कालिकापुराणKālikāpurāṇa

KālPur, 1

1 of 5 · 69 verses

Select a line for its word-by-word analysis.

1.1१.१

और्व्व उवाच । (१।१)

aurvva uvāca

1.2१.२

एवं वदति भूतेशे तदा वेतालभैरवौ । (१।२)

evaṃ vadati bhūteśe tadā vetālabhairavau |

1.3१.३

प्राहतुर् व्योमकेशं तौ हर्षोत्फुल्लविलोचनौ ॥ (१।३)

prāhatur vyomakeśaṃ tau harṣotphullavilocanau ||

2.1२.१

वेतालभैरवावूचतुः । (२।१)

vetālabhairavāvūcatuḥ |

2.2२.२

पार्वत्या न हि जानीवो ध्यानं मन्त्रं विधिं तथा । (२।२)

pārvatyā na hi jānīvo dhyānaṃ mantraṃ vidhiṃ tathā |

2.3२.३

कथमाराधयिष्यावो भगवन् सम्यगुच्यताम् ॥ (२।३)

kathamārādhayiṣyāvo bhagavan samyagucyatām ||

3.1३.१

श्रीभगवानुवाच । (३।१)

śrībhagavānuvāca |

3.2३.२

महामायाविधिं मन्त्रं कल्पं च भवतोः सुतौ । (३।२)

mahāmāyāvidhiṃ mantraṃ kalpaṃ ca bhavatoḥ sutau |

3.3३.३

उपदेक्ष्यामि तत्त्वेन येन सर्वं भविष्यति ॥ (३।३)

upadekṣyāmi tattvena yena sarvaṃ bhaviṣyati ||

4.1४.१

और्व्व उवाच । (४।१)

aurvva uvāca

4.2४.२

इत्युक्त्वा स महामायाध्यानं मन्त्रं विधिं तथा । (४।२)

ityuktvā sa mahāmāyādhyānaṃ mantraṃ vidhiṃ tathā |

4.3४.३

कथयामास गिरिशस्तयोः सम्यङ् नृपोत्तम ॥ (४।३)

kathayāmāsa giriśastayoḥ samyaṅ nṛpottama ||

5.1५.१

यदष्टादशभिः पश्चात्पटलैश्च स भैरवः । (५।१)

yadaṣṭādaśabhiḥ paścātpaṭalaiśca sa bhairavaḥ |

5.2५.२

स निर्णयविधिं कल्पं निबबन्ध शिवामृते ॥ (५।२)

sa nirṇayavidhiṃ kalpaṃ nibabandha śivāmṛte ||

6.1६.१

सगर उवाच । (६।१)

sagara uvāca

6.2६.२

कीदृङ् मन्त्रं पुरा शम्भुरवोचदुभयोस्तयोः । (६।२)

kīdṛṅ mantraṃ purā śambhuravocadubhayostayoḥ |

6.3६.३

येनाराध्य महामायां तौ गणेशत्वमापतुः ॥ (६।३)

yenārādhya mahāmāyāṃ tau gaṇeśatvamāpatuḥ ||

7.1७.१

सकल्पं सरहस्यं च साङ्गं तच्छ्रोतुमुत्सहे । (७।१)

sakalpaṃ sarahasyaṃ ca sāṅgaṃ tacchrotumutsahe |

7.2७.२

दशाष्टपटलैर्यत् तु निबबन्ध स भैरवः ॥ (७।२)

daśāṣṭapaṭalairyat tu nibabandha sa bhairavaḥ ||

8.1८.१

और्व्व उवाच । (८।१)

aurvva uvāca

8.2८.२

बहुत्वाद् वदितुं तस्य चिरेणैव तु शक्यते । (८।२)

bahutvād vadituṃ tasya cireṇaiva tu śakyate |

8.3८.३

तस्मात् सद्यः समुद्धृत्य यन्महादेवभाषितम् । (८।३)

tasmāt sadyaḥ samuddhṛtya yanmahādevabhāṣitam |

8.4८.४

संक्षेपात् कथये तत्त्वं तच्छृणुष्व नृपोत्तम ॥ (८।४)

saṃkṣepāt kathaye tattvaṃ tacchṛṇuṣva nṛpottama ||

9.1९.१

पृच्छन्तौ पार्वतीमन्त्रं तदा वेतालभैरवौ । (९।१)

pṛcchantau pārvatīmantraṃ tadā vetālabhairavau |

9.2९.२

जगाद स महादेवः शृणुतं मन्त्रकल्पकौ ॥ (९।२)

jagāda sa mahādevaḥ śṛṇutaṃ mantrakalpakau ||

10.1१०.१

श्रीभगवानुवाच । (१०।१)

śrībhagavānuvāca |

10.2१०.२

शृणु मन्त्रं प्रवक्ष्यामि गुह्याद् गुह्यतमं परम् । (१०।२)

śṛṇu mantraṃ pravakṣyāmi guhyād guhyatamaṃ param |

10.3१०.३

अष्टाक्षरं तु वैष्णव्या महामायामहोत्सवम् ॥ (१०।३)

aṣṭākṣaraṃ tu vaiṣṇavyā mahāmāyāmahotsavam ||

11.1११.१

अस्य श्रीवैष्णवीमन्त्रस्य नारदऋषिः शम्भुर्देवता । (११।१)

asya śrīvaiṣṇavīmantrasya nāradaṛṣiḥ śambhurdevatā |

11.2११.२

अनुष्टुप् छन्दः सर्वार्थसाधने विनियोगः ॥ (११।२)

anuṣṭup chandaḥ sarvārthasādhane viniyogaḥ ||

12.1१२.१

हान्तान्तपूर्वो रान्तश्च नान्तो णान्तस्तथैव च । (१२।१)

hāntāntapūrvo rāntaśca nānto ṇāntastathaiva ca |

12.2१२.२

कैकादशाष्टादिषष्ठः खान्तो विष्णुपुरःसरः ॥ (१२।२)

kaikādaśāṣṭādiṣaṣṭhaḥ khānto viṣṇupuraḥsaraḥ ||

13.1१३.१

एभिरष्टाक्षरैर्मन्त्रं शोणपत्रसमप्रभम् । (१३।१)

ebhiraṣṭākṣarairmantraṃ śoṇapatrasamaprabham |

13.2१३.२

ॐकारं पूर्वतः कृत्वा जप्यं सर्वैस्तु साधकैः ॥ (१३।२)

oṃkāraṃ pūrvataḥ kṛtvā japyaṃ sarvaistu sādhakaiḥ ||

14.1१४.१

महामन्त्रमिदं गुह्यं वैष्णवीमन्त्रसंज्ञकम् । (१४।१)

mahāmantramidaṃ guhyaṃ vaiṣṇavīmantrasaṃjñakam |

14.2१४.२

मन्त्रं कलेवरगतं तस्मादङ्गं प्रकीर्तितम् ॥ (१४।२)

mantraṃ kalevaragataṃ tasmādaṅgaṃ prakīrtitam ||

15.1१५.१

महादेवस्योर्ध्वमुखं बीजमेतत् प्रकीर्तितम् । (१५।१)

mahādevasyordhvamukhaṃ bījametat prakīrtitam |

15.2१५.२

ॐकाराक्षरबीजं च यकारः शक्तिरुच्यते ॥ (१५।२)

oṃkārākṣarabījaṃ ca yakāraḥ śaktirucyate ||

16.1१६.१

सबीजं कथितं मन्त्रं कल्पं च शृणु भैरव । (१६।१)

sabījaṃ kathitaṃ mantraṃ kalpaṃ ca śṛṇu bhairava |

16.2१६.२

तीर्थे नद्यां देवखाते गर्तप्रस्रवणादिके ॥ (१६।२)

tīrthe nadyāṃ devakhāte gartaprasravaṇādike ||

17.1१७.१

परकीयेतरे तोये स्नानं पूर्वं समाचरेत् । (१७।१)

parakīyetare toye snānaṃ pūrvaṃ samācaret |

17.2१७.२

आचान्तः शुचितां प्राप्तः कृतासनपरिग्रहः ॥ (१७।२)

ācāntaḥ śucitāṃ prāptaḥ kṛtāsanaparigrahaḥ ||

18.1१८.१

उत्तराभिमुखो भूत्वा स्थण्डिलं मार्जयेत् ततः । (१८।१)

uttarābhimukho bhūtvā sthaṇḍilaṃ mārjayet tataḥ |

18.2१८.२

करेणानेन मन्त्रेण यूं सः क्षित्या इति स्वयम् ॥ (१८।२)

kareṇānena mantreṇa yūṃ saḥ kṣityā iti svayam ||

19.1१९.१

ॐ ह्रीं स इति मन्त्रेण आशापूरणकेन च । (१९।१)

oṃ hrīṃ sa iti mantreṇa āśāpūraṇakena ca |

19.2१९.२

तोयैरभ्युक्षयेत् स्थानं भूतानामपसारणे ॥ (१९।२)

toyairabhyukṣayet sthānaṃ bhūtānāmapasāraṇe ||

20.1२०.१

ततः सव्येन हस्तेन गृहीत्वा स्थण्डिलं शुचिः । (२०।१)

tataḥ savyena hastena gṛhītvā sthaṇḍilaṃ śuciḥ |

20.2२०.२

मन्त्रं लिखेत् सुवर्णेन याज्ञिकेन कुशेन वा ॥ (२०।२)

mantraṃ likhet suvarṇena yājñikena kuśena vā ||

21.1२१.१

ॐ वैष्णव्यै नम इति मन्त्रराजमथापि वा । (२१।१)

oṃ vaiṣṇavyai nama iti mantrarājamathāpi vā |

21.2२१.२

ततस्त्रिमण्डलं कुर्यात् तेनैव समरेखया ॥ (२१।२)

tatastrimaṇḍalaṃ kuryāt tenaiva samarekhayā ||

22.1२२.१

नित्यासु न हि पूजासु रजोभिर्मण्डलं लिखेत् । (२२।१)

nityāsu na hi pūjāsu rajobhirmaṇḍalaṃ likhet |

22.2२२.२

पुरश्चरणकार्येषु तत्काम्येषु प्रयोजयेत् ॥ (२२।२)

puraścaraṇakāryeṣu tatkāmyeṣu prayojayet ||

23.1२३.१

रेखामुदीच्यां प्रथमं पश्चिमे तदनन्तरम् । (२३।१)

rekhāmudīcyāṃ prathamaṃ paścime tadanantaram |

23.2२३.२

दक्षिणे तु ततः पश्चात् पूर्वभागे तु शेषतः ॥ (२३।२)

dakṣiṇe tu tataḥ paścāt pūrvabhāge tu śeṣataḥ ||

24.1२४.१

वर्णानां च सह द्वारैर् एवमेव क्रमो भवेत् । (२४।१)

varṇānāṃ ca saha dvārair evameva kramo bhavet |

24.2२४.२

ॐ हीं श्रीं स इति मन्त्रेण मण्डलं पूजयेत् ततः ॥ (२४।२)

oṃ hīṃ śrīṃ sa iti mantreṇa maṇḍalaṃ pūjayet tataḥ ||

25.1२५.१

हस्तेन मण्डलं कृत्वा कुर्याद् दिग्बन्धनं ततः । (२५।१)

hastena maṇḍalaṃ kṛtvā kuryād digbandhanaṃ tataḥ |

25.2२५.२

आशाबन्धनमन्त्रेण पूर्वोक्तेन यथाक्रमम् ॥ (२५।२)

āśābandhanamantreṇa pūrvoktena yathākramam ||

26.1२६.१

फडन्तेनात्मनाप्यत्र करेणैव निबन्धयेत् । (२६।१)

phaḍantenātmanāpyatra kareṇaiva nibandhayet |

26.2२६.२

यवानां मण्डलैरेकमङ्गुलं चाष्टभिर्भवेत् ॥ (२६।२)

yavānāṃ maṇḍalairekamaṅgulaṃ cāṣṭabhirbhavet ||

27.1२७.१

अदीर्घयोजितैर्हस्तैश् चतुर्विंशतिरङ्गुलैः । (२७।१)

adīrghayojitairhastaiś caturviṃśatiraṅgulaiḥ |

27.2२७.२

तत्प्रमाणेन हस्तेन हस्तैकं तस्य मण्डलम् ॥ (२७।२)

tatpramāṇena hastena hastaikaṃ tasya maṇḍalam ||

28.1२८.१

पद्मं वितस्तिमात्रं स्यात्कर्णिकारं तदर्धकम् । (२८।१)

padmaṃ vitastimātraṃ syātkarṇikāraṃ tadardhakam |

28.2२८.२

दलान्यन्योन्यसक्तानि ह्यायतानि नियोजयेत् ॥ (२८।२)

dalānyanyonyasaktāni hyāyatāni niyojayet ||

29.1२९.१

न न्यूनाधिकभागानि सबहिर्वेष्टितानि च । (२९।१)

na nyūnādhikabhāgāni sabahirveṣṭitāni ca |

29.2२९.२

मध्यभागे न्यसेद् द्वारं न न्यूने नाधिके तथा । (२९।२)

madhyabhāge nyased dvāraṃ na nyūne nādhike tathā |

29.3२९.३

सुबद्धं मण्डलं तच्च रक्तवर्णं विचिन्तयेत् ॥ (२९।३)

subaddhaṃ maṇḍalaṃ tacca raktavarṇaṃ vicintayet ||

30.1३०.१

इतोऽन्यथा मण्डलमुग्रमस्याः करोति यो लक्षणभागहीनम् । (३०।१)

ito'nyathā maṇḍalamugramasyāḥ karoti yo lakṣaṇabhāgahīnam |

30.2३०.२

फलं न चाप्नोति न काममिष्टं तस्माद् इदं मण्डलमत्र लेख्यम् ॥ (३०।२)

phalaṃ na cāpnoti na kāmamiṣṭaṃ tasmād idaṃ maṇḍalamatra lekhyam ||

Data courtesy of The Digital Corpus of Sanskrit.

KālPur, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit