RSK, 1
Select a line for its word-by-word analysis.
शिवं नत्वा रसेशं चामुण्डः कायस्थवंशभूः । (१।१)
śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ |
मेर्चुर्य्:: म्य्थ्। ओरिगिन्स्कन्दात्तारकहिंसार्थं कैलासे विधृतं सुरैः । (२।१)
mercury:: myth. originskandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ |
रते शम्भोश्च्युतं रेतो गृहीतमग्निना मुखे ॥ (२।२)
rate śambhoścyutaṃ reto gṛhītamagninā mukhe ||
क्षिप्तं तेन चतुर्दिक्षु क्षाराब्धौ तत्पृथक् पृथक् । (३।१)
kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak |
सौम्यादिदिक्त्रयस्थं यद् गौरीशापान्न कार्यकृत् ॥ (३।२)
saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt ||
पश्चिमायां विमुक्तं तत् सूतोऽभूत् सर्वकार्यकृत् । (४।१)
paścimāyāṃ vimuktaṃ tat sūto'bhūt sarvakāryakṛt |
मेर्चुर्य्:: सुब्त्य्पेस्:: चोलोउर्, चस्तेश्वेतारुणहरिद्राभकृष्णा विप्रादिपारदाः ॥ (४।२)
mercury:: subtypes:: colour, casteśvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ ||
देहे लोहे गदे पिष्ट्यां योज्या वा स्वस्वजातिषु । (५।१)
dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu |
रसदोषाःतेषु नैसर्गिका दोषाः पञ्च सप्ताथ कञ्चुकाः ॥ (५।२)
rasadoṣāḥteṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ ||
मलाद्याः पञ्च दोषाः स्युर् भूजाद्याः सप्त कञ्चुकाः । (६।१)
malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ |
कुष्ठादीन् हि प्रकुर्वन्ति रसस्था द्वादशैव ते ॥ (६।२)
kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te ||
१८ संस्कारस्तेनाष्टादशसंस्कारा उक्ता ज्ञैर् दोषमुक्तये । (७।१)
18 saṃskārastenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye |
कर्तुं ते दुष्करा यस्मात् प्रोच्यन्ते सुकरा रसे ॥ (७।२)
kartuṃ te duṣkarā yasmāt procyante sukarā rase ||
मेर्चुर्य्:: चोर्रेच्त् wएइघ्त्पलादारभ्य पञ्चाशत्पलं यावच्च पारदः । (८।१)
mercury:: correct weightpalādārabhya pañcāśatpalaṃ yāvacca pāradaḥ |
तत ऊनोऽधिको वापि न संस्कार्यो रसो बुधैः ॥ (८।२)
tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ ||
संस्कार:: मर्दनवस्त्रे चतुर्गुणे पूतः सूतः स्थाप्यः शुभेऽहनि । (९।१)
saṃskāra:: mardanavastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani |
लोहार्काश्मजखल्वे तु तप्ते चैव विमर्दयेत् ॥ (९।२)
lohārkāśmajakhalve tu tapte caiva vimardayet ||
कालांशैर्मर्दितः सूतो भवेच्छुद्धो दिनैकतः ॥ (१०।२)
kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ ||
संस्कार:: स्वेदनततः क्षाराम्लमूत्राद्यैः स्वेद्यो वस्त्रावृतो दिनम् । (११।१)
saṃskāra:: svedanatataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam |
संस्कार:: मूर्छनमूर्छयेत् सप्तधा पश्चात् कन्याग्न्यर्कवराम्बुभिः ॥ (११।२)
saṃskāra:: mūrchanamūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ ||
संस्कार:: पातनत्रिधोर्ध्वपातनात् पात्यः पादांशार्कयुतः शुचिः । (१२।१)
saṃskāra:: pātanatridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ |
मेर्चुर्य्:: हिङ्गुलाकृष्ट:: नत्। पुरेनेस्स्हिङ्गुलाद् उद्धृतः सूतो भवेद्वा दोषवर्जितः ॥ (१२।२)
mercury:: hiṅgulākṛṣṭa:: nat. purenesshiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ ||
इम्पोर्तन्चे ओड़् जारणगुरुशास्त्रं परित्यज्य विना जारितगन्धकात् । (१३।१)
importance of jāraṇaguruśāstraṃ parityajya vinā jāritagandhakāt |
रसं निर्माति दुर्मेधाः शपेत्तं च रसेश्वरः ॥ (१३।२)
rasaṃ nirmāti durmedhāḥ śapettaṃ ca raseśvaraḥ ||
संस्कार:: जारणसूतं गन्धं रसैकांशं स्तोकं स्तोकं तु खल्वगम् । (१४।१)
saṃskāra:: jāraṇasūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam |
कुट्टनात् कुट्टनात् पिष्टं भवेद्वा ताम्रपात्रगम् ॥ (१४।२)
kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam ||
तत्तुल्यं गन्धकं दत्त्वा रुद्ध्वा तं लोहसम्पुटे । (१५।१)
tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe |
पुटेद् भूधरयन्त्रे च यावज्जीर्यति गन्धकम् ॥ (१५।२)
puṭed bhūdharayantre ca yāvajjīryati gandhakam ||
एवं पुनः पुनर्देयं षड्गुणं गन्धचूर्णकम् । (१६।१)
evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam |
बन्ध:: सुब्त्य्पेस्पाटः खोटो जलौका च भस्माख्यश्च चतुर्थकः । (१७।१)
bandha:: subtypespāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ |
बन्धश्चतुर्विधः सूते विज्ञेयो भिषगुत्तमैः ॥ (१७।२)
bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ ||
पाटः पर्पटिकाबन्धः पिष्टिबन्धस्तु खोटकः । (१८।१)
pāṭaḥ parpaṭikābandhaḥ piṣṭibandhastu khoṭakaḥ |
जलौका पक्वबन्धः स्याद्भस्म भस्मनिभो भवेत् ॥ (१८।२)
jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet ||
मेर्चुर्य्:: भस्मन्:: सुब्त्य्पेस्सूतभस्म द्विधा ज्ञेयमूर्ध्वगं तलभस्म च । (१९।१)
mercury:: bhasman:: subtypessūtabhasma dvidhā jñeyamūrdhvagaṃ talabhasma ca |
ऊर्ध्वभस्मन्:: प्रोदुच्तिओनूर्ध्वभस्मकरं यन्त्रं स्थालिकासम्पुटं शृणु ॥ (१९।२)
ūrdhvabhasman:: productionūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu ||
कार्यं स्थालीद्वयं मध्ये सर्वतः षोडशाङ्गुलम् । (२०।१)
kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam |
लवणेनेषद् आर्द्रेणापूर्य स्थालीम् अधोगताम् ॥ (२०।२)
lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām ||
संधिं वस्त्रमृदा लिम्पेत् संपुटीकृत्य चान्यया । (२१।१)
saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā |
त्रिद्वारचुल्ल्यां संस्थाप्य चतुर्यामं दृढाग्निना ॥ (२१।२)
tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā ||
पचेत्तत्स्वाङ्गशीतं वै ह्युद्धृत्य लवणं त्यजेत् । (२२।१)
pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet |
लावणीमूर्ध्वगां कृत्वा क्षेप्योऽन्यस्यां रसेश्वरः ॥ (२२।२)
lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ ||
पूर्ववत् संपुटीकृत्य पश्चात्तु चुल्लके न्यसेत् । (२३।१)
pūrvavat saṃpuṭīkṛtya paścāttu cullake nyaset |
दृढं कृत्वालवालं तु जलं तत्र विनिक्षिपेत् ॥ (२३।२)
dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet ||
उष्णं पुनः पुनस्त्यक्त्वा क्षिपेच्छीतं मुहुर्मुहुः । (२४।१)
uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ |
त्रिद्वारे काष्ठमेकैकं दीर्घं हस्तमितं क्षिपेत् ॥ (२४।२)
tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet ||
हस्तवत्पिण्डमानं तु ह्यादौ प्रज्वालयेत्सुधीः । (२५।१)
hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ |
द्वे द्वे काष्ठे च तस्योर्ध्वं तदूर्ध्वं त्रितयं क्षिपेत् ॥ (२५।२)
dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet ||
यावद्यामद्वयं पश्चादङ्गारांश्च जलं त्यजेत् । (२६।१)
yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet |
ऊर्ध्वस्थाल्यां तु यल्लग्नं तदूर्ध्वं भस्म सिद्धिदम् ॥ (२६।२)
ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam ||
मेर्चुर्य्:: तलभस्मन्:: प्रोदुच्तिओन्गन्धकं धूमसारं च शुद्धसूतं समं त्रयम् । (२७।१)
mercury:: talabhasman:: productiongandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam |
यामैकं मर्दयेत् खल्वे काचकूप्यां विनिक्षिपेत् ॥ (२७।२)
yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet ||
रुद्ध्वा द्वादशयामं तद्वालुकायन्त्रगं पचेत् । (२८।१)
ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet |
स्फोटयेत्स्वाङ्गशीतं च तदूर्ध्वं गन्धकं त्यजेत् ॥ (२८।२)
sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet ||
तलभस्मन्:: मेदिच्। प्रोपेर्तिएस्तलभस्म भवेद्योगवाहि स्यात् सर्वरोगहृत् । (२९।१)
talabhasman:: medic. propertiestalabhasma bhavedyogavāhi syāt sarvarogahṛt |
औषधान्तरसंयोगाद् वक्ष्ये वर्णविपर्ययम् ॥ (२९।२)
auṣadhāntarasaṃyogād vakṣye varṇaviparyayam ||
रक्तं पीतं तथा कृष्णं नीलं च पाण्डुरारुणम् । (३०।१)
raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam |
रक्तभस्मन्निर्गुण्डीरससंयुक्तं चपलेन समन्वितम् ॥ (३०।२)
raktabhasmannirguṇḍīrasasaṃyuktaṃ capalena samanvitam ||
पीतभस्मन्भूधात्रीहस्तिशुण्डीभ्यां रसं गन्धं च मर्दयेत् ॥ (३१।२)
pītabhasmanbhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet ||
काचकूप्यां चतुर्यामं पक्वः पीतो भवेद्रसः । (३२।१)
kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ |
कृष्णभस्मन्सूतं गन्धकसंयुक्तं कुमारीरसमर्दितम् ॥ (३२।२)
kṛṣṇabhasmansūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam ||
कृष्णवर्णं भवेद्भस्म देवानामपि दुर्लभम् । (३३।१)
kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham |
श्याम-।नीलभस्मन्वाराहीकन्दसंयुक्तं रसकेन समन्वितम् ॥ (३३।२)
śyāma-|nīlabhasmanvārāhīkandasaṃyuktaṃ rasakena samanvitam ||
पाण्डुरारुणभस्मन्लवणान्तर्विलिप्तायां कूप्यां स्यात् पाण्डुरारुणम् ॥ (३४।२)
pāṇḍurāruṇabhasmanlavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam ||
मेर्चुर्य्:: मारणलवणाद्विंशतिर्भागाः सूतश्चाथैकभागिकः । (३५।१)
mercury:: māraṇalavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ |
काञ्जिके मर्दयित्वाग्नौ पुटनाद् भस्मतां व्रजेत् ॥ (३५।२)
kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet ||
उद्धृत्यान्यं रसं क्षिप्त्वा यथेच्छं मारयेद्रसम् । (३६।१)
uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam |
एवं ताम्राहिवङ्गाभ्रं मारितं स्याद्गुणप्रदम् ॥ (३६।२)
evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam ||
तदम्बुपूरिते पात्रे स्थाप्यं यामाष्टकं शनैः । (३७।१)
tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ |
त्यक्त्वा तोयं रसो ग्राह्यः पात्रस्थो भस्मसूतकः ॥ (३७।२)
tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ ||
मेर्चुर्य्:: मारणमूषाद्वयमपामार्गबीजचूर्णैः प्रकल्पयेत् । (३८।१)
mercury:: māraṇamūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet |
द्रोणपुष्प्याः प्रसूनानि विडङ्गम् अरिमेदकः । (३९।१)
droṇapuṣpyāḥ prasūnāni viḍaṅgam arimedakaḥ |
चूर्णम् एषाम् अधश्चोर्ध्वं दत्त्वा मुद्रां प्रकल्पयेत् ॥ (३९।२)
cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet ||
विधाय गोलकं सम्यङ्मृन्मूषासम्पुटे क्षिपेत् । (४०।१)
vidhāya golakaṃ samyaṅmṛnmūṣāsampuṭe kṣipet |
शोषयेन्मुद्रितं कृत्वा पचेद् गजपुटे ततः ॥ (४०।२)
śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ ||
पारदो भस्मताम् इत्थं पुटेनैकेन गच्छति । (४१।१)
pārado bhasmatām itthaṃ puṭenaikena gacchati |
स्वाङ्गशीतं समुद्धृत्य सर्वकर्मसु योजयेत् ॥ (४१।२)
svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet ||
प्रोत्तानखर्परे चुल्ल्यां स्फटिकालेपिते क्षिपेत् । (४२।१)
prottānakharpare cullyāṃ sphaṭikālepite kṣipet |
मेर्चुर्य्:: मृत:: परीक्षाअतेजा अगुरुः शुभ्रो लोहहा चाचलो रसः । (४३।१)
mercury:: mṛta:: parīkṣāatejā aguruḥ śubhro lohahā cācalo rasaḥ |
यदा नावर्तते वह्नौ नोर्ध्वं गच्छेत्तदा मृतः ॥ (४३।२)
yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ ||
मेर्चुर्य्:: मृत:: मेदिच्। प्रोपेर्तिएस्पारदः सर्वरोगघ्नो योगवाही सरो गुरुः । (४४।१)
mercury:: mṛta:: medic. propertiespāradaḥ sarvarogaghno yogavāhī saro guruḥ |
पाण्डुताकृमिकुष्ठघ्नो वृष्यो बल्यो रसायनः ॥ (४४।२)
pāṇḍutākṛmikuṣṭhaghno vṛṣyo balyo rasāyanaḥ ||
सूतो धातुरसाः सर्वे जीर्णा जीर्णा गुणाधिकाः । (४५।१)
sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ |
मेर्चुर्य्:: मृत:: स्तोरगेदन्ते शृङ्गे मणौ वेणौ रक्षयेत्साधितं रसम् ॥ (४५।२)
mercury:: mṛta:: storagedante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam ||
wएइघ्त् ओड़् द्रुग्स्पित्तानि षोडशांशेन विषाणामपि रक्तिका । (४६।१)
weight of drugspittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā |
गुटीरसेष्वनुक्तो ऽपि ज्ञेयो विधिरयं स्वयम् ॥ (४६।२)
guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam ||
मेर्चुर्य्:: सेवनसर्वरोगविनाशार्थं देहदार्ढ्यस्य हेतवे । (४७।१)
mercury:: sevanasarvarogavināśārthaṃ dehadārḍhyasya hetave |
शुद्धकायश्च पथ्याशी सेवेत पूज्यपूजनात् ॥ (४७।२)
śuddhakāyaśca pathyāśī seveta pūjyapūjanāt ||
वल्लमेकं नरेऽश्वे तु गद्याणं च गजे द्वयम् । (४८।१)
vallamekaṃ nare'śve tu gadyāṇaṃ ca gaje dvayam |
दत्तः सूतो हरेद्रोगान् धातुयुग्वा निजौषधैः ॥ (४८।२)
dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ ||
रसस्य विकृतौ सत्यां मूर्छा हिक्का ज्वरोऽरतिः । (४९।१)
rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ |
कासः श्वासो भ्रमो मोहो दाहः कम्पश्च जायते ॥ (४९।२)
kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate ||
तच्छान्त्यै बीजपूरस्य रसं शुण्ठीं च सैन्धवम् । (५०।१)
tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam |
पिबेद्वा गोजले सिद्धं मूलं कर्कोटजं शुभम् ॥ (५०।२)
pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham ||
तदपत्यधनैः पूर्णम् आधिव्याधिविवर्जितम् ॥ (५१।२)
tadapatyadhanaiḥ pūrṇam ādhivyādhivivarjitam ||
Data courtesy of The Digital Corpus of Sanskrit.