KālPur, 4
Select a line for its word-by-word analysis.
बलिदानं ततः पश्चात्कुर्याद् देव्याः प्रमोदकम् । (१।२)
balidānaṃ tataḥ paścātkuryād devyāḥ pramodakam |
तौर्यत्रिकैश्च नियमैः शंकरं तोषयेद्धरिम् । (२।१)
tauryatrikaiśca niyamaiḥ śaṃkaraṃ toṣayeddharim |
मत्स्याः स्वगात्ररुधिरैश्चाष्टधा बलयो महाः ॥ (४।२)
matsyāḥ svagātrarudhiraiścāṣṭadhā balayo mahāḥ ||
पूजयेत् साधको देवीं बलिमन्त्रैर्मुहुर् मुहुः । (७।१)
pūjayet sādhako devīṃ balimantrairmuhur muhuḥ |
उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं तथा ॥ (७।२)
uttarābhimukho bhūtvā baliṃ pūrvamukhaṃ tathā ||
निरीक्ष्य साधकः पश्चादिमं मन्त्रमुदीरयेत् । (८।१)
nirīkṣya sādhakaḥ paścādimaṃ mantramudīrayet |
यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा ॥ (१०।२)
yajñārthe paśavaḥ sṛṣṭāḥ svayameva svayambhuvā ||
अतस्त्वां घातयाम्यद्य तस्माद् यज्ञे वधोऽवधः । (११।१)
atastvāṃ ghātayāmyadya tasmād yajñe vadho'vadhaḥ |
ॐ ऐं हीं श्रीं इति मन्त्रेण तं बलिं कामरूपिणम् ॥ (११।२)
oṃ aiṃ hīṃ śrīṃ iti mantreṇa taṃ baliṃ kāmarūpiṇam ||
चिन्तयित्वा न्यसेत्पुष्पं मूर्ध्नि तस्य च भैरव । (१२।१)
cintayitvā nyasetpuṣpaṃ mūrdhni tasya ca bhairava |
ततो देवीं समुद्दिश्य काममुद्दिश्य चात्मनः ॥ (१२।२)
tato devīṃ samuddiśya kāmamuddiśya cātmanaḥ ||
अभिषिच्य बलिं पश्चात् करवालं प्रपूजयेत् । (१३।१)
abhiṣicya baliṃ paścāt karavālaṃ prapūjayet |
ऐं ह्रीं श्रीं इति मन्त्रेण ध्यात्वा खड्गं प्रपूजयेत् । (१४।१)
aiṃ hrīṃ śrīṃ iti mantreṇa dhyātvā khaḍgaṃ prapūjayet |
कृष्णं पिनाकपाणिं च कालरात्रिस्वरूपिणम् ॥ (१४।२)
kṛṣṇaṃ pinākapāṇiṃ ca kālarātrisvarūpiṇam ||
रक्ताम्बरधरं चैकं पाशहस्तं कुटुम्बिनम् ॥ (१५।२)
raktāmbaradharaṃ caikaṃ pāśahastaṃ kuṭumbinam ||
पीयमानं च रुधिरं भुञ्जानं क्रव्यसंहतिम् । (१६।१)
pīyamānaṃ ca rudhiraṃ bhuñjānaṃ kravyasaṃhatim |
श्रीगर्वो विजयश्चैव धर्मपाल नमोऽस्तु ते । (१७।१)
śrīgarvo vijayaścaiva dharmapāla namo'stu te |
पूजयित्वा ततः खड्गम् ॐ आं ह्रीं फडितिमन्त्रकैः ॥ (१७।२)
pūjayitvā tataḥ khaḍgam oṃ āṃ hrīṃ phaḍitimantrakaiḥ ||
गृहीत्वा विमलं खड्गं छेदयेद् बलिमुत्तमम् । (१८।१)
gṛhītvā vimalaṃ khaḍgaṃ chedayed balimuttamam |
मधुभिर्गन्धपुष्पैश्च अधिवास्य प्रयत्नतः । (१९।१)
madhubhirgandhapuṣpaiśca adhivāsya prayatnataḥ |
ॐ ऐं ह्रीं श्रीं कौशिकीति रुधिरं दापयामि ते ॥ (१९।२)
oṃ aiṃ hrīṃ śrīṃ kauśikīti rudhiraṃ dāpayāmi te ||
स्थाने नियोजयेद्रक्तं शिरश्च सप्रदीपकम् । (२०।१)
sthāne niyojayedraktaṃ śiraśca sapradīpakam |
एवं दत्त्वा बलिं पूर्णं फलं प्राप्नोति साधकः ॥ (२०।२)
evaṃ dattvā baliṃ pūrṇaṃ phalaṃ prāpnoti sādhakaḥ ||
हीनं स्याद्धीनतामूलं निष्फलं स्याद् विपर्ययात् । (२१।१)
hīnaṃ syāddhīnatāmūlaṃ niṣphalaṃ syād viparyayāt |
बलिदाने तु दुर्गाया अन्यत्रापि विधिः सदा ॥ (२१।२)
balidāne tu durgāyā anyatrāpi vidhiḥ sadā ||
जपं समारभेत्पश्चात्पूर्ववद्ध्यानम् आस्थितः ॥ (२२।२)
japaṃ samārabhetpaścātpūrvavaddhyānam āsthitaḥ ||
चिन्तयित्वा गुरुं मूर्ध्नि यथा वर्णादिकं भवेत् ॥ (२३।२)
cintayitvā guruṃ mūrdhni yathā varṇādikaṃ bhavet ||
मन्त्रं च कण्ठतो ध्यात्वा सितवर्णं हिरण्मयम् । (२४।१)
mantraṃ ca kaṇṭhato dhyātvā sitavarṇaṃ hiraṇmayam |
आचक्षेत ततः पश्चाद् गुरोर्मन्त्रस्य चात्मनः । (२५।१)
ācakṣeta tataḥ paścād gurormantrasya cātmanaḥ |
देव्याश्चाप्येकतां ध्यात्वा सुषुम्नावर्त्मना ततः ॥ (२५।२)
devyāścāpyekatāṃ dhyātvā suṣumnāvartmanā tataḥ ||
तत्त्वस्वरूपमेकं तु षट्चक्रं प्रतिलम्बयेत् । (२६।१)
tattvasvarūpamekaṃ tu ṣaṭcakraṃ pratilambayet |
षट्चक्रेऽपि महामायां क्षणं ध्यात्वा प्रयत्नतः ॥ (२६।२)
ṣaṭcakre'pi mahāmāyāṃ kṣaṇaṃ dhyātvā prayatnataḥ ||
भ्रुवोरुपरि नाडीनां त्रयाणां प्रान्त उच्यते ॥ (२८।२)
bhruvorupari nāḍīnāṃ trayāṇāṃ prānta ucyate ||
तत्प्रान्तं त्रिपथस्थानं षट्कोणं चतुरङ्गुलम् । (२९।१)
tatprāntaṃ tripathasthānaṃ ṣaṭkoṇaṃ caturaṅgulam |
रक्तवर्णं तु योगज्ञैराज्ञाचक्रमितीर्यते ॥ (२९।२)
raktavarṇaṃ tu yogajñairājñācakramitīryate ||
कण्ठे त्रयाणां नाडीनां वेष्टनं विद्यते नृणाम् । (३०।१)
kaṇṭhe trayāṇāṃ nāḍīnāṃ veṣṭanaṃ vidyate nṛṇām |
सुपुम्नेडापिङ्गलानां षट्कोणं तत्षडङ्गुलम् ॥ (३०।२)
supumneḍāpiṅgalānāṃ ṣaṭkoṇaṃ tatṣaḍaṅgulam ||
तत् षट्चक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्यगम् । (३१।१)
tat ṣaṭcakramiti proktaṃ śuklaṃ kaṇṭhasya madhyagam |
तत्स्थानं षोडशारं स्यात् सप्ताङ्गुलप्रमाणतः । (३२।१)
tatsthānaṃ ṣoḍaśāraṃ syāt saptāṅgulapramāṇataḥ |
तत्प्रयुक्तं तु योगज्ञैरादिषोडशचक्रकम् ॥ (३२।२)
tatprayuktaṃ tu yogajñairādiṣoḍaśacakrakam ||
ध्यानानामथ मन्त्राणां चिन्तनस्य जपस्य च । (३३।१)
dhyānānāmatha mantrāṇāṃ cintanasya japasya ca |
यस्माद् आद्यं तु हृदयं तस्मादादीति गद्यते ॥ (३३।२)
yasmād ādyaṃ tu hṛdayaṃ tasmādādīti gadyate ||
जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः । (३४।१)
japādau pūjayenmālāṃ toyairabhyukṣya yatnataḥ |
निधाय मण्डलस्यान्तः सव्यहस्तगतां च वा ॥ (३४।२)
nidhāya maṇḍalasyāntaḥ savyahastagatāṃ ca vā ||
चतुर्वर्गस्त्वयि न्यस्तस् तस्मान्मे सिद्धिदा भव ॥ (३५।२)
caturvargastvayi nyastas tasmānme siddhidā bhava ||
पूजयित्वा ततो मालां गृह्णीयाद् दक्षिणे करे । (३६।१)
pūjayitvā tato mālāṃ gṛhṇīyād dakṣiṇe kare |
मध्यमाया मध्यभागे वर्जयित्वाथ तर्जनीम् ॥ (३६।२)
madhyamāyā madhyabhāge varjayitvātha tarjanīm ||
स्थापयित्वा तत्र मालामङ्गुष्ठाग्रेण तद्गतम् ॥ (३७।२)
sthāpayitvā tatra mālāmaṅguṣṭhāgreṇa tadgatam ||
प्रतिवारं पठेन्मन्त्रं शनैरोष्ठं च चालयेत् ॥ (३८।२)
prativāraṃ paṭhenmantraṃ śanairoṣṭhaṃ ca cālayet ||
मालाबीजं तु जप्तव्यं स्पृशेन्नहि परस्परम् । (३९।१)
mālābījaṃ tu japtavyaṃ spṛśennahi parasparam |
पूर्वजापप्रयुक्तेन नैवाङ्गुष्ठेन भैरव ॥ (३९।२)
pūrvajāpaprayuktena naivāṅguṣṭhena bhairava ||
पूर्वबीजं जपन् यस्तु परबीजं च संस्पृशेत् । (४०।१)
pūrvabījaṃ japan yastu parabījaṃ ca saṃspṛśet |
अंगुष्ठेन भवेत् तस्य निष्फलस्तस्य तज्जपः ॥ (४०।२)
aṃguṣṭhena bhavet tasya niṣphalastasya tajjapaḥ ||
देवीं विचिन्तयन् जप्यं कुर्याद् वामेन न स्पृशेत् ॥ (४१।२)
devīṃ vicintayan japyaṃ kuryād vāmena na spṛśet ||
स्फटिकेन्द्राक्षरुद्राक्षैः पुत्रञ्जीवसमुद्भवैः । (४२।१)
sphaṭikendrākṣarudrākṣaiḥ putrañjīvasamudbhavaiḥ |
सुवर्णमणिभिः सम्यक् प्रवालैरथवाब्जजैः ॥ (४२।२)
suvarṇamaṇibhiḥ samyak pravālairathavābjajaiḥ ||
मालाबीजेषु सर्वेषु रुद्राक्षो मत्प्रियाप्रियः । (४४।१)
mālābījeṣu sarveṣu rudrākṣo matpriyāpriyaḥ |
रुद्रप्रीतिकरी यस्मात् तेन रुद्राक्षरोचनी ॥ (४४।२)
rudraprītikarī yasmāt tena rudrākṣarocanī ||
पञ्चपञ्चाशता वापि न न्यूनैरधिकैश्च वा ॥ (४५।२)
pañcapañcāśatā vāpi na nyūnairadhikaiśca vā ||
रुद्राक्षैर्यदि जप्येत इन्द्राक्षैः स्फटिकैस्तथा । (४६।१)
rudrākṣairyadi japyeta indrākṣaiḥ sphaṭikaistathā |
नान्यं मध्ये प्रयोक्तव्यं पुत्रञ्जीवादिकं च यत् ॥ (४६।२)
nānyaṃ madhye prayoktavyaṃ putrañjīvādikaṃ ca yat ||
यद्यन्यत् तु प्रयुज्येत मालायां जपकर्मणि । (४७।१)
yadyanyat tu prayujyeta mālāyāṃ japakarmaṇi |
तस्य कामं च मोक्षं च ददाति न प्रियंकरी ॥ (४७।२)
tasya kāmaṃ ca mokṣaṃ ca dadāti na priyaṃkarī ||
मिश्रीभावं ततो याति चाण्डालैः पापकर्मभिः । (४८।१)
miśrībhāvaṃ tato yāti cāṇḍālaiḥ pāpakarmabhiḥ |
एको मेरुस्तत्र देयः सर्वेभ्यः स्थूलसम्भवः । (४९।१)
eko merustatra deyaḥ sarvebhyaḥ sthūlasambhavaḥ |
आद्यं स्थूलं ततस्तस्मान्न्यूनं न्यूनतरं तथा ॥ (४९।२)
ādyaṃ sthūlaṃ tatastasmānnyūnaṃ nyūnataraṃ tathā ||
विन्यसेत् क्रमतस् तस्मात् सर्पाकारा हि सा यतः । (५०।१)
vinyaset kramatas tasmāt sarpākārā hi sā yataḥ |
ब्रह्मग्रन्थियुतं कुर्यात् प्रतिबीजं यथास्थितम् ॥ (५०।२)
brahmagranthiyutaṃ kuryāt pratibījaṃ yathāsthitam ||
द्विरावृत्याथ मध्येन चार्धवृत्यान्तदेशतः ॥ (५१।२)
dvirāvṛtyātha madhyena cārdhavṛtyāntadeśataḥ ||
ग्रन्थिः प्रदक्षिणावर्तः स ब्रह्मग्रन्थिसंज्ञकः । (५२।१)
granthiḥ pradakṣiṇāvartaḥ sa brahmagranthisaṃjñakaḥ |
आत्मना योजयेन्मालां नामन्त्रो योजयेन्नरः ॥ (५२।२)
ātmanā yojayenmālāṃ nāmantro yojayennaraḥ ||
दृढं सूत्रं नियुञ्जीत जपे त्रुट्यति नो यथा । (५३।१)
dṛḍhaṃ sūtraṃ niyuñjīta jape truṭyati no yathā |
यथा हस्तान्न च्यवेत जपतः स्रक् तमाचरेत् ॥ (५३।२)
yathā hastānna cyaveta japataḥ srak tamācaret ||
हस्तच्युतायां विघ्नं स्याच्छिन्नायां मरणं भवेत् । (५४।१)
hastacyutāyāṃ vighnaṃ syācchinnāyāṃ maraṇaṃ bhavet |
स प्राप्नोतीप्सितं कामं हीने स्यात्तु विपर्ययः । (५५।१)
sa prāpnotīpsitaṃ kāmaṃ hīne syāttu viparyayaḥ |
यथाशक्ति जपं कुर्यात् संख्ययैव प्रयत्नतः ॥ (५६।२)
yathāśakti japaṃ kuryāt saṃkhyayaiva prayatnataḥ ||
असंख्यातं च यज्जप्तं तस्य तन्निष्फलं भवेत् । (५७।१)
asaṃkhyātaṃ ca yajjaptaṃ tasya tanniṣphalaṃ bhavet |
जप्त्वा मालां शिरोदेशे प्रांशुस्थानेऽथ वा न्यसेत् ॥ (५७।२)
japtvā mālāṃ śirodeśe prāṃśusthāne'tha vā nyaset ||
स्तुतिपाठं ततः कुर्यादिष्टं कामं निवेद्य च । (५८।१)
stutipāṭhaṃ tataḥ kuryādiṣṭaṃ kāmaṃ nivedya ca |
स्तुतिश्चापि महामन्त्रं साधनं सर्वकर्मणाम् ॥ (५८।२)
stutiścāpi mahāmantraṃ sādhanaṃ sarvakarmaṇām ||
वक्ष्ये युवां महाभागौ सर्वसिद्धिप्रदायकम् । (५९।१)
vakṣye yuvāṃ mahābhāgau sarvasiddhipradāyakam |
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते । (६०।१)
śaraṇye tryambake gauri nārāyaṇi namo'stu te |
सप्तधावर्तनं कृत्वा स्तुतिमेनां च साधकः ॥ (६०।२)
saptadhāvartanaṃ kṛtvā stutimenāṃ ca sādhakaḥ ||
पञ्चप्रणामान् कृत्वाथ ऐं ह्रीं श्रीं इतिमन्त्रकैः । (६१।१)
pañcapraṇāmān kṛtvātha aiṃ hrīṃ śrīṃ itimantrakaiḥ |
योनिमुद्रां ततः पश्चाद् दर्शयित्वा विसर्जयेत् । (६२।१)
yonimudrāṃ tataḥ paścād darśayitvā visarjayet |
द्वौ पाणी प्रसृतीकृत्य कृत्वा चोत्तानमञ्जलिम् ॥ (६२।२)
dvau pāṇī prasṛtīkṛtya kṛtvā cottānamañjalim ||
अंगुष्ठाग्रद्वयं न्यस्य कनिष्ठाग्रद्वयोस्ततः । (६३।१)
aṃguṣṭhāgradvayaṃ nyasya kaniṣṭhāgradvayostataḥ |
अनामिकायां वामस्य तत्कनिष्ठां पुरो न्यसेत् ॥ (६३।२)
anāmikāyāṃ vāmasya tatkaniṣṭhāṃ puro nyaset ||
दक्षिणस्यानामिकायां कनिष्ठां दक्षिणस्य च । (६४।१)
dakṣiṇasyānāmikāyāṃ kaniṣṭhāṃ dakṣiṇasya ca |
अनामिकायाः पृष्ठे तु मध्यमे द्वे निवेशयेत् ॥ (६४।२)
anāmikāyāḥ pṛṣṭhe tu madhyame dve niveśayet ||
द्वे तर्जन्यौ कनिष्ठाग्रे तदग्रेणैव योजयेत् । (६५।१)
dve tarjanyau kaniṣṭhāgre tadagreṇaiva yojayet |
योनिमुद्रा समाख्याता देव्याः प्रीतिकरी मता ॥ (६५।२)
yonimudrā samākhyātā devyāḥ prītikarī matā ||
त्रिवारं दर्शयेत् तां तु मूलमन्त्रेण साधकः । (६६।१)
trivāraṃ darśayet tāṃ tu mūlamantreṇa sādhakaḥ |
तां मुद्रां शिरसि न्यस्य मण्डलं विन्यसेत् ततः ॥ (६६।२)
tāṃ mudrāṃ śirasi nyasya maṇḍalaṃ vinyaset tataḥ ||
ऐशान्याम् अग्रहस्तेन द्वारपद्मविवर्जितम् । (६७।१)
aiśānyām agrahastena dvārapadmavivarjitam |
तत्र नत्वा रक्तचण्डां ह्रीं श्रीं मन्त्रेण साधकः ॥ (६७।२)
tatra natvā raktacaṇḍāṃ hrīṃ śrīṃ mantreṇa sādhakaḥ ||
रक्तचण्डायै नम इति निर्माल्यं तत्र निक्षिपेत् । (६८।१)
raktacaṇḍāyai nama iti nirmālyaṃ tatra nikṣipet |
उदके तरुमूले वा निर्माल्यं तत्र संत्यजेत् ॥ (६८।२)
udake tarumūle vā nirmālyaṃ tatra saṃtyajet ||
एवं यः पूजयेद् देवीं विधानेन शिवां नरः । (६९।१)
evaṃ yaḥ pūjayed devīṃ vidhānena śivāṃ naraḥ |
सो ऽचिरेण लभेत्कामान् सर्वान् एव मनोगतान् ॥ (६९।२)
so 'cireṇa labhetkāmān sarvān eva manogatān ||
अर्धलक्षजपं जप्त्वा प्रथमं चैव साधकः । (७०।१)
ardhalakṣajapaṃ japtvā prathamaṃ caiva sādhakaḥ |
कुण्डं मण्डलवत्कृत्वा चाष्टम्यां समुपोषितः । (७१।१)
kuṇḍaṃ maṇḍalavatkṛtvā cāṣṭamyāṃ samupoṣitaḥ |
नवम्यां शुक्लपक्षस्य रजोभिः पञ्चभिर्नरः ॥ (७१।२)
navamyāṃ śuklapakṣasya rajobhiḥ pañcabhirnaraḥ ||
पूर्ववन्मण्डलं कृत्वा गुरुपित्रोश्च सन्निधौ । (७२।१)
pūrvavanmaṇḍalaṃ kṛtvā gurupitrośca sannidhau |
तिलैर्होमं चरेत् तस्यां सहस्रत्रितयं जपेत् ॥ (७३।२)
tilairhomaṃ caret tasyāṃ sahasratritayaṃ japet ||
नैवेद्यं गन्धपुष्पे च वस्त्रं दद्याच्च यत्प्रियम् । (७४।१)
naivedyaṃ gandhapuṣpe ca vastraṃ dadyācca yatpriyam |
पूर्वोक्तं चान्यदप्यस्यै प्रदद्यात्पायसं तथा ॥ (७४।२)
pūrvoktaṃ cānyadapyasyai pradadyātpāyasaṃ tathā ||
पूजावसाने देयं स्यात् तज्जातीयं बलित्रयम् । (७५।१)
pūjāvasāne deyaṃ syāt tajjātīyaṃ balitrayam |
सिन्दूरं स्वर्णरत्नानि यद्यत् स्त्रीणां विभूषणम् ॥ (७५।२)
sindūraṃ svarṇaratnāni yadyat strīṇāṃ vibhūṣaṇam ||
निवेदयेद् यथाशक्त्या पुष्पमाल्यं च भूरिशः । (७६।१)
nivedayed yathāśaktyā puṣpamālyaṃ ca bhūriśaḥ |
महाशक्तुं सशाल्यन्नं गव्यव्यञ्जनसंयुतम् ॥ (७६।२)
mahāśaktuṃ saśālyannaṃ gavyavyañjanasaṃyutam ||
देव्यै नवम्यां सम्पूर्णं बलिं दद्याद् घृतादिभिः । (७७।१)
devyai navamyāṃ sampūrṇaṃ baliṃ dadyād ghṛtādibhiḥ |
दक्षिणां गुरवे दद्यात्सुवर्णं गां तथा तिलम् ॥ (७७।२)
dakṣiṇāṃ gurave dadyātsuvarṇaṃ gāṃ tathā tilam ||
सदा मत्सरसंयुक्तं गुरुं मन्त्रेषु वर्जयेत् । (७९।१)
sadā matsarasaṃyuktaṃ guruṃ mantreṣu varjayet |
गुरुर्मन्त्रस्य मूलं स्यान्मूलशुद्धौ तदुद्गतम् ॥ (७९।२)
gururmantrasya mūlaṃ syānmūlaśuddhau tadudgatam ||
सफलं जायते यस्मान्मन्त्रं यत्नात्परीक्षयेत् । (८०।१)
saphalaṃ jāyate yasmānmantraṃ yatnātparīkṣayet |
शाठ्यात् क्रोधात्तु मोहाद्वा नासन्मत्या गुरोर्मुखात् ॥ (८०।२)
śāṭhyāt krodhāttu mohādvā nāsanmatyā gurormukhāt ||
कल्पेषु दृष्ट्वा वा मन्त्रं गृह्णीयाच्छद्मनाथ वा । (८१।१)
kalpeṣu dṛṣṭvā vā mantraṃ gṛhṇīyācchadmanātha vā |
शठे क्रूरे च मूर्खे च छद्मकारिण्यभक्तिके ॥ (८२।२)
śaṭhe krūre ca mūrkhe ca chadmakāriṇyabhaktike ||
मन्त्रं न दूषिते दद्यात् सुबीजं विपिने तथा । (८३।१)
mantraṃ na dūṣite dadyāt subījaṃ vipine tathā |
कविर्वाग्मी पण्डितश्च यशस्वी च प्रजायते ॥ (८५।२)
kavirvāgmī paṇḍitaśca yaśasvī ca prajāyate ||
पूजास्थानसाधकः साधकश्रेष्ठ पूजास्थानं ततः शृणु । (८६।१)
pūjāsthānasādhakaḥ sādhakaśreṣṭha pūjāsthānaṃ tataḥ śṛṇu |
यत्र यत्र नरः पूजां निर्जने कुरुते च यः ॥ (८६।२)
yatra yatra naraḥ pūjāṃ nirjane kurute ca yaḥ ||
तस्यादत्ते स्वयं देवी पत्रं पुष्पं फलं जलम् । (८७।१)
tasyādatte svayaṃ devī patraṃ puṣpaṃ phalaṃ jalam |
शिला प्रशस्ता पूजायां स्थण्डिलं निर्जनं तथा ॥ (८७।२)
śilā praśastā pūjāyāṃ sthaṇḍilaṃ nirjanaṃ tathā ||
अवश्यं तु स्मरेन्मन्त्रं योऽतिभक्तियुतो नरः । (८९।१)
avaśyaṃ tu smarenmantraṃ yo'tibhaktiyuto naraḥ |
दन्तरक्ते समुत्पन्ने स्मरणं च न विद्यते ॥ (८९।२)
dantarakte samutpanne smaraṇaṃ ca na vidyate ||
सर्वेषामेव मन्त्राणां स्मरणान्नरकं व्रजेत् । (९०।१)
sarveṣāmeva mantrāṇāṃ smaraṇānnarakaṃ vrajet |
जानूर्ध्वे क्षतजे जाते नित्यं कर्म न चाचरेत् ॥ (९०।२)
jānūrdhve kṣataje jāte nityaṃ karma na cācaret ||
नैमित्तिकं च तदधः स्रवद्रक्तो न चाचरेत् । (९१।१)
naimittikaṃ ca tadadhaḥ sravadrakto na cācaret |
धूमोद्गारे तथा वान्ते नित्यकर्माणि संत्यजेत् । (९२।१)
dhūmodgāre tathā vānte nityakarmāṇi saṃtyajet |
द्रव्ये भुक्ते त्वजीर्णे च न वै भुक्त्वा च किंचन ॥ (९२।२)
dravye bhukte tvajīrṇe ca na vai bhuktvā ca kiṃcana ||
कर्म कुर्यान्नरो नित्यं सूतके मृतके तथा । (९३।१)
karma kuryānnaro nityaṃ sūtake mṛtake tathā |
पत्रं पुष्पं च ताम्बूलं भेषजत्वेन कल्पितम् ॥ (९३।२)
patraṃ puṣpaṃ ca tāmbūlaṃ bheṣajatvena kalpitam ||
कणादिपिप्पल्यन्तं च फलं भुक्त्वा न चाचरेत् । (९४।१)
kaṇādipippalyantaṃ ca phalaṃ bhuktvā na cācaret |
नित्यक्रिया निवर्तेत सह नैमित्तिकैः सदा । (९५।१)
nityakriyā nivarteta saha naimittikaiḥ sadā |
कामाद्धस्तेन संस्पृश्य नित्यकर्माणि संत्यजेत् । (९६।१)
kāmāddhastena saṃspṛśya nityakarmāṇi saṃtyajet |
महागुरुनिपाते तु काम्यं किंचिन्न चाचरेत् ॥ (९७।२)
mahāgurunipāte tu kāmyaṃ kiṃcinna cācaret ||
आर्त्विज्यं ब्रह्मयज्ञं च श्राद्धं देवयजं च यत् । (९८।१)
ārtvijyaṃ brahmayajñaṃ ca śrāddhaṃ devayajaṃ ca yat |
गुरुमाक्षिप्य विप्रं च प्रहृत्यैव च पाणिना ॥ (९८।२)
gurumākṣipya vipraṃ ca prahṛtyaiva ca pāṇinā ||
न कुर्यान्नित्यकर्माणि रेतःपाते च भैरव । (९९।१)
na kuryānnityakarmāṇi retaḥpāte ca bhairava |
आसनं चार्घ्यपात्रं च भग्नमासादयेन्नतु ॥ (९९।२)
āsanaṃ cārghyapātraṃ ca bhagnamāsādayennatu ||
ऊषरे कृमिसंयुक्ते स्थाने मृष्टेऽपि नार्चयेत् । (१००।१)
ūṣare kṛmisaṃyukte sthāne mṛṣṭe'pi nārcayet |
अर्चयेच्चण्डिकां देवीं देवमन्यं च भैरव । (१०१।१)
arcayeccaṇḍikāṃ devīṃ devamanyaṃ ca bhairava |
दिग्विभागे तु कौबेरीदिक् शिवा प्रीतिदायिनी ॥ (१०१।२)
digvibhāge tu kauberīdik śivā prītidāyinī ||
तस्मात्तन्मुख आसीनः पूजयेच्चण्डिकां सदा । (१०२।१)
tasmāttanmukha āsīnaḥ pūjayeccaṇḍikāṃ sadā |
पुष्पं च कृमिसंमिश्रं विशीर्णं भग्नमृद्गते ॥ (१०२।२)
puṣpaṃ ca kṛmisaṃmiśraṃ viśīrṇaṃ bhagnamṛdgate ||
सकेशं मूषिकोद्धूतं यत्नेन परिवर्जयेत् । (१०३।१)
sakeśaṃ mūṣikoddhūtaṃ yatnena parivarjayet |
याचितं परकीयं च तथा पर्युषितं च यत् । (१०३।२)
yācitaṃ parakīyaṃ ca tathā paryuṣitaṃ ca yat |
अन्त्यसृष्टं पदा स्पृष्टं यत्नेन परिवर्जयेत् ॥ (१०३।३)
antyasṛṣṭaṃ padā spṛṣṭaṃ yatnena parivarjayet ||
इदं शिवायाः परमं मनोहरं करोति योऽनेन तदीयपूजनम् । (१०४।१)
idaṃ śivāyāḥ paramaṃ manoharaṃ karoti yo'nena tadīyapūjanam |
स वाञ्छितार्थं समवाप्य चण्डिकागृहं प्रयाता नचिरेण भैरव ॥ (१०४।२)
sa vāñchitārthaṃ samavāpya caṇḍikāgṛhaṃ prayātā nacireṇa bhairava ||
Data courtesy of The Digital Corpus of Sanskrit.