रससंकेतकलिकाRasasaṃketakalikā

RSK, 4

4 of 5 · 260 verses

Select a line for its word-by-word analysis.

1.1१.१

कियन्तोऽप्यथ वक्ष्यन्ते रसाः प्रत्ययकारकाः । (१।१)

kiyanto'pyatha vakṣyante rasāḥ pratyayakārakāḥ |

1.2१.२

शास्त्रं दृष्ट्वा गुरोर्वक्त्रात् संप्रदायाद्यथागताः ॥ (१।२)

śāstraṃ dṛṣṭvā gurorvaktrāt saṃpradāyādyathāgatāḥ ||

2.1२.१

पारदो रसकस्तालस्तुत्थं गन्धकटङ्कणम् । (२।१)

pārado rasakastālastutthaṃ gandhakaṭaṅkaṇam |

2.2२.२

सर्वमेतत्समं शुद्धं कारवेल्ल्या रसैर्दिनम् ॥ (२।२)

sarvametatsamaṃ śuddhaṃ kāravellyā rasairdinam ||

3.1३.१

मर्दयेत्तेन विदध्याच्च ताम्रपात्रोदरं घनम् । (३।१)

mardayettena vidadhyācca tāmrapātrodaraṃ ghanam |

3.2३.२

अङ्गुलार्धार्धमानेन तत् पचेत्सिकताद्वये ॥ (३।२)

aṅgulārdhārdhamānena tat pacetsikatādvaye ||

4.1४.१

यन्त्रे यावत्स्फुटन्त्येव व्रीह्यस्तस्य पृष्ठतः । (४।१)

yantre yāvatsphuṭantyeva vrīhyastasya pṛṣṭhataḥ |

4.2४.२

ततः सुशीतले ग्राह्यस्ताम्रपात्रोदराद्बुधैः ॥ (४।२)

tataḥ suśītale grāhyastāmrapātrodarādbudhaiḥ ||

5.1५.१

तत्समं मरिचं दत्त्वा सर्वमेकत्र चूर्णयेत् । (५।१)

tatsamaṃ maricaṃ dattvā sarvamekatra cūrṇayet |

5.2५.२

द्विगुञ्जं पर्णखण्डेन वातिके पैत्तिके ज्वरे ॥ (५।२)

dviguñjaṃ parṇakhaṇḍena vātike paittike jvare ||

6.1६.१

गुञ्जैकं ससितं दद्यात्त्रिगुञ्जं व्योषयुक्कफे । (६।१)

guñjaikaṃ sasitaṃ dadyāttriguñjaṃ vyoṣayukkaphe |

6.2६.२

संनिपाते ज्वरे देयो वल्लैकर्माद्रकद्रवैः ॥ (६।२)

saṃnipāte jvare deyo vallaikarmādrakadravaiḥ ||

7.1७.१

त्रिदिनैविषमं तीव्रमेकद्वित्रिचतुर्थकम् । (७।१)

tridinaiviṣamaṃ tīvramekadvitricaturthakam |

7.2७.२

नाशयेच्छीतभञ्ज्याख्यो रसो रुद्रेण निर्मितः ॥ (७।२)

nāśayecchītabhañjyākhyo raso rudreṇa nirmitaḥ ||

8.1८.१

सूतं गन्धं शिलां तालं संमथ्य निम्बुजैर्द्रवैः । (८।१)

sūtaṃ gandhaṃ śilāṃ tālaṃ saṃmathya nimbujairdravaiḥ |

8.2८.२

लिप्त्वा तन्वर्कपत्राणि यन्त्रे भस्माभिधे क्षिपेत् ॥ (८।२)

liptvā tanvarkapatrāṇi yantre bhasmābhidhe kṣipet ||

9.1९.१

यामाष्टौ ज्वालयेदग्निं स्वाङ्गशीतं समुद्धरेत् । (९।१)

yāmāṣṭau jvālayedagniṃ svāṅgaśītaṃ samuddharet |

9.2९.२

विषोषणं चतुर्थांशं दत्त्वा वल्लमिता गुटी ॥ (९।२)

viṣoṣaṇaṃ caturthāṃśaṃ dattvā vallamitā guṭī ||

10.1१०.१

देवदालीरसैर्बद्धा रसश्चैतन्यभैरवः । (१०।१)

devadālīrasairbaddhā rasaścaitanyabhairavaḥ |

10.2१०.२

दत्तार्द्रकरसैः सर्वसंनिपातविघातकृत् ॥ (१०।२)

dattārdrakarasaiḥ sarvasaṃnipātavighātakṛt ||

11.1११.१

भूमौ गतं विसंज्ञं च शीतार्तं तन्द्रितं नरम् । (११।१)

bhūmau gataṃ visaṃjñaṃ ca śītārtaṃ tandritaṃ naram |

11.2११.२

तत्क्षणाद्बोधयेद्दाहे कुर्याच्छीतोपचारकान् ॥ (११।२)

tatkṣaṇādbodhayeddāhe kuryācchītopacārakān ||

12.1१२.१

वाराहच्छागमात्स्याश्वमायूरं पित्तपञ्चकम् । (१२।१)

vārāhacchāgamātsyāśvamāyūraṃ pittapañcakam |

12.2१२.२

अनेन भावितश्चापि देयश्चैतन्यभैरवः ॥ (१२।२)

anena bhāvitaścāpi deyaścaitanyabhairavaḥ ||

13.1१३.१

विषं रसं कलैकांशं काचलिप्तशरावके । (१३।१)

viṣaṃ rasaṃ kalaikāṃśaṃ kācaliptaśarāvake |

13.2१३.२

रुद्ध्वा चुल्ल्यां मन्दवह्नौ पचेद्यामद्वयं ततः ॥ (१३।२)

ruddhvā cullyāṃ mandavahnau pacedyāmadvayaṃ tataḥ ||

14.1१४.१

स्वयं शीतं च गृह्णीयाद् उपरिष्टाच्छरावकात् । (१४।१)

svayaṃ śītaṃ ca gṛhṇīyād upariṣṭāccharāvakāt |

14.2१४.२

वायुवर्जं क्षिपेत्कूप्यां संनिपाते ऽहिदंष्टके ॥ (१४।२)

vāyuvarjaṃ kṣipetkūpyāṃ saṃnipāte 'hidaṃṣṭake ||

15.1१५.१

सूच्यग्रेण च दातव्यः क्षणाञ्जागर्ति मानवः । (१५।१)

sūcyagreṇa ca dātavyaḥ kṣaṇāñjāgarti mānavaḥ |

15.2१५.२

नो चेत् तालुप्रदेशे च क्षुरक्षुण्णे प्रचारयेत् ॥ (१५।२)

no cet tālupradeśe ca kṣurakṣuṇṇe pracārayet ||

16.1१६.१

रसगन्धकनेपाला वृद्धा दन्त्यम्बुमदिताः । (१६।१)

rasagandhakanepālā vṛddhā dantyambumaditāḥ |

16.2१६.२

द्वौ यामौ ज्वरनाशाय गुञ्जैका सितया सह ॥ (१६।२)

dvau yāmau jvaranāśāya guñjaikā sitayā saha ||

17.1१७.१

पुरं टङ्कद्रयां कृष्णधूर्तबीजाष्टबल्लकम् । (१७।१)

puraṃ ṭaṅkadrayāṃ kṛṣṇadhūrtabījāṣṭaballakam |

17.2१७.२

पालिकात्रितयं देयं चातुर्थिकज्वरापहम् ॥ (१७।२)

pālikātritayaṃ deyaṃ cāturthikajvarāpaham ||

18.1१८.१

ज्वरागमनवेलायां शीतवारिचतुर्घटैः । (१८।१)

jvarāgamanavelāyāṃ śītavāricaturghaṭaiḥ |

18.2१८.२

शिरो ऽभिषिञ्च्य दातव्यं पथ्ये क्षीरं सशर्करम् ॥ (१८।२)

śiro 'bhiṣiñcya dātavyaṃ pathye kṣīraṃ saśarkaram ||

19.1१९.१

निम्नबीजं शिलाजाजी धूमः कृष्णा समांशकम् । (१९।१)

nimnabījaṃ śilājājī dhūmaḥ kṛṣṇā samāṃśakam |

19.2१९.२

कारवेल्ल्या रसैर्भाव्यमेकविंशतिवारकान् ॥ (१९।२)

kāravellyā rasairbhāvyamekaviṃśativārakān ||

20.1२०.१

यत्पार्श्वतोऽञ्जयेन्नेत्रे ज्वरं तत्पार्श्वजं जयेत् । (२०।१)

yatpārśvato'ñjayennetre jvaraṃ tatpārśvajaṃ jayet |

20.2२०.२

अर्धनारीनटेशाह्वो रसः कौतुककारकः ॥ (२०।२)

ardhanārīnaṭeśāhvo rasaḥ kautukakārakaḥ ||

21.1२१.१

हिङ्गुलं मरिचं गन्धं पिप्पली टङ्कणं विषम् । (२१।१)

hiṅgulaṃ maricaṃ gandhaṃ pippalī ṭaṅkaṇaṃ viṣam |

21.2२१.२

कनकस्य तु बीजानि समांशं विजयारसैः ॥ (२१।२)

kanakasya tu bījāni samāṃśaṃ vijayārasaiḥ ||

22.1२२.१

मर्दयेद्याममात्रं तु चणमात्रा वटी कृता । (२२।१)

mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā |

22.2२२.२

ज्वरातिसारं ग्रहणीं नाशयेद्धेमसुन्दरः ॥ (२२।२)

jvarātisāraṃ grahaṇīṃ nāśayeddhemasundaraḥ ||

23.1२३.१

शुद्धसूतं पलं चार्कक्षीरैर्मर्द्य पुनः पुनः । (२३।१)

śuddhasūtaṃ palaṃ cārkakṣīrairmardya punaḥ punaḥ |

23.2२३.२

द्विपलं शुद्धगन्धस्य महाकम्बुपलाष्टकम् ॥ (२३।२)

dvipalaṃ śuddhagandhasya mahākambupalāṣṭakam ||

24.1२४.१

उभे वह्निरसैर्भाव्ये पेष्ये शोष्ये दिनत्रयम् । (२४।१)

ubhe vahnirasairbhāvye peṣye śoṣye dinatrayam |

24.2२४.२

मेलयेत्पूर्वसूतेन तदर्धं टङ्कणं क्षिपेत् ॥ (२४।२)

melayetpūrvasūtena tadardhaṃ ṭaṅkaṇaṃ kṣipet ||

25.1२५.१

अर्कक्षीरैः पुनः सर्वं यामैकं मर्दयेद्दृढम् । (२५।१)

arkakṣīraiḥ punaḥ sarvaṃ yāmaikaṃ mardayeddṛḍham |

25.2२५.२

तच्छुष्कं चूर्णलिप्तेऽथ भाण्डे रुद्ध्वा पुटे पचेत् ॥ (२५।२)

tacchuṣkaṃ cūrṇalipte'tha bhāṇḍe ruddhvā puṭe pacet ||

26.1२६.१

चतुर्गुञ्जामितं खादेन्मरिचाज्येन संयुतम् । (२६।१)

caturguñjāmitaṃ khādenmaricājyena saṃyutam |

26.2२६.२

देयं दध्योदनं पथ्यं विजया सगुडा निशि ॥ (२६।२)

deyaṃ dadhyodanaṃ pathyaṃ vijayā saguḍā niśi ||

27.1२७.१

ग्रहणीदोषनाशार्थं नास्त्यनेन समं भुवि । (२७।१)

grahaṇīdoṣanāśārthaṃ nāstyanena samaṃ bhuvi |

27.2२७.२

ग्रहजीर् नाशयेत्सर्वा अर्कलोकेश्वरो रसः ॥ (२७।२)

grahajīr nāśayetsarvā arkalokeśvaro rasaḥ ||

28.1२८.१

कटुत्रिकरसैर्भाव्यं तालमेकं चतुःशिला । (२८।१)

kaṭutrikarasairbhāvyaṃ tālamekaṃ catuḥśilā |

28.2२८.२

दिनं वासारसैः पिष्ट्वा वालुकायन्त्रपाचितम् ॥ (२८।२)

dinaṃ vāsārasaiḥ piṣṭvā vālukāyantrapācitam ||

29.1२९.१

द्वियामान्ते समुद्धृत्य तत्तुल्यं च कटुत्रयम् । (२९।१)

dviyāmānte samuddhṛtya tattulyaṃ ca kaṭutrayam |

29.2२९.२

निर्गुण्डीमूलचूर्णं च वासारससमन्विता ॥ (२९।२)

nirguṇḍīmūlacūrṇaṃ ca vāsārasasamanvitā ||

30.1३०.१

शिलातालेश्वरस्यास्य गुञ्जैका श्वासकासजित् । (३०।१)

śilātāleśvarasyāsya guñjaikā śvāsakāsajit |

30.2३०.२

सूतं हेमाभ्रजं भस्म शिलागन्धकतालकम् ॥ (३०।२)

sūtaṃ hemābhrajaṃ bhasma śilāgandhakatālakam ||

31.1३१.१

त्र्येकैकभूभवैकाख्यान् कृत्वैवं क्रमशो ऽशकान् । (३१।१)

tryekaikabhūbhavaikākhyān kṛtvaivaṃ kramaśo 'śakān |

31.2३१.२

वराटीः पूरयेत्तेन छागीक्षीरेण टङ्कणम् ॥ (३१।२)

varāṭīḥ pūrayettena chāgīkṣīreṇa ṭaṅkaṇam ||

32.1३२.१

पिष्ट्वा तेन मुखं रुद्ध्वा शरावे भूपुटे पचेत् । (३२।१)

piṣṭvā tena mukhaṃ ruddhvā śarāve bhūpuṭe pacet |

32.2३२.२

स्वाङ्गशीतं समुद्धृत्य कुर्यात्तं वस्त्रगालितम् ॥ (३२।२)

svāṅgaśītaṃ samuddhṛtya kuryāttaṃ vastragālitam ||

33.1३३.१

रसो राजमृगाङ्कोऽयं चतुर्गुञ्चः क्षयापहः । (३३।१)

raso rājamṛgāṅko'yaṃ caturguñcaḥ kṣayāpahaḥ |

33.2३३.२

सुवर्णं भस्मसूतं च वल्लार्धं मधुना लिहेत् ॥ (३३।२)

suvarṇaṃ bhasmasūtaṃ ca vallārdhaṃ madhunā lihet ||

34.1३४.१

पथ्यभुग्ब्रह्मचर्येण मृगाङ्को वा क्षयापहः । (३४।१)

pathyabhugbrahmacaryeṇa mṛgāṅko vā kṣayāpahaḥ |

34.2३४.२

शिलाजतु मधुव्योषतप्त्यलोहरजांसि यः ॥ (३४।२)

śilājatu madhuvyoṣataptyaloharajāṃsi yaḥ ||

35.1३५.१

क्षीरभुग्लेढि तस्याशु क्षयक्षयकरो रसः । (३५।१)

kṣīrabhugleḍhi tasyāśu kṣayakṣayakaro rasaḥ |

35.2३५.२

शुल्वश्यामास्नुहीदन्तीपथ्यानेपालकान् क्रमात् ॥ (३५।२)

śulvaśyāmāsnuhīdantīpathyānepālakān kramāt ||

36.1३६.१

भूद्यवेकैकाग्नियुग्मांश्च गृहीत्वोष्णाम्बुना पिबेत् । (३६।१)

bhūdyavekaikāgniyugmāṃśca gṛhītvoṣṇāmbunā pibet |

36.2३६.२

अष्टोदराणि हन्त्येष विशेषेण जलोदरम् ॥ (३६।२)

aṣṭodarāṇi hantyeṣa viśeṣeṇa jalodaram ||

37.1३७.१

आध्मानगुल्मशूलघ्न उदरध्वान्तभास्करः । (३७।१)

ādhmānagulmaśūlaghna udaradhvāntabhāskaraḥ |

37.2३७.२

दुग्धं शङ्खवराटं च तुल्यार्कं नवनीतयुक् ॥ (३७।२)

dugdhaṃ śaṅkhavarāṭaṃ ca tulyārkaṃ navanītayuk ||

38.1३८.१

टङ्कार्धं भक्षयेत्सर्वशूलघ्नः शङ्खभास्करः । (३८।१)

ṭaṅkārdhaṃ bhakṣayetsarvaśūlaghnaḥ śaṅkhabhāskaraḥ |

38.2३८.२

शुद्धं सूतं तथा गन्धं क्रमाद् एकद्विभागकम् ॥ (३८।२)

śuddhaṃ sūtaṃ tathā gandhaṃ kramād ekadvibhāgakam ||

39.1३९.१

तुल्यार्कं भावयेदार्द्ररसैश्चापि त्रिसप्तधा । (३९।१)

tulyārkaṃ bhāvayedārdrarasaiścāpi trisaptadhā |

39.2३९.२

गोलं कृत्वान्धमूषायां रुद्ध्वा गजपुटे पचेत् ॥ (३९।२)

golaṃ kṛtvāndhamūṣāyāṃ ruddhvā gajapuṭe pacet ||

40.1४०.१

घृतं शुण्ठ्या च गुञ्जैकं शीतोदं ससितं ह्यनु । (४०।१)

ghṛtaṃ śuṇṭhyā ca guñjaikaṃ śītodaṃ sasitaṃ hyanu |

40.2४०.२

त्रिदोषं नाशयेच्छीघ्रं क्रियां शीतां प्रयोजयेत् ॥ (४०।२)

tridoṣaṃ nāśayecchīghraṃ kriyāṃ śītāṃ prayojayet ||

41.1४१.१

स्थूलं कृशं कृशं स्थूलं करोत्यग्निप्रदीपनम् । (४१।१)

sthūlaṃ kṛśaṃ kṛśaṃ sthūlaṃ karotyagnipradīpanam |

41.2४१.२

त्रिदोषात्पतितं रक्तं व्रणनाड्यभिघातजम् ॥ (४१।२)

tridoṣātpatitaṃ raktaṃ vraṇanāḍyabhighātajam ||

42.1४२.१

यकृत्प्लीहोत्थितं यच्च यच्च कुष्ठकरं त्वसृक् । (४२।१)

yakṛtplīhotthitaṃ yacca yacca kuṣṭhakaraṃ tvasṛk |

42.2४२.२

शोधयेद्दुष्टरक्तं च रसो रक्तारिसंज्ञकः ॥ (४२।२)

śodhayedduṣṭaraktaṃ ca raso raktārisaṃjñakaḥ ||

43.1४३.१

सूततारार्ककं बोलं मर्द्यमर्कपयस्त्र्यहम् । (४३।१)

sūtatārārkakaṃ bolaṃ mardyamarkapayastryaham |

43.2४३.२

वल्लैकं मधुना लेह्यं स्थौल्यमाशु व्यपोहति ॥ (४३।२)

vallaikaṃ madhunā lehyaṃ sthaulyamāśu vyapohati ||

44.1४४.१

द्विपलं क्षौद्रशीतोदमनुपानं पिबेत्ततः । (४४।१)

dvipalaṃ kṣaudraśītodamanupānaṃ pibettataḥ |

44.2४४.२

वडवाग्निरसे पथ्यं दध्यादि श्लेष्मलं त्यजेत् ॥ (४४।२)

vaḍavāgnirase pathyaṃ dadhyādi śleṣmalaṃ tyajet ||

45.1४५.१

सूतार्कौ गन्धकं मर्द्यं दिनं निर्गुण्डिकाद्रवैः । (४५।१)

sūtārkau gandhakaṃ mardyaṃ dinaṃ nirguṇḍikādravaiḥ |

45.2४५.२

यामैकं वालुकायन्त्रे पक्त्वा देयो द्विगुञ्जकः ॥ (४५।२)

yāmaikaṃ vālukāyantre paktvā deyo dviguñjakaḥ ||

46.1४६.१

बीजपूरजटाक्वाथं ससितं पाययेदनु । (४६।१)

bījapūrajaṭākvāthaṃ sasitaṃ pāyayedanu |

46.2४६.२

रसस्त्रिविक्रमो मूत्रकृच्छ्रोधाश्मरीप्रणुत् ॥ (४६।२)

rasastrivikramo mūtrakṛcchrodhāśmarīpraṇut ||

47.1४७.१

निस्तुषीकृत्य वाकुच्या बीजानां पलविंशतिम् । (४७।१)

nistuṣīkṛtya vākucyā bījānāṃ palaviṃśatim |

47.2४७.२

गोजलस्थां त्रिसप्ताहं लोहं पथ्यापलद्वयम् ॥ (४७।२)

gojalasthāṃ trisaptāhaṃ lohaṃ pathyāpaladvayam ||

48.1४८.१

गृहीत्वा गोजलाच्छोष्ये सूर्यतापे ऽतिनिष्ठुरे । (४८।१)

gṛhītvā gojalācchoṣye sūryatāpe 'tiniṣṭhure |

48.2४८.२

काकोदुम्बरिकाद्रोणत्वचां क्वाथे त्रिसप्तकम् ॥ (४८।२)

kākodumbarikādroṇatvacāṃ kvāthe trisaptakam ||

49.1४९.१

भावयेत्तस्य चूर्णस्य गन्धसूतं समं कृतम् । (४९।१)

bhāvayettasya cūrṇasya gandhasūtaṃ samaṃ kṛtam |

49.2४९.२

अम्लेन कज्जलीं कृत्वा सर्वमेकत्र कारयेत् ॥ (४९।२)

amlena kajjalīṃ kṛtvā sarvamekatra kārayet ||

50.1५०.१

शिग्रुमूलरसेनापि नागवल्लीदलेन च । (५०।१)

śigrumūlarasenāpi nāgavallīdalena ca |

50.2५०.२

भावनां त्रिदिनं दत्त्वा कर्षार्धांशां गुटीं कुरु ॥ (५०।२)

bhāvanāṃ tridinaṃ dattvā karṣārdhāṃśāṃ guṭīṃ kuru ||

51.1५१.१

एकैकां भक्षयेत्प्रातः श्वेतकुष्ठोपशान्तये । (५१।१)

ekaikāṃ bhakṣayetprātaḥ śvetakuṣṭhopaśāntaye |

51.2५१.२

चित्रकाङ्घ्रित्वचश्चूर्णं रात्रौ गोदुग्धके वरम् ॥ (५१।२)

citrakāṅghritvacaścūrṇaṃ rātrau godugdhake varam ||

52.1५२.१

क्षिपेदधि विलोड्याथ ग्राहयेत्तक्रमुत्तमम् । (५२।१)

kṣipedadhi viloḍyātha grāhayettakramuttamam |

52.2५२.२

तत्तक्रकुडवं चैकं मध्येऽष्टवल्लगन्धकम् ॥ (५२।२)

tattakrakuḍavaṃ caikaṃ madhye'ṣṭavallagandhakam ||

53.1५३.१

प्रक्षिप्य गुटिकां पश्चात् प्रपिबेद्द्वित्रिसंख्यकाम् । (५३।१)

prakṣipya guṭikāṃ paścāt prapibeddvitrisaṃkhyakām |

53.2५३.२

नवनीतेन चाभ्यङ्गः कार्यः स्थेयमथातपे ॥ (५३।२)

navanītena cābhyaṅgaḥ kāryaḥ stheyamathātape ||

54.1५४.१

सर्वश्वित्रे प्रजायन्ते स्फोटकाश्चाग्निदग्धवत् । (५४।१)

sarvaśvitre prajāyante sphoṭakāścāgnidagdhavat |

54.2५४.२

प्रथमे सप्तके पाको जायेताथ द्वितीयके ॥ (५४।२)

prathame saptake pāko jāyetātha dvitīyake ||

55.1५५.१

रोहणं च तृतीये हि प्राप्नुवन्ति न संशयः । (५५।१)

rohaṇaṃ ca tṛtīye hi prāpnuvanti na saṃśayaḥ |

55.2५५.२

निम्बुकस्य रसोपेतं कुङ्कुमालेपनं हितम् ॥ (५५।२)

nimbukasya rasopetaṃ kuṅkumālepanaṃ hitam ||

56.1५६.१

सतक्रा गुटिका वापि रसस्यालेपने हिता । (५६।१)

satakrā guṭikā vāpi rasasyālepane hitā |

56.2५६.२

श्वित्राणां रोहणं रम्यं वर्णदं जायते भृशम् ॥ (५६।२)

śvitrāṇāṃ rohaṇaṃ ramyaṃ varṇadaṃ jāyate bhṛśam ||

57.1५७.१

त्रिवेलं तक्रभक्तं च पूर्वे देयं च सप्तके । (५७।१)

trivelaṃ takrabhaktaṃ ca pūrve deyaṃ ca saptake |

57.2५७.२

मकुष्ठाम् अपि रूक्षाश्च देया जाते द्विसप्तके ॥ (५७।२)

makuṣṭhām api rūkṣāśca deyā jāte dvisaptake ||

58.1५८.१

तृतीये सप्तके देया मकुष्ठास्त्रिफलाघृतम् । (५८।१)

tṛtīye saptake deyā makuṣṭhāstriphalāghṛtam |

58.2५८.२

घृतमल्पं प्रदातव्यं श्वित्रकुष्ठी वरो भवेत् ॥ (५८।२)

ghṛtamalpaṃ pradātavyaṃ śvitrakuṣṭhī varo bhavet ||

59.1५९.१

चम्पकाभं वरं देहं कान्तियुक्तं च नीरुजम् । (५९।१)

campakābhaṃ varaṃ dehaṃ kāntiyuktaṃ ca nīrujam |

59.2५९.२

प्राप्नुयाच्छ्रीयुतः सम्यङ्मनुजो भूमिमण्डले ॥ (५९।२)

prāpnuyācchrīyutaḥ samyaṅmanujo bhūmimaṇḍale ||

60.1६०.१

रसराजप्रभावेण सत्यं सत्यं च नान्यथा । (६०।१)

rasarājaprabhāveṇa satyaṃ satyaṃ ca nānyathā |

60.2६०.२

शुद्धं सूतं मृतं लोहं ताप्यगन्धकातालकम् । (६०।२)

śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyagandhakātālakam |

60.3६०.३

पथ्याग्निमन्थनिर्गुण्डीत्र्यूषणं टङ्कणं विषम् ॥ (६०।३)

pathyāgnimanthanirguṇḍītryūṣaṇaṃ ṭaṅkaṇaṃ viṣam ||

61.1६१.१

तुल्यांशं मर्दयेत्खल्वे दिनं निर्गुण्डिकाद्रवैः । (६१।१)

tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ |

61.2६१.२

मुण्डीद्रवैर्दिनैकं तु गुञ्जैकं वटकीकृतम् ॥ (६१।२)

muṇḍīdravairdinaikaṃ tu guñjaikaṃ vaṭakīkṛtam ||

62.1६२.१

भक्षयेद्वातरोगार्तो रसं स्वच्छन्दभैरवम् । (६२।१)

bhakṣayedvātarogārto rasaṃ svacchandabhairavam |

62.2६२.२

लघुरास्नाह्वयं क्वाथं सपुरं ह्यनुपानकम् ॥ (६२।२)

laghurāsnāhvayaṃ kvāthaṃ sapuraṃ hyanupānakam ||

63.1६३.१

शुद्धं सूतं वचाक्वाथैस्त्रिदिनं मर्दयेत्ततः । (६३।१)

śuddhaṃ sūtaṃ vacākvāthaistridinaṃ mardayettataḥ |

63.2६३.२

शङ्खपुष्पीरसैस्तद्वद्गन्धकं मर्दितं क्षिपेत् ॥ (६३।२)

śaṅkhapuṣpīrasaistadvadgandhakaṃ marditaṃ kṣipet ||

64.1६४.१

गोमूत्रमर्दितं गोलं मूषायां तु निरोधयेत् । (६४।१)

gomūtramarditaṃ golaṃ mūṣāyāṃ tu nirodhayet |

64.2६४.२

सप्तधालेप्य मृद्वस्त्रैः पुटितं स्वाङ्गशीतलम् ॥ (६४।२)

saptadhālepya mṛdvastraiḥ puṭitaṃ svāṅgaśītalam ||

65.1६५.१

चूर्णीकृतं चतुर्वल्लां समसर्षपचूर्णकम् । (६५।१)

cūrṇīkṛtaṃ caturvallāṃ samasarṣapacūrṇakam |

65.2६५.२

जीर्णधृतानुपानं च नस्ये स्नेहं तु सार्षपम् ॥ (६५।२)

jīrṇadhṛtānupānaṃ ca nasye snehaṃ tu sārṣapam ||

66.1६६.१

कारयेत्तेन चाभ्यङ्गं दिनानामेकविंशतिम् । (६६।१)

kārayettena cābhyaṅgaṃ dinānāmekaviṃśatim |

66.2६६.२

उन्मादापस्मृती हन्ति ह्युन्मादगजकेशरी ॥ (६६।२)

unmādāpasmṛtī hanti hyunmādagajakeśarī ||

67.1६७.१

सूतं गन्धम् अयस् ताम्रम् एकद्व्यर्धार्धकं पलम् । (६७।१)

sūtaṃ gandham ayas tāmram ekadvyardhārdhakaṃ palam |

67.2६७.२

द्रावयेल्लोहजे पात्रे क्षिपेदेरण्डपत्त्रके ॥ (६७।२)

drāvayellohaje pātre kṣipederaṇḍapattrake ||

68.1६८.१

चूर्णितं वस्त्रपूतं च लोहपात्रे पुनः पचेत् । (६८।१)

cūrṇitaṃ vastrapūtaṃ ca lohapātre punaḥ pacet |

68.2६८.२

जाम्बीरं बैजपूरं वा रसं पात्रमितं क्षिपेत् ॥ (६८।२)

jāmbīraṃ baijapūraṃ vā rasaṃ pātramitaṃ kṣipet ||

69.1६९.१

संचूर्ण्य पञ्चकोलोत्थैः कषायैश्चाम्लवेतसैः । (६९।१)

saṃcūrṇya pañcakolotthaiḥ kaṣāyaiścāmlavetasaiḥ |

69.2६९.२

भावना खलु दातव्याः पञ्चाशत्प्रमितास्ततः ॥ (६९।२)

bhāvanā khalu dātavyāḥ pañcāśatpramitāstataḥ ||

70.1७०.१

भृष्टटङ्कणचूर्णं तु दद्यात्सर्वसमानकम् । (७०।१)

bhṛṣṭaṭaṅkaṇacūrṇaṃ tu dadyātsarvasamānakam |

70.2७०.२

टङ्कणार्धं विडं दद्याद्विडतुल्यं मरीचकम् ॥ (७०।२)

ṭaṅkaṇārdhaṃ viḍaṃ dadyādviḍatulyaṃ marīcakam ||

71.1७१.१

सप्तधा भावयेत्यश्चाच्चणकक्षारवारिणा । (७१।१)

saptadhā bhāvayetyaścāccaṇakakṣāravāriṇā |

71.2७१.२

एव सिद्धरसाद्वल्लद्वितयं वा चतुष्टयम् ॥ (७१।२)

eva siddharasādvalladvitayaṃ vā catuṣṭayam ||

72.1७२.१

सैन्धवं माषमेकं तु जीरकं च द्विमाषकम् । (७२।१)

saindhavaṃ māṣamekaṃ tu jīrakaṃ ca dvimāṣakam |

72.2७२.२

तक्रेण योजितं चैतदनुपानं पिबेत्सुधीः ॥ (७२।२)

takreṇa yojitaṃ caitadanupānaṃ pibetsudhīḥ ||

73.1७३.१

भोजयेत्कण्ठपर्यन्तं गुरुमामिषभोजनम् । (७३।१)

bhojayetkaṇṭhaparyantaṃ gurumāmiṣabhojanam |

73.2७३.२

क्षिप्रं तज्जीर्यते भुक्तं पुनः काङ्क्षति भोजनम् ॥ (७३।२)

kṣipraṃ tajjīryate bhuktaṃ punaḥ kāṅkṣati bhojanam ||

74.1७४.१

घटश्रवेन्द्रभीमैश्च कुम्भयोनिचतुर्मुखैः । (७४।१)

ghaṭaśravendrabhīmaiśca kumbhayonicaturmukhaiḥ |

74.2७४.२

शनैश्चरेण रुद्रेण ब्रह्मणा सेवितोऽग्नये ॥ (७४।२)

śanaiścareṇa rudreṇa brahmaṇā sevito'gnaye ||

75.1७५.१

अस्य संसेवनादेते सर्वे जाता महाशनाः । (७५।१)

asya saṃsevanādete sarve jātā mahāśanāḥ |

75.2७५.२

अतः संसेव्यते भूपैर्महदग्निविवृद्धये ॥ (७५।२)

ataḥ saṃsevyate bhūpairmahadagnivivṛddhaye ||

76.1७६.१

कुर्याद्दीपनम् अद्भुतं पचनं दुष्टामयोच्छेदनं तुन्दस्थौल्यनिबर्हणं गरहरः शूलार्तिमूलापहः । (७६।१)

kuryāddīpanam adbhutaṃ pacanaṃ duṣṭāmayocchedanaṃ tundasthaulyanibarhaṇaṃ garaharaḥ śūlārtimūlāpahaḥ |

76.2७६.२

गुल्मप्लीहविनाशनो बहुरुजां विध्वंसनः स्रंसनो वातग्रन्थिमहोदरापहरणः क्रव्यादनामा रसः ॥ (७६।२)

gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ ||

77.1७७.१

सिहणक्षोणिपालाय भूरिभोज्यप्रियाय च । (७७।१)

sihaṇakṣoṇipālāya bhūribhojyapriyāya ca |

77.2७७.२

दत्तवान् भैरवानन्दो भूपो ग्रामाष्टकं ददौ ॥ (७७।२)

dattavān bhairavānando bhūpo grāmāṣṭakaṃ dadau ||

78.1७८.१

सूतं भुजंगममृतं लवणं हरिद्रा व्योषं धनंजयजटावनिभूतधात्री । (७८।१)

sūtaṃ bhujaṃgamamṛtaṃ lavaṇaṃ haridrā vyoṣaṃ dhanaṃjayajaṭāvanibhūtadhātrī |

78.2७८.२

क्वष्टादशद्वयनिधित्रयवेदसंख्याः शोभाञ्जनार्द्रककरीरकबीजपूरैः ॥ (७८।२)

kvaṣṭādaśadvayanidhitrayavedasaṃkhyāḥ śobhāñjanārdrakakarīrakabījapūraiḥ ||

79.1७९.१

निम्बूफणीश्वरलता सुपलाशतोयैर्भाव्यं विशोष्य खरले प्रपिधाय चूर्णम् । (७९।१)

nimbūphaṇīśvaralatā supalāśatoyairbhāvyaṃ viśoṣya kharale prapidhāya cūrṇam |

79.2७९.२

वस्त्रस्रुतं सकलवातगणान्निहन्ति वह्नेरपाटवमरोचकशूलवान्तीः ॥ (७९।२)

vastrasrutaṃ sakalavātagaṇānnihanti vahnerapāṭavamarocakaśūlavāntīḥ ||

80.1८०.१

सूतं गन्धं विषं शङ्खं कपर्दं टङ्कणोषणे । (८०।१)

sūtaṃ gandhaṃ viṣaṃ śaṅkhaṃ kapardaṃ ṭaṅkaṇoṣaṇe |

80.2८०.२

चन्द्रैकाग्निगजत्रिद्विवसुभागैर् मितं क्रमात् ॥ (८०।२)

candraikāgnigajatridvivasubhāgair mitaṃ kramāt ||

81.1८१.१

जम्बीरकेन संमर्द्यं भवेदग्निकुमारकः । (८१।१)

jambīrakena saṃmardyaṃ bhavedagnikumārakaḥ |

81.2८१.२

वाते मन्दानलेऽजीर्णे ज्वरश्लेष्मविषूचिके ॥ (८१।२)

vāte mandānale'jīrṇe jvaraśleṣmaviṣūcike ||

82.1८२.१

गुञ्जामात्रं प्रदातव्यो विण्मूत्रशिरसो ग्रहे । (८२।१)

guñjāmātraṃ pradātavyo viṇmūtraśiraso grahe |

82.2८२.२

कासे श्वासे क्षये शूले सर्वरोगे तु योजयेत् ॥ (८२।२)

kāse śvāse kṣaye śūle sarvaroge tu yojayet ||

83.1८३.१

नृसारं स्फटिका सौरं त्रयमेकत्र चूर्णयेत् । (८३।१)

nṛsāraṃ sphaṭikā sauraṃ trayamekatra cūrṇayet |

83.2८३.२

तत्क्षिपेन्मृन्मये कूपे शुभे हस्तमिते दृढे ॥ (८३।२)

tatkṣipenmṛnmaye kūpe śubhe hastamite dṛḍhe ||

84.1८४.१

सरन्ध्रोदरकाचोत्थे कूपे तत्संनियोजयेत् । (८४।१)

sarandhrodarakācotthe kūpe tatsaṃniyojayet |

84.2८४.२

सप्तधा वेष्टयेत्पश्चात्तत्संधिं वस्त्रमृत्स्नया ॥ (८४।२)

saptadhā veṣṭayetpaścāttatsaṃdhiṃ vastramṛtsnayā ||

85.1८५.१

खर्परे वालुकापूर्णे तिर्यगौषधकूपकम् । (८५।१)

kharpare vālukāpūrṇe tiryagauṣadhakūpakam |

85.2८५.२

अर्धं यन्त्रे निधायात्र श्रीगुरोः संप्रदायतः ॥ (८५।२)

ardhaṃ yantre nidhāyātra śrīguroḥ saṃpradāyataḥ ||

86.1८६.१

अधोमुखं द्वितीयं तु स्थाप्यं चुल्लेः पराङ्मुखे । (८६।१)

adhomukhaṃ dvitīyaṃ tu sthāpyaṃ culleḥ parāṅmukhe |

86.2८६.२

अधः प्रज्वालयेदग्निं हठाद्यावद्रसः स्रवेत् ॥ (८६।२)

adhaḥ prajvālayedagniṃ haṭhādyāvadrasaḥ sravet ||

87.1८७.१

धारयेत्काचजे पात्रे शङ्खद्रावरसं ततः । (८७।१)

dhārayetkācaje pātre śaṅkhadrāvarasaṃ tataḥ |

87.2८७.२

शाणैकं सेवयेत्पश्चाद्दन्तस्पर्शविवर्जितम् ॥ (८७।२)

śāṇaikaṃ sevayetpaścāddantasparśavivarjitam ||

88.1८८.१

गुल्मोदरयकृत्प्लीहविद्रधिग्रन्थिशूलनुत् । (८८।१)

gulmodarayakṛtplīhavidradhigranthiśūlanut |

88.2८८.२

बलपुष्टिप्रदो ह्येष भुक्तं जारयते क्षणात् ॥ (८८।२)

balapuṣṭiprado hyeṣa bhuktaṃ jārayate kṣaṇāt ||

89.1८९.१

विलोक्यतामहो लोका रसमाहात्म्यमद्भुतम् । (८९।१)

vilokyatāmaho lokā rasamāhātmyamadbhutam |

89.2८९.२

कपर्दकाम्बुलोहानि यस्मिन् क्षिप्ते गलन्ति हि ॥ (८९।२)

kapardakāmbulohāni yasmin kṣipte galanti hi ||

90.1९०.१

पारदं तत्तृतीयांशं गन्धं दत्त्वा तु मर्दयेत् । (९०।१)

pāradaṃ tattṛtīyāṃśaṃ gandhaṃ dattvā tu mardayet |

90.2९०.२

दशांशनवसारेण युतं चोन्मत्तवारिणा ॥ (९०।२)

daśāṃśanavasāreṇa yutaṃ conmattavāriṇā ||

91.1९१.१

खल्वे संमर्द्य तत्सर्वं काचकूप्यां निवेशयेत् । (९१।१)

khalve saṃmardya tatsarvaṃ kācakūpyāṃ niveśayet |

91.2९१.२

गुरूक्तसम्प्रदायेन वालुकायन्त्रमध्यगम् ॥ (९१।२)

gurūktasampradāyena vālukāyantramadhyagam ||

92.1९२.१

पचेत् षोडशयामांश्च मन्दमध्यहठाग्निना । (९२।१)

pacet ṣoḍaśayāmāṃśca mandamadhyahaṭhāgninā |

92.2९२.२

पक्वः सुशीतलो ग्राह्यो हरगौरीरसो भवेत् ॥ (९२।२)

pakvaḥ suśītalo grāhyo haragaurīraso bhavet ||

93.1९३.१

सूतं गन्धं समं कृत्वा सर्पाक्षीरसमर्दितम् । (९३।१)

sūtaṃ gandhaṃ samaṃ kṛtvā sarpākṣīrasamarditam |

93.2९३.२

पूर्ववत्पाचितं त्वन्ये हरगौरीरसं विदुः ॥ (९३।२)

pūrvavatpācitaṃ tvanye haragaurīrasaṃ viduḥ ||

94.1९४.१

पारदाद्द्विगुणं गन्धं दत्त्वा कार्पासिकाद्रवैः । (९४।१)

pāradāddviguṇaṃ gandhaṃ dattvā kārpāsikādravaiḥ |

94.2९४.२

पूर्ववत्पाचितो ह्येष कामदेवरसः स्मृतः ॥ (९४।२)

pūrvavatpācito hyeṣa kāmadevarasaḥ smṛtaḥ ||

95.1९५.१

समांशं क्षिप्यते स्वर्णं रूप्यं ताम्रं च मर्दयेत् । (९५।१)

samāṃśaṃ kṣipyate svarṇaṃ rūpyaṃ tāmraṃ ca mardayet |

95.2९५.२

मुसल्या चाखुपर्ण्या च मातुलुङ्गरसैस्त्र्यहम् ॥ (९५।२)

musalyā cākhuparṇyā ca mātuluṅgarasaistryaham ||

96.1९६.१

मोचचिञ्चात्मगुप्ताभिस्तदा मृत्युञ्जयो रसः । (९६।१)

mocaciñcātmaguptābhistadā mṛtyuñjayo rasaḥ |

96.2९६.२

त्रयाणां सेवनं पथ्यमुच्यते क्रमशो गुणाः । (९६।२)

trayāṇāṃ sevanaṃ pathyamucyate kramaśo guṇāḥ |

96.3९६.३

एकमासं सिताज्याभ्यां सदा सेव्यो नरोत्तमैः ॥ (९६।३)

ekamāsaṃ sitājyābhyāṃ sadā sevyo narottamaiḥ ||

97.1९७.१

एवं निषेव्य सूतेन्द्रं भुञ्जीत मधुरं सदा । (९७।१)

evaṃ niṣevya sūtendraṃ bhuñjīta madhuraṃ sadā |

97.2९७.२

शाल्यन्नं गोपयः खण्डं सितां जाङ्गलमामिषम् ॥ (९७।२)

śālyannaṃ gopayaḥ khaṇḍaṃ sitāṃ jāṅgalamāmiṣam ||

98.1९८.१

गोधूमजान् विकारांश्च माषान्नं कदलीफलम् । (९८।१)

godhūmajān vikārāṃśca māṣānnaṃ kadalīphalam |

98.2९८.२

पनसं चाथ खर्जूरं द्राक्षां च नालिकेरकम् ॥ (९८।२)

panasaṃ cātha kharjūraṃ drākṣāṃ ca nālikerakam ||

99.1९९.१

सेवेत सर्वं तत्प्राज्ञो वृष्यं यत्किंचिदुच्यते । (९९।१)

seveta sarvaṃ tatprājño vṛṣyaṃ yatkiṃciducyate |

99.2९९.२

वलीं संवत्सराद्धन्ति पलितं च द्विहायनात् ॥ (९९।२)

valīṃ saṃvatsarāddhanti palitaṃ ca dvihāyanāt ||

100.1१००.१

सेवया वज्रदेहोऽस्य द्रावद्वयेनिताशतम् । (१००।१)

sevayā vajradeho'sya drāvadvayenitāśatam |

100.2१००.२

न रेतःसंक्षयस्तस्य षण्ढोऽपि पुरुषायते ॥ (१००।२)

na retaḥsaṃkṣayastasya ṣaṇḍho'pi puruṣāyate ||

101.1१०१.१

ऊर्ध्वलिङ्गः सदा तिष्ठेल्ललनामक्षयं व्रजेत् । (१०१।१)

ūrdhvaliṅgaḥ sadā tiṣṭhellalanāmakṣayaṃ vrajet |

101.2१०१.२

तप्तहाटकवर्णाभः श्रीधीमेधाविभूषितः ॥ (१०१।२)

taptahāṭakavarṇābhaḥ śrīdhīmedhāvibhūṣitaḥ ||

102.1१०२.१

हयवेगो मयूराक्षो वाराहश्रुतिरेव च । (१०२।१)

hayavego mayūrākṣo vārāhaśrutireva ca |

102.2१०२.२

अपरः कामदेवोऽपि मानिनीमानमर्दनः ॥ (१०२।२)

aparaḥ kāmadevo'pi māninīmānamardanaḥ ||

103.1१०३.१

राजयक्ष्मादिरोगांश्च मेहान् जीर्णज्वरानपि । (१०३।१)

rājayakṣmādirogāṃśca mehān jīrṇajvarānapi |

103.2१०३.२

ग्रहणीं हन्त्यतीसारं गोतक्राद् बहुमूत्रताम् ॥ (१०३।२)

grahaṇīṃ hantyatīsāraṃ gotakrād bahumūtratām ||

104.1१०४.१

सर्वरोगहरो ह्येष निजौषधानुपानतः । (१०४।१)

sarvarogaharo hyeṣa nijauṣadhānupānataḥ |

104.2१०४.२

हरगौरीकामदेवरसो मृत्युञ्जयाभिधः ॥ (१०४।२)

haragaurīkāmadevaraso mṛtyuñjayābhidhaḥ ||

105.1१०५.१

किमत्र बहुनोक्तेन जरामृत्युहरास्त्रयः । (१०५।१)

kimatra bahunoktena jarāmṛtyuharāstrayaḥ |

105.2१०५.२

कज्जलीं सूतगन्धाभ्यां तुल्यमुन्मत्तबीजकम् । (१०५।२)

kajjalīṃ sūtagandhābhyāṃ tulyamunmattabījakam |

105.3१०५.३

तत्तैलमर्दितं सेव्य द्विवल्लां ससितापयः ॥ (१०५।३)

tattailamarditaṃ sevya dvivallāṃ sasitāpayaḥ ||

106.1१०६.१

मेहौघं नाशयेद्वीर्यं स्तम्भयेद्द्रावयेत् स्त्रियम् । (१०६।१)

mehaughaṃ nāśayedvīryaṃ stambhayeddrāvayet striyam |

106.2१०६.२

रसः कामप्रदो नॄणां मानिनीमानमर्दनः ॥ (१०६।२)

rasaḥ kāmaprado nṝṇāṃ māninīmānamardanaḥ ||

107.1१०७.१

हेमबीजविषवङ्गसूतकं हंसपादकरं च जारणम् । (१०७।१)

hemabījaviṣavaṅgasūtakaṃ haṃsapādakaraṃ ca jāraṇam |

107.2१०७.२

शुद्धसूतस्त्र्यहं स्वेद्यो मन्दाग्नौ दध्नि महिषे । (१०७।२)

śuddhasūtastryahaṃ svedyo mandāgnau dadhni mahiṣe |

107.3१०७.३

त्रुटिते त्रुटिते दद्याद्दधि तुर्येऽह्नि चोद्धरेत् ॥ (१०७।३)

truṭite truṭite dadyāddadhi turye'hni coddharet ||

108.1१०८.१

तस्मिन् स्वर्णं क्षिपेत्प्राज्ञश् चतुःषष्ठितमांभकम् । (१०८।१)

tasmin svarṇaṃ kṣipetprājñaś catuḥṣaṣṭhitamāṃbhakam |

108.2१०८.२

मर्दयेन्निम्बुनीरेण यावदैक्यं हि जायते ॥ (१०८।२)

mardayennimbunīreṇa yāvadaikyaṃ hi jāyate ||

109.1१०९.१

पुनः संस्वेद्य तं सूतं वटशुङ्गाहिवल्लिजैः । (१०९।१)

punaḥ saṃsvedya taṃ sūtaṃ vaṭaśuṅgāhivallijaiḥ |

109.2१०९.२

काकमाच्या च जीवन्त्या रसैः स्याद्यामयुग्मकात् ॥ (१०९।२)

kākamācyā ca jīvantyā rasaiḥ syādyāmayugmakāt ||

110.1११०.१

दिनं शीताम्बुकुम्भस्थं दिनैकं दध्नि महिषे । (११०।१)

dinaṃ śītāmbukumbhasthaṃ dinaikaṃ dadhni mahiṣe |

110.2११०.२

एवं सिद्धरसाद्वल्लं प्रत्यहं ब्रह्मचर्यधृक् ॥ (११०।२)

evaṃ siddharasādvallaṃ pratyahaṃ brahmacaryadhṛk ||

111.1१११.१

मासैकं सेवते भर्ता सितादुग्धौदनप्रियः । (१११।१)

māsaikaṃ sevate bhartā sitādugdhaudanapriyaḥ |

111.2१११.२

त्रिफलानिम्बकार्पासीरसैर्नारी क्रमात् पृथक् ॥ (१११।२)

triphalānimbakārpāsīrasairnārī kramāt pṛthak ||

112.1११२.१

दिनानि सप्तसंख्यानि पीत्वा ऋतुसमागमे । (११२।१)

dināni saptasaṃkhyāni pītvā ṛtusamāgame |

112.2११२.२

रसं वल्लं त्र्यहं चैकं कार्पास्यम्बुसितायुतम् ॥ (११२।२)

rasaṃ vallaṃ tryahaṃ caikaṃ kārpāsyambusitāyutam ||

113.1११३.१

टङ्कणं स्फटिका सूतं पक्वाम्लिकरसान्वितम् । (११३।१)

ṭaṅkaṇaṃ sphaṭikā sūtaṃ pakvāmlikarasānvitam |

113.2११३.२

त्रिदिनं मधुना योनेर्लेपं शुद्धिकरं परम् ॥ (११३।२)

tridinaṃ madhunā yonerlepaṃ śuddhikaraṃ param ||

114.1११४.१

महिष्या दधिमध्यस्थं दिवा सूतं त्रिमाषकम् । (११४।१)

mahiṣyā dadhimadhyasthaṃ divā sūtaṃ trimāṣakam |

114.2११४.२

स्त्रीसेवासमये रात्रौ भक्षयेद्दधिसंयुतम् ॥ (११४।२)

strīsevāsamaye rātrau bhakṣayeddadhisaṃyutam ||

115.1११५.१

संभोगान्ते तथा स्थेयं यामार्धं संपुटेन च । (११५।१)

saṃbhogānte tathā stheyaṃ yāmārdhaṃ saṃpuṭena ca |

115.2११५.२

सर्वलक्षणसम्पन्नं सूतं जनयते वरम् ॥ (११५।२)

sarvalakṣaṇasampannaṃ sūtaṃ janayate varam ||

116.1११६.१

तापादिके समुत्पन्ने देयं द्राक्षासितादिकम् । (११६।१)

tāpādike samutpanne deyaṃ drākṣāsitādikam |

116.2११६.२

कार्यः शीतोपचारश्च युवत्या भिषजा सदा ॥ (११६।२)

kāryaḥ śītopacāraśca yuvatyā bhiṣajā sadā ||

117.1११७.१

आयुर्वृद्धिं बलं कान्तिं नष्टवीर्यविवर्धनम् । (११७।१)

āyurvṛddhiṃ balaṃ kāntiṃ naṣṭavīryavivardhanam |

117.2११७.२

कुर्याद्रोगहरः पुत्रप्रदो रुद्रविनिर्मितः ॥ (११७।२)

kuryādrogaharaḥ putraprado rudravinirmitaḥ ||

118.1११८.१

रसं नागाञ्जनं चन्द्रम् एकैकद्व्यर्धभागकम् । (११८।१)

rasaṃ nāgāñjanaṃ candram ekaikadvyardhabhāgakam |

118.2११८.२

सूक्ष्मचूर्णीकृतं नेत्रस्याञ्जनाद् दिव्यदृष्टिकृत् ॥ (११८।२)

sūkṣmacūrṇīkṛtaṃ netrasyāñjanād divyadṛṣṭikṛt ||

119.1११९.१

सूतं गन्धं समं शुद्धं सप्तधा भावयेत् क्रमात् । (११९।१)

sūtaṃ gandhaṃ samaṃ śuddhaṃ saptadhā bhāvayet kramāt |

119.2११९.२

स्नुह्यर्कदुग्धैः श्रीखण्डद्वयपथ्योभयारसैः ॥ (११९।२)

snuhyarkadugdhaiḥ śrīkhaṇḍadvayapathyobhayārasaiḥ ||

120.1१२०.१

समं नेपालजं चूर्णं देयमेकत्र मर्दयेत् । (१२०।१)

samaṃ nepālajaṃ cūrṇaṃ deyamekatra mardayet |

120.2१२०.२

उष्णाम्बुना वल्लयुग्मं देयमष्टगुणे गुडे ॥ (१२०।२)

uṣṇāmbunā vallayugmaṃ deyamaṣṭaguṇe guḍe ||

121.1१२१.१

मलाः पूर्वं जलं पश्चात्ततश्चामः शनैः शनैः । (१२१।१)

malāḥ pūrvaṃ jalaṃ paścāttataścāmaḥ śanaiḥ śanaiḥ |

121.2१२१.२

उदराच्च विनान्त्राणि सर्वं निर्याति किल्बिषम् ॥ (१२१।२)

udarācca vināntrāṇi sarvaṃ niryāti kilbiṣam ||

122.1१२२.१

जाते विरेके संशुद्धे पथ्यं दध्योदनं हितम् । (१२२।१)

jāte vireke saṃśuddhe pathyaṃ dadhyodanaṃ hitam |

122.2१२२.२

जयेज्ज्वरादिकान् रोगान् रसः सारणसुन्दरः ॥ (१२२।२)

jayejjvarādikān rogān rasaḥ sāraṇasundaraḥ ||

123.1१२३.१

राढार्कौ मधुकं चैकसार्धद्विपञ्चभागकम् । (१२३।१)

rāḍhārkau madhukaṃ caikasārdhadvipañcabhāgakam |

123.2१२३.२

टङ्कैकोऽम्बुयुतो दत्तो रसोऽयं वामकः स्मृतः ॥ (१२३।२)

ṭaṅkaiko'mbuyuto datto raso'yaṃ vāmakaḥ smṛtaḥ ||

124.1१२४.१

रसं गन्धं समं व्योषं मर्द्यमुन्मत्तकैर् दिनम् । (१२४।१)

rasaṃ gandhaṃ samaṃ vyoṣaṃ mardyamunmattakair dinam |

124.2१२४.२

उन्मत्ताख्यो रसो नाम नस्यं स्यात्सन्निपातजित् ॥ (१२४।२)

unmattākhyo raso nāma nasyaṃ syātsannipātajit ||

125.1१२५.१

ताम्रपत्रं गन्धलिप्तं वह्नौ तप्तं तु ताडितम् । (१२५।१)

tāmrapatraṃ gandhaliptaṃ vahnau taptaṃ tu tāḍitam |

125.2१२५.२

तच्चूर्णं तक्रसंयुक्तं वल्लार्धं वामयेद्भृशम् ॥ (१२५।२)

taccūrṇaṃ takrasaṃyuktaṃ vallārdhaṃ vāmayedbhṛśam ||

126.1१२६.१

स्फटिका तुत्थनेपालं मरिचं निम्बबीजकम् । (१२६।१)

sphaṭikā tutthanepālaṃ maricaṃ nimbabījakam |

126.2१२६.२

पुत्रजीवकमज्जा च निम्बुकेनार्कभाजने ॥ (१२६।२)

putrajīvakamajjā ca nimbukenārkabhājane ||

127.1१२७.१

भावना सप्त दातव्या गुटी गुञ्जामिताञ्जनात् । (१२७।१)

bhāvanā sapta dātavyā guṭī guñjāmitāñjanāt |

127.2१२७.२

सन्निपातमपस्मारं विषं सर्पस्य नाशयेत् ॥ (१२७।२)

sannipātamapasmāraṃ viṣaṃ sarpasya nāśayet ||

128.1१२८.१

आकल्लकं विषं कृष्णं हेमद्रुफलभस्मकम् । (१२८।१)

ākallakaṃ viṣaṃ kṛṣṇaṃ hemadruphalabhasmakam |

128.2१२८.२

उद्धूलनं स्वेदहरमेकद्वित्र्यष्टभागकैः ॥ (१२८।२)

uddhūlanaṃ svedaharamekadvitryaṣṭabhāgakaiḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

RSK, 4

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit