम् इति ज्ञात्वा शश्वत्कल्याणम् आचरेत् ॥ (१३७।२)

tathāvidham iti jñātvā śaśvatkalyāṇam ācaret ||

138.1१३८.१

वाताभ्रविभ्रमम् इदं वसुधाधिपत्यम् आपातमात्रमधुरो विषयोपभोगः । (१३८।१)

vātābhravibhramam idaṃ vasudhādhipatyam āpātamātramadhuro viṣayopabhogaḥ |

138.2१३८.२

प्राणास् तृणाग्रजलबिन्दुसमानलोला धर्मः सखा परम् अहो परलोकयाने ॥ (१३८।२)

prāṇās tṛṇāgrajalabindusamānalolā dharmaḥ sakhā param aho paralokayāne ||

139.1१३९.१

मृगतृष्णासमं वीक्ष्य संसारं क्षणभङ्गुरम् । (१३९।१)

mṛgatṛṣṇāsamaṃ vīkṣya saṃsāraṃ kṣaṇabhaṅguram |

139.2१३९.२

सज्जनैः संगतं कुर्याद् धर्माय च सुखाय च ॥ (१३९।२)

sajjanaiḥ saṃgataṃ kuryād dharmāya ca sukhāya ca ||

140.1१४०.१

तन् मम संमतेन तद् एव क्रियताम् । (१४०।१)

tan mama saṃmatena tad eva kriyatām |

140.2१४०.२

यतः । (१४०।२)

yataḥ |

140.3१४०.३

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । (१४०।३)

aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam |

140.4१४०.४

अश्वमेधसहस्राद्धि सत्यम् एव विशिष्यते ॥ (१४०।४)

aśvamedhasahasrāddhi satyam eva viśiṣyate ||

141.1१४१.१

अतः सत्याभिधानदिव्यपुरःसरम् अनयोर् भूपालयोः काञ्चनाभिधानः सन्धिर् विधीयताम् । (१४१।१)

ataḥ satyābhidhānadivyapuraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām |

141.2१४१.२

सर्वज्ञो ब्रूते एवम् अस्तु । (१४१।२)

sarvajño brūte evam astu |

141.3१४१.३

ततो राजहंसेन राज्ञा वस्त्रालङ्कारोपहारैः स मन्त्री दूरदर्शी पूजितः । (१४१।३)

tato rājahaṃsena rājñā vastrālaṅkāropahāraiḥ sa mantrī dūradarśī pūjitaḥ |

141.4१४१.४

प्रहृष्टमनाश् चक्रवाकं गृहीत्वा राज्ञो मयूरस्य संनिधानं गतः । (१४१।४)

prahṛṣṭamanāś cakravākaṃ gṛhītvā rājño mayūrasya saṃnidhānaṃ gataḥ |

141.5१४१.५

तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्रवचनाद् बहुमानदानपुरःसरं सम्भाषितस् तथाविधं सन्धिं स्वीकृत्य राजहंससमीपं प्रस्थापितः । (१४१।५)

tatra citravarṇena rājñā sarvajño gṛdhravacanād bahumānadānapuraḥsaraṃ sambhāṣitas tathāvidhaṃ sandhiṃ svīkṛtya rājahaṃsasamīpaṃ prasthāpitaḥ |

141.6१४१.६

दूरदर्शी ब्रूते देव सिद्धं नः समीहितम् । (१४१।६)

dūradarśī brūte deva siddhaṃ naḥ samīhitam |

141.7१४१.७

इदानीं स्वस्थानम् एव विन्ध्याचलं व्यावृत्य प्रतिगम्यताम् । (१४१।७)

idānīṃ svasthānam eva vindhyācalaṃ vyāvṛtya pratigamyatām |

141.8१४१.८

अथ सर्वे स्वस्थानं प्राप्य मनाभिलषितं फलं प्राप्नुवन्न् इति । (१४१।८)

atha sarve svasthānaṃ prāpya manābhilaṣitaṃ phalaṃ prāpnuvann iti |

141.9१४१.९

विष्णुशर्मेनोक्तम् अपरं किं कथयामि तद् उच्यताम् । (१४१।९)

viṣṇuśarmenoktam aparaṃ kiṃ kathayāmi tad ucyatām |

141.10१४१.१०

राजपुत्रा ऊचुः आर्य तव प्रसादात् सकलराज्यव्यवहाराङ्गं जातम् । (१४१।१०)

rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam |

141.11१४१.११

ततः सुखिनो भूता वयम् । (१४१।११)

tataḥ sukhino bhūtā vayam |

141.12१४१.१२

विष्णुशर्मोवाच यद्यप्य् एवं तथाप्य् अपरम् अपीदम् अस्तु । (१४१।१२)

viṣṇuśarmovāca yadyapy evaṃ tathāpy aparam apīdam astu |

141.13१४१.१३

सन्धिः सर्वमहीभुजां विजयिनाम् अस्तु प्रमोदः सदा सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश् चिरं वर्धताम् । (१४१।१३)

sandhiḥ sarvamahībhujāṃ vijayinām astu pramodaḥ sadā santaḥ santu nirāpadaḥ sukṛtināṃ kīrtiś ciraṃ vardhatām |

141.14१४१.१४

नीतिवारविलासिनीव सततं वक्षःस्थले संस्थिता वक्त्रं चुम्बतु मन्त्रिणाम् अहरहर् भूयान् महान् उत्सवः ॥ (१४१।१४)

nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ ||

142.1१४२.१

अन्यच् चास्तु । (१४२।१)

anyac cāstu |

142.2१४२.२

प्रालेयाद्रेः सुतायाः प्रणयनिवसतिश् चन्द्रमौलिः स यावद् यावल् लक्ष्मीर् मुरारेर् जलद इव तडिन् मानसे विस्फुरन्ती । (१४२।२)

prāleyādreḥ sutāyāḥ praṇayanivasatiś candramauliḥ sa yāvad yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī |

142.3१४२.३

यावत् स्वर्णाचलो ऽयं दवदहनसमो यस्य सूर्यः स्फुलिङ्गस् तावन् नारायणेन प्रचरतु रचितः सङ्ग्रहो ऽयं कथानाम् ॥ (१४२।३)

yāvat svarṇācalo 'yaṃ davadahanasamo yasya sūryaḥ sphuliṅgas tāvan nārāyaṇena pracaratu racitaḥ saṅgraho 'yaṃ kathānām ||

143.1१४३.१

किंच । (१४३।१)

kiṃca |

143.2१४३.२

उर्वीम् उद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिम् इष्टाम् इष्टैस् त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्रमुख्याः । (१४३।२)

urvīm uddāmasasyāṃ janayatu visṛjan vāsavo vṛṣṭim iṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipramukhyāḥ |

143.3१४३.३

आ कल्पान्तं च भूयात् स्थिरसमुपचिता संगतिः सज्जनानां निःशेषं यान्तु शान्तिं पिशुनजनगिरो दुःसहा वज्रलेपाः ॥ (१४३।३)

ā kalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ ||

144.1१४४.१

अपरं च । (१४४।१)

aparaṃ ca |

144.2१४४.२

श्रीमान्धवलचन्द्रो ऽसौ जीयान् माण्डलिको रिपून् । (१४४।२)

śrīmāndhavalacandro 'sau jīyān māṇḍaliko ripūn |

144.3१४४.३

येनायं सङ्ग्रहो यत्नाल् लेखयित्वा प्रचारितः ॥ (१४४।३)

yenāyaṃ saṅgraho yatnāl lekhayitvā pracāritaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Hitop, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit