कालिकापुराणKālikāpurāṇa

KālPur, 3

3 of 5 · 94 verses

Select a line for its word-by-word analysis.

1.1१.१

भगवानुवाच । (१।१)

bhagavānuvāca |

1.2१.२

ततोऽर्घपात्रे तन्मन्त्रम् अष्टधाकृत्य संजपेत् । (१।२)

tato'rghapātre tanmantram aṣṭadhākṛtya saṃjapet |

1.3१.३

तेन तोयानि पुष्पाणि स्वं मण्डलमथासनम् ॥ (१।३)

tena toyāni puṣpāṇi svaṃ maṇḍalamathāsanam ||

2.1२.१

आशोधयेत्ततः पश्चात् पूजोपकरणं समम् । (२।१)

āśodhayettataḥ paścāt pūjopakaraṇaṃ samam |

2.2२.२

ॐ ऐं ह्रीं ह्रौं इति मन्त्रेण शब्दप्रांशुविवर्जितम् ॥ (२।२)

oṃ aiṃ hrīṃ hrauṃ iti mantreṇa śabdaprāṃśuvivarjitam ||

3.1३.१

द्वारपालं ततो देव्या आसनानि च पूजयेत् । (३।१)

dvārapālaṃ tato devyā āsanāni ca pūjayet |

3.2३.२

नन्दिभृङ्गिमहाकालगणेशा द्वारपालकाः । (३।२)

nandibhṛṅgimahākālagaṇeśā dvārapālakāḥ |

3.3३.३

उत्तरादिक्रमात्पूज्या आसनानि च मध्यतः ॥ (३।३)

uttarādikramātpūjyā āsanāni ca madhyataḥ ||

4.1४.१

आधारशक्तिप्रभृति हेमाद्र्यन्तान् प्रपूजयेत् । (४।१)

ādhāraśaktiprabhṛti hemādryantān prapūjayet |

4.2४.२

प्रसिद्धान् सर्वतन्त्रेषु पूजाकल्पेषु भैरव ॥ (४।२)

prasiddhān sarvatantreṣu pūjākalpeṣu bhairava ||

5.1५.१

दशदिक्पालसहितान् धर्माधर्मादिकांस्तथा । (५।१)

daśadikpālasahitān dharmādharmādikāṃstathā |

5.2५.२

मण्डलाग्न्यादिकोणेषु पूजयेत् पार्श्वदेशतः ॥ (५।२)

maṇḍalāgnyādikoṇeṣu pūjayet pārśvadeśataḥ ||

6.1६.१

सूर्याग्निसोममरुतां मण्डलानि च पद्मकम् । (६।१)

sūryāgnisomamarutāṃ maṇḍalāni ca padmakam |

6.2६.२

रजस्तथा तमः सत्त्वं योगपीठं गुरोः पदम् ॥ (६।२)

rajastathā tamaḥ sattvaṃ yogapīṭhaṃ guroḥ padam ||

7.1७.१

सारादीन् भद्रपीठान्तान् साङ्गोपाङ्गान् प्रपूजयेत् । (७।१)

sārādīn bhadrapīṭhāntān sāṅgopāṅgān prapūjayet |

7.2७.२

ब्रह्माण्डं स्वर्णडिम्बं च ब्रह्मविष्णुमहेश्वरान् ॥ (७।२)

brahmāṇḍaṃ svarṇaḍimbaṃ ca brahmaviṣṇumaheśvarān ||

8.1८.१

ससागरान् सप्तद्वीपान् स्वर्णद्वीपं समण्डपम् । (८।१)

sasāgarān saptadvīpān svarṇadvīpaṃ samaṇḍapam |

8.2८.२

रत्नपद्मं सपर्यङ्कं रत्नस्तम्भं तथैव च ॥ (८।२)

ratnapadmaṃ saparyaṅkaṃ ratnastambhaṃ tathaiva ca ||

9.1९.१

पञ्चाननं मण्डलस्य मध्येऽवश्यं प्रपूजयेत् । (९।१)

pañcānanaṃ maṇḍalasya madhye'vaśyaṃ prapūjayet |

9.2९.२

ह्रीं मन्त्रेण ततः कूर्मपृष्ठं पाण्योर्निबध्य च ॥ (९।२)

hrīṃ mantreṇa tataḥ kūrmapṛṣṭhaṃ pāṇyornibadhya ca ||

10.1१०.१

ध्यायेच्च पूर्ववद् देवीमासाद्यासनम् उत्तमम् । (१०।१)

dhyāyecca pūrvavad devīmāsādyāsanam uttamam |

10.2१०.२

हृन्मध्ये चिन्तयेत् स्वर्णद्वीपं पर्यङ्कसंभृतम् ॥ (१०।२)

hṛnmadhye cintayet svarṇadvīpaṃ paryaṅkasaṃbhṛtam ||

11.1११.१

पश्यन्निव ततो देवीम् एकाग्रमनसा स्मरेत् । (११।१)

paśyanniva tato devīm ekāgramanasā smaret |

11.2११.२

प्रत्यक्षीकृत्य हृदये मानसैरुपचारकैः ॥ (११।२)

pratyakṣīkṛtya hṛdaye mānasairupacārakaiḥ ||

12.1१२.१

षोडशानां प्रकारैस्तु हृदिस्थां पूजयेच्छिवाम् । (१२।१)

ṣoḍaśānāṃ prakāraistu hṛdisthāṃ pūjayecchivām |

12.2१२.२

ततस्तु वायुबीजेन दक्षिणे च पुटेन च ॥ (१२।२)

tatastu vāyubījena dakṣiṇe ca puṭena ca ||

13.1१३.१

नासिकाया विनिःसार्य क्रीं मन्त्रेण च भैरव । (१३।१)

nāsikāyā viniḥsārya krīṃ mantreṇa ca bhairava |

13.2१३.२

स्थापयेत्पद्ममध्ये तु तद्धस्तं न वियोजयेत् ॥ (१३।२)

sthāpayetpadmamadhye tu taddhastaṃ na viyojayet ||

14.1१४.१

कृते वियोगे हस्तस्य पुष्पात्तस्माच्च भैरव । (१४।१)

kṛte viyoge hastasya puṣpāttasmācca bhairava |

14.2१४.२

गन्धर्वैः पूज्यते देवी पूजकैर्नाप्यते फलम् ॥ (१४।२)

gandharvaiḥ pūjyate devī pūjakairnāpyate phalam ||

15.1१५.१

आवाहनं ततः कुर्याद् गायत्र्या शिरसा सह । (१५।१)

āvāhanaṃ tataḥ kuryād gāyatryā śirasā saha |

15.2१५.२

महामायायै विद्महे त्वां चण्डिकाख्यां धीमहि ॥ (१५।२)

mahāmāyāyai vidmahe tvāṃ caṇḍikākhyāṃ dhīmahi ||

16.1१६.१

एतदुक्त्वा ततः पश्चाद् धियो यो नः प्रचोदयात् । (१६।१)

etaduktvā tataḥ paścād dhiyo yo naḥ pracodayāt |

16.2१६.२

स्नानीयं देवि ते तुभ्यम् ॐ ह्रीं श्रीं नम इत्यतः ॥ (१६।२)

snānīyaṃ devi te tubhyam oṃ hrīṃ śrīṃ nama ityataḥ ||

17.1१७.१

स्नानीयं च ततो देव्यै दद्याल्लक्षणलक्षितम् । (१७।१)

snānīyaṃ ca tato devyai dadyāllakṣaṇalakṣitam |

17.2१७.२

ततस्तु मूलमन्त्रेण गन्धपुष्पं सदीपकम् ॥ (१७।२)

tatastu mūlamantreṇa gandhapuṣpaṃ sadīpakam ||

18.1१८.१

धूपादिकं प्रदद्यात् तु मोदकं पायसं तथा । (१८।१)

dhūpādikaṃ pradadyāt tu modakaṃ pāyasaṃ tathā |

18.2१८.२

सितां गुडं दधिक्षीरं सर्पिर्नानाविधैः फलैः ॥ (१८।२)

sitāṃ guḍaṃ dadhikṣīraṃ sarpirnānāvidhaiḥ phalaiḥ ||

19.1१९.१

रक्तपुष्पं पुष्पमालां सुवर्णरजतादिकम् । (१९।१)

raktapuṣpaṃ puṣpamālāṃ suvarṇarajatādikam |

19.2१९.२

नैवेद्यमुत्तमं देव्या लाङ्गलं मोदकं सिताम् ॥ (१९।२)

naivedyamuttamaṃ devyā lāṅgalaṃ modakaṃ sitām ||

20.1२०.१

शाण्डिल्यकरताम्राख्यकूष्माण्डानां फलानि च । (२०।१)

śāṇḍilyakaratāmrākhyakūṣmāṇḍānāṃ phalāni ca |

20.2२०.२

हरीतकीफलं चापि नागरङ्गकमेलकाम् ॥ (२०।२)

harītakīphalaṃ cāpi nāgaraṅgakamelakām ||

21.1२१.१

बालप्रियं च यद् द्रव्यं कसेरुकबिसादिकम् । (२१।१)

bālapriyaṃ ca yad dravyaṃ kaserukabisādikam |

21.2२१.२

तोयं च नारिकेलस्य देव्यै देयं प्रयत्नतः ॥ (२१।२)

toyaṃ ca nārikelasya devyai deyaṃ prayatnataḥ ||

22.1२२.१

रक्तं कौशेयवस्त्रं च देयं नीलं कदापि न । (२२।१)

raktaṃ kauśeyavastraṃ ca deyaṃ nīlaṃ kadāpi na |

22.2२२.२

देव्याः प्रियाणि पुष्पाणि बकुलं केशरं तथा ॥ (२२।२)

devyāḥ priyāṇi puṣpāṇi bakulaṃ keśaraṃ tathā ||

23.1२३.१

माघ्यं कह्लारवज्राणि करवीरकुरुण्टकान् । (२३।१)

māghyaṃ kahlāravajrāṇi karavīrakuruṇṭakān |

23.2२३.२

अर्कपुष्पं शाल्मलकं दूर्वाङ्कुरं सुकोमलम् ॥ (२३।२)

arkapuṣpaṃ śālmalakaṃ dūrvāṅkuraṃ sukomalam ||

24.1२४.१

कुशमञ्जरिका दर्भा बन्धूककमले तथा । (२४।१)

kuśamañjarikā darbhā bandhūkakamale tathā |

24.2२४.२

मालूरपत्त्रं पुष्पं च त्रिसन्ध्यारक्तपर्णके ॥ (२४।२)

mālūrapattraṃ puṣpaṃ ca trisandhyāraktaparṇake ||

25.1२५.१

सुमनांसि प्रियाण्येतान्यम्बिकायाश्च भैरव । (२५।१)

sumanāṃsi priyāṇyetānyambikāyāśca bhairava |

25.2२५.२

बन्धूकं बकुलं माघ्यं बिल्वपत्राणि संध्यकम् ॥ (२५।२)

bandhūkaṃ bakulaṃ māghyaṃ bilvapatrāṇi saṃdhyakam ||

26.1२६.१

उत्तमं सर्वपुष्पेषु द्रव्ये पायसमोदकौ । (२६।१)

uttamaṃ sarvapuṣpeṣu dravye pāyasamodakau |

26.2२६.२

माल्यं बन्धूकपुष्पस्य शिवायै बकुलस्य वा ॥ (२६।२)

mālyaṃ bandhūkapuṣpasya śivāyai bakulasya vā ||

27.1२७.१

करवीरस्य माघ्यस्य सहस्राणां ददाति यः । (२७।१)

karavīrasya māghyasya sahasrāṇāṃ dadāti yaḥ |

27.2२७.२

स कामान्प्राप्य चाभीष्टान् मम लोके प्रमोदते ॥ (२७।२)

sa kāmānprāpya cābhīṣṭān mama loke pramodate ||

28.1२८.१

चन्दनं शीतलं चैव कालीयकसमन्वितम् । (२८।१)

candanaṃ śītalaṃ caiva kālīyakasamanvitam |

28.2२८.२

अनुलेपनमुख्यं तु देव्यै दद्यात् प्रयत्नतः ॥ (२८।२)

anulepanamukhyaṃ tu devyai dadyāt prayatnataḥ ||

29.1२९.१

कर्पूरं कुङ्कुमं कूर्चं मृगनाभिं सुगन्धिकम् । (२९।१)

karpūraṃ kuṅkumaṃ kūrcaṃ mṛganābhiṃ sugandhikam |

29.2२९.२

कालीयकं सुगन्धेषु देव्याः प्रीतिकरं परम् ॥ (२९।२)

kālīyakaṃ sugandheṣu devyāḥ prītikaraṃ param ||

30.1३०.१

यक्षधूपः प्रतीवाहः पिण्डधूपः सगोलकः । (३०।१)

yakṣadhūpaḥ pratīvāhaḥ piṇḍadhūpaḥ sagolakaḥ |

30.2३०.२

अगुरु सिन्धुवारश्च धूपाः प्रीतिकरा मताः ॥ (३०।२)

aguru sindhuvāraśca dhūpāḥ prītikarā matāḥ ||

31.1३१.१

अङ्गरागेषु सिन्दूरं देव्याः प्रीतिकरं परम् । (३१।१)

aṅgarāgeṣu sindūraṃ devyāḥ prītikaraṃ param |

31.2३१.२

सुगन्धि शालिजं चान्नं मधुमांससमन्वितम् ॥ (३१।२)

sugandhi śālijaṃ cānnaṃ madhumāṃsasamanvitam ||

32.1३२.१

अपूपं पायसं क्षीरम् अन्नं देव्याः प्रशस्यते । (३२।१)

apūpaṃ pāyasaṃ kṣīram annaṃ devyāḥ praśasyate |

32.2३२.२

रत्नोदकं सकर्पूरं पिण्डीतककुमारकौ ॥ (३२।२)

ratnodakaṃ sakarpūraṃ piṇḍītakakumārakau ||

33.1३३.१

रोचनं पुष्पकं देव्याः स्नानीयं परिकीर्तितम् । (३३।१)

rocanaṃ puṣpakaṃ devyāḥ snānīyaṃ parikīrtitam |

33.2३३.२

घृतप्रदीपो दीपेषु प्रशस्तः परिकीर्तितः ॥ (३३।२)

ghṛtapradīpo dīpeṣu praśastaḥ parikīrtitaḥ ||

34.1३४.१

पुष्पाञ्जलित्रयं दद्यान्मूलमन्त्रेण शोभनम् । (३४।१)

puṣpāñjalitrayaṃ dadyānmūlamantreṇa śobhanam |

34.2३४.२

दत्त्वोपचारानखिलान्मध्ये चैताः प्रपूजयेत् ॥ (३४।२)

dattvopacārānakhilānmadhye caitāḥ prapūjayet ||

35.1३५.१

कामेश्वरीं गुप्तदुर्गां विन्ध्यकन्दरवासिनीम् । (३५।१)

kāmeśvarīṃ guptadurgāṃ vindhyakandaravāsinīm |

35.2३५.२

कोटेश्वरीं दीर्घिकाख्यां प्रकटीं भुवनेश्वरीम् ॥ (३५।२)

koṭeśvarīṃ dīrghikākhyāṃ prakaṭīṃ bhuvaneśvarīm ||

36.1३६.१

आकाशगङ्गां कामाख्यां यदा दिक्करवासिनीम् । (३६।१)

ākāśagaṅgāṃ kāmākhyāṃ yadā dikkaravāsinīm |

36.2३६.२

मातङ्गीं ललितां दुर्गां भैरवीं सिद्धिदां तथा ॥ (३६।२)

mātaṅgīṃ lalitāṃ durgāṃ bhairavīṃ siddhidāṃ tathā ||

37.1३७.१

बलप्रमथिनीं चण्डीं चण्डोग्रां चण्डनायिकाम् । (३७।१)

balapramathinīṃ caṇḍīṃ caṇḍogrāṃ caṇḍanāyikām |

37.2३७.२

उग्रां भीमां शिवां शान्तां जयन्तीं कालिकां तथा ॥ (३७।२)

ugrāṃ bhīmāṃ śivāṃ śāntāṃ jayantīṃ kālikāṃ tathā ||

38.1३८.१

मङ्गलां भद्रकालीं च शिवां धात्रीं कपालिनीम् । (३८।१)

maṅgalāṃ bhadrakālīṃ ca śivāṃ dhātrīṃ kapālinīm |

38.2३८.२

स्वाहां स्वधामपर्णां च पञ्चपुष्करिणीं तथा ॥ (३८।२)

svāhāṃ svadhāmaparṇāṃ ca pañcapuṣkariṇīṃ tathā ||

39.1३९.१

दमनीं सर्वभूतानां मनःप्रोत्साहकारिणीम् । (३९।१)

damanīṃ sarvabhūtānāṃ manaḥprotsāhakāriṇīm |

39.2३९.२

दमनीं सर्वभूतानां चतुःषष्टिं च योगिनीः ॥ (३९।२)

damanīṃ sarvabhūtānāṃ catuḥṣaṣṭiṃ ca yoginīḥ ||

40.1४०.१

एताः सम्पूज्य मध्ये तु मन्त्रेणाङ्गानि पूजयेत् । (४०।१)

etāḥ sampūjya madhye tu mantreṇāṅgāni pūjayet |

40.2४०.२

हृच्छिरस्तु शिखावर्मनेत्रबाहुपदानि च ॥ (४०।२)

hṛcchirastu śikhāvarmanetrabāhupadāni ca ||

41.1४१.१

मूलमन्त्राद्यक्षरैस्तु त्रिभिराद्यङ्गपूजनम् । (४१।१)

mūlamantrādyakṣaraistu tribhirādyaṅgapūjanam |

41.2४१.२

एकैकं वर्धयेत् पश्चान्मन्त्राण्यङ्गौघपूजने ॥ (४१।२)

ekaikaṃ vardhayet paścānmantrāṇyaṅgaughapūjane ||

42.1४२.१

सिद्धसूत्रं च खड्गं च खड्गमन्त्रेण पूजयेत् । (४२।१)

siddhasūtraṃ ca khaḍgaṃ ca khaḍgamantreṇa pūjayet |

42.2४२.२

ततोऽष्टपत्रमध्ये तु पूजयेदष्टयोगिनीः ॥ (४२।२)

tato'ṣṭapatramadhye tu pūjayedaṣṭayoginīḥ ||

43.1४३.१

शैलपुत्रीं चण्डघण्टां स्कन्दमातरमेव च । (४३।१)

śailaputrīṃ caṇḍaghaṇṭāṃ skandamātarameva ca |

43.2४३.२

कालरात्रिं च पूर्वादिचतुर्दिक्षु प्रपूजयेत् ॥ (४३।२)

kālarātriṃ ca pūrvādicaturdikṣu prapūjayet ||

44.1४४.१

चण्डिकामथ कूष्माण्डीं तथा कात्यायनीं शुभाम् । (४४।१)

caṇḍikāmatha kūṣmāṇḍīṃ tathā kātyāyanīṃ śubhām |

44.2४४.२

महागौरीं चाग्निकोणे नैरृत्यादिषु पूजयेत् ॥ (४४।२)

mahāgaurīṃ cāgnikoṇe nairṛtyādiṣu pūjayet ||

45.1४५.१

महामायां क्षमस्वेति मूलमन्त्रेण चाष्टधा । (४५।१)

mahāmāyāṃ kṣamasveti mūlamantreṇa cāṣṭadhā |

45.2४५.२

पूजयेत् पद्ममध्ये तु बलिदानं ततः परम् ॥ (४५।२)

pūjayet padmamadhye tu balidānaṃ tataḥ param ||

46.1४६.१

एवं यदा कल्पविधानमानैः सम्पूज्यते भैरव कामदेवी । (४६।१)

evaṃ yadā kalpavidhānamānaiḥ sampūjyate bhairava kāmadevī |

46.2४६.२

तदा स्वयं मण्डलमेत्य देयं गृह्णाति कामं च ददाति सम्यक् ॥ (४६।२)

tadā svayaṃ maṇḍalametya deyaṃ gṛhṇāti kāmaṃ ca dadāti samyak ||

Data courtesy of The Digital Corpus of Sanskrit.

KālPur, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit